कृष्णामृतमहार्णवः

मङ्गलाचरणम्
अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श्रुतः। यो ददात्यमृतत्वं हि स मां रक्षतु केशवः॥
तापत्रयेण सन्तप्तं यदेतदखिलं जगत्। वक्ष्यामि शान्तये तस्य कृष्णामृतमहार्णवम्॥
विष्ण्वर्चनमहिमा
“ते नराः पशवो लोके किं तेषां जीवने फलम्। यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः॥”
“संसारेऽस्मिन् महाघोरे जन्मरोगभयाकुले। अयमेको महाभागः पूज्यते यदधोक्षजः॥
स नाम सुकृती लोके कुलं
तेनाभ्यलङ्कृतम्। आधारः सर्वभूतानां येन विष्णुः प्रसादितः॥
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम्। तद्विशिष्टफलं नॄणां सदैवाराधनं हरेः॥”
कलौ कलिमलध्वंसिसर्वपापहरं हरिम्। येऽर्चयन्ति नरा नित्यं तेऽपि वन्द्या यथा हरिः॥ मृग्यम्
नास्ति श्रेयस्तमं नॄणां विष्णोराराधनान्मुने। युगेऽस्मिंंस्तामसे लोके सततं पूज्यते नृभिः ॥ मृग्यम्
अर्चिते देवदेवेशे शङ्खचक्रगदाधरे। अर्चिताः सर्वदेवाः स्युर्यतः सर्वगतो हरिः॥ मृग्यम्
स्वर्चिते सर्वलोकेशे सुरासुरनमस्कृते। केशवे कंसकेशिघ्ने न याति नरकं नरः॥ मृग्यम्
सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः। मुक्तिभागी निरातङ्की विष्णुलोके चिरं वसेत्॥ मृग्यम्
शङ्करः [सकृदभ्यर्चितो येन देवदेवो जनार्दनः। यत् कृतं तत् कृतं तेन सम्प्राप्तं परमं पदम्॥] मृग्यम्
सकृदभ्यर्चितो येन हेलयाऽपि नमस्कृतः। स याति परमं स्थानं यत् सुरैरपि दुर्लभम्॥ मृग्यम्
नारदः समस्तलोकनाथस्य देवदेवस्य शार्ङ्गिणः। साक्षाद् भगवतो विष्णोः पूजनं जन्मनः फलम्॥ मृग्यम्
पुलस्त्यः भक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितः पुरुषोत्तमः। हरिर्ददाति हि फलं सर्वयज्ञैश्च दुर्लभम्॥ मृग्यम्
विधिना देवदेवेशः शङ्खचक्रधरो हरिः। फलं ददाति सुलभं सलिलेनापि पूजितः॥ मृग्यम्
“नरके पच्यमानस्तु यमेन परिभाषितः। किं त्वया नार्चितो देवः केशवः क्लेशनाशनः॥ नारसिंहपुराणे ८/२१-२३
[-] द्रव्याणामप्यभावे तु सलिलेनापि पूजितः। यो ददाति स्वकं स्थानं स त्वया किं न पूजितः॥
नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः। स्मरणान्मुक्तिदो नॄणां स त्वया किं न पूजितः॥”
ब्रह्मा गर्भस्थिता मृता वाऽपि मुषितास्ते सुदूषिताः। न प्राप्ता यैर्हरेर्दीक्षा सर्वदुःखविमोचनी॥ मृग्यम्
मार्कण्डेयः सकृदभ्यर्चितो येन देवदेवो जनार्दनः। यत् कृत्यं तत् कृतं तेन सम्प्राप्तं परमं पदम्॥ मृग्यम्
धर्मार्थकाममोक्षाणां नान्योपायस्तु विद्यते। सत्यं ब्रवीमि देवेश हृषीकेशार्चनादृते॥ मृग्यम्
“तस्य यज्ञवराहस्य विष्णोरमिततेजसः। प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः॥” वराहपुराणे २११/८६
“मरीचिः अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज। नहि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम्॥ विष्णुपुराणे १/११/४३-४७
अत्रिः परः पराणां पुरुषस्तुष्टो यस्य जनार्दनः। स चाप्नोत्यक्षयं स्थानमेतत् सत्यं मयोदितम्॥
अङ्गिराः यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः। तमाराधय गोविन्दं स्थानमग्र्यं यदिच्छसि॥
पुलस्त्यः परं ब्रह्म परं धाम योऽसौ ब्रह्म सनातनम्। तमाराध्य हरिं यान्ति मुक्तिमप्यतिदुर्लभाम्॥
पुलहः ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम्। प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत॥”
“प्राप्नोत्याराधिते विष्णौ मनसा यद्यदिच्छति। त्रैलोक्यान्तर्गतं स्थानं किमु लोकोत्तरोत्तरम्॥” विष्णुपुराणे १/११/४९
ये स्मरन्ति सदा विष्णुं शङ्खचक्रगदाधरम्। सर्वपापविनिर्मुक्तः परं ब्रह्म विशन्ति ते॥ मृग्यम्
ततोऽनिरुद्धं देवेशं प्रद्युम्नं च ततः परम्। ततः सङ्कर्षणं देवं वासुदेवं परात् परम्॥ मृग्यम्
वासुदेवात् परं नास्ति इति वेदान्तनिश्चयः। वासुदेवं प्रविष्टानां पुनरावर्तनं कुतः॥ मृग्यम्
आत्रेयः यो यानिच्छेन्नरः कामान् नारी वा वरवर्णिनी। तान् समाप्नोति विपुलान् समाराध्य जनार्दनम्॥ मृग्यम्
ब्रह्मा बाहुभ्यां सागरं तर्तुं क इच्छेत पुमान् भुवि। वासुदेवमनाराध्य को मोक्षं गन्तुमिच्छति॥ मृग्यम्
कौशिकः मृग्यम्
अनाराधिगोविन्दा ये नरा दुःखभागिनः। आराध्य वासुदेवं स्युर्नित्यानन्दैकभागिनः॥ मृग्यम्
हरिस्मरणमहिमा
शङ्करः कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते। प्रायश्चित्तं तु तस्योक्तं हरिसंस्मरणं परम्॥ विष्णुपुराणे २/६/३८ – अग्निपुराणे १७४/८
[[नाम्नोऽस्ति यावती शक्तिः पापनिर्हरणे हरेः। तावत् कर्तुं न शक्नोति पातकं पातकी जनः॥]] मृग्यम्
ब्रह्मा नह्यपुण्यवतां लोके मूढानां कुटिलात्मनाम्। भक्तिर्भवति गोविन्दे स्मरणं कीर्तनं तथा॥ मृग्यम्
तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः। जितेन्द्रियो विशुद्धात्मा यदैव स्मरते हरिम्॥ मृग्यम्
प्राप्ते कलियुगे घोरे धर्मज्ञानविवर्जिते। न कश्चित् स्मरते देवं कृष्णं कलिमलापहम्॥ मृग्यम्
न कलौ देवदेवस्य जन्मदुःखापहारिणः। करोति मर्त्यो मूढात्मा स्मरणं कीर्तनं हरेः॥ मृग्यम्
ये स्मरन्ति सदा विष्णुं विशुद्धेनान्तरात्मना। ते प्रयान्ति भयं त्यक्त्वा विष्णुलोकमनामयम्॥ मृग्यम्
गर्भजन्मजरारोगदुःखसंसारबन्धनैः। न बाध्यते नरो नित्यं वासुदेवमनुस्मरन्॥ मृग्यम्
यममार्गं महाघोरं नरकाणि यमं तथा। स्वप्नेऽपि नैव पश्येत यः स्मरेद् गरुडध्वजम्॥ मृग्यम्
हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः। पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः॥ स्कान्दे २/३/५/४५
गोविन्दस्मरणं पुंसां पापराशिमहाचलम्। असंशयं दहत्याशु तूलराशिमिवानलः॥ मृग्यम्
अगस्त्यः स्मरणादेव कृष्णस्य पापसङ्घातपञ्जरः। शतधा भेदमायाति गिरिर्वज्रहतो यथा॥ मृग्यम्
कृष्णे रताः कृष्णमनुस्मरन्ति तद्भावितास्तद्गतमानसाश्च। भिन्नेऽपि देहे प्रविशन्ति कृष्णं हविर्यथा मन्त्रहुतं हुताशे॥ मृग्यम्
सा हानिस्तन्महच्छिद्रं सा चान्धजडमूकता। यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते॥ मृग्यम्
नारायणो नाम नरो नराणां प्रसिद्धचोरः कथितः पृथिव्याम्। अनेकजन्मार्जितपापसञ्चयं हरत्यशेषं स्मृतमात्र एव॥ मृग्यम्
यस्य संस्मरणादेव वासुदेवस्य चक्रिणः। कोटिजन्मार्जितं पापं तत्क्षणादेव नश्यति॥ मृग्यम्
हरिध्यानमहिमा
किं तस्य बहुभिस्तीर्थैः किं तपोभिः किमध्वरैः। यो नित्यं ध्यायते देवं नारायणमनन्यधीः॥ मृग्यम्
“ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति। ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति॥” नारदपुराणे पूर्वार्धे ४०/५२
हे चित्त चिन्तयस्वेह वासुदेवमहर्निशम्। नूनं यश्चिन्तितः पुंसां हन्ति संसारबन्धनम्॥ मृग्यम्
आलोड्य सर्वशास्त्राणि विचार्य च पुनःपुनः। इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा॥ भारते १३/१२४
स्मृते सकलकल्याणभाजनं यत्र जायते। पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम्॥ विष्णुपुराणे ५/१७/१७ – ब्रह्मपुराणे १९१/१७
वेदेषु यज्ञेषु तपस्सु चैव दानेषु तीर्थेषु व्रतेषु यच्च। इष्टेषु पूर्तेषु च यत् प्रदिष्टं पुण्यं स्मृते तत् खलु वासुदेवे॥ मृग्यम्
[-] आराध्यैव नरो विष्णुं मनसा यद्यदिच्छति। फलं प्राप्नोति विपुलं भूरि स्वल्पमथापिवा॥ मृग्यम्
हरिकीर्तनमहिमा
यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम्। मैत्रेयाशेषपापानां धातूनामिव पावकः॥ विष्णुपुराणे ६/८/२०
कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम्। प्रयाति विलयं सद्यः सकृत् सङ्कीर्तितेऽच्युते॥ विष्णुपुराणे ६/८/२१
अनायासेन चायान्ति मुक्तिं केशवसंश्रिताः। तद्विघाताय जायन्ते शक्राद्याः परिपन्थिनः॥ मृग्यम्
चतुःसागरमासाद्य जम्बूद्वीपोत्तमे क्वचित्। न पुमान् केशवादन्यः सर्वपापचिकित्सकः॥ मृग्यम्
यदभ्यर्च्य हरिं भक्त्या कृते वर्षशतैरपि। फलं प्राप्नोति विपुलं कलौ सङ्कीर्त्य केशवम्॥ मृग्यम्
क्षीयते तु यदा धर्मः प्राप्ते घोरे कलौ युगे। तदा न कीर्तयेत् कश्चिन्मुक्तिदं देवमच्युतम्॥ मृग्यम्
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः। पुमान् विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव॥ विष्णुपुराणे ६/८/१९
नारायणेतिमन्त्रोऽस्ति वागस्ति वशवर्तिनी। तथाऽपि नरके घोरे पतन्तीत्येतदद्भुतम्॥ मृग्यम्
आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः। सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति॥ मृग्यम्
कौशिकः सकृदुच्चरितं यैस्तु कृष्णेति न विशन्ति ते। गर्भागारगृहं मातुर्यमलोकं च दुःसहम्॥ मृग्यम्
“क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम्। क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम्॥” विष्णुपुराणे २/६/४४
बुद्ध्या बुद्ध्वाऽभ्यसेदेतद्धरिरित्यक्षरद्वयम्। स्मरणात् कीर्तनाद् यस्य न पुनर्जायते भुवि॥ मृग्यम्
हे जिह्वे मम निस्नेहे हरिं किं नानुभाषसे। हरिं वदस्व कल्याणि संसारोदधिनौर्हरिः॥ मृग्यम्
असारे खलु संसारे सारात् सारतरो हरिः। पुण्यहीना न विन्दन्ति सारङ्गाश्च यथा जलम्॥ मृग्यम्
“कुरुक्षेत्रेण किं तस्य किं काश्या पुष्करेण किम्। जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्॥” नारदपुराणे उत्तरार्धे ६/४
“ब्रह्मा- असारे खलु संसारे सारमेकं निरूपितम्। समस्तलोकनाथस्य सारमाराधनं हरेः॥” मृग्यम्
“सा जिह्वा या हरिं स्तौति तच्चितं यत् तदर्पणम्। तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ॥” वामनपुराणे ९४/३४
“यस्तु विष्णुपरो नित्यं दृढभक्तिर्जितेन्द्रियः। स्वगृहेऽपि वसन् याति तद् विष्णोः परमं पदम्॥” मृग्यम्
“शङ्करः साधुसाधु महाभाग साधु दानवनाशन। यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति॥ विष्णुधर्मोत्तरपुराणे १/५७/२-३
निमिषं निमिषार्धं वा मुहूर्तमपि भार्गव। नादग्धाशेषपापानां भक्तिर्भवति केशवे॥”
“किं तेन मनसा कार्यं यन्न तिष्ठति केशवे। मनो मुक्तिफलावाप्तौ कारणं सुप्रयोजितम्॥ विष्णुधर्मोत्तरपुराणे १/५७/९-१०
रोगो नाम न सा जिह्वा यया न स्तूयते हरिः। गर्तौ नाम न तौ कर्णौ याभ्यां तत्कर्म न श्रुतम्॥”
“नूनं तत् कण्ठशालूकमथवाऽप्युपजिह्विका। रोगो नाम न सा जिह्वा या न वक्ति हरेर्गुणान्॥” वामनपुराणे ९४/३४
“भारभूतैः करैः कार्यं किं तस्य नृपशोर्द्विजाः। यैर्हि न क्रियते विष्णोर्गृहसम्मार्जनादिकम्॥ विष्णुधर्मोत्तरपुराणे १/५७/९-१०
चरणौ तौ तु सफलौ केशवालयगामिनौ। ते च नेत्रे महाभाग याभ्यां सन्दृश्यते हरिः॥
किं तस्य चरणैः कार्यं वृथासञ्चरणैर्द्विजाः। यैर्हि न व्रजते जन्तुः केशवालयदर्शने॥”
“वेदवेदान्तविदुषां मुनीनां भावितात्मनाम्। ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम्॥” विष्णुधर्मोत्तरपुराणे १/५७/२३
विचित्ररत्नपर्यङ्के महाभोगे च भोगिनः। रमन्ते नाकिरामाभिः केशवस्मरणात् फलम्॥ मृग्यम्
अश्वमेधसहस्राणां यः सहस्रं समाचरेत्। नासौ तत् फलमाप्नोति तद्भक्तैर्यदवाप्यते॥ विष्णुस्मृतौ ९२
विष्णुप्रदक्षिणनमस्करादि
रेरे मनुष्याः पुरुषोत्तमस्य करौ न कस्मान्मुकुलीकुरुध्वम्। क्रियाजुषां को भवतां प्रयासः फलं हि यत् तत् पदमच्युतस्य॥ मृग्यम्
विष्णोर्विमानं यः कुर्यात् सकृद् भक्त्या प्रदक्षिणम्। अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः॥ लौगाक्षिस्मृतौ
प्रदक्षिणं तु यः कुर्याद्धरिं भक्त्या समन्वितः। हंसयुक्तविमानेन विष्णोर्लोकं स गच्छति॥ मृग्यम्
“तीर्थकोटिसहस्राणि व्रतकोटिशतानि च। नारायणप्रणामस्य कलां नार्हन्ति षोडशीम्॥” वामनपुराणे ९४/६२
उरसा शिरसा दृष्ट्या मनसा वचसा तथा। पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरितः॥ स्कान्दे २/५/१०/३०
शाठ्येनापि नमस्कारं कुर्वतः शार्ङ्गपाणये। शतजन्मार्जितं पापं नश्यत्येव न संशयः॥ मृग्यम्
संसारार्णवमग्नानां नराणां पापकर्मणाम्। नान्योद्धर्ता जगन्नाथं मुक्त्वा नारायणं प्रभुम्॥ मृग्यम्
रेणुकुण्ठितगात्रस्य कणा यावन्ति भारत। तावद् वर्षसहस्राणि विष्णुलोके महीयते॥ मृग्यम्
विष्णुनैवेद्यमहिमा
पावनं विष्णुनैवेद्यं सुभोज्यमृषिभिः स्मृतम्। अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत्॥ मृग्यम्
कोट्यैन्दवसहस्रैस्तु मासोपोषणकोटिभिः। तत् फलं लभ्यते पुम्भिर्विष्णोर्नैवेद्यभक्षणात्॥ मृग्यम्
[[विष्णोर्नैवेद्यशेषेण यो भुनक्ति दिनेदिने। सिक्थेसिक्थे लभेत् पुण्यं चान्द्रायणशताधिकम्॥ मृग्यम्
नैवेद्यशेषं तुलसीविमिश्रितं विशेषतः पादजलेन सिक्तम्। योऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम्॥]] मृग्यम्
[त्वयोपभुक्तस्रग्गन्धवासोलङ्कारचर्चिताः। उच्छिष्टभोजिनो दासास्तव मायां जयेमहि॥ मृग्यम्
पुष्पमन्नं फलं तोयं शिवस्थं न स्पृशेत् क्वचित्। लङ्घयेन्नैव निर्माल्यं कूपे सर्वं विनिक्षिपेत्॥ मृग्यम्
मक्षिकापादतुल्यं तु धनधान्यादिकान्यपि। उपजीवति यो घोरं पितृभिः सह मज्जति॥] मृग्यम्
विष्णुपादोदकमहिमा
त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः। समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः॥ मृग्यम्
षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी। विष्णुपादोदकस्यैताः कलां नार्हन्ति षोडशीम्॥ मृग्यम्
गङ्गाप्रयागगयपुष्करनैमिषाणि संसेवितानि बहुशः कुरुजाङ्गलानि। कालेन तीर्थसलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः॥ मृग्यम्
यानि कानि च तीर्थानि ब्रह्माण्डान्तर्गतानि च। विष्णुपादोदकस्यैताः कलां नार्हन्ति षोडशीम्॥ मृग्यम्
स्नात्वा पादोदकं विष्णोः पिबन् शिरसि धारयेत्। सर्वपापविनिर्मुक्तो वैष्णवीं सिद्धिमाप्नुयात्॥ मृग्यम्
[द्वादशाक्षरमन्त्रेण ह्यभिषिच्य विधानतः। सालग्रामजलैः स्नाताः सर्वतीर्थेषु सर्वदा॥ मृग्यम्
यश्चक्रमभिषिच्याथ तत्तोयैः स्वशिरो नरः। अभिषिच्य यदि पिबेद् याति विष्णोः परं पदम्॥ मृग्यम्
गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदाश्च याः। निवसन्ति सतीर्थास्ताः सालग्रामशिलाजले॥ मृग्यम्
सालग्रामशिलाचक्रं वज्रकीटविनिर्मितम्। अधिष्ठानं हि तद् विष्णोः सर्वपापप्रणाशनम्॥ मृग्यम्
सालग्रामशिलारूपी यत्र तिष्ठति केशवः। तत्र देवाः सुरा यज्ञा भुवनानि चतुर्दश॥ मृग्यम्
यथा काष्ठगतो वह्निर्मथ्नस्थाने प्रकाशते। तथा सर्वगतो विष्णुः सालग्रामे प्रकाशते॥ मृग्यम्
न तथा रमते लक्ष्म्या न तथा स्वपुरे हरिः। सालग्रामशिलाचक्रे यथा स रमते सदा॥ मृग्यम्
शिला द्वादश वै वैश्य सालग्रामसमुद्भवाः। विधिवत् पूजिता येन तस्य पुण्यं वदामि ते॥ मृग्यम्
कोटिद्वादशकैर्लिङ्गैः पूजितैः स्वर्णपङ्कजैः। यत् स्यात् द्वादशकल्पेषु दिनेनैकेन लभ्यते॥ मृग्यम्
सालग्रामशिलायां तु यः श्राद्धं कुरुते नरः। पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि॥ मृग्यम्
सालग्रामशिलाग्रे यः श्राद्धं दद्याद् विचक्षणः। पितरस्तस्य तृप्यन्ति मुक्तिं यान्ति न संशयः॥ मृग्यम्
आशासन्ते सदा देवाः पितरः सर्व एव हि। यमिष्ट्वाऽऽदौ महाविष्णुं पश्चात् तेन पितॄन् सुरान्॥ यस्तर्पयेत् स वै पुत्रः सभार्यः स तु जीवतु॥ मृग्यम्
विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम्। पितृभ्यश्चापि तद् देयं तदानन्त्याय कल्पते॥ मृग्यम्
पितृशेषं तु यो दद्याद्धरये परमात्मने। रेतोपाः पितरस्तस्य भवन्ति क्लेशभागिनः॥ मृग्यम्
यः श्राद्धकाले हरिभुक्तशेषं ददाति भक्त्या पितृदेवतानाम्। तेनैव पिण्डैः सुतिलैर्विमिश्रैराकल्पकोट्यः पितरः सुतृप्ताः॥ मृग्यम्
सालग्रामशिलायास्तु मौल्यमुद्घाटयेन्नरः। विक्रेता चानुमन्ता च यः परीक्ष्यानुमोदयेत्॥ मृग्यम्
सर्वे ते नरकं यान्ति यावदाभूतसम्प्लवम्। अतश्च वर्जयेद् विद्वान् चक्रस्य क्रयविक्रयम्॥ मृग्यम्
किं बहूक्तेन कर्तव्यमर्चनं पापभीरुणा। चक्राभ्यां सह चक्रं च सदा पूज्यं मुमुक्षुभिः॥ मृग्यम्
ये पिबन्ति सदा नित्यं सालग्रामशिलाजलम्। पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम्॥] मृग्यम्
यथा पादोदकं पुण्यं निर्माल्यं चानुलेपनम्। नैवेद्यं धूपशेषश्च आरार्तिश्च तथा हरेः॥ मृग्यम्
तुलस्यास्तु रजोजुष्टं नैवेद्यस्य च भक्षणम्। निर्माल्यं शिरसा धार्यं महापातकनाशनम्॥ स्कान्दे २२/३९/२४
विष्णुचक्राङ्कितमहिमा
भक्त्या वा यदि वाऽभक्त्या चक्राङ्कितशिलां प्रति। दर्शनं स्पर्शनं वाऽपि सर्वपापप्रणाशनम्॥ मृग्यम्
[क्लिन्नं पादोदकेनैव यस्य नित्यं कलेवरम्। तीर्थकोटिसहस्रैस्तु तस्य तैः किं प्रयोजनम्॥] मृग्यम्
सालग्रामोद्भवो देवो देवो द्वारवतीभवः। उभयोः स्नानतोयेन ब्रह्महत्यां व्यपोहति॥ मृग्यम्
[[शालग्रामशिला यत्र तत्र सन्निहितो हरिः। तत्र स्नानं च दानं च वाराणस्याः शताधिकम्॥]] मृग्यम्
म्लेच्छदेशेऽशुचौ वापि चक्राङ्को यत्र तिष्ठति। योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे॥ ब्रह्मपुराणे
शालग्रामोद्भवो देवो शैलं चक्राङ्कमण्डलम्। यत्रापि नीयते तत्र वाराणस्याः शताधिकम्॥ मृग्यम्
शालग्रामोद्भवो देवो देवो द्वारवतीभवः। उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः॥ मृग्यम्
[रुद्रः शङ्खोदकं च नैवेद्यं निर्माल्यं पादयोर्जलम्। आरार्तिर्धूपशेषश्च ब्रह्महत्यापहारकाः॥ मृग्यम्
शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि। अङ्गलग्नं मनुष्याणां ब्रह्महत्यायुतं दहेत्॥ मृग्यम्
न ग्रहा नच कूष्माण्डाः पिशाचोरगराक्षसाः। दृष्ट्वा शङ्खोदकं मूर्ध्नि विद्रवन्ति दिशो दश॥ मृग्यम्
षड्भिर्मासोपवासैस्तु यत् फलं परिकीर्तितम्। विष्णोर्निवेदितान्नेन तत् फलं भुञ्जतां कलौ॥ मृग्यम्
विष्णोर्निर्माल्यशेषेण योऽङ्गानि परिमार्जयेत्। दुरितानि विनश्यन्ति व्याधयो यान्ति खण्डशः॥ मृग्यम्
अकालमृत्युमथनं सर्वव्याधिविनाशनम्। सर्वदुरितोपशमनं विष्णुपादोदकं शुभम्॥ मृग्यम्
कौतुकं श्रुणु मे देवि विष्णोरारार्तिवह्निना। तापितं नाशमायाति ब्रह्महत्यादिपातकम्॥ मृग्यम्
विष्णोरङ्गारशेषेण योऽङ्गानि परिमार्जयेत्। दुरितानि विनश्यन्ति व्याधयो यान्ति खण्डशः॥] मृग्यम्
पुनश्च विष्ण्वर्चनादिमहिमा
हरिणा मुक्तिदानीह मुक्तिस्थानानि सर्वशः। स यस्य सर्वभावेषु तस्य तैः किं प्रयोजनम्॥ मृग्यम्
हरिर्याति हरिर्याति दस्युव्याजेन यो वदेत्। सोऽपि सद्गतिमाप्नोति गतिं सुकृतिनो यथा॥ मृग्यम्
वासुदेवं परित्यज्य योऽन्यं देवमुपासते। त्यक्त्वाऽमृतं स मूढात्मा भुङ्क्ते हालाहलं विषम्॥ मृग्यम्
त्यक्त्वाऽमृतं यथा कश्चिदन्यपानं पिबेन्नरः। तथा हरिं परित्यज्य योऽन्यं दैवमुपासते॥ मृग्यम्
स्वधर्मं तु परित्यज्य परधर्मं चरेद् यथा। तथा हरिं परित्यज्य योऽन्यं दैवमुपासते॥ मृग्यम्
यथा गङ्गोदकं त्यक्त्वा पिबेत् कूपोदकं नरः। तथा हरिं परित्यज्य योऽन्यं दैवमुपासते॥ मृग्यम्
गां च त्यक्त्वा विमूढात्मा गार्दभीं वन्दते यथा। तथा हरिं परित्यज्य योऽन्यं दैवमुपासते॥ मृग्यम्
स्वमातरं परित्यज्य श्वपाकीं वन्दते यथा। तथा हरिं परित्यज्य योऽन्यं दैवमुपासते॥ मृग्यम्
वासुदेवं परित्यज्य योऽन्यं दैवमुपासते। तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः॥ मृग्यम्
यावत् स्वस्थमिदं पिण्डं निरुजं करणान्वितम्। तावत् कुरुष्वात्महितं पश्चात्तापेन तप्यसे॥ मृग्यम्
यावत् स्वास्थ्यं शरीरेषु करणेषु च पाटवम्। तावदर्चय गोविन्दमायुष्यं सार्थकं कुरु॥ मृग्यम्
स्मर्यतां तु हृषीकेशो हृषीकेषु दृढेषु च। अदृढेषु हृषीकेषु हृषीकेशं स्मरन्ति के॥ मृग्यम्
यावच्चिन्तयते जन्तुर्विषयान् विषसन्निभान्। तावच्चेत् स्मरते विष्णुं को न मुच्येत बन्धनात्॥ मृग्यम्
यावत् प्रलपते जन्तुर्लोकवार्तादिभिः सदा। तावच्चेद् वदते विष्णुं को न मुच्येत बन्धनात्॥ मृग्यम्
एकादश्यादिमहिमा
श्रीसूतः ज्ञात्वा विप्रैस्तिथिं सम्यग् दैवज्ञैः समुदीरितम्। कर्तव्य उपवासस्तु अन्यथा नरकं व्रजेत्॥ नारदपुराणे २/२९/२
क्षये वाऽप्यथवा वृद्धौ सम्प्राप्ते वा दिनक्षये। उपोष्या द्वादशी पुण्या पूर्वविद्धां परित्यजेत्॥ नारदपुराणे २/२/२८
पूर्वविद्धां प्रकुर्वाणो नरो धर्मान् निकृन्तति। सन्ततेस्तु विनाशाय सम्पदो हरणाय च॥ नारदपुराणे २/२/३७
कलावेधे तु विप्रेन्द्र दशम्यैकादशीं त्यजेत्। सुराया बिन्दुना स्पृष्टं गङ्गाम्भइव सन्त्यजेत्॥ नारदपुराणे २/२/३९
श्वदृतौ पञ्चगव्यं च दशम्या दूषितां त्यजेत्। एकादशीं द्विजश्रेष्ठ पक्षयोरुभयोरपि॥ नारदपुराणे २/२/४०
तस्माद् विप्रा न विद्धा हि कर्तव्यैकादशी क्वचित्। विद्धा हन्ति पुरापुण्यं श्राद्धं च वृषलीपतिः॥ नारदपुराणे २/२/४५
जप्तं दत्तं हुतं स्नातं तथा पूजा कृता हरेः। तत् सर्वं विलयं याति तमः सूर्योदये यथा॥ मृग्यम्
एकादश्यां यदा ब्रह्मन् दिनक्षयतिथिर्भवेत्। उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम्॥ मृग्यम्
प्रतिपत्प्रभृतयः सर्वा उदयादुदयाद् रवेः। सम्पूर्णा इति विज्ञेया हरिवासरवर्जिताः॥ मृग्यम्
अरुणोदयकाले तु दशमी यदि दृश्यते। पापमूलं तदा ज्ञेयमेकादश्युपवासनम्॥ पाद्मे ४/१५/३२
अरुणोदयवेलायां दशमी यदि दृश्यते। न तत्रैकादशी कार्या धर्मकामार्थनाशिनी॥ मृग्यम्
चतस्रो घटिकाः प्रातररुणोदय उच्यते। यतीनां स्नानकालोऽयं गङ्गाम्भःसदृशः स्मृतः॥ मृग्यम्
उदयात् प्राग् यदा विप्रा मुहूर्तद्वयसंयुता। सम्पूर्णैकादशी नाम तत्रैवोपवसेद् गृही॥ मृग्यम्
उदयात् प्राग् त्रिघटिकाव्यापिन्येकादशी यदा। सन्दिग्धैकादशी नाम वर्ज्या धर्मार्थनाशनी॥ मृग्यम्
पुत्रपौत्रप्रवृद्ध्यर्थं द्वादश्यामुपवासयेत्। तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्॥ मृग्यम्
उदयात् प्राग् द्विघटिकाव्यापिन्येकादशी यदा। सङ्कीर्णैकादशी नाम वर्ज्या धर्मार्थकाङ्क्षिभिः॥ मृग्यम्
पुत्रराज्यप्रवृद्ध्यर्थं द्वादश्यामुपवासनम्। तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्॥ मृग्यम्
दशमीशेषसंयुक्ता गान्धार्या समुपोषिता। तस्याः पुत्रशतं नष्टं तस्मात् तां परिवर्जयेत्॥ मृग्यम्
अपीषद्दशमीविद्धा सदा तां परिवर्जयेत्। सुराबिन्दुसमायुक्तां प्रवदन्ति मनीषिणः॥ नारदपुराणे २/२/२९
बह्वागमविरोधेषु ब्राह्मणेषु विवादिषु। उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम्॥ नारदपुराणे २/२/३०
एकादश्यां तु विद्धायां सम्प्राप्ते श्रवणे तथा। उपोष्या द्वादशी पुण्या पक्षयोरुभयोरपि॥ नारदपुराणे २/२/३१
उपरागसहस्राणि व्यतीपातायुतानि च। अमालक्षं तु द्वादश्याः कलां नार्हन्ति षोडशीम्॥ मृग्यम्
शुद्धाऽपि द्वादशी ग्राह्या परतो द्वादशी यदि। विषं तु दशमी ज्ञेयाऽमृतं चैकादशी तिथिः। विषप्रधाना वर्ज्या साऽमृता ग्राह्या प्रयत्नतः॥ मृग्यम्
द्वादश्यां भोजनं चैव विद्धायां हर्युपोषणम्। यः कुर्यान्मन्दबुद्धित्वान्निरयं सोऽधिगच्छति॥ मृग्यम्
यानि कानि च वाक्यानि विद्धोपोषपराणि च। धनदार्चापराणि स्युर्वैष्णवी न दशायुता॥ मृग्यम्
अथवा मोहनार्थाय मोहिन्या भगवान् हरिः। अर्थितः कारयामास व्यासरूपी जनार्दनः॥ मृग्यम्
धनदार्चाविवृद्ध्यर्थं महावित्तलयस्य च। असुराणां मोहनार्थं पाषण्डानां विवृद्धये। आत्मस्वरूपाविज्ञप्त्यै स्वलोकाप्राप्तये तथा॥ मृग्यम्
एवं विद्धां परित्यज्य द्वादश्यामुपवासयेत्। कोटिजन्मार्जितं पापमेकयैव विनश्यति॥ मृग्यम्
ततः कोटिगुणं चापि निषिद्धस्येतरैर्जनैः। यदनादिकृतं पापं यदूर्ध्वं यत् करिष्यति॥ मृग्यम्
तत् सर्वं विलयं याति परेषामुपवासनात्। नच तस्मात् प्रियतमः केशवस्य ममापि च॥ मृग्यम्
एकादश्यां ह्यवेधे तु द्वादशीं न परित्यजेत्। पारणे मरणे चैव तिथिस्तात्कालिकी स्मृता॥ नारदपुराणे २/२/१५
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा। ब्राह्मणः क्षत्रियो वैश्यः शूद्रो भर्तृमती तथा॥ मृग्यम्
अभर्तृका तथाऽन्ये च सूतवैदेहिकादयः। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥ मृग्यम्
एकादश्यां तु यो भुङ्क्ते मोहेनावृतचेतसा। शुक्लायामथ कृष्णायां निरयं याति स ध्रुवम्॥ मृग्यम्
विवेचयति यो मोहाच्छुक्ला कृष्णेति पापकृत्। एकादशीं स वै याति निरयं नात्र संशयः॥ मृग्यम्
यथा गौर्नैव हन्तव्या शुक्ला कृष्णेति भामिनि। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥ मृग्यम्
यानि कानि च वाक्यानि कृष्णैकादशिवर्जने। भरण्यादिनिषेधे च तानि काम्यफलार्थिनाम्॥ मृग्यम्
कामिनोऽपि हि सिद्ध्यर्थं कुर्युरेवोपवासनम्। प्रीणनार्थं हरेर्नित्यं नतु काम्यव्यपेक्षया॥ मृग्यम्
तस्माच्छुक्लामथो कृष्णां भरण्यादियुतामपि। प्रत्यवायनिषेधार्थामुपवासीत नित्यशः। प्रीणनार्थं हरेश्चापि विष्णुलोकस्य चाप्तये॥ मृग्यम्
कला वाऽर्धकला वाऽपि परतो द्वादशी यदि। द्वादश द्वादशीर्हन्ति पूर्वेद्युः पारणे कृते॥ मृग्यम्
अतिरिक्ता द्वादशी चेद् यस्तां नोपोषयेद् यदि। द्वादश द्वादशीर्हन्ति द्वादशी चातिलङ्घिता॥ मृग्यम्
द्वादश्यामतिरिक्तायां यो भुङ्क्ते पूर्ववासरे। द्वादश द्वादशीर्हन्ति द्वादशीं न परित्यजेत्॥ मृग्यम्
द्वादशीं श्रवणोपेतां यो नोपोष्यात् सुमन्दधीः। पञ्चसंवत्सरकृतं पुण्यं तस्य विनश्यति॥ मृग्यम्
एकादशीमुपोष्याथ द्वादशीमप्युपोषयेत्। न तत्र विधिलोपः स्यादुभयोर्देवता हरिः॥ मृग्यम्
अल्पायामपि विप्रेन्द्र पारणं तु कथं भवेत्। पारयित्वोदकेनापि भुञ्जानो नैव दुष्यति॥ मृग्यम्
यदाऽल्पां द्वादशीं दृष्ट्वा निशीथादूर्ध्वमेव तु। आमध्याह्नाः क्रियाः सर्वाः कर्तव्याः शम्भुशासनात्॥ मृग्यम्
[यदल्पा द्वादशी दृष्टा निशीथादूर्ध्वमेव तु। आमध्याह्नाः क्रियाः सर्वाः कर्तव्याः शम्भुशासनात्॥ मृग्यम्
व्यासः। उषसि द्वे तु कर्तव्ये प्रातर्माध्याह्निकक्रिये। भुजेर्यदाऽपकर्षः स्यात् तदन्तर्न्यायतो भवेत्॥ मृग्यम्
कर्तुं साध्यं यदा नालं द्वादश्यद्भिस्तु पारयेत्। क्रतावल्पाशिवत् पश्चात् भुञ्जीतेत्यपरे जगुः॥] मृग्यम्
अशितानशिता यस्मादापो विद्वद्भिरीरिताः। अम्भसा केवलेनैव करिष्ये व्रतपारणम्॥ तद् विशिष्टं मुनिप्रोक्तमशितानशितं च यत्॥ मृग्यम्
न काशी न गया गङ्गा न रेवा नच पुष्करम् । नचापि कौरवं क्षेत्रं तुल्यं भूप हरेर्दिनात्॥ मृग्यम्
अश्वमेधसहस्राणि वाजपेयशतानि च। एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्॥ नारदपुराणे १/१/१३
एकादशीसमुत्थेन वह्निना पातकेन्धनम्। भस्मीभवति राजेन्द्र अपि जन्मशतोद्भवम्॥ नारदपुराणे १/१/१०
नेदृशं पावनं किञ्चिन्नराणां भुवि विद्यते। यादृशं पद्मनाभस्य दिनं पातकहानिदम्॥ नारदपुराणे २/१/११
तावत् पापानि देहेऽस्मिन् तिष्ठन्ति मनुजाधिप। यावन्नोपोषयेज्जन्तुः पद्मनाभदिनं शुभम्॥ नारदपुराणे २/१/१२
एकादशेन्द्रियैः पापं यत् कृतं भवति प्रभो। एकादश्युपवासेन तत् सर्वं विलयं व्रजेत्॥ नारदपुराणे २/१/१४
एकादशीसमं किञ्चित् पवित्रं नहि विद्यते। व्याजेनापि कृता राजन्न दर्शयति भास्करिम्॥ नारदपुराणे २/१/१५
श्रीव्यासः [[अन्नं निवेदयेन्मह्यं प्राप्ते मद्वासरे शुभे। तस्यापि नरकप्राप्तिः किम्पुनर्भोजने कृते॥]] मृग्यम्
स ब्रह्महा स गोघ्नश्च स स्तेनो गुरुतल्पगः। एकादश्यां तु भुञ्जानः पक्षयोरुभयोरपि॥ मृग्यम्
वरं स्वमातृगमनं वरं गोमांसभक्षणम्। वरं हत्या सुरापानमेकादश्यन्नभक्षणात्॥ मृग्यम्
एकादशीदिने पुण्ये भुञ्जते ये नराधमाः। अवलोक्य मुखं तेषामादित्यमवलोकयेत्॥ मृग्यम्
पृथिव्यां यानि पापानि ब्रह्महत्यादिकानि च। अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे॥ नारदपुराणे २/२२/८ – स्कान्दे २/४/३३/३३
रुक्माङ्गदः अष्टवर्षाधिको यस्तु ह्यशीतिर्नहि पूर्यते। यो भुङ्क्ते मानवः पापो विष्णोरहनि चागते॥ नारदपुराणे २/३/८
पिता वा यदि वा पुत्रो भार्या वाऽपि सुहृज्जनः। पद्मनाभदिने भुङ्क्ते निग्राह्यो दस्युवद् भवेत्॥ नारदपुराणे २/३/१८
[[धर्मविभूषणः। प्रातर्हरिदिने लोकास्तिष्ठध्वं चैकभोजनाः। अक्षारलवणाः सर्वे हविष्यान्ननिषेविणः॥ मृग्यम्
अवनीतपशयनाः प्रियासङ्गविवर्जिताः। स्मरध्वं देवदेवेशं पुराणपुरुषोत्तमम्॥ मृग्यम्
सकृद्भोजनसंयुक्ता ह्युपवासे भविष्यथ। अकृतश्राद्धनिचया जलपिण्डोदकक्रियाः॥]] मृग्यम्
ब्रह्मा उपोष्य द्वादशीं पुण्यां सर्वपापक्षयप्रदाम्। न पश्यन्ति यमं वाऽपि नरकाणि न यातनाम्॥ मृग्यम्
शङ्करः रटन्तीह पुराणानि भूयोभूयो वरानने। न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे॥ नारदपुराणे २/३/३०
द्वादशी न प्रमोक्तव्या यावदायुः प्रवर्तते। अर्चनीयो हृषीकेशो विशुद्धेनान्तरात्मना॥ मृग्यम्
विष्णुभक्तिमहिमा
भक्त्या ग्राह्यो हृषीकेशो न धनैर्धरणीसुराः। भक्त्या सम्पूजितो विष्णुः फलं धत्ते समीहितम्॥ नारदपुराणे २/३/३
जलेनापि जगन्नाथः पूजितः क्लेशनाशनः। परितोषं प्रयात्याशु तृषार्तस्तु यथा जलैः॥ नारदपुराणे २/३/४
विष्णुप्रार्थना
आसीनस्य शयानस्य तिष्ठतो व्रजतोऽपिवा। रमस्व पुण्डरीकाक्ष नृसिंह हृदये मम॥ मृग्यम्
करावलम्बनं देहि श्रीकृष्ण कमलेक्षण। भवपङ्कार्णवे घोरे मज्जतो मम सर्वदा॥ मृग्यम्
सर्वगश्चैव सर्वात्मा सर्वावस्थासु चाच्युत। रमस्व पुण्डरीकाक्ष नृसिंह हृदये मम॥ मृग्यम्
[[एकादश्यां न भुञ्जीत न सुरां वा पिबेत् क्वचित्। ब्राह्मणो नैव हन्तव्य इत्येषा वैदिकी स्मृतिः॥]] मृग्यम्
त्राहित्राहि जगन्नाथ वासुदेवाच्युताव्यय। मां समुद्धर गोविन्द दुःखसंसारसागरात्॥ मृग्यम्
एतत् पुण्यमिदं गुह्यं पवित्रं पापनाशनम्। आयुष्यं च यशस्यं च धन्यं दुःस्वप्ननाशनम्॥ मृग्यम्
विष्णुस्मरणफलम्
कलौ पापं कियन्मात्रं हत्यास्तेयादिसम्भवम्। स्मृते मनसि गोविन्दे दह्यते तूलराशिवत्॥ मृग्यम्
कलौ केशवभक्तानां न भयं विद्यते क्वचित्। स्मृते सङ्कीर्तिते ध्याते सङ्क्षयं याति पातकम्॥ मृग्यम्
शास्त्रश्रवणादिविचारः
अध्येतव्यमिदं शास्त्रं श्रोतव्यमनसूयया। भक्तेभ्यश्च प्रदातव्यं धार्मिकेभ्यः पुनःपुनः॥ मृग्यम्
अधीयाना इदं शास्त्रं विष्णोर्माहात्म्यमुत्तमम्। सर्वपापविनिर्मुक्ताः प्राप्नुवन्ति परं पदम्॥ मृग्यम्
श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम्। श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च गच्छति॥ मृग्यम्
तस्मादिदं सदा सेव्यं श्रोतव्यं च सदैव हि। कुतर्कदावदग्धेभ्यो न दातव्यं कथञ्चन॥ मृग्यम्
संसारविषपानेन ये मृताः प्राणिनो भुवि। अमृताय स्मृतस्तेषां कृष्णामृतमहार्णवः॥ मृग्यम्
पुनश्च विष्णुपादोदकादिमहिमा
क्लिन्नं पादोदकेनैव यस्य नित्यं कलेवरम्। तीर्थकोटिसहस्रैस्तु स्नातो भवति प्रत्यहम्॥ मृग्यम्
तीर्थकोटिसहस्रैस्तु सेवितैः किं प्रयोजनम्। तोयं यदि पिबेन्नित्यं शालग्रामशिलाच्युतम्॥ मृग्यम्
शालग्रामशिलास्पर्शं ये कुर्वन्ति दिनेदिने। वाच्छन्ति करसंस्पर्शं तेषां देवाः सवासवाः॥ मृग्यम्
वैराग्योपदेशो विष्णुध्यानादिमहिमा च
दुःसहो नारको वह्निर्दुःसहा यमकिङ्कराः। विषमश्चान्तकपथः प्रेतत्वं चातिदारुणम्॥ मृग्यम्
सञ्चिन्त्य मनसाऽप्येवं पातकाद् विनिवर्तयेत्। स्मरणं कीर्तनं विष्णोः सदैव न परित्यजेत्॥ मृग्यम्
व्यासः अच्युतानन्तगोविन्दनामोच्चारणभेषजात्। नश्यन्ति सकला रोगाः सत्यंसत्यं वदाम्यहम्॥ नारदपुराणे १/३४/६१, विष्णुधर्मोत्तरे १/१९६/३१
[सत्यंसत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते। वेदशास्त्रात् परं नास्ति न दैवं केशवात् परम्॥] मृग्यम्
“सकृदुच्चारितं येन हरिरित्यक्षरद्वयम्। बद्धः परिकरस्तेन मोक्षाय गमनं प्रति॥” स्कान्दपुराणे १/५/१५/५२/२०५, गारुडपुराणे प्रेतकाण्डे २/३८/७
एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः। कीर्तयन्ति परं श्रेष्ठं देवं नारायणं प्रभुम्॥ मृग्यम्
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः। यो नित्यं ध्यायते देवं नारायणमनन्यधीः॥ विष्णुस्मृतौ ९९
नित्योत्सवो भवेत् तेषां नित्यश्रीर्नित्यमङ्गलम्। येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः॥ मृग्यम्
विष्णुज्ञानस्यावश्यकता
जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु। [-] स्त्री वाऽप्यनूनदशकं देहं मानुषमार्जयेत्॥ मृग्यम्
चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः। अतोऽवित्त्वा परं देवं मोक्षाशा का महामुने॥ मृग्यम्
आचतुर्दशमाद् वर्षात् पुरुषो नियमेन तु। दशावराणां देहानां कारणानि करोत्ययम्। अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति॥ मृग्यम्
अर्चनादिषु तारतम्यादि
समानां विषमा पूजा विषमाणां समा तथा। क्रियते येन देवोऽपि स्वपदाद् भ्रश्यते हि सः॥ मृग्यम्
वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी। एतानि मान्यस्थानानि गरीयो ह्युत्तरोत्तरम्॥ विष्णुस्मृतौ ३२ – कूर्मपुराणे १२/४९
गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः। सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति॥ मृग्यम्
यथा सुहृत्सु कर्तव्यं पितृभ्रातृसुतेषु च। तथा करोति पूजां हि समबुद्धिः स उच्यते॥ मृग्यम्
गोपिचन्दनमहिमा (ऊर्ध्वपुण्ड्रमहिमा)
तिर्यक्पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेऽपि वा। नचान्यनाम विब्रूयात् परान्रारायणादृते॥ मृग्यम्
नैवेद्यशेषं देवस्य यो भुनक्ति दिनेदिने। सिक्थेसिक्थे भवेत् पुण्यं चान्द्रायणशताधिकम्॥ मृग्यम्
ऊर्ध्वपुण्ड्रमृजुं सौम्यं ललाटे यस्य दृश्यते। स चण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः॥ स्कान्दे १/५/३/२
[ऊर्ध्वपुण्ड्रं ललाटे तु दण्डाकारं सुशोभनम्। मध्ये छिद्रेण संयुक्तं तच्छिद्रं मम मन्दिरम्॥] मृग्यम्
अशुचिर्वाऽप्यनाचारो मनसा पापमाचरन्। शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्राङ्कितो नरः॥ स्कान्दे १/५/२/१४
ऊर्ध्वपुण्ड्रविहीनस्य स्मशानसदृशं मुखम्। अवलोक्य मुखं तस्य आदित्यमवलोकयेत्॥ मृग्यम्
यज्ञो दानं तपश्चैव स्वाध्यायः पितृतर्पणम्। व्यर्थं भवति तत् सर्वमूर्ध्वपुण्ड्रं विना कृतम्॥ स्कान्दे १/५/२/२१
गोपीचन्दनलिप्ताङ्गो यँयं पश्यति चक्षुषा। तन्तं शुद्धं विजानीयान्नात्र कार्या विचारणा॥ मृग्यम्
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः। वैष्णवोऽस्मत्कुले जातः स नः सन्तारयिष्यति॥ मृग्यम्
जीवितं विष्णुभक्तस्य वरं पञ्चदिनान्यपि। नतु कल्पसहस्रैस्तु भक्तिहीनस्य केशवे॥ मृग्यम्
किं तेन जातमात्रेण भूभारेणान्नशत्रुणा। यो जातो नार्चयेद् विष्णुं न स्मरेन्नापि कीर्तयेत्॥ मृग्यम्
[श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम्। वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम्॥ मृग्यम्
यमः। वैष्णवो यद्गृहे भुङ्क्ते येषां वैष्णवसङ्गतिः। तेऽपि वः परिहर्तव्याः सत्सङ्गहतकिल्बिषाः॥ मृग्यम्
विष्णुभक्तस्य ये दासा वैष्णवान्नभुजश्च ये। तेऽपि तद्वद् द्विजा वैश्य गतिं यान्ति निराकुलाः॥ मृग्यम्
प्रार्थयेद् वैष्णवस्यान्नं प्रयत्नेन विचक्षणः। सर्वपापविनिर्मुक्तं विष्णुलोके महीयते॥ मृग्यम्
महापातकसंयुक्तो व्रजेत् वैष्णवमन्दिरम्। याचयेदन्नममृतं तदभावे जलं पिबेत्॥ मृग्यम्
सर्वपापविशुद्ध्यर्थं विष्णुभक्तगृहं व्रजेत्। तं नमस्कृत्य भक्त्या तु याचयेदन्नमुत्तमम्॥ मृग्यम्
साङ्गं समुद्रं सन्न्यासं सहर्षिच्छन्ददैवतम्। सदीक्षाविधिवत्स्नानं सयन्त्रं द्वादशाक्षरम्॥ मृग्यम्
अष्टाक्षरं च मन्त्रेशं जपन्तस्ते हि वैष्णवाः। तान् दृष्ट्वा ब्रह्महा शुद्धः स्यादन्यो वैष्णवः स्वयम्॥ मृग्यम्
कृतघ्नो वाऽथ गोघ्नो वा हैतुकः सर्वपातकः। गोपीचन्दनसम्पर्कात् पूतो भवति मानवः॥ मृग्यम्
नावैष्णवाय दातव्यं नोदबिन्दुं न तण्डुलम्। चक्राङ्किताय दातव्यं हव्यं कव्यं द्विजातये॥ मृग्यम्
दक्षिणे तु भुजे विप्रो बिभृयाद् वै सुदर्शनम्। वामे शङ्खं च बिभृयात् तद् विष्णोरिति वै ऋचा॥ मृग्यम्
उपवीती बद्धशिखो ब्राह्मणो भुजमूलयोः। धारयेदब्जचक्रे तु पवित्रं त इति श्रुतिः॥ मृग्यम्
पञ्चायुधानि धार्याणि भक्तिश्रद्धोपबृंहितैः। ललाटे मूध्नि हृद्बाह्वोरेकैकं तु पृथक्पृथक्॥ मृग्यम्
ललाटे तु गदा धार्या मूर्ध्नि चापं शरं तथा। हृत्पद्मं नन्दकं चैव शङ्खचक्रे भुजद्वये॥] मृग्यम्
यो ददाति द्विजातिभ्यश्चन्दनं गोपिमर्दितम्। अपि सर्षपमात्रेण पुनात्यासप्तमं कुलम्॥ मृग्यम्
ज्ञानिनोऽपि कर्मविधिः
ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत॥ मृग्यम्
अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः। एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत्॥ मृग्यम्
यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ इेशावास्योपनिषदि २
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च। वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः॥ मृग्यम्
निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते। निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्॥ मृग्यम्
उपसंहारः, अन्तिममङ्गलाचरणम्
श्रीमदानन्दतीर्थार्यसहस्रकिरणोत्थिता। गोततिः सततं सेव्या गीर्वाणैः सिद्धिदा भवेत्॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद् दर्शतमित्थमेव निहितं देवस्य भर्गो महत्। वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु- र्मध्वो यत् तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे॥
यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः। प्रीयतां प्रीत एवालं विष्णुर्मे परमः सुहृत्॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः कृष्णामृतमहार्णवः सम्पूर्णः॥