माण्डूकोपनिषत्

उपोद्घातः
ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
प्रथमः खण्डः
ओमित्येदक्षरमिदं सर्वम्। तस्योपव्याख्यानं भूतं भवद् भविष्यदिति॥ १/१॥ सर्वमोङ्कार एव। यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव। सर्वं ह्येतद् ब्रह्म। अयमात्मा ब्रह्म॥ १/२॥
सोऽयमात्मा चतुष्पात्। जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः॥ १/३॥
स्वप्नस्थानोऽन्तप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः॥१/४॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम्। सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः॥१/५॥
एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्यामी। एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्॥ १/६॥
अत्रैते श्लोका भवन्ति- बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः। घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः॥ १/७॥
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः। आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः॥१/८॥
विश्वो हि स्थूलभुक् नित्यं तैजसः प्रविविक्तभुक्। आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत॥ १/९॥
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम्। आनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ॥१/१०॥
त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः। वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते॥ १/११॥
प्रभवः सर्वभावानां सतामिति विनिश्चयः। सर्वं जनयति प्राणश्चेतोऽंशून् पुरुषः पृथक्॥ १/१२॥
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः। स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता॥१/१३॥
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः। कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः॥ १/१४॥
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे। देवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहेति॥ १/१५॥
॥ इति प्रथमः खण्डः॥
द्वितीयः खण्डः
नान्तःप्रज्ञं नबहिःप्रज्ञं नोभयतःप्रज्ञं नप्रज्ञानघनं नप्रज्ञं नाप्रज्ञमदृष्टमव्यवहार्यमलक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते। स आत्मा स विज्ञेयः॥ २/१॥
अत्रैते श्लोकाः भवन्ति- निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः। अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः॥ २/२॥
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ। प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः॥ २/३॥
नात्मानं न परांश्चैव न सत्यं नापि चानृतम्। प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा॥ २/४॥
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः। बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते॥ २/५॥
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया। न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः॥ २/६॥
अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः। विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते॥ २/७॥
अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते। अजमनिद्रमस्वप्नमद्वैतं बुद्ध्यते तदा॥ २/८॥
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः॥ २/९॥
विकल्पो विनिवर्तेत कल्पितो यदि केनचित्। उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते॥ २/१०॥
॥ इति द्वितीयः खण्डः॥
तृतीयः खण्डः
सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा अकार उकारो मकार इति॥ ३/१॥ जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा। आप्तेरादिमत्त्वाद् वा। आप्नोति ह वै सर्वान् कामानादिश्च भवति। य एवं वेद॥ ३/२॥
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा। उत्कर्षादुभयत्वाद् वा।
उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति। य एवं वेद॥ ३/३॥
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा। मितेरपीतेर्वा। मिनोति ह वा इदं सर्वमपीतिश्च भवति। य एवं वेद॥ ३/४॥
अत्रैते श्लोकाः भवन्ति- विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम्। मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च॥ ३/५॥
तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम्। मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम्॥ ३/६॥
मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम्। मात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च॥ ३/७॥
त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितम्। स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः॥ ३/८॥
अकारो नयते विश्वमुकारश्चापि तैजसम्। मकारश्च पुनः प्राज्ञं नामात्रे विद्यतेऽगतिरिति॥ ३/९॥
॥ इति तृतीयः खण्डः॥
चतुर्थः खण्डः
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत ओङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद॥ ४/१॥
अत्रैते श्लोकाः भवन्ति- ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः। ओङ्कारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत्॥ ४/२॥
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम्। प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित्॥ ४/३॥
प्रणवो ह्यपरं ब्रह्म प्रणवस्य परं स्मृतः। अपूर्वोऽनन्तरोऽबाह्यो(ऽ)न-परः प्रणवोऽव्ययः॥ ४/४॥
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च। एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम्॥ ४/५॥
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम्। सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति॥ ४/६॥
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः। ओङ्कारो विदितो येन स मुनिर्नेतरो जनः। स मुनिर्नेतरो जन इति॥ ४/७॥
॥ इति चतुर्थः खण्डः॥
भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥
॥ इति माण्डूकोपनिषत् सम्पूर्णा॥