मायावाद्युदितप्रपञ्चमिथ्यात्वानुमानानुवादः
ॐ॥ ‘विमतं मिथ्या, दृश्यत्वात्, यदित्थं तत् तथा, यथा सम्प्रतिपन्नम्’
तत्र प्रतिज्ञादोषाः
– इत्युक्ते जगतो(ऽ)भावादाश्रयासिद्धः पक्षः।
अनिर्वचनीयासिद्धेरप्रसिद्धविशेषणः।
सदसद्वैलक्षण्ये मिथ्यात्वे सिद्धसाधनता।
हेतुदोषाः
दृश्यत्वाभावादसिद्धो हेतुः।
अनिर्वचनीयासिद्धेरेव।
अनिर्वचनीयासिद्धेरेव सपक्षाभावाद् विरुद्धः।
आत्मनोऽपि दृश्यत्वादनैकान्तिकः।
जगतोऽभावेऽनुमानस्याप्यभाव इति तर्कबाधितत्वेनानध्यवसितः।
प्रत्यक्षादिविरुद्धत्वात्,
“विश्वं सत्यम्”
ऋग्वेददसंहितायां २/२४/१२
इत्यादिवाक्यविरुद्धत्वाच्च कालात्ययापदिष्टः।
‘रजतं दृष्टम्’ इति भ्रममात्रत्वात् ‘विमतं सत्यं दृश्यत्वात्, आत्मवत्’ इत्यपि प्रयोज्यत्वात् प्रकरणसमः।
‘विमतं सत्यम्, प्रमाणदृष्टत्वात्, यदित्थं तत् तथा, यथाऽऽत्मा’ इति प्रयोगात् सप्रतिसाधनः।
दृष्टान्तदोषौ
शुक्तिरजतस्याप्यनिर्वचनीयत्वाभावात् साध्यविकलो दृष्टान्तः।
उक्तप्रकारेण दृश्यत्वाभावात् साधनविकलश्च।
उपाधिरूपदोषः
प्रमाणविरुद्धत्वमुपाधिः।
पक्षप्रतिज्ञादिदलक्षणम्
साध्यधर्मविशिष्टः पक्षः।
साध्यसमानधर्मविशिष्टः सपक्षः।
साध्यविपरीतधर्मविशिष्टो विपक्षः।
पक्षवचनं प्रतिज्ञा।
लिङ्गं हेतुः।
निदर्शनं दृष्टान्तः।
अन्तिममङ्गलाचरणम्
यो
‘दृश्यते’
काठकोपनिषदि १/३/१२
सदानन्दनित्यव्यक्तचिदात्मना।
निर्दोषाखिलकल्याणगुणं वन्दे रमापतिम् ॥ *॥
[-]
[-]
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं प्रपञ्चमिथ्यात्वानुमानखण्डनं सम्पूर्णम्॥
Leave a Reply