ईशवास्योपनिषत्

उपोद्घातः
ॐ॥ पू॒र्णम॒दः पूर्णमि॒दं पू॒र्णात् पू॒र्णमु॑दच्यते। पू॒र्णस्य॑ पू॒र्णमा॒दाय॑ पू॒र्णमे॒वाव॑ शिष्यते॥ ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ०॥
उपनिषत्
ॐ॥ ई॒शावा॒स्य॑मि॒दꣳ सर्वं॒ यत्किञ्च॒ जग॑त्यां॒ जग॑त्। तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म्॥ १॥
कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तꣳ समाः॑। ए॒वं त्वयि॒ नान्यथे॒तो॑ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑॥ २॥
अ॒सु॒र्या॒ नाम॑ ते लो॒का अ॒न्धेन॒ तम॒साऽऽवृ॑ताः। ताꣳस्ते प्रेत्या॒भि ग॑च्छन्ति॒ ये के चा॑त्म॒हनो॒ जनाः॑॥ ३॥
अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो॒ नैन॑द् दे॒वा आ॑प्नुव॒न् पूर्व॒मर्ष॑त्। तद् धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त् तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति॥ ४॥
तदे॑जति॒ तन्नै॑जति॒ तद् दू॒रे तद्व॑न्ति॒के। तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः॥ ५॥
यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति। स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि जु॑गुप्सते॥ ६॥
यस्मि॒न् सर्वा॑णि भू॒तान्या॒त्मैवाभू॑द् विजान॒तः। तत्र॒ को मोहः॒ कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः॥ ७॥
स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रꣳ शु॒द्धमपा॑पविद्धम्। क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒म्भूर्या॑थातथ्य॒तोऽर्था॒न् व्य॑दधाच्छाश्व॒तीभ्यः॒ समा॑भ्यः॥ ८॥तत्त्वोद्योते
अ॒न्धं तमः॒ प्र वि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते। ततो॒ भूय॑इव॒ ते तमो॒ य उ॑ वि॒द्याया॑ꣳ र॒ताः॥ ९॥ अ॒न्यदे॒वाहुर्वि॒द्यया॒ऽन्यदा॑हु॒रवि॑द्याया। इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद् व्या॑चचक्षि॒रे॥ १०॥ वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ꣳ स॒ह। अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒ऽमृत॑मश्नुते॥ ११॥ अ॒न्धं तमः॒ प्रवि॑शन्ति॒ येऽस॑म्भूतिमु॒पास॑ते। ततो॒ भूय॑इव॒ ते तमो॒ य उ॒ सम्भू॑त्याꣳ र॒ताः॥ १२॥ अ॒न्यदे॒वाहुः स॑म्भ॒वाद॒न्यदा॑हु॒रस॑म्भवात्। इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद् व्या॑चचक्षि॒रे॥ १३॥ संभू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ꣳ स॒ह। वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू॑त्या॒ऽमृत॑मश्नुते॥ १४॥
हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म्। तत्त्वं पू॑ष॒न्नपा वृ॑णु स॒त्यध॑र्माय दृ॒ष्टये॑॥ १५॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्त्समू॑ह॒ तेजो॒ यत्ते॑ रू॒पं कल्या॑णतमं॒ तत्ते॑ पश्यामि। यो॒ऽसाव॒सौ पुरु॑षः॒ सो॒ऽहम॑स्मि॥ १६॥
वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ꣳ शरी॑रम्। ओ३म् क्रतो॒ स्मर॑ कृ॒तꣳ स्म॑र॒ क्रतो॒ स्मर॑ कृ॒तꣳ स्म॑र॥ १७॥
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उ॒क्तिं विधेम॥ १८॥
पू॒र्णम॒दः पूर्णमि॒दं पू॒र्णात् पू॒र्णमु॑दच्यते। पू॒र्णस्य॑ पू॒र्णमा॒दाय॑ पू॒र्णमे॒वाव॑ शिष्यते॥ ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ००॥
॥ इतीशावास्योपनिषत् सम्पूर्णा‌ ॥