महाभारततात्पर्यनिर्णयः

प्रथमोऽध्यायः
मङ्गलाचरणम्
नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियतिप्रदाय। ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमोनमस्ते॥ १/१॥
सर्वसदागमप्रतिपाद्यप्रमेयम्
आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः। संशान्तसंविदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपिचाग्रे॥ १/२॥
तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य। तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य॥ १/३॥
दृष्ट्वा स चेतनगणान् जठरे शयानानानन्दमात्रवपुषः सृतिविप्रमुक्तान्। ध्यानं गतान् सृतिगतांश्‍च सुषुप्तिसंस्थान् ब्रह्मादिकान् कलिपरान् मनुजांस्तथैक्षत्॥ १/४॥
स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृतां विहृतिं ममेच्छन्। सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः॥ १/५॥
इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता। तस्याज्ञयैव नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत् प्रवदन्ति मायाम्॥ १/६॥
सङ्कर्षणश्‍च स बभूव पुनः सुनित्यः संहारकारणवपुस्तदनुज्ञयैव। देवी जयेत्यनुबभूव स सृष्टिहेतोः प्रद्युम्नतामुपगतः कृतितां च देवी॥ १/७॥
स्थित्यै पुनः स भगवाननिरुद्धनामा देवी च शान्तिरभवच्छरदां सहस्रम्। स्थित्वा स्वमूर्तिभिरमूभिरचिन्त्यशक्तिः प्रद्युम्नरूपक इमांश्‍चरमात्मनेऽदात्॥ १/८॥
निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितानुदरे निवेश्य। चक्रेऽथ देहसहितान् क्रमशः स्वयम्भुप्राणात्मशेषगरुडेशमुखान् समग्रान्॥ १/९॥
पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत् पञ्चद्वयी शतसहस्रपरोऽमितश्‍च। एकः समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्णगुणकोऽपि बहूपमोऽभूत्॥ १/१०॥
निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्‍चेतनात्मकशरीरगुणैश्‍च हीनः। आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा॥ १/११॥
कालाच्च देशगुणतोऽस्य नचादिरन्तो वृद्धिक्षयौ नतु परस्य सदातनस्य। नैतादृशः क्व च बभूव नचैव भाव्यो नास्त्युत्तरः किमु परात् परमस्य विष्णोः॥ १/१२॥
सर्वज्ञ ईश्‍वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्सुखवीर्यसारः। यस्याज्ञया रहितमिन्दिरया समेतं ब्रह्मेशपूर्वकमिदं नतु कस्य चेशम्॥ १/१३॥
आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ। वीन्द्रेशयोस्तदपरे त्वनयोश्‍च तेषामृष्यादयः क्रमश ऊनगुणाः शतांशात्॥ १/१४॥
आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात् तदनु गीः शिवतो वरिष्ठा। तस्या उमा विपतिनी च गिरस्तयोस्तु शच्यादिकाः क्रमश एव यथा पुमांसः॥ १/१५॥
ताभ्यश्‍च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथा क्रमशः श्रुतिस्थाः। शब्दो बहुत्ववचनः शतमित्यतश्‍च श्रुत्यन्तरेषु बहुधोक्तिविरुद्धता न॥ १/१६॥
तेषां स्वरूपमिदमेव यतोऽथ मुक्तावप्येवमेव सततोच्चविनीचरूपाः। शब्दः शतं दश सहस्रमिति स्म यस्मात् तस्मान्न हीनवचनोऽथ ततोऽग्र्यरूपाः॥ १/१७॥
एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च संसृतिपरा असुरास्तमोगाः। एवं सदैव नियमः क्वचिदन्यथा न यावन्न पूर्तिरुत संसृतिगाः समस्ताः॥ १/१८॥
पूर्तिश्‍च नैव नियमाद् भविता हि यस्मात् तस्मात् समाप्तिमपि यान्ति न जीवसङ्घाः। आनन्त्यमेव गणशोऽस्ति यतो हि तेषामित्थं ततः सकलकालगता प्रवृत्तिः॥ १/१९॥
एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः। पूर्तेरचिन्त्यमहिमः परमः परात्मा नारायणोऽस्य गुणविस्तृतिरन्यगा क्व॥ १/२०॥
साम्यं नचास्य परमेण च केन चाप्यं मुक्तेन च क्वचिदतस्त्वभिदा कुतोऽस्य। प्राप्येत चेतनगणैः सततास्वतन्त्रैर्नित्यस्वतन्त्रवपुषः परमात् परस्य॥ १/२१॥
सर्वसदागमप्रतिपाद्यप्रमेये प्रमाणोदाहारणम्
अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः। अन्यैश्‍च शास्त्रवचनैः सह तत्त्वसूत्रैर्निर्णीयते सहृदयं हरिणा सदैव॥ १/२२॥
“नारायणस्य न समः पुरुषोत्तमोऽहं जीवाक्षरे ह्यधिगतोऽस्मि ततोऽन्यदार्तम्। मुक्तोपसृप्य इह नास्ति कुतश्च कश्चिन्नानेव धर्मपृथगात्मदृगेत्यधो हि॥ १/२३॥
आभास एव पृथगीशत एष जीवो मुक्तस्य नास्ति जगतो विषये तु शक्तिः। मात्रा परोऽसि नतु तेऽश्नुवते महित्वं षाड्गुण्यविग्रह सुपूर्णगुणैकदेहः॥ १/२४॥
माहात्म्यदेह सृतिमुक्तिगते शिवश्‍च ब्रह्मा च तद्गुणगतौ न कथञ्चनेशौ। न श्रीः कुतस्तदपरेऽस्य सुखस्य मात्रामश्‍नन्ति मुक्तसुगुणाश्‍च शतावरेण॥ १/२५॥
आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम्। विष्णोः सदैवातिवशात् कदाऽपि गच्छन्ति केशादिगणा न मुक्तौ॥ १/२६॥
यस्मिन् परेऽन्येऽप्यजजीवकोशा नाहं परायुर्न मरीचिमुख्याः। जानन्ति यद्गुणगणान् न रमादयोऽपि नित्यः स्वतन्त्र उत कोऽस्ति तदन्य ईशः॥ १/२७॥
नैवैक एव पुरुषः पुरुषोत्तमोऽसावेकः कुतः स पुरुषो यत एव जात्या। अर्थाच्छ्रुतेश्‍च गुणतो निजरूपतश्‍च नित्यान्य एव कथमस्मि स इत्यपि स्यात्॥ १/२८॥
सर्वोत्तमो हरिरिदं तु तदाज्ञयैव चेतुं क्षमं स तु हरिः परमः स्वतन्त्रः। पूर्णाव्ययागणितनित्यगुणार्णवोऽसौ” इत्येव वेदवचनानि परोक्तयश्‍च॥ १/२९॥
अस्यैव सर्वसदागमप्रतिपाद्यत्वे प्रमाणोदाहारणम्, वैष्णवशैवादिविरोधपरिहारश्च
“ऋगादयश्‍च चत्वारः पञ्चरात्रं च भारतम्। मूलरामायणं ब्रह्मसूत्रं मानं स्वतः स्मृतम्॥ १/३०॥
अविरुद्धं तु यत् त्वस्य प्रमाणं तच्च नान्यथा। एतद्विरुद्धं यत् तु स्यान्न तन्मानं कथञ्चन॥ १/३१॥
वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः। प्रमाणान्येव मन्वाद्याः स्मृतयोऽप्यनुकूलतः॥ १/३२॥
एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्वचित्। अतस्तदेव मन्तव्यं नान्यथा तु कथञ्चन॥ १/३३॥
मोहार्थान्यन्यशास्त्राणि कृतान्येवाज्ञया हरेः। अतस्तेषूक्तमग्राह्यमसुराणां तमोगतेः॥ १/३४॥
यस्मात् कृतानि तानीह विष्णुनोक्तैः शिवादिभिः। एषां यन्न विरोधि स्यात् तत्रोक्तं तन्न वार्यते॥ १/३५॥
विष्ण्वाधिक्यविरोधीनि यानि वेदवचांस्यपि। तानि योज्यान्यानुकूल्याद् विष्ण्वाधिक्यस्य सर्वशः॥ १/३६॥
अवतारेषु यत् किञ्चिद् दर्शयेन्नरवद्धरिः। तच्चासुराणां मोहाय दोषा विष्णोर्नहि क्वचित्॥ १/३७॥
अज्ञत्वं पारवश्यं वा वेधभेदादिकं तथा। तथा प्राकृतदेहत्वं देहत्यागादिकं तथा॥ १/३८॥
अनीशत्वं च दुःखित्वं साम्यमन्यैश्‍च हीनताम्। प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयम्॥ १/३९॥
न तस्य कश्‍चिद् दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ। सर्वदेहस्थरूपेषु प्रादुर्भावेषु चेश्‍वरः॥ १/४०॥
ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः। यदेवं वाचकं शास्त्रं तद्धि शास्त्रं परं मतम्॥ १/४१॥
निर्णयायैव यत् प्रोक्तं ब्रह्मसूत्रं तु विष्णुना। व्यासरूपेण तद् ग्राह्यं तत्रोक्ताः सर्वनिर्णयाः॥ १/४२॥
यथार्थवचनानां च मोहार्थानां च संशयम्। अपनेतुं हि भगवान् ब्रह्मसूत्रमचीकॢपत्॥ १/४३॥
तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः। सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता॥ १/४४॥
अभेदः सर्वरूपेषु जीवभेदः सदैव हि। विष्णोरुक्तानि सूत्रेषु सर्ववेदेड्यता तथा॥ १/४५॥
तारतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा। तस्मादेतद्विरुद्धं यन्मोहार्थं तदुदाहृतम्॥ १/४६॥
तस्माद् येये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु।” इत्याद्युक्तं भगवता भविष्यत्पर्वणि स्फुटम्॥ १/४७॥
“एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति। त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय॥ १/४८॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज। प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु॥” १/४९॥
इति वाराहवचनं ब्रह्माण्डोक्तं तथा परम्। “अमोहाय गुणा विष्णोराकारश्‍चिच्छरीरता॥ १/५०॥
निर्दोषत्वं तारतम्यं मुक्तानामपिचोच्यते। एतद्विरुद्धं यत् सर्वं तन्मोहायेति निर्णयः॥” १/५१॥
स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम्। शिवशास्त्रेऽपि तद् ग्राह्यं भगवच्छास्त्रयोगि यत्॥ १/५२॥
“परमो विष्णुरेवैकस्तज्ज्ञानं मुक्तिसाधनम्। शास्त्राणां निर्णयस्त्वेष तदन्यन्मोहनाय हि॥ १/५३॥
ज्ञानं विना तु या मुक्तिः साम्यं च मम विष्णुना। तीर्थादिमात्रतो ज्ञानं ममाधिक्यं च विष्णुतः॥ १/५४॥
अभेदश्‍चास्मदादीनां मुक्तानां हरिणा तथा। इत्यादि सर्वं मोहाय कथ्यते पुत्र नान्यथा॥” १/५५॥
उक्तं पद्मपुराणे च शैव एव शिवेन तु। यदुक्तं हरिणा पूर्वमुमायै प्राह तद्धरः॥ १/५६॥
“त्वामाराध्य तथा शम्भो ग्रहीष्यामि वरं सदा। द्वापरादौ युगे भूत्वा कलया मानुषादिषु॥ १/५७॥
स्वागमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु। मां च गोपय येन स्यात् सृष्टिरेषोत्तराधरा॥” १/५८॥
नच वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः। क्वचिदुक्तोऽन्यशास्त्रेषु परमो विष्णुरीरितः॥ १/५९॥
निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि। वेदेष्वपि परो विष्णुः सर्वस्मादुच्यते सदा॥ १/६०॥
विष्णोः सर्वोत्तमत्वादिषु श्रुतिनिरूपणम्
“अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः। विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्‍विनाविरावत्॥” १/६१॥ ऋग्वेदसंहितायां ७/४०/५
“स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्।” ऋग्वेदसंहितायां २/३३/११ “यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्॥” १/६२॥ ऋग्वेदसंहितायां १०/१२५/५
“एको नारायण आसीन्न ब्रह्मा नच शङ्करः।” “वासुदेवो वा इदमग्र आसीन्न ब्रह्मा नच शङ्करः॥” १/६३॥
“यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति॥” १/६४॥ आथर्वणोपनिषदि ५/३
“यो वेद निहितं गुहायां परमे व्योमन्। सोऽश्‍नुते सर्वान् कामान् सह ब्रह्मणा विपश्‍चिता॥” १/६५॥ तैत्तिरीयोपनिषदि ब्रह्मवल्ल्यां २/२
“प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्।” ऋग्वेदसंहितायां २/१५/१ “सत्यमेनमनु विश्‍वे मदन्ति रातिं देवस्य गृणतो मघोनः॥” १/६६॥ ऋग्वेदसंहितायां ४/१७/५
“यच्चिकेत सत्यमित् तन्न मोघं वसु स्पार्हमुत जेतोत दाता।” ऋग्वेदसंहितायां १०/५५/६ “सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये॥” १/६७॥ ऋग्वेदसंहितायाम् ८/३/४
“सत्या विष्णोर्गुणाः सर्वे सत्या जीवेशयोर्भिदा। सत्यो मिथो जीवभेदः सत्यं च जगदीदृशम्॥ १/६८॥
असत्यः स्वगतो भेदो विष्णोर्नान्यदसत्यकम्। जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः॥ १/६९॥
जीवेशयोर्भिदा चैव जीवभेदः परस्परम्। जडेशयोर्जडानां च जडजीवभिदा तथा॥ १/७०॥
पञ्चभेदा इमे नित्याः सर्वावस्थासु नित्यशः। मुक्तानां च न हीयन्ते तारतम्यं च सर्वदा॥ १/७१॥
क्षितिपा मनुष्यगन्धर्वा देवाश्‍च पितरश्‍चिराः। आजानजाः कर्मजाश्‍च देवा इन्द्रः पुरन्दरः॥ १/७२॥
रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः। एको ब्रह्मा च वायुश्‍च वीन्द्रो रुद्रसमस्तथा॥ १/७३॥
एको रुद्रस्तथा शेषो न कश्‍चिद् वायुना समः।
मुक्तेषु श्रीस्तथा वायोः सहस्रगुणिता गुणैः। ततोऽनन्तगुणो विष्णुर्न कश्‍चित् तत्समः सदा॥” १/७४॥
तत्रैव तात्पर्यसमर्थनम्
इत्यादि वेदवाक्यं विष्णोरुत्कर्षमेव वक्त्युच्चैः। तात्पर्यं महदत्रेत्युक्तं यो मामिति स्वयं तेन॥ १/७५॥
भूम्नो ज्यायस्त्वमित्युक्तं सूत्रेषु निर्णयात् तेन। तत्प्रीत्यैव च मोक्षः प्राप्यस्तेनैव नान्येन॥ १/७६॥
“नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्॥”१/७७॥ काठकोपनिषदि १/२
सर्वस्मिन् विषये भविष्यत्पर्ववचनानि
“विष्णुर्हि दाता मोक्षस्य वायुश्‍च तदनुज्ञया। मोक्षो ज्ञानं च क्रमशो मुक्तिगो भोग एव च॥ १/७८॥
उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत्। सर्वेषां च हरिर्नित्यं नियन्ता तद्वशाः परे॥ १/७९॥
तारतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा। एतद् विना न कस्यापि विमुक्तिः स्यात् कथञ्चन॥ १/८०॥
पञ्चभेदांश्‍च विज्ञाय विष्णोः स्वाभेदमेव च। निर्दोषत्वं गुणोद्रेकं ज्ञात्वा मुक्तिर्नचान्यथा॥ १/८१॥
अवतारान् हरेर्ज्ञात्वा नावतारा हरेश्‍च ये। तदावेशांस्तथा सम्यग् ज्ञात्वा मुक्तिर्नचान्यथा॥ १/८२॥
सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनान्। मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा॥ १/८३॥
वेदांश्‍च पञ्चरात्राणि सेतिहासपुराणकान्। ज्ञात्वा विष्णुपरानेव मुच्यते नान्यथा क्वचित्॥ १/८४॥
माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः। स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्नचान्यथा॥ १/८५॥
त्रिविधा जीवसङ्घास्तु देवमानुषदानवाः। तत्र देवा मुक्तियोग्या मानुषेषूत्तमास्तथा॥ १/८६॥
मध्यमा मानुषा ये तु सृतियोग्याः सदैव हि। अधमा निरयायैव दानवास्तु तमोलयाः॥ १/८७॥
मुक्तिर्नित्या तमश्‍चैव नावृत्तिः पुनरेतयोः। देवानां निरयो नास्ति तमश्‍चापि कथञ्चन॥ १/८८॥
नासुराणां तथा मुक्तिः कदाचित् केनचित् क्वचित्। मानुषाणां मध्यमानां नैवैतद् ‌द्वयमाप्यते॥ १/८९॥
असुराणां तमःप्राप्तिस्तदा नियमतो भवेत्। यदा तु ज्ञानिसद्भावे नैव गृह्णन्ति तत् परम्॥ १/९०॥
तदा मुक्तिर्हि देवानां यदा प्रत्यक्षगो हरिः। स्वयोग्ययोपासनया तन्वा तद्योग्यया तथा॥ १/९१॥
सर्वैर्गुणैर्ब्रह्मणा तु समुपास्यो हरिः सदा। आनन्दो ज्ञः सदात्मेति ह्युपास्यो मानुषैर्हरिः॥ १/९२॥
यथाक्रमं गुणोद्रेकात् तदन्यैरा विरिञ्चतः। ब्रह्मत्वयोग्या ऋजवो नाम देवाः पृथग् गणाः॥ १/९३॥
तैरेवाप्यं पदं तत् तु नैवान्यैः साधनैरपि। एवं सर्वपदानां च योग्याः सन्ति पृथग् गणाः॥ १/९४॥
तस्मादनाद्यनन्तं हि तारतम्यं चिदात्मनाम्। तच्च नैवान्यथा कर्तुं शक्यं केनापि कुत्रचित्॥ १/९५॥
अयोग्यमिच्छन् पुरुषः पतत्येव न संशयः। तस्माद् योग्यानुसारेण सेव्यो विष्णुः सदैव हि॥ १/९६॥
अच्छिद्रसेवनाच्चैव निष्कामत्वाच्च योग्यतः। द्रष्टुं शक्यो हरिः सर्वैर्नान्यथा तु कथञ्चन॥ १/९७॥
नियमोऽयं हरेर्यस्मान्नोल्लङ्घ्यः सर्वचेतनैः। सत्यसङ्कल्पतो विष्णुर्नान्यथा तु करिष्यति॥ १/९८॥
दानतीर्थतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा। अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये।” भविष्यत्पर्ववचनमित्येतदखिलं परम्॥ १/९९॥
साधनविधायकवेदवचनानि
“शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः। एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्॥‌” १/१००॥ ऋग्वेदसंहितायां ६/४७/१६
“परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति। अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति॥” १/१०१॥ ऋग्वेदसंहितायां ६/४७/१७
“तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते।” तैत्तिरीयारण्यके ३/१२/७ “तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय॥” १/१०२॥ श्वेताश्‍वतरोपनिषदि ३/८
“यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते(ऽ)कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥” १/१०३॥ श्वेताश्‍वतरोपनिषदि ६/२३
“भक्त्यर्थान्यखिलान्येव भक्तिर्मोक्षाय केवला। मुक्तानामपि भक्तिर्हि नित्यानन्दस्वरूपिणी॥ १/१०४॥
ज्ञानपूर्वः परः स्नेहो नित्यो भक्तिरितीर्यते।” इत्यादि वेदवचनं साधनप्रविधायकम्॥ १/१०५॥
भक्तेर्माहात्म्ये पुराणवचनानि
“निःशेषधर्मकर्ताऽप्यभक्तस्ते नरके हरे। सदा तिष्ठति भक्तश्‍चेद् ब्रह्महाऽपि विमुच्यते॥” १/१०६॥ स्कान्दे रेवाखण्डे
“धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत। पापं भवति धर्मोऽपि यो नभक्तैः कृतो हरे॥” १/१०७॥ स्कान्दे रेवाखण्डे
“भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥” १/१०८॥ भगवद्गीता
“अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः। तमस्यन्धे पातयति दैत्यानन्ते विनिश्‍चयात्॥ १/१०९॥ अज्ञातं पुराणवचनम्
पूर्णदुःखात्मको द्वेषः सोऽनन्तो ह्यवतिष्ठते। पतितानां तमस्यन्धे निःशेषसुखवर्जिते॥ १/११०॥
जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा। साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च॥ १/१११॥
प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च। तत्प्रमाणस्य निन्दा च द्वेषा एतेऽखिला मताः॥ १/११२॥
एतैर्विहीना या भक्तिः सा भक्तिरिति निश्‍चिता। अनादिभक्तिर्देवानां क्रमाद् वृद्धिं गतैव सा॥ १/११३॥
अपरोक्षदृशेर्हेतुर्मुक्तिहेतुश्‍च सा पुनः। सैवानन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति॥ १/११४॥
यथा शौक्ल्यादिकं रूपं गोर्भवत्येव सर्वदा। सुखज्ञानादिकं रूपमेवं भक्तेर्नचान्यथा॥ १/११५॥
भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित्। स एव मुक्तिदाता च भक्तिस्तत्रैव कारणम् ॥ १/११६॥
ब्रह्मादीनां च मुक्तानां तारतम्ये तु कारणम्। तारतम्यस्थिताऽनादिर्नित्या भक्तिर्नचेतरत्॥ १/११७॥
मानुषेष्वधमाः किञ्चिद्द्वेषयुक्ताः सदा हरौ। दुःखनिष्ठास्ततस्तेऽपि नित्यमेव न संशयः॥ १/११८॥
मध्यमा मिश्रभूतत्वान्नित्यं मिश्रफलाः स्मृताः। किञ्चिद्भक्तियुता नित्यमुत्तमास्तेन मोक्षिणः॥ १/११९॥
ब्रह्मणः परमा भक्तिः सर्वेभ्यः परमस्ततः।” इत्यादीनि च वाक्यानि पुराणेषु पृथक्पृथक्॥ १/१२०॥
गुरुलक्षणादिषु पञ्चरात्रवचनम्
“षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः। सप्तपादश्‍चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युतः॥ १/१२१॥
असंशयः संशयच्छिद् गुरुरुक्तो मनीषिभिः। तस्माद् ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा॥ १/१२२॥
अन्येऽपि स्वात्मनो मुख्याः क्रमाद् गुरव ईरिताः। क्रमाल्लक्षणहीनाश्‍च लक्षणालक्षणैः समाः॥ १/१२३॥
मानुषा मध्यमाः सम्यग् दुर्लक्षणयुतः कलिः। सम्यग्लक्षणसम्पन्नो यद् दद्यात् सुप्रसन्नधीः॥ १/१२४॥
शिष्याय सत्यं भवति तत् सर्वं नात्र संशयः। अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत्॥ १/१२५॥
नातिप्रसन्नहृदयो यद् दद्याद् गुरुरप्यसौ। न तत् सत्यं भवेत् तस्मादर्चनीयो गुरुः सदा॥ १/१२६॥
स्वावराणां गुरुत्वं तु भवेत् कारणतः क्वचित्। मर्यादार्थं तेऽपि पूज्या नतु यद्वत् परो गुरुः॥” १/१२७॥
इत्येतत् पञ्चरात्रोक्तं पुराणेष्वनुमोदितम्।
मुक्त्यादिविषये भविष्यत्पर्वादिवचनानि
“यदा मुक्तिप्रदानाय स्वयोग्यं पश्यति ध्रुवम्॥ १/१२८॥
रूपं हरेस्तदा तस्य सर्वपापानि भस्मसात्। यान्ति पूर्वाण्युत्तराणि न श्‍लेषं यान्ति कानिचित्॥ १/१२९॥
मोक्षश्‍च नियतस्तस्मात् स्वयोग्यहरिदर्शने।” भविष्यत्पर्ववचनमित्येतत् सूत्रगं तथा॥ १/१३०॥
श्रुतिश्‍च तत्परा तद्वत् तद् यथेत्यवदत् स्फुटम्।
मोक्षप्रकारः
मुक्तास्तु मानुषा देवान् देवा इन्द्रं स शङ्करम्॥ १/१३१॥
स ब्रह्माणं क्रमेणैव तेन यान्त्यखिला हरिम्। उत्तरोत्तरवश्याश्‍च मुक्ता रुद्रपुरःसराः॥ १/१३२॥
निर्दोषा नित्यसुखिनः पुनरावृत्तिवर्जिताः। स्वेच्छयैव रमन्तेऽत्र नानिष्टं तेषु किञ्चन॥ १/१३३॥
असुराः कलिपर्यन्ता एवं दुःखोत्तरोत्तराः। कलिर्दुःखाधिकस्तेषु तेऽप्येवं ब्रह्मवद् गणाः॥ १/१३४॥
तथाऽन्येऽप्यसुराः सर्वे गणा योग्यतया सदा। ब्रह्मैव सर्वजीवेभ्यः सदा सर्वगुणाधिकः॥ १/१३५॥
मुक्तोऽपि सर्वमुक्तानामाधिपत्ये स्थितः सदा। आश्रयस्तस्य भगवान् सदा नारायणः प्रभुः॥ १/१३६॥
उपसंहारः
इत्यृग्यजुःसामाथर्वपञ्चरात्रेतिहासतः। पुराणेभ्यस्तथाऽन्येभ्यः शास्त्रेभ्यो निर्णयः कृतः॥ १/१३७॥
विष्ण्वाज्ञयैव विदुषा तत्प्रसादबलोन्नतेः। आनन्दतीर्थमुनिना पूर्णप्रज्ञाभिधायुजा॥ १/१३८॥
तात्पर्यं शास्त्राणां सर्वेषामुत्तमं मया प्रोक्तम्। प्राप्यानुज्ञां विष्णोरेतज्ज्ञात्वैव विष्णुराप्योऽसौ॥ १/१३९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये सर्वशास्त्रार्थनिर्णयो नाम प्रथमोऽध्यायः समाप्तः॥
द्वितीयोऽध्यायः
मङ्गलाचरणम्
जयति हरिरचिन्त्यः सर्वदेवैकवन्द्यः परमगुरुरभीष्टावाप्तिदः सज्जनानाम्। निखिलगुणगणार्णो नित्यनिर्मुक्तदोषः सरसिजनयनोऽसौ श्रीपतिर्मानदो नः॥ २/१॥
चिकीर्षितप्रतिज्ञा
उक्तः पूर्वेऽध्याये शास्त्राणां निर्णयः परो दिव्यः। अथ भारतवाक्यान्येतैरेवाध्यवस्यन्ते॥ २/२॥
क्वचिद् ग्रन्थान् प्रक्षिपन्ति क्वचिदन्तरितानपि। कुर्युः क्वचिच्च व्यत्यासं प्रमादात् क्वचिदन्यथा॥ २/३॥
अनुत्सन्ना अपि ग्रन्था व्याकुला इति सर्वशः। उत्सन्नाः प्रायशः सर्वे कोट्यंशोऽपि न वर्तते॥ २/४॥
ग्रन्थोऽप्येवं विलुलितः किम्वर्थो देवदुर्गमः। कलावेवं व्याकुलिते निर्णयाय प्रचोदितः॥ २/५॥
हरिणा निर्णयान् वच्मि विजानंस्तत्प्रसादतः। शास्त्रान्तराणि सञ्जानन् वेदांश्‍चास्य प्रसादतः॥ २/६॥
देशेदेशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्विधान्। यथा स भगवान् व्यासः साक्षान्नारायणः प्रभुः॥ २/७॥
जगाद भारताद्येषु तथा वक्ष्ये तदीक्षया। सङ्क्षेेपात् सर्वशास्त्रार्थं भारतार्थानुसारतः॥ २/८॥
महाभारतमाहात्म्यम्
निर्णयः सर्वशास्त्राणां भारतं परिकीर्तितम्। “भारतं सर्ववेदाश्‍च तुलामारोपिताः पुरा॥ २/९॥
देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्‍च समन्वितैः। व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम्॥ २/१०॥
महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥ २/११॥
निर्णयः सर्वशास्त्राणां सदृष्टान्तो हि भारते। कृतो विष्णुवशत्वं हि ब्रह्मादीनां प्रकाशितम्॥ २/१२॥
यतः कृष्णवशे सर्वे भीमाद्याः सम्यगीरिताः। सर्वेषां ज्ञानदो विष्णुर्यशोदातेति चोदितः॥ २/१३॥
यस्माद् व्यासात्मना तेषां भारते यश ऊचिवान्। ज्ञानदश्‍च शुकादीनां ब्रह्मरुद्रादिरूपिणाम्॥ २/१४॥
ब्रह्माऽधिकश्‍च देवेभ्यः शेषाद् रुद्रादपीरितः। प्रियश्‍च विष्णोः सर्वेभ्य इति भीमनिदर्शनात्॥ २/१५॥
भूभारहरणे विष्णोः प्रधानाङ्गं हि मारुतिः। मागधादिवधादेव दुर्योधनवधादपि॥ २/१६॥
योय एव बलज्येष्ठः क्षत्रियेषु स उत्तमः। अङ्गं चेद् विष्णुकार्येषु तद्भक्त्यैव नचान्यथा॥ २/१७॥
बलं नैसर्गिकं तच्चेद् वरास्त्रादेस्तदन्यथा। अन्यावेशनिमित्तं चेद् बलमन्यात्मकं हि तत्॥ २/१८॥
देवेषु बलिनामेव भक्तिज्ञाने नचान्यथा। स एव च प्रियो विष्णोर्नान्यथा तु कथञ्चन॥ २/१९॥
तस्माद् योयो बलज्येष्ठः स गुणज्येष्ठ एव च। बलं हि क्षत्रिये व्यक्तं ज्ञायते स्थूलदृष्टिभिः॥ २/२०॥
ज्ञानादयो गुणा यस्माज्ज्ञायन्ते सूक्ष्मदृष्टिभिः। तस्माद् यत्र बलं तत्र विज्ञातव्या गुणाः परे॥ २/२१॥
देवेष्वेव नचान्येषु वासुदेवप्रतीपतः। क्षत्रादन्येष्वपि बलं प्रमाणं यत्र केशवः॥ २/२२॥
प्रवृत्तो दुष्टनिधने ज्ञानकार्ये तथैव च। अन्यत्र ब्राह्मणानां तु प्रमाणं ज्ञानमेव हि॥ २/२३॥
क्षत्रियाणां बलं चैव सर्वेषां विष्णुकार्यता। कृष्णरामादिरूपेषु बलकार्यो जनार्दनः॥ २/२४॥
दत्तव्यासादिरूपेषु ज्ञानकार्यस्तथा प्रभुः। मत्स्यकूर्मवराहाश्‍च सिंहवामनभार्गवाः॥ २/२५॥
राघवः कृष्णबुद्धौ च कृष्णद्वैपायनस्तथा। कपिलो दत्तऋषभौ शिंशुमारो रुचेः सुतः॥ २/२६॥
नारायणो हरिः कृष्णस्तापसो मनुरेव च। महिदासस्तथा हंसः स्त्रीरूपो हयशीर्षवान्॥ २/२७॥
तथैव वडवावक्त्रः कल्की धन्वन्तरिः प्रभुः। इत्याद्याः केवलो विष्णुर्नैषां भेदः कथञ्चन॥ २/२८॥
न विशेषो गुणैः सर्वैर्बलज्ञानादिभिः क्वचित्। श्रीब्रह्मरुद्रशेषाश्च वीन्द्रेन्द्रौ काम एव च॥ २/२९॥
कामपुत्रोऽनिरुद्धश्‍च सूर्यश्‍चन्द्रो बृहस्पतिः। धर्म एषां तथा भार्या दक्षाद्या मनवस्तथा॥ २/३०॥
मनुपुत्राश्‍च ऋषयो नारदः पर्वतस्तथा। कश्यपः सनकाद्याश्‍च वह्न्याद्याश्‍चैव देवताः॥ २/३१॥
भरतः कार्तवीर्यश्‍च वैन्याद्याश्‍चक्रवर्तिनः। गयश्‍च लक्ष्मणाद्याश्‍च त्रयो रोहिणिनन्दनः॥ २/३२॥
प्रद्युम्नो रौक्मिणेयश्‍च तत्पुत्रश्‍चानिरुद्धकः। नरः फल्गुन इत्याद्या विशेषावेशिनो हरेः॥ २/३३॥
वालिसाम्बादयश्‍चैव किञ्चिदावेशिनो हरेः। तस्माद् बलप्रवृत्तस्य रामकृष्णात्मनो हरेः॥ २/३४॥
अन्तरङ्गं हनूमांश्‍च भीमस्तत्कार्यसाधकः। ब्रह्मात्मको यतो वायुः पदं ब्राह्ममगात् पुरा॥ २/३५॥
वायोरन्यस्य न ब्राह्मं पदं तस्मात् स एव सः। यत्र रूपं तत्र गुणा भक्त्याद्याः स्त्रीषु नित्यशः॥ २/३६॥
रूपं हि स्थूलदृष्टीनां दृश्यं व्यक्तं ततो हि तत्। प्रायो वेत्तुं न शक्यन्ते भक्त्याद्याः स्त्रीषु यत्नतः॥ २/३७॥
यासां रूपं गुणास्तासां भक्त्याद्या इति निश्‍चयः। तच्च नैसर्गिकं रूपं द्वात्रिंशल्लक्षणैर्युतम्॥ २/३८॥
नालक्षणं वपुर्मात्रं गुणहेतुः कथञ्चन। आसुरीणां वरादेस्तु वपुर्मात्रं भविष्यति॥ २/३९॥
न लक्षणान्यतस्तासां नैव भक्तिः कथञ्चन। तस्माद् रूपगुणोदारा जानकी रुक्मिणी तथा॥ २/४०॥
सत्यभामेत्यादिरूपा श्रीः सर्वपरमा मता। ततः पश्‍चाद् द्रौपदी च सर्वाभ्यो रूपतो वरा॥ २/४१॥
भूभारक्षपणे साक्षादङ्गं भीमवदीशितुः। हन्ता च वैरहेतुश्‍च भीमः पापजनस्य तु॥ २/४२॥
द्रौपदी वैरहेतुः सा तस्माद् भीमादनन्तरा। बलदेवस्ततः पश्‍चात् ततः पश्‍चाच्च फल्गुनः॥ २/४३॥
नरावेशादन्यथा तु द्रौणिः पश्‍चात् ततोऽपरे। रामवज्जाम्बवत्याद्याः षट् ततो रेवती तथा॥ २/४४॥
लक्ष्मणो हनुमत्पश्‍चात् ततो भरतवालिनौ। शत्रुघ्नश्च ततः पश्‍चात् सुग्रीवाद्यास्ततोऽवराः॥ २/४५॥
रामकार्यं तु यैः सम्यक् स्वयोग्यं न कृतं पुरा। तैः पूरितं तु कृष्णाय बीभत्स्वाद्यैः समन्ततः॥ २/४६॥
अधिकं यैः कृतं तत्र तैरूनं कृतमत्र तु। कर्णाद्यैरधिकं यैस्तु प्रादुर्भावद्वये कृतम्॥ २/४७॥
विविदाद्यैर्हि तैः पश्‍चाद् विप्रतीपं कृतं हरेः। प्रादुर्भावद्वये ह्यस्मिन् सर्वेषां निर्णयः कृतः॥ २/४८॥
नैतयोरकृतं किञ्चिच्छुभं वा यदि वाऽशुभम्। अन्यत्र पूर्यते क्वापि तस्मादत्रैव निर्णयः॥ २/४९॥
पश्‍चात्तनत्वात् कृष्णस्य वैशेष्यात् तत्र निर्णयः। प्रादुर्भावमिमं यस्माद् गृहीत्वा भारतं कृतम्॥ २/५०॥
उक्ता रामकथाऽप्यस्मिन् मार्कण्डेयसमाख्यया। तस्माद् यद् भारते नोक्तं तद्धि नैवास्ति कुत्रचित्॥ २/५१॥
अत्रोक्तं सर्वशास्त्रेषु नहि सम्यगुदाहृतम्।” इत्यादि कथितं सर्वं ब्रह्माण्डे हरिणा स्वयम्॥ २/५२॥
मार्कण्डेयेऽपि कथितं भारतस्य प्रशंसनम्। “देवतानां यथा व्यासो द्विपदां ब्राह्मणो वरः॥ २/५३॥ मार्कण्डेयपुराणे
आयुधानां यथा वज्रमोषधीनां यथा यवाः। तथैव सर्वशास्त्राणां महाभारतमुत्तमम्॥” २/५४॥
वायुप्रोक्तेऽपि तत् प्रोक्तं भारतस्य प्रशंसनम्। “कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्॥ २/५५॥
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्।” एवं हि सर्वशास्त्रेषु पृथक्पृथगुदीरितम्॥ २/५६॥
उक्तोऽर्थः सर्व एवायं माहात्म्यक्रमपूर्वकः।
भारतेऽपि यथा प्रोक्तो निर्णयोऽयं क्रमेण तु। तथा प्रदर्शयिष्यामस्तद्वाक्यैरेव सर्वशः॥ २/५७॥
भारतवाक्योद्धरणपूर्वकं सर्वशास्त्रविनिर्णयः
उपक्रमादिवाक्यार्थविवरणम्
“नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च। त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम्॥” २/५८॥
ज्ञानप्रदः स भगवान् कमलाविरिञ्चशर्वादिपूर्वजगतो निखिलाद् वरिष्ठः। भक्त्यैव तुष्यति हरिप्रवणत्वमेव सर्वस्य धर्म इति पूर्वविभागसंस्थः॥ २/५९॥
निर्दोषकः सृतिविहीन उदारपूर्णसंविद्गुणः प्रथमकृत् सकलात्मशक्तिः। मोक्षैकहेतुरसुरूपसुरैश्‍च मुक्तैर्वन्द्यः स एक इति चोक्तमथोत्तरार्धे॥ २/६०॥
नम्यत्वमुक्तमुभयत्र यतस्ततोऽस्य मुक्तैरमुक्तकगणैश्‍च विनम्यतोक्ता। इत्थं हि सर्वगुणपूर्तिरमुष्य विष्णोः प्रस्ताविता प्रथमतः प्रतिजानतैव॥ २/६१॥
“कृष्णो यज्ञैरिज्यते सोमपूतैः कृष्णो वीरैरिज्यते विक्रमद्भिः। कृष्णो वन्यैरिज्यते सम्मृशानैः कृष्णो मुक्तैरिज्यते वीतमोहैः॥” २/६२॥
“सृष्टा ब्रह्मादयो देवा निहता येन दानवाः। तस्मै देवाधिदेवाय नमस्ते शार्ङ्गधारिणे॥” २/६३॥
स्रष्टृत्वं देवानां मुक्तिस्रष्टृत्वमुच्यते नान्यत्। उत्पत्तिर्दैत्यानामपि यस्मात् सम्मिता विशेषोऽयम्॥ २/६४॥
अथ च दैत्यहतिस्तमसि स्थिरा नियतसंस्थितिरेव नचान्यथा। तनुविभागकृतिः सकलेष्वियं नहि विशेषकृता सुरदैत्यगा॥ २/६५॥
तमिममेव सुरासुरसञ्चये हरिकृतं प्रविशेषमुदीक्षितुम्। प्रतिविभज्य च भीमसुयोधनौ स्वपरपक्षभिदा कथिता कथा॥ २/६६॥
“नमो भगवते तस्मै व्यासायामिततेजसे। यस्य प्रसादाद् वक्ष्यामि नारायणकथामिमाम्॥” २/६७॥
“वासुदेवस्तु भगवान् कीर्त्यतेऽत्र सनातनः। प्रतिबिम्बमिवादर्शे यं पश्यन्त्यात्मनि स्थितम्॥” २/६८॥
“नास्ति नारायणसमं न भूतं न भविष्यति। एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्॥” २/६९॥
आद्यन्तयोरित्यवदत् स यस्माद्‌ व्यासात्मको विष्णुरुदारशक्तिः। तस्मात् समस्ता हरिसद्गुणानां निर्णीयते भारतगा कथैषा॥ २/७०॥
अन्यत्रत्यभारतवाक्योद्धरणम्
विष्णूत्कर्षविचारः
“सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते। वेदशास्त्रात् परं नास्ति न दैवं केशवात् परम्॥” २/७१॥ हरिवंशे शेषधर्मप्रकरणे २/१५ (BORI)
“आलोड्य सर्वशास्त्राणि विचार्य च पुनःपुनः। इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा॥” २/७२॥
“स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित्। सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः॥” २/७३॥
“को हि तं वेदितुं शक्तो यो न स्यात् तद्विधोऽपरः। तद्विधश्‍चापरो नास्ति तस्मात् तं वेद स स्वयम्॥” २/७४॥
“को हि तं वेदितुं शक्तो नारायणमनामयम्। ऋते सत्यवतीसूनोः कृष्णाद् वा देवकीसुतात्॥” २/७५॥
“अप्रमेयोऽनियोज्यश्‍च स्वयं कामगमो वशी। मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव॥” २/७६॥
“न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः। परमात् परमेतस्माद् विश्‍वरूपान्न विद्यते॥” २/७७॥
“वसुदेवसुतो नायं नायं गर्भेऽवसत् प्रभुः। नायं दशरथाज्जातो नचापि जमदग्नितः॥ २/७८॥
जायते नैव कुत्रापि म्रियते कुत एव तु।
न वध्यो मुह्यते नायं बद्ध्यते नैव कुत्रचित्। कुतो दुःखं स्वतन्त्रस्य नित्यानन्दैकरूपिणः॥” २/७९॥
“ईशन्नपि हि देवेशः सर्वस्य जगतो हरिः। कर्माणि कुरुते नित्यं कीनाश इव दुर्बलः॥” २/८०॥
“नात्मानं वेद मुग्धोऽयं दुःखी सीतां च मार्गते। बद्धः शक्रजितेत्यादि लीलैषाऽसुरमोहिनी॥” २/८१॥
“मुह्यते शस्त्रपातेन भिन्नत्वग् रुधिरस्रवः। अजानन् पृच्छति स्मान्यांस्तनुं त्यक्त्वा दिवं गतः॥ २/८२॥
इत्याद्यसुरमोहाय दर्शयामास नाट्यवत्। अविद्यमानमेवेशः कुहकं तद् विदुः सुराः॥” २/८३॥
“प्रादुर्भावा हरेः सर्वे नैव प्राकृतदेहिनः। निर्दोषगुणसम्पूर्णा दर्शयन्त्यन्यथैव तु॥ २/८४॥
दुष्टानां मोहनार्थाय सतामपि च कुत्रचित्। यथायोग्यफलप्राप्त्यै लीलैषा परमात्मनः॥” २/८५॥
“ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥” २/८६॥ गीता ७/२
“अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा। मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय॥” २/८७॥ गीता ७/६-७
“अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्। परं भावमजानन्तो मम भूतमहेश्‍वरम्॥ २/८८॥ गीता ९/११-१३
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥ २/८९॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥” २/९०॥
“पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्‍च गुरुर्गरीयान्। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव॥” २/९१॥ गीता ११/४३
“परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्। यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥” २/९२॥ गीता १४/१
“मम योनिर्महद् ‌ब्रह्म तस्मिन् गर्भं दधाम्यहम्। सम्भवः सर्वभूतानां ततो भवति भारत॥” २/९३॥ गीता १४/३
“द्वाविमौ पुरुषौ लोके क्षरश्‍चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ २/९४॥ गीता १५/१६-२०
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्‍वरः॥ २/९५॥
यस्मात् क्षरमतीतोऽहमक्षरादपिचोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ २/९६॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद् भजति मां सर्वभावेन भारत॥ २/९७॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ। एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्‍च भारत॥” २/९८॥
“द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च। दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु॥” २/९९॥ गीता १६/६
“असत्यमप्रतिष्ठं ते जगदाहुरनीश्‍वरम्। अपरस्परसम्भूतं किमन्यत् कामहैतुकम्॥ २/१००॥ गीता १६/८-९
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥” २/१०१॥
“ईश्‍वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी। आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया॥” २/१०२॥ गीता १६/१४-१५
“मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः। तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु॥ २/१०३॥ गीता १६/१८-२०
आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥” २/१०४॥
“सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥” २/१०५॥ गीतायां १८/२०
“सर्वगुह्यतमं भूयः शृणु मे परमं वचः। इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥ २/१०६॥ गीतायां १८/६४-६५
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥” २/१०७॥
“पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्। सर्वेष्वेतेषु राजेन्द्र ज्ञानेष्वेतद् विशिष्यते॥ २/१०८॥
ज्ञानेष्वेतेषु राजेन्द्र साङ्ख्यपाशुपतादिषु। यथायोगं यथान्यायं निष्ठा नारायणः परः॥” २/१०९॥
“पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप। एकान्तभावोपगता वासुदेवं विशन्ति ते॥” २/११०॥
“जनमेजय उवाच- बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु। को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हति॥ २/१११॥ भारते १२/३६०/१-३
वैशम्पायन उवाच- नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह।
बहूनां पुरुषाणां हि यथैका योनिरुच्यते। तथा तं पुरुषं विश्‍वमाख्यास्यामि गुणाधिकम्॥” २/११२॥
आह ब्रह्मैतमेवार्थं महादेवाय पृच्छते। “तस्यैकस्य ममत्वं हि स चैकः पुरुषो विराट्॥” २/११३॥
“अहं ब्रह्मा चाद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः। मत्तो जगत् स्थावरं जङ्गमं च सर्वे वेदाः सरहस्याश्‍च पुत्र॥” २/११४॥
तथैव भीमवचनं धर्मजं प्रत्युदीरितम्। “ब्रह्मेशानादिभिर्देवैः समेतैर्यद्गुणांशकः॥ २/११५॥
नावसाययितुं शक्यो व्याचक्षाणैश्‍च सर्वदा। स एष भगवान् कृष्णो नैव केवलमानुषः॥ २/११६॥
यस्य प्रसादजो ब्रह्मा रुद्रश्‍च क्रोधसम्भवः॥” वचनं चैव कृष्णस्य ज्येष्ठं कुन्तीसुतं प्रति॥ २/११७॥
“रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः। ब्रह्मा मामाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः॥ २/११८॥
यथाऽऽश्रितानि ज्योतींषि ज्योतिःश्रेष्ठं दिवाकरम्। एवं मुक्तगणाः सर्वे वासुदेवमुपाश्रिताः॥” २/११९॥
भविष्यत्पर्वगं चापि वचो व्यासस्य सादरम्। “वासुदेवस्य महिमा भारते निर्णयोदितः॥ २/१२०॥
तदर्थास्तु कथाः सर्वा नान्यार्थं वैष्णवं यशः। तत्प्रतीपं तु यद् दृश्येन्न तन्मम मनीषितम्॥ २/१२१॥
भाषास्तु त्रिविधास्तत्र मया वै सम्प्रदर्शिताः। उक्तो यो महिमा विष्णोः स तूक्तो हि समाधिना॥ २/१२२॥
शैवदर्शनमालम्ब्य क्वचिच्छैवी कथोदिता। समाधिभाषयोक्तं यत् तत् सर्वं ग्राह्यमेव हि॥ २/१२३॥
अविरुद्धं समाधेस्तु दर्शनोक्तं च गृह्यते। आद्यन्तयोर्विरुद्धं यद् दर्शनं तदुदाहृतम्॥ २/१२४॥
दर्शनान्तरसिद्धं च गुह्यभाषाऽन्यथा भवेत्। तस्माद् विष्णोर्हि महिमा भारतोक्ता यथार्थतः॥ २/१२५॥
तस्याङ्गं प्रथमं वायुः प्रादुर्भावत्रयान्वितः। प्रथमो हनुमान् नाम द्वितीयो भीम एव च॥ २/१२६॥
पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकः। त्रेताद्येषु युगेष्वेव सम्भूतः केशवाज्ञया॥ २/१२७॥
एकैकशस्त्रिषु पृथग् द्वितीयाङ्गं सरस्वती। शंरूपे तु रतेर्वायौ श्रीरित्येव च कीर्त्यते॥ २/१२८॥
सैव च द्रौपदी नाम काली चन्द्रेति चोच्यते। तृतीयाङ्गं हरेः शेषः प्रादुर्भावसमन्वितः॥ २/१२९॥
प्रादुर्भावा नरश्‍चैव लक्ष्मणो बल एव च। रुद्रात्मकत्वाच्छेषस्य शुको द्रौणिश्‍च तत्तनू॥ २/१३०॥
इन्द्रो नरांशसम्पत्त्या पार्थोऽपीषत् तदात्मकः। प्रद्युम्नाद्यास्ततो विष्णोरङ्गभूताः क्रमेण तु॥ २/१३१॥
चरितं वैष्णवानां तु विष्णूद्रेकाय कथ्यते।” तथा भागवतेऽप्युक्तं हनूमद्वचनं परम्॥ २/१३२॥
“मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः। कुतोऽस्य हि स्यू रमतः स्व आत्मन् सीताकृतानि व्यसनानीश्‍वरस्य॥ २/१३३॥
न वै स आत्माऽऽत्मवतामधीश्‍वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः। न स्त्रीकृतं कश्‍मलमश्‍नुवीत न लक्ष्मणं चापि जहाति कर्हिचित्॥ २/१३४॥
यत्पादपङ्कजपरागनिषेवकाणां दुःखानि सर्वाणि लयं प्रयान्ति। स ब्रह्मवन्द्यचरणो जनमोहनाय स्त्रीसङ्गिनामिति रतिं प्रथयंश्‍चचार॥” २/१३५॥
“क्वचिच्छिवं क्वचिदृषीन् क्वचिद् देवान् क्वचिन्नरान्। नमत्यर्चयति स्तौति वरानर्थयतेऽपिच॥ २/१३६॥
लिङ्गं प्रतिष्ठापयति वृणोत्यसुरतो वरान्। सर्वेश्‍वरः स्वतन्त्रोऽपि सर्वशक्तिश्‍च सर्वदा॥ २/१३७॥
सर्वज्ञोऽपि विमोहाय जनानां पुरुषोत्तमः।” तस्माद् यो महिमा विष्णोः सर्वशास्त्रोदितः स हि॥ २/१३८॥
नान्यदित्येष शास्त्राणां निर्णयः समुदाहृतः। भारतार्थस्त्रिधा प्रोक्तः स्वयं भगवतैव हि॥ २/१३९॥
“मन्वादि केचिद् ब्रुवते ह्यास्तीकादि तथा परे। तथोपरिचराद्यन्ये भारतं परिचक्षते॥” २/१४०॥
“सकृष्णान् पाण्डवान् गृह्य योऽयमर्थः प्रवर्तते। प्रातिलोम्यादिवैचित्र्यात् तमास्तीकं प्रचक्षते॥ २/१४१॥
धर्मो भक्त्यादिदशकः श्रुतादिः शीलवैनयौ। सब्रह्मकास्तु ते यत्र मन्वादिं तं विदुर्बुधाः॥ २/१४२॥
नारायणस्य नामानि सर्वाणि वचनानि तु। तत्सामर्थ्याभिधायीनि तमौपरिचरं विदुः॥ २/१४३॥
भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिः स्थितिः। योगः प्राणो बलं चैव वृकोदर इति स्मृतः॥ २/१४४॥
एतद्दशात्मको वायुस्तस्माद् भीमस्तदात्मकः। सर्वविद्या द्रौपदी तु यस्मात् सैव सरस्वती॥ २/१४५॥
अज्ञानादिस्वरूपस्तु कलिर्दुर्योधनः स्मृतः। विपरीतं तु यज्ज्ञानं दुःशासन इतीरितः॥ २/१४६॥
नास्तिक्यं शकुनिर्नाम सर्वदोषात्मकाः परे। धार्तराष्ट्रास्त्वहङ्कारो द्रौणी रुद्रात्मको यतः॥ २/१४७॥
द्रोणाद्या इन्द्रियाण्येव पापान्यन्ये तु सैनिकाः। पाण्डवेयास्तु पुण्यानि तेषां विष्णुर्नियामकः॥ २/१४८॥
एवमध्यात्मनिष्ठं हि भारतं सर्वमुच्यते। दुर्विज्ञेयमतः सर्वैर्भारतं तु सुरैरपि॥ २/१४९॥
स्वयं व्यासो हि तद् वेद ब्रह्मा वा तत्प्रसादतः। तथाऽपि विष्णुपरता भारते सारसङ्घ्रहः॥” २/१५०॥
इत्यादिव्यासवाक्यैस्तु विष्णूत्कर्षोऽवगम्यते।
वाय्वादिक्रमः
वायुविचारः
वाय्वादीनां क्रमश्‍चैव तद्वाक्यैरेव चिन्त्यते॥ २/१५१॥
“वायुर्हि ब्रह्मतामेति तस्माद् ब्रह्मैव स स्मृतः। न ब्रह्मसदृशः कश्‍चिच्छिवादिषु कथञ्चन॥” २/१५२॥
“ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषु योगे। बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्व च कश्‍चनैव॥” २/१५३॥
“बळित्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि। यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः॥ २/१५४॥
पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु। तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः॥ २/१५५॥
निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः। यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्‍वा मथायति॥ २/१५६॥
प्र यत् पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति। उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद् घृणा शुचिः॥ २/१५७॥
आदिन्मातॄराविशद् यास्वाशुचिरहिंस्यमान उर्विया वि वावृधे। अनु यत् पूर्वा अरुहत् सनाजुवो नि नव्यसीष्ववरासु धावते॥” २/१५८॥
“अश्‍वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः। ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठस्तु मारुतः॥ २/१५९॥
बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत्। बलं तस्य हरिः साक्षान्न हरेर्बलमन्यतः॥ २/१६०॥
वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः। अनावृत्तिर्देहिनां देहपाते तस्माद् वायुर्देवदेवो विशिष्टः॥ २/१६१॥
तत्त्वज्ञाने विष्णुभक्तौ धैर्ये स्थैर्ये पराक्रमे। वेगे च लाघवे चैव प्रलापस्य च वर्जने॥ २/१६२॥
भीमसेनसमो नास्ति सेनयोरुभयोरपि। पाण्डित्ये च पटुत्वे च शूरत्वे च बलेऽपिच॥” २/१६३॥
तथा युधिष्ठिरेणैव भीमं प्रति समीरितम्। “धर्मश्‍चार्थश्‍च कामश्‍च मोक्षश्‍चैव यशो ध्रुवम्॥ २/१६४॥
त्वय्यायत्तमिदं सर्वं सर्वलोकस्य भारत।” विराटपर्वगं चापि वचो दुर्योधनस्य हि॥ २/१६५॥
“वीराणां शस्त्रविदुषां कृतीनां तत्त्वनिर्णये। सत्त्वे बाहुबले धैर्ये प्राणे शारीरसम्भवे॥ २/१६६॥
साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे। चत्वारः प्राणिनां श्रेष्ठाः सम्पूर्णबलपौरुषाः॥ २/१६७॥
भीमश्‍च बलभद्रश्‍च मद्रराजश्‍च वीर्यवान्। चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुम॥ २/१६८॥
अन्योन्यानन्तरबलाः क्रमादेव प्रकीर्तिताः।” वचनं वासुदेवस्य तथोद्योगगतं परम्॥ २/१६९॥
“यत् किञ्चात्मनि कल्याणं सम्भावयसि पाण्डव। सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम्॥ २/१७०॥
यादृशे च कुले जातः सर्वराजाभिपूजिते। यादृशानि च कर्माणि भीम त्वमसि तादृशः॥” २/१७१॥
“अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः। धूरर्जुनेन वोढव्या वोढव्या इतरे जनाः॥” २/१७२॥
भारतीरुद्रेन्द्रविचारः
उक्तं पुराणे ब्रह्माण्डे ब्रह्मणा नारदाय च।
“यस्याः प्रसादात् परमं विदन्ति शेषः सुपर्णो गिरिशः सुरेन्द्रः। माता च येषां प्रथमैव भारती सा द्रौपदी नाम बभूव भूमौ॥ २/१७३॥
या मारुताद् गर्भमधत्त पूर्वं शेषं सुपर्णं गिरिशं सुरेन्द्रम्। चतुर्मुखाभांश्‍चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमौ॥” २/१७४॥
“यस्याधिको बले नास्ति भीमसेनमृते क्वचित्। न विज्ञाने नच ज्ञान एष रामः स लाङ्गली॥ २/१७५॥
यस्य न प्रतियोद्धाऽस्ति भीममेकमृते क्वचित्। अन्विष्यापि त्रिलोकेषु स एष मुसलायुधः॥” २/१७६॥
तथा युधिष्ठिरेणैव भीमाय समुदीरितम्। “अनुज्ञातो रौहिणेयात् त्वया चैवापराजितः॥ २/१७७॥
सर्वविद्यासु बीभत्सुः कृष्णेन च महात्मना। अन्वेष रौहिणेयं च त्वां च भीमापराजितम्॥ २/१७८॥
वीर्ये शौर्ये बले नान्यस्तृतीयः फल्गुनादृते।” तथैव द्रौपदीवाक्यं वासुदेवं प्रतीरितम्॥ २/१७९॥
“अधिज्यमपि यत् कर्तुं शक्यते नैव गाण्डिवम्। अन्यत्र भीमपार्थाभ्यां भवतश्‍च जनार्दन॥” २/१८०॥
तथैवान्यत्र वचनं कृष्णद्वैपायनेरितम्।
“द्वावेव पुरुषौ लोके वासुदेवादनन्तरौ। भीमस्तु प्रथमस्तत्र द्वितीयो द्रौणिरेव च॥ २/१८१॥
अक्षयाविषुधी दिव्ये ध्वजो वानरलक्षणः। गाण्डीवं धनुषां श्रेष्ठं तेन द्रौणेर्वरोऽर्जुनः॥” २/१८२॥
इत्याद्यनन्तवाक्यानि सन्त्येवार्थे विवक्षिते। कानिचिद् दर्शितान्यत्र दिङ्मात्रप्रतिपत्तये॥ २/१८३॥
तस्मादुक्तक्रमेणैव पुरुषोत्तमता हरेः। अनौपचारिकी सिद्धा ब्रह्मता च विनिर्णयात्॥ २/१८४॥
उपसंहारः
पूर्णप्रज्ञकृतेयं सङ्क्षेपादुद्धृतिः सुवाक्यानाम्। श्रीमद्भारतगानां विष्णोः पूर्णत्वनिर्णयायैव॥ २/१८५॥
स प्रीयतां परतमः परमादनन्तः सन्तारकः सततसंसृतिदुस्तरार्णात्। यत्पादपद्ममकरन्दजुषो हि पार्थाः स्वाराज्यमापुरुभयत्र सदा विनोदात्॥ २/१८६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये सुवाक्योद्धरणं नाम द्वितीयोऽध्यायः समाप्तः॥
तृतीयोऽध्यायः
मङ्गलाचरणम्
जयत्यजोऽखण्डगुणोरुमण्डलः सदोदितो ज्ञानमरीचिमाली। स्वभक्तहार्दोच्चतमोनिहन्ता व्यासावतारो हरिरात्मभास्करः॥ ३/१॥
जयत्यजोऽक्षीणसुखात्मबिम्बः स्वैश्‍वर्यकान्तिप्रततः सदोदितः। स्वभक्तसन्तापदुरिष्टहन्ता रामावतारो हरिरीशचन्द्रमाः॥ ३/२॥
जयत्यसङ्ख्योरुबलाम्बुपूरो गुणोच्चरत्नाकर आत्मवैभवः। सदा सदात्मज्ञनदीभिराप्यः कृष्णावतारो हरिरेकसागरः॥ ३/३॥
“नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरये॥” ३/४॥
“जयो नामेतिहासोऽयं कृष्णद्वैपायनेरितः। वायुर्नरोत्तमो नाम देवीति श्रीरुदीरिता॥ ३/५॥
नारायणो व्यास इति वाच्यवक्तृस्वरूपकः। एकः स भगवानुक्तः साधकेशो नरोत्तमः॥ ३/६॥
उपसाधको नरश्‍चोक्तो देवी भाग्यात्मिका नृणाम्। सरस्वती वाक्यरूपा तस्मान्नम्या हि तेऽखिलाः। कृष्णौ सत्या भीमपार्थौ कृष्णेत्युक्ता हि भारते॥” ३/७॥
चिकीर्षितप्रतिज्ञा
सर्वस्य निर्णयसुवाक्यसमुद्धृती तु स्वध्याययोर्हरिपदस्मरणेन कृत्वा। आनन्दतीर्थवरनामवती तृतीया भैमी तनुर्मरुत आह कथाः परस्य॥ ३/९॥
सर्गलयानुसर्गादि
व्यूढश्‍चतुर्धा भगवान् स एको मायां श्रियं सृष्टिविधित्सयाऽऽर। रूपेण पूर्वेण स वासुदेवनाम्ना विरिञ्चं सुषुवे च साऽतः॥ ३/१०॥
सङ्कर्षणाच्चापि जयातनूजो बभूव साक्षाद् बलसंविदात्मा। वायुर्य एवाथ विरिञ्चनामा भविष्य आद्यो न परस्ततो हि॥ ३/११॥
सूत्रं स वायुः पुरुषो विरिञ्चः प्रद्युम्नतश्‍चाथ कृतौ स्त्रियौ द्वे। प्रजज्ञतुर्यमले तत्र पूर्वा प्रधानसञ्ज्ञा प्रकृतिर्जनित्री॥ ३/१२॥
श्रद्धा द्वितीयाऽथ तयोस्तु योगो बभूव पुंसैव च सूत्रनाम्ना। हरेर्नियोगादथ सम्प्रसूतौ शेषः सुपर्णश्‍च तयोः सहैव॥ ३/१३॥
शेषस्तयोरेव हि जीवनामा कालात्मकः सोऽथ सुपर्ण आसीत्। तौ वाहनं शयनं चैव विष्णोः काला जयाद्याश्‍च ततः प्रसूताः॥ ३/१४॥
काला जयाद्या अपि विष्णुपार्षदा यस्मादण्डात् परतः सम्प्रसूताः। नीचाः सुरेभ्यस्तत एव तेऽखिला विष्वक्सेनो वायुजः खेन तुल्यः॥ ३/१५॥
व्यूहात् तृतीयात् पुनरेव विष्णोः देवांश्‍चतुर्वर्णगतान् समस्तान्। सङ्गृह्य बीजात्मतयाऽनिरुद्धो न्यधत्त शान्त्यां त्रिगुणात्मिकायाम्॥ ३/१६॥
ततो महत्तत्त्वतनुर्विरिञ्चः स्थूलात्मनैवाजनि वाक् च देवी। तस्यामहङ्कारतनुं स रुद्रं ससर्ज बुद्धिं च तदर्धदेहाम्॥ ३/१७॥
बुद्ध्यामुमायां स शिवस्त्रिरूपो मनश्‍च वैकारिकदेवसङ्घान्। दशेन्द्रियाण्येव च तैजसानि क्रमेण खादीन् विषयैश्‍च सार्धम्॥ ३/१८॥
पुंसः प्रकृत्यां च पुनर्विरिञ्चाच्छिवोऽथ तस्मादखिलाः सुरेशाः। जाताः सशक्राः पुनरेव सूत्राच्छ्रद्धा सुतानाप सुरप्रवीरान्॥ ३/१९॥
शेषं शिवं चेन्द्रमथेन्द्रतश्‍च सर्वे सुरा यज्ञगणाश्‍च जाताः। पुनश्‍च माया त्रिविधा बभूव सत्त्वादिरूपैरथ वासुदेवात्॥ ३/२०॥
सत्त्वात्मिकायां स बभूव तस्मात् स विष्णुनामैव निरन्तरोऽपि। रजस्तनौ चैव विरिञ्च आसीत् तमस्तनौ शर्व इति त्रयोऽस्मात्॥ ३/२१॥
एते हि देवाः पुनरण्डसृष्टावशक्नुवन्तो हरिमेत्य तुष्टुवुः। त्वन्नो जगच्चित्रविचित्रसर्गनिःसीमशक्तिः कुरु सन्निकेतनम्॥ ३/२२॥
इति स्तुतस्तैः पुरुषोत्तमोऽसौ स विष्णुनामा श्रियमाप सृष्टये। सुषाव सैवाण्डमधोक्षजस्य शुष्मं हिरण्यात्मकमम्बुमध्ये॥ ३/२३॥
तस्मिन् प्रविष्टा हरिणैव सार्धं सर्वे सुरास्तस्य बभूव नाभेः। लोकात्मकं पद्मममुष्य मध्ये पुनर्विरिञ्चोऽजनि सद्गुणात्मा॥ ३/२४॥
तस्मात् पुनः सर्वसुराः प्रसूतास्ते जानमाना अपि निर्णयाय। निःसृत्य कायादुत पद्मयोनेः सम्प्राविशन् क्रमशो मारुतान्ताः॥ ३/२५॥
पपात वायोर्गमनाच्छरीरं तस्यैव चावेशत उत्थितं पुनः। तस्मात् स एको विबुधप्रधान इत्याश्रिता देवगणास्तमेव॥ ३/२६॥
हरेर्विरिञ्चस्य च मध्यसंस्थितेस्तदन्यदेवाधिपतिः स मारुतः। ततो विरिञ्चो भुवनानि सप्त ससप्तकान्याशु चकार सोऽब्जात्॥ ३/२७॥
तस्माच्च देवा ऋषयः पुनश्‍च वैकारिकाद्याः सशिवा बभूवुः। अग्रे शिवोऽहंभव एव बुद्धेरुमा मनोजौ सहशक्रकामौ॥ ३/२८॥
गुरुर्मनुर्दक्ष उतानिरुद्धः सहैव शच्या मनसः प्रसूताः। चक्षुः श्रुतिभ्यां स्पर्शात् सहैव रविः शशी धर्म इमे प्रसूताः॥ ३/२९॥
जिह्वाभवो वारिपतिर्नसोश्‍च नासत्यदस्रौ क्रमशः प्रसूताः। ततः सनाद्याश्‍च मरीचिमुख्या देवाश्‍च सर्वे क्रमशः प्रसूताः॥ ३/३०॥
ततोऽसुराद्या ऋषयो मनुष्या जगद् विचित्रं च विरिञ्चतोऽभूत्। उक्तक्रमात् पूर्वभवस्तु योयः श्रेष्ठः सस ह्यासुराकानृते च॥ ३/३१॥
पूर्वश्‍च पश्‍चात् पुनरेव जातो नाश्रेष्ठतामेति कथञ्चिदस्य। गुणास्तु कालात् पितृमातृदोषात् स्वकर्मतो वाभिभवं प्रयान्ति॥ ३/३२॥
लयो भवेद् व्युत्क्रमतो हि तेषां ततो हरिः प्रलये श्रीसहायः। शेते निजानन्दममन्दसान्द्रसन्दोहमेकोऽनुभवन्ननन्तः॥ ३/३३॥
अनन्तशीर्षास्यकरोरुपादः सोऽनन्तमूर्तिः स्वगुणाननन्तान्। अनन्तशक्तिः परिपूर्णभोगो भुञ्जन्नजस्रं निजरूप आस्ते॥ ३/३४॥
एवं पुनः सृजते सर्वमेतदनाद्यनन्तो हि जगत्प्रवाहः। नित्या हि जीवाः प्रकृतिश्‍च नित्या कालश्‍च नित्यः किमु देवदेवः॥ ३/३५॥
यथा समुद्रात् सरितः प्रजाताः पुनस्तमेव प्रविशन्ति शश्‍वत्। एवं हरेर्नित्यजगत्प्रवाहस्तमेव चासौ प्रविशत्यजस्रम्॥ ३/३६॥
एवं विदुर्ये परमामनन्तामजस्य शक्तिं पुरुषोत्तमस्य। तस्य प्रसादादथ दग्धदोषास्तमाप्नुवन्त्याशु परं सुरेशम्॥ ३/३७॥
देवानिमान् मुक्तसमस्तदोषान् स्वसन्निधाने विनिवेश्य देवः। पुनस्तदन्यानधिकारयोग्यांस्तत्तद्गणानेव पदे नियुङ्क्ते॥ ३/३८॥
पुनश्‍च मारीचत एव देवा जाता अदित्यामसुराश्‍च दित्याम्। गावो मृगाः पक्ष्युरगादिसत्वा दाक्षायणीष्वेव समस्तशोऽपि॥ ३/३९॥
हरेः प्रादुर्भावाः
वराहावतारः
ततः स मग्नामलयो लयोदधौ महीं विलोक्याशु हरिर्वराहः। भूत्वा विरिञ्चार्थमिमां सशैलामुद्धृत्य वारामुपरि न्यधात् स्थिरम्॥ ३/४०॥
अथाब्जनाभप्रतिहारपालौ शापात् त्रिशो भूमितले प्रजातौ। दित्यां हिरण्यावथ राक्षसौ च पैतृष्वसेयौ च हरेः परस्तात्॥ ३/४१॥
ततो हिरण्याक्ष उदारविक्रमो दितेः सुतो योऽवरजः सुरार्थे। धात्राऽर्थितेनैव वराहरूपिणा धरोद्धृतौ पूर्वहतोऽब्जजोद्भवः॥ ३/४२॥
मत्स्यावतारः
अथो विधातुर्मुखतो विनिःसृतान् वेदान् हयास्यो जगृहेऽसुरेन्द्रः। निहत्य तं मत्स्यवपुर्जुगोप मनुं मुनींस्तांश्‍च ददौ विधातुः॥ ३/४३॥
मन्वन्तरप्रलये मत्स्यरूपो विद्यामदान्मनवे देवदेवः। वैवस्वतायोत्तमसंविदात्मा विष्णोः स्वरूपप्रतिपत्तिरूपाम्॥ ३/४४॥
नृसिंहावतारः
अथो दितेर्ज्येष्ठसुतेन शश्‍वत् प्रपीडिता ब्रह्मवरात् सुरेशाः। हरिं विरिञ्चेन सहोपजग्मुर्दौरात्म्यमस्यापि शशंसुरस्मै॥ ३/४५॥
अभिष्टुतस्तैर्हरिरुग्रवीर्यो नृसिंहरूपेण स आविरासीत्। हत्वा हिरण्यं च सुताय तस्य दत्त्वाऽभयं देवगणानतोषयत्॥ ३/४६॥
कूर्मावतारः
सुरासुराणामुदधिं विमथ्नतां दधार पृष्ठेन गिरिं स मन्दरम्। वरप्रदानादपरैरधार्यं हरस्य कूर्मो बृहदण्डवोढा॥ ३/४७॥
वामनावतारः
वरादजेयत्वमवाप दैत्यराट् चतुर्मुखस्यैव बलिर्यदा तदा। अजायतेन्द्रावरजोऽदितेः सुतो महानजोऽप्यब्जभवादिसंस्तुतः॥ ३/४८॥
स वामनात्माऽसुरभूभृतोऽध्वरं जगाम गां सन्नमयन् पदेपदे। जहार चास्माच्छलतस्त्रिविष्टपं त्रिभिः क्रमैस्तच्च ददौ निजाग्रजे॥ ३/४९॥
पितामहेनास्य पुराऽभियाचितो बलेः कृते केशव आह यद् वचः। नायाच्ञयाऽहं प्रतिहन्मि तं बलिं शुभाननेत्येव ततोऽभ्ययाचत॥ ३/५०॥
परशुरामावतारः
बभूविरे चन्द्रललामतो वरात् पुरा ह्यजेया असुरा धरातले। तैरर्दिता वासवनायकाः सुराः पुरो निधायाब्जजमस्तुवन् हरिम्॥ ३/५१॥
विरिञ्चसृष्टैर्नितरामवध्यौ वराद् विधातुर्दितिजौ हिरण्यकौ। तथा हयग्रीव उदारविक्रमस्त्वया हता ब्रह्मपुरातनेन॥ ३/५२॥
स चासुरान् रुद्रवरादवध्यानिमान् समस्तैरपि देवदेव। निःसीमशक्त्यैव निहत्य सर्वान् हृदम्बुजे नो निवसाथ शश्‍वत्॥ ३/५३॥
इत्यादरोक्तस्त्रिदशैरजेयः स शार्ङ्गधन्वाऽथ भृगूद्वहोऽभूत्। रामो निहत्यासुरपूगमुग्रं ह्रदाननादिर्विदधेऽसृजैव॥ ३/५४॥
रामकथोपक्रमः
दैत्यबाधः
ततः पुलस्त्यस्य कुले प्रसूतौ तावादिदैत्यौ जगदेकशत्रू। परैरवध्यौ वरतः पुरा हरेः सुरैरजेयौ च वराद् विधातुः॥ ३/५५॥
सर्वैरजेयः स च कुम्भकर्णः पुरातने जन्मनि धातुरेव। वरान् नरादीनृत एव रावणस्तदातनात् तौ त्रिदशानबाधताम्॥ ३/५६॥
देवताप्रार्थना
तदाऽब्जजं शूलिनमेव चाग्रतो निधाय देवाः पुरुहूतपूर्वकाः। पयोम्बुधौ भोगिपभोगशायिनं समेत्य योग्यां स्तुतिमभ्ययोजयन्॥ ३/५७॥
भगवत्स्तवः
त्वमेक ईशः परमः स्वतन्त्रस्त्वमादिरन्तो जगतां नियोक्ता। त्वदाज्ञयैवाखिलमम्बुजोद्भवा वितेनिरेऽग्र्याश्‍चरमाश्‍च येऽन्ये॥ ३/५८॥
ब्रह्ममानम्
मनुष्यमानात् त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम्। द्विषट्सहस्रैरपि तैश्‍चतुर्युगं त्रेतादिभिः पादश एव हीनैः॥ ३/५९॥
सहस्रवृत्तं तदहः स्वयम्भुवो निशा च तन्मानमितं शरच्छतम्। त्वदाज्ञया स्वाननुभूय भोगानुपैति सोऽपि त्वरितस्त्वदन्तिकम्॥ ३/६०॥
हयग्रीवप्रादुर्भावः
त्वया पुरा कर्णपुटाद् विनिर्मितौ महासुरौ तौ मधुकैटभाख्यौ। प्रभञ्जनावेशवशात् त्वदाज्ञया बलोद्धतावाशु जलेऽभ्यवर्धताम्॥ ३/६१॥
त्वदाज्ञया ब्रह्मवरादवध्यौ चिक्रीडिषासम्भवया मुखोद्गतान्। स्वयम्भुवो वेदगणानहार्षतां तदाऽभवस्त्वं हयशीर्ष ईश्‍वरः॥ ३/६२॥
आहृत्य वेदानखिलान् प्रदाय स्वयम्भुवे तौ च जघन्थ दस्यू। निष्पीड्य तावूरुतले कराभ्यां तन्मेदसैवाशु चकर्थ मेदिनीम्॥ ३/६३॥
प्रकृतप्रार्थना
एवं सुराणां च निसर्गजं बलं तथाऽसुराणां वरदानसम्भवम्। वशे तवैतद् द्वयमप्यतो वयं निवेदयामः पितुरेव तेऽखिलम्॥ ३/६४॥
इमौ च रक्षोऽधिपती वरोद्धतौ जहि स्ववीर्येण नृषु प्रजातः।
रामप्रादुर्भावः
इतीरिते तैरखिलैः सुरेश्‍वरैर्बभूव रामो जगतीपतिः प्रभुः॥ ३/६५॥
स कश्यपस्यादितिगर्भजन्मनो विवस्वतस्तन्तुभवस्य भूभृतः। गृहे दशस्यन्दननामिनोऽभूत् कौसल्यकानाम्नि तदर्थिनेष्टः॥ ३/६६॥
देवतादिप्रादुर्भावाः
तदाज्ञया देवगणा बभूविरे पुरैव पश्‍चादपि तस्य भूम्नः। निषेवणायोरुगुणस्य वानरेष्वथो नरेष्वेव च पश्‍चिमोद्भवाः॥ ३/६७॥
स देवतानां प्रथमो गुणाधिको बभूव नाम्ना हनुमान् प्रभञ्जनः। स्वसम्भवः केसरिणो गृहे प्रभुर्बभूव वाली स्वत एव वासवः॥ ३/६८॥
सुग्रीव आसीत् परमेष्ठितेजसा युतो रविः स्वात्मत एव जाम्बवान्। य एव पूर्वं परमेष्ठिवक्षसस्त्वगुद्भवो धर्म इहास्यतोऽभवत्॥ ३/६९॥
य एव सूर्यात् पुनरेव सञ्ज्ञया नाम्ना यमो दक्षिणदिक्प आसीत्। स जाम्बवान् दैवतकार्यदर्शिना पुरैव सृष्टो मुखतः स्वयम्भुवा॥ ३/७०॥
ब्रह्मोद्भवः सोम उतास्य सूनोरत्रेरभूत् सोऽङ्गद एव जातः। बृहस्पतिस्तार उतो शची च शक्रस्य भार्यैव बभूव तारा॥ ३/७१॥
बृहस्पतिर्ब्रह्मसुतोऽपि पूर्वं सहैव शच्या मनसोऽभिजातः। ब्रह्मोद्भवस्याङ्गिरसः सुतोऽभून्मारीचजस्यैव शची पुलोम्नः॥ ३/७२॥
स एव शच्या सह वानरोऽभूत् स्वयम्भुवो देवगुरुर्बृहस्पतिः। अभूत् सुषेणो वरुणोऽश्‍विनौ च बभूवतुस्तौ विविदश्‍च मैन्दः॥ ३/७३॥
ब्रह्मोद्भवौ तौ पुनरेव सूर्याद् बभूवतुस्तत्र कनीयसस्तु। आवेश ऐन्द्रो वरदानतोऽभूत् ततो बलीयान् विविदो हि मैन्दात्॥ ३/७४॥
नीलोऽग्निरासीत् कमलोद्भवोत्थः कामः पुनः श्रीरमणाद् रमायाम्। प्रद्युम्ननामाऽभवदेवमीशात् स स्कन्दतामाप स चक्रतां च॥ ३/७५॥
पूर्वं हरेश्‍चक्रमभूद्धि दुर्गा तमःस्थिता श्रीरिति यां वदन्ति। सत्त्वात्मिका शङ्खमथो रजःस्था भूर्नामिका पद्ममभूद्धरेर्हि॥ ३/७६॥
गदा तु वायुर्बलसंविदात्मा शार्ङ्गं च विद्येति रमैव खड्गः। दुर्गात्मिका सैव च चर्मनाम्नी पञ्चात्मको मारुत एव बाणः॥ ३/७७॥
एवं स्थितेष्वेव पुरातनेषु वराद् रथाङ्गत्वमवाप कामः। तत्सूनुतामाप च सोऽनिरुद्धो ब्रह्मोद्भवः शङ्खतनुः पुमात्मा॥ ३/७८॥
तावेव जातौ भरतश्‍च नाम्ना शत्रुघ्न इत्येष च रामतोऽनु। पूर्वं सुमित्रातनयश्‍च शेषः स लक्ष्मणो नाम रघूत्तमादनु॥ ३/७९॥
कौसल्यकापुत्र उरुक्रमोऽसावेकस्तथैको भरतस्य मातुः। उभौ सुमित्रातनयौ नृपस्य चत्वार एते ह्यमरोत्तमाः सुताः॥ ३/८०॥
सङ्कर्षणाद्यैस्त्रिभिरेव रूपैराविष्ट आसीत् त्रिषु तेषु विष्णुः। इन्द्रोऽङ्गदे चैव ततोऽङ्गदो हि बली नितान्तं स बभूव शश्‍वत्॥ ३/८१॥
येऽन्ये च भूपाः कृतवीर्यजाद्या बलाधिकाः सन्ति सहस्रशोऽपि। सर्वे हरेः सन्निधिभावयुक्ता धर्मप्रधानाश्‍च गुणप्रधानाः॥ ३/८२॥
स्वयं रमा सीरत एव जाता सीतेति रामार्थमनूपमा या। विदेहराजस्य हि यज्ञभूमौ सुतेति तस्यैव ततस्तु साऽभूत्॥ ३/८३॥
उपसंहारः
इत्यादिकल्पोत्थित एष सर्गो मया समस्तागमनिर्णयेन। सहानुसर्गः कथितोऽत्र पूर्वो योयो गुणैर्नित्यमसौ वरो हि॥ ३/८४॥
पाश्‍चात्यकल्पेष्वपि सर्गभेदाः श्रुतौ पुराणेष्वपिचान्यथोक्ताः। नोत्कर्षहेतुः प्रथमत्वमेषु विशेषवाक्यैरवगम्यते तत्॥ ३/८५॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये सर्गानुसर्गप्रादुर्भावनिर्णयो नाम तृतीयोऽध्यायः समाप्तः॥
चतुर्थोऽध्यायः
बाललीलाः
अथाभ्यवर्धंश्‍चतुराः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः। नित्यप्रवृद्धस्य च तस्य वृद्धिरपेक्ष्य लोकस्य हि मन्ददृष्टिम्॥ ४/१॥
निरीक्ष्य नित्यं चतुरः कुमारान् पिता मुदं सन्ततमाप चोच्चम्। विशेषतो राममुखेन्दुबिम्बमवेक्ष्य राजा कृतकृत्य आसीत्॥ ४/२॥
तन्मातरः पौरजना अमात्या अन्तःपुरा वैषयिकाश्‍च सर्वे। अवेक्षमाणाः परमं पुमांसं स्वानन्दतृप्ता इव सम्बभूवुः॥ ४/३॥
विश्वामित्रयज्ञरक्षणम्
ततः सुवंशे शशिनः प्रसूतो गाधीति शक्रस्तनुजोऽस्य चासीत्। वरेण विप्रत्वमवाप योऽसौ विश्‍वस्य मित्रं स इहाजगाम॥ ४/४॥
तेनार्थितो यज्ञरिरक्षयैव कृच्छ्रेण पित्राऽस्य भयाद् विसृष्टः। जगाम रामः सह लक्ष्मणेन सिद्धाश्रमं सिद्धजनाभिवन्द्यः॥ ४/५॥
अनुग्रहार्थं स ऋषेरवाप सलक्ष्मणोऽस्त्रं मुनितो हि केवलम्। ववन्दिरे ब्रह्ममुखाः सुरेशास्तमस्त्ररूपाः प्रकटाः समेत्य॥ ४/६॥
अथो जघानाशु शरेण ताटकां वराद् विधातुस्तदनन्यवध्याम्। ररक्ष यज्ञं च मुनेर्निहत्य सुबाहुमीशानगिरा विमृत्युम्॥ ४/७॥
शरेण मारीचमथार्णवेऽक्षिपत् वचो विरिञ्चस्य तु मानयानः। अवध्यता तेन हि तस्य दत्ता जघान चान्यान् रजनीचरानथ॥ ४/८॥
तदा विदेहेन सुतास्वयंवरो विघोषितो दिक्षु विदिक्षु सर्वशः। निधार्य तद् गाधिसुतानुयायी ययौ विदेहाननुजानुयातः॥ ४/९॥
अहल्योद्धरणम्
अथो अहल्यां पतिनाऽभिशप्तां प्रधर्षणादिन्द्रकृताच्छिलीकृताम्। स्वदर्शनान्मानुषतामुपेतां सुयोजयामास स गौतमेन॥ ४/१०॥
बलं स्वभक्तेरधिकं प्रकाशयन्ननुग्रहं च त्रिदशेष्वतुल्यम्। अनन्यभक्तां च सुरेशकाङ्क्षया विधाय नारीं प्रययौ तयाऽर्चितः॥ ४/११॥
विदेहप्रवेशः
श्यामावदाते जगदेकसारे स्वनन्तचन्द्राधिककान्तिकान्ते। सहानुजे कार्मुकबाणपाणौ पुरीं प्रविष्टे तुतुषुर्विदेहजाः॥ ४/१२॥
पपुर्नितान्तं सरसाक्षिभृङ्गैर्वराननाब्जं पुरुषोत्तमस्य। विदेहनारीनरवर्यसङ्घा यथा महापौरुषिकास्तदङ्घ्रिम्॥ ४/१३॥
तदा विदेहः प्रतिलभ्य रामं सहस्रनेत्रावरजं गविष्ठम्। समर्चयामास सहानुजं तमृषिं च साक्षाज्ज्वलनप्रकाशम्॥ ४/१४॥
मेने च जामातरमात्मकन्यागुणोचितं रूपनवावतारम्। उवाच चास्मा ऋषिरुग्रतेजाः कुरुष्व जामातरमेनमाश्‍विति॥ ४/१५॥
शिवधनुर्भङ्गः
स आह चैनं परमं वचस्ते करोमि नात्रास्ति विचारणा मे। शृणुष्व मेऽथापि यथा प्रतिज्ञा सुताप्रदानाय कृता पुरस्तात्॥ ४/१६॥
तपो मया चीर्णमुमापतेः पुरा वरायुधावाप्तिधृतेन चेतसा। स मे ददौ दिव्यमिदं धनुस्तदा कथञ्चनाचाल्यमृते पिनाकिनम्॥ ४/१७॥
न देवदैत्योरगदेवगायका अलं धनुश्‍चालयितुं सवासवाः। कुतो नरास्तद्वरतो हि किङ्कराः सहानसैवात्र कृषन्ति कृच्छ्रतः॥ ४/१८॥
अधार्यमेतद् धनुराप्य शङ्करादहं नृणां वीर्यपरीक्षणे धृतः। सुतार्थमेतां चकर प्रतिज्ञां ददामि कन्यां य इदं हि पूरयेत्॥ ४/१९॥
इतीरितां मे गिरमभ्यवेत्य दितेः सुता दानवयक्षराक्षसाः। समेत्य भूपाश्‍च समीपमाशु प्रगृह्य तच्चालयितुं न शेकुः॥ ४/२०॥
संस्विन्नगात्राः परिवृत्तनेत्रा दशाननाद्याः पतिता विमूर्च्छिताः। तथाऽपि मां धर्षयितुं न शेकुः सुताकृते ते वचनात् स्वयम्भुवः॥ ४/२१॥
पुरा हि मेऽदात् प्रभुरब्जजो वरं प्रसादितो मे तपसा कथञ्चन। बलान्न ते कश्‍चिदुपैति कन्यकां तदिच्छुभिस्ते नच धर्षणेति॥ ४/२२॥
ततस्तु ते नष्टमदा इतो गताः समस्तशो ह्यस्तन एव पार्थिवाः। ततो ममायं परिपूर्य मानसं वृणोतु कन्यामयमेव मेऽर्थितः॥ ४/२३॥
तथेति चोक्तो मुनिना स किङ्करैरनन्तभोगोपममाश्‍वथानयत्। समीक्ष्य तद् वामकरेण राघवः सलीलमुद्धृत्य हसन्नपूरयत्॥ ४/२४॥
विकृष्यमाणं तदनन्तराधसा परेण निःसीमबलेन लीलया। अभज्यतासह्यममुष्य तद् बलं प्रसोढुमीशं कुत एव तद् भवेत्॥ ४/२५॥
स मध्यतस्तत् प्रविभज्य लीलया यथेक्षुदण्डं शतमन्युकुञ्जरः। विलोकयन् वक्त्रमृषेरवस्थितः सलक्ष्मणः पूर्णतनुर्यथा शशी॥ ४/२६॥
तमब्जनेत्रं पृथुतुङ्गवक्षसं श्यामावदातं चलकुण्डलोज्ज्वलम्। शशक्षतोत्थोपमचन्दनोक्षितं ददर्श विद्युद्वसनं नृपात्मजा॥ ४/२७॥
सीतारामकल्याणमहोत्सवः
अथो कराभ्यां प्रतिगृह्य मालामम्लानपद्मां जलजायताक्षी। उपेत्य मन्दं ललितैः पदैस्तां तदंस आसज्य च पार्श्‍वतोऽभवत्॥ ४/२८॥
ततः प्रमोदो नितरां जनानां विदेहपुर्यामभवत् समन्तात्। रामं समालोक्य नरेन्द्रपुत्र्या समेतमानन्दनिधिं परेशम्॥ ४/२९॥
लक्ष्म्या समेते प्रकटं रमेशे सम्प्रेषयामास तदाऽऽशु पित्रे। विदेहराजो दशदिग्रथाय स तं निशम्याशु तुतोष भूमिपः॥ ४/३०॥
अथात्मजाभ्यां सहितः सभार्यो ययौ गजस्यन्दनपत्तियुक्तया। स्वसेनयाऽग्रे प्रणिधाय धातृजं वसिष्ठमाश्‍वेव स यत्र मैथिलः॥ ४/३१॥
स मैथिलेनातितरां समर्चितो विवाहयामास सुतं मुदम्भरः। पुरोहितो गाधिसुतानुमोदितो जुहाव वह्निं विधिना वसिष्ठः॥ ४/३२॥
तदा विमानावलिभिर्नभःस्थलं दिदृक्षतां सङ्कुलमास नाकिनाम्। सुरानका दुन्दुभयो विनेदिरे जगुश्‍च गन्धर्ववराः सहस्रशः॥ ४/३३॥
विजानमाना जगतां हि मातरं पुराऽर्थितुं नाययुरत्र देवताः। तदा तु रामं रमया युतं प्रभुं दिदृक्षवश्‍चक्रुरलं नभःस्थलम्॥ ४/३४॥
यथा पुरा सागरजास्वयंवरे सुमानसानामभवत् समागमः। तथा ह्यभूत् सर्वदिवौकसां तदा तथा मुनीनां सहभूभृतां भुवि॥ ४/३५॥
प्रगृह्य पाणिं च नृपात्मजाया रराज राजीवसमाननेत्रः। यथा पुरा सागरजासमेतः सुरासुराणाममृताब्धिमन्थने॥ ४/३६॥
स्वलङ्कृतास्तत्र विचेरुरङ्गना विदेहराजस्य हि याश्च योषितः। मुदा समेतं रमया रमापतिं विलोक्य रामाय ददौ धनं नृपः॥ ४/३७॥
प्रियाणि वस्त्राणि रथान् सकुञ्जरान् परार्घ्यरत्नान्यखिलस्य चेशितुः। ददौ च कन्यात्रयमुत्तमं मुदा तदा स रामावरजेभ्य एव॥ ४/३८॥
महोत्सवं तं त्वनुभूय देवता नराश्‍च सर्वे प्रययुर्यथागतम्। पिता च रामस्य सुतैः समन्वितो ययावयोध्यां स्वपुरीं मुदा ततः॥ ४/३९॥
राघवभार्गवसमागमः
तदन्तरे सोऽथ ददर्श भार्गवं सहस्रलक्षामितभानुदीधितिम्। विभासमानं निजरश्मिमण्डले धनुर्धरं दीप्तपरश्‍वधायुधम्॥ ४/४०॥
अजानतां राघवमादिपूरुषं समागतं ज्ञापयितुं निदर्शनैः। समाह्वयन्तं रघुपं स्पृधेव नृपो ययाचे प्रणिपत्य भीतः॥ ४/४१॥
न मे सुतं हन्तुमिहार्हसि प्रभो वयोगतस्येत्युदितः स भार्गवः। सुतत्रयं ते प्रददामि राघवं रणे स्थितं द्रष्टुमिहागतोऽस्म्यहम्॥ ४/४२॥
स इत्थमुक्त्वा नृपतिं रघूत्तमं भृगूत्तमः प्राह निजां तनुं हरिः। अभेदमज्ञेष्वपि दर्शयन् परं पुरातनोऽहं हरिरेष इत्यपि॥ ४/४३॥
शृणुष्व राम त्वमिहोदितं मया धनुर्द्वयं पूर्वमभून्महाद्भुतम्। उमापतिस्त्वेकमधारयत् ततो रमापतिश्‍चापरमुत्तमोत्तमम्॥ ४/४४॥
तदा तु लोकस्य निदर्शनार्थिभिः समर्थितौ तौ हरिशङ्करौ सुरैः। रणे स्थितौ वां प्रसमीक्षितुं वयं समर्थयामोऽत्र निदर्शनार्थिनः॥ ४/४५॥
ततो हि युद्धाय रमेशशङ्करौ व्यवस्थितौ ते धनुषी प्रगृह्य। यतोऽन्तरस्यैष नियामको हरिस्ततो हरोऽग्रेऽस्य शिलोपमोऽभूत्॥ ४/४६॥
शशाक नैवाथ यदाऽभिवीक्षितुं प्रस्पन्दितुं वा कुत एव योद्धुम्। शिवस्तदा देवगणाः समस्तशः शशंसुरुच्चैर्जगतो हरेर्बलम्॥ ४/४७॥
यदीरणेनैव विनैष शङ्करः शशाक न प्रश्‍वसितुं च केवलम्। किमत्र वक्तव्यमतो हरेर्बलं हरात् परं सर्वत एव चेति॥ ४/४८॥
ततः प्रणम्याशु जनार्दनं हरः प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितः। जगाम कैलासममुष्य तद् धनुस्त्वया प्रभग्नं किल लोकसन्निधौ॥ ४/४९॥
धनुर्यदन्यद्धरिहस्तयोग्यं तत्कार्मुकात् कोटिगुणं पुनश्‍च। वरं हि हस्ते तदिदं गृहीतं मया गृहाणैतदतो हि वैष्णवम्॥ ४/५०॥
यदीदमागृह्य विकर्षसि त्वं तदा हरिर्नात्र विचार्यमस्ति। इति ब्रुवाणः प्रददौ धनुर्वरं प्रदर्शयन् विष्णुबलं हराद् वरम्॥ ४/५१॥
प्रगृह्य तच्चापवरं स राघवश्‍चकार सज्यं निमिषेण लीलया। चकर्ष सन्धाय शरं च पश्यतः समस्तलोकस्य च संशयं नुदन्॥ ४/५२॥
प्रदर्शिते विष्णुबले समस्तशो हराच्च निःसङ्ख्यतया महाधिके। जगाद मेघौघगभीरया गिरा स राघवं भार्गव आदिपूरुषः॥ ४/५३॥
अलं बलं ते जगतोऽखिलाद् वरं परोऽसि नारायण एव नान्यथा। विसर्जयस्वेह शरं तपोमये महासुरे लोकमये वराद् विभोः॥ ४/५४॥
पुराऽतुलो नाम महासुरोऽभवद् वरात् स तु ब्रह्मण आप लोकताम्। पुनश्‍च तं प्राह जगद्गुरुर्यदा हरिर्जितः स्याद्धि तदैव वध्यसे॥ ४/५५॥
अतो वधार्थं जगदन्तकस्य सर्वाजितोऽहं जितवद् व्यवस्थितः। इतीरिते लोकमये स राघवो मुमोच बाणं जगदन्तकेऽसुरे॥ ४/५६॥
पुरा वरोऽनेन शिवोपलम्भितो मुमुक्षया विष्णुतनुप्रवेशनम्। स तेन रामोदरगो बहिर्गतस्तदाज्ञयैवाशु बभूव भस्मसात्॥ ४/५७॥
इतीव रामाय स राघवः शरं विकर्षमाणो विनिहत्य चासुरम्। तपस्तदीयं प्रवदन् मुमोद तदीयमेव ह्यभवत् समस्तम्॥ ४/५८॥
निरन्तरानन्दविबोधसारः स जानमानोऽखिलमादिपूरुषः। वदञ्छ्रुणोतीव विनोदतो हरिः स एक एव द्वितनुर्मुमोद॥ ४/५९॥
स चेष्टितं चैैव निजाश्रयस्य जनस्य सत्तत्त्वविबोधकारणम्। विमोहकं चान्यतमस्य कुर्वंश्चिक्रीड एकोऽपि नरान्तरे यथा॥ ४/६०॥
ततः स कारुण्यनिधिर्निजे जने नितान्तमैक्यं स्वगतं प्रकाशयन्। द्विधेव भूत्वा भृगुवर्य आत्मना रघूत्तमेनैक्यमगात् समक्षम्॥ ४/६१॥
समेत्य चैक्यं जगतोऽभिपश्यतः प्रणुद्य शङ्कामखिलां जनस्य। प्रदाय रामाय धनुर्वरं तदा जगाम रामानुमतो रमापतिः॥ ४/६२॥
अयोध्याप्रवेशः
ततो नृपोऽत्यर्थमुदाऽभिपूरितः सुतैः समस्तैः स्वपुरीमवाप ह। रेमेऽथ रामोऽपि रमास्वरूपया तयैव राजात्मजया हि सीतया॥ ४/६३॥
यथा पुरा श्रीरमणः श्रिया तया रतो नितान्तं हि पयोब्धिमध्ये। तथा त्वयोध्यापुरगो रघूत्तमोऽप्युवास कालं सुचिरं रतस्तया॥ ४/६४॥
उपसंहारः
इमानि कर्माणि रघूत्तमस्य हरेर्विचित्राण्यपि नाद्भुतानि। दुरन्तशक्तेरथचास्य वैभवं स्वकीयकर्तव्यतयाऽनुवर्ण्यते॥ ४/६५॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते बालकाण्डकथानिरूपणं नाम चतुर्थोऽध्यायः समाप्तः॥
पञ्चमोऽध्यायः
राज्यत्यागः
इत्थं विश्‍वेश्‍वरेऽस्मिन् निखिलजगदवस्थाप्य सीतासहाये भूमिष्ठे सर्वलोकास्तुतुषुरनुदिनं वृद्धभक्त्या नितान्तम्। राजा राज्याभिषेके प्रकृतिजनवचो मानयन्नात्मनोऽर्थ्यं दध्रे तन्मन्थरायाः श्रुतिपथमगमद् भूमिगाया अलक्ष्म्याः॥ ५/१॥
पूर्वं क्षीराब्धिजाता कथमपि तपसैवाप्सरस्त्वं प्रयाता तां नेतुं तत् तमोऽन्धं कमलजनिरुवाचाशु रामाभिषेकम्। भूत्वा दासी विलुम्प स्वगतिमपि ततः कर्मणा प्राप्स्यसे त्वं सेत्युक्ता मन्थराऽऽसीत् तदनु कृतवतीत्येव चैतत् कुकर्म॥ ५/२॥
तद्वाक्यात् कैकयी सा पतिगवरबलादाजहारैव राज्यं रामस्तद्गौरवेण त्रिदशमुनिकृतेऽरण्यमेवाविवेश। सीतायुक्तोऽनुजेन प्रतिदिनसुविवृद्धोरुभक्त्या समेतः संस्थाप्याशेषजन्तून् स्वविरहजशुचा त्यक्तसर्वेषणार्थान्॥ ५/३॥
वृक्षान् पक्षीभकीटान् पितरमथ सखीन् मातृपूर्वान् विसृज्य प्रोत्थां गङ्गां स्वपादाद्धर इव च गुहेनार्चितः सोऽथ तीर्त्वा। देवार्च्यस्यापि पुत्रादृषिगणसहितात् प्राप्य पूजां प्रयातः शैलेशं चित्रकूटं कतिपयदिवसान्यत्र मोदन्नुवास॥ ५/४॥
पादुकापट्टाभिषेकः
एतस्मिन्नेव काले दशरथनृपतिः स्वर्गतोऽभूद् वियोगाद् रामस्यैवाथ पुत्रौ विधिसुतसहितौ मन्त्रिभिः केकयेभ्यः। आनीतौ तस्य कृत्वा श्रुतिगणविहितप्रेतकार्याणि सद्यः शोचन्तौ राममार्गं पुरजनसहितौ जग्मतुर्मातृभिश्‍च॥ ५/५॥
धिक्कुर्वन्तौ नितान्तं सकलदुरितगां मन्थरां कैकयीं च प्राप्तौ रामस्य पादौ मुनिगणसहितौ तत्र चोवाच नत्वा। रामं राजीवनेत्रं भरत इह पुनः प्रीतयेऽस्माकमीश प्राप्याशु स्वामयोध्यामवरजसहितः पालयेमां धरित्रीम्॥ ५/६॥
इत्युक्तः कर्तुमीशः सकलसुरगणाप्यायनं रामदेवः सत्यां कर्तुं च वाणीमवददतितरां नेति सद्भक्तिनम्रम्। भूयोभूयोऽर्थयन्तं द्विगुणितशरदां सप्तके त्वभ्यतीते कर्तैतत् ते वचोऽहं सुदृढमृतमिदं मे वचो नात्र शङ्का॥ ५/७॥
श्रुत्वैतद् रामवाक्यं हुतभुजि पतने स प्रतिज्ञां च कृत्वा रामोक्तस्यान्यथात्वे नतु पुरमभिवेक्ष्येऽहमित्येव तावत्। कृत्वाऽन्यां स प्रतिज्ञामवसदथ बहिर्ग्रामके नन्दिनाम्नि श्रीशस्यैवास्य कृत्वा शिरसि परमकं पौरटं पादपीठम्॥ ५/८॥
चित्रकूटे काकासुरप्रसङ्गः
समस्तपौरानुगतेऽनुजे गते स चित्रकूटे भगवानुवास ह। अथाजगामेन्द्रसुतोऽपि वायसो महासुरेणात्मगतेन चोदितः॥ ५/९॥
स चासुरावेशवशाद् रमास्तने यदा व्यधात् तुण्डमथाभिवीक्षितः। जनार्दनेनाशु तृणे प्रयोजिते चचार तेन ज्वलताऽनुयातः॥ ५/१०॥
स्वयम्भुशर्वेन्द्रमुखान् सुरेश्‍वराञ्जिजीविषुस्ताञ्छरणं गतोऽपि। बहिष्कृतस्तैर्हरिभक्तिभावतो ह्यलङ्घ्यशक्त्या परमस्य चाक्षमैः॥ ५/११॥
पुनः प्रयातः शरणं रघूत्तमं विसर्जितस्तेन निहत्य चासुरम्। तदक्षिगं साक्षिकमप्यवध्यं प्रसादतश्‍चन्द्रविभूषणस्य॥ ५/१२॥
स वायसानामसुरोऽखिलानां वरादुमेशस्य बभूव चाक्षिगः। निपातितोऽसौ सह वायसाक्षिभिस्तृणेन रामस्य बभूव भस्मसात्॥ ५/१३॥
ददुर्हि तस्मै विवरं बलार्थिनो यद् वायसास्तेन तदक्षिपातनम्। कृतं रमेशेन तदेकनेत्रा बभूवुरन्येऽपिच वायसास्तदा॥ ५/१४॥
भविष्यतामप्यथ यावदेव द्विनेत्रता काककुलोद्भवानाम्। तावत् तदक्ष्यस्य कुरङ्गनाम्नः शिवेन दत्तं दितिजस्य चाक्षयम्॥ ५/१५॥
अतः पुनर्भावममुष्य हिन्वन् भविष्यतश्‍चैकदृशश्‍चकार। स वायसान् राघव आदिपूरुषस्ततो ययौ शक्रसुतस्तदाज्ञया॥ ५/१६॥
दण्डकारण्यप्रवेशः
रामोऽथ दण्डकवनं मुनिवर्यनीतो लोकाननेकश उदारबलैर्निरस्तान्। श्रुत्वा खरप्रभृतिभिर्वरतो हरस्य सर्वैरवध्यतनुभिः प्रययौ सभार्यः॥ ५/१७॥
शरभङ्गमोक्षः
आसीच्च तत्र शरभङ्ग इति स्म जीर्णो लोकं हरेर्जिगमिषुर्मुनिरुग्रतेजाः। तेनादरोपहृतसार्घ्यसपर्यया स प्रीतो ददौ निजपदं परमं रमेशः॥ ५/१८॥
धर्मो यतोऽस्य वनगस्य नितान्तशक्तिह्रासे स्वधर्मकरणस्य हुताशनादौ। देहात्ययः स तत एव तनुं निजाग्नौ सन्त्यज्य रामपुरतः प्रययौ रमेशम्॥ ५/१९॥
विराधमोक्षः
रामोऽपि तत्र ददृशे धनदस्य शापाद् गन्धर्वमुर्वशिरतेरथ यातुधानीम्। प्राप्तं दशां सपदि तुम्बरुनामधेयं नाम्ना विराधमपि शर्ववरादवध्यम्॥ ५/२०॥
भङ्क्त्वाऽस्य बाहुयुगलं बिलगं चकार सम्मानयन् वचनमम्बुजजन्मनोऽसौ। प्रादाच्च तस्य सुगतिं निजगायकस्य भक्षार्थमंसकमितोऽपि सहानुजेन॥ ५/२१॥
अगस्त्यसेवा
प्रीतिं विधित्सुरगमद् भवनं निजस्य कुम्भोद्भवस्य परमादरतोऽमुना च। सम्पूजितो धनुरनेन गृहीतमिन्द्राच्छार्ङ्गं तदादिपुरुषो निजमाजहार॥ ५/२२॥
आत्मार्थमेव हि पुरा हरिणा प्रदत्तमिन्द्रे तदिन्द्र उत रामकरार्थमेव। प्रादादगस्त्यमुनये तदवाप्य रामो रक्षन्नृषीनवसदेव स दण्डकेषु॥ ५/२३॥
शूर्पणखाखरदूषणादिप्रसङ्गः
काले तदैव खरदूषणयोर्बलेन रक्षःस्वसा पतिनिमार्गणतत्पराऽऽसीत्। व्यापादिते निजपतौ हि दशाननेन प्रामादिकेन विधिनाऽभिससार रामम्॥ ५/२४॥
साऽनुज्ञयैव रजनीचरभर्तुरुग्रा भ्रातृद्वयेन सहिता वनमावसन्ती। रामं समेत्य भव मे पतिरित्यवोचद् भानुं यथा तम उपेत्य सुयोगकामम्॥ ५/२५॥
तां तत्र हास्यकथया जनकासुताग्रे गच्छानुजं म इह नेति वचः स उक्त्वा। तेनैव दुष्टचरितां हि विकर्णनासां चक्रे समस्तरजनीचरनाशहेतोः॥ ५/२६॥
तत्प्रेरितान् सपदि भीमबलात् प्रयातांस्तस्याः खरत्रिशिरदूषणमुख्यबन्धून्। जघ्ने चतुर्दशसहस्रमवारणीयकोदण्डपाणिरखिलस्य सुखं विधातुम्॥ ५/२७॥
रावणस्य चिन्ता कुतन्त्रं च
दत्तेऽभये रघुवरेण महामुनीनां दत्ते भये च रजनीचरमण्डलस्य। रक्षःपतिः स्वसृमुखादविकम्पनाच्च श्रुत्वा बलं रघुपतेः परमाप चिन्ताम्॥ ५/२८॥
श्रुत्वाऽऽशु कार्यमवमृश्य जगाम तीरे क्षेत्रं नदीनदपतेः श्रवणं धरित्र्याः। मारीचमत्र तपसि प्रतिवर्तमानं भीतं शराद् रघुपतेर्नितरां ददर्श॥ ५/२९॥
तेनार्थितः सपदि राघववञ्चनार्थं मारीच आह शरवेगममुष्य जानन्। शक्यो न ते रघुवरेण हि विग्रहोऽत्र जानामि संस्पर्शमस्य शरस्य पूर्वम्॥ ५/३०॥
इत्युक्तवन्तमथ रावण आह खड्गं निष्कृष्य हन्मि यदि मे न करोषि वाक्यम्। तच्छुश्रुवान् भययुतोऽथ निसर्गतश्‍च पापो जगाम रघुवर्यसकाशमाशु॥ ५/३१॥
मायामृगप्रसङ्गः, सीताकृत्यपहरणं च
सम्प्राप्य हैममृगतां बहुरत्नचित्रः सीतासमीप उरुधा विचचार शीघ्रम्। निर्दोषनित्यवरसंविदपि स्म देवी रक्षोवधाय जनमोहकृते तथाऽऽह॥ ५/३२॥
देवेममाशु परिगृह्य च देहि मे त्वं क्रीडामृगं त्विति तयोदित एव रामः। अन्वक् ससार ह शरासनबाणपाणिर्मायामृगं निशिचरं निजघान जानन्॥ ५/३३॥
तेनाहतः शरवरेण भृशं ममार विक्रुश्य लक्ष्मणमुरुव्यथया स पापः। श्रुत्वैव लक्ष्मणमचूचुददुग्रवाक्यैः सोऽप्याप रामपथमेव सचापबाणः॥ ५/३४॥
यांयां परेश उरुधैव करोति लीलां तान्तां करोत्यनु तथैव रमाऽपि देवी। नैतावताऽस्य परमस्य तथा रमाया दोषोऽणुरप्यनुविचिन्त्य उरुप्रभू यत्॥ ५/३५॥
क्वाज्ञानमापदपि मन्दकटाक्षमात्रात् सर्गस्थितिप्रलयसंसृतिमोक्षहेतोः। देव्या हरेः किमु विडम्बनमात्रमेतद् विक्रीडतोः सुरनरादिवदेव तस्मात्॥ ५/३६॥
देव्याः समीपमथ रावण आससाद साऽदृश्यतामगमदप्यविषह्यशक्तिः। सृष्ट्वाऽऽत्मनः प्रतिकृतिं प्रययौ च शीघ्रं कैलासमर्चितपदा न्यवसच्छिवाभ्याम्॥ ५/३७॥
तस्यास्तु तां प्रतिकृतिं प्रविवेश शक्रो देव्याश्‍च सन्निधियुतां व्यवहारसिद्ध्यै। आदाय तामथ ययौ रजनीचरेन्द्रो हत्वा जटायुषमुरुश्रमतो निरुद्धः॥ ५/३८॥
मार्गे व्रजन्तमभियाय ततो हनूमान् संवारितो रविसुतेन च जानमानः। दैवं तु कार्यमथ कीर्तिमभीप्समानो रामस्य नैनमहनद् वचनाद्धरेश्‍च॥ ५/३९॥
प्राप्यैव राक्षस उतात्मपुरीं स तत्र सीताकृतिं प्रतिनिधाय ररक्ष चाथ। रामोऽपि तत् तु विनिहत्य सुदुष्टरक्षः प्राप्याश्रमं स्वदयितां नहि पश्यतीव॥ ५/४०॥
सीतान्वेषणम्
जटायुमुक्तिः
अन्वेषमाण इव तं च ददर्श गृध्रं सीतां रिरक्षिषुमथो रिपुणा विशस्तम्। मन्दात्मचेष्टममुनोक्तमरेश्‍च कर्म श्रुत्वा मृतं तमदहत् स्वगतिं तथाऽदात्॥ ५/४१॥
कबन्धमोक्षः
अन्यत्र चैव विचरन् सहितोऽनुजेन प्राप्तः करौ स सहसाऽथ कबन्धनाम्नः। धातुर्वरादखिलजायिन उज्झितस्य मृत्योश्‍च वज्रपतनादतिकुञ्चितस्य॥ ५/४२॥
छित्त्वाऽस्य बाहुयुगलं सहितोऽनुजेन तं पूर्ववत् प्रतिविधाय सुरेन्द्रभृत्यम्। नाम्ना दनुं त्रिजटयैव पुराऽभिजातं गन्धर्वमाशु च ततोऽपि तदर्चितोऽगात्॥ ५/४३॥
शबरीमुक्तिः
दृष्ट्वा तमेव शबरी परमं हरिं च ज्ञात्वा विवेश दहनं पुरतोऽस्य तस्यै। प्रादात् स्वलोकमिममेव हि सा प्रतीक्ष्य पूर्वं मतङ्गवचनेन वनेऽत्रसाऽभूत्॥ ५/४४॥
शापाद् वराप्सरसमेव हि तां विमोच्य शच्या कृतात् पतिपुरस्त्वतिदर्पहेतोः।
रामाञ्जनेयसमागमः, तयोरविनाभावनिर्णयश्च
गत्वा ददर्श पवनात्मजमृश्यमूके स ह्येक एनमवगच्छति सम्यगीशम्॥ ५/४५॥
देहेऽपि यत्र पवनोऽत्र हरिर्यतोऽसौ तत्रैव वायुरिति वेदवचः प्रसिद्धम्। कस्मिन् न्वहं त्विति तथैव हि सोऽवतारे तस्मात् स मारुतिकृते रविजं ररक्ष‌॥ ५/४६॥
एवं स कृष्णतनुरर्जुनमप्यरक्षद् भीमार्थमेव तदरिं रविजं निहत्य। पूर्वं हि मारुतिमवाप रवेः सुतोऽयं तेनास्य वालिनमहन् रघुपः प्रतीपम्॥ ५/४७॥
एवं सुराश्‍च पवनस्य वशे यतोऽतः सुग्रीवमत्र तु परत्र च शक्रसूनुम्। सर्वे श्रिता हनुमतस्तदनुग्रहाय तत्रागमद् रघुपतिः सह लक्ष्मणेन॥ ५/४८॥
यत्पादपङ्कजरजः शिरसा बिभर्ति श्रीरब्जजश्‍च गिरिशः सह लोकपालैः। सर्वेश्‍वरस्य परमस्य हि सर्वशक्तेः किं तस्य शत्रुहनने कपयः सहायाः॥ ५/४९॥
समागते तु राघवे प्लवङ्गमाः ससूर्यजाः। विपुप्लुवुर्भयार्दिता न्यवारयच्च मारुतिः॥ ५/५०॥
संस्थाप्याशु हरीन्द्राञ्जानन् विष्णोर्गुणाननन्तान् सः। साक्षाद् ब्रह्मपिताऽसावित्येतेनास्य पादयोः पेते॥ ५/५१॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते हनूमद्दर्शनं नाम पञ्चमोऽध्यायः समाप्तः॥
षष्ठोऽध्यायः
वालिवधप्रकरणम्
सुग्रीवसख्यम्
उत्थाप्य चैनमरविन्ददलायताक्षश्‍चक्राङ्कितेन वरदेन कराम्बुजेन। कृत्वा च संविदमनेन नुतोऽस्य चांसं प्रीत्याऽऽरुरोह स हसन् सह लक्ष्मणेन॥ ६/१॥
आरोप्य चांसयुगलं भगवन्तमेनं तस्यानुजं च हनुमान् प्रययौ कपीन्द्रम्। सख्यं चकार हुतभुक्प्रमुखे च तस्य रामेण शाश्‍वतनिजार्तिहरेण शीघ्रम्॥ ६/२॥
रामबलपरीक्षा
श्रुत्वाऽस्य दुःखमथ देववरः प्रतिज्ञां चक्रे स वालिनिधनाय हरीश्‍वरोऽपि। सीतानुमार्गणकृतेऽथ स वालिनैव क्षिप्तां हि दुन्दुभितनुं समदर्शयच्च॥ ६/३॥
वीक्ष्यैव तां निपतितामथ रामदेवः सोऽङ्गुष्ठमात्रचलनादतिलीलयैव। सम्प्रास्य योजनशतेऽथ तयैव चोर्वीं सर्वान् विदार्य दितिजानहनद् रसास्थान्॥ ६/४॥
शर्वप्रसादजबलाद् दितिजानवध्यान् सर्वान् निहत्य कुणपेन पुनश्च सख्या। भीतेन वालिबलतः कथितः स सप्त तालान् प्रदर्श्य दितिजान् सुदृढांश्च वज्रात्॥ ६/५॥
एकैकमेषु स विकम्पयितुं समर्थः पत्राणि लोप्तुमपि तूत्सहते न शक्तः। विष्वक्स्थितान् यदि भवान् प्रतिभेत्स्यतीमानेकेषुणा तर्हि वालिवधे समर्थः॥ ६/६॥
जेतुं चतुर्गुणबलो हि पुमान् प्रभुः स्याद्धन्तुं शताधिकबलोऽतिबलं सुशक्तः। तस्मादिमान् हरिहयात्मजबाह्वलोप्यपत्रान् विभिद्य मम संशयमाशु भिन्धि॥ ६/७॥
श्रुत्वाऽस्य वाक्यमवमृश्य दितेः सुतांस्तान् धातुर्वरादखिलपुम्भिरभेद्यरूपान्। ब्रह्मत्वमाप्तुमचलं तपसि प्रवृत्तानेकेषुणा सपदि तान् प्रबिभेद रामः॥ ६/८॥
सन्धाय कार्मुकवरे निशिते तु बाणेऽथाकृष्य दक्षिणभुजेन तदा प्रमुक्ते। रामेण सत्वरमनन्तबलेन सर्वे चूर्णीकृताः सपदि ते तरवो रवेण॥ ६/९॥
भित्वा च तान् सगिरि कुं भगवत्प्रमुक्तः पातालसप्तकमथात्र च ये त्ववध्याः। नाम्नाऽसुराः कुमुदिनोऽब्जजवाक्यरक्षाः सर्वांश्‍च तानदहदाशु शरः स एकः॥ ६/१०॥
नैतद् विचित्रममितोरुबलस्य विष्णोर्यत्प्रेरणात् सपवनस्य भवेत् प्रवृत्तिः। लोकस्य सप्रकृतिकस्य सरुद्रकालकर्मादिकस्य तदपीदमनन्यसाध्यम्॥ ६/११॥
युद्धधर्मशिक्षणम्
दृष्ट्वा बलं भगवतोऽथ हरीश्‍वरोऽसावग्रे निधाय तमगात् पुरमग्रजस्य। आश्रुत्य रावमनुजस्य बिलात् स चागादभ्येनमाशु दयिता प्रतिवारितोऽपि॥ ६/१२॥
तन्मुष्टिभिः प्रतिहतः प्रययावशक्तः सुग्रीव आशु रघुपोऽपि हि धर्ममीक्षन्। नैनं जघान विदिताखिललोकचेष्टोऽप्येनं स आह युधि वां न मया विविक्तौ॥ ६/१३॥
सौभ्रात्रमेष यदि वाञ्छति वालिनैव नाहं निरागसमथाग्रजनिं हनिष्ये। दीर्घः सहोदरगतो न भवेद्धि कोपो दीर्घोऽपि कारणमृते विनिवर्तते च॥ ६/१४॥
कोपः सहोदरजने पुनरन्तकाले प्रायो निवृत्तिमुपगच्छति तापकश्‍च। एकस्य भङ्ग इति नैव झडित्यपास्तदोषो निहन्तुमिह योग्य इति स्म मेने॥ ६/१५॥
तस्मान्न बन्धुजनगे जनिते विरोधे कार्यो वधस्तदनुबन्धुभिराश्‍वितीह। धर्मं प्रदर्शयितुमेव रवेः सुतस्य भावी न ताप इति विच्च न तं जघान॥ ६/१६॥
यः प्रेरकः सकलशेमुषिसन्ततेश्‍च तस्याज्ञता कुत इहेशवरस्य विष्णोः।
वालिवधः
तेनोदितोऽथ सुदृढं पुनरागतेन वज्रोपमं शरममूमुचदिन्द्रसूनौ॥ ६/१७॥
रामाज्ञयैव लतया रविजे विभक्ते वायोः सुतेन रघुपेण शरे प्रमुक्ते। श्रुत्वाऽस्य शब्दमतुलं हृदि तेन विद्ध इन्द्रात्मजो गिरिरिवापतदाशु सन्नः॥ ६/१८॥
भक्तो ममैष यदि मामभिपश्यतीह पादौ ध्रुवं मम समेष्यति निर्विचारः। योग्यो वधो नहि जनस्य पदानतस्य राज्यार्थिना रविसुतेन वधोऽर्थितश्‍च॥ ६/१९॥
कार्यं ह्यभीष्टमपि तत् प्रणतस्य पूर्वं शस्तो वधो न पदयोः प्रणतस्य चैव। तस्माददृश्यतनुरेव निहन्मि शक्रपुत्रं त्विति स्म तमदृश्यतया जघान॥ ६/२०॥
यः प्रेरकः सकललोकबलस्य नित्यं पूर्णाव्ययोच्चबलवीर्यतनुः स्वतन्त्रः। किं तस्य दृष्टिपथगस्य च वानरोऽयं कर्तेशचापमपि येन पुरा विभग्नम्॥ ६/२१॥
सन्नेऽथ वालिनि जगाम च तस्य पार्श्‍वं प्राहैनमार्द्रवचसा यदि वाञ्छसि त्वम्। उज्जीवयिष्य इति नैच्छदसौ त्वदग्रे को नाम नेच्छति मृतिं पुरुषोत्तमेति॥ ६/२२॥
सुग्रीवराज्याभिषेकः, रामस्य चातुर्मास्यं च
कार्याणि तस्य चरमाणि विधाय पुत्रं त्वग्रे निधाय रविजः कपिराज्य आसीत्। रामोऽपि तद्गिरिवरे चतुरोऽथ मासान् दृष्ट्वा घनागममुवास सलक्ष्मणोऽसौ॥ ६/२३॥
सीतान्वेषणकार्यम्
सुग्रीवादिजागृतिः
अथातिसक्ते क्षितिपे कपीनां प्रविस्मृते रामकृतोपकारे। प्रसह्य तं बुद्धिमतां वरिष्ठो रामाङि्‌घ्रभक्तो हनुमानुवाच॥ ६/२४॥
न विस्मृतिस्ते रघुवर्यकार्ये कार्या कथञ्चित् स हि नोऽभिपूज्यः। न चेत् स्वयं कर्तुमभीष्टमद्य ते ध्रुवं बलेनापि हि कारयामि॥ ६/२५॥
स एवमुक्त्वा हरिराजसन्निधौ द्वीपेषु सप्तस्वपि वानरान् प्रति। सम्मेलनायाशुगतीन् स्म वानरान् प्रस्थापयामास समस्तशः प्रभुः॥ ६/२६॥
हरीश्‍वराज्ञाप्रणिधानपूर्वकं हनूमता ते प्रहिता हि वानराः। समस्तशैलद्रुमषण्डसंस्थितान् हरीन् समादाय तदाऽभिजग्मुः॥ ६/२७॥
तदैव रामोऽपि हि भोगसक्तं प्रमत्तमालक्ष्य कपीश्‍वरं प्रभुः। जगाद सौमित्रिमिदं वचो मे प्लवङ्गमेशाय वदाशु याहि॥ ६/२८॥
यदि प्रमत्तोऽसि मदीयकार्ये नयाम्यहं त्वेन्द्रसुतस्य मार्गम्। प्रायः स्वकार्ये प्रतिपादिते हि मदोद्धता न प्रतिकर्तुमीशते॥ ६/२९॥
इतीड्यरामेण समीरिते तदा ययौ सबाणः सधनुः स लक्ष्मणः। दृष्ट्वैैव तं तेन सहैव तापनिर्भयाद् ययौ रामपदान्तिकं त्वरन्॥ ६/३०॥
हनूमतः साधुवचोभिराशु प्रसन्नचेतस्यधिपे कपीनाम्। समागते सर्वहरिप्रवीरैः सहैव तं वीक्ष्य ननन्द राघवः॥ ६/३१॥
ससम्भ्रमं तं पतितं पदाब्जयोस्त्वरन् समुत्थाप्य समाश्लिषत् प्रभुः। स चोपविष्टो जगदीशसन्निधौ तदाज्ञयैवादिशदाशु वानरान्॥ ६/३२॥
दशदिक्षु कपिप्रेषणम्, बहूनां प्रत्यागमनम्
समस्तदिक्षु प्रहितेषु तेन प्रभुर्हनूमन्तमिदं बभाषे। न कश्‍चिदीशस्त्वदृतेऽस्ति साधने समस्तकार्यप्रवरस्य मेऽस्य॥ ६/३३॥
अतस्त्वमेव प्रतियाहि दक्षिणां दिशं समादाय मदङ्गुलीयकम्। इतीरितोऽसौ पुरुषोत्तमेन ययौ दिशं तां युवराजयुक्तः॥ ६/३४॥
समस्तदिक्षु प्रतियापिता हि ते हरीश्‍वराज्ञामुपधार्य मासतः। समाययुस्तेऽङ्गदजाम्बवन्मुखाः सुतेन वायोः सहिता नचाययुः॥ ६/३५॥
दक्षिणदिशि कपीनामधर्मचिन्ता हनूमता प्रबोधनम्
समस्तदुर्गप्रवरं दुरासदं विमार्गतां विन्ध्यगिरिं महात्मनाम्। गतः स कालो हरिराडुदीरितः समासदंश्‍चाथ बिलं महाद्भुतम्‌्‌॥ ६/३६॥
कृतं मयेनातिविचित्रमुत्तमं समीक्ष्य तत् तार उवाच चाङ्गदम्। वयं न यामो हरिराजसन्निधिं विलङ्घितो नः समयो यतोऽस्य॥ ६/३७॥
दुरासदोऽसावतिचण्डशासनो हनिष्यति त्वामपि किं मदादिकान्। अगम्यमेतद् बिलमाप्य तत् सुखं वसाम सर्वे किमसाविहाचरेत्॥ ६/३८॥
नचैव रामेण सलक्ष्मणेन प्रयोजनं नो वनचारिणां सदा। नचेह नः पीडयितुं स च क्षमस्ततो ममेयं सुविनिश्‍चिता मतिः॥ ६/३९॥
इतीरितं मातुलवाक्यमाशु स आददे वालिसुतोऽपि सादरम्। उवाच वाक्यं च न नो हरीश्‍वरः क्षमी भवेल्लङ्घितशासनानाम्॥ ६/४०॥
राज्यार्थिना येन हि घातितोऽग्रजो हृताश्‍च दाराः सुनृशंसकेन। स नः कथं रक्षति शासनातिगान् निराश्रयान् दुर्बलकान् बले स्थितः॥ ६/४१॥
इतीरिते शक्रसुतात्मजेन तथेति चोचुः सहजाम्बवन्मुखाः। सर्वेऽपि तेषामथ चैकमत्यं दृष्ट्वा हनूमानिदमाबभाषे॥ ६/४२॥
विज्ञातमेतद्धि मयाऽङ्गदस्य राज्याय ताराभिहितं हि वाक्यम्। साध्यं नचैतन्नहि वायुसूनू रामप्रतीपं वचनं सहेत॥ ६/४३॥
नचाहमाक्रष्टुमुपायतोऽपि शक्यः कथञ्चित् सकलैः समेतैः। सन्मार्गतो नैव हि राघवस्य दुरन्तशक्तेर्बिलमप्रधृष्यम्॥ ६/४४॥
वचो ममैतद् यदि चादरेण ग्राह्यं भवेद् वस्तदतिप्रियं मे। न चेद् बलादप्यनये प्रवृत्तान् प्रशास्य सन्मार्गगतान् करोमि॥ ६/४५॥
इतीरितं तत् पवनात्मजस्य श्रुत्वाऽतिभीता धृतमूकभावाः। सर्वेऽनुजग्मुस्तमथाद्रिमुख्यं माहेन्द्रमासेदुरगाधबोधाः॥ ६/४६॥
सम्पातिप्रसङ्गः
निरीक्ष्य ते सागरमप्रधृष्यमपारमेयं सहसा विषण्णाः। दृढं निराशाश्‍च मतिं हि दध्रुः प्रायोपवेशाय तथा च चक्रुः॥ ६/४७॥
प्रायोपविष्टाश्‍च कथां वदन्तो रामस्य संसारविमुक्तिदातुः। जटायुषः पातनमूचिरे तत् सम्पातिनाम्नः श्रवणं जगाम॥ ६/४८॥
तस्याग्रजोऽसावरुणस्य सूनुः सूर्यस्य बिम्बं सह तेन यातः। जवं परीक्षन्नथ तं सुतप्तं गुप्त्वा पतत्रक्षयमाप्य चापतत्॥ ६/४९॥
स दग्धपक्षः सवितृप्रतापाच्छ्रुत्वैव रामस्य कथां सपक्षः। भूत्वा पुनश्‍चाशु मृतिं जटायुषः शुश्राव पृष्ट्वा पुनरेव सम्यक्॥ ६/५०॥
स रावणस्याथ गतिं सुतोक्तां निवेद्य दृष्ट्वा जनकात्मजाकृतिम्। स्वयं तथाऽशोकवने निषण्णामवोचदेभ्यो हरिपुङ्गवेभ्यः॥ ६/५१॥
कपीनां बलाबलप्रकटनम्
ततस्तु ते ब्रह्मसुतेन पृष्टा न्यवेदयन्नात्मबलं पृथक्पृथक्। दशैव चारभ्य दशोत्तरस्य क्रमात् पथो योजनतोऽतियाने॥ ६/५२॥
सनीलमैन्दद्विविदाः सताराः सर्वेऽप्यशीत्याः परतो न शक्ताः। गन्तुं यदाथात्मबलं स जाम्बवाञ्जगाद तस्मात् पुनरष्टमांशम्॥ ६/५३॥
बलेर्यदा विष्णुरवाप लोकांस्त्रिभिः क्रमैर्नन्दिरवं प्रकुर्वता। तदा मया भ्रान्तमिदं जगत्त्रयं सवेदनं जानु ममास मेरुतः॥ ६/५४॥
अतो जवो मे नहि पूर्वसम्मितः पुरा त्वहं षण्णवतिप्लवोऽस्मि। ततः कुमारोऽङ्गद आह चास्माच्छतं प्लवेयं न ततोऽभिजाने॥ ६/५५॥
आपूरिते तैः सकलैः शतस्य गमागमे शत्रुबलं च वीक्ष्य। सुदुर्गमत्वं च निशाचरेशपुर्याः स धातुः सुत आबभाषे॥ ६/५६॥
अयं हि गृध्रः शतयोजनं गिरिं त्रिकूटमाहेत उतात्र विघ्नाः। भवेयुरन्येऽपि ततो हनूमानेकः समर्थो न परोऽस्ति कश्‍चित्॥ ६/५७॥
उक्त्वा स इत्थं पुनराह सूनुं प्राणस्य निःसीमबलं प्रकाशयन्। त्वमेक एवात्र परं समर्थः कुरुष्व चैतत् परिपाहि वानरान्॥ ६/५८॥
इतीरितोऽसौ हनुमान् निजेप्सितं तेषामशक्तिं प्रकटां विधाय। अवर्धताशु प्रविचिन्त्य रामं सुपूर्णशक्तिं चरितोस्तदाज्ञाम्॥ ६/५९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते समुद्रतरणनिश्चयो नाम षष्ठोऽध्यायः समाप्तः॥
सप्तमोऽध्यायः
हनुमतः समुद्रलङ्घनम्
रामाय शाश्‍वतसुविस्तृतषड्गुणाय सर्वेश्‍वराय बलवीर्यमहार्णवाय। नत्वा लिलङ्घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः॥ ७/१॥
चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्टः। वृक्षाश्‍च पर्वतगताः पवनेन पूर्वं क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः॥ ७/२॥
श्यालो हरस्य गिरिपक्षविनाशकाले क्षिप्तोऽर्णवे स मरुतोर्वरितात्मपक्षः। हैमो गिरिः पवनजस्य तु विश्रमार्थमुद्भिद्य वारिधिमवर्धदनेकसानुः॥ ७/३॥
नैवात्र विश्रमणमैच्छदविश्रमोऽसौ निःसीमपौरुषबलस्य कुतः श्रमोऽस्य। आश्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण॥ ७/४॥
जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत् त्वमिच्छसि तदित्यमरोदितायाः। आस्यं प्रविश्य सपदि प्रविनिःसृतोऽस्माद् देवाननन्दयदुत स्वृतमेषु रक्षन्॥ ७/५॥
दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं देवाः प्रतुष्टुवुरमुं सुमनोभिवृष्ट्या। तैरादृतः पुनरसौ वियतैव गच्छञ्छायाग्रहं प्रतिददर्श च सिंहिकाख्यम्॥ ७/६॥
लङ्कावनाय सकलस्य च निग्रहेऽस्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता। छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेद चाशु॥ ७/७॥
निःसीममात्मबलमित्यनुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम्। लम्बे स लम्बशिखरे निपपात लङ्काप्राकाररूपकगिरावथ सञ्चुकोच॥ ७/८॥
भूत्वा बिडालसमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम्। रुद्धोऽनयाऽऽश्‍वथ विजित्य च तां स्वमुष्टिपिष्टां तयाऽनुमत एव विवेश लङ्काम्॥ ७/९॥
हनुमतः सीताकृतिना साकं विडम्बनम्
मार्गमाणोे बहिश्‍चान्तः सोऽशोकवनिकातले। ददर्श शिंशुपावृक्षमूलस्थितरमाकृतिम्॥ ७/१०॥
नरलोकविडम्बस्य जानन् रामस्य हृद्गतम्। तस्य चेष्टानुसारेण कृत्वा चेष्टाश्‍च संविदम्॥ ७/११॥
तादृक्चेष्टासमेताया अङ्गुलीयमदात् ततः। सीताया यानि चैवासन्नाकृतेस्तानि सर्वशः॥ ७/१२॥
भूषणानि द्विधा भूत्वा तान्येवासंस्तथैव च। अथ चूडामणिं दिव्यं दातुं रामाय सा ददौ॥ ७/१३॥
यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते। द्युलोकचारिणः सर्वे पश्यन्त्यृषय एव च॥ ७/१४॥
तेषां विडम्बनायैव दैत्यानां वञ्चनाय च। पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत्॥ ७/१५॥
कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः। आत्माविष्करणे चित्तं चक्रे मतिमतां वरः॥ ७/१६॥
लङ्कायां रावणसभायां च कपिचेष्टा
अथ वनमखिलं तद् रावणस्यावलुप्य क्षितिरुहमिममेकं वर्जयित्वाऽऽशु वीरः। रजनिचरविनाशं काङ्क्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चारुरोह॥ ७/१७॥
अथाशृणोद् दशाननः कपीन्द्रचेष्टितं परम्। दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति॥ ७/१८॥
रावणसेनानाशः
समस्तशो विमृत्यवो वराद्धरस्य किङ्कराः। समासदन् महाबलं सुरान्तरात्मनोऽङ्गजम्॥ ७/१९॥
अशीतिकोटियूथपं पुरःसराष्टकायुतम्। अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद् बलम्॥ ७/२०॥
समावृतस्तथाऽऽयुधैः स ताडितश्‍च तैर्भृशम्। चकार तान् समस्तशस्तलप्रहारचूर्णितान्॥ ७/२१॥
पुनश्‍च मन्त्रिपुत्रकान् स रावणप्रचोदितान्। ममर्द सप्तपर्वतप्रभान् वराभिरक्षितान्॥ ७/२२॥
बलाग्रगामिनस्तथा स शर्ववाक्सुगर्वितान्। निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत्॥ ७/२३॥
अक्षकुमारहननम्
अनौपमं हरेर्बलं निशम्य राक्षसाधिपः। कुमारमक्षमात्मनः समं सुतं न्ययोजयत्॥ ७/२४॥
स सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह। शितैर्वरास्त्रमन्त्रितैर्नचैनमभ्यचालयत्॥ ७/२५॥
स मण्डमध्यकासुतं समीक्ष्य रावणोपमम्। तृतीय एष चांशको बलस्य हीत्यचिन्तयत्॥ ७/२६॥
निधार्य एव रावणः स राघवाय नान्यथा। यदीन्द्रजिन्मया हतो नचास्य शक्तिरीक्ष्यते॥ ७/२७॥
अतस्तयोः समो मया तृतीय एष हन्यते। विचार्य चैवमाशु तं पदोः प्रगृह्य पुप्लुवे॥ ७/२८॥
स चक्रवद् भ्रमातुरं विधाय रावणात्मजम्। अपोथयद्धरातले क्षणेन मारुती तनुः॥ ७/२९॥
विचूर्णिते धरातले निजे सुते स रावणः। निशम्य शोकतापितस्तदग्रजं समादिशत्॥ ७/३०॥
स्वेच्छयैव इन्द्रजिता बद्धता
अथेन्द्रजिन्महाशरैर्वरास्त्रसम्प्रयोजितैः। ततक्ष वानरोत्तमं नचाशकद् विचालने॥ ७/३१॥
अथास्त्रमुत्तमं विधेर्युयोज सर्वदुःसहम्। स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः॥ ७/३२॥
मया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः। स माननीय एव मे ततोऽत्र मानयाम्यहम्॥ ७/३३॥
इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः। इतीह लक्ष्यमेव मे स रावणश्‍च दृश्यते॥ ७/३४॥
इदं समीक्ष्य बद्धवत् स्थितं कपीन्द्रमाशु ते। बबन्धुरन्यपाशकैर्जगाम चास्त्रमस्य तत्॥ ७/३५॥
रावणेन सह सम्भाषणम्
अथ प्रगृह्य तं कपिं समीपमानयंश्‍च ते। निशाचरेश्‍वस्य तं स पृष्टवांश्‍च रावणः॥ ७/३६॥
कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम्। इतीरितः स चावदत् प्रणम्य राममीश्‍वरम्॥ ७/३७॥
अवैहि दूतमागतं दुरन्तविक्रमस्य माम्। रघूत्तमस्य मारुतिं कुलक्षये तवेश्‍वरम्॥ ७/३८॥
न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा। सपुत्रमित्रबान्धवो विनाशमाशु यास्यसि॥ ७/३९॥
न रामबाणधारणे क्षमाः सुरेश्‍वरा अपि। विरिञ्चशर्वपूर्वकाः किमु त्वमल्पसारकः॥ ७/४०॥
प्रकोपितस्य तस्य कः पुरःस्थितौ क्षमो भवेत्। सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः॥ ७/४१॥
इतीरिते वधोद्यतं न्यवारयद् विभीषणः। स पुच्छदाहकर्मणि न्ययोजयन्निशाचरान्॥ ७/४२॥
पु्च्छाग्निकर्म
अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये। ददुर्ददाह नास्य तन्मरुत्सखो हुताशनः॥ ७/४३॥
ममर्ष सर्वचेष्टितं स रक्षसां निरामयः। बलोद्धतश्‍च कौतुकात् प्रदग्धुमेव तां पुरीम्॥ ७/४४॥
ददाह चाखिलां पुरीं स्वपुच्छगेन वह्निना। कृतिस्तु विश्‍वकर्मणोऽप्यदह्यतास्य तेजसा॥ ७/४५॥
सुवर्णरत्नकारितां स राक्षसोत्तमैः सह। प्रदह्य सर्वतः पुरीं मुदाऽन्वितो जगर्ज च॥ ७/४६॥
स रावणं सपुत्रकं तृणोपमं विधाय च। तयोः प्रपश्यतोः पुरीं विधाय भस्मसाद् ययौ॥ ७/४७॥
समुद्रस्य पुनरुल्लङ्घनं मधुप्राशनं च
विलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः। प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान्॥ ७/४८॥
रामसमागमः
रामं सुरेश्‍वरमगण्यगुणाभिरामं सम्प्राप्य सर्वकपिवीरवरैः समेतः। चूडामणिं पवनजः पदयोर्निधाय सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या॥ ७/४९॥
रामोऽपि नान्यदनुदातुममुष्य योग्यमत्यन्तभक्तिभरितस्य विलक्ष्य किञ्चित्। स्वात्मप्रदानमधिकं पवनात्मजस्य कुर्वन् समाश्लिषदमुं परमाभितुष्टः॥ ७/५०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते सुन्दरकाण्डकथानिरूपणं नाम सप्तमोऽध्यायः समाप्तः॥
अष्टमोऽध्यायः
लङ्काप्रयाणारम्भः
श्रुत्वा हनूमदुदितं कृतमस्य सर्वं प्रीतः प्रयाणमभिरोचयते स रामः। आरुह्य वायुसुतमङ्गदगेन युक्तः सौमित्रिणा सरविजः सह सेनयाऽगात्॥ ८/१॥
सम्प्राप्य दक्षिणमपान्निधिमत्र देवः शिश्ये जगद्गुरुतमोऽप्यविषह्यशक्तिः। अग्रे हि मार्दवमनुप्रथयन् स धर्मं पन्थानमर्थितुमपां पतितः प्रतीतः॥ ८/२॥
विभीषणस्वीकारः
तत्राजगाम स विभीषणनामधेयो रक्षःपतेरवरजोऽप्यथ रावणेन। भक्तोऽधिकं रघुपतावतिधर्मनिष्ठस्त्यक्तो जगाम शरणं च रघूत्तमं तम्॥ ८/३॥
ब्रह्मात्मजेन रविजेन बलप्रणेत्रा नीलेन मैन्दविविदाङ्गदतारपूर्वैः। सर्वैश्‍च शत्रुसदनादुपयात एष भ्राताऽस्य न ग्रहणयोग्य इति स्थिरोक्तः॥ ८/४॥
अत्राह रूपमपरं बलदेवताया ग्राह्यः स एव नितरां शरणं प्रपन्नः। भक्तश्‍च रामपदयोर्विनिशिष्णु रक्षो विज्ञाय राज्यमुपभोक्तुमिहाभियातः॥ ८/५॥
इत्युक्तवत्यथ हनूमति देवदेवः सङ्गृह्य तद्वचनमाह यथैव पूर्वम्। सुग्रीवहेतुत इमं स्थिरमाग्रहीष्ये पादप्रपन्नमिदमेव सदा व्रतं मे॥ ८/६॥
सब्रह्मकाः सुरगणाः सहदैत्यमर्त्याः सर्वे समेत्य च मदङ्गुलिचालनेऽपि। नेशा भयं न मम रात्रिचरादमुष्माच्छुद्धस्वभाव इति चैनमहं विजाने॥ ८/७॥
इत्युक्तवाक्य उत तं स्वजनं विधाय राज्येऽभ्यषेचयदपारसुसत्त्वराशिः। मत्वा तृणोपममशेषसदन्तकं तं रक्षःपतेरवरजस्य ददौ स लङ्काम्॥ ८/८॥
कल्पान्तमस्य निशिचारपतित्वपूर्वमायुः प्रदाय निजलोकगतिं तदन्ते।
समुद्रनिग्रहः
रात्रित्रयेऽप्यनुपगामिनमीक्ष्य सोऽब्धिं चुक्रोध रक्तनयनान्तमयुञ्जदब्धौ॥ ८/९॥
सक्रोधदीप्तनयनान्तहतः परस्य शोषं क्षणादुपगतो दनुजादिसत्वैः। सिन्धुः शिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत्॥ ८/१०॥
तं त्वा वयं जडधियो न विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम्। त्वं सत्वतः सुरगणान् रजसो मनुष्यांस्तार्तीयतोऽसुरगणानभितस्तथाऽस्राः॥ ८/११॥
कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमवाप्नुहि वीरपत्नीम्। बध्नीहि सेतुमिह ते यशसो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्य भूपाः॥ ८/१२॥
इत्युक्तवन्तममुमाश्‍वनुगृह्य बाणं तस्मै धृतं दितिसुतात्मसु चान्त्यजेषु। शार्वाद् वराद् विगतमृत्युषु दुर्जयेषु निःसङ्ख्यकेष्वमुचदाशु ददाह सर्वान्॥ ८/१३॥
कृत्वेरिणं तदथ मूलफलानि चात्र सम्यग् विधाय भवशत्रुरमोघचेष्टः।
सेतुनिर्माणं समुद्रतरणं च
बद्धुं दिदेश सुरवर्धकिनोऽवतारं तज्जं नलं हरिवरानपरांश्‍च सेतुम्॥ ८/१४॥
बध्वोदधौ रघुपतिर्विविधाद्रिकूटैः सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः। सुग्रीवनीलहनुमत्प्रमुखैरनेकैर्लङ्कां विभीषणदृशाऽऽविशदाशु दग्धाम्॥ ८/१५॥
भीतेन रावणेन योद्धृनियोजनम्
प्राप्तं निशम्य परमं भुवनैकसारं निःसीमपौरुषमनन्तमसौ दशास्यः। त्रासाद् विषण्णहृदयो नितरां बभूव कर्तव्यकर्मविषये च विमूढचेताः॥ ८/१६॥
प्रस्थाप्य वालिसुतमेव च राजनीत्यै रामस्तदुक्तवचनेऽप्यमुनाऽगृहीते। द्वारो रुरोध स चतस्र उदीर्णसैन्यो रक्षःपतेः पुर उदारगुणः परेशः॥ ८/१७॥
द्वारां निरोधसमये स दिदेश पुत्रं वाराम्पतेर्दिशि सुरेश्‍वरशत्रुमुग्रम्। प्राच्यां प्रहस्तमदिशद् दिशि वज्रदंष्ट्रं प्रेताधिपस्य शशिनः स्वयमेव चागात्॥ ८/१८॥
रामेण प्रतियोद्धृनियोजनम्
विज्ञाय तत् स भगवान् हनुमन्तमेव देवेन्द्रशत्रुविजयाय दिदेश चाशु। नीलं प्रहस्तनिधनाय च वज्रदंष्ट्रं हन्तुं सुरेन्द्रसुतसूनुमथादिदेश॥ ८/१९॥
मध्ये हरीश्‍वरमधिज्य धनुर्नियुज्य यस्यां स राक्षसपतिर्दिशमेेव तां हि। उद्दिश्य संस्थित उपात्तशरः सखड्गो देदीप्यमानवपुरुत्तमपूरुषोऽसौ॥ ८/२०॥
प्रहस्तवज्रदंष्ट्रयोर्वधः
विद्रावितो हनुमतेन्द्रजिदाशु हस्तं तस्य प्रपन्न इव वीर्यममुष्य जानन्। नीलो विभीषण उभौ शिलया च शक्त्या सञ्चक्रतुर्यमवशं गमितं प्रहस्तम्॥ ८/२१॥
नीलस्य नैव वशमेति स इत्यमोघशक्त्या विभीषण इमं प्रजहार साकम्। तस्मिन् हतेऽङ्गद उपेत्य जघान वज्रदंष्ट्रं निपात्य भुवि शीर्षममुष्य मृद्नन्॥ ८/२२॥
धूम्राक्षवधः
सर्वेषु तेषु निहतेषु दिदेश धूम्रनेत्रं स राक्षसपतिः स च पश्‍चिमेन। द्वारेण मारुतसुतं समुपेत्य दग्धो गुप्तोऽपि शूलिवचनेन दुरन्तशक्तिम्॥ ८/२३॥
अकम्पनवधः
अकम्पनोऽपि राक्षसो निशाचरेशचोदितः। उमापतेर्वरोद्धतः क्षणाद्धतो हनूमता॥ ८/२४॥
रात्रौ लङ्कापुरीदहनम्
अथास्त्रसम्प्रदीपितैः समस्तशो महोल्मुकैः। रघुप्रवीरचोदिताः पुरं निशि स्वदाहयन्॥ ८/२५॥
सुग्रीवेण कुम्भस्य हनूमता निकुम्भस्य च वधः
ततस्तौ निकुम्भोऽथ कुम्भश्‍च कोपात् प्रदिष्टौ दशास्येन कुम्भश्रुतेर्हि। सुतौ सुप्रहृष्टौ रणायाभियातौ कपींस्तान् बहिः सर्वशो यापयित्वा॥ ८/२६॥
स कुम्भो विधातुः सुतं तारनीलौ नलं चाश्‍विपुत्रौ जिगायाङ्गदं च। सुयुद्धं च कृत्वा दिनेशात्मजेन प्रणीतो यमस्याशु लोकं सुपापः॥ ८/२७॥
ततो निकुम्भोऽद्रिवरप्रदारणं महान्तमुग्रं परिघं प्रगृह्य। ससार सूर्यात्मजमाशु भीतः स पुप्लुवे पश्‍चिमतो धनुःशतम्॥ ८/२८॥
तं भ्रामयत्याशु भुजेन वीरे भ्रान्ता दिशो द्यौश्‍च सचन्द्रसूर्याः। सुराश्‍च तस्योरुबलं वरं च शर्वोद्भवं वीक्ष्य विषेदुरीषत्॥ ८/२९॥
अनन्यसाध्यं तमथो निरीक्ष्य समुत्पपाताशु पुरोऽस्य मारुतिः। प्रकाश्य बाह्वन्तरमाह चैनं किमेभिरत्र प्रहरायुधं ते॥ ८/३०॥
इतीरितस्तेन स राक्षसोत्तमो वरादमोघं प्रजहार वक्षसि। विचूर्णितोऽसौ तदुरस्यभेद्ये यथैव वज्रो विपतौ वृथाऽभवत्॥ ८/३१॥
विचूर्णिते निजायुधे निकुम्भ एत्य मारुतिम्। प्रगृह्य चात्मनोऽंसके निधाय जग्मिवान् द्रुतम्॥ ८/३२॥
प्रगृह्य कण्ठमस्य स प्रधानमारुतात्मजः। स्वमाशु मोचयंस्ततो न्यपातयद् धरातले॥ ८/३३॥
चकार तं रणात्मके मखे रमेशदैवते। पशुं प्रभञ्जनात्मजो विनेदुरत्र देवताः॥ ८/३४॥
रामेण रावणसचिवानां वधः
सुप्तघ्नो यज्ञकोपश्‍च शकुनिर्देवतापनिः। विद्युज्जिह्वः प्रमाथी च शुकसारणसंयुताः॥ ८/३५॥
रावणप्रेरिताः सर्वे मथ्नन्तः कपिकुञ्जरान्। अवध्या ब्रह्मवरतो निहता रामसायकैः॥ ८/३६॥
पितृव्याभ्यां सह रावणपुत्राणां युद्धाय गमनम्
युद्धोन्मत्तश्‍च मत्तश्‍च देवान्तकनरान्तकौ। त्रिशिरा अतिकायश्‍च निर्ययू रावणाज्ञया॥ ८/३७॥
अङ्गदेन नरान्तकसंहारः
नरान्तको रावणजो हयवर्योपरि स्थितः। अभीः ससार समरे प्रासोद्यतकरो हरीन्॥ ८/३८॥
तं दहन्तमनीकानि युवराजोऽङ्गदो बली। उत्पपात निरीक्ष्याशु समदर्शयदप्युरः॥ ८/३९॥
तस्योरसि प्रासवरं प्रजहार स राक्षसः। द्विधा समभवत् तत् तु वालिपुत्रस्य तेजसा॥ ८/४०॥
अथास्य हयमाश्‍वेव निजघान मुखे कपिः। पेततुश्‍चाक्षिणी तस्य स पपात ममार च॥ ८/४१॥
स खड्गवरमादाय प्रससार रणे कपिम्। आच्छिद्य चास्य खड्गं तं निहतो वालिसूनुना॥ ८/४२॥
सुरान्तकपराक्रमः
गन्धर्वकन्यकासूते निहते रावणात्मजे। आजगामाग्रजस्तस्य सोदर्यो देवतान्तकः॥ ८/४३॥
तस्यापतत एवाशु शरवर्षप्रतापिताः। प्रदुद्रुवुर्भयात् सर्वे कपयो जाम्बवन्मुखाः॥ ८/४४॥
स शरं तरसाऽऽदाय रविपुत्रायुधोपमम्। अङ्गदं प्रजहारोरस्यपतत् स मुमोह च॥ ८/४५॥
अथ तिग्मांशुतनयः शैलं प्रचलपादपम्। अभिदुद्राव सङ्गृह्य चिक्षेप च निशाचरे॥ ८/४६॥
तमापतन्तमालक्ष्य दूराच्छरविदारितम्। सुरान्तकश्‍चकाराशु दधार च परं शरम्॥ ८/४७॥
स तमाकर्णमाकृष्य यमदण्डोपमं शरम्। अविद्ध्यद्धृदये राज्ञः कपीनां स पपात ह॥ ८/४८॥
हनूमता सुरान्तकवधः
बलमप्रतिमं वीक्ष्य सुरशत्रोस्तु मारुतिः। आह्वयामास युद्धाय केशवः कैटभं यथा॥ ८/४९॥
तमापतन्तमालोक्य रथं सहयसारथिम्। चूर्णयित्वा धनुश्‍चास्य समाच्छिद्य बभञ्ज ह॥ ८/५०॥
अथ खड्गं समादाय पुर आपततो रिपोः।
हरिः प्रगृह्य केशेषु पातयित्वैनमाहवे। शिरो ममर्द तरसा पवमानात्मजः पदा॥ ८/५१॥
तमीशानगिराऽवध्यं निहत्य पवनात्मजः। समीडितः सुरवरैः प्लवङ्गैर्वीक्षितो मुदा॥ ८/५२॥
विद्राविताखिलकपिं वरात् त्रिशिरसं विभोः। भङ्क्त्वा रथं धनुः खड्गमाच्छिद्याशिरसं व्यधात्॥ ८/५३॥
युद्धोन्मत्तश्‍च मत्तश्‍च पार्वतीवरदर्पितौ। प्रमथ्नन्तौ कपीन् सर्वान् हतौ मारुतिमुष्टिना॥ ८/५४॥
अतिकायपराक्रमः
ततोऽतिकायोऽतिरथो रथेन स्वयम्भुदत्तेन हरीन् प्रमृद्नन्। चचार कालानलसन्निकाशो गन्धर्विकायां जनितो दशास्यात्॥ ८/५५॥
बृहत्तनुः कुम्भवदेव कर्णावस्येत्यतो नाम च कुम्भकर्णः। इत्यस्य सोऽर्कात्मजपूर्वकान् कपीन् जिगाय रामं सहसाऽभ्यधावत्॥ ८/५६॥
अतिकायसंहारः
तमापतन्तं शरवर्षधारं महाघनाभं स्तनयित्नुघोषम्। निवारयामास यथा समीरः सौमित्रिरात्तेष्वसनः शरौघैः॥ ८/५७॥
ववर्षतुस्तावतिमात्रवीर्यौ शरान् सुरेशाशनितुल्यवेगान्। तमोमयं चक्रतुरन्तरिक्षं सुशिक्षया क्षिप्रतरास्त्रबाणैः॥ ८/५८॥
शरैः शरानस्य निवार्य वीरः सौमित्रिरस्त्राणि महास्त्रजालैः। चिच्छेद बाहू शिरसा सहैव चतुर्भुजोऽभूत् स पुनर्द्विशीर्षः॥ ८/५९॥
छिन्नेषु तेषु द्विगुणास्यबाहुः पुनःपुनः सोऽथ बभूव वीरः। उवाच सौमित्रिमथान्तरात्मा समस्तलोकस्य मरुद् विषण्णम्॥ ८/६०॥
ब्रह्मास्त्रतोऽन्येन न वध्य एष वराद् विधातुः सुमुखेत्यदृश्यः। रक्षःसुतस्याश्रवणीयमित्थमुक्त्वा समीरोऽरुहदन्तरिक्षम्‌॥ ८/६१॥
अथानुजो देवतमस्य सोऽस्त्रं ब्राह्मं तनूजे दशकन्धरस्य। मुमोच दग्धः सरथाश्‍वसूतस्तेनातिकायः प्रवरोऽस्त्रवित्सु॥ ८/६२॥
मकराक्षवधः, तत्सैन्यपलायनं च
हतेषु पुत्रेषु स राक्षसेशः स्वयं प्रयाणं समरार्थमैच्छत्। सज्जीभवत्येव निशाचरेशे खरात्मजः प्राह धनुर्धरोत्तमः॥ ८/६३॥
नियुङ्क्ष्व मां मे पितुरन्तकस्य वधाय राजन् सहलक्ष्मणं तम्। कपिप्रवीरांश्‍च निहत्य सर्वान् प्रतोषये त्वामहमद्य सुष्ठु॥ ८/६४॥
इतीरिते तेन नियोजितः स जगाम वीरो मकराक्षनामा। विधूय सर्वांश्‍च हरिप्रवीरान् सहाङ्गदान् सूर्यसुतेन साकम्॥ ८/६५॥
अचिन्तयँल्लक्ष्मणबाणसङ्घानवज्ञया राममथाह्वयद् रणे। उवाच रामं रजनीचरोऽसौ हतो जनस्थानगतः पिता त्वया॥ ८/६६॥
केनाप्युपायेन धनुर्धराणां वरः फलं तस्य ददामि तेऽद्य। इति ब्रुवाणः स सरोजयोनेर्वरादवध्योऽमुचदस्त्रसङ्घान्॥ ८/६७॥
प्रहस्य रामोऽस्य निवार्य चास्त्रैरस्त्राण्यमेयोऽशनिसन्निभेन। शिरः शरेणोत्तमकुण्डलोज्ज्वलं खरात्मजस्याथ समुन्ममाथ॥ ८/६८॥
विदुद्रुवुस्तस्य तु येऽनुयायिनः कपिप्रवीरैर्निहतावशेषिताः। यथैव धूम्राक्षमुखेषु पूर्वं हतेषु पृथ्वीरुहशैलधारिभिः॥ ८/६९॥
रावणेन सह प्रथमं युद्धम्
बहूनां कपीनां नाशः पलायनं च
ततः स सज्जीकृत आत्तधन्वा रथं समास्थाय निशाचरेश्‍वरः। वृतः सहस्रायुतकोट्यनीकपैर्निशाचरैराशु ययौ रणाय॥ ८/७०॥
बलैस्तु तस्याथ बलं कपीनां नैकप्रकारायुधपूगभग्नम्। दिशः प्रदुद्राव हरीन्द्रमुख्याः समर्दयन्नाशु निशाचरांस्तदा॥ ८/७१॥
गजो गवाक्षो गवयो वृषश्‍च सगन्धमादा धनदेन जाताः। प्राणादयः पञ्च मरुत्प्रवीराः सकत्थनो वित्तपतिश्‍च जघ्नुः॥ ८/७२॥
शरैस्तु तान् षडि्‌भरमोघवेगैर्निपातयामास दशाननो द्राक्। अथाश्‍विपुत्रौ च सजाम्बवन्तौ प्रजह्रतुः शैलवरैस्त्रिभिस्तम्॥ ८/७३॥
गिरीन् विदार्याशु शरैरथान्याञ्छरान् दशास्योऽमुचदाशु तेषु। एकैकमेभिर्विनिपातितास्ते ससार तं शक्रसुतात्मजोऽथ॥ ८/७४॥
शिलां समादाय तमापतन्तं बिभेद रक्षो हृदये शरेण। दृढाहतः सोऽप्यगमद् धरातलं रवेः सुतोऽथैनमभिप्रजग्मिवान्॥ ८/७५॥
तद्धस्तगं भूरुहमाशु बाणैर्दशाननः खण्डश एव कृत्वा। ग्रीवाप्रदेशेऽस्य मुमोच बाणं भृशाहतः सोऽपि पपात भूमौ॥ ८/७६॥
हनूमता मुष्टिप्रहारः
अथो हनूमानुरगेन्द्रभोगसमं स्वबाहुं भृशमुन्नमय्य। तताड वक्षस्यधिपं तु रक्षसां मुखैः स रक्तं प्रवमन् पपात॥ ८/७७॥
स लब्धसञ्ज्ञः प्रशशंस मारुतिं त्वया समो नास्ति पुमान् हि कश्‍चित्। कः प्रापयेदन्य इमां दशां मामितीरितो मारुतिराह तं पुनः॥ ८/७८॥
अत्यल्पमेतद् यदुपात्तजीवितः पुनस्त्वमित्युक्त उवाच रावणः। गृहाण मत्तोऽपि समुद्यतं त्वं मुष्टिप्रहारं त्विति तं पुपोथ॥ ८/७९॥
किञ्चित्प्रहारेण तु विह्वलाङ्गवत् स्थिते हि तस्मिन्निदमन्तरं मम। इत्यग्निसूनुं प्रययौ स रावणो निवारितो मारुतिनाऽपि वाचा॥ ८/८०॥
नीलपराजयः
तमापतन्तं प्रसमीक्ष्य नीलो धनुर्ध्वजाग्राश्‍वरथेषु तस्य। चचार मूर्धस्वपि चञ्चलोऽलं जडीकृतस्तेन स रावणोऽपि॥ ८/८१॥
स क्षिप्रमादाय हुताशनास्त्रं मुमोच नीले रजनीचरेशः। स तेन भूमौ पतितो नचैनं ददाह वह्निः स्वतनुर्यतोऽसौ॥ ८/८२॥
रावण-लक्ष्मण-सङ्ग्रामः
लक्ष्मणपातः
ततो ययौ राघवमेव रावणो निवारयामास तमाशु लक्ष्मणः। ततक्षतुस्तावधिकौ धनुर्भृतां शरैः शरीरावरणावदारणैः॥ ८/८३॥
निवारितस्तेन दशाननो भृशं रुषाऽन्वितो बाणममोघमुग्रम्। स्वयम्भुदत्तं परिकृष्य चाशु ललाटमध्ये प्रमुमोच तस्य॥ ८/८४॥
भृशाहतस्तेन मुमोह लक्ष्मणो रथादवप्लुत्य दशाननोऽपि। क्षणादभिद्रुत्य बलात् प्रगृह्य स्वबाहुभिर्नेतुमिमं समैच्छत्॥ ८/८५॥
शेषानुस्मरणम्
सम्प्राप्य सञ्ज्ञां स सुविह्वलोऽपि सस्मार रूपं निजमेव लक्ष्मणः। शेषं हरेरंशयुतं नचास्य सञ्चालनायापि शशाक रावणः॥ ८/८६॥
बलात् स्वदोर्भिः परिगृह्य चाखिलैर्यदा स वीरं प्रचकर्ष रावणः। चचाल पृथ्वी सहमेरुमन्दरा ससागरा नैव चचाल लक्ष्मणः॥ ८/८७॥
सहस्रमूर्ध्नोऽस्य बतैकमूर्धनि ससप्तपातालगिरीन्द्रसागरा। धराऽखिलेयं ननु सर्षपायति प्रसह्य को नाम हरेत् तमेनम्॥ ८/८८॥
हनूमता पुनर्मुष्टिप्रहारः
प्रकर्षति त्वेव निशाचरेश्‍वरे तथैव रामावरजं त्वरान्वितः। समस्तजीवाधिपतेः परा तनुः समुत्पपातास्य पुरो हनूमान्॥ ८/८९॥
स मुष्टिमावृत्य च वज्रकल्पं जघान तेनैव च रावणं रुषा। प्रसार्य बाहूनखिलैर्मुखैर्वमन् स रक्तमुष्णं व्यसुवत् पपात॥ ८/९०॥
रामाञ्जनेयाभ्यां लक्ष्मणक्लमनिरासः
निपात्य रक्षोधिपतिं स मारुतिः प्रगृह्य सौमित्रिमुरङ्गशायिनः। जगाम रामाख्यतनोः समीपं सौमित्रिमुद्धर्तुमलं ह्यसौ कपिः॥ ८/९१॥
स रामसंस्पर्शनिवारितक्लमः समुत्थितस्तेन समुद्धृते शरे। बभौ यथा राहुमुखात् प्रमुक्तः शशी सुपूर्णो विकचत्स्वरश्मिभिः॥ ८/९२॥
स शेषभोगाभमथो जनार्दनः प्रगृह्य चापं सशरं पुनश्‍च। सुलब्धसञ्ज्ञं रचनीचरेशं जगाद सज्जीभव रावणेति॥ ८/९३॥
रावणपराजयः
रथं समारुह्य पुनः सकार्मुकः समार्गणो रावण आशु रामम्। अभ्येत्य सर्वाश्‍च दिशश्‍चकार शरान्धकाराः परमास्त्रवेत्ता॥ ८/९४॥
रथे स्थितेऽस्मिन् रजनीचरेशे न मे पतिर्भूमितले स्थितः स्यात्। इति स्म पुत्रः पवनस्य रामं स्कन्धं समारोप्य ययौ च राक्षसम्॥ ८/९५॥
प्रहस्य रामोऽस्य हयान् निहत्य सूतं च कृत्वा तिलशो ध्वजं रथम्। धनूंषि खड्गं सकलायुधानि छत्रं च सञ्छिद्य चकर्त मौलीन्॥ ८/९६॥
कर्तव्यमूढं तमवेक्ष्य रामः पुनर्जगादाशु गृहं प्रयाहि। समस्तभोगाननुभूय शीघ्रं प्रतोष्य बन्धून् पुनरेहि मर्तुम्॥ ८/९७॥
इतीरितोऽवाग्वदनो ययौ गृहं विचार्य कार्यं सह मन्त्रिभिः स्वकैः। हतावशिष्टैरथ कुम्भकर्णप्रबोधनायाशु मतिं चकार॥ ८/९८॥
कुम्भकर्णवधः
कुम्भकर्णोद्बोधनम्
सशैलशृङ्गासिपरश्‍वधायुधैर्निशाचराणामयुतैरनेकैः। तच्छ्वासवेगाभिहतैः कथञ्चिद् गतैः समीपं कथमप्यबोधयत्॥ ८/९९॥
शैलोपमानस्य तु मांसराशीन् विधाय भक्ष्यानपि शोणितह्रदान्। सुतृप्तमेनं परमादरेण समाह्वयामास सभातलाय॥ ८/१००॥
उवाच चैनं रजनीचरेन्द्रः पराजितोऽस्म्यद्य हि जीवति त्वयि। रणे नरेणैव हि रामनाम्ना कुरुष्व मे प्रीतिममुं निहत्य॥ ८/१०१॥
इतीरितः कारणमप्यशेषं श्रुत्वा जगर्हाग्रजमेव वीरः। अमोघवीर्येण हि राघवेण त्वया विरोधश्‍चरितो बताद्य॥ ८/१०२॥
प्रशस्यते नो बलिभिर्विरोधः कथञ्चिदेषोऽतिबलो मतो मम। इतीरितो रावण आह दुर्नयोऽप्यहं त्वयाऽव्यो हि किमन्यथा त्वया॥ ८/१०३॥
चरन्ति राजान उताक्रमं क्वचित् त्वयोपमान् बन्धुजनान् बलाधिकान्। समीक्ष्य हीत्थं गदितोऽग्रजेन स कुम्भकर्णः प्रययौ रणाय॥ ८/१०४॥
कुम्भकर्णयुद्धपराक्रमः
प्राकारमालङ्घ्य स पञ्चयोजनं यदा ययौ शूलवरायुधो रणम्। कपिप्रवीरा अखिलाः प्रदुद्रुवुर्भयादतीत्यैव च सेतुमाशु॥ ८/१०५॥
शतबलिपनसाख्यौ तत्र वस्वंशभूतौ पवनगणवरांशौ श्‍वेतसम्पातिनौ च। निरृतितनुमथोग्रं दुर्मुखं केसरीति प्रवरमथ मरुत्सु प्रास्यदेतान् मुखे सः॥ ८/१०६॥
रजनिचरवरोऽसौ कुम्भकर्णः प्रतापी कुमुदमपि जयन्तं पाणिना सम्पिपेष। नलमथ च गजादीन् पञ्च नीलं सतारं गिरिवरतरुहस्तान् मुष्टिनाऽपातयच्च॥ ८/१०७॥
अथाङ्गदश्‍च जाम्बवानिनात्मजश्‍च वानरैः। निजघ्निरे निशाचरं सवृक्षशैलसानुभिः॥ ८/१०८॥
विचूर्णिताश्‍च पर्वतास्तनौ निशाचरस्य ते। बभूव काचन व्यथा नचास्य बाहुशालिनः॥ ८/१०९॥
अथापरं महाचलं प्रगृह्य भास्करात्मजः। मुमोच राक्षसेऽथ तं प्रगृह्य तं जघान सः॥ ८/११०॥
तदा पपात सूर्यजस्तताड चाङ्गदं रुषा। स जाम्बवन्तमाशु तौ निपेततुस्तलाहतौ॥ ८/१११॥
हनूमता सुग्रीवस्य रक्षणम्
अथ प्रगृह्य भास्करिं ययौ स राक्षसो बली। जगाम चानु मारुतिः सुसूक्ष्ममक्षिकोपमः॥ ८/११२॥
यदैनमेष बाधते तदा विमोचयाम्यहम्। यदि स्म शक्यतेऽस्य तु स्वमोचनाय तद् वरम्॥ ८/११३॥
इति व्रजत्यनु स्म तं मरुत्सुते निशाचरः। पुरं विवेश चार्चितः स्वबन्धुभिः समस्तशः॥ ८/११४॥
तुहिनसलिलमाल्यैः सर्वतोऽभिप्रवृष्टे रजनिचरवरेऽस्मिंस्तेन सिक्तः कपीशः। विगतसकलयुद्धग्लानिरावञ्चयित्वा रजनिचरवरं तं तस्य नासां ददंश॥ ८/११५॥
कराभ्यामस्य कर्णौ च नासिकां दशनैरपि। सञ्छिद्य क्षिप्रमेवासावुत्पपात हरीश्‍वरः॥ ८/११६॥
तलेन चैनं निजघान राक्षसः पिपेष भूमौ पतितं ततोऽपि। समुद्गतोऽसौ विवरेऽङ्गुलीनां जघान शूलेन पुनः स राक्षसः॥ ८/११७॥
अमोघशूलं प्रपतत् तदीक्ष्य रवेः सुतस्योपरि मारुतात्मजः। प्रगृह्य जानौ प्रणिधाय शीघ्रं बभञ्ज तं प्रेक्ष्य ननाद चोच्चैः॥ ८/११८॥
हनूमता मुष्टिप्रहारः, भगवत्सङ्कल्पचिन्तनं च
अथैनमावृत्य जघान मुष्टिना स राक्षसो वायुसुतं स्तनान्तरे। जगर्ज तेनाभिहतो हनूमानचिन्तयंस्तत् प्रजहार चैनम्॥ ८/११९॥
तलेन वक्षस्यभिताडितो रुषा हनूमता मोहमवाप राक्षसः। पुनश्‍च सञ्ज्ञां समवाप्य शीघ्रं ययौ स यत्रैव रघुप्रवीरः॥ ८/१२०॥
विचिन्तयामास ततो हनूमान् मयैव हन्तुं समरे हि शक्यः। असौ तथाऽप्येनमहं न हन्मि यशो हि रामस्य दृढं प्रकाशयन्॥ ८/१२१॥
अनन्यवध्यं तमिमं निहत्य स्वयं स रामो यश आहरेत। दत्तो वरो द्वारपयोः स्वयं च जनार्दनेनैव पुरातनश्‍च॥ ८/१२२॥
मयैव वध्यौ भवतं त्रिजन्मसु प्रवृद्धवीर्याविति केशवेन। उक्तं मयैवैष यदप्यनुग्रहं वधेऽस्य कुर्यान्नतु मे स धर्मः॥ ८/१२३॥
इति स्म सञ्चिन्त्य कपीशयुक्तो जगाम यत्रैव कपिप्रवीराः।
कुम्भकर्णस्य रामं प्रति गमनम्
स कुम्भकर्णोऽखिलवानरांस्तु प्रभक्षयन् राममुपाजगाम॥ ८/१२४॥
ते भक्षितास्तेन कपिप्रवीराः सर्वेऽपि निर्जग्मुरमुष्य देहात्। स्त्रोतोभिरेवाथ च रोमकूपैः केचित् तमेवारुरुहुर्यथा गिरिम्॥ ८/१२५॥
स तान् विधूयाशु यथा महागजो जगाम रामं समरार्थमेकः। प्रभक्षयन् स्वानपरांश्‍च सर्वशो मत्तः समाघ्राय च शोणितं पिबन्॥ ८/१२६॥
न्यवारयत् तं शरवर्षधारया स लक्ष्मणो नैनमचिन्तयत् सः। जगाम रामं गिरिशृङ्गधारी समाह्वयत् तं समराय चाशु॥ ८/१२७॥
रामकुम्भकर्णयुद्धम्, कुम्भकर्णसंहारश्च
अथो समादाय धनुः सुघोरं शरान् सुरेशाशनितुल्यवेगान्। प्रवेशयामास निशाचरे प्रभुः स राघवः पूर्वहतेषु यद्वत्॥ ८/१२८॥
यावद्बलेन न्यहनत् खरादिकान् न तावतैव न्यपतत् स राक्षसः। अथ प्रहस्यात्मबलैकदेशं प्रदर्शयन् बाणवरान् मुमोच॥ ८/१२९॥
द्वाभ्यां स बाहू निचकर्त तस्य पदद्वयं चैव तथा शराभ्याम्। अथापरेणास्य शिरो निकृत्य सम्प्राक्षिपत् सागरतोय आशु॥ ८/१३०॥
कुम्भकर्णदेहपातः
अवर्धताब्धिः पतितेऽस्य काये महाचलाभे क्षणदाचरस्य। सुराश्‍च सर्वे ववृषुः प्रसूनैर्मुदा स्तुवन्तो रघुवर्यमूर्धनि॥ ८/१३१॥
योजनानां त्रिलक्षं हि कुम्भकर्णोऽभ्यवर्धत। पूर्वं पश्‍चात् सञ्चुकोच लङ्कायामुषितुं स्वयम्॥ ८/१३२॥
स तु स्वभावमापन्नो म्रियमाणोऽभ्यवर्धत। तेनास्मिन् पतिते त्वब्धिरवर्धदधिकं तदा॥ ८/१३३॥
इन्द्रजिद्वधः
अथापरे ये रजनीचरास्तदा कपिप्रवीरैर्निहताश्‍च सर्वशः। हतावशिष्टास्त्वरिताः प्रदुद्रुवुर्भ्रातुर्वधं चोचुरुपेत्य रावणम्॥ ८/१३४॥
स दुःखतप्तो निपपात मूर्च्छितो निराशकश्‍चाभवदात्मजीविते। तमाह पुत्रस्त्रिदशेशशत्रुर्नियुङ्क्ष्व मां शत्रुवधाय मा चिरम्॥ ८/१३५॥
मया गृहीतस्त्रिदशेश्‍वरः पुरा विषीदसे किं नरराजपुत्रतः। स एवमुक्त्वा प्रजुहाव पावकं शिवं समभ्यर्च्य समारुहद् रथम्॥ ८/१३६॥
नागबन्धनम्, गरुडेन तन्मोचनं च
स आत्तधन्वा सशरो रथेन वियत् समारुह्य ययावदर्शनम्। स नागपाशैर्वरतः शिवस्य बबन्ध सर्वान् कपिवीरसङ्घान्॥ ८/१३७॥
पुराऽवताराय यदा स विष्णुर्दिदेश सर्वांस्त्रिदशांस्तदैव। ममापि सेवा भवता प्रयोज्येत्येवं गरुत्मानवदद् वृषाकपिम्॥ ८/१३८॥
तमाह विष्णुर्न भुवि प्रजातिमुपैहि सेवां तव चान्यथाऽहम्। आदास्य एवात्र यथा यशः स्याद् धर्मश्‍च कर्तव्यकृदेव च स्याः॥ ८/१३९॥
वरेण शर्वस्य हि रावणात्मजो यदा निबध्नाति कपीन् सलक्ष्मणान्। उरङ्गपाशेन तदा त्वमेव समेत्य सर्वानपि मोचयस्व॥ ८/१४०॥
अहं समर्थोऽपि स लक्ष्मणश्‍च तथा हनूमान् न विमोचयामः। तव प्रियार्थं गरुडैष एव कृतस्तवादेश इमं कुरुष्व॥ ८/१४१॥
तदेतदुक्तं हि पुराऽऽत्मना यत् ततो हि रामो न मुमोच कञ्चन। स लक्ष्मणो नैव च मारुतात्मजः स एव जानाति हि देवगुह्यम्॥ ८/१४२॥
अथो निबद्ध्याशु हरीन् सलक्ष्मणान् जगाम रक्षः स्वपितुः सकाशम्। ननन्द चासौ पिशिताशनेश्‍वरः शशंस पुत्रं च कृतात्मकार्यम्॥ ८/१४३॥
स पक्षिराजोऽथ हरेर्निदेशं स्मरंस्त्वरावानिह चाजगाम। तत्पक्षवातस्पर्शेन केवलं विनष्ट एषां स उरङ्गबन्धः॥ ८/१४४॥
स राममानम्य परात्मदैवतं ययौ सुमाल्याभरणानुलेपनः। कपिप्रवीरास्तु तरूञ्छिलाश्‍च प्रगृह्य नेदुर्बलिनः प्रहृष्टाः॥ ८/१४५॥
श्रुत्वा निनादं प्लवगेश्‍वराणां पुनः सपुत्रोऽत्रसदत्र रावणः। बन्धादमुष्मात् प्रविनिःसृतास्ते किमत्र कार्यं त्विति चिन्तयानः॥ ८/१४६॥
पुनश्चेन्द्रजित्पीडा, गन्धमादनप्रसङ्गश्च
पुनश्‍च हुत्वा स हुताशमेव रथं समारुह्य ययावदर्शनम्। ववर्ष चास्त्राणि महान्त्यजस्त्रं वरादुमेशस्य तथाऽब्जजस्य॥ ८/१४७॥
पुनश्‍च तस्यास्त्रनिपीडितास्ते निपेतुरुर्व्यां कपयः सलक्ष्मणाः। स्पृशन्ति नास्त्राणि दुरन्तशक्तिं तनुं समीरस्य हि कानिचित् क्वचित्॥ ८/१४८॥
विज्ञातुकामः पुरि सम्प्रवृत्तिं विभीषणः पूर्वगतस्तदाऽगात्। ददर्श सर्वान् पतितान् स वानरान् मरुत्सुतं त्वेकमनाकुलं च॥ ८/१४९॥
स तं समादाय ययौ विधातृजं विमूर्च्छितं चोदकसेकतस्तम्। आश्‍वास्य किं जीवसि हीत्युवाच तथेति स प्राह च मन्दवाक्यः॥ ८/१५०॥
ऊचे पुनर्जीवति किं हनूमान् जीवाम सर्वेऽपि हि जीवमाने। तस्मिन् हते निहताश्‍चैव सर्व इतीरितेऽस्मीत्यवदत् स मारुतिः॥ ८/१५१॥
इत्युक्तो जाम्बवानाह हनूमन्तमनन्तरम्। योऽसौ मेरोः समीपस्थो गन्धमादनसञ्ज्ञकः। गिरिस्तस्मात् समाहार्यं त्वयौषधिचतुष्टयम्॥ ८/१५२॥
मृतसञ्जीवनी मुख्या सन्धानकरणी परा। सवर्णकरणी चैव विशल्यकरणीति च॥ ८/१५३॥
इत्युक्तः स क्षणेनैव प्राप तद् गन्धमादनम्। अवाप चाम्बरचरो राममुक्तः शरो यथा॥ ८/१५४॥
अन्तर्हिताश्‍चौषधीस्तु तदा विज्ञाय मारुतिः। उद्बबर्ह गिरिं क्रोधाच्छतयोजनमण्डलम्॥ ८/१५५॥
स तं समुत्पाट्य गिरिं करेण प्रतोलयित्वा बलदेवसूनुः। समुत्पपाताम्बरमुग्रवेगो यथा हरिश्‍चक्रधरस्त्रिविक्रमे॥ ८/१५६॥
अवाप चाक्ष्णोः स निमेषमात्रतो निपातिता यत्र कपिप्रवीराः। तच्छैलवातस्पर्शात् समुत्थिताः समस्तशो वानरयूथपाः क्षणात्॥ ८/१५७॥
अपूजयन् मारुतिमुग्रपौरुषं रघूत्तमस्यानुजनिस्तथाऽपरे। पपात मूर्ध्न्यस्य च पुष्पसन्ततिः प्रमोदितैर्देववरैर्विसर्जिता॥ ८/१५८॥
स देवगन्धर्वमहर्षिसत्तमैरभिष्टुतो रामकरोपगूहितः। पुनर्गिरिं तं शतयोजनोच्छ्रितं न्यपातयत् संस्थित एव तत्र॥ ८/१५९॥
स पूर्ववन्मारुतिवेगचोदितो निरन्तरं श्लिष्टतरोऽत्र चाभवत्। पुनश्‍च सर्वे तरुशैलहस्ता रणाय चोत्तस्थुरलं नदन्तः॥ ८/१६०॥
पुनश्चेन्द्रजिता सम्मोहनास्त्रप्रयोगः, भगवता तन्निरासश्च
पुनश्‍च तान् प्रेक्ष्य समुत्थितान् कपीन् भयं महच्छक्रजितं विवेश। स पूर्ववद्धव्यवहे समर्च्य शिवं तथाऽदर्शनमेव जग्मिवान्॥ ८/१६१॥
वराश्रयेणाजगिरीशयोः पुनः सम्मोहनास्त्रैः स बबन्ध तान् कपीन्। अथाह रामस्य मनोनुसारतः पुरास्त्रमेवानुसरन् स लक्ष्मणः॥ ८/१६२॥
पितामहास्त्रेण निहन्मि दुर्मतिं तवाज्ञया शक्रजितं सबान्धवम्। इतीरितस्तेन स चाह राघवो भयाददृश्ये न विमोक्तुमर्हसि॥ ८/१६३॥
न सोढुमीशोऽसि यदि त्वमेतदस्त्रं तदाऽहं शरमात्रकेण। अदृश्यमप्याशु निहन्मि सन्तं रसातलेऽथापि हि सत्यलोके॥ ८/१६४॥
इति स्म वीन्द्रस्य हनूमतश्‍च बलप्रकाशाय पुरा प्रभुः स्वयम्। सम्मानयित्वाऽस्त्रममुष्य रामो दुरन्तशक्तिः शरमाददेऽथ॥ ८/१६५॥
अनेन दृष्टोऽहमिति स्म दुष्टो विज्ञाय बाह्वोर्बलमस्य चोग्रम्। विनिश्‍चयं देवतमस्य पश्यन् प्रदुद्रुवे प्राणपरीप्सुराशु॥ ८/१६६॥
हाहाकृते प्रद्रुत इन्द्रशत्रौ रघूत्तमः शत्रुविभीषणत्वात्। विभीषणेत्येव सुरैरभिष्टुतो विज्ञानमस्त्रं त्वमुचत् स्वसैन्ये॥ ८/१६७॥
निशाचरास्त्रं ह्यगमत् क्षणेन रामास्त्रवीर्याद्धरयो नदन्तः। उत्तस्थुरुच्चोरुगिरीन् प्रगृह्य प्रशंसमाना रघुवीरमुच्चैः॥ ८/१६८॥
सुरैश्‍च पुष्पं ववृषद्भिरीडितस्तस्थौ धनुष्पाणिरनन्तवीर्यः।
लक्ष्मणकर्तृक इन्द्रजिद्वधः
स रावणस्याथ सुतो निकुम्भिलां पुनः समासाद्य जुहाव पावकम्॥ ८/१६९॥
विभीषणोऽथाह रघूत्तमं प्रभुं नियोजयाद्यैव वधाय दुर्मतेः। कृताग्निपूजो नहि वध्य एष वरो विधातुः प्रथितोऽस्य तादृशः॥ ८/१७०॥
न वै वधं राम इयेष तस्य पलायितस्यात्मसमीक्षणात् पुनः। सत्त्वोज्झितोऽसावपि कूटयोधी न मे वधार्होऽयमिति स्म स प्रभुः॥ ८/१७१॥
स आदिदेशावरजं जनार्दनो हनूमता चैव विभीषणेन। सहैव सर्वैरपि वानरेन्द्रैर्ययौ महात्मा स च तद्वधाय॥ ८/१७२॥
स जुह्वतस्तस्य चकार विघ्नं प्लवङ्गमैः सोऽथ युयुत्सया रथम्। समास्थितः कार्मुकबाणपाणिः प्रत्युद्ययौ लक्ष्मणमाशु गर्जन्॥ ८/१७३॥
उभौ च तावस्त्रविदां वरिष्ठौ शरैः शरीरान्तकरैस्ततक्षतुः। दिशश्‍च सर्वाः प्रदिशः शरोत्तमैर्विधाय शिक्षास्त्रबलैर्निरन्तराः॥ ८/१७४॥
अस्त्राणि तस्यास्त्रवरैः स लक्ष्मणो निवार्य शत्रोश्‍चलकुण्डलोज्ज्वलम्। शिरः शरेणाशु समुन्ममाथ सुरैः प्रसूनैरथ चाभिवृष्टः॥ ८/१७५॥
निपातितेऽस्मिन्नितरान् निशाचरान् प्लवङ्गमा जघ्नुरनेककोटिशः। हतावशिष्टास्तु दशाननाय शशंसुरत्याप्तसुतप्रणाशम्॥ ८/१७६॥
रावणवधः
ससैन्यं रावणप्रवेशः
स तन्निशम्याप्रियमुग्ररूपं भृशं विनिःश्‍वस्य विलप्य दुःखात्। संस्थापयामास मतिं पुनश्‍च मरिष्य इत्येव सुनिश्‍चितार्थः॥ ८/१७७॥
मरणाभिमुखः शीघ्रं रावणो रणकर्मणि। सज्जीभवन्नन्तरैव दिदेश बलमूर्जितम्॥ ८/१७८॥
त्रिंशत्सहस्राणि महौघकानामक्षौहिणीनामपि षट्सहस्रम्। श्रमेण संयोजयताशु रामं सज्जीभवामीति दिदेश रावणः॥ ८/१७९॥
तदप्रधृष्यं वरतः स्वयम्भुवो युगान्तकालार्णवघूर्णितोपमम्। प्रगृह्य नानाविधमस्त्रशस्त्रं बलं कपीञ्छीघ्रतमं जगाम॥ ८/१८०॥
आगच्छमानं तदपारमेयं बलं सुघोरं प्रलयार्णवोपमम्। भयात् समुद्वीक्ष्य विषण्णचेतसः कपिप्रवीरा नितरां प्रदुद्रुवुः॥ ८/१८१॥
वरो हि दत्तोऽस्य पुरा स्वयम्भुवा धरातलेऽल्पेऽपि निवासशक्तिः। अजेयता चेत्यत एव सार्कजाः प्लवङ्गमा द्रष्टुमपि स्म नाशकन्॥ ८/१८२॥
श्रीरामेण बहुरूपिणा रावणसैन्यनाशः
प्रगृह्य रामोऽपि धनुः शरांश्‍च समन्ततस्तानवधीच्छरौघैः। स एव सर्वत्र च दृश्यमानो विदिक्षु दिक्षु प्रजघान सर्वशः॥ ८/१८३॥
क्षणेन सर्वांश्‍च निहत्य राघवः प्लवङ्गमानामृषभैः सुपूजितः। अभिष्टुतः सर्वसुरोत्तमैर्मुदा भृशं प्रसूनोत्करवर्षिभिः प्रभुः॥ ८/१८४॥
अवशिष्टबलैर्मन्त्रिभिश्च रावणस्य पुनरागमनम्
अथाययौ सर्वनिशाचरेश्‍वरो हतावशिष्टेन बलेन संवृतः। विमानमारुह्य च पुष्पकं त्वरन् शरीरनाशाय महायुधोद्धतः॥ ८/१८५॥
विरूपनेत्रोऽप्यथ यूपनेत्रस्तथा महापार्श्‍वमहोदरौ च। ययुस्तमावृत्य सहैव मन्त्रिणो मृतिं पुरोधाय रणाय यान्तम्॥ ८/१८६॥
महोदरवधः
अथास्य सैन्यानि निजघ्नुरोजसा समन्ततः शैलशिलाभिवृष्टिभिः। प्लवङ्गमास्तानभिवीक्ष्य वीर्यवान् ससार वेगेन महोेदरो रुषा॥ ८/१८७॥
वीक्ष्यातिकायं तमभिद्रवन्तं स कुम्भकर्णोऽयमिति ब्रुवन्तः। प्रदुद्रुवुर्वानरवीरसङ्घास्तमाससादाशु सुतोऽथ वालिनः॥ ८/१८८॥
वदन् स तिष्ठध्वमिति स्म वीरो बिभीषिकामात्रमिदं न यात। इतीरयन्नग्रत एव पुप्लुवे महोदरस्येन्द्रसुतात्मजो बली॥ ८/१८९॥
अथो शरानाशु विमुञ्चमानं शिरः परामृश्य निपात्य भूतले। ममर्द पद्भ्यामभवद् गतासुर्महोदरो वालिसुतेन चूर्णितः॥ ८/१९०॥
महापार्श्ववधः
अथो महापार्श्‍व उपाजगाम प्रवर्षमाणोऽस्य शराम्बुधाराः। प्रसह्य चाच्छिद्य धनुः करस्थं समाददे खड्गममुष्य सोऽङ्गदः॥ ८/१९१॥
निगृह्य केशेषु निपात्य भूतले चकर्त वामांसत औदरं परम्। यथोपवीतं स तथा द्विधाकृतो ममार मन्त्री रजनीचरेशितुः॥ ८/१९२॥
यूपनेत्रविरूपनेत्रयोर्वधः
अथैनमाजग्मतुरुद्यतायुधौ विरूपनेत्रोऽप्यथ यूपनेत्रः। यथैव मेघौ दिवि तिग्मरश्मिं तथा समाच्छादयतां शरौघैः॥ ८/१९३॥
ताभ्यां स बद्धः शरपञ्जरेण विचेष्टितुं नाशकदत्र वीरः। हरीश्‍वरः शैलमतिप्रमाणमुत्पाट्य चिक्षेप तयोः शरीरे॥ ८/१९४॥
उभौ च तौ तेन विचूर्णितौ रणे रवेः सुतस्योरुबलेरितेन।
रावणेन शक्तिप्रयोगः
निशाचरेशोऽथ शरेण सूर्यजं बिभेद वक्षस्यपि सोऽपतद् भुवि॥ ८/१९५॥
ततस्तु सर्वांश्‍च हरिप्रवीरान् विधूय बाणैर्बलवान् दशाननः। जगाम रामाभिमुखस्तदैनं रुरोध रामावरजः शरौघैः॥ ८/१९६॥
तदा दशास्योऽन्तकदण्डकल्पां मयाय दत्तां कमलोद्भवेन। मयाद् गृहीतां च विवाहकाले प्रगृह्य शक्तिं विससर्ज लक्ष्मणे॥ ८/१९७॥
तया स वीरः सुविदारितोराः पपात भूमौ सुभृशं विमूर्च्छितः। मरुत्सुतः शैलमतिप्रमाणं चिक्षेप रक्षःपतिवक्षसि द्रुतम्॥ ८/१९८॥
तेनातिगाढं व्यथितो दशाननो मुखैर्वमञ्छोणितपूरमाशु। तदन्तरे च प्रतिगृह्य लक्ष्मणं जगाम शक्त्या सह रामसन्निधिम्॥ ८/१९९॥
पुनश्च गन्धमादनानयनम्
समुद्बबर्हाथ च तां स राघवो दिदेश च प्राणवरात्मजं पुनः। प्रभुः समानेतुमथो वरौषधीः स चानिनायाशु गिरिं पुनस्तम्॥ ८/२००॥
तद्गन्धमात्रेण समुत्थितोऽसौ सौमित्रिरात्तोरुबलश्‍च पूर्ववत्। शशंस चाश्लिष्य मरुत्सुतं प्रभुः स राघवोऽगण्यगुणार्णवः स्मयन्॥ ८/२०१॥
प्राक्षिपत् तं गिरिवरं लङ्कास्थः सन् स मारुतिः। अर्धलक्षे योजनानां यत्रासौ पूर्वसंस्थितः॥ ८/२०२॥
तद्बाहुवेगात् संश्लेषं प्राप पूर्ववदेव सः। मृताश्‍च ये प्लवङ्गास्तु तद्गन्धात् तेऽपि जीविताः॥ ८/२०३॥
रामाज्ञया हि रक्षांसि हरयोऽब्धाववाक्षिपन्। नोज्जीवितास्ततस्ते तु वानरा नीरुजोऽभवन्॥ ८/२०४॥
छिन्नप्ररोहिणश्‍चैव विशल्याः पूर्ववर्णिनः। ओषधीनां प्रभावेन सर्वेऽपि हरयोऽभवन्॥ ८/२०५॥
रावणवधः
अथाससादोत्तमपूरुषं प्रभुं विमानगो रावण आयुधौघान्। प्रवर्षमाणो रघुवंशनाथं तमात्तधन्वाऽभिययौ स रामः॥ ८/२०६॥
सम्मानयन् राघवमादिपूरुषं निर्यातयामास रथं पुरन्दरः। सहायुधं मातलिसङ्गृहीतं समारुरोहाशु स लक्ष्मणाग्रजः॥ ८/२०७॥
आरुह्य तद् रथवरं जगदेकनाथो लोकाभयाय रजनीचरनाथमाशु। अभ्युद्ययौ दशशतांशुरिवान्धकारं लोकानशेषत इमान् निगिरन्तमुद्यन्॥ ८/२०८॥
आयान्तमीक्ष्य रजनीचरलोकनाथः शस्त्राण्यथास्त्रसहितानि मुमोच रामे। रामस्तु तानि विनिकृत्य निजैर्महास्त्रैस्तस्योत्तमाङ्गदशकं युगपन्न्यकृन्तत्॥ ८/२०९॥
कृत्तानि तानि पुनरेव समुत्थितानि दृष्ट्वा वराच्छतधृतेर्हृदयं बिभेद। बाणेन वज्रसदृशेन स भिन्नहृत्को रक्तं वमन् न्यपतदाशु महाविमानात्॥ ८/२१०॥
देवतागमनम्
तस्मिन् हते त्रिजगतां परमप्रतीपे ब्रह्मा शिवेन सहितः सह लोकपालैः। अभ्येत्य पादयुगलं जगदेकभर्तू रामस्य भक्तिभरितः शिरसा ननाम॥ ८/२११॥
चतुर्मुखकृतरामस्तुतिः
अथैनमस्तौत् पितरं कृताञ्जलिर्गुणाभिरामं जगतः पितामहः। जितं जितं तेऽजित लोकभावन प्रपन्नपालाय नताः स्म ते वयम्॥ ८/२१२॥
त्वमेक ईशोऽसि नचादिरन्तस्तवेड्य कालेन तथैव देशतः। गुणा ह्यगण्यास्तव तेऽप्यनन्ताः प्रत्येकशश्‍चादिविनाशवर्जिताः॥ ८/२१३॥
नचोद्भवो नैव तिरस्कृतिस्ते क्वचिद् गुणानां परतः स्वतो वा। त्वमेक आद्यः परमः स्वतन्त्रो भृत्यास्तवाहं शिवपूर्वकाश्‍च ये॥ ८/२१४॥
यथाऽर्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चापः। गच्छन्ति चायान्ति च सन्तताश्‍च तद्वन्मदाद्याः शिवपूर्वकाश्‍च ये॥ ८/२१५॥
येये च मुक्तास्त्वथ ये च बद्धाः सर्वे तवेशेश वशे सदैव। वयं सदा त्वद्गुणपूगमुच्चैः सर्वे वदन्तोऽपि न पारगामिनः॥ ८/२१६॥
किमेष ईदृग्गुणकस्य ते प्रभो रक्षोवधोऽशेषसुरप्रपालनम्। अनन्यसाध्यं हि तथाऽपि तद् द्वयं कृतं त्वया तस्य नमोनमस्ते॥ ८/२१७॥
रुद्रस्यासुरभावविमोचनम्
इतीरिते त्वब्जभवेन शूली समाह्वयद् राघवमाहवाय। वरं मदीयं त्वगणय्य रक्षो हतं त्वया तेन रणाय मैहि॥ ८/२१८॥
इतीरितेऽस्त्वित्यभिधाय राघवो धनुः प्रगृह्याशु शरं च सन्दधे। विकृष्यमाणे चलिता वसुन्धरा पपात रुद्रोऽपि धराप्रकम्पतः॥ ८/२१९॥
अथोत्थितश्‍चासुरभाववर्जितः क्षमस्व देवेति ननाम पादयोः। उवाच च त्वद्वशगोऽस्मि सर्वदा प्रसीद मे त्वद्विषयं मनः कुरु॥ ८/२२०॥
इन्द्रादीनां प्रपत्तिः
अथेन्द्रमुख्याश्‍च तमूचिरे सुरास्त्वयाऽविताः स्मोऽद्य निशाचराद् वयम्। तथैव सर्वापद एव नस्त्वं प्रपाहि सर्वे भवदीयकाः स्मः॥ ८/२२१॥
सीतादेव्याः पुनरागमनम्
सीताकृतिं तामथ तत्र चागतां दिव्यच्छलेन प्रणिधाय पावके। कैलासतस्तां पुनरेव चागतां सीतामगृह्णाद्धुतभुक्समर्पिताम्॥ ८/२२२॥
जानन् गिरीशालयगां स सीतां समग्रहीत् पावकसम्प्रदत्ताम्। मुमोद सम्प्राप्य च तां स रामः सा चैव देवी भगवन्तमाप्य॥ ८/२२३॥
सुषेणेन वानराणामुपचारः
अथो गिरेरानयनात् परस्ताद् ये वानरा रावणबाणपीडिताः। तारापिता तान् निरुजश्‍चकार सुषेणनामा भिषजां वरिष्ठः॥ ८/२२४॥
श्रीरामेण मृतानामानयनम्
तदा मृतान् राघव आनिनाय यमक्षयाद् देवगणांश्‍च सर्वशः। समन्वजानात् पितरं च तत्र समागतं गन्तुमियेष चाथ॥ ८/२२५॥
अयोध्यागमनम्
विभीषणेनार्पितमारुरोह स पुष्पकं तत्सहितः सवानरः। पुरीं जगामाशु निजामयोध्यां पुरो हनूमन्तमथो न्ययोजयत्॥ ८/२२६॥
ददर्श चासौ भरतं हुताशनं प्रवेष्टुकामं जगदीश्‍वरस्य। अदर्शनात् तं विनिवार्य रामं समागतं चास्य शशंस मारुतिः॥ ८/२२७॥
श्रुत्वा प्रमोदोरुभरः स तेन सहैव पौरैः सहितः समातृकः। शत्रुघ्नयुक्तोऽभिसमेत्य राघवं ननाम बाष्पाकुललोचनाननः॥ ८/२२८॥
उत्थाप्य तं रघुपतिः सस्वजे प्रणयान्वितः। शत्रुघ्नं च तदन्येषु प्रतिपेदे यथावयः॥ ८/२२९॥
पुरीं प्रविश्य मुनिभिः साम्राज्ये चाभिषेचितः। यथोचितं च सम्मान्य सर्वानाहेदमीश्‍वरः॥ ८/२३०॥
हनूमते भगवता सहभोगप्रदानम्
सर्वैर्भवद्भिः सुकृतं विधाय देहं मनोवाक्सहितं मदीयम्। एतावदेवाखिलसद्विधेयं यत् कायवाक्चित्तभवं मदर्चनम्॥ ८/२३१॥
मुक्तिप्रदानात् प्रतिकर्तृता मे सर्वस्य चाथो भवतां भवेत। हनूमतो न प्रतिकर्तृता स्यात् स्वभावभक्तस्य निरौपधं मे॥ ८/२३२॥
मद्भक्तौ ज्ञानपूर्तावनुपधिकबलप्रोन्नतिस्थैर्यधैर्य- स्वाभाव्याधिक्यतेजःसुमतिदमशमेष्वस्य तुल्यो न कश्‍चित्। शेषो रुद्रः सुपर्णोऽप्युरुगुणसमितौ नो सहस्रांशतुल्या अस्येत्यस्मान्मदीशं पदमहममुना सार्धमेवोपभोक्ष्ये॥ ८/२३३॥
पूर्वं जिगाय भुवनं दशकन्धरोऽसावब्जोद्भवस्य वरतो नतु तं कदाचित्। कश्‍चिज्जिगाय पुरुहूतसुतः कपित्वाद् विष्णोर्वरादजयदर्जुन एव चैनम्॥ ८/२३४॥
दत्तो वरो न मनुजान् प्रति वानरांश्‍च धात्राऽस्य तेन विजितो युधि वालिनैषः। अब्जोद्भवस्य वरमाश्‍वभिभूय रक्षो जिग्ये त्वहं रणमुखे बलिमाह्वयन्तम्॥ ८/२३५॥
बलेर्द्वारस्थोऽहं वरमस्मै सम्प्रदाय पूर्वं तु। तेन मया रक्षोऽस्तं योजनमयुतं पदाङ्गुल्या॥ ८/२३६॥
पुनश्‍च युद्धाय समाह्वयन्तं न्यपातयं रावणमेकमुष्टिना। महाबलोऽहं कपिलाख्यरूपस्त्रिकोटिरूपः पवनश्‍च मे सुतः॥ ८/२३७॥
आवां स्वशक्त्या जयिनाविति स्म शिवो वरान्मेऽजयदेनमेव। ज्ञात्वा सुराजेयमिमं हि वव्रे हरो जयेयाहममुं दशाननम्॥ ८/२३८॥
अतः स्वभावाज्जयिनावहं च वायुश्‍च वायुर्हनुमान् स एषः। अमुष्य हेतोस्तु पुरा हि वायुना शिवेन्द्रपूर्वा अपि काष्ठवत् कृताः॥ ८/२३९॥
अतो हनूमान् पदमेतु धातुर्मदाज्ञया सृष्ट्यवनादि कर्म। मोक्षं च लोकस्य सदैव कुर्वन् मुक्तश्‍च मुक्तान् सुखयन् प्रवर्तताम्॥ ८/२४०॥
भोगाश्‍च ये यानि च कर्मजातान्यनाद्यनन्तानि ममेह सन्ति। मदाज्ञया तान्यखिलानि सन्ति धातुः पदे तत् सहभोगनाम॥ ८/२४१॥
एतादृशं मे सहभोजनं ते मया प्रदत्तं हनुमन् सदैव। इतीरितस्तं हनुमान् प्रणम्य जगाद वाक्यं स्थिरभक्तिनम्रः॥ ८/२४२॥
हनूमत्कृतप्रार्थना
को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह। तथाऽपि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणादृते॥ ८/२४३॥
त्वमेव साक्षात् परमः स्वतन्त्रस्त्वमेव साक्षादखिलोरुशक्तिः। त्वमेव चागण्यगुणार्णवः सदा रमाविरिञ्चादिभिरप्यशेषैः॥ ८/२४४॥
समेत्य सर्वेऽपि सदा वदन्तोऽप्यनन्तकालाच्च न वै समाप्नुयुः। गुणांस्त्वदीयान् परिपूर्णसौख्यज्ञानात्मकस्त्वं हि सदाऽतिशुद्धः॥ ८/२४५॥
यस्ते कथासेवक एव सर्वदा सदा रतिस्त्वय्यचलैकभक्तिः। स जीवमानो न परः कथञ्चित् तज्जीवनं मेऽस्त्वधिकं समस्तात्॥ ८/२४६॥
प्रवर्धतां भक्तिरलं क्षणेक्षणे त्वयीश मे ह्रासविवर्जिता सदा। अनुग्रहस्ते मयि चैवमेव निरौपधौ तौ मम सर्वकामः॥ ८/२४७॥
भगवता हनूमते वरद्वयप्रदानम्
इतीरितस्तस्य ददौ स तद् द्वयं पदं विधातुः सकलं च शोभनम्। समाश्लिषच्चैनमथार्द्रया धिया यथोचितं सर्वजनानपूजयत्॥ ८/२४८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते युद्धकाण्डकथानिरूपणं नामाष्टमोऽध्यायः समाप्तः॥
नवमोऽध्यायः
स्वपादनिषेवणे लक्ष्मणस्य, यौवराज्ये च भरतस्य नियोजनम्
अथाप्तराज्यो भगवान् स लक्ष्मणं जगाद राजा तरुणो भवाशु। इतीरितस्त्वाह स लक्ष्मणो गुरुं भवत्पदाब्जान्न परं वृणोम्यहम्॥ ९/१॥
न मां भवत्पादनिषेवणैकस्पृहं तदन्यत्र नियोक्तुमर्हसि। नहीदृशः कश्‍चिदनुग्रहः क्वचित् तदेव मे देहि ततः सदैव॥ ९/२॥
इतीरितस्तस्य तदेव दत्त्वा दृढं समाश्लिष्य च राघवः प्रभुः। स यौवराज्ये भरते निधाय जुगोप लोकानखिलान् सधर्मकान्॥ ९/३॥
श्रीरामराज्यर्णनम्
प्रशासतीशे पृथिवी बभूव विरिञ्चलोकस्य समा गुणोन्नतौ। जनोऽखिलो विष्णुपरो बभूव न धर्महानिश्‍च बभूव कस्यचित्॥ ९/४॥
गुणैश्च सर्वैरुदिताश्‍च सर्वे यथायथा योग्यतयोच्चनीचाः। समस्तरोगादिभिरुज्झिताश्‍च सर्वे सहस्रायुष ऊर्जिता धनैः॥ ९/५॥
सर्वेऽजरा नित्यबलोपपन्ना यथेष्टसिद्ध्या च सदोपपन्नाः। समस्तदोषैश्‍च सदा विहीनाः सर्वे सुरूपाश्‍च सदा महोत्सवाः॥ ९/६॥
सर्वे मनोवाक्तनुभिः सदैव विष्णुं यजन्ते नतु कञ्चिदन्यम्। समस्तरत्नोद्भरिता च पृथ्वी यथेष्टधान्या बहुदुग्धगोमती॥ ९/७॥
समस्तगन्धाश्‍च सदाऽतिहृद्या रसा मनोहारिण एव तत्र। शब्दाश्‍च सर्वे श्रवणातिहारिणः स्पर्शाश्‍च सर्वे स्पर्शेन्द्रियप्रियाः॥ ९/८॥
न कस्यचिद् दुःखमभूत् कथञ्चिन्न वित्तहानिश्‍च बभूव कश्‍चन। नाधर्मशीलो नच कश्‍चनाप्रजो न दुष्प्रजो नैव कुभार्यकश्‍च॥ ९/९॥
स्त्रियो नचासन् विधवाः कथञ्चिन्न वै पुमांसो विधुरा बभूवुः। नानिष्टयोगश्‍च बभूव कस्यचिन्नचेष्टहानिर्नच पूर्वमृत्युः॥ ९/१०॥
यथेष्टमाल्याभरणानुलेपना यथेष्टपानाशनवाससोऽखिलाः। बभूवुरीशे जगतां प्रशासति प्रकृष्टधर्मेण जनार्दने नृपे॥ ९/११॥
स्वरमणस्य सीतया सह रमणम्
स ब्रह्मरुद्रमरुदश्‍विदिवाकरादिमूर्धन्यरत्नपरिघट्टितपादपीठः। नित्यं सुरैः सह नरैरथ वानरैश्‍च सम्पूज्यमानचरणो रमते रमेशः॥ ९/१२॥
तस्याखिलेशितुरनाद्यनुगैव लक्ष्मीः सीताभिधा त्वरमयत् स्वरतं रमेेशम्। नित्यावियोगिपरमोच्चनिजस्वभावसौन्दर्यविभ्रमसुलक्षणपूर्वभावा॥ ९/१३॥
रेमे तया स परमः स्वरतोऽपि नित्यं नित्योन्नतप्रमदभारभृतस्वभावः। पूर्णोडुराजसुविराजितसन्निशासु दीप्यन्नशोकवनिकासु सुपुष्पितासु॥ ९/१४॥
गायन्ति चैनमनुरक्तधियः सुकण्ठा गन्धर्वचारणगणाः सह चाप्सरोभिः। तं तुष्टुवुर्मुनिगणाः सहिताः सुरेशै राजान एनमनुयान्ति सदाऽप्रमत्ताः॥ ९/१५॥
एवं त्रयोदशसहस्रमसौ समास्तु पृथ्वीं ररक्ष विजितारिरमोघवीर्यः। आनन्दमिन्दुरिव सन्दधदिन्दिरेशो लोकस्य सान्द्रसुखवारिधिरप्रमेयः॥ ९/१६॥
कुशलवयोरुत्पत्तिः
देव्यां स चाजनयदिन्द्रहुताशनौ द्वौ पुत्रौ यमौ कुशलवौ बलिनौ गुणाढ्यौ।
भरतशत्रुघ्नद्वाराऽसुरवधः
शत्रुघ्नतो लवणमुल्बणबाणदग्धं कृत्वा चकार मधुरां पुरमुग्रवीर्यः॥ ९/१७॥
कोटित्रयं स निजघान तथाऽसुराणां गन्धर्वजन्म भरतेन सतां च धर्मम्।
बहुयज्ञकरणम्
संशिक्षयन्नयजदुुत्तमकल्पकैः स्वं यज्ञैर्भवाजमुखसत्सचिवाश्‍च यत्र॥ ९/१८॥
शम्बूकवधः
अथ शूद्रतपश्‍चर्यानिहतं विप्रपुत्रकम्। उज्जीवयामास विभुर्हत्वा तं शूद्रतापसम्॥ ९/१९॥
जङ्घनामाऽसुरः पूर्वं गिरिजावरदानतः। बभूव शूद्रः कल्पायुः स लोकक्षयकाम्मया॥ ९/२०॥
तपश्‍चचार दुर्बुद्धिरिच्छन् माहेश्‍वरं पदम्। अनन्यवध्यं तं तस्माज्जघान पुरुषोत्तमः॥ ९/२१॥
अगस्त्यद्वारा श्व‍ेतेन श्रीरामाय मालाप्रदानम्
श्‍वेतदत्तां तथा मालामगस्त्यादाप राघवः। अनन्नयज्ञकृच्छ्वेतो राजा क्षुद्विनिवर्तनम्। कुर्वन् स्वमांसैर्धात्रोक्तो मालां रामार्थमर्पयत्॥ ९/२२॥
अगस्त्याय न साक्षात् तु रामे दद्यादयं नृपः। क्षुदभावमात्रफलदं न साक्षाद् राघवेऽर्पितम्॥ ९/२३॥
क्षुदभावमात्रमाकाङ्क्षन् मामसौ परिपृच्छति।
व्यवधानस्ततो रामे दद्याच्छ्वेत इति प्रभुः। मत्वा ब्रह्माऽऽदिशन्मालां प्रदातुं कुम्भयोनये॥ ९/२४॥
तामगस्त्यकरपल्लवार्पितां भक्त एष मम कुम्भसम्भवः। इत्यवेत्य जगृहे जनार्दनस्तेन संस्तुत उपागमत् पुरम्॥ ९/२५॥
सीतापरित्यागः
सुराणकप्रसङ्गः
अथ केचिदासुरसुराः सुराणका इत्युरुप्रथितपौरुषाः पुरा। ते तपः सुमहदास्थिता विभुं पद्मसम्भवमवेत्य चोचिरे॥ ९/२६॥
भूरिपापकृतिनोऽपि निश्‍चयान्मुक्तिमाप्नुम उदारसद्गुण। इत्युदीरितमजोऽवधार्य तत् प्राह च प्रहसिताननः प्रभुः॥ ९/२७॥
यावदेव रमया रमेश्‍वरं नो वियोजयथ सद्गुणार्णवम्। तावदुच्चमपि दुष्कृतं भवन्मोक्षमार्गपरिपन्थि नो भवेत्॥ ९/२८॥
इत्युदीरितमवेत्य तेऽसुराः क्षिप्रमोक्षगमनोत्सुकाः क्षितौ। साधनोपचयकाङ्क्षिणो हरौ शासति क्षितिमशेषतोऽभवन्॥ ९/२९॥
ताननादिकृतदोषसञ्चयैर्मोक्षमार्गगतियोग्यतोज्झितान्। मैथिलस्य तनया व्यचालयन्मायया स्म तनुवा स्वमार्गतः॥ ९/३०॥
आज्ञयैव हि हरेस्तु मायया मोहितास्तु दितिजा व्यनिन्दयन्। राघवो निशिचराहृतां पुनर्जानकीं जगृह इत्यनेकशः॥ ९/३१॥
ब्रह्मवाक्यमृतमेव कारयन् पातयंस्तमसि चान्ध आसुरान्। नित्यमेव सहितोऽपि सीतया सोऽग्निसाक्षिकमभूद् वियुक्तवत्॥ ९/३२॥
तेन चान्धतम ईयुरासुरा यज्ञमाह्वयदसौ च मैथिलीम्। तत्र भूमिशपथच्छलान्नृणां दृष्टिमार्गमपहाय सा स्थिता॥ ९/३३॥
ब्रह्मादिशापोल्लङ्घनविचारे निर्णयः
गुरुं हि जगतो विष्णुर्ब्रह्माणमसृजत् स्वयम्। तेन तद्वचनं सत्सु नानृतं कुरुते क्वचित्॥ ९/३४॥
नासत्स्वप्यनृतं कुर्याद् वचनं पारलौकिकम्। ऐहिकं त्वसुरेष्वेव क्वचिद्धन्ति जनार्दनः॥ ९/३५॥
निजाधिक्यस्य विज्ञप्त्यै क्वचिद् वायुस्तदाज्ञया। हन्ति ब्रह्मत्वमात्मीयमद्धा ज्ञापयितुं प्रभुः॥ ९/३६॥
नान्यः कश्‍चित् तद्वराणां शापानामप्यतिक्रमी। अयोग्येषु तु रुद्रादिवाक्यं तौ कुरुतो मृषा। एकदेशेन सत्यं तु योग्येष्वपि कदाचन॥ ९/३७॥
न विष्णोर्वचनं क्वापि मृषा भवति कस्यचित्। एतदर्थोऽवतारस्तु विष्णोर्भवति सर्वदा॥ ९/३८॥
देव्या भूप्रवेशः
प्रविश्य भूमौ सा देवी लोकदृष्ट्यनुसारतः। रेमे रामेणावियुक्ता भास्करेण प्रभा यथा॥ ९/३९॥
एवं रमालालितपादपल्लवः पुनः स यज्ञैश्‍च यजन् स्वमेव। वराश्‍वमेधादिभिराप्तकामो रेमेऽभिरामो नृपतीन् विशिक्षयन्॥ ९/४०॥
रामस्य दृश्या त्वन्येषामदृश्या जनकात्मजा। भूमिप्रवेशादूर्ध्वं सा रेमे सप्तशतं समाः॥ ९/४१॥
रामावतारसमाप्त्यर्थं देवताप्रार्थना, भगवता तदङ्गीकारश्च
एवंविधान्यगणितानि जनार्दनस्य रामावतारचरितानि तदन्यपुम्भिः। शक्यानि नैव मनसाऽपि हि तानि कर्तुं ब्रह्मेशशेषपुरुहूतमुखैः सुरैश्‍च॥ ९/४२॥
तस्यैवमब्जभवलोकसमामिमां क्ष्मां कृत्वाऽनुशासत उदीक्ष्य गुणान् धरायाः। वैशेष्यमात्मसदनस्य हि काङ्क्षमाणा वृन्दारकाः कमलजं प्रति तच्छशंसुः॥ ९/४३॥
आमन्त्र्य तैः सह विभुर्भगवत्प्रयाणं स्वीयाय सद्मन इयेष दिदेश चाशु। रुद्रं स्वलोकगमनाय रघूत्तमस्य सम्प्रार्थने स च समेत्य विभुं ययाचे॥ ९/४४॥
एकान्तमेत्य रघुपेण समस्तकालो रुद्रो जगाद वचनं जगतो विधातुः। वैशेष्यमात्मसदनस्य हि काङ्क्षमाणास्त्वामर्थयन्ति विबुधाः सहिता विधात्रा॥ ९/४५॥
पुत्रस्तवेश कमलप्रभवस्तथाऽहं पौत्रस्तु पौत्रकवचो यदपि ह्ययोग्यम्। सम्भावयन्ति गुणिनस्तदहं ययाचे गन्तुं स्वसद्म नतिपूर्वमितो भवन्तम्॥ ९/४६॥
यत्कार्यसाधनकृते विबुधार्थितस्त्वं प्रादुश्‍चकर्थ निजरूपमशेषमेव। तत् साधितं हि भवता तदितः स्वधाम क्षिप्रं प्रयाहि हर्षं विबुधेषु कुर्वन्॥ ९/४७॥
ओमित्युवाच भगवांस्तदशेषमेव श्रुत्वा रहसि … … … … … … ।
श्रीरामेण दुर्वासप्रतिज्ञाभङ्गः
… … … … … … … … … … … … … अथ तनुस्त्वपरा हरस्य। दुर्वासनामयुगिहागमदाशु रामं मां भोजय क्षुधितमित्यसकृद् ब्रुवाणा॥ ९/४८॥
सिद्धं न देयमुत साध्यमपीति वाचं श्रुत्वाऽस्य वाक्समयजातमुरु स्वहस्तात्। अन्नं चतुर्गुणमदादमृतोपमानं रामस्तदाप्य बुभुजेऽथ मुनिः सुतुष्टः॥ ९/४९॥
तृप्तो ययौ च सकलान् प्रति कोपयानः कश्चिन्न मेऽर्थितवरं प्रतिदातुमीशः। एवंप्रतिज्ञक ऋषिः स हि तत्प्रतिज्ञां मोघां चकार भगवान्नतु कश्चिदन्यः॥ ९/५०॥
कुन्ती तु तस्य हि मुनेर्वरतोऽजयत् तं रामः स कृष्णतनुवा स्वबलाज्जिगाय।
श्रीरामकृतलक्ष्मणत्यागः, तन्निर्णयश्च
तस्मिञ्छिवे प्रतिगते मुनिरूपके च याहीति लक्ष्मणमुवाच रमापतिः सः॥ ९/५१॥
एकान्ते तु यदा रामश्‍चक्रे रुद्रेण संविदम्। द्वारपालं स कृतवांस्तदा लक्ष्मणमेव सः॥ ९/५२॥
यद्यत्र प्रविशेत् कश्‍चिद्धन्मि त्वेति वचो ब्रुवन्। तदन्तराऽऽगतमृषिं दृष्ट्वाऽमन्यत लक्ष्मणः॥ ९/५३॥
दुर्वाससः प्रतिज्ञा तु रामं प्राप्यैव भज्यताम्। अन्यथा त्वयशो रामे करोत्येष मुनिर्ध्रुवम्॥ ९/५४॥
राघवो घ्नन्नपि तु मां करोत्येव दयां मयि। इति मत्वा ददौ मार्गं स तु दुर्वाससे तदा॥ ९/५५॥
स्वलोकगमनाकाङ्क्षी स्वयमेव तु राघवः। इयं प्रतिज्ञा हेतुः स्यादिति हन्मीति सोऽकरोत्॥ ९/५६॥
अत्यन्तबन्धुनिधनं त्याग एवेति चिन्तयन्। याहि स्वलोकमचिरादित्युवाच स लक्ष्मणम्॥ ९/५७॥
इत्युक्तः स ययौ जगद्भवभयध्वान्तच्छिदं राघवं ध्यायन्नाप च तत्पदं दशशतैर्युक्तो मुखाम्भोरुहैः। आसीच्छेषमहाफणी मुसलभृद् दिव्याकृतिर्लाङ्गली पर्यङ्कत्वमवाप यो जलनिधौ विष्णोः शयानस्य च॥ ९/५८॥
तत्काले मुक्तियोग्यैः सह स्वधामगमनार्थं श्रीरामेच्छा
अथ राघवः स्वभवनोपगतौ विदधे मतिं सह जनैरखिलैः। समघोषयच्च य इहेच्छति तत् पदमक्षयं सपदि मैत्विति सः॥ ९/५९॥
श्रुत्वा तु तद् य इह मोक्षपदेच्छवस्ते सर्वे समाययुरथातृणमापिपीलम्। रामाज्ञया गमनशक्तिरभूत् तृणादेर्ये तत्र दीर्घभविनो नहि ते तदैच्छन्॥ ९/६०॥
नरवानरराज्ययोर्नूतनराज्ञोरभिषेकः
संस्थापयामास कुशं स्वराज्ये तैः साकमेव च लवं युवराजमीशः। संस्थाप्य वालितनयं कपिराज्य आशु सूर्यात्मजोऽपि रघुवीरसमीपमायात्॥ ९/६१॥
रामाञ्जनेययोः सम्भाषणम्
अथाह वायुनन्दनं स राघवः समाश्लिषन्। तवाहमक्षिगोचरः सदा भवामि नान्यथा॥ ९/६२॥
त्वया सदा महत् तपः सुकार्यमुत्तमोत्तमम्। तदेव मे महत् प्रियं चिरं तपस्त्वया कृतम्॥ ९/६३॥
दशास्यकुम्भकर्णकौ यथा सुशक्तिमानपि। जघन्थ न प्रियाय मे तथैव जीव कल्पकम्॥ ९/६४॥
पयोब्धिमध्यगं च मे सुसद्म चान्यदेव वा। यथेष्टतो गमिष्यसि स्वदेहसंयुतोऽपि सन्॥ ९/६५॥
यथेष्टभोगसंयुतः सुरेशगायकादिभिः। समीड्यमानसद्यशा रमस्व मत्पुरः सदा॥ ९/६६॥
तवेप्सितं न किञ्चन क्वचित् कदाचिदेव वा। मृषा भवेत् प्रियश्‍च मे पुनःपुनर्भविष्यसि॥ ९/६७॥
इतीरितो मरुत्सुतो जगाद विश्‍वनायकम्। विधेहि पादपङ्कजे तवेश भक्तिमुत्तमाम्॥ ९/६८॥
सदा प्रवर्धमानया तया रमेऽहमञ्जसा। समस्तजीवसञ्चयात् सदाऽधिका हि मेऽस्तु सा॥ ९/६९॥
नमोनमो नमोनमो नतोऽस्मि ते सदा पदम्। समस्तसद्गुणोच्छ्रितं नमामि ते पदं पुनः॥ ९/७०॥
इतीरिते तथेति तं जगाद पुष्करेक्षणः।
श्रीरामेण तृणादेरपि स्वपदप्रदानम्
जगाम धाम चात्मनस्तृणादिभिः सहैव सः॥ ९/७१॥
खगा मृगास्तृणादयः पिपीलिकाश्‍च गर्दभाः। तदाऽऽसुरुत्तमा यतो नृवानरास्तु किं पुनः॥ ९/७२॥
सदैव रामभावनात् सदा सुतत्त्ववेदिनः। यतोऽभवंस्ततस्तु ते ययुः पदं हरेस्तदा॥ ९/७३॥
स्वधाम गमितुः श्रीरामस्यापादमौळिवर्णनम्
स तैः समावृतो विभुर्ययौ दिशं तदोत्तराम्। अनन्तसूर्यदीधितिर्दुरन्तसद्गुणार्णवः॥ ९/७४॥
सहस्रसूर्यमण्डलज्वलत्किरीटमूर्धजः। सुनीलकुन्तलावृतामितेन्दुकान्तिसन्मुखः॥ ९/७५॥
सुरक्तपद्मलोचनः सुविद्युदाभकुण्डलः। सुहासविद्रुमाधरः समस्तवेदवाग्रसः॥ ९/७६॥
दिवाकरौघकौस्तुभप्रभासकोरुकन्धरः। सुपीवरोन्नतोरुसज्जगद्भरांसयुग्मकः॥ ९/७७॥
सुवृत्तदीर्घपीवरोल्लसद्भुजद्वयाङ्कितः। जगद् विमथ्य सम्भृतः शरोऽस्य दक्षिणे करे॥ ९/७८॥
स्वयं स तेन निर्मितो हतो मधुश्‍च कैटभः। शरेण तेन विष्णुना ददौ च लक्ष्मणानुजे॥ ९/७९॥
स शत्रुसूदनोऽवधीन्मधोः सुतं रसाह्वयम्। शरेण येन चाकरोत् पुरीं च माधुराभिधाम्॥ ९/८०॥
समस्तसारसम्भवं शरं दधार तं करे। स वामबाहुना धनुर्दधार शार्ङ्गसञ्ज्ञितम्॥ ९/८१॥
उदारबाहुभूषणः शुभाङ्गदः सकङ्कणः। महाङ्गुलीयभूषितः सुरक्तसत्कराम्बुजः॥ ९/८२॥
अनर्घ्यरत्नमालया वनाख्यया च मालया। विलासिविस्तृतोरसा बभार च श्रियं प्रभुः॥ ९/८३॥
सभूतिवत्सभूषणस्तनूदरे वलित्रयी। उदारमध्यभूषणोल्लसत्तडित्प्रभाम्बरः॥ ९/८४॥
करीन्द्रसत्करोरुयुक् सुवृत्तजानुमण्डलः। क्रमाल्पवृत्तजङ्घकः सुरक्तपादपल्लवः॥ ९/८५॥
लसद्धरिन्मणिद्युती रराज राघवोऽधिकम्। असङ्ख्यसत्सुखार्णवः समस्तशक्तिसत्तनुः॥ ९/८६॥
श्रीरामस्य परन्धामगमनम्
ज्ञानं नेत्राब्जयुग्मान् मुखवरकमलात् सर्ववेदार्थसारान् तन्वा ब्रह्माण्डबाह्यान्तरमधिकरुचा भासयन् भासुरास्यः। सर्वाभीष्टाभये च स्वकरवरयुगेनार्थिनामादधानः प्रायाद् देवाधिदेवः स्वपदमभिमुखश्‍चोत्तराशां विशोकाम्॥ ९/८७॥
दध्रे च्छत्रं हनूमान् स्रवदमृतमयं पूर्णचन्द्रायुताभं सीता सैवाखिलाक्ष्णां विषयमुपगता श्रीरिति ह्रीरथैका। द्वेधा भूत्वा दुधाव व्यजनमुभयतः पूर्णचन्द्रांशुगौरं प्रोद्यद्भास्वत्प्रभाभा सकलगुणतनुर्भूषिता भूषणैः स्वैः॥ ९/८८॥
साक्षाच्चक्रतनुस्तथैव भरतश्‍चक्रं दधद् दक्षिणे- नायात् सव्यत एव शङ्खवरभृच्छङ्खात्मकः शत्रुहा। अग्रे ब्रह्मपुरोगमाः सुरगणा वेदाश्‍च सोङ्कारकाः पश्‍चात् सर्वजगज्जगाम रघुपं यान्तं निजं धाम तम्॥ ९/८९॥
तस्य सूर्यसुतपूर्ववानरा दक्षिणेन मनुजास्तु सव्यतः। रामजन्मचरितानि तस्य ते कीर्तयन्त उचथैर्द्रुतं ययुः॥ ९/९०॥
गन्धर्वैर्गीयमानो विबुधमुनिगणैरब्जसम्भूतिपूर्वैः वेदोदारार्थवाग्भिः प्रणिहितसुमनाः सर्वदा स्तूयमानः। सर्वैर्भूतैश्‍च भक्त्या स्वनिमिषनयनैः कौतुकाद् वीक्ष्यमाणः प्रायाच्छेषगरुत्मदादिकनिजैः संसेवितं स्वं पदम्॥ ९/९१॥
ब्रह्मरुद्रगरुडैः सशेषकैः प्रोच्यमानसुगुणोरुविस्तरः। आरुरोह विभुरम्बरं शनैस्ते च दिव्यवपुषोऽभवंस्तदा॥ ९/९२॥
देवासुरांशानां गतयः
अथ ब्रह्मा हरिं स्तुत्वा जगादेदं वचो विभुम्। त्वदाज्ञया मया दत्तं स्थानं दशरथस्य हि॥ ९/९३॥
मातॄणां चापि तल्लोकस्त्वयुताब्दादितोऽग्रतः। अनर्हायास्त्वयाऽऽज्ञप्ता कैकेय्या अपि सद्गतिः। सूत्वा तु भरतं नैषा गच्छेत निरयानिति॥ ९/९४॥
तथाऽपि सा यदावेशाच्चकार त्वय्यशोभनम्। निकृतिर्नाम सा क्षिप्ता मया तमसि शाश्‍वते॥ ९/९५॥
कैकयी तु चलान् लोकान् प्राप्ता नैवाचलान् क्वचित्। पश्‍चाद् भक्तिमती यस्मात् त्वयि सा युक्तमेव तत्॥ ९/९६॥
मन्थरा तु तमस्यन्धे पातिता दुष्टचारिणी। सीतार्थं येऽप्यनिन्दंस्त्वां तेऽपि याता महत्तमः॥ ९/९७॥
प्रायशो राक्षसाश्‍चैव त्वयि कृष्णत्वमागते। शेषा यास्यन्ति तच्छेषा अष्टाविंशे कलौ युगे। गते चतुःसहस्राब्दे तमोगास्त्रिशतोत्तरे॥ ९/९८॥
अथ ये त्वत्पदाम्भोजमकरन्दैकलिप्सवः। त्वया सहागतास्तेषां विधेहि स्थानमुत्तमम्॥ ९/९९॥
अहं भवः सुरेशाद्याः किङ्कराः स्म तवेश्‍वर। यच्च कार्यमिहास्माभिस्तदप्याज्ञापयाशु नः॥ ९/१००॥
इत्युदीरितमाकर्ण्य शतानन्देन राघवः। जगाद भावगम्भीरं सुस्मिताधरपल्लवः॥ ९/१०१॥
जगद्गुरुत्वमादिष्टं मया ते कमलोद्भव। गुर्वादेशानुसारेण मयाऽऽदिष्टा च सद्गतिः॥ ९/१०२॥
अतस्त्वया प्रदेया हि लोका एषां मदाज्ञया। हृदि स्थितं च जानासि त्वमेवैकः सदा मम॥ ९/१०३॥
इतीरितो हरेर्भावविज्ञानी कञ्जसम्भवः। पिपीलिकातृणान्तानां ददौ लोकाननुत्तमान्। वैष्णवान् सन्ततत्वाच्च नाम्ना सान्तानिकान् विभुः॥ ९/१०४॥
ते जरामृतिहीनाश्‍च सर्वदुःखविवर्जिताः। संसारमुक्ता न्यवसंस्तत्र नित्यसुखाधिकाः॥ ९/१०५॥
ये तु देवा इहोद्भूता नृवानरशरीरिणः। ते सर्वे स्वांशितामापुस्तन्मैन्दविविदावृते॥ ९/१०६॥
असुरावेशतस्तौ तु न राममनुजग्मतुः। पीतामृतौ पुरा यस्मान्मम्रतुर्नच तौ तदा॥ ९/१०७॥
तयोश्‍च तपसा तुष्टश्‍चक्रे तावजरामरौ। पुरा स्वयम्भूस्तेनोभौ दर्पादमृतमन्थने। प्रसह्यापिबतां देवैर्देवांशत्वादुपेक्षितौ॥ ९/१०८॥
पीतामृतेषु देवेषु युद्ध्यमानेषु दानवैः। तैर्दत्तमात्महस्ते तु रक्षायै पीतमाशु तत्। तस्माद् दोषादापतुस्तावासुरं भावमूर्जितम्॥ ९/१०९॥
अङ्गदः कालतस्त्यक्त्वा देहमाप निजां तनुम्। रामाज्ञयैव कुर्वाणो राज्यं कुशसमन्वितः॥ ९/११०॥
विभीषणश्‍च धर्मात्मा राघवाज्ञापुरस्कृतः। सेनापतिर्धनेशस्य कल्पमावीत् स राक्षसान्॥ ९/१११॥
रामाज्ञया जाम्बवांश्‍च न्यवसत् पृथिवीतले। उत्पत्त्यर्थं जाम्बवत्यास्तदर्थं सुतपश्‍चरन्॥ ९/११२॥
रामाञ्जनेययोः स्थितयः
अथो रघूणां प्रवरः सुरार्चितः स्वयैकतन्वा न्यवसत् सुरालये। द्वितीयया ब्रह्मसदस्यधीश्‍वरस्तेनार्चितोऽथापरया निजालये॥ ९/११३॥
तृतीयरूपेण निजं पदं प्रभुं व्रजन्तमुच्चैरनुगम्य देवताः। अगम्यमर्यादमुपेत्य च क्रमाद् विलोकयन्तोऽतिविदूरतोऽस्तुवन्॥ ९/११४॥
ब्रह्मा मरुन्मारुतसूनुरीशः शेषो गरुत्मान् हरिजः शक्रकाद्याः। क्रमादनुव्रज्य तु राघवस्य शिरस्यथाज्ञां प्रणिधाय निर्ययुः॥ ९/११५॥
स्वंस्वं च सर्वे सदनं सुरा ययुः पुरन्दराद्याश्‍च विरिञ्चपूर्वकाः। मरुत्सुतोऽथो बदरीमवाप्य नारायणस्यैव पदं सिषेवे॥ ९/११६॥
समस्तशास्त्रोद्भरितं हरेर्वचो मुदा तदा श्रोत्रपुटेन सम्भरन्। वदंश्‍च तत्त्वं विबुधर्षभाणां सदा मुनीनां च सुखं ह्युवास॥ ९/११७॥
रामाज्ञया किम्पुरुषेषु राज्यं चकार रूपेण तथाऽपरेण। रूपैस्तथाऽन्यैश्‍च समस्तसद्मन्युवास विष्णोः सततं यथेष्टम्॥ ९/११८॥
इत्थं स गायञ्छतकोटिविस्तरं रामायणं भारतपञ्चरात्रम्। वेदांश्‍च सर्वान् सहितब्रह्मसूत्रान् व्याचक्षाणो नित्यसुखोद्भरोऽभूत्॥ ९/११९॥
रामोऽपि सार्द्धं पवनात्मजेन स सीतया लक्ष्मणपूर्वकैश्‍च। तथा गरुत्मत्प्रमुखैश्‍च पार्षदैः संसेव्यमानो न्यवसत् पयोब्धौ॥ ९/१२०॥
कदाचिदीशः सकलावतारानेकं विधायाहिपतौ हि शेते। पृथक् च संव्यूह्य कदाचिदिच्छया रेमे रमेशोऽमितसद्गुणार्णवः॥ ९/१२१॥
रामादिकथानिर्णयक्रमः
इत्यशेषपुराणेभ्यः पञ्चरात्रेभ्य एव च। भारताच्चैव वेदेभ्यो महारामायणादपि॥ ९/१२२॥
परस्परविरोधस्य हानान्निर्णीय तत्त्वतः। युक्त्या बुद्धिबलाच्चैव विष्णोरेव प्रसादतः॥ ९/१२३॥
बहुकल्पानुसारेण मयेयं सत्कथोदिता। नैकग्रन्थाश्रयात् तस्मान्नाशङ्ख्याऽत्र विरुद्धता॥ ९/१२४॥
क्वचिन्मोहायासुराणां व्यत्यासः प्रतिलोमता। उक्ता ग्रन्थेषु तस्माद्धि निर्णयोऽयं कृतो मया॥ ९/१२५॥
एवं च वक्ष्यमाणेषु नैवाशङ्ख्या विरुद्धता। सर्वकल्पसमश्‍चायं पारम्पर्यक्रमः सदा॥ ९/१२६॥
पुंव्यत्यासेन चोक्तिः स्यात् पुराणादिषु कुत्रचित्। कृष्णामाह यथा कृष्णो धनञ्जयशरैर्हतान्। शतं दुर्योधनादींस्ते दर्शयिष्य इति प्रभुः॥ ९/१२७॥
भीमसेनहतास्ते तु ज्ञायन्ते बहुवाक्यतः। विस्तारे भीमनिहताः सङ्क्षेपेऽर्जुनपातिताः। उच्यन्ते बहवश्‍चान्ये पुंव्यत्याससमाश्रयात्॥ ९/१२८॥
विस्तारे कृष्णनिहता बलभद्रहता इति। उच्यन्ते च क्वचित् कालव्यत्यासोऽपि क्वचिद् भवेत्॥ ९/१२९॥
यथा सुयोधनं भीमः प्राहसत् कृष्णसन्निधौ। इति वाक्येषु बहुषु ज्ञायन्तेे निर्णयादपि। अनिर्णये तु कृष्णस्य पूर्वमुक्ता गतिस्ततः॥ ९/१३०॥
व्यत्यासास्त्वेवमाद्याश्‍च प्रातिलोम्यादयस्तथा। दृश्यन्ते भारताद्येषु लक्षणग्रन्थतश्‍च ते। ज्ञायन्ते बहुभिर्वाक्यैर्निर्णयग्रन्थतस्तथा॥ ९/१३१॥
तस्माद् विनिर्णयग्रन्थानाश्रित्यैव च लक्षणम्। बहुवाक्यानुसारेण निर्णयोऽयं मया कृतः॥ ९/१३२॥
उक्तं लक्षणशास्त्रे च कृष्णद्वैपायनोदिते। त्रिभाषां यो न जानाति रीतीनां शतमेव च॥ ९/१३३॥
व्यत्यासादीन् सप्तभेदान् वेदाद्यर्थं तथा वदेत्। स याति निरयं घोरमन्यथाज्ञानसम्भवम्। इत्यन्येषु च शास्त्रेषु तत्रतत्रोदितं बहु॥ ९/१३४॥
व्यत्यासः प्रातिलोम्यं च गोमूत्री प्रघसस्तथा। उक्षणः सुधुरः साधुः सप्त भेदाः प्रकीर्तिताः॥ ९/१३५॥
इत्यादिलक्षणान्यत्र नोच्यन्तेऽन्यप्रसङ्गतः। अनुसारेण तेषां तु निर्णयः क्रियते मया। तस्मान्निर्णयशास्त्रत्वाद् ग्राह्यमेतद् बुभूषुभिः॥ ९/१३६॥
रामकथोपसंहारः
इतीरिता रामकथा परा मया समस्तशास्त्रानुसृतेर्भवापहा। पठेदिमां यः शृणुयादथापि वा विमुक्तबन्धश्‍चरणं हरेर्व्रजेत्॥ ९/१३७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते उत्तरकाण्डकथानिरूपणं नाम नवमोऽध्यायः समाप्तः॥
दशमोऽध्यायः
व्यासावतारार्थं प्रार्थना
द्वापरेऽथ युगे प्राप्ते त्वष्टाविंशतिमे पुनः। स्वयम्भुशर्वशक्राद्या दुग्धाब्धेस्तीरमाययुः॥ १०/१॥
पयोब्धेरुत्तरं तीरमासाद्य विबुधर्षभाः। तुष्टुवुः पुण्डरीकाक्षमक्षयं पुरुषोत्तमम्॥ १०/२॥
नमोनमोऽगण्यगुणैकधाम्ने समस्तविज्ञानमरीचिमालिने। अनाद्यविज्ञानतमोनिहन्त्रे परामृतानन्दपदप्रदायिने॥ १०/३॥
क्षीरोदमथनकथा
स्वदत्तमालाभुविपातकोपतो दुर्वाससः शापत आशु हि श्रिया। शक्रे विहीने दितिजैः पराजिते पुरा वयं त्वां शरणं गताः स्मः॥ १०/४॥
त्वदाज्ञया बलिना सन्दधाना वराद् गिरीशस्य परैरचाल्यम्। वृन्दारका मन्दरमेत्य बाहुभिर्न शेकुरुद्धर्तुमिमे समेताः॥ १०/५॥
तदा त्वया नित्यबलत्वहेतुतो योऽनन्तनामा गरुडस्तदंसके। उत्पाट्य चैकेन करेण मन्दरो निधापितस्तं स सह त्वयाऽवहत्॥ १०/६॥
पुनः परीक्षद्भिरसौ गिरिः सुरैः सहासुरैरुन्नमितस्तदंसतः। व्यचूर्णयत् तानखिलान् पुनश्‍च ते त्वदीक्षया पूर्ववदुत्थिताः प्रभो॥ १०/७॥
पुनश्‍च वामेन करेण वीश्‍वरे निधाय तं स्कन्धगतस्त्वमस्य। अगाः पयोब्धिं सहितः सुरासुरैर्मथ्ना च तेनाब्धिमथाप्यमथ्नाः॥ १०/८॥
कृतश्‍च कद्रोस्तनयोऽत्र वासुकिर्नेत्रं त्वया कश्यपजः स नागराट्। ममन्थुरब्धिं सहितास्त्वया सुराः सहासुरा दिव्यपयोघृताधिकम्॥ १०/९॥
नैच्छन्त पुच्छं दितिजा अमङ्गलं तदित्यथाग्रं जगृहुर्विषोल्बणम्। श्रान्तास्तु तेऽतो विबुधास्तु पुच्छं त्वया समेता जगृहुस्त्वदाश्रयाः॥ १०/१०॥
अथातिभारादविशत् सुकाञ्चनो गिरिः स पातालमथ त्वमेव। तं कच्छपात्मा त्वभरः स्वपृष्ठे ह्यनन्यधार्यं पुरुलीलयैव॥ १०/११॥
उपर्यधश्‍चात्मनि नेत्रगोत्रयोस्त्वया परेणाविशता समेधिताः। ममन्थुरब्धिं तरसा मदोत्कटाः सुरासुराः क्षोभितनक्रचक्रम्॥ १०/१२॥
श्रान्तेषु तेष्वेक उरुक्रमस्त्वं सुधारसाप्त्यै मुदितो ह्यमथ्नाः। तदा जगद्ग्रासि विषं समुत्थितं त्वदाज्ञया वायुरधात् करे निजे॥ १०/१३॥
कलेः स्वरूपं तदतीव दुःसहं वराद् विधातुः सकलैश्‍च दुःस्पृशम्। करे विमथ्यास्तबलं विधाय ददौ स किञ्चिद् गिरिशाय वायुः॥ १०/१४॥
स तत् पिबन् कण्ठगतेन तेन निपातितो मूर्च्छित आशु रुद्रः। हरेः करस्पर्शबलात् स सञ्ज्ञामवाप नीलोऽस्य गलस्तदाऽऽसीत्॥ १०/१५॥
अथ त्वदाज्ञां पुरतो निधाय निधाय पात्रे तपनीयरूपे। स्वयं त्वनिर्मथ्य बलोपपन्नं पपौ स वायुस्तदुतास्य जीर्णम्॥ १०/१६॥
अत्यल्पपानाच्च बभूव शूला शिवस्य शीर्ष्ण्यस्य करावशिष्टम्। अभूत् कलिः सर्वजगत्सु पूर्णं पीत्वा विकारो न बभूव वायोः॥ १०/१७॥
कलेः शरीरादभवन् कुनागाः सवृश्‍चिकाः श्‍वापदयातुधानाः। अथ त्वयाऽब्धौ तु विमथ्यमाने सुराऽभवत् तामसुरा अवापुः॥ १०/१८॥
उच्चैःश्रवा नाम तुरङ्गमोऽभूत् करी तथैरावतनामधेयः।
अन्ये च दिक्पालगजा बभूवुर्वरं तथैवाप्सरसां सहस्रम्। तथाऽऽयुधान्याभरणानि चैव दिवौकसां पारिजातस्तरुश्‍च॥ १०/१९॥
तथैव साक्षात् सुरभिर्निशेशो बभूव तत् कौस्तुभं लोकसारम्। अथेन्दिरा यद्यपि नित्यदेहा बभूव तत्रापरया स्वतन्वा॥ १०/२०॥
ततो भवान् दक्षिणबाहुना सुधाकमण्डलुं कलशं चापरेण। प्रगृह्य तस्मान्निरगात् समुद्राद् धन्वन्तरिर्नाम हरिन्मणिद्युतिः॥ १०/२१॥
ततो भवद्धस्तगतं दितेः सुताः सुधाभरं कलशं चापजह्रुः। मुक्तं त्वया शक्तिमताऽपि दैत्यान् सत्यच्युतान् कारयितुं वधाय॥ १०/२२॥
ततो भवाननुपममुत्तमं वपुर्बभूव दिव्यप्रमदात्मकं त्वरन्। श्यामं नितम्बार्पितरत्नमेखलं जाम्बूनदाभाम्बरभृत् सुमध्यमम्॥ १०/२३॥
बृहन्नितम्बं कलशोपमस्तनं सत्पुण्डरीकायतनेत्रमुज्ज्वलम्। समस्तसारं परिपूर्णसद्गुणं दृष्ट्वैव तत् सम्मुमुहुः सुरारयः॥ १०/२४॥
परस्परं तेऽमृतहेतुतोऽखिला विरुद्ध्यमानाः प्रददुः स्म ते करे। समं सुधायाः कलशं विभज्य निपाययास्मानिति वञ्चितास्त्वया॥ १०/२५॥
धर्मच्छलं पापजनेषु धर्म इति त्वया ज्ञापयितुं तदोक्तम्। यद्यत् कृतं मे भवतां यदीह संवाद एवोद्विभजे सुधामिमाम्॥ १०/२६॥
यथेष्टतोऽहं विभजामि सर्वथा न विश्‍वसध्वं मयि केनचित् क्वचित्। इति प्रहस्याभिहितं निशम्य स्त्रीभावमुग्धास्तु तथेति तेऽवदन्॥ १०/२७॥
ततश्‍च संस्थाप्य पृथक् सुरासुरांस्तवातिरूपोच्चलितान् सुरेतरान्। सर्वान् भवद्दर्शन ईक्ष्य लज्जिताऽस्म्यहं दृशो मीलयतेत्यवोचः॥ १०/२८॥
निमीलिताक्षेष्वसुरेषु देवता न्यपाययः साध्वमृतं ततः पुमान्। क्षणेन भूत्वा पिबतः सुधां शिरो राहोर्न्यकृन्तश्‍च सुदर्शनेन॥ १०/२९॥
तेनामृतार्थं हि सहस्रजन्मसु प्रतप्य भूयस्तप आरितो वरः। स्वयम्भुवस्तेन भवान् करेऽस्य बिन्दुं सुधां प्रास्य शिरो जहार॥ १०/३०॥
शिरस्तु तस्य ग्रहतामवाप सुरैः समाविष्टमथो सबाहुः। क्षिप्तः कबन्धोऽस्य शुभोदसागरे त्वया स्थितोऽद्यापि हि तत्र सामृतः॥ १०/३१॥
अथासुराः प्रत्यपतन्नुदायुधाः समस्तशस्ते च हतास्त्वया रणे। कलिस्तु स ब्रह्मवरादजेयो ऋते भवन्तं पुरुषेषु संस्थितः॥ १०/३२॥
तस्यार्धदेहा समभूदलक्ष्मीस्तत्पुत्रका दोषगणाश्‍च सर्वशः। अथेन्दिरा वक्षसि ते समास्थिता त्वत्कण्ठगं कौस्तुभमास धाता॥ १०/३३॥
यथाविभागं च सुरेषु दत्तास्त्वया तथाऽन्येऽपि हि तत्र जाताः। इत्थं त्वया साध्वमृतं सुरेषु दत्तं हि मोक्षस्य निदर्शनाय॥ १०/३४॥
भवेद्धि मोक्षो नियतं सुराणां नैवासुराणां स कथञ्चन स्यात्। उत्साहयुक्तस्य च तत् प्रतीपं भवेद्धि राहोरिव दुःखरूपम्॥ १०/३५॥
प्रकृतसङ्गतिनिरूपणम्
कलिः स्वयं ब्रह्मवरादिदानीं विबाधतेऽस्मान् सकलाः प्रजाश्‍च। अज्ञानमिथ्यामतिरूपतोऽसौ प्रविश्य सज्ज्ञानविरुद्धरूपः॥ १०/३६॥
त्वदाज्ञया तस्य वरोऽब्जजेन दत्तः स आविश्य शिवं चकार। कदागमांस्तस्य कुयुक्तिबाधां नहि त्वदन्यश्‍चरितुं समर्थः॥ १०/३७॥
वेदाश्‍च सर्वे सहशास्त्रसङ्घा उत्सादितास्तेन न सन्ति तेऽद्य। तत् साधु भूमाववतीर्य वेदानुद्धृत्य शास्त्राणि कुरुष्व सम्यक्॥ १०/३८॥
अदृश्यमज्ञेयमतर्क्यरूपं कलिं निलीनं हृदयेऽखिलस्य। सच्छास्त्रशस्त्रेण निहत्य शीघ्रं पदं निजं देहि महाजनस्य॥ १०/३९॥
ऋते भवन्तं नहि तन्निहन्ता त्वमेक एवाखिलशक्तिपूर्णः। ततो भवन्तं शरणं गता वयं तमोनिहत्यै निजबोधविग्रहम्॥ १०/४०॥
व्यासचरितम्
व्यासावतारः
इतीरितस्तैरभयं प्रदाय सुरेश्‍वराणां परमोऽप्रमेयः। प्रादुर्बभूवामृतभूरिलायां विशुद्धविज्ञानघनस्वरूपः॥ १०/४१॥
वसिष्ठनामा कमलोद्भवात्मजः सुतोऽस्य शक्तिस्तनयः पराशरः। तस्योत्तमं सोऽपि तपोऽचरद्धरिः सुतो मम स्यादिति तद्धरिर्ददौ॥ १०/४२॥
उवाच चैनं भगवान् सुतोषितो वसोर्मदीयस्य सुताऽस्ति शोभना। वने मृगार्थं चरतोऽस्य वीर्यं पपात भार्यां मनसा गतस्य॥ १०/४३॥
तच्छ्येनहस्ते प्रददौ स तस्यै दातुं तदन्येन तु युद्ध्यतोऽपतत्। जग्रास तन्मत्स्यवधूर्यमस्वसुर्जलस्थमेनां जगृहुः स्म दाशाः॥ १०/४४॥
तद्गर्भतोऽभून्मिथुनं स्वराज्ञे न्यवेदयन् सोऽपि वसोः समार्पयत्। पुत्रं समादाय सुतां स तस्मै ददौ सुतोऽभूदथ मत्स्यराजः॥ १०/४५॥
कन्या तु सा दाशराजस्य सद्मन्यवर्धतातीव सुरूपयुक्ता। नाम्ना तु सा सत्यवतीति तस्यां तवात्मजोऽहं भविताऽस्म्यजोऽपि॥ १०/४६॥
इतीरितश्‍चक्रधरेण तां मुनिर्जगाम मार्तण्डसुतां समुद्रगाम्। उत्तारयन्तीमथ तत्र विष्णुः प्रादुर्बभूवाशु विशुद्धचिद्घनः॥ १०/४७॥
विदोषविज्ञानसुखैकरूपोऽप्यजो जनान् मोहयितुं मृषैव। योषित्सु पुंसो ह्यजनीव दृश्यते न जायते क्वापि बलादिविग्रहः॥ १०/४८॥
यथा नृसिंहाकृतिराविरासीत् स्तम्भात् तथा नित्यतनुत्वतो विभुः। आविर्भवेद् योषिति नो मलोत्थस्तथाऽपि मोहाय निदर्शयेत् तथा॥ १०/४९॥
स्त्रीपुम्प्रसङ्गात् परतो यतो हरिः प्रादुर्भवत्येष विमोहयन् जनम्। अतो मलोत्थोऽयमिति स्म मन्यते जनोऽशुभः पूर्णगुणैकविग्रहम्॥ १०/५०॥
द्वीपे भगिन्यास्तु यमस्य विश्‍वकृत् प्रकाशते ज्ञानमरीचिमण्डलः। प्रभासयन्नण्डबहिस्तथाऽन्तः सहस्रलक्षामितभानुदीधितिः॥ १०/५१॥
अगण्यदिव्योरुगुणार्णवः प्रभुः समस्तविद्याधिपतिर्जगद्गुरुः। अनन्तशक्तिर्जगदीश्‍वरेश्‍वरः समस्तदोषातिविदूरविग्रहः॥ १०/५२॥
शुभमरकतवर्णो रक्तपादाब्जनेत्राधरकररसनाग्रश्‍चक्रशङ्खाब्जरेखः। रविकरवरगौरं चर्म चैणं वसानस्तटिदमलजटासन्दीप्तचूडं दधानः॥ १०/५३॥
विस्तीर्णवक्षाः कमलायताक्षो बृहद्भुजः कम्बुसमानकण्ठः। समस्तवेदान् मुखतः समुद्गिरन्ननन्तचन्द्राधिककान्तिसन्मुखः॥ १०/५४॥
प्रबोधमुद्राभयदोर्द्वयान्वितो यज्ञोपवीताजिनमेखलोल्लसन्। दृशा महाऽज्ञानभुजङ्गदष्टमुज्जीवयानो जगदत्यरोचत॥ १०/५५॥
उपनयनम्, मेरुगमनम्, शास्त्रकर्म
स लोकधर्माभिरिरक्षया पितुर्द्विजत्वमाप्याशु पितुर्ददौ निजम्। ज्ञानं तयोः संस्मृतिमात्रतः सदा प्रत्यक्षभावं वरमात्मनो ददौ॥ १०/५६॥
द्वैपायनः सोऽथ जगाम मेरुं चतुर्मुखाद्यैरनुगम्यमानः। उद्धृत्य वेदानखिलान् सुरेभ्यो ददौ मुनिभ्यश्‍च यथाऽऽदिसृष्टौ॥ १०/५७॥
सर्वाणि शास्त्राणि तथैव कृत्वा विनिर्णयं ब्रह्मसूत्रं चकार। तच्छुश्रुवुर्ब्रह्मगिरीशमुख्याः सुरा मुनीनां प्रवराश्‍च तस्मात्॥ १०/५८॥
समस्तशास्त्रार्थनिदर्शनात्मकं चक्रे महाभारतनामधेयम्। वेदोत्तमं तच्च विधातृशङ्करप्रधानकैस्तन्मुखतः सुरैः श्रुतम्॥ १०/५९॥
अथो गिरीशादिमनोनुशायी कलिर्ममाराशु सुवाङ्मयैः शरैः। निकृत्तशीर्षो भगवन्मुखेरितैः सुराश्‍च सज्ज्ञानसुधारसं पपुः॥ १०/६०॥
अथो मनुष्येषु तथाऽसुरेषु रूपान्तरैः कलिरेवावशिष्टः। ततो मनुष्येषु च सत्सु संस्थितो विनाश्य इत्येव हरिर्व्यचिन्तयत्॥ १०/६१॥
ततो नृणां कालबलात् सुमन्दमायुर्मतिं कर्म च वीक्ष्य कृष्णः। विव्यास वेदान् स विभुश्‍चतुर्धा चक्रे तथा भागवतं पुराणम्॥ १०/६२॥
कीटप्रसङ्गः
येये च सन्तस्तमसाऽनुविष्टास्तांस्तान् सुवाक्यैस्तमसो विमुञ्चन्। चचार लोकान् स पथि प्रयान्तं कीटं व्यपश्यत् तमुवाच कृष्णः॥ १०/६३॥
भवस्व राजा कुशरीरमेतत् त्यक्त्वेति नैच्छत् तदसौ ततस्तम्। अत्यक्तदेहं नृपतिं चकार पुरा स्वभक्तं वृषलं सुलुब्धम्॥ १०/६४॥
लोभात् स कीटत्वमुपेत्य कृष्णप्रसादतश्‍चाशु बभूव राजा। तदैव तं सर्वनृपाः प्रणेमुर्ददुः करं चास्य यथैव वैश्याः॥ १०/६५॥
उवाच तं भगवान् मुक्तिमस्मिंस्तव क्षणे दातुमहं समर्थः। तथाऽपि सीमार्थमवाप्य विप्रतनुं विमुक्तो भव मत्प्रसादात्॥ १०/६६॥
ज्ञानं च तस्मै विमलं ददौ स महीं च सर्वां बुभुजे तदन्ते। त्यक्त्वा तनुं विप्रवरत्वमेत्य पदं हरेराप सुतत्त्ववेदी॥ १०/६७॥
एवं बहून् संसृतिबन्धतः प्रभुर्व्यमोचयद् व्यासतनुर्जनार्दनः। बहून्यचिन्त्यानि च तस्य कर्माण्यशेषदेवेशसदोदितानि॥ १०/६८॥
शुकोत्पत्तिः
अथास्य पुत्रत्वमवाप्तुमिच्छंश्‍चचार रुद्रः सुतपस्तदीयम्। ददौ च तस्मै भगवान् वरं तं स्वयं च तप्त्वेव तपो विमोहयन्॥ १०/६९॥
विमोहनायासुरसर्गिणां प्रभुः स्वयं करोतीव तपः प्रदर्शयेत्। कामादिदोषांश्‍च मृषैव दर्शयेन्न तावता तस्य हि सन्ति कुत्रचित्॥ १०/७०॥
ततस्त्वरण्योः स बभूव पुत्रकः शिवोऽस्य सोऽभूच्छुकनामधेयः। शुकी हि भूत्वा ह्यगमद् घृताची व्यासं विमथ्नन्तमुतारणीं तम्॥ १०/७१॥
अकामयन् कामुकवत् स भूत्वा तयाऽर्थितस्तं शुकनामधेयम्। चक्रे ह्यरण्योस्तनयं च सृष्ट्वा विमोहयंस्तत्त्वमार्गेष्वयोग्यान्‌॥ १०/७२॥
व्यासशिष्येषु देवतावेशः
शुकं तमाशु प्रविवेश वायुर्व्यासस्य सेवार्थमथास्य सर्वम्। ज्ञानं ददौ भगवान् सर्ववेदान् सभारतं भागवतं पुराणम्॥ १०/७३॥
शेषोऽथ पैलं मुनिमाविशत् तदा वीशः सुमन्तुमपि वारुणिं मुनिम्। ब्रह्माऽऽविशत् तमुत वैशम्पायनं शक्रश्‍च जैमिनिमथाविशद् विभुः॥ १०/७४॥
कृष्णस्य पादपरिसेवनोत्सुकाः सुरेश्‍वरा विविशुराशु तान् मुनीन्। समस्तविद्याः प्रतिपाद्य तेष्वसौ प्रवर्तकांस्तान् विदधे हरिः पुनः॥ १०/७५॥
तेषां शास्त्रप्रवर्तकत्वम्
ऋचां प्रवर्तकं पैलं यजुषां च प्रवर्तकम्। वैशम्पायनमेवैकं द्वितीयं सूर्यमेव च॥ १०/७६॥
चक्रेऽथ जैमिनिं साम्नामथार्वाङ्गिरसामपि। सुमन्तुं भारतस्यापि वैशम्पायनमादिशत्॥ १०/७७॥
प्रवर्तने मानुषेषु गन्धर्वादिषु चात्मजम्। नारदं पाठयित्वा च देवलोकप्रवृत्तये॥ १०/७८॥
आदिशत् ससृजे सोऽथ रोमाञ्चाद् रोमहर्षणम्। तं भारतपुराणानां महारामायणस्य च॥ १०/७९॥
पञ्चरात्रस्य कृत्स्नस्य प्रवृत्त्यर्थमथादिशत्। तमाविशत् कामदेवः कृष्णसेवासमुत्सुकः॥ १०/८०॥
स तस्मै ज्ञानमखिलं ददौ द्वैपायनः प्रभुः। सनत्कुमारप्रमुखांश्‍चक्रे योगप्रवर्तकान्॥ १०/८१॥
भृग्वादीन् कर्मयोगस्य ज्ञानं दत्त्वाऽमलं शुभम्। जैमिनिं कर्ममीमांसाकर्तारमकरोत् प्रभुः॥ १०/८२॥
पुनश्च तस्य शास्त्रकर्तृत्वकारयितृत्वादिकर्म
देवमीमांसकाद्यन्तं कृत्वा पैलमथादिशत्। शेषं च मध्यकरणे पुराणान्यथ चाकरोत्॥ १०/८३॥
शैवान् पाशुपताच्चक्रे संशयार्थं सुरद्विषाम्। वैष्णवान् पञ्चरात्राच्च यथार्थज्ञानसिद्धये॥ १०/८४॥
ब्राह्मांश्‍च वेदतश्‍चक्रे पुराणग्रन्थसङ्ग्रहान्। एवं ज्ञानं पुनः प्रापुर्देवाश्‍च ऋषयस्तथा॥ १०/८५॥
सनत्कुमारप्रमुखा योगिनो मानुषास्तथा। कृष्णद्वैपायनात् प्राप्य ज्ञानं ते मुमुदुः सदा॥ १०/८६॥
प्रसङ्गोपसंहारः
समस्तविज्ञानगभस्तिचक्रं विताय विज्ञानमहादिवाकरः। निरस्य चाज्ञानतमो जगत्ततं प्रभासते भानुरिवावभासयन्॥ १०/८७॥
चतुर्मुखेशानसुरेन्द्रपूर्वकैः सदा सुरैः सेवितपादपल्लवः। प्रकाशयंस्तेषु सदात्मगुह्यं मुमोद मेरौ च तथा बदर्याम्॥ १०/८८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये व्यासावतारकथानिरूपणं दशमोऽध्यायः समाप्तः॥
एकादशोऽध्यायः
चन्द्रवंशविस्तारः
शशाङ्कपुत्रादभवत् पुरूरवास्तस्यायुरायोर्नहुषो ययातिः। तस्यास पत्नीयुगलं सुताश्‍च पञ्चाभवन् विष्णुपदैकभक्ताः॥ ११/१॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत। द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी॥ ११/२॥
यदोर्वंशे चक्रवर्ती कार्तवीर्यार्जुनोऽभवत्। विष्णोर्दत्तात्रेयनाम्नः प्रसादाद् योगवीर्यवान्॥ ११/३॥
तस्यान्ववाये यदवो बभूवुर्विष्णुसंश्रयाः। पूरोर्वंशे तु भरतश्‍चक्रवर्ती हरिप्रियः॥ ११/४॥
तद्वंशजः कुरुर्नाम प्रतीपोऽभूत् तदन्वये। प्रतीपस्याभवन् पुत्रास्त्रयस्त्रेताग्निवर्चसः॥ ११/५॥
देवापिरथ बाह्लीको गुणज्येष्ठश्‍च शन्तनुः। त्वग्दोषयुक्तो देवापिर्जगाम तपसे वनम्॥ ११/६॥
विष्णोः प्रसादात् स कृते युगे राजा भविष्यति। पुत्रिकापुत्रतां यातो बाह्लीको राजसत्तमः॥ ११/७॥
हिरण्यकशिपोः पुत्रः प्रह्लादो भगवत्प्रियः। वायुना च समाविष्टो महाबलसमन्वितः॥ ११/८॥
येनैव जायमानेन तरसा भूर्विदारिता। भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः॥ ११/९॥
प्रतीपपुत्रतामाप्य बाह्लीकेष्वभवत् पतिः। रुद्रेषु पत्रतापाख्यः सोमदत्तोऽस्य चात्मजः॥ ११/१०॥
अजैकपादहिर्बुध्निर्विरूपाक्ष इति त्रयः। रुद्राणां सोमदत्तस्य बभूवुः प्रथिताः सुताः॥ ११/११॥
विष्णोरेवाङ्गतामाप्तुं भूरिर्भूरिश्रवाः शलः। शिवादिसर्वरुद्राणामावेशाद् वरतस्तथा॥ ११/१२॥
भूरिश्रवा अतिबलस्तत्रासीत् परमास्त्रवित्। तदर्थं हि तपश्‍चीर्णं सोमदत्तेन शम्भवे॥ ११/१३॥
दत्तो वरश्‍च तेनास्य त्वत्प्रतीपाभिभूतिकृत्। बलवीर्यगुणोपेतो नाम्ना भूरिश्रवाः सुतः॥ ११/१४॥
भविष्यति मयाऽऽविष्टो यज्ञशील इति स्म ह। तेन भूरिश्रवा जातः सोमदत्तसुतो बली॥ ११/१५॥
शन्तनोर्जन्मवृत्तान्तः
पूर्वोदधेस्तीरगतेऽब्जसम्भवे गङ्गायुतः पर्वणि घूर्णितोऽब्धिः। अवाक्षिपत् तस्य तनौ निजोदबिन्दुं शशापैनमथाब्जयोनिः॥ ११/१६॥
महाभिषङ् नाम नरेश्‍वरस्त्वं भूत्वा पुनः शन्तनुनामधेयः। जनिष्यसे विष्णुपदी तथैषा तत्रापि भार्या भवतो भविष्यति॥ ११/१७॥
शान्तो भवेत्येव मयोदितस्त्वं तनुत्वमाप्नोषि ततश्‍च शन्तनुः। इतीरितः सोऽथ नृपो बभूव महाभिषङ् नाम हरेः पदाश्रयः॥ ११/१८॥
स तत्र भुक्त्वा चिरकालमुर्वीं तनुं विहायाप सदो विधातुः। तत्रापि तिष्ठन् सुरवृन्दसन्निधौ ददर्श गङ्गां श्लथिताम्बरां स्वकाम्॥ ११/१९॥
अवाङ्मुखेषु द्युसदस्सु गङ्गां निरीक्षमाणं पुनरात्मसम्भवः। उवाच भूमौ नृपतिर्भवाशु शप्तो यथा त्वं हि पुरा मयैव॥ ११/२०॥
इतीरितस्तत्क्षणतः प्रतीपाद् बभूव नाम्ना नृपतिश्‍च शन्तनुः। अवाप्य गङ्गां दयितां स्वकीयां तया मुमोदाब्दगणान् बहूंश्‍च॥ ११/२१॥
भीष्मवृत्तान्तः
अथाष्टमो वसुरासीद् द्युनामा वराङ्गिनाम्न्यस्य बभूव भार्या। बभूव तस्याश्‍च सखी नृपस्य सुविन्दनाम्नो दयिता सनाम्नी॥ ११/२२॥
तस्या जरामृतिविध्वंसहेतोर्वसिष्ठधेनुं स्वमृतं क्षरन्तीम्। जरापहां नन्दिनिनामधेयां बद्धुं पतिं चोदयामास देवी॥ ११/२३॥
तया द्युनामा स वसुः प्रचोदितो भ्रातृस्नेहात् सप्तभिरन्वितोऽपरैः। बबन्ध तां गामथ ताञ्छशाप वसिष्ठसंस्थः कमलोद्भवः प्रभुः॥ ११/२४॥
अधर्मवृत्ताः प्रतियात मानुषीं योनिं द्रुतं यत्कृते सर्व एव। धर्मच्युताः स तथाऽष्टायुराप्यतामन्ये पुनः क्षिप्रमथो विमोक्ष्यथ॥ ११/२५॥
प्रचोदयामास च या कुमार्गे पतिं हि साऽम्बेति नरेषु जाता। अभर्तृका पुंस्त्वसमाश्रयेण पत्युर्मृतौ कारणत्वं व्रजेत॥ ११/२६॥
भवत्वसौ ब्रह्मचर्यैकनिष्ठो महान् विरोधश्‍च तयोर्भवेत। स गर्भवासाष्टकदुःखमेव समाप्नुतां शरतल्पे शयानः॥ ११/२७॥
मृत्यष्टकोत्थामपि वेदनां स प्राप्नोतु शस्त्रैर्बहुधा निकृत्तः। इतीरितास्ते कमलोद्भवं तं ज्ञात्वा समुत्सृज्य च गां प्रणेमुः॥ ११/२८॥
न मानुषं गर्भमवाप्नुमो वयं भवत्वयं सर्ववित् कीर्तिमांश्‍च। महास्त्रवेत्ता भवदंशयुक्तस्तथा बलं नोऽखिलानामुपैतु॥ ११/२९॥
इतीरितेऽस्त्वित्युदिताः स्वयम्भुवा वसिष्ठसंस्थेन सुरापगां ययुः। ऊचुस्तथैनामुदरे वयं ते जायेमहि क्षिप्रमस्मान् हन त्वम्॥ ११/३०॥
इतीरिता सा वरमाशु वव्रे तेभ्योऽप्यपापत्वमथ प्रियत्वम्। तेषां तथैवात्मन एकमेषां दीर्घायुषं तान् सुषुवेऽथ शन्तनोः॥ ११/३१॥
अविघ्नतस्तान् विनिहन्तुमेव पुरा प्रतीपस्य हि दक्षिणोरुम्। समाश्रिता कामिनीवत् त्वकामा तत्पुत्रभार्या भवितुं विडम्बात्॥ ११/३२॥
तेनैव चोक्ता भव मे सुतस्य भार्या यतो दक्षिणोरुस्थिताऽसि। भागो हि दक्षो दुहितुः स्नुषाया भार्याभागो वाम इति प्रसिद्धः॥ ११/३३॥
उवाच सा तं नतु मां सुतस्ते काऽसीति पृच्छेन्नतु मां निवारयेत्। अयोग्यकर्त्रीमपि कारणं च मत्कर्मणो नैव पृच्छेत् कदाचित्॥ ११/३४॥
यदा त्रयाणामपि चैकमेष करोति गच्छेयमहं विसृज्य। तदा त्वदीयं सुतमित्युदीरिते तथेति राजाऽप्यवदत् प्रतीपः॥ ११/३५॥
तथैव पुत्राय च तेन तद् वचो वधूक्तमुक्तं वचनाद् द्युनद्याः। कनीयसे सा ह्यवदत् सुतस्ते नान्यः पतिः शन्तनुरेव मे वृतः॥ ११/३६॥
ततस्तु सा शन्तनुतोऽष्टपुत्रानवाप्य सप्त न्यहनत् तथाऽष्टमम्। गन्तुं ततो मतिमाधाय हन्तुमिवोद्योगं सा हि मृषा चकार॥ ११/३७॥
अवस्थितिर्नातिसुखाय मानुषे यतः सुराणामत एव गन्तुम्। ऐच्छन्न तस्या हि बभूव मानुषो देहो नरोत्थो हि तथाऽऽस शन्तनोः॥ ११/३८॥
तां पुत्रनिधनोद्युक्तां न्यवारयत शन्तनुः। काऽसि त्वं हेतुना केन हंसि पुत्रान् नृशंसवत्॥ ११/३९॥
रूपं सुरवरस्त्रीणां तव तेन न पातकम्। भवेत् कर्म त्वदीयं तन्महत् कारणमत्र हि॥ ११/४०॥
तत् कारणं वद शुभे यदि मच्छ्रोत्रमर्हति। इतीरिताऽवदत् सर्वं प्रययौ च सुरापगा॥ ११/४१॥
न धर्मो देवतानां हि ज्ञातवासश्‍चिरं नृषु। कारणादेव हि सुरा नृषु वासं प्रकुर्वते। कारणापगमे यान्ति धर्मोऽप्येषां तथाविधः॥ ११/४२॥
अदृश्यत्वमसंस्पर्शो ह्यसम्भाषणमेव च। सुरैरपि नृजातैस्तु गुह्यधर्मो दिवौकसाम्॥ ११/४३॥
अतः सा वरुणं देवं पूर्वभर्तारमप्यमुम्। नृजातं शन्तनुं त्यक्त्वा प्रययौ वरुणालयम्॥ ११/४४॥
सुतमष्टममादाय भर्तुरेवाभ्यनुज्ञया। वधोद्योगान्निवृत्ता सा ददौ पुत्रं बृहस्पतौ॥ ११/४५॥
देवव्रतोऽसावनुशासनाय मात्रा दत्तो देवगुरौ शतार्धम्। संवत्सराणामखिलांश्‍च वेदान् समभ्यसत् तद्वशगान्तरात्मा॥ ११/४६॥
ततश्‍च मात्रा जगतां गरीयस्यनन्तपारेऽखिलसद्गुणार्णवे। रामे भृगूणामधिपे प्रदत्तः शुश्राव तत्त्वं च शतार्धवर्षम्॥ ११/४७॥
स पञ्चविंशत् पुनरब्दकानामस्त्राणि चाभ्यस्य पतेर्भृगूणाम्। मात्रा समानीय निजे तटे तु संस्थापितः प्रार्पयितुं स्वपित्रे॥ ११/४८॥
स तत्र बद्ध्वा शरपञ्जरेण गङ्गां विजह्रेऽस्य पिता तदैव। व्रजन् मृगार्थी तृषितोऽवलोकयन् गङ्गामतोयामभवत् सुविस्मितः॥ ११/४९॥
स मार्गयामास ततोऽस्य हेतुं ज्ञप्त्यै तदा स्वं च ददर्श सूनुम्। क्रीडन्तमस्त्रेण बभूव सोऽपि क्षणाददृश्यः पितृदर्शनादनु॥ ११/५०॥
मीमांसमानं तमवेक्ष्य गङ्गा सुतं समादाय पतिं जगाद। अयं सुतस्ते परमास्त्रवेत्ता समर्पितो वीर्यबलोपपन्नः॥ ११/५१॥
अस्याग्रजाः स्वां स्थितिमेव याता हरेः पदाम्भोजसुपाविते जले। तनूर्मदीये प्रणिधाय तस्मात् तन्मा शुचोऽनेन च मोदमानः॥ ११/५२॥
इति प्रदायामुमदृश्यतामगाद् गङ्गा तमादाय ययौ गृहं स्वकम्। राजाऽभिषिच्याथ च यौवराज्ये मुमोद तत्सद्गुणतर्पितो भृशम्॥ ११/५३॥
पुनः स पित्राऽनुमतो बृहस्पतेरवाप वेदान् पुरुषायुषोऽर्धतः। रामात् तथाऽस्त्राणि पुनस्त्ववाप तावद्भिरब्दैस्त्रिशतैश्‍च तत्त्वम्॥ ११/५४॥
स सर्ववित्त्वं समवाप्य रामात् समस्तविद्याधिपतेर्गुणार्णवात्। पितुः समीपं समवाप्य तं च शुश्रूषमाणः प्रमुमोद वीरः॥ ११/५५॥
कृप-कृपी-जननादिविचारः
यदैव गङ्गा सुषुवेऽष्टमं सुतं तदैव यातो मृगयां स शन्तनुः। शरद्वतो जातमपश्यदुत्तमं वने विसृष्टं मिथुनं त्वयोनिजम्॥ ११/५६॥
शरद्वांस्तु तपः कुर्वन् ददर्श सहसोर्वशीम्। चस्कन्द रेतस्तस्याथ शरस्तम्बे ततोऽभवत्॥ ११/५७॥
विष्कम्भो नाम रुद्राणां भूभारहरणेऽङ्गताम्। हरेः प्राप्तुं तथा तारा भार्या या हि बृहस्पतेः॥ ११/५८॥
तावुभौ शन्तनुर्दृष्ट्वा कृपाविष्टः स्वकं गृहम्। निनाय नाम चक्रेऽथ कृपाया विषयौ यतः॥ ११/५९॥
कृपः कृपीति स कृपस्तपो विष्णोश्‍चचार ह। तस्य प्रीतस्तदा विष्णुः सर्वलोकेश्‍वरेश्‍वरः॥ ११/६०॥
प्रादादेष्यत्सप्तऋषित्वमायुः कल्पान्तमेव च। स शन्तनुगृहे तिष्ठन् देवव्रतसखाऽभवत्॥ ११/६१॥
पुत्रवच्छन्तनोश्‍चासीत् स च पुत्रवदेव तत्। मिथुनं पालयामास कृपोऽप्यस्त्राण्यवाप च॥ ११/६२॥
सर्ववेदानधिजगौ सर्वशास्त्राणि कौशिकात्। तत्त्वज्ञानं तथा व्यासादाप्य सर्वज्ञतां गतः॥ ११/६३॥
द्रोण-जन्म-वृत्तान्तः
यदाऽभिजातः स कृपस्तदैव बृहस्पतेः सूनुरगाच्च गङ्गाम्। स्नातुं घृताचीं स ददर्श तत्र श्लथद्दुकूलां सुरवर्यकामिनीम्॥ ११/६४॥
तद्दर्शनात् स्कन्नमथेन्द्रियं स द्रोणे दधाराशु ततोऽभवत् स्वयम्। अम्भोजजावेशयुतो बृहस्पतिः कर्तुं हरेः कर्म भुवो भरोद्धृतौ॥ ११/६५॥
द्रोणेति नामास्य चकार तातो मुनिर्भरद्वाज उतास्य वेदान्। अध्यापयामास सशास्त्रसङ्घान् सर्वज्ञतामाप च सोऽचिरेण॥ ११/६६॥
द्रुपद-जन्म-वृत्तान्तः
काले च तस्मिन् पृषतोऽनपत्यो वने तु पाञ्चालपतिश्‍चचार। तपो महत् तस्य तथा वराप्सरोऽवलोकनात् स्कन्दितमाशु रेतः॥ ११/६७॥
स तद् विलज्जावशतः पदेन समाक्रमत् तस्य बभूव सूनुः। हूहू तु नाम्ना स विरिञ्चगायको नाम्नाऽऽवहो यो मरुतां तदंशयुक्॥ ११/६८॥
स द्रोणतातात् समवाप वेदानस्त्राणि विद्याश्‍च तथा समस्ताः। द्रोणेन युक्तः स तदा गुरोः सुतं सहैव नौ राज्यमिति ह्यवादीत्॥ ११/६९॥
पदे द्रुतत्वाद् द्रुपदाभिधेयः स राज्यमाप … … …
द्रोण-वर्तनम्, कृपादिसहवर्तनं च
… … … … … … … … … … … … … … अथ निजां कृपीं सः। द्रोणोऽपि भार्यां समवाप्य सर्वप्रतिग्रहोज्झश्‍च पुरेऽवसत् सुखी॥ ११/७०॥
शिलोञ्छवृत्त्यैव हि वर्तयन् स धर्मं महान्तं विरजं जुषाणः। उवास नागाख्यपुरे सखा स देवव्रतस्याथ कृपस्य चैव॥ ११/७१॥
विराट-जन्म-वृत्तान्तः
तेषां समानो वयसा विराटस्त्वभूद्धाहा नाम विधातृगायकः। मरुत्सु यो विवहो नाम तस्याप्यंशेन युक्तो निजधर्मवर्ती॥ ११/७२॥
शन्तनु-सत्यवती-कथा
ततः कदाचिन्मृगयां गतः स ददर्श कन्याप्रवरां तु शन्तनुः। या पूर्वसर्गे पितृपुत्रिका सती चचार विष्णोस्तप उत्तमं चिरम्॥ ११/७३॥
यस्यै वरं विष्णुरदात् पुराऽहं सुतस्तव स्यामिति या वसोः सुता। जाता पुनर्दाशगृहे विवर्धिता व्यासात्मना विष्णुरभूच्च यस्याम्॥ ११/७४॥
तद्दर्शनान्नृपतिर्जातहृच्छयो वव्रे प्रदानाय च दाशराजम्। ऋते स तस्यास्तनयस्य राज्यं नैच्छद् दातुं तामथायात् गृहं स्वम्॥ ११/७५॥
तच्चिन्तया म्लानमुखं जनित्रं दृष्ट्वैव देवव्रत आश्‍वपृच्छत्। तत्कारणं सारथिमस्य तस्माच्छ्रुत्वाऽखिलं दाशगृहं जगाम॥ ११/७६॥
स तस्य विश्‍वासकृते प्रतिज्ञां चकार नाहं करवाणि राज्यम्। तथैव मे सन्ततितो भयं ते व्येतूर्ध्वरेताः सततं भवानि॥ ११/७७॥
भीमव्रतत्वाद्धि तदाऽस्य नाम कृत्वा देवा भीष्म इति ह्यचीकॢपन्। प्रसूनवृष्टिं स च दाशदत्तां कालीं समादाय पितुः समर्पयत्॥ ११/७८॥
ज्ञात्वा तु तां राजपुत्रीं गुणाढ्यां सत्यस्य विष्णोर्मातरं नामतस्तत्। लोके प्रसिद्धां सत्यवतीत्युदारां विवाहयामास पितुः स भीष्मः॥ ११/७९॥
प्रायः सतां न मनः पापमार्गे गच्छेदिति ह्यात्ममनश्‍च सक्तम्। ज्ञात्वाऽपि तां दाशगृहे विवर्धितां जग्राह सद्धर्मरतश्‍च शन्तनुः॥ ११/८०॥
स्वच्छन्दमृत्युत्ववरं प्रदाय तथाऽप्यजेयत्वमधृष्यतां च। युद्धेषु भीष्मस्य नृपोत्तमः स रेमे तथैवाब्दगणान् बहूंश्‍च॥ ११/८१॥
लेभे स चित्राङ्गदमत्र पुत्रं तथा द्वितीयं च विचित्रवीर्यम्। तयोश्‍च बाल्ये व्यसृजच्छरीरं जीर्णेन देहेन च किं ममेति॥ ११/८२॥
स्वेच्छया वरुणत्वं स प्राप नानिच्छया तनुः। तस्मिन् काले त्यज्यते हि बलवद्भिर्वधं विना॥ ११/८३॥
अतिसक्तास्तपोहीनाः कथञ्चिन्मृतिमाप्नुयुः। अनिच्छयाऽपि हि यथा मृतश्‍चित्राङ्गदानुजः॥ ११/८४॥
चित्राङ्गद-विचित्रवीर्य-अभिषेकः
अथौर्ध्वदैहिकं कृत्वा पितुर्भीष्मोऽभ्यषेचयत्। राज्ये चित्राङ्गदं वीरं यौवराज्येऽस्य चानुजम्॥ ११/८५॥
चित्राङ्गदेन निहतो नाम स्वं त्वपरित्यजन्। चित्राङ्गदोऽकृतोद्वाहो गन्धर्वेण महारणे॥ ११/८६॥
विचित्रवीर्यं राजानं कृत्वा भीष्मोऽन्वपालयत्।
अम्बिका-अम्बालिका-विवाहः
अथ काशिसुतास्तिस्रस्तदर्थं भीष्म आहरत्॥ ११/८७॥
अम्बामप्यम्बिकानाम्नीं तथैवाम्बालिकां पराम्। पाणिग्रहणकाले तु ब्रह्मदत्तस्य वीर्यवान्। विजित्य तं साल्वराजं समेतान् क्षत्रियानपि॥ ११/८८॥
अम्बिकाम्बालिके तत्र संवादं चक्रतुः शुभे।
अम्बा-शिखण्डिनी-शिखण्डी-कथा
अम्बा सा भीष्मभार्यैव पूर्वदेहे तु नैच्छत॥ ११/८९॥
शापाद्धिरण्यगर्भस्य साल्वकामाऽहमित्यपि। उवाच तां स तत्याज साऽगमत् साल्वमेव च॥ ११/९०॥
तेनापि सम्परित्यक्ता परामृष्टेति सा पुनः। भीष्ममाप स नो गृह्णात् प्रययौ साऽपि भार्गवम्॥ ११/९१॥
भ्रातुर्विवाहयामास सोऽम्बिकाम्बालिके ततः। भीष्माय तु यशो दातुं युयुधे तेन भार्गवः॥ ११/९२॥
अनन्तशक्तिरपि सन् न भीष्मं निजघान ह। नचाम्बां ग्राहयामास भीष्मकारुण्ययन्त्रितः॥ ११/९३॥
“अनन्तशक्तिः सकलान्तरात्मा यः सर्ववित् सर्ववशी च सर्वजित्। न यत्समोऽन्योऽस्ति कथञ्च कुत्रचित् कथं ह्यशक्तिः परमस्य तस्य॥ ११/९४॥”
“भीष्मं स्वभक्तं यशसाऽभिपूरयन् विमोहयन्नसुरांश्‍चैव रामः। जित्वैव भीष्मं न जघान देवो वाचं च सत्यामकरोत् स तस्य॥ ११/९५॥”
“विद्धवन्मुग्धवच्चैव केशवो वेदनार्तवत्। दशर्यन्नपि मोहाय नैव विष्णुस्तथा भवेत्॥ ११/९६॥”
एवमादिपुराणोत्थवाक्याद् रामः सदा जयी। यशो भीष्मस्य दत्त्वा तु सोऽम्बां च शरणागताम्॥ ११/९७॥
उन्मुच्य भर्तृद्वेषोत्थपापात् तेनाश्‍वयोजयत्। अनन्तरं शिखण्डित्वात् तदा सा शाङ्करं तपः॥ ११/९८॥
भीष्मस्य निधनार्थाय पुंस्त्वार्थं च चकार ह। भीष्मो यथा त्वां गृह्णीयात् तथा कुर्यामितीरितम्॥ ११/९९॥
रामेण सत्यं तच्चक्रे भीष्मे देहान्तरं गते। रुद्रस्तु तस्यास्तपसा तुष्टः प्रादाद् वरं तदा॥ ११/१००॥
भीष्मस्य मृतिहेतुत्वं कालात् पुंदेहसम्भवम्। मालां च य इमां मालां गृह्णीयात् स हनिष्यति॥ ११/१०१॥
भीष्ममित्येव तां मालां गृहीत्वा सा नृपान् ययौ। तां न भीष्मभयात् केऽपि जगृहुस्तां हि सा ततः॥ ११/१०२॥
द्रुपदस्य गृहद्वारि न्यस्य योगात् तनुं जहौ। एतस्मिन्नेव काले तु सुतार्थं द्रुपदस्तपः॥ ११/१०३॥
चकार शम्भवे चैनं सोऽब्रवीत् कन्यका तव। भूत्वा भविष्यति पुमानिति साऽम्बा ततोऽजनि॥ ११/१०४॥
नाम्ना शिखण्डिनी तस्याः पुंवत् कर्माणि चाकरोत्। तस्यै पाञ्चालराजः स दशार्णाधिपतेः सुताम्॥ ११/१०५॥
उद्वाहयामास सा तां पुंवेषेणैव गूहिताम्। अन्यत्र मातापित्रोस्तु न विज्ञातां बुबोध ह॥ ११/१०६॥
धात्र्यै न्यवेदयत् साऽथ तत्पित्रे सा न्यवेदयत्। स क्रुद्धः प्रेषयामास निहन्मि त्वां सबान्धवम्॥ ११/१०७॥
इति पाञ्चालराजाय निर्जगाम च सेनया। विश्‍वस्य वाक्यं रुद्रस्य पुमानेवेति पार्षतः॥ ११/१०८॥
प्रेषयामास धिग् बुद्धिर्भिन्ना ते बालवाक्यतः। अपरीक्षकस्य ते राष्ट्रं कथमित्येव नर्मकृत्॥ ११/१०९॥
अथ भार्यासमेतं तं पितरं चिन्तयाकुलम्। दृष्ट्वा शिखण्डिनी दुःखान्मन्निमित्तान्न नश्यतु॥ ११/११०॥
इति मत्वा वनायैव ययौ यत्र च तुम्बुरुः। स्थूणाकर्णाभिधेयस्तामपश्यद् दृढकर्णतः॥ ११/१११॥
स तस्या अखिलं श्रुत्वा कृपां चक्रे महामनाः। स तस्यै स्वं वपुः प्रादात् तदीयं जगृहे तथा॥ ११/११२॥
अंशेन पुंस्त्वभावार्थं पूर्वदेहे समास्थितः। पुंसां स्त्रीत्वं भवेत् क्वापि तथाऽप्यन्ते पुमान् भवेत्॥ ११/११३॥
स्त्रीणां नैव हि पुंस्त्वं स्याद् बलवत्कारणैरपि। अतः शिववरेऽप्येषा जज्ञे योषैव नान्यथा॥ ११/११४॥
पश्‍चाच्च पुन्तनुं सैषा प्रविवेशैव पुंयुताम्। नास्या देहः पुंस्त्वमाप नच पुंसाऽनधिष्ठिते॥ ११/११५॥
पुंदेहे न्यवसत् साऽथ गन्धर्वेण त्वधिष्ठितम्। गान्धर्वं देहमाविश्य स्वकीयं भवनं ययौ॥ ११/११६॥
तस्यास्तद्देहसादृश्यं गन्धर्वस्य प्रसादतः। प्राप गन्धर्वदेहोऽपि तया पश्‍चादधिष्ठितः॥ ११/११७॥
श्‍वो देहि मम देहं मे स्वं च देहं समाविश। इत्युक्त्वा स तु गन्धर्वः कन्यादेहं समास्थितः। उवासैव वने तस्मिन् धनदस्तत्र चागमत्॥ ११/११८॥
अप्रत्युत्थायिनं तन्तुलीयमानं विलज्जया। शशाप धनदो देवश्‍चिरमित्थं भवेति तम्॥ ११/११९॥
यदा युद्धे मृतिं याति सा कन्या पुन्तनुस्थिता। तदा पुंस्त्वं पुनर्यासि चपलत्वादितीरितः॥ ११/१२०॥
तथाऽवसत् स गन्धर्वः कन्या पित्रोरशेषतः। कथयामासानुभूतं तौ भृशं मुदमापतुः॥ ११/१२१॥
परीक्ष्य तामुपायैस्तु श्‍वशुरो लज्जितो ययौ। श्‍वोभूते सा तु गन्धर्वं प्राप्य तद्वचनात् पुनः॥ ११/१२२॥
ययौ तेनैव देहेन पुंस्त्वमेव समाश्रिता। स शिखण्डी नामतोऽभूदस्त्रशस्त्रप्रतापवान्॥ ११/१२३॥
धृतराष्ट्रादीनां जननम्
विचित्रवीर्यः प्रमदाद्वयं तत् सम्प्राप्य रेमेऽब्दगणान् सुसक्तः। तत्याज देहं स च यक्ष्मणाऽर्दितस्ततोऽस्य माताऽस्मरदाशु कृष्णम्॥ ११/१२४॥
आविर्बभूवाशु जगज्जनित्रो जनार्दनो जन्मजराभयापहः। समस्तविज्ञानतनुः सुखार्णवः सम्पूजयामास च तं जनित्री॥ ११/१२५॥
तं भीष्मपूर्वैः परमादरार्चितं स्वभिष्टुतं चावददस्य माता। पुत्रौ मृतौ मे नतु राज्यमैच्छद् भीष्मो मया नितरामर्थितोऽपि॥ ११/१२६॥
क्षेत्रे ततो भ्रातुरपत्यमुत्तममुत्पादयास्मत्परमादरार्थितः। इतीरितः प्रणतश्‍चाप्यभिष्टुतो भीष्मादिभिश्‍चाह जगद्गुरुर्वचः॥ ११/१२७॥
ऋते रमां जातु ममाङ्गसङ्गयोग्याऽङ्गना नैव सुरालयेऽपि। तथाऽपि ते वाक्यमहं करिष्ये सांवत्सरं सा चरतु व्रतं मे॥ ११/१२८॥
सा पूतदेहाऽथ च वैष्णवव्रतान्मत्तः समाप्नोतु सुतं वरिष्ठम्। इतीरिते राष्ट्रमुपैति नाशमिति ब्रुवन्तीं पुनराह वाक्यम्॥ ११/१२९॥
सौम्यस्वरूपोऽप्यतिभीषणं मृषा तच्चक्षुषो रूपमहं प्रदर्शये। सहेत सा तद् यदि पुत्रकोऽस्या भवेद् गुणाढ्यो बलवीर्ययुक्तः॥ ११/१३०॥
इतीरितेऽस्त्वित्युदितस्तयाऽगमत् कृष्णोऽम्बिकां सा तु भयान्न्यमीलयत्। अभूच्च तस्यां धृतराष्ट्रनामको गन्धर्वराट् पवनावेशयुक्तः॥ ११/१३१॥
स मारुतावेशबलाद् बलाधिको बभूव राजा धृतराष्ट्रनामा। अदाद् वरं चास्य बलाधिकत्वं कृष्णोऽन्ध आसीत् स तु मातृदोषतः॥ ११/१३२॥
ज्ञात्वा तमन्धं पुनरेव कृष्णं माताऽब्रवीज्जनयान्यं गुणाढ्यम्। अम्बालिकायामिति तत् तथाऽकरोद् भयात् तु सा पाण्डुरभून्मृषादृक्॥ ११/१३३॥
परावहो नाम मरुत् ततोऽभवद् वर्णेन पाण्डुः स हि नामतश्‍च। स चास वीर्याधिक एव वायोरावेशतः सर्वशास्त्रास्त्रवेत्ता॥ ११/१३४॥
तस्मै तथा बलवीर्याधिकत्वं वरं प्रादात् कृष्ण एवाथ पाण्डुम्। विज्ञाय तं प्राह पुनश्‍च माता निर्दोषमन्यं जनयोत्तमं सुतम्॥ ११/१३५॥
उक्त्वेति कृष्णं पुनरेव च स्नुषामाह त्वयाऽक्ष्णोर्हि निमीलनं पुरा। कृतं ततस्ते सुत आस चान्धस्ततः पुनः कृष्णमुपास्व भक्तितः॥ ११/१३६॥
इतीरिताऽप्यस्य हि मायया सा भीता भुजिष्यां कुमतिर्न्ययोजयत्। सा तं परानन्दतनुं गुणार्णवं सम्प्राप्य भक्त्या परयैव रेमे॥ ११/१३७॥
तस्यां स देवोऽजनि धर्मराजो माण्डव्यशापाद् य उवाह शूद्रताम्। वसिष्ठसाम्यं समभीप्समानं प्रच्यावयन्निच्छया शापमाप॥ ११/१३८॥
अयोग्यसम्प्राप्तिकृतप्रयत्नदोषात् समारोपितमेव शूले। चोरैर्हृतेऽर्थेऽपि तु चोरबुद्ध्या मक्षीवधादित्यवदद् यमस्तम्॥ ११/१३९॥
नासत्यता तस्य च तत्र हेतुतः शापं गृहीतुं स तथैव चोक्त्वा। अवाप शूद्रत्वमथास्य नाम चक्रे कृष्णः सर्ववित्त्वं तथाऽदात्॥ ११/१४०॥
विद्यारतेर्विदुरो नाम चायं भविष्यति ज्ञानबलोपपन्नः। महाधनुर्बाहुबलाधिकश्‍च सुनीतिमानित्यवदत् स कृष्णः॥ ११/१४१॥
ज्ञात्वाऽस्य शूद्रत्वमथास्य माता पुनश्‍च कृष्णं प्रणता ययाचे। अम्बालिकायां जनयान्यमित्यथो नैच्छत् स कृष्णोऽभवदप्यदृश्यः॥ ११/१४२॥
धृतराष्ट्रादीनां वर्धनम्
योग्यानि कर्माणि ततस्तु तेषां चकार भीष्मो मुनिभिर्यथावत्। विद्याः समस्ता अददाच्च कृष्णस्तेषां पाण्डोरस्त्रशस्त्राणि भीष्मः॥ ११/१४३॥
ते सर्वविद्याप्रवरा बभूवुर्विशेषतो विदुरः सर्ववेत्ता। पाण्डुः समस्तास्त्रविदेकवीरो जिगाय पृथ्वीमखिलां धनुर्धरः॥ ११/१४४॥
सञ्जय-जनन-विद्यार्जनादि
गवल्गणादास तथैव सूतात् समस्तगन्धर्वपतिः स तुम्बुरुः। य उद्वहो नाम मरुत् तदंशयुक्तो वशी सञ्जयनामधेयः॥ ११/१४५॥
विचित्रवीर्यस्य स सूतपुत्रः सखा च तेषाभवत् प्रियश्‍च। समस्तविन्मतिमान् व्यासशिष्यो विशेषतो धृतराष्ट्रानुवर्ती॥ ११/१४६॥
धृतराष्ट्रस्य पाण्डोश्च विवाहौ
गान्धारराजस्य सुतामुवाह गान्धारिनाम्नीं सुबलस्य राजा। ज्येष्ठो ज्येष्ठां शकुनेर्द्वापरस्य नास्तिक्यरूपस्य कुकर्महेतोः॥ ११/१४७॥
शूरस्य पुत्री गुणशीलरूपयुक्ता दत्ता सख्युरेव स्वपित्रा। नाम्ना पृथा कुन्तिभोजस्य तेन कुन्ती भार्या पूर्वदेहेऽपि पाण्डोः॥ ११/१४८॥
कुन्त्याः पूर्वकथा
कूर्मश्‍च नाम्ना मरुदेव कुन्तिभोजोऽथैनां वर्धयामास सम्यक्। तत्रागमच्छङ्करांशोऽतिकोपो दुर्वासास्तं प्राह मां वासयेति॥ ११/१४९॥
तमाह राजा यदि कन्यकायाः क्षमिष्यसे शक्तितः कर्मकर्त्र्याः। सुखं वसेत्योमिति तेन चोक्ते शुश्रूषणायादिशदाशु कुन्तीम्॥ ११/१५०॥
चकार कर्म सा पृथा मुनेः सुकोपनस्य हि। यथा न शक्यते परैः शरीरवाङ्मनोनुगा॥ ११/१५१॥
स वत्सरत्रयोदशं तया यथावदर्चितः। उपादिशत् परं मनुं समस्तदेववश्यदम्॥ ११/१५२॥
ऋतौ तु सा समाप्लुता परीक्षणाय तन्मनोः। समाह्वयद् दिवाकरं स चाजगाम तत्क्षणात्॥ ११/१५३॥
ततो न सा विसर्जितुं शशाक तं विना रतिम्। सुवाक्प्रयत्नतोऽपि तामथाससाद भास्करः॥ ११/१५४॥
स तत्र जज्ञिवान् स्वयं द्वितीयरूपको विभुः। सवर्मदिव्यकुण्डलो ज्वलन्निव स्वतेजसा॥ ११/१५५॥
पुरा स वालिमारणप्रभूतदोषकारणात्। सहस्रवर्मनामिनाऽसुरेण वेष्टितोऽजनि॥ ११/१५६॥
यथा ग्रहैर्विदूष्यते मतिर्नृणां तथैव हि। अभूच्च दैत्यदूषिता मतिर्दिवाकरात्मनः॥ ११/१५७॥
तथाऽपि रामसेवनाद्धरेश्‍च सन्निधानयुक्। सुदर्शनीयकर्णतः स कर्णनामकोऽभवत्॥ ११/१५८॥
स रत्नपूर्णमञ्जुषागतो विसर्जितो जले। जनापवादभीतितस्तया यमस्वसुर्द्रुतम्॥ ११/१५९॥
नदीप्रवाहतो गतं ददर्श सूतनन्दनः। तमग्रहीत् सरत्नकं चकार पुत्रकं निजम्॥ ११/१६०॥
सूतेनाधिरथेन लालिततनुस्तद्भार्यया राधया संवृद्धो निखिलाः श्रुतीरधिजगौ शास्त्राणि सर्वाणि च। बाल्यादेव महाबलो निजगुणैः सम्भासमानोऽवस- न्नाम्नाऽसौ वसुषेणतामगमदप्यासीद्ध्यमा तद् वसु॥ ११/१६१॥
अथ कुन्ती दत्ता सा पाण्डोः सोऽप्येतया चिरं रेमे। शूराच्छूद्र्यां जातां विदुरोऽवहदारुणीं गुणाढ्यां सः॥ ११/१६२॥
अथ चर्तायननामा मद्रेशः शक्रतुल्यपुत्रार्थी। कन्यारत्नं चाप्तुं चक्रे ब्राह्मं तपो वरं चाप॥ ११/१६३॥
प्रह्लादावरजो यः संह्लादो नामतो हरेर्भक्तः। सोऽभूद् ब्रह्मवरान्ते वायोरावेशयुक् सुतो राज्ञः॥ ११/१६४॥
स मारुतावेशवशात् पृथिव्यां बलाधिकोऽभूद् वरतश्‍च धातुः। शल्यश्‍च नाम्नाऽखिलशत्रुशल्यो बभूव कन्याऽस्य च माद्रिनाम्नी॥ ११/१६५॥
सा पाण्डुभार्यैव च पूर्वजन्मन्यभूत् पुनश्‍च प्रतिपादिताऽस्मै। शल्यश्‍च राज्यं पितृदत्तमञ्जो जुगोप धर्मेण समस्तशास्त्रवित्॥ ११/१६६॥
अथाङ्गनारत्नमवाप्य तद् द्वयं पाण्डुस्तु भोगान् बुभुजे यथेष्टतः। अपीपलद् धर्मसमाश्रयो महीं ज्येष्ठापचायी विदुरोक्तमार्गतः॥ ११/१६७॥
भीष्मो हि राष्ट्रे धृतराष्ट्रमेव संस्थाप्य पाण्डुं युवराजमेव। चक्रे तथाऽप्यन्ध इति स्म राज्यं चकार नासावकरोच्च पाण्डुः॥ ११/१६८॥
भीष्माम्बिकेयोक्तिपरः सदैव पाण्डुः शशासावनिमेकवीरः। अथाम्बिकेयो बहुभिश्‍च यज्ञैरीजे सपाण्डुश्‍च महाधनौघैः॥ ११/१६९॥
नैषा विरोधे कुरुपाण्डवानां तिष्ठेदिति व्यास उदीर्णसद्गुणः। स्वमातरं स्वाश्रममेव निन्ये स्नुषे च तस्या ययतुः स्म तामनु॥ ११/१७०॥
सुतोक्तमार्गेण विचिन्त्य तं हरिं सुतात्मना ब्रह्मतया च सा ययौ। परं पदं वैष्णवमेव कृष्णप्रसादतः स्वर्ययतुः स्नुषे च॥ ११/१७१॥
माता च सा विदुरस्याप लोकं वैरिञ्चमन्वेव गताऽम्बिकां सती। व्यासप्रसादात् सुतसद्गुणैश्‍च कालेन मुक्तिं च जगाम सन्मतिः॥ ११/१७२॥
अम्बालिकाऽपि क्रमयोगतोऽगात् परां गतिं नैव तथाऽम्बिका ययौ। यथायथा विष्णुपरश्‍चिदात्मा तथातथा ह्यस्य गतिः परत्र॥ ११/१७३॥
पाण्डुस्ततो राज्यभरं निधाय ज्येष्ठानुजे चैव वनं जगाम। पत्नीद्वयेनानुगतो बदर्यामुवास नारायणपालितायाम्॥ ११/१७४॥
गृहाश्रमेणैव वने निवासं कुर्वन् स भोगान् बुभुजे तपश्‍च। चक्रे मुनीन्द्रैः सहितो जगत्पतिं रमापतिं भक्तियुतोऽभिपूजयन्॥ ११/१७५॥
स कामतो हरिणत्वं प्रपन्नं दैवादृषिं ग्राम्यकर्मानुषक्तम्। विद्ध्वा शापं प्राप तस्मात् स्त्रिया युङ्मरिष्यसीत्येव बभूव चार्तः॥ ११/१७६॥
न्यसिष्णुरुक्तः पृथया स नेति प्रणामपूर्वं न्यवसत् तथैव। ताभ्यां समेतः शतशृङ्गपर्वते नारायणस्याश्रममध्यगे पुरः॥ ११/१७७॥
तपो नितान्तं स चकार ताभ्यां समन्वितः कृष्णपदाम्बुजाश्रयः। तत्सङ्गपूतद्युसरिद्वराम्भःसदावगाहातिपवित्रिताङ्गः॥ ११/१७८॥
कृष्णावताराय ब्रह्मादिप्रार्थना
एतस्मिन्नेव काले कमलभवशिवाग्रेसराः शक्रपूर्वा भूम्या पापात्मदैत्यैर्भुवि कृतनिलयैराक्रमं चासहन्त्या। ईयुर्देवाधिदेवं शरणमजगुरुं पूर्णषाड्गुण्यमूर्तिं क्षीराब्धौ नागभोगे शयितमनुपमानन्दसन्दोहदेहम्॥ ११/१७९॥
ऊचुः परं पुरुषमेनमनन्तशक्तिं सूक्तेन तेऽब्जजमुखा अपि पौरुषेण। स्तुत्वा धराऽसुरवराक्रमणात् परेशखिन्ना यतो हि विमुखास्तव तेऽतिपापाः॥ ११/१८०॥
दुःसङ्गतिर्भवति भारवदेव देव नित्यं सतामपि हि नः शृणु वाक्यमीश। पूर्वं हता दितिसुता भवता रणेषु ह्यस्मत्प्रियार्थमधुना भुवि तेऽभिजाताः॥ ११/१८१॥
सुरासुरसङ्ग्रामकथानुवादः
आसीत् पुरा दितिसुतैरमरोत्तमानां सङ्ग्राम उत्तमगजाश्‍वरथद्विपद्भिः। अक्षौहिणीशतमहौघमहौघमेव सैन्यं सुरात्मकमभूत् परमास्त्रयुक्तम्। तस्मान्महौघगुणमास महासुराणां सैन्यं शिलागिरिमहास्त्रधरं सुघोरम्॥ ११/१८२॥
तेषां रथाश्‍च बहुनल्वपरिप्रमाणा देवासुरप्रवरकार्मुकबाणपूर्णाः। नानाम्बराभरणवेषवरायुधाढ्या देवासुराः ससृपुराशु परस्परं ते॥ ११/१८३॥
जघ्नुर्गिरीन्द्रतलमुष्टिमहास्त्रशस्त्रैश्‍चक्रुर्नदीश्‍च रुधिरौघवहा महौघम्। तत्र स्म देववृषभैरसुरेशचम्वा युद्धे निषूदित उतौघबलैः शतांशः॥ ११/१८४॥
अथात्मसेनामवमृद्यमानां वीक्ष्यासुरः शम्बरनामधेयः। ससार मायाविदसह्यमायो वरादुमेशस्य सुरान् विमोहयन्॥ ११/१८५॥
मायासहस्रेण सुरा विमर्द्दिता रणे विषेदुः शशिसूर्यमुख्याः। तान् वीक्ष्य वज्री परमाख्यविद्यां स्वयम्भुदत्तं प्रयुयोज वैष्णवीम्॥ ११/१८६॥
समस्तमायापहया तयैव वराद् रमेशस्य सदाऽप्यसह्यया। माया विनेशुर्दितिजेन्द्रसृष्टा वारीशवह्नीन्दुमुखाश्‍च मोचिताः॥ ११/१८७॥
यमेन्दुसूर्यादिसुरास्ततोऽसुरान् निजघ्नुराप्यायितविक्रमास्तदा। सुरेश्‍वरेणोर्जितपौरुषा बहून् वज्रेण वज्री निजघान शम्बरम्॥ ११/१८७॥
तस्मिन् हते दानवलोकपाले दितेः सुता दुद्रुवुरिन्द्रभीषिताः। तान् विप्रचित्तिर्विनिवार्य धन्वी ससार शक्रप्रमुखान् सुरोत्तमान्॥ ११/१८९॥
वरादजेयेन विधातुरेव सुरोत्तमांस्तेन शरैर्निपातितान्। निरीक्ष्य शक्रं च विमोहितं द्रुतं न्यवारयत् तं पवनः शरौघैः॥ ११/१९०॥
अस्त्राणि तस्यास्त्रवरैर्निवार्य चिक्षेप तस्योरसि काञ्चनीं गदाम्। विचूर्णितोऽसौ निपपात मेरौ महाबलो वायुबलाभिनुन्नः॥ ११/१९१॥
अथाससादाशु स कालनेमिस्त्वदाज्ञया यस्य वरं ददौ पुरा। सर्वैरजेयत्वमजोऽसुरः ससहस्रशीर्षो द्विसहस्रबाहुयुक्॥ ११/१९२॥
तमापतन्तं प्रसमीक्ष्य मारुतस्त्वदाज्ञया दत्तवरस्त्वयैव। हन्तव्य इत्यस्मरदाशु हि त्वां तदाऽऽविरासीस्त्वमनन्तपौरुषः॥ ११/१९३॥
तमस्त्रशस्त्राणि बहूनि बाहुभिः प्रवर्षमाणं भुवनाप्तदेहम्। चक्रेण बाहून् विनिकृत्य कानि च न्यवेदयश्‍चाशु यमाय पापम्॥ ११/१९४॥
ततोऽसुरास्ते निहता अशेषास्त्वया त्रिभागा निहताश्‍चतुर्थम्। जघान वायुः पुनरेव जातास्ते भूतले धर्मबलोपपन्नाः॥ ११/१९५॥
राज्ञां महावंशसुजन्मनां तु तेषामभूद् धर्ममतिर्विपापा। शिक्षामवाप्य द्विजपुङ्गवानां त्वद्भक्तिरप्येषु हि काचन स्यात्॥ ११/१९६॥
त्वद्भक्तिलेशाभियुतः सुकर्मा व्रजेन्न पापां तु गतिं कथञ्चित्। दैत्येश्‍वराणां च तमोऽन्धमेव त्वयैव कॢप्तं ननु सत्यकाम॥ ११/१९७॥
धर्मस्य मिथ्यात्वभयाद् वयं त्वामथापि वा दैत्यशुभाप्तिभीषा। सम्प्रार्थयामो दितिजान् सुकर्मणस्त्वद्भक्तितश्‍चालयितुं च शीघ्रम्॥ ११/१९८॥
य उग्रसेनः सुरगायकः स जातो यदुष्वेष तथाऽभिधेयः। तवैव सेवार्थममुष्य पुत्रो जातोऽसुरः कालनेमिः स ईश॥ ११/१९९॥
यस्त्वत्प्रियार्थं न हतो हि वायुना भवत्प्रसादात् परमीशताऽपि। स एष भोजेषु पुनश्‍च जातो वरादुमेशस्य परैरजेयः॥ ११/२००॥
स औग्रसेने जनितोऽसुरेण क्षेत्रे हि तद्रूपधरेण मायया। गन्धर्वजेन द्रमिलेन नाम्ना कंसो जितो येन वराच्छचीपतिः॥ ११/२०१॥
जित्वा जलेशं च हृतानि येन रत्नानि यक्षाश्‍च जिताः शिवस्य। कन्यावनार्थं मगधाधिपेन प्रयोजितास्ते च हृते बलेन॥ ११/२०२॥
स विप्रचित्तिश्‍च जरासुतोऽभूद् वराद् विधातुर्गिरिशस्य चैव। सर्वैरजेयो बलमुत्तमं तज्ज्ञात्वैव कंसस्य मुदा सुते ददौ॥ ११/२०३॥
निवारयामास न कंसमुद्धतं शक्तोऽपि यो यस्य बलेन कश्‍चित्। तुल्यं पृथिव्यां विवरेषु वा क्वचिद् वशे बलाढ्यो नृपतींश्‍च चक्रे॥ ११/२०४॥
हतौ पुरा यौ मधुकैटभाख्यौ त्वयैव हंसो डिभिकश्‍च जातौ। वरादजेयौ गिरिशस्य वीरौ भक्तौ जरासन्धमनु स्म तौ शिवे॥ ११/२०५॥
अन्येऽपि भूमावसुराः प्रजातास्त्वया हता ये सुरदैत्यसङ्गरे। अन्ये तथैवान्धतमः प्रपेदिरे कार्या तथैषां च तमोगतिस्त्वया॥ ११/२०६॥
व्यासावतारे निहतस्त्वया यः कलिः सुशास्त्रोक्तिभिरेव चाद्य। श्रुत्वा त्वदुक्तीः पुरुषेषु तिष्ठन्नीषच्चकारेव मनस्त्वयीश॥ ११/२०७॥
रामात्मना ये निहताश्‍च राक्षसा दृष्ट्वा बलं तेऽपि तदा तवाद्य। समं तवान्यं नहि चिन्तयन्ति सुपापिनोऽपीश तथा हनूमतः॥ ११/२०८॥
ये केशव त्वद्बहुमानयुक्तास्तथैव वायौ नहि ते तमोऽन्धम्। योग्याः प्रवेष्टुं तदतो हि मार्गाच्चाल्यास्त्वया जनयित्वैव भूमौ॥ ११/२०९॥
नितान्तमुत्पाद्य भवद्विरोधं तथैव वायौ बहुभिः प्रकारैः। सर्वेषु देवेषु च पातनीयास्तमस्यथान्धे कलिपूर्वकासुराः॥ ११/२१०॥
हतौ च यौ रावणकुम्भकर्णौ त्वया त्वदीयौ प्रतिहारपालौ। महासुरावेशयुतौ हि शापात् त्वयैव तावद्य विमोचनीयौ॥ ११/२११॥
यौ तौ तवारीह तयोः प्रविष्टौ दैत्यौ तु तावन्धतमःप्रवेश्यौ। यौ तौ त्वदीयौ भवदीयवेश्म त्वया पुनः प्रापणीयौ परेश॥ ११/२१२॥
आविश्य यो बलिमञ्जश्‍चकार प्रतीपमस्मासु तथा त्वयीश। स चासुरो बलिनामैव भूमौ साल्वो नाम्ना ब्रह्मदत्तस्य जातः॥ ११/२१३॥
मायामयं तेन विमानमग्र्यमभेद्यमाप्तं सकलैर्गिरीशात्। विद्रावितो यो बहुशस्त्वयैव रामस्वरूपेण भृगूद्वहेन॥ ११/२१४॥
नासौ हतः शक्तिमताऽपि तत्र कृष्णावतारे स मयैव वध्यः। इत्यात्मसङ्कल्पमृतं विधातुं स चात्र वध्यो भवताऽतिपापी॥ ११/२१५॥
यदीयमारुह्य विमानमस्य पिताऽभवत् सौभपतिश्‍च नाम्ना। यदा स भीष्मेण जितः पिताऽस्य तदा स साल्वस्तपसि स्थितोऽभूत्॥ ११/२१६॥
स चाद्य तस्मात् तपसो निवृत्तो जरासुतस्यानुमते स्थितो हि। अनन्यवध्यो भवताऽद्य वध्यः स प्रापणीयश्‍च तमस्यथोग्रे॥ ११/२१७॥
यो बाणमाविश्य महासुरोऽभूत् स्थितः सनाम्ना प्रथितोऽपि बाणः। स कीचको नाम बभूव रुद्रवरादवध्यः स तमःप्रवेश्यः॥ ११/२१८॥
अतस्त्वया भुव्यवतीर्य देवकार्याणि कार्याण्यखिलानि देव। त्वमेव देवेश गतिः सुराणां ब्रह्मेशशक्रेन्दुयमादिकानाम्॥ ११/२१९॥
त्वमेव नित्योदितपूर्णशक्तिः त्वमेव नित्योदितपूर्णचिद्धनः। त्वमेव नित्योदितपूर्णसत्सुखः त्वादृङ् न कश्‍चित् कुत एव तेऽधिकः॥ ११/२२०॥
इतीरितो देववरैरुदारगुणार्णवोऽक्षोभ्यतमामृताकृतिः। उत्थाय तस्मात् प्रययावनन्तसोमार्ककान्तिद्युतिरन्वितोऽमरैः॥ ११/२२१॥
स मेरुमाप्याह चतुर्मुखं प्रभुर्यत्र त्वयोक्तोऽस्मि हि तत्र सर्वथा। प्रादुर्भविष्ये भवतो हि भक्त्या वशस्तवाहं स्ववशोऽपि चेच्छया॥ ११/२२२॥
ब्रह्मा प्रणम्याह तमात्मकारणं प्रादां पुराऽहं वरुणाय गाः शुभाः। जहार तास्तस्य पिताऽमृतस्रवाः स कश्यपो द्राक् सहसाऽतिगर्वितः॥ ११/२२३॥
मात्रा त्वदित्या च तथा सुरभ्या प्रचोदितेनैव हतासु तासु। श्रुत्वा जलेशात् स मया तु शप्तः क्षत्रेषु गोजीवनको भवेति॥ ११/२२४॥
शूरात् स जातो बहुगोधनाढ्यो भूमौ यमाहुर्वसुदेव इत्यपि। तस्यैव भार्या त्वदितिश्‍च देवकी बभूव चान्या सुरभिश्‍च रोहिणी॥ ११/२२५॥
तत् त्वं भवस्वाशु च देवकीसुतस्तथैव यो द्रोणनामा वसुः सः। स्वभार्यया धरया त्वत्पितृत्वं प्राप्तुं तपस्तेप उदारमानसः॥ ११/२२६॥
तस्मै वरः स मया सन्निसृष्टः स चास नन्दाख्य उतास्य भार्या। नाम्ना यशोदा स च शूरतातसुतस्य वैश्याप्रभवोऽथ गोपः॥ ११/२२७॥
तौ देवकीवसुदेवौ च तेपतुस्तपस्त्वदीयं सुतमिच्छमानौ। त्वामेव तस्मात् प्रथमं प्रदर्श्य तत्र स्वरूपं हि ततो व्रजं व्रज॥ ११/२२८॥
इतीरिते सोऽब्जभवेन केशवस्तथेति चोक्त्वा पुनराह देवताः। सर्वे भवन्तो भवताशु मानुषे कार्यानुसारेण यथानुरूपतः॥ ११/२२९॥
अथावतीर्णाः सकलाश्‍च देवता यथायथैवाह हरिस्तथातथा। वित्तेश्‍वरः पूर्वमभूद्धि भौमाद्धरेः सुतत्वेऽपि तदिच्छयाऽसुरात्॥ ११/२३०॥
पापेन तेनापहृतो हि हस्ती शिवप्रदत्तः सुप्रतीकाभिधानः। तदर्थमेवास्य सुतोऽभिजातो धनेश्‍वरो भगदत्ताभिधानः॥ ११/२३१॥
महासुरस्यांशयुतः स एव रुद्रावेशाद् बलवानस्त्रवांश्‍च। शिष्यो महेन्द्रस्य हते बभूव ताते स्वधर्माभिरतश्‍च नित्यम्॥ ११/२३२॥
अभूच्छिनिर्नाम यदुप्रवीरस्तस्यात्मजः सत्यक आस तस्मात्। कृष्णः पक्षो युयुधानाभिधेयो गरुत्मतोंऽशेन युतो बभूव॥ ११/२३३॥
यः संवहो नाम मरुत् तदंशश्‍चक्रस्य विष्णोश्‍च बभूव तस्मिन्। यदुष्वभूद्धृदिको भोजवंशे सितः पक्षस्तस्य सुतो बभूव॥ ११/२३४॥
स पाञ्चजन्यांशयुतो मरुत्सु तथांऽशयुक्तः प्रवहस्य वीरः। नामास्य चाभूत् कृतवर्मेत्यथान्ये ये यादवास्तेऽपि सुराः सगोपाः॥ ११/२३५॥
ये पाण्डवानामभवन् सहाया देवाश्‍च देवानुचराः समस्ताः। अन्ये तु सर्वेऽप्यसुरा हि मध्यमा ये मानुषास्ते चलबुद्धिवृत्तयः॥ ११/२३६॥
लिङ्गं सुराणां हि परैव भक्तिर्विष्णौ तदन्येषु च तत्प्रतीपता। अतोऽत्र येये हरिभक्तितत्परास्तेते सुरास्तद्भरिता विशेषतः॥ ११/२३७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये [भगवदवतारप्रतिज्ञा / कृष्णचरितेऽंशावतारनिरूपणं नाम] एकादशोऽध्यायः समाप्तः॥
द्वादशोऽध्यायः
बभूव गन्धर्वमुनिस्तु देवकः स आस सेवार्थमथाहुकाद्धरेः। स उग्रसेनावरजस्तथैव नामास्य तस्मादजनि स्म देवकी॥ १२/१॥
अन्याश्‍च याः कश्यपस्यैव भार्या ज्येष्ठां तु तामाहुक आत्मपुत्रीम्। चकार तस्माद्धि पितृष्वसा सा स्वसा च कंसस्य बभूव देवकी॥ १२/२॥
सैवादितिर्वसुदेवस्य दत्ता तस्या रथं माङ्गलं कंस एव। संयापयामास तदा हि वायुर्जगाद वाक्यं गगनस्थितोऽमुम्॥ १२/३॥
विनाऽपराधाद्धि ततो गरीयसो न मातुलो वध्यतामेति विष्णोः। लोकस्य धर्माननुवर्ततोऽतः पित्रोर्विरोधार्थमुवाच वायुः॥ १२/४॥
मृत्युस्तवास्या भविताऽष्टमः सुतो मूढेति चोक्तो जगृहे कृपाणम्। पुत्रान् समर्प्यास्य च शूरसूनुर्विमोच्य तां तत्सहितो गृहं ययौ॥ १२/५॥
षट् कन्यकाश्‍चावरजा गृहीतास्तेनैव ताभिश्‍च मुमोद शूरजः। बाह्लीकपुत्री च पुरा गृहीता पुराऽस्य भार्या सुरभिस्तु रोहिणी॥ १२/६॥
राज्ञश्‍च काशिप्रवरस्य कन्यकां स पुत्रिकापुत्रकधर्मतोऽवहत्। कन्यां तथा करवीरेश्‍वरस्य तेनैव धर्मेण दितिं दनुं पुरा॥ १२/७॥
यो मन्यते विष्णुरेवाहमित्यसौ पापो वेनः पौण्ड्रको वासुदेवः। जातः पुनः शूरजात् काशिजायां नान्यो मत्तो विष्णुरस्तीति वादी॥ १२/८॥
धुन्धुर्हतो यो हरिणा मधोः सुत आसीत् सुतायां करवीरेश्‍वरस्य। सृगालनामा वासुदेवोऽथ देवकीमुदूह्य शौरिर्न ययावुभे ते॥ १२/९॥
ततस्तु तौ वृष्णिशत्रू बभूवतुर्ज्येष्ठौ सुतौ शूरसुतस्य नित्यम्। अन्यासु च प्राप सुतानुदारान् देवावतारान् वसुदेवोऽखिलज्ञः॥ १२/१०॥
येये हि देवाः पृथिवीं गतास्ते सर्वे शिष्याः सत्यवतीसुतस्य। विष्णुज्ञानं प्राप्य सर्वेऽखिलज्ञास्तस्माद् यथायोग्यतया बभूवुः॥ १२/११॥
मरीचिजाः षण्मुनयो बभूवुस्ते देवलं प्राहसन् कार्श्यहेतोः। तच्छापतः कालनेमिप्रसूता अवध्यतार्थं तप एव चक्रुः॥ १२/१२॥
धाता प्रादाद् वरमेषां तथैव शशाप तान् क्ष्मातले सम्भवध्वम्। तत्र स्वतातो भवतां निहन्तेत्यात्मान्यतो वरलिप्सून् हिरण्यः॥ १२/१३॥
दुर्गा तदा तान् भगवत्प्रचोदिता प्रस्वापयित्वा प्रचकर्ष कायात्। क्रमात् समावेशयदाशु देवकीगर्भाशये तान् न्यहनच्च कंसः॥ १२/१४॥
तदा मुनीन्द्रसंयुतः सदो विधातुरुत्तमम्। स पाण्डुराप्तुमैच्छत न्यवारयंश्‍च ते तदा॥ १२/१५॥
यदर्थमेष जायते पुमान् हि तस्य सोऽकृतेः। शुभां गतिं नतु व्रजेद् ध्रुवं ततो न्यवारयन्॥ १२/१६॥
प्रधानदेवताजनौ नियोक्तुमात्मनः प्रियाम्। बभूव पाण्डुरेष तद् विना न तस्य सद्गतिः॥ १२/१७॥
अतोऽन्यथा सुतानृते व्रजन्ति सद्गतिं नराः। यथैव धर्मभूषणो जगाम सन्ध्यकासुतः॥ १२/१८॥
तदा कलिश्‍च राक्षसा बभूवुरिन्द्रजिन्मुखाः। विचित्रवीर्यनन्दनप्रियोदरे हि गर्भगाः॥ १२/१९॥
तदस्य सोऽनुजोऽशृणोन्मुनीन्द्रभाषितं च तत्। विचार्य च प्रियामिदं जगाद वासुदेवधीः॥ १२/२०॥
य एव मद्गुणाधिकस्ततः सुतं समाप्नुहि। सुतं विना न नो गतिं शुभां वदन्ति साधवः॥ १२/२१॥
तदस्य कृच्छ्रतो वचः पृथाऽग्रहीज्जगाद च। ममास्ति देववश्यदो मनूत्तमः सुताप्तिदः॥ १२/२२॥
न ते सुरानृते समः सुरेषु केचिदेव च। अतस्तवाधिकं सुरं कमाह्वये त्वदाज्ञया॥ १२/२३॥
वरं समाश्रिता पतिं व्रजेत या ततोऽधमम्। न काचिदस्ति निष्कृतिर्न भर्तृलोकमृच्छति॥ १२/२४॥
कृते पुरा सुरास्तथा सुराङ्गनाश्‍च केवलम्। निमित्ततोऽपि ताः क्वचिन्न तान् विहाय रेमिरे॥ १२/२५॥
मनोवचःशरीरतो यतो हि ताः पतिव्रताः। अनादिकालतोऽभवंस्ततः सभर्तृकाः सदा॥ १२/२६॥
स्वभर्तृभिर्विमुक्तिगाः सहैव ता भवन्ति हि। कृतान्तमाप्य चाप्सरःस्त्रियो बभूवुरूर्जिताः॥ १२/२७॥
अनावृताश्‍च तास्तथा यथेष्टभर्तृकाः सदा। अतस्तु ता न भर्तृभिर्विमुक्तिमापुरुत्तमाम्॥ १२/२८॥
सुरस्त्रियोऽतिकारणैर्यदन्यथा स्थितास्तदा। दुरन्वयाः सुदुःसहा विपत् ततो भविष्यति॥ १२/२९॥
अयुक्तमुक्तवांस्ततो भवांस्तथाऽपि ते वचः। अलङ्घ्यमेव मे मतो वदस्व पुत्रदं सुरम्॥ १२/३०॥
इतीरितोऽब्रवीन्नृपो न धर्मतो विना भुवः। नृपोऽभिरक्षिता भवेत् तदाह्वयाशु तं विभुम्॥ १२/३१॥
स धर्मजः सुधार्मिको भवेद्धि सूनुरुत्तमः। इतीरिते तया यमः समाहुतोऽगमद् द्रुतम्॥ १२/३२॥
ततश्‍च सद्य एव सा सुषाव पुत्रमुत्तमम्। युधिष्ठिरं यमो हि स प्रपेद आत्मपुत्रताम्॥ १२/३३॥
यमे सुते तु कुन्तितः प्रजात एव सौबली। अदह्यतेर्ष्यया चिरं बभञ्ज गर्भमेव च॥ १२/३४॥
स्वगर्भपातने कृते तया जगाम केशवः। पराशरात्मजो न्यधाद् घटेषु तान् विभागशः॥ १२/३५॥
शतात्मना विभेदिताः शतं सुयोधनादयः। बभूवुरन्वहं ततः शतोत्तरा च दुश्शला॥ १२/३६॥
स देवकार्यसिद्धये ररक्ष गर्भमीश्‍वरः। पराशरात्मजो विभुर्विचित्रवीर्यजोद्भवम्॥ १२/३७॥
कलिः सुयोधनोऽजनि प्रभूतबाहुवीर्ययुक्। प्रधानवायुसन्निधेर्बलाधिकत्वमस्य तत्॥ १२/३८॥
पुरा हि मेरुमूर्धनि त्रिविष्टपौकसां वचः। वसुन्धरातलोद्भवोन्मुखं श्रुतं दितेः सुतैः॥ १२/३९॥
ततस्तु ते त्रिलोचनं तपोबलादतोषयन्। वृतश्‍च देवकण्टको ह्यवध्य एव सर्वतः॥ १२/४०॥
वरादुमापतेस्ततः कलिः स देवकण्टकः। बभूव वज्रकाययुक् सुयोधनो महाबलः॥ १२/४१॥
अवध्य एव सर्वतः सुयोधने समुत्थिते। घृताभिपूर्णकुम्भतः स इन्द्रजित् समुत्थितः॥ १२/४२॥
स दुःखशासनोऽभवत् ततोऽतिकायसम्भवः। स वै विकर्ण उच्यते ततः खरोऽभवद् बली॥ १२/४३॥
स चित्रसेननामकस्तथाऽपरे च राक्षसाः। बभूवुरुग्रपौरुषा विचित्रवीर्यजात्मजाः॥ १२/४४॥
समस्तदोषरूपिणः शरीरिणो हि तेऽभवन्। मृषेति नामतो हि या बभूव दुश्शलाऽसुरी॥ १२/४५॥
कुहूप्रवेशसंयुता ययाऽऽर्जुनेर्वधाय हि। तपः कृतं त्रिशूलिने ततो हि साऽत्र जज्ञुषी॥ १२/४६॥
तयोदितो हि सैन्धवो बभूव कारणं वधे। स कालकेयदानवस्तदर्थमास भूतले॥ १२/४७॥
तथाऽऽस निरृताभिधोऽनुजः स निरृतेरभूत्। स नासिकामरुद्युतो युयुत्सुनामकः कृती॥ १२/४८॥
स चाम्बिकेयवीर्यजः सुयोधनादनन्तरः। बभूव वैश्यकन्यकोदरोद्भवो हरिप्रियः॥ १२/४९॥
युधिष्ठिरे जात उवाच पाण्डुर्बाह्वोर्बलाज्ज्ञानबलाच्च धर्मः। रक्ष्योऽन्यथा नाशमुपैति तस्माद् बलद्वयाढ्यं जनयाशु पुत्रम्॥ १२/५०॥
यज्ञाधिको ह्यश्‍वमेधो मनुष्यदृश्येषु तेजस्स्वधिको हि भास्करः। वर्णेषु विप्रः सकलैर्गुणैर्वरो देवेषु वायुः पुरुषोत्तमादृते॥ १२/५१॥
विशेषतोऽप्येष पितैव मे प्रभुर्व्यासात्मना विष्णुरनन्तपौरुषः। अतश्‍च ते श्‍वशुरो नैव योग्यो दातुं पुत्रं वायुमुपैहि तं प्रभुम्॥ १२/५२॥
इतीरिते पृथयाऽऽहूतवायुसंस्पर्शमात्रादभवद् बलद्वये। समो जगत्यस्ति न यस्य कश्‍चिद् भक्तौ च विष्णोर्भगवद्वशः सुतः॥ १२/५३॥
स वायुरेवाभवदत्र भीमनामा भृता माः सकला हि यस्मिन्। स विष्णुनेशेन युतः सदैव नाम्ना सेनो भीमसेनस्ततोऽसौ॥ १२/५४॥
तज्जन्ममात्रेण धरा विदारिता शार्दूलभीताज्जननीकराद् यदा। पपात सञ्चूर्णित एव पर्वतस्तेनाखिलोऽसौ शतशृङ्गनामा॥ १२/५५॥
तस्मिन् प्रजाते रुधिरं प्रसुस्रुवुर्महासुरा वाहनसैन्यसंयुताः। नृपाश्‍च तत्पक्षभवाः समस्तास्तदा भीता असुरा राक्षसाश्‍च॥ १२/५६॥
अवर्धतात्रैव वृकोदरो वने मुदं सुराणामभितः प्रवर्धयन्।
तदैव शेषो हरिणोदितोऽविशद् गर्भं सुताया अपि देवकस्य॥ १२/५७॥
स तत्र मासत्रयमुष्य दुर्गयाऽपवाहितो रोहिणीगर्भमाशु। नियुक्तया केशवेनाथ तत्र स्थित्वा मासान् सप्त जातः पृथिव्याम्॥ १२/५८॥
स नामतो बलदेवो बलाढ्यो बभूव … … …
… … … … … … … … … तस्यानु जनार्दनः प्रभुः। आविर्बभूवाखिलसद्गुणैकपूर्णः सुतायामपि देवकस्य॥ १२/५९॥
यः सत्सुखज्ञानबलैकदेहः समस्तदोषस्पर्शोज्झितः सदा। अव्यक्ततत्कार्यमयो न यस्य देहः कुतश्‍चित् क्व च स ह्यजो हरिः॥ १२/६०॥
न शुक्लरक्तप्रभवोऽस्य कायस्तथाऽपि तत्पुत्रतयोच्यते मृषा। जनस्य मोहाय शरीरतोऽस्या यदाविरासीदमलस्वरूपः॥ १२/६१॥
आविश्य पूर्वं वसुदेवमेव विवेश तस्मादृतुकाल एव। देवीमुवासात्र च सप्त मासान् सार्धांस्ततश्‍चाविरभूदजोऽपि॥ १२/६२॥
यथा पुरा स्तम्भत आविरासीदशुक्लरक्तोऽपि नृसिंहरूपः। तथैव कृष्णोऽपि तथाऽपि मातापितृक्रमादेव विमोहयत्यजः॥ १२/६३॥
पितृक्रमं मोहनार्थं समेति न तावता शुक्लतो रक्ततश्‍च। जातोऽस्य देहस्त्विति दर्शनाय सशङ्खचक्राब्जगदः स दृष्टः॥ १२/६४॥
अनेकसूर्याभकिरीटयुक्तो विद्युत्प्रभे कुण्डले धारयंश्‍च। पीताम्बरो वनमाली स्वनन्तसूर्योरुदीप्तिर्ददृशे गुणार्णवः॥ १२/६५॥
स कञ्जयोनिप्रमुखैः सुरैः स्तुतः पित्रा च मात्रा च जगाद शूरजम्। नयस्व मां नन्दगृहानिति स्म ततो बभूव द्विभुजो जनार्दनः॥ १२/६६॥
तदैव जाता च हरेरनुज्ञया दुर्गाभिधा श्रीरनु नन्दपत्न्याम्। ततस्तमादाय हरिं ययौ स शूरात्मजो नन्दगृहान् निशीथे॥ १२/६७॥
संस्थाप्य तं तत्र तथैव कन्यकामादाय तस्मात् स्वगृहं पुनर्ययौ। हत्वा स्वसुर्गर्भषट्वं क्रमेण मत्वाऽष्टमं तत्र जगाम कंसः॥ १२/६८॥
गर्भं देवक्याः सप्तमं मेनिरे हि लोकाः सुतं त्वष्टमं तां ततः सः। मत्वा हन्तुं पादयोः सम्प्रगृह्य सम्पोथयामास शिलातले च॥ १२/६९॥
सा तद्धस्तात् क्षिप्रमुत्पत्य देवी खेऽदृश्यतैवाष्टभुजा समग्रा। ब्रह्मादिभिः पूज्यमाना समग्रैरत्यद्भुताकारवती हरिप्रिया॥ १२/७०॥
उवाच चार्या तव मृत्युरत्र क्वचित् प्रजातो हि वृथैव पाप। अनागसीं मां विनिहन्तुमिच्छस्यशक्यकार्ये तव चोद्यमोऽयम्॥ १२/७१॥
उक्त्वेति कंसं पुनरेव देवकीतल्पेऽशयद् बालरूपैव दुर्गा। नाज्ञासिषुस्तामथ केचनात्र ऋते हि मातापितरौ गुणाढ्याम्॥ १२/७२॥
श्रुत्वा तयोक्तं तु तदैव कंसः पश्‍चात्तापाद् वसुदेवं सभार्यम्। प्रसादयामास पुनः पुनश्‍च विहाय कोपं च तमूचतुस्तौ। सुखस्य दुःखस्य च राजसिंह नान्यः कर्ता वासुदेवादिति स्म॥ १२/७३॥
आनीय कंसोऽथ गृहे स्वमन्त्रिणः प्रोवाच कन्यावचनं समस्तम्। श्रुत्वा च ते प्रोचुरत्यन्तपापाः कार्यं बालानां निधनं सर्वशोऽपि॥ १२/७४॥
तथेति तांस्तत्र नियुज्य कंसो गृहं स्वकीयं प्रविवेश पापः। चेरुश्‍च ते बालवधे सदोद्यता हिंसाविहाराः सततं स्वभावतः॥ १२/७५॥
अथ प्रभाते शयने शयानमपश्यतामब्जदलायताक्षम्। कृष्णं यशोदा च तथैव नन्द आनन्दसान्द्राकृतिमप्रमेयम्॥ १२/७६॥
मेनात एतौ निजपुत्रमेनं स्रष्टारमब्जप्रभवस्य चेशम्। महोत्सवात् पूर्णमनाश्‍च नन्दो विप्रेभ्योऽदाल्लक्षमितास्तथा गाः॥ १२/७७॥
सुवर्णरत्नाम्बरभूषणानि बहूनि गोजीविगणाधिनाथः। प्रादादथोपायनपाणयस्तं गोपा यशोदां च मुदा स्त्रियोऽगमन्॥ १२/७८॥
गतेषु तत्रैव दिनेषु केषुचिज्जगाम कंसस्य गृहं स नन्दः। पूर्वं हि नन्दः स करं हि दातुं बृहद्वनान्निःसृतः प्राप कृष्णाम्॥ १२/७९॥
सहागता तेन तदा यशोदा सुषाव दुर्गामथ तत्र शौरिः। निधाय कृष्णं प्रतिगृह्य कन्यकां गृहं ययौ नन्द उवास तत्र॥ १२/८०॥
निरुष्य तस्मिन् यमुनातटे स मासं ययौ द्रष्टुकामो नरेन्द्रम्। राज्ञोऽथ तं दत्तकरं ददर्श शूरात्मजो वाक्यमुवाच चैनम्॥ १२/८१॥
याह्युत्पाताः सन्ति तत्रेत्युदीरिते जगाम शीघ्रं यमुनां स नन्दः। रात्रावेवागच्छमाने तु नन्दे कंसस्य धात्री तु जगाम गोष्ठम्॥ १२/८२॥
सा पूतना नाम निजस्वरूपमाच्छाद्य रात्रौ शुभरूपवच्च। विवेश नन्दस्य गृहं बृहद्वनप्रान्ते हि मार्गे रचितं प्रयाणे॥ १२/८३॥
तीरे भगिन्यास्तु यमस्य वस्त्रगृहे शयानं पुरुषोत्तमं तम्। जग्राह मात्रा तु यशोदया तया निद्रायुजा प्रेक्ष्यमाणा शुभेव॥ १२/८४॥
तन्मायया धर्षिता निद्रया च न्यवारयन्नैव हि नन्दजाया। तया प्रदत्तं स्तनमीशिताऽसुभिः पपौ सहैवाशु जनार्दनः प्रभुः॥ १२/८५॥
मृता स्वरूपेण सुभीषणेन पपात सा व्याप्य वनं समस्तम्। तदाऽऽगमन्नन्दगोपोऽपि तत्र दृष्ट्वैव सर्वेऽप्यभवन् सुविस्मिताः॥ १२/८६॥
सा ताटका चोर्वशीसम्प्रविष्टा कृष्णावध्यानान्निरयं सञ्जगाम। सा तूर्वशी कृष्णभुक्तस्तनेन पूता स्वर्गं प्रययौ तत्क्षणेन॥ १२/८७॥
सा तुम्बुरोः सङ्गत आविवेश रक्षस्तनुं शापतो वित्तपस्य। कृष्णस्पर्शाच्छुद्धरूपा पुनर्दिवं ययौ तुष्टे किमलभ्यं रमेशे॥ १२/८८॥
यदाऽऽप देवश्‍चतुरोऽथ मासांस्तदोपनिष्क्रामणमस्य चासीत्। जन्मर्क्षमस्मिन् दिन एव चासीत् प्रातः किञ्चित् तत्र महोत्सवोऽभूत्॥ १२/८९॥
तदा शयानः शकटस्य सोऽधः पदाऽक्षिपत् तं दितिजं निहन्तुम्। अनः समाविश्य दितेः सुतोऽसौ स्थितः प्रतीपाय हरेः सुपापः॥ १२/९०॥
क्षिप्तोऽनसिस्थः शकटाक्षनामा स विष्णुनेत्वा सहितः पपात। ममार चाशु प्रतिभग्नगात्रो व्यत्यस्तचक्राक्षमभूदनश्‍च॥ १२/९१॥
सा सम्भ्रमात् तं प्रतिगृह्य शङ्कया कृष्णं यशोदा द्विजवर्यसूक्तिभिः। संस्नापयामास नदीतटात् तदा समागता नन्दवचोऽभितर्जिता॥ १२/९२॥
हत्वा तु तं कंसभृत्यं स कृष्णः शिश्ये पुनः शिशुवत् सर्वशास्ता। एवं गोपान् प्रीणयन् बालकेलीविनोदतो न्यवसत् तत्र देवः॥ १२/९३॥
विवर्धमाने लोकदृष्ट्यैव कृष्णे पाण्डुः पुनः प्राह पृथामिदं वचः। धर्मिष्ठो नौ सूनुरग्रे बभूव बलद्वयज्येष्ठ उतापरश्‍च॥ १२/९४॥
यदैक एवातिबलोपपन्नो भवेत् तदा तेन परावमर्दे। प्रवर्तमाने स्वपुरं हरेयुश्‍चौर्यात् परे तद् द्वयमत्र योग्यम्॥ १२/९५॥
शस्त्रास्त्रविद् वीर्यवान् नौ सुतोऽन्यो भवेद् देवं तादृशमाह्वयातः। शेषस्तव भ्रातृसुतोऽभिजातस्तस्मान्नासौ सुतदानाय योग्यः॥ १२/९६॥
न वै सुपर्णः सुतदो नरेषु प्रजायते चास्य यतस्तथाऽऽज्ञा। कृता पुरा हरिणा शङ्करस्तु क्रोधात्मकः पालने नैव योग्यः॥ १२/९७॥
अतो महेन्द्रो बलवाननन्तरस्तेषां समाह्वानमिहार्हति स्वराट्। इतीरिता साऽऽह्वयदाशु वासवं ततः प्रजज्ञे स्वयमेव शक्रः॥ १२/९८॥
स चार्जुनो नाम नरांशयुक्तो विष्ण्वावेशी बलवानस्त्रवेत्ता। रूप्यन्यः स्यात् सूनुरित्युच्यमाना भर्त्रा कुन्ती नेति तं प्राह धर्मात्॥ १२/९९॥
बृहस्पतिः पूर्वमभूद्धरेः पदं संसेवितुं पवनावेशयुक्तः। स उद्धवो नाम यदुप्रवीराज्जातो विद्वानुपगवनामधेयात्॥ १२/१००॥
द्रोणात्मकं नातितरां स्वसेवकं कुर्याद्धरिर्मामिति भूय एव। स उद्धवात्माऽवततार यादवेष्वासेवनार्थं पुरुषोत्तमस्य॥ १२/१०१॥
बृहस्पतेरेव स सर्वविद्या अवाप मन्त्री निपुणः सर्ववेत्ता।
वर्षत्रये तत्परतः स सात्यकिर्जज्ञे दिने चेकितानश्‍च तस्मिन्॥ १२/१०२॥
मरुत्सु नाम प्रवहो यदुष्वभूत् स चेकितानो हरिसेवनार्थम्। तदैव जातो हृदिकात्मजोऽपि वर्षत्रये तत्परतो युधिष्ठिरः॥ १२/१०३॥
ततोऽब्दतो भूभरसंहृतौ हरेरङ्गत्वमाप्तुं गिरिशोऽजनिष्ट। अश्‍वत्थामा नामतोऽश्‍वध्वनिं स यस्माच्चक्रे जायमानो महात्मा॥ १२/१०४॥
स सर्वविद् बलवानस्त्रवेत्ता कृपस्वसायां द्रोणवीर्योद्भवोऽभूत्।
सुयोधनस्तच्चतुर्थेऽह्नि जातस्तस्यापरेद्युर्भीमसेनः सुधीरः॥ १२/१०५॥
यदा स मासद्वितयी बभूव तदा रोहिण्यां बलदेवोऽभिजातः। बली गुणाढ्यः सर्ववेदी य एव सेवाखिन्नो लक्ष्मणोऽग्रे हरेर्भूत्॥ १२/१०६॥
यदा हि पुत्रान् विनिहन्तुमेतौ सहैव बद्धौ गतिशृङ्खलायाम्। कंसेनापापौ देवकीशूरपुत्रौ वियोजिताः शौरिभार्याः पराश्‍च॥ १२/१०७॥
विनिश्‍चयार्थं देवकीगर्भजानामन्या भार्या धृतगर्भाः स कंसः। स्थानान्तरे प्रसवो यावदासां संस्थापयामास सुपापबुद्धिः॥ १२/१०८॥
हेतोरेतस्माद् रोहिणी नन्दगेहे प्रसूत्यर्थं स्थापिता तेन देवी। लेभे पुत्रं गोकुले पूर्णचन्द्रकान्ताननं बलभद्रं सुशुभ्रम्॥ १२/१०९॥
यदा त्रिमासः स बभूव देवस्तदाऽऽविरासीत् पुरुषोत्तमोऽजः। तौ कृष्णशेषावाप्तुकामौ सुतौ हि तपश्‍चक्राते देवकीशूरपुत्रौ॥ १२/११०॥
विष्ण्वावेशी बलवान् यो गुणाधिकः स मे सुतः स्यादिति रोहिणी च। तेपे तपोऽतो हरिशुक्लकेशयुतः शेषो देवकीरोहिणीजः॥ १२/१११॥
अवर्धतासौ हरिशुक्लकेशसमावेशी गोकुले रौहिणेयः। कृष्णोऽपि लीलाललिताः प्रदर्शयन् बलद्वितीयो रमयामास गोष्ठम्॥ १२/११२॥
स प्राकृतं शिशुमात्मानमुच्चैर्विजानन्त्या मातुरादर्शनाय। विजृम्भमाणोऽखिलमात्मसंस्थं प्रदर्शयामास कदाचिदीशः॥ १२/११३॥
साऽण्डं महाभूतमनोऽभिमानमहत्प्रकृत्यावृतमब्जजादिभिः। सुरैः शिवेतैर्नरदैत्यसङ्घैर्युतं ददर्शास्य तनौ यशोदा॥ १२/११४॥
न्यमीलयच्चाक्षिणी भीतभीता जुगूह चात्मानमथो रमेशः। वपुः स्वकीयं सुखचित्स्वरूपं पूर्णं सत्सु ज्ञापयंस्तद् व्यदर्शयत्॥ १२/११५॥
कदाचित् तं लालयन्ती यशोदा वोढुं नाशक्नोद् भूरिभाराधिकार्ता। निधाय तं भूमितले स्वकर्म यदा चक्रे दैत्य आगात् सुघोरः॥ १२/११६॥
तृणावर्तो नामतः कंसभृत्यः सृष्ट्वाऽत्युग्रं चक्रवातं शिशुं तम्। आदायागादन्तरिक्षं स तेन शस्तः कण्ठग्राहसंरुद्धवायुः॥ १२/११७॥
पपात कृष्णेन हतः शिलातले तृणावर्तः पर्वतोदग्रदेहः। सुविस्मयं चापुरथो जनास्ते तृणावर्तं वीक्ष्य सञ्चूर्णिताङ्गम्॥ १२/११८॥
अक्रुद्ध्यतां केशवोऽनुग्रहाय शुभं स्वयोग्यादधिकं निहन्तुम्। स क्रुद्ध्यतां नवनीतादि मुष्णंश्‍चचार देवो निजसत्सुुखाम्बुधिः॥ १२/११९॥
यस्मिन्नब्दे भाद्रपदे स मासे सिंहस्थयोर्गुरुरव्योः परेशः। उदैत् ततः फाल्गुने फल्गुनोऽभूद् गते ततो माद्रवती बभाषे॥ १२/१२०॥
जाताः सुतास्ते प्रवराः पृथायामेकाऽनपत्याऽहमतः प्रसादात्। तवैव भूयासमहं सुतेतां विधत्स्व कुन्तीं मम मन्त्रदात्रीम्॥ १२/१२१॥
इतीरितः प्राह पृथां स माद्र्यै दिशस्व मन्त्रं सुतदं वरिष्ठम्। इत्यूचिवांसं पतिमाह यादवी दद्यां त्वदर्थे तु सकृत्फलाय॥ १२/१२२॥
उवाच माद्र्यै सुतदं मनुं च पुनः फलं ते न भविष्यतीति। मन्त्रं समादाय च मद्रपुत्री व्यचिन्तयत् स्यां नु कथं द्विपुत्री॥ १२/१२३॥
सदाऽवियोगौ दिविजेषु दस्रौ नचैतयोर्नामभेदः क्वचिद्धि। एका भार्या सैतयोरप्युषा हि तदाऽऽयातः सकृदावर्तनाद् द्वौ॥ १२/१२४॥
इतीक्षन्त्याऽऽकारितावश्‍विनौ तौ शीघ्रं प्राप्तौ पुत्रकौ तत्प्रसूतौ। तावेव देवौ नकुलः पूर्वजातः सहदेवोऽभूत् पश्‍चिमस्तौ यमौ च॥ १२/१२५॥
पुनर्मनोः फलवत्त्वाय माद्री सम्प्रार्थयामास पतिं तदुक्ता। पृथाऽवादीत् कुटिलैषा मदाज्ञामृते देवावाह्वयामास दस्रौ॥ १२/१२६॥
अतो विरोधं च मदात्मजानां कुर्यादेषेत्येव भीतां न मां त्वम्। नियोक्तुमर्हः पुनरेव राजन्नितीरितोऽसौ विरराम क्षितीशः॥ १२/१२७॥
विशेषनाम्नैव समाहुताः सुरा दद्युः सुतान् इत्यविशेषितं तयोः। विशेषनामापि समाह्वयत् तौ मन्त्रावृत्तिर्नामभेदेऽस्य चोक्ता॥ १२/१२८॥
युधिष्ठिराद्येषु चतुर्षु वायुः समाविष्टः फल्गुनेऽतो विशेषात्। युधिष्ठिरे सौम्यरूपेण विष्टो वीरेण रूपेण धनञ्जयेऽसौ॥ १२/१२९॥
शृङ्गाररूपं केवलं दर्शयानो विवेश वायुर्यमजौ प्रधानः। शृङ्गारकैवल्यमभीप्समानः पाण्डुर्हि पुत्रं चकमे चतुर्थम्॥ १२/१३०॥
शृङ्गाररूपो नकुले विशेषात् सुनीतिरूपः सहदेवं विवेश। गुणैः समस्तैः स्वयमेव वायुर्बभूव भीमो जगदन्तरात्मा॥ १२/१३१॥
सुपल्लवाकारतनुर्हि कोमलः प्रायो जनैः प्रोच्यते रूपशाली। ततः सुजातौ वरवज्रकायौ भीमार्जुनावप्यृते पाण्डुरैच्छत्॥ १२/१३२॥
अप्राकृतानां तु मनोहरं यद् रूपं द्वात्रिंशल्लक्षणोपेतमग्र्यम्। तन्मारुतो नकुले कोमलाभ एवं वायुः पञ्चरूपोऽत्र चासीत्॥ १२/१३३॥
अतीतेन्द्रा एव ते विष्णुषष्ठाः पूर्वेन्द्रोऽसौ यज्ञनामा रमेशः। स वै कृष्णो वायुरथ द्वितीयः स भीमसेनो धर्म आसीत् तृतीयः॥ १२/१३४॥
युधिष्ठिरोऽसावथ नासत्यदस्रौ क्रमात् तावेतौ माद्रवतीसुतौ च। पुरन्दरः षष्ठ उतात्र सप्तमः स एवैकः फल्गुनो ह्येत इन्द्राः॥ १२/१३५॥
क्रमात् संस्कारान् क्षत्रियाणामवाप्य तेऽवर्धन्त स्वतवसो महित्वना। सर्वे सर्वज्ञाः सर्वधर्मोपपन्नाः सर्वे भक्ताः केशवेऽत्यन्तयुक्ताः॥ १२/१३६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये कृष्णावतारे पाण्डवोत्पत्तिर्नाम द्वादशोऽध्यायः समाप्तः॥
त्रयोदशोऽध्यायः
गर्गः शूरसुतोक्त्या व्रजमायात् सात्वतां पुरोधाः सः। चक्रे क्षत्रिययोग्यान् संस्कारान् कृष्णरोहिणीसून्वोः॥ १३/१॥
ऊचे नन्द सुतोऽयं तव विष्णोर्नावमो गुणैः सर्वैः। सर्वे चैतत्त्राताः सुखमाप्स्यन्त्युन्नतं भवत्पूर्वाः॥ १३/२॥
इत्युक्तः स मुमोद प्रययौ गर्गोऽपि केशवोऽथाद्यः। स्वपदैरग्रजयुक्तश्‍चक्रे पुण्यं व्रजन् व्रजोद्देशम्॥ १३/३॥
स कदाचिच्छिशुभावं कुर्वन्त्या मातुरात्मनो भूयः। अपनेतुं परमेशो मृदं जघासेक्षतां वयस्यानाम्॥ १३/४॥
मात्रोपालब्ध ईशो मुखविवृतिमकर्नाम्ब मृद्भक्षिताऽहं पश्येत्यास्यान्तरे तु प्रकृतिविकृतियुक् सा जगत् पर्यपश्यत्। इत्थं देवोऽप्यचिन्त्यामपरदुरधिगां शक्तिमुच्चां प्रदर्श्य प्रायो ज्ञातात्मतत्त्वां पुनरपि भगवानावृणोदात्मशक्त्या॥ १३/५॥
इति प्रभुः स लीलया हरिर्जगद्विडम्बयन्। चचार गोष्ठमण्डलेऽप्यनन्तसौख्यचिद्घनः॥ १३/६॥
कदाचिदीश्‍वरः स्तनं पिबन् यशोदया पयः। सृतं निधातुमुज्झितो बभञ्ज दध्यमत्रकम्॥ १३/७॥
प्रमथ्यमानदध्युरुप्रजातमिन्दुसन्निभम्। नवं हि नीतमाददे रहो जघास चेशिता॥ १३/८॥
प्रजायते हि यत्कुले यथा युगं यथा वयः। तथा प्रवर्तनं भवेद् दिवौकसां समुद्भवे॥ १३/९॥
इति स्वधर्ममुत्तमं दिवौकसां प्रदर्शयन्। अधर्मपावकोऽपि सन् विडम्बते जनार्दनः॥ १३/१०॥
नृतिर्यगादिरूपकः स बाल्ययौवनादियुक्। क्रियाश्‍च तत्तदुद्भुवाः करोति शाश्‍वतोऽपि सन्॥ १३/११॥
स विप्रराजगोपकस्वरूपकस्तदुद्भवाः। तदातदा विचेष्टते क्रियाः सुरान् विशिक्षयन्॥ १३/१२॥
तथाऽप्यनन्यदेवतासमं निजं बलं प्रभुः। प्रकाशयन् पुनःपुनः प्रकाशयत्यजो गुणान्॥ १३/१३।
अथात्तयष्टिमीक्ष्य तां स्वमातरं जगद्गुरुः। स पुप्लुवे तमन्वयान्मनोविदूरमङ्गना॥ १३/१४॥
पुनः समीक्ष्य तच्छ्रमं जगाम तत्करग्रहम्। प्रभुः स्वभक्तवश्यतां प्रकाशयन्नुरुक्रमः॥ १३/१५॥
सदा विमुक्तमीश्‍वरं निबद्धुमञ्जसाऽऽददे। यदैव दाम गोपिका न तत् पुपूर तं प्रति॥ १३/१६॥
समस्तदामसञ्चयः सुसन्धितोऽप्यपूर्णताम्। ययावनन्तविग्रहे शिशुत्वसम्प्रदर्शके॥ १३/१७॥
अबन्धयोग्यतां प्रभुः प्रदर्श्य लीलया पुनः। स एकवत्सपाशकान्तरं गतोऽखिलम्भरः॥ १३/१८॥
सुतस्य मातृवश्यतां प्रदर्श्य धर्ममीश्‍वरः। बभञ्ज तौ दिविस्पृशौ यमार्जुनौ सुरात्मजौ॥ १३/१९॥
पुरा धुनिश्‍चमुस्तथाऽपि पूतनासमन्वितौ। अनोक्षसंयुतौ तपः प्रचक्रतुः शिवां प्रति। तया वरोऽप्यवध्यता चतुर्षु च प्रयोजितः॥ १३/२०॥
अनन्तरं तृणोद्भ्रमिस्तपोऽचरद् वरं च तम्। अवाप ते त्रयो हताः शिशुस्वरूपविष्णुना॥ १३/२१॥
धुनिश्‍चमुश्‍च तौ तरू समाश्रितौ निषूदितौ। तरुप्रभङ्गतोऽमुना तरू च शापसम्भवौ॥ १३/२२॥
पुरा हि नारदान्तिके दिगम्बरौ शशाप सः। धनेशपुत्रकौ द्रुतं तरुत्वमाप्नुतं त्विति॥ १३/२३॥
ततो हि तौ निजां तनुं हरेः प्रसादतः शुभौ। अवापतुः स्तुतिं प्रभोर्विधाय जग्मतुर्गृहम्॥ १३/२४॥
नलकूबरमणिग्रीवौ मोचयित्वा तु शापतः। वासुदेवोऽथ गोपालैर्विस्मितैरभिवीक्षितः॥ १३/२५॥
वृन्दावनं यियासुः स नन्दसूनुर्बृहद्वने। ससर्ज रोमकूपेभ्यो वृकान् व्याघ्रसमान् बले॥ १३/२६॥
अनेककोटिसङ्घैस्तैः पीड्यमाना व्रजालयाः। ययुर्वृन्दावनं नित्यानन्दमादाय नन्दजम्॥ १३/२७॥
इन्दिरापतिरानन्दपूर्णो वृन्दावने प्रभुः। नन्दयामास नन्दादीनुद्दामतरचेष्टितैः॥ १३/२८॥
स चन्द्रतो हसत्कान्तवदनेनेन्दुवर्चसा। संयुतो रौहिणेयेन वत्सपालो बभूव ह॥ १३/२९॥
दैत्यं स वत्सतनुमप्रमयः प्रगृह्य कंसानुगं हरवरादपरैरवध्यम्। प्रक्षिप्य वृक्षशिरसि न्यहनद् बकोऽपि कंसानुगोऽथ विभुमच्युतमाससाद॥ १३/३०॥
स्कन्दप्रसादकवचः स मुखे चकार गोविन्दमग्निवदमुं प्रदहन्तमुच्चैः। चच्छर्द तुण्डशिरसैव निहन्तुमेनमायान्तमीक्ष्य जगृहेऽस्य स तुण्डमीशः॥ १३/३१॥
तुण्डद्वयं यदुपतिः करपल्लवाभ्यां सङ्गृह्य चाशु विददार च पक्षिदैत्यम्। ब्रह्मादिभिः कुसुमवर्षिभिरीड्यमानः सायं ययौ व्रजभुवं सहितोऽग्रजेन॥ १३/३२॥
एवं स देववरवन्दितपादपद्मो गोपालकेषु विहरन् भुवि षष्ठमब्दम्। प्राप्तो गवामखिलपोऽपि स पालकोऽभूद् वृन्दावनान्तरगसान्द्रलताविताने॥ १३/३३॥
ज्येष्ठं विहाय स कदाचिदचिन्त्यशक्तिर्गोगोपगोगणयुतो यमुनातटेषु। रेमे भविष्यदनुवीक्ष्य हि गोपदुःखं तद्बोधनाय निजमग्रजमेषु सोऽधात्॥ १३/३४॥
तं ब्रह्मणो वरबलादुरगं त्ववध्यं सर्वैरवार्यविषवीर्यमृते सुपर्णात्। विज्ञाय तद्विषविदूषितवारिपानसन्नान् पशूनपि वयस्यजनान् स आवीत्॥ १३/३५॥
तद्दृष्टिदिव्यसुधया सहसाऽभिवृष्टाः सर्वेऽपि जीवितमवापुरथोच्चशाखम्। कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गादास्फोट्य गाढरशनो न्यपतद् विषोदे॥ १३/३६॥
सार्पह्रदः पुरुषसारनिपातवेगसङ्क्षोभितोरगविषोच्छ्वसिताम्बुराशिः। पर्यक्प्लुतो विषकषायविभीषणोर्मिभीमो धनुःशतमनन्तबलस्य किं तत्॥ १३/३७॥
तं यामुनह्रदविलोलकमाप्य नागः काल्यो निजैः समदशत् सह वासुदेवम्। भोगैर्बबन्ध च निजेश्‍वरमेनमज्ञः सेहे तमीश उत भक्तिमतोऽपराधम्॥ १३/३८॥
उत्पातमीक्ष्य तु तदाऽखिलगोपसङ्घस्तत्राजगाम हलिना प्रतिबोधितोऽपि। दृष्ट्वा निजाश्रयजनस्य बहोः सुदुःखं कृष्णः स्वभक्तमपि नागममुं ममर्द॥ १३/३९॥
तस्योन्नतेषु स फणेषु ननर्त कृष्णो ब्रह्मादिभिः कुसुमवर्षिभिरीड्यमानः। आर्तो मुखैरुरु वमन् रुधिरं स नागो नारायणं तमरणं मनसा जगाम॥ १३/४०॥
तच्चित्रताण्डवविरुग्णफणातपत्रं रक्तं वमन्तमुरु सन्नधियं नितान्तम्। दृष्ट्वाऽहिराजमुपसेदुरमुष्य पत्न्यो नेमुश्‍च सर्वजगदादिगुरुं भुवीशम्॥ १३/४१॥
ताभिः स्तुतः स भगवानमुना च तस्मै दत्त्वाऽभयं यमसहोदरवारितोऽमुम्। उत्सृज्य निर्विषजलां यमुनां चकार संस्तूयमानचरितः सुरसिद्धसाध्यैः॥ १३/४२॥
गोपैर्बलादिभिरुदीर्णतरप्रमोदैः सार्धं समेत्य भगवानरविन्दनेत्रः। तां रात्रिमत्र निवसन् यमुनातटे स दावाग्निमुद्धतबलं च पपौ व्रजार्थे॥ १३/४३॥
इत्थं सुरासुरगणैरविचिन्त्यदिव्यकर्माणि गोकुलगतेऽगणितोरुशक्तौ। कुर्वत्यजे व्रजभुवामभवद् विनाश उग्राभिधादसुरतस्तरुरूपतोऽलम्॥ १३/४४॥
तद्गन्धतो नृपशुमुख्यसमस्तभूतान्यापुर्मृतिं बहुलरोगनिपीडितानि। धातुर्वराज्जगदभावकृतैकबुद्धिर्वध्यो न केनचिदसौ तरुरूपदैत्यः॥ १३/४५॥
सङ्कर्षणेऽपि तदुदारविषानुविष्टे कृष्णो निजस्पर्शतस्तमपेतरोगम्। कृत्वा बभञ्ज विषवृक्षममुं बलेन तस्यानुगैः सह तदाकृतिभिः समस्तैः॥ १३/४६॥
दैत्यांश्‍च गोवपुष आत्तवरान् विरिञ्चात् मृत्यूज्झितानपि निपात्य ददाह वृक्षान्। विक्रीड्य रामसहितो यमुनाजले स नीरोगमाशु कृतवान् व्रजमब्जनाभः॥ १३/४७॥
सप्तोक्षणोऽतिबलवीर्ययुतानदम्यान् सर्वैर्गिरीशवरतो दितिजप्रधानान्। हत्वा सुतामलभदाशु विभुर्यशोदाभ्रातुः स कुम्भकसमाह्वयिनोऽपि नीलाम्॥ १३/४८॥
या पूर्वजन्मनि तपः प्रथमैव भार्या भूयासमित्यचरदस्य हि सङ्गमो मे। स्यात् कृष्णजन्मनि समस्तवराङ्गनाभ्यः पूर्वं त्विति स्म तदिमां प्रथमं स आप॥ १३/४९॥
अग्रे द्विजत्वत उपावहदेष नीलां गोपाङ्गना अपि पुरा वरमापिरे यत्। संस्कारतः प्रथममेव सुसङ्गमो नो भूयात् तवेति परमाप्सरसः पुरा याः॥ १३/५०॥
तत्राथ कृष्णमवदन् सबलं वयस्याः पक्वानि तालसुफलान्यनुभोजयेति। इत्यर्थितः सबल आप स तालवृन्दं गोपैर्दुरासदमतीव हि धेनुकेन॥ १३/५१॥
विघ्नेशतो वरमवाप्य सुदुष्टदैत्यो दीर्घायुरुत्तमबलः कदनप्रियोऽभूत्। नित्योद्धतः स उत राममवेक्ष्य तालवृन्दात् फलानि गलयन्तमथाभ्यधावत्॥ १३/५२॥
तस्य प्रहारमभिकाङ्क्षत आशु पृष्ठपादौ प्रगृह्य तृणराजशिरोऽहरत् सः। तस्मिन् हते खरतरे खररूपदैत्ये सर्वे खराश्‍च खरतालवनान्तरस्थाः। प्रापुः खरस्वरतराः खरराक्षसारिं कृष्णं बलेन सहितं निहताश्‍च तेन॥ १३/५३॥
सर्वान् निहत्य खररूपधरान् स दैत्यान् विघ्नेश्‍वरस्य वरतोऽन्यजनैरवध्यान्। पक्वानि तालसुफलानि निजेषु चादाद् दुर्वारपौरुषगुणोद्भरितो रमेशः॥ १३/५४॥
पक्षद्वयेन विहरत्स्वथ गोपकेषु दैत्यः प्रलम्ब इति कंसविसृष्ट आगात्। कृष्णस्य पक्षिषु जयत्स्वथ राममेत्य पापः पराजित उवाह तमुग्ररूपः॥ १३/५५॥
भीतेन रोहिणिसुतेन हरिः स्तुतोऽसौ स्वाविष्टतामुपदिदेश बलाभिपूर्त्यै। तेनैव पूरितबलोऽम्बरचारिणं तं पापं प्रलम्भमुरुमुष्टिहतं चकार॥ १३/५६॥
तस्मिन् हते सुरगणा बलदेवनाम रामस्य चक्रुरतितृप्तियुता हरिश्‍च। वह्निं पपौ पुनरपि प्रदहन्तमुच्चैर्गोपांश्‍च गोगणमगण्यगुणार्णवोऽपात्॥ १३/५७॥
कृष्णं कदाचिदतिदूरगतं वयस्या ऊचुः क्षुधर्दिततरा वयमित्युदारम्। सोऽप्याह सत्रमिह विप्रगणाश्‍चरन्ति तान् याचतेति परिपूर्णसमस्तकामः॥ १३/५८॥
तान् प्राप्य काममनवाप्य पुनश्‍च गोपाः कृष्णं समीयुुरथ तानवदत् स देवः। पत्नीः समर्थयत मद्वचनादिति स्म चक्रुश्‍च ते तदपि ता भगवन्तमापुः॥ १३/५९॥
ताः षडि्‌वधान्नपरिपूर्णकराः समेताः प्राप्ता विसृज्य पतिपुत्रसमस्तबन्धून्। आत्मार्चनैकपरमा विससर्ज कृष्ण एका पतिप्रविधृता पदमाप विष्णोः॥ १३/६०॥
भुक्त्वाऽथ गोपसहितो भगवांस्तदन्नं रेमे च गोकुलमवाप्य समस्तनाथः। आज्ञातिलङ्घनकृतेः स्वकृतापराधात् पश्‍चात् सुतप्तमनसोऽप्यभवन् स्म विप्राः॥ १३/६१॥
कृष्णोऽथ वीक्ष्य पुरुहूतमहप्रयत्नं गोपान् न्यवारयदविस्मरणाय तस्य। मा मानुषोऽयमिति मामवगच्छतात् स इत्यव्ययोऽस्य विदधे महभङ्गमीशः॥ १३/६२॥
गोपांश्‍च तान् गिरिमहोऽस्मदुरुस्वधर्म इत्युक्तिसच्छलत आत्ममहेऽवतार्य। भूत्वाऽतिविस्तृतनुर्बुभुजे बलिं स नानाविधान्नरसपानगुणैः सहैव॥ १३/६३॥
इन्द्रोऽथ विस्मृतरथाङ्गधरावतारो मेघान् समादिशदुरूदकपूगवृष्ट्यै। ते प्रेरिताः सकलगोकुलनाशनाय धारा वितेरुरुरुनागकरप्रकाराः॥ १३/६४॥
ताभिर्निपीडितमुदीक्ष्य स कञ्जनाभः सर्वं व्रजं गिरिवरं प्रसभं दधार। वामेन कञ्जदलकोमलपाणिनैव तत्राखिलाः प्रविविशुः पशुपाः सगोभिः॥ १३/६५॥
वृष्ट्वोरुवार्यथ निरन्तरसप्तरात्रं त्रातं निरीक्ष्य हरिणा व्रजमश्रमेण। शक्रोऽनुसंस्मृतसुरप्रवरावतारः पादाम्बुजं यदुपतेः शरणं जगाम॥ १३/६६॥
तुष्टाव चैनमुरुवेदशिरोगताभिर्गीर्भिः सदाऽगणितपूर्णगुणार्णवं तम्। गोभृद् गुरुं हरगुरोरपि गोगणेन युक्तः सहस्रगुरगाधगुमग्र्यमग्र्यात्॥ १३/६७॥
त्वत्तो जगत्सकलमाविरभूदगण्यधाम्नस्त्वमेव परिपासि समस्तमन्ते। अत्सि त्वयैव जगतोऽस्य हि बन्धमोक्षौ न त्वत्समोऽस्ति कुहचित् परिपूर्णशक्ते॥ १३/६८॥
क्षन्तव्यमेव भवता मम बाल्यमीश त्वत्संश्रयोऽस्मि हि सदेत्यभिवन्दितोऽजः। क्षान्तं सदैव भवतस्तव शिक्षणाय पूजापहारविधिरित्यवदद् रमेशः॥ १३/६९॥
गोविन्दमेनमभिषिच्य स गोगणेशो गोभिर्जगाम गुणपूर्णममुं प्रणम्य। गोपैर्गिराम्पतिरपि प्रणतोऽभिगम्य गोवर्धनोद्धरणसङ्गतसंशयैः सः॥ १३/७०॥
कृष्णं ततः प्रभृति गोपगणा व्यजानन् नारायणोऽयमिति गर्गवचश्‍च नन्दात्। नारायणस्य सम इत्युदितं निशम्य पूजां च चक्रुरधिकामरविन्दनेत्रे॥ १३/७१॥
स्कन्दादुपात्तवरतो मरणादपेतं दृष्ट्वा च रामनिहतं बलिनं प्रलम्बम्। चक्रुर्विनिश्‍चयममुष्य सुराधिकत्वे गोपा अथास्य विदधुः परमां च पूजाम्॥ १३/७२॥
कात्यायनीव्रतधराः स्वपतित्वहेतोः कन्या उवाह भगवानपराश्‍च गोपीः। अन्यैर्धृता अयुगबाणशराभिनुन्नाः प्राप्ता निशास्वरमयच्छशिराजितासु॥ १३/७३॥
तास्वत्र तेन जनिता दशलक्षपुत्रा नारायणाह्वययुता बलिनश्‍च गोपाः। सर्वेऽपि दैवतगणा भगवत्सुतत्त्वमाप्तुं धरातलगता हरिभक्तिहेतोः॥ १३/७४॥
तास्तत्र पूर्ववरदानकृते रमेशो रामाद् द्विजत्वगमनादपि पूर्वमेव। सर्वा निशास्वरमयत् समभीष्टसिद्धिचिन्तामणिर्हि भगवानशुभैरलिप्तः॥ १३/७५॥
सम्पूर्णचन्द्रकरराजितसद्रजन्यां वृन्दावने कुमुदकुन्दसुगन्धवाते। श्रुत्वा मुकुन्दमुखनिःसृतगीतसारं गोपाङ्गना मुमुहुरत्र ससार यक्षः॥ १३/७६॥
रुद्रप्रसादकृतरक्ष उतास्य सख्युर्भृत्यो बली खरतरोऽपिच शङ्खचूडः। ताः कालयन् भगवतस्तलताडनेन मृत्युं जगाम मणिमस्य जहार कृष्णः॥ १३/७७॥
नाम्नाऽप्यरिष्ट उरुगायविलोमचेष्टो गोष्ठं जगाम वृषभाकृतिरप्यवध्यः। शम्भोर्वरादनुगतश्‍च सदैव कंसं गा भीषयन्तममुमाह्वयदाशु कृष्णः॥ १३/७८॥
सोऽप्याससाद हरिमुग्रविषाणकोटिमग्रे निधाय जगृहेऽस्य विषाणमीशः। भूमौ निपात्य च वृषासुरमुग्रवीर्यं यज्ञे यथा पशुममारयदग्र्यशक्तिः॥ १३/७९॥
केशी तु कंसविहितस्तुरगस्वरूपो गिर्यात्मजावरमवाप्य सदा विमृत्युः। पापः स केशवमवाप मुखेऽस्य बाहुं प्रावेशयत् स भगवान् ववृधेऽस्य देहे॥ १३/८०॥
तत्खादनाय कुमतिः स कृतप्रयासः शीर्णास्यदन्तदशनच्छदरुद्धवायुः। दीर्णः पपात च मृतो हरिरप्यशेषैर्ब्रह्मेशशक्रदिनकृत्प्रमुखैः स्तुतोऽभूत्॥ १३/८१॥
व्योमश्‍च नाम मयसूनुरजप्रसादाल्लब्धामितायुरखिलान् विदधे बिले सः। तं श्रीपतिः सुरपतिः पशुवद् विशस्य निःसारितान् बिलमुखादखिलांश्‍चकार॥ १३/८२॥
कुर्वत्यनन्यविषयाणि दुरन्तशक्तौ कर्माणि गोकुलगतेऽखिललोकनाथे। कंसाय सर्वमवदत् सुरकार्यहेतोर्ब्रह्माङ्कजो मुनिरकारि यदीशपित्रा॥ १३/८३॥
श्रुत्वाऽतिकोपरभसोच्चलितः स कंसो बद्ध्वा सभार्यमथ शूरजमुग्रकर्मा। अक्रूरमाश्‍वदिशदानयनाय विष्णो रामान्वितस्य सह गोपगणै रथेन॥ १३/८४॥
संसेवनाय स हरेरभवत् पुरैव नाम्ना किशोर इति यः सुरगायकोऽभूत्। स्वायम्भुवस्य च मनोः परमांशयुक्त आवेशयुक् कमलजस्य बभूव विद्वान्॥ १३/८५॥
सोऽक्रूर इत्यभवदुत्तमपूज्यकर्मा वृष्णिष्वथास स हि भोजपतेश्‍च मन्त्री। आदिष्ट एव जगदीश्‍वरदृष्टिहेतोरानन्दपूर्णसुमना अभवत् कृतार्थः॥ १३/८६॥
आरुह्य तद्रथवरं भगवत्पदाब्जमब्जोद्भवप्रणतमन्तरमन्तरेण। सञ्चिन्तयन् पथि जगाम स गोष्ठमाराद् दृष्ट्वा पदायितभुवं मुमुदे परस्य॥ १३/८७॥
सोऽचेष्टतात्र जगदीशितुरङ्गसङ्गाल्लब्धोच्चयेन निखिलाघविदारणेषु। पांसुष्वजेशपुरुहूतमुखोच्चविद्युद्भ्राजत्किरीटमणिलोचनगोचरेषु॥ १३/८८॥
सोऽपश्यताथ जगदेकगुरुं समेतमग्रोद्भवेन भुवि गा अपि दोहयन्तम्। आनन्दसान्द्रतनुमक्षयमेनमीक्ष्य हृष्टः पपात पदयोः पुरुषोत्तमस्य॥ १३/८९॥
उत्थाप्य तं यदुपतिः सबलो गृहं स्वं नीत्वोपचारमखिलं प्रविधाय तस्मिन्। नित्योदिताक्षयचिदप्यखिलं स तस्माच्छुश्राव लोकचरितानुविडम्बनेन॥ १३/९०॥
श्रुत्वा स कंसहृदि संस्थितमब्जनाभः प्रातस्तु गोपसहितो रथमारुरोह। रामश्‍वफल्कतनयाभियुतो जगाम यानेन तेन यमुनातटमव्ययात्मा॥ १३/९१॥
संस्थाप्य तौ रथवरे जगताऽभिवन्द्यौ श्‍वाफल्किराश्‍ववततार यमस्वसारम्। स्नात्वा स तत्र विधिनैव कृताघमर्षः शेषासनं परमपूरुषमत्र चैक्षत्॥ १३/९२॥
नित्यं हि शेषमभिपश्यति सिद्धमन्त्रो दानेश्‍वरः स तु तदा ददृशे हरिं च। अग्रे हि बालतनुमत्र समीक्ष्य कृष्णं किं नास्ति यान इति यानमुखो बभूव॥ १३/९३॥
तत्रापि कृष्णमभिवीक्ष्य पुनर्निमज्य शेषोरुभोगशयनं परमं ददर्श। ब्रह्मेशशक्रमुखदेवमुनीन्द्रवृन्दसंवन्दिताङि्‌घ्रयुगमिन्दिरया समेतम्॥ १३/९४॥
स्तुत्वा वरस्तुतिभिरव्ययमब्जनाभं सोऽन्तर्हिते भगवति स्वकमारुरोह। यानं च तेन सहितो भगवान् जगाम सायं पुरीं सहबलो मधुरामनन्तः॥ १३/९५॥
अग्रेऽथ दानपतिमक्षयपौरुषोऽसावीशो विसृज्य सबलः सहितो वयस्यैः। द्रष्टुं पुरीमभिजगाम नरेन्द्रमार्गे पौरैः कुतूहलयुतैरभिपूज्यमानः॥ १३/९६॥
आसाद्य कुञ्जरगतं रजकं ययाचे वस्त्राणि कंसदयितं गिरिजावरेण। मृत्यूज्झितं सपदि तेन दुरुक्तिविद्धः पापं कराग्रमृदितं व्यनयद् यमाय॥ १३/९७॥
हत्वा तमक्षतबलो भगवान् प्रगृह्य वस्त्राणि चात्मसमितानि बलस्य चादात्। दत्वाऽपराणि सखिगोपजनस्य शिष्टान्यास्तीर्य तत्र च पदं प्रणिधाय चागात्॥ १३/९९॥
ग्राह्यापहेयरहितैकचिदात्मसान्द्रस्वानन्दपूर्णवपुरप्ययशोषहीनः। लोकान् विडम्ब्य नरवत् समलक्तकाद्यैर्वप्त्रा विभूषित इवाभवदप्रमेयः॥ १३/९९॥
मालामवाप्य च सुदामत आत्मतन्त्रस्तावक्षयोऽनुजगृहे निजपार्षदौ हि। पूर्वं विकुण्ठसदनाद्धरिसेवनाय प्राप्तौ भुवं मृजनपुष्पकरौ पुराऽपि॥ १३/१००॥
सर्वेष्टपुष्टिमिह तत्र सरूपतां च कृष्णस्तयोर्वरमदादथ राजमार्गे। गच्छन् ददर्श वनितां नरदेवयोग्यमादाय गन्धमधिकं कुटिलां व्रजन्तीम्॥ १३/१०१॥
तेनार्थिता सपदि गन्धमदात् त्रिवक्रा तेनाग्रजेन सहितो भगवान् लिलिम्पे। तां चाश्‍वृजुत्वमनयत् स तयाऽर्थितोऽलमायामि कालत इति प्रहसन्नमुञ्चत्॥ १३/१०२॥
पूर्णेन्दुवृन्दनिवहाधिककान्तिकान्तसूर्यामितोरुपरमद्युतिसौख्यदेहः। पीताम्बरः कनकभासुरगन्धमाल्यः शृङ्गारवारिधिरगण्यगुणार्णवोऽगात्॥ १३/१०३॥
प्राप्याथ चायुधगृहं धनुरीशदत्तं कृष्णः प्रसह्य जगृहे सकलैरभेद्यम्। कांसं स नित्यपरिपूर्णसमस्तशक्तिरारोप्य चैनमनुकृष्य बभञ्ज मध्ये॥ १३/१०४॥
तस्मिन् सुरासुरगणैरखिलैरभेद्ये भग्ने बभूव जगदण्डविभेदभीमः। शब्दः स येन निपपात भुवि प्रभग्नसारोऽसुरो धृतियुतोऽपि तदैव कंसः॥ १३/१०५॥
आदिष्टमप्युरुबलं भगवान् स तेन सर्वं निहत्य सबलः प्रययौ पुनश्‍च। नन्दादिगोपसमितिं हरिरत्र रात्रौ भुक्त्वा पयोऽन्वितशुभान्नमुवास कामम्॥ १३/१०६॥
कंसोऽप्यतीव भयकम्पितहृत्सरोजः प्रातर्नरेन्द्रगणमध्यगतोऽधिकोच्चम्। मञ्चं विवेश सह जानपदैश्‍च पौरैर्नानानुमञ्चकगतैर्युवतीसमेतैः॥ १३/१०७॥
संस्थाप्य नागमुरुरङ्गमुखे कुवल्यापीडं गिरीन्द्रसदृशं करिसादियुक्तम्। चाणूरमुष्टिकमुखानपि मल्लवीरान् रङ्गे निधाय हरिसंयमनं किलैच्छत्॥ १३/१०८॥
अक्षौहिणी गणितमस्य बलं च विंशदासीदसह्यमुरुवीर्यमनन्यवध्यम्। शम्भोर्वरादपिच तस्य सुनीथनामा यः पूर्वमास वृक इत्यसुरोऽनुजोऽभूत्॥ १३/१०९॥
सप्तानुजा अपि हि तस्य पुरातना ये सर्वेऽपि कंसपृतनासहिताः स्म रङ्गे। तस्थुः सराममभियान्तमुदीक्ष्य कृष्णमात्तायुधा युधि विजेतुमजं सुपापाः॥ १३/११०॥
कृष्णोऽपि सूर्य उदिते सबलो वयस्यैः सार्धं जगाम वररङ्गमुखं सुरेशैः। संस्तूयमान उरुविक्रम आसुराणां निर्मूलनाय सकलाचरितोरुशक्तिः॥ १३/१११॥
आयन् जगद्गुरुतमो बलिनं गजेन्द्रं रुद्रप्रसादपरिरक्षितमाश्‍वपश्यत्। दुष्टोरुरङ्गमुखसंस्थितमीक्ष्य चैभ्यं पापापयाहि नचिरादिति वाचमूचे॥ १३/११२॥
क्षिप्तः स ईश्‍वरतमेन गिरीशलब्धाद् दृप्तो वराज्जगति सर्वजनैरवध्यः। नागं त्ववध्यमभियापयते ततोऽग्रे पापो दुरन्तमहिमं प्रति वासुदेवम्॥ १३/११३॥
विक्रीड्य तेन करिणा भगवान् स किञ्चिद्धस्ते प्रगृह्य विनिकृष्य निपात्य भूमौ। कुम्भे पदं प्रतिनिधाय विषाणयुग्ममुत्कृष्य हस्तिपमहन् निपपात सोऽपि॥ १३/११४॥
नागं ससादिनमवध्यमसौ निहत्य स्कन्धे विषाणमवसृज्य सहाग्रजेन। नागेन्द्रसान्द्रमदबिन्दुभिरञ्चिताङ्गः पूर्णात्मशक्तिरमलः प्रविवेश रङ्गम्॥ १३/११५॥
विष्टे जगद्गुरुतमे बलवीर्यमूर्तौ रङ्गं मुमोद च शुशोष जनोऽखिलोऽत्र। कञ्जं तथाऽपि कुमुदं च यथैव सूर्य उद्यत्यजेऽनुभविनो विपरीतकाश्‍च॥ १३/११६॥
रङ्गं प्रविष्टमभिवीक्ष्य जगाद मल्लः कंसप्रियार्थमभिभाष्य जगन्निवासम्। चाणूर इत्यभिहितो जगतामवध्यः शम्भुप्रसादत इदं शृणु माधवेति॥ १३/११७॥
राजैव दैवतमिति प्रवदन्ति विप्रा राज्ञः प्रियं कृतवतः परमा हि सिद्धिः। योत्स्याव तेन नृपतिप्रियकाम्यया वां रामोऽभियुद्ध्यतु बली सह मुष्टिकेन॥ १३/११८॥
इत्युक्त आह भगवान् परिहासपूर्वमेवं भवत्विति स तेन तदाऽभियातः। सन्दर्श्य दैवतपतिर्युधि मल्ललीलां मौहूर्तिकीमथ पदोर्जगृहे स्वशत्रुम्॥ १३/११९॥
उत्क्षिप्य तं गगनगं गिरिसन्निकाशमुद्भ्राम्य चाथ शतशः कुलिशाक्षताङ्गम्। आविध्य दुर्धरबलो भुवि निष्पिपेष चूर्णीकृतः स निपपात यथा गिरीन्द्रः॥ १३/१२०॥
कृष्णं च तुष्टुवुरथो दिवि देवसङ्घा मर्त्या भुवि प्रवरमुत्तमपूरुषाणाम्। तद्वद् बलस्य दृढमुष्टिनिपिष्टमूर्धा भ्रष्टस्तदैव निपपात स मुष्टिकोऽपि॥ १३/१२१॥
कूटश्‍च कोसल उत च्छलनामधेयो द्वौ तत्र कृष्णनिहतावपरो बलेन। कंसस्य ये त्ववरजाश्‍च सुनीथमुख्याः सर्वे बलेन निहताः परिघेण वीराः॥ १३/१२२॥
ताभ्यां हतानभिसमीक्ष्य निजान् समस्तान् कंसो दिदेश बलमक्षयमुग्रवीर्यम्। रुद्रप्रसादकृतरक्षमवध्यमेतौ निःसार्य दण्डमधिकं कुरुतेति पापः॥ १३/१२३॥
श्रुत्वैव राजवचनं बलमक्षयं तदक्षौहिणी दशकयुग्ममनन्तवीर्यम्। कृष्णं चकार विविधास्त्रधरं स्वकोष्ठे सिंहं यथा किल सृगालबलं समेतम्॥ १३/१२४॥
जानन्नपीश्‍वरमनन्तबलं महेन्द्रः कृष्णं रथं निजमयातयदायुधाढ्यम्। शुश्रूषणाय परमस्य यथा समुद्रमर्घ्येण पूरयति पूर्णजलं जनोऽयम्॥ १३/१२५॥
स्वं स्यन्दनं तु भगवान् स महेन्द्रदत्तमारुह्य सूतवरमातलिसङ्गृृहीतम्। नानायुधोग्रकिरणस्तरणिर्यथैव ध्वान्तं व्यनाशयदशेषत आशु सैन्यम्॥ १३/१२६॥
निःशेषतो विनिहते स्वबले स कंसश्चर्मासिपाणिरभियातुमियेष कृष्णम्। तावत् तमेव भगवन्तमभिप्रयान्तमुत्तुङ्गमञ्चशिरसि प्रददर्श वीरम्॥ १३/१२७॥
तं श्येनवेगमभितः प्रतिसञ्चरन्तं निश्छिद्रमाशु जगृहे भगवान् प्रगृह्य। केशेषु चैनमभिमृश्य करेण वामेनोद्धृत्य दक्षिणकरेण जघान केऽस्य॥ १३/१२८॥
सञ्चालितेन मुकुटेन विकुण्डलेन कर्णद्वयेन विगताभरणोरसा च। स्रस्ताम्बरेण जघनेन सुशोच्यरूपः कंसो बभूव नरसिंहकराग्रसंस्थः॥ १३/१२९॥
उत्कृष्य तं सुरपतिः परमोच्चमञ्चादन्यैरजेयमतिवीर्यबलोपपन्नम्। अब्जोद्भवेशवरगुप्तमनन्तशक्तिर्भूमौ निपात्य स ददौ पदयोः प्रहारम्॥ १३/१३०॥
देहे तु योऽभवदमुष्य रमेशबन्धुर्वायुः स कृष्णतनुमाश्रयदन्यपापम्। दैत्यं चकर्ष हरिरत्र शरीरसंस्थं पश्यत्सु कञ्जजमुखेषु सुरेष्वनन्तः॥ १३/१३१॥
द्वेषात् स सर्वजगदेकगुरोः स्वकीयैः पूर्वं प्रमापितजनैः सहितः समस्तैः। धात्र्यादिभिः प्रतिययौ कुमतिस्तमोऽन्धमन्येऽपि चैवमुपयान्ति हरावभक्ताः॥ १३/१३२॥
नित्यातिदुःखमनिवृत्तिसुखव्यपेतमन्धं तमो नियतमेति हरावभक्तः। भक्तोऽपि कञ्जजगिरीशमुखेषु सर्वधर्मार्णवोऽपि निखिलागमनिर्णयेन॥ १३/१३३॥
यो वेत्ति निश्‍चितमतिर्हरिमब्जजेशपूर्वाखिलस्य जगतः सकलेऽपि काले। सृष्टिस्थितिप्रलयमोक्षदमात्मतन्त्रं लक्ष्म्या अपीशमतिभक्तियुतः स मुच्येत्॥ १३/१३४॥
तस्मादनन्तगुणपूर्णममुं रमेशं निश्‍चित्य दोषरहितं परयैव भक्त्या। विज्ञाय देवतगणांश्‍च यथाक्रमेण भक्त्या हरेरिति सदैव भजेत धीरः॥ १३/१३५॥
निहत्य कंसमोजसा विधातृशम्भुपूर्वकैः। स्तुतः प्रसूनवर्षिभिर्मुमोद केशवोऽधिकम्॥ १३/१३६॥
सदैव मोदरूपिणो मुदोक्तिरस्य लौकिकी। यथोदयो रवेर्भवेत् सदोदितस्य लोकतः॥ १३/१३७॥
अनन्तचित्सुखार्णवः सदोदितैकरूपकः। समस्तदोषवर्जितो हरिर्गुणात्मकः सदा॥ १३/१३८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये कंसवधो नाम त्रयोदशोऽध्यायः समाप्तः॥
चतुर्दशोऽध्यायः
कृष्णो विमोच्य पितरावभिवन्द्य सर्ववन्द्योऽपि रामसहितः प्रतिपालनाय। धर्मस्य राज्यपदवीं प्रणिधाय चोग्रसेने द्विजत्वमुपगम्य मुमोच नन्दम्॥ १४/१॥
नन्दोऽपि सान्त्ववचनैरनुनीय मुक्तः कृष्णेन तच्चरणपङ्कजमात्मसंस्थम्। कृत्वा जगाम सह गोपगणेन कृच्छ्राद् ध्यायन् जनार्दनमुवास वने सभार्यः॥ १४/२॥
कृष्णोऽप्यवन्तिपुरवासिनमेत्य विप्रं सान्दीपनिं सह बलेन ततोऽध्यगीष्ट। वेदान् सकृन्निगदितान् निखिलाश्‍च विद्याः सम्पूर्णसंविदपि दैवतशिक्षणाय॥ १४/३॥
धर्मो हि सर्वविदुषामपि दैवतानां प्राप्ते नरेषु जनने नरवत् प्रवृत्तिः। ज्ञानादिगूहनमुताध्ययनादिरत्र तज्ज्ञापनार्थमवसद् भगवान् गुरौ च॥ १४/४॥
गुर्वर्थमेष मृतपुत्रमदात् पुनश्‍च रामेण सार्धमगमन्मधुरां रमेशः। पौरैः सजानपदबन्धुजनैरजस्रमभ्यर्चितो न्यवसदिष्टकृदात्मपित्रोः॥ १४/५॥
सर्वेऽपि ते पतिमवाप्य हरिं पुरा हि तप्ता हि भोजपतिना मुमुदुर्नितान्तम्। किं वाच्यमत्र सुतमाप्य हरिं स्वपित्रोर्यत्राखिलस्य सुजनस्य बभूव मोदः॥ १४/६॥
कृष्णाश्रयो वसति यत्र जनोऽपि तत्र वृद्धिर्भवेत् किमु रमाधिपतेर्निवासे। वृन्दावनं यदधिवासत आस सध्र्यङ् माहेन्द्रसद्मसदृशं किमु तत्र पुर्याम्॥ १४/७॥
येनाधिवासमृषभो जगतां विधत्ते विष्णुस्ततो हि वरता सदने विधातुः। तस्मात् प्रभोर्निवसनान्मधुरा पुरी सा शश्‍वत् समृद्धजनसङ्कुलिता बभूव॥ १४/८॥
रक्षत्यजे त्रिजगतां परिरक्षकेऽस्मिन् सर्वान् यदून् मगधराजसुते स्वभर्तुः। कृष्णान्मृतिं पितुरवाप्य समीपमस्तिप्रास्ती शशंसतुरतीव च दुःखितेऽस्मै॥ १४/९॥
श्रुत्वैव तन्मगधराज उरुप्ररूढ बाह्वोर्बलेन न जितो युधि सर्वलोकैः। ब्रह्मेशचण्डमुनिदत्तवरैरजेयो मृत्यूज्झितश्‍च विजयी जगतश्‍चुकोप॥ १४/१०॥
क्षुब्धोऽतिकोपवशतः स्वगदाममोघां दत्तां शिवेन जगृहे शिवभक्तवन्द्यः। शैवागमाखिलविदत्र च सुस्थिरोऽसौ चिक्षेप योजनशतं स तु तां परस्मै॥ १४/११॥
अर्वाक् पपात च गदा मधुराप्रदेशात् सा योजनेन यदिमं प्रजगाद पृष्टः। एकोत्तरामपि शताच्छतयोजनेति देवर्षिरत्र मधुरां भगवत्प्रियार्थे॥ १४/१२॥
शक्तस्य चापि हि गदाप्रतिघातने तु शुश्रूषणं मदुचितं त्विति चिन्तयानः। विष्णोर्मुनिः स निजगाद ह योजनोनं मार्गं पुरो भगवतो मगधेशपृष्टः॥ १४/१३॥
क्षिप्ता तु सा भगवतोऽथ गदा जराख्यां तत्सन्धिनीमसुभिराशु वियोज्य पापाम्। मर्त्याशनीं भगवतः पुनराज्ञयैव याता गिरीशसदनं मगधं विसृज्य॥ १४/१४॥
राजा स्वमातृत उतो गदया च हीनः क्रोधात् समस्तनृपतीनभिसन्निपात्य। अक्षौहिणीत्र्यधिकविंशयुतोऽतिवेलं दर्पोद्धतः सपदि कृष्णपुरीं जगाम॥ १४/१५॥
सर्वां पुरीं प्रतिनिरुद्ध्य दिदेश विन्दविन्दानुजौ भगवतः कुमतिः स दूतौ। तावूचतुर्भगवतेऽस्य वचोऽतिदर्पपूर्णं तथा भगवतोऽप्यपहासयुक्तम्॥ १४/१६॥
लोकेऽप्रतीपबलपौरुषसाररूपस्त्वं ह्येक एष्यभवतो बलवीर्यसारम्। ज्ञात्वा सुते नतु मया प्रतिपादिते हि कंसस्य वीर्यरहितेन हतस्त्वया सः॥ १४/१७॥
सोऽहं हि दुर्बलतमो बलिनां वरिष्ठं कृत्वैव दृष्टिविषयं विगतप्रतापः। यास्ये तपोवनमथो सहितः सुताभ्यां क्षिप्रं ममाद्य विषयो भव चक्षुषोऽतः॥ १४/१८॥
साक्षेपमीरितमिदं बलदर्पपूर्णमात्मापहाससहितं भगवान् निशम्य। सत्यं तदित्युरु वचोऽर्थवदित्युुदीर्य मन्दं प्रहस्य निरगात् सहितो बलेन॥ १४/१९॥
द्वारेषु सात्यकिपुरःसरमात्मसैन्यं त्रिष्वभ्युदीर्य भगवान् स्वयमुत्तरेण। रामद्वितीय उदगान्मगधाधिराजं योद्धुं नृपेन्द्रकटकेन युतं परेशः॥ १४/२०॥
तस्येच्छयैव पृथिवीमवतेरुराशु तस्यायुधानि सबलस्य सुभास्वराणि। शार्ङ्गासिचक्रदरतूणगदाः स्वकीया जग्राह दारुकगृहीतरथे स्थितः सः॥ १४/२१॥
आरुह्य भूमयरथं प्रतियुक्तमश्‍वैर्वेदात्मकैर्धनुरधिज्यमथ प्रगृह्य। शार्ङ्गं शरांश्‍च निशितान् मगधाधिराजमुग्रं नृपेन्द्रसहितं प्रययौ जवेन॥ १४/२२॥
रामः प्रगृह्य मुसलं स हलं च यानमास्थाय सायकशरासनतूणयुक्तः। सैन्यं जरासुतसुरक्षितमभ्यधावद्धर्षान्नदन्नुरुबलोऽरिबलैरधृष्यः॥ १४/२३॥
उद्वीक्ष्य कृष्णमभियान्तमनन्तशक्तिं राजेन्द्रवृन्दसहितो मगधाधिराजः। उद्वेलसागरवदाश्‍वभियाय कोपान्नानाविधायुधवरैरभिवर्षमाणः॥ १४/२४॥
तं वै चुकोपयिषुरग्रत उग्रसेनं कृष्णो निधाय समगात् स्वयमस्य पश्‍चात्। दृष्ट्वाऽग्रतो मगधराट् स्थितमुग्रसेनं कोपाच्चलत्तनुरिदं वचनं बभाषे॥ १४/२५॥
पापापयाहि पुरतो मम राज्यकाम निर्लज्ज पुत्रवधकारण शत्रुपक्ष। त्वं जीर्णबस्तसदृशो न मयेह वध्यः सिंहो हि सिंहमभियाति न वै सृगालम्॥ १४/२६॥
आक्षिप्त इत्थममुनाऽथ स भोजराजस्तूणात् प्रगृह्य निशितं शरमाशु तेन। छित्वा जरासुतधनुर्बलवन्ननाद विव्याध सायकगणैश्‍च पुनस्तमुग्रैः॥ १४/२७॥
अन्यच्छरासनवरं प्रतिगृह्य कोपसंरक्तनेत्रमभियान्तमुदीक्ष्य कृष्णः। भोजाधिराजवधकाङ्क्षिणमुग्रवेगं बार्हद्रथं प्रतिययौ परमो रथेन॥ १४/२८॥
आयान्तमीक्ष्य भगवन्तमनन्तवीर्यं चेदीशपौण्ड्रमुखराजगणैः समेतः। नानाविधास्त्रवरशस्त्रगणैर्ववर्ष मेरुं यथा घन उदीर्णरवो जलौघैः॥ १४/२९॥
शस्त्रास्त्रवृष्टिमभितो भगवान् विवृश्‍च्य शार्ङ्गोत्थसायकगणैर्विरथाश्‍वसूतम्। चक्रे निरायुधमसौ मगधेन्द्रमाशु च्छिन्नातपत्रवरकेतुमचिन्त्यशक्तिः॥ १४/३०॥
नैनं जघान भगवान् सुशकं च भीमे भक्तिं निजां प्रथयितुं यश उच्चधर्मम्। चेदीशपौण्ड्रकसकीचकमद्रराजसाल्वैकलव्यकमुखान् विरथांश्‍चकार॥ १४/३१॥
ये चापि हंसडिभिकद्रुमरुक्मिमुख्या बाह्लीकभौमसुतमैन्दपुरःसराश्‍च। सर्वे प्रदुद्रुवुरजस्य शरैर्विभिन्ना अन्ये च भूमिपतयो य इहासुरुर्व्याम्॥ १४/३२॥
छिन्नायुधध्वजपताकरथाश्वसूतवर्माण उग्रशरताडितभिन्नगात्राः। स्रस्ताम्बराभरणमूर्धजमाल्यहीना रक्तं वमन्त उरु दुद्रुवुराशु भीताः॥ १४/३३॥
शोच्यां दशामुपगतेषु नृपेषु सर्वेष्वात्तायुधेषु हरिणा युधि विद्रवत्सु। नानायुधाढ्यमपरं रथमुग्रवीर्य आस्थाय मागधपतिः प्रससार रामम्॥ १४/३४॥
आधावतोऽस्य मुसलेन रथं बभञ्ज रामो गदामुरुतरोरसि सोऽपि तस्य। चिक्षेप तं च मुसलेन तताड रामस्तावुत्तमौ बलवतां युयुधात उग्रम्॥ १४/३५॥
तौ चक्रतुः पुरु नियुद्धमपि स्म तत्र सञ्चूर्ण्य सर्वगिरिवृक्षशिलासमूहान्। दीर्घं नियुद्धमभवत् सममेतयोस्तु वज्राद् दृढाङ्गतमयोर्बलिनोर्नितान्तम्॥ १४/३६॥
श्रुत्वाऽथ शङ्खरवमम्बुजलोचनस्य विद्रावितानपि नृपानभिवीक्ष्य रामः। युध्यन्तमीक्ष्य च रिपुं ववृधे बलेन त्यक्त्वा रिपुं मुसलमादद आश्‍वमोघम्॥ १४/३७॥
तेनाहतः शिरसि सम्मुमुहेऽतिवेलं बार्हद्रथो जगृह एनमथो हली सः। तत्रैकलव्य उत कृष्णशरैः पलायन्नस्त्राणि रामशिरसि प्रमुमोच शीघ्रम्॥ १४/३८॥
भीतेन तेन समरं भगवाननिच्छन् प्रद्युम्नमाश्‍वसृजदात्मसुतं मनोजम्। प्रद्युम्न एनमभियाय महास्त्रजालै रामस्तु मागधमथात्मरथं निनाय॥ १४/३९॥
युद्ध्वा चिरं रणमुखे भगवत्सुतोऽसौ चक्रे निरायुधममुं स्थिरमेकलव्यम्। अंशेन यो भुवमगान्मणिमानिति स्म स क्रोधतन्त्रकगणेष्वधिपो निषादः॥ १४/४०॥
प्रद्युम्नमात्मनि निधाय पुनः स कृष्णः संहृत्य मागधबलं निखिलं शरौघैः। भूयश्‍चमूमभिविनेतुमुदारकर्मा बार्हद्रथं त्वमुचदक्षयपौरुषोऽजः॥ १४/४१॥
व्रीडानताच्छविमुखः सहितो नृपैस्तैर्बार्हद्रथः प्रतिययौ स्वपुरीं स पापः। आत्माभिषिक्तमपि भोजवराधिपत्ये दौहित्रमग्रत उत प्रणिधाय मन्दः॥ १४/४२॥
जित्वा तमूर्जितबलं भगवानजेशशक्रादिभिः कुसुमवर्षिभिरीड्यमानः। रामादिभिः सहित आशु पुरं प्रविश्य रेमेऽभिवन्दितपदो महतां समूहैः॥ १४/४३॥
वर्धत्सु पाण्डुतनयेषु चतुर्दशं तु जन्मर्क्षमास तनयस्य सहस्रदृष्टेः। प्रत्याब्दिकं मुनिगणान् परिवेषयन्ती कुन्ती तदाऽऽस बहुकार्यपरा नयज्ञा॥ १४/४४॥
तत्काल एव नृपतिः सह माद्रवत्या पुंस्कोकिलाकुलितफुल्लवनं ददर्श। तस्मिन् वसन्तपवनस्पर्शेधितः स कन्दर्पमार्गणवशं सहसा जगाम॥ १४/४५॥
जग्राह तामथ तया रममाण एव यातो यमस्य सदनं हरिपादसङ्गी। पूर्वं शचीरमणमिच्छत एष विघ्नं शक्रस्य तद्दर्शनोपगतो हि चक्रे॥ १४/४६॥
तेनैव मानुषमवाप्य रतिस्थ एव पञ्चत्वमाप रतिविघ्नमपुत्रतां च। स्वात्मोत्तमेष्वथ सुरेषु विशेषतश्‍च स्वल्पोऽपि दोष उरुतामभियाति यस्मात्॥ १४/४७॥
माद्री पतिं मृतमवेक्ष्य रुराव दूरात् तच्छुश्रुवुश्‍च पृथया सह पाण्डुपुत्राः। तेष्वागतेषु वचनादपि माद्रवत्याः पुत्रान् निवार्य च पृथा स्वयमेव चागात्॥ १४/४८॥
पत्युः कलेवरमवेक्ष्य निशम्य माद्र्याः कुन्ती भृशं व्यथितहृत्कमलैव माद्रीम्। धिक्कृत्य चानुमरणाय मतिं चकार तस्याः स्वनो रुदितजः श्रुत आशु पार्थैः॥ १४/४९॥
तेष्वागतेष्वधिक आस विराव एतं सर्वेऽपि शुश्रुवुरृषिप्रवरा अथात्र। आजग्मुरुत्तमकृपा ऋषिलोकमध्ये पत्नी नृपानुगमनाय च पस्पृधाते॥ १४/५०॥
ते सन्निवार्य तु पृथामथ माद्रवत्या भर्तुः सहानुगमनं बहुशोऽर्थयन्त्याः। संवादमेव निजदोषमवेक्ष्य तस्याश्चक्रुः सदाऽवगतभागवतोच्चधर्माः॥ १४/५१॥
भर्तुर्गुणैरनधिकौ तनयार्थमेव माद्र्या कृतौ सुरवरावधिकौ स्वतोऽपि। तेनैव भर्तृमृतिहेतुरभूत् समस्तलोकैश्‍च नातिमहिता सुगुणाऽपि माद्री॥ १४/५२॥
पाण्डोः सुता मुनिगणैः पितृमेधमत्र चक्रुर्यथावदथ तेन सहैव माद्री। हुत्वाऽऽत्मदेहमुरु पापमदः कृतं च सम्मार्ज्य लोकमगमन्निजभर्तुरेव॥ १४/५३॥
पाण्डुश्‍च पुत्रकगुणैः स्वगुणैश्‍च साक्षात् कृष्णात्मजः सततमस्य पदैकभक्तः। लोकानवाप विमलान् महितान् महद्भिः किं चित्रमत्र हरिपादविनम्रचित्ते॥ १४/५४॥
पाण्डोः सुताश्‍च पृथया सहिता मुनीन्द्रै नारायणाश्रमत आशु पुरं स्वकीयम्। जग्मुस्तथैव धृतराष्ट्रपुरो मुनीन्द्राः वृत्तं समस्तमवदन्ननुजं मृतं च॥ १४/५५॥
तूष्णीं स्थिते च नृपतौ तनुजे च नद्याः क्षत्तर्युताप्त उरुमोदमतीव पापाः। ऊचुः सुयोधनमुखाः सह सौबलेन पाण्डोर्मृतिः किल पुरा तनयाः क्व तस्य॥ १४/५६॥
न क्षेत्रजा अपि मृते पितरि स्वकीयैः सम्यङ् नियोगमनवाप्य भवाय योग्याः। तेषामितीरितवचोऽनु जगाद वायुराभाष्य कौरवगणान् गगनस्थ एव॥ १४/५७॥
एते हि धर्ममरुदिन्द्रभिषग्वरेभ्यो जाताः प्रजीवति पितर्युरुधर्मसाराः। शक्याश्‍च नैव भवतां क्वचिदग्रहाय नारायणेन सततं परिरक्षिता यत्॥ १४/५८॥
वायोरदृश्यवचनं परिशङ्कमानेष्वाविर्बभूव भगवान् स्वयमब्जनाभः। व्यासस्वरूप उरुसर्वगुणैकदेह आदाय तानविशदाशु च पाण्डुगेहम्॥ १४/५९॥
तत्स्वीकृतेषु सकला अपि भीष्ममुख्या वैचित्रवीर्यसहिताः परिपूज्य सर्वान्। कुन्त्या सहैव जगृहुः सुभृशं तदाऽऽर्ता वैचित्रवीर्यतनयाः सह सौबलेन॥ १४/६०॥
वैचित्रवीर्यतनयाः कृपतो महास्त्राण्यापुश्‍च पाण्डुतनयैः सह सर्वराज्ञाम्। पुत्राश्‍च तत्र विविधा अपि बालचेष्टाः कुर्वत्सु वायुतनयेन जिताः समस्ताः॥ १४/६१॥
पक्वोरुभोज्यफलसन्नयनाय वृक्षेष्वारूढराजतनयानभिवीक्ष्य भीमः। पादप्रहारमुरुवृक्षतले प्रदाय साकं फलैर्विनिपतत्सु फलान्यभुङ्क्त॥ १४/६२॥
युद्धे नियुद्ध उत धावन उत्प्लवे च वारिप्लवे च निखिलान् सहितान् कुमारान्। एको जिगाय तरसा परमार्यकर्मा विष्णोः सुपूर्णसदनुग्रहतः सुनित्यात्॥ १४/६३॥
सर्वान् प्रगृह्य विनिमज्जति वारिमध्ये श्रान्तान् विसृज्य हसति स्म स विष्णुपद्याम्। सर्वानुदूह्य च कदाचिदुरुप्रवाहां गङ्गां स तारयति सारसुपूर्णपौंस्यः॥ १४/६४॥
द्वेषं ह्यृते नहि हरौ तमसि प्रवेशः प्राणे च तेन जगतीमनु तौ प्रपन्नौ। तत्कारणान्यकुरुतां परमौ करांसि देवद्विषां सततविस्तृतसाधुपौंस्यौ॥ १४/६५॥
दृष्ट्वाऽमितान्यथ करांसि मरुत्सुतेन नित्यं कृतानि तनया निखिलाश्‍च राज्ञाम्। तस्यामितं बलमुदीक्ष्य सदोरुवृद्धद्वेषा बभूवुरथ मन्त्रममन्त्रयंश्‍च॥ १४/६६॥
येये हि तत्र नरदेवसुताः सुरांशाः प्रीतिं परां पवनजे निखिला अकुर्वन्। तांस्तान् विहाय दितिजा नरदेववंशजाता विचार्य वधनिश्‍चयमस्य चक्रुः॥ १४/६७॥
अस्मिन् हते विनिहता अखिलाश्‍च पार्थाः शक्यो बलाच्च न निहन्तुमयं बलाढ्यः। छद्मप्रयोगत इमं विनिहत्य वीर्यात् पार्थं निहत्य निगडे च विदध्महेऽन्यान्॥ १४/६८॥
एवं कृते निहतकण्टकमस्य राज्यं दुर्योधनस्य तु भवेन्न ततोऽन्यथा स्यात्। अस्मिन् हते निपतिते च सुरेन्द्रसूनौ शेषा भवेयुरपि सौबलिपुत्रदासाः॥ १४/६९॥
एवं विचार्य विषमुल्बणमन्तकाभं क्षीरोदधेर्मथनजं तपसा गिरीशात्। शुक्रेण लब्धममुतः सुबलात्मजेन प्राप्तं प्रतोष्य मरुतस्तनयाय चादुः॥ १४/७०॥
सम्मन्त्र्य राजतनयैर्धृतराष्ट्रजैस्तद् दत्तं स्वसूदमुखतोऽखिलभक्ष्यभोज्ये। ज्ञात्वा युयुत्सुगदितं बलवान् स भीमो विष्णोरनुग्रहबलाज्जरयाञ्चकार॥ १४/७१॥
जीर्णे विषे कुमतयः परमाभितप्ताः प्रासादमाशु विदधुर्हरिपादतोये। ज्ञात्वा युयुत्सुमुखतः स्वयमत्र चान्ते सुष्वाप मारुतिरमा धृतराष्ट्रपुत्रैः॥ १४/७२॥
दोषान् प्रकाशयितुमेव विचित्रवीर्यपुत्रात्मजेषु नृवरं प्रतिसुप्तमीक्ष्य। बद्ध्वाऽभिमन्त्रणदृढैरयसा कृतैस्तं पाशैर्विचिक्षिपुरुदे हरिपादजायाः॥ १४/७३॥
तत् कोटियोजनगभीरमुदं विगाह्य भीमो विजृम्भणत एव विवृश्च्य पाशान्। उत्तीर्य सज्जनगणस्य विधाय हर्षं तस्थावनन्तगुणविष्णुसदातिहार्दः॥ १४/७४॥
तं वीक्ष्य दुष्टमनसोऽतिविपन्नचित्ताः सम्मन्त्र्य भूय उरुनागगणानथाष्टौ। शुक्रोक्तमन्त्रबलतः पुर आह्वयित्वा पश्‍चात् सुपञ्जरगतान् प्रददुः स्वसूते॥ १४/७५॥
दुर्योधनेन पृथुमन्त्रबलोपहूतांस्तत्सारथिः फणिगणान् पवनात्मजस्य। सुप्तस्य विस्तृत उरस्यमुचद् विशीर्णदन्ता बभूवुरमुमाशु विदश्य नागाः॥ १४/७६॥
क्षिप्त्वा सुदूरमुरुनागगणानथाष्टौ तद्वंशजान् स विनिहत्य पिपीलिकावत्। जघ्ने च सूतमपहस्तत एव भीमः सुष्वाप पूर्ववदनुत्थित एव तल्पात्॥ १४/७७॥
तत् तस्य नैजबलमप्रतिमं निरीक्ष्य सर्वे क्षितीशतनया अधिकं विषेदुः। निश्‍वासतो दर्शनादपि भस्म येषां भूयासुरेव भुवनानि च ते मृषाऽऽसन्॥ १४/७८॥
दद्भिर्विदश्य न विकारममुष्य कर्तुं शेकुर्भुजङ्गमवरा अपि सुप्रयत्नाः। कस्यापि नेदृशबलं श्रुतपूर्वमासीद् दृष्टं किमु स्म तनयेऽपि हिरण्यकस्य॥ १४/७९॥
स्वात्मावनार्थमधिकां स्तुतिमेव कृत्वा विष्णोः स दैत्यतनयो हरिणाऽवितोऽभूत्। नत्वौरसं बलममुष्य स कृष्यते हि भृत्यैर्बलात् स पितुरौरसमस्य वीर्यम्॥ १४/८०॥
नैसर्गिकं प्रियमिमं प्रवदन्ति विप्रा विष्णोर्नितान्तमपि सत्यमिदं ध्रुवं हि। नैवान्यथौरसबलं भवतीदृशं तदुत्साद्य एष हरिणैव सहैष नोऽर्थः॥ १४/८१॥
कृष्णः किलैष च हरिर्यदुषु प्रजातः सोऽस्याश्रयः कुरुत तस्य बहु प्रतीपम्। सम्मन्त्र्य चैवमतिपापतमा नरेन्द्रपुत्रा हरेश्‍च बहु चक्रुरथ प्रतीपम्॥ १४/८२॥
तैः प्रेरिता नृपतयः पितरश्‍च तेषां साकं बृहद्रथसुतेन हरेः सकाशम्। युद्धाय जग्मुरमुनाऽष्टदशेषु युद्धेष्वत्यन्तभग्नबलदर्पमदा निवृत्ताः॥ १४/८३॥
तेनागृहीतगजवाजिरथा नितान्तं शस्त्रैः परिक्षततनूभिरलं वमन्तः। रक्तं विशस्त्रकवचध्वजवाजिसूताः स्रस्ताम्बराः श्लथितमूर्धजिनो निवृत्ताः॥ १४/८४॥
एवं बृहद्रथसुतोऽपि सुशोच्यरूप आर्तो ययौ बहुश एव पुरं स्वकीयम्। कृष्णेन पूर्णबलवीर्यगुणेन मुक्तो जीवेत्यतीव विजितः श्‍वसितावशेषः॥ १४/८५॥
एवं गतेषु बहुशो नतकन्धरेषु राजस्वजोऽपि मधुरां स्वपुरीं प्रविश्य। रामेण सार्धमखिलैर्यदुभिः समेतो रेमे रमापतिरचिन्त्यबलो जयश्रीः॥ १४/८६॥
व्यर्थोद्यमाः पुनरपि स्म सधार्तराष्ट्रा भीमं निहन्तुमुरुयत्नमकुर्वताज्ञाः। राज्ञां सुतास्तमखिलं स मृषैव कृत्वा चक्रे जयाय च दिशां बलवान् प्रयत्नम्॥ १४/८७॥
प्राचीं दिशं प्रथममेव जिगाय पश्‍चाद् याम्यां जलेशपरिपालितया सहान्याम्। यौ तौ पुरातनदशाननकुम्भकर्णौ मातृष्वसातनयतां च गतौ जिगाय॥ १४/८८॥
पूर्वस्तयोर्हि दमघोषसुतः प्रजातः प्राहुश्‍च यं नृपतयः शिशुपालनाम्ना। अन्यं वदन्ति च करूशनृपं तथाऽन्यं मातृष्वसातनयमेव च दन्तवक्त्रम् ॥ १४/८९॥
जित्वैव तावपि जिगाय च पौण्ड्रकाख्यं शौरेः सुतं सुतमजैदथ भीष्मकस्य। यः पूर्वमास दितिजो नरहेल्वलाख्यो रुग्मीति नाम च बभूव स कुण्डिनेशः॥ १४/९०॥
भागेत एव तनयस्य स एव वह्नेर्नाम्ना शुचेः स तु पिताऽस्य हि मित्रभागः। राह्वंशयुक् तदनुजौ क्रथकैशिकाख्यौ भागौ तथाऽग्निसुतयोः पवमानशुन्ध्योः॥ १४/९१॥
बन्धोर्निजस्य तु बलं सुपरीक्षमाणः शल्योऽपि तेन युयुधे विजितस्तथैव। भीमो जिगाय युधि वीरमथैकलव्यं सर्वे नृपाश्‍च विजिता अमुनैवमेव॥ १४/९२॥
तद्बाहुवीर्यपरिपालित इन्द्रसूनुः शेषान् नृपांश्‍च समजैद् बलवानयत्नात्। साल्वं च हंसडिभिकौ च विजित्य भीमो नागाह्वयं पुरमगात् सहितोऽर्जुनेन॥ १४/९३॥
तद्बाहुवीर्यमथ वीक्ष्य मुमोद धर्मसूनुः समातृयमजो विदुरः सभीष्मः। अन्ये च सज्जनगणाः सहपौरराष्ट्राः श्रुत्वैव सर्वयदवो जहृषुर्नितान्तम्॥ १४/९४॥
कृष्णः सुयोधनमुखाक्रममाम्बिकेयं जानन् स्वपुत्रवशवर्तिनमेव गत्वा। श्‍वाफल्किनो गृहममुं धृतराष्ट्रशान्त्यै गन्तुं दिदेश गजनामपुरं परेशः॥ १४/९५॥
सोऽयाद् गजाह्वयममुत्र विचित्रवीर्यपुत्रेण भीष्मसहितैः कुरुभिः समस्तैः। सम्पूजितः कतिपयानवसच्च मासान् ज्ञातुं हि पाण्डुषु मनःप्रसृतिं कुरूणाम्॥ १४/९६॥
ज्ञात्वा स कुन्तिविदुरोक्तित आत्मना च मित्रारिमध्यमजनांस्तनयेषु पाण्डोः। विज्ञाय पुत्रवशगं धृतराष्ट्रमञ्जः साम्नैव भेदसहितेन जगाद विद्वान्॥ १४/९७॥
पुत्रेषु पाण्डुतनयेषु च साम्यवृत्तिः कीर्तिं च धर्ममुरुमेषि तथाऽर्थकामौ। प्रीतिं परां त्वयि करिष्यति वासुदेवः साकं समस्तयदुभिः सहितः सुराद्यैः॥ १४/९८॥
धर्मार्थकामसहितां च विमुक्तिमेषि तत्प्रीतितः सुनियतं विपरीतवृत्तिः। यास्येव राजवर तत्फलवैपरीत्यमित्थं वचो निगदितं तव कार्ष्णमद्य॥ १४/९९॥
इत्थं समस्तकुरुमध्य उपात्तवाक्यो राजाऽपि पुत्रवशगो वचनं जगाद। सर्वं वशे भगवतो न वयं स्वतन्त्रा भूभारसंहृतिकृते स इहावतीर्णः॥ १४/१००॥
एवं निशम्य वचनं स तु यादवोऽस्य ज्ञात्वा मनोऽस्य कलुषं तव नैव पुत्राः। इत्यूचिवान् सह मरुत्तनयार्जुनाभ्यां प्रायात् पुरीं च सहदेवयुतः स्वकीयाम्॥ १४/१०१॥
ज्ञानं तु भागवतमुत्तममात्मयोग्यं भीमार्जुनौ भगवतः समवाप्य कृष्णात्। तत्रोषतुर्भगवता सह युक्तचेष्टौ सम्पूजितौ यदुभिरुत्तमकर्मसारौ॥ १४/१०२॥
प्रत्युद्यमो भगवताऽपि भवेद् गदायाः शिक्षा यदा भगवता क्रियते नचेमम्। कुर्यामिति स्म भगवत्समनुज्ञयैव रामादशिक्षदुरुगायपुरः स भीमः॥ १४/१०३॥
रामोऽपि शिक्षितमरीन्द्रधरात् पुरोऽस्य भीमे ददावथ वराणि हरेरवाप। अस्त्राणि शक्रतनयः सहदेव आर नीतिं तथोद्धवमुखात् सकलामुदाराम्॥ १४/१०४॥
कृष्णोऽथ चौपगविमुत्तमनीतियुक्तं सम्प्रेषयन्निदमुवाच ह गोकुलाय। दुःखं विनाशय वचोभिररे मदीयैर्नन्दादिनां विरहजं मम चाशु याहि॥ १४/१०५॥
मत्तो वियोग इह कस्यचिदस्ति नैव यस्मादहं तनुभृतां निहितोऽन्तरेव। नाहं मनुष्य इति कुत्र च वोऽस्तु बुद्धिर्ब्रह्मैव निर्मलतमं प्रवदन्ति मां हि॥ १४/१०६॥
पूर्वं यदा ह्यजगरो निजगार नन्दं सर्वे न शेकुरथ तत्प्रविमोक्षणाय। मत्पादसंस्पर्शतः स तदाऽतिदिव्यो विद्याधरस्तदुदितं निखिलं स्मरन्तु॥ १४/१०७॥
पूर्वं स रूपमदतः प्रजहास विप्रान् नित्यं तपःकृशतराङ्गिरसो विरूपान्। तैः प्रापितः सपदि सोऽजगरत्वमेव मत्तो निजां तनुमवाप्य जगाद नन्दम्॥ १४/१०८॥
नायं नरो हरिरयं परमः परेभ्यो विश्‍वेश्‍वरः सकलकारण आत्मतन्त्रः। विज्ञाय चैनमुरुसंसृतितो विमुक्ता यान्त्यस्य पादयुगलं मुनयो विरागाः॥ १४/१०९॥
नन्दं यदा च जगृहे वरुणस्य दूतस्तत्रापि मां जलपतेर्गृहमाशु यान्तम्। सम्पूज्य वारिपतिराह विमुच्य नन्दं नायं सुतस्तव पुमान् परमः स एषः॥ १४/११०॥
सन्दर्शितो ननु मयैव विकुण्ठलोको गोजीविनां स्थितिरपि प्रवरा मदीया। मानुष्यबुद्धिमपनेतुमजे मयि स्म तस्मान्मयि स्थितिमवाप्य शमं प्रयान्तु॥ १४/१११॥
श्रुत्वोद्धवो निगदितं परमस्य पुंसो वृन्दावनं प्रति ययौ वचनैश्‍च तस्य। दुःखं व्यपोह्य निखिलं पशुजीवनानामायात् पुनश्‍चरणसन्निधिमेव विष्णोः॥ १४/११२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये [उद्धवप्रतियानं नाम] चतुर्दशोऽध्यायः समाप्तः॥
पञ्चदशोऽध्यायः
एवं प्रशासति जगत् पुरुषोत्तमेऽस्मिन् भीमार्जुनौ तु सहदेवयुतावनुज्ञाम्। कृष्णादवाप्य वर्षत्रितयात् पुरं स्वमाजग्मतुर्हरिसुतेन विशोकनाम्ना॥ १५/१॥
सैरन्ध्रिकोदरभवः स तु नारदस्य शिष्यो वृकोदररथस्य बभूव यन्ता। या पिङ्गलाऽन्यभव आत्मनि संस्थितं तं संस्मृत्य कान्तमुरुगायमभूत् त्रिवक्रा॥ १५/२॥
तं पञ्चरात्रविदमाप्य सुसारथिं स भीमो मुमोद पुनराप परात्मविद्याम्। व्यासात् परात्मत उवाच च फल्गुनादिदेवेषु सर्वविजयी परविद्ययैषः॥ १५/३॥
सर्वानभागवतशास्त्रपथान् विधूय मार्गं चकार स तु वैष्णवमेव शुभ्रम्। क्रीडार्थमेव विजिगाय तथोभयात्मयुद्धे बलं च करवाक्प्रभवेऽमितात्मा॥ १५/४॥
नित्यप्रभूतसुशुभप्रतिभोऽपि विष्णोः श्रुत्वा परां पुनरपि प्रतिभामवाप। को नाम विष्ण्वनुपजीवक आस यस्य नित्याश्रयादभिहिताऽपि रमा सदा श्रीः॥ १५/५॥
व्यासादवाप परमात्मसुतत्त्वविद्यां धर्मात्मजोऽपि सततं भगवत्प्रपन्नः। ते पञ्च पाण्डुतनया मुमुदुर्नितान्तं सद्धर्मचारिण उरुक्रमशिक्षितार्थाः॥ १५/६॥
यदा भरद्वाजसुतस्त्वसञ्चयी प्रतिग्रहोज्झो निजधर्मवर्ती। द्रौणिस्तदा धार्तराष्ट्रैः समेत्य क्रीडन् पयः पातुमुपैति सद्म॥ १५/७॥
तस्मै माता पिष्टमालोड्य पातुं ददाति पीत्वैति तदेष नित्यम्। पीतक्षीरान् धार्तराष्ट्रान् समेत्य मया पीतं क्षीरमित्याह नित्यम्॥ १५/८॥
नृत्यन्तमेनं पाययामासुरेते पयः कदाचिद् रसमस्य सोऽवैत्। पुनः कदाचित् स तु मातृदत्ते पिष्टे नेदं क्षीरमित्यारुराव॥ १५/९॥
दृष्ट्वा रुवन्तं सुतमात्मजस्य स्नेहान्नियत्यैव जनार्दनस्य। सम्प्रेरितः कृपया चार्तरूपो द्रोणो ययावार्जयितुं तदा गाम्॥ १५/१०॥
प्रतिग्रहात् सन्निवृत्तः स रामं ययौ न विष्णोर्हि भवेत् प्रतिग्रहः। दोषाय यस्मात् स पिताऽखिलस्य स्वामी गुरुः परमं दैवतं च॥ १५/११॥
दृष्ट्वा चैनं जामदग्न्योऽप्यचिन्तयद् द्रोणं कर्तुं क्षितिभारापनोदे। हेतुं सुराणां नरयोनिजानां हन्ता चायं स्यात् सह पुत्रेण चेति॥ १५/१२॥
तेषां वृद्धिः स्यात् पाण्डवार्थे हतानां मोक्षेऽपि सौख्यस्य न सन्ततिश्‍च। योग्याः सुराणां कलिजा सुपापाः प्रायो यस्मात् कलिजाः सम्भवन्ति॥ १५/१३॥
न देवानामाशतं पूरुषा हि सन्तानजाः प्रायशः पापयोग्याः। नाकारणात् सन्ततेरप्यभावो योग्यः सुराणां सदमोघरेतसाम्॥ १५/१४॥
अव्युच्छिन्ने सकलानां सुराणां तन्तौ कलिर्नो भविता कथञ्चित्। तस्मादुत्साद्याः सर्व एते सुरांशा एतेन साकं तनयेन वीराः॥ १५/१५॥
एवं विचिन्त्याप्रतिमः स भार्गवो बभाष ईषत्स्मितशोचिषा गिरा। अनन्तशक्तिः सकलेश्‍वरोऽपि त्यक्तं सर्वं नाद्य वित्तं ममास्ति॥ १५/१६॥
आत्मा विद्या शस्त्रमेतावदस्ति तेषां मध्ये रुचितं त्वं गृहाण। उक्तः स इत्थं प्रविचिन्त्य विप्रो जगाद कस्त्वद्ग्रहणे समर्थः॥ १५/१७॥
सर्वेशिता सर्वपरः स्वतन्त्रः त्वमेव कोऽन्यः सदृशस्तवेश। साम्यं तवेच्छन् प्रतियात्यधो हि यस्मान्नचोत्थातुमलं कदाचित्॥ १५/१८॥
सर्वोत्तमस्येश तवोच्चशस्त्रैः कार्यं किमस्माकमनुद्बलानाम्। विद्यैव देया भवता ततोऽज सर्वप्रकाशिन्यमला सुसूक्ष्मा॥ १५/१९॥
इतीरितस्तत्त्वविद्यादिकाः स विद्याः सर्वाः प्रददौ सास्त्रशस्त्राः। अब्दद्विषट्वेन समाप्य ताः स ययौ सखायं द्रुपदं महात्मा॥ १५/२०॥
दानेऽर्धराज्यस्य हि तत्प्रतिज्ञां संस्मृत्य पूर्वामुपयातं सखायम्। सखा तवास्मीति तदोदितोऽपि जगाद वाक्यं द्रुपदोऽतिदर्पात्॥ १५/२१॥
न निर्धनो राजसखो भवेत यथेष्टतो विप्र गच्छेति दैवात्। इतीरितेऽस्याशु बभूव कोपो जितेन्द्रियस्यापि मुनेर्हरीच्छया॥ १५/२२॥
प्रतिग्रहात् सन्निवृत्तेन सोऽयं मया प्राप्तो मत्पितुः शिष्यकत्वात्। पितुः शिष्यो ह्यात्मशिष्यो भवेत शिष्यस्यार्थः स्वीय एवेति मत्वा॥ १५/२३॥
सोऽयं पापो मामवज्ञाय मूढो दुष्टं वचोऽश्रावयदस्य दर्पम्। हनिष्य इत्येव मतिं विधाय ययौ कुरूञ्छिष्यतां नेतुमेतान्॥ १५/२४॥
प्रतिग्रहाद् विनिवृत्तस्य चार्थः स्याच्छिष्येभ्यः कौरवेभ्यो ममात्र। एवं मन्वानः क्रीडतः पाण्डवेयान् सधार्तराष्ट्रान् पुरबाह्यतोऽख्यत्॥ १५/२५॥
विक्रीडतो धर्मसूनोस्तदैव सहाङ्गुलीयेन च कन्दुकोऽपतत्। कूपे न शेकुः सहिताः कुमारा उद्धर्तुमेनं पवनात्मजोऽवदत्॥ १५/२६॥
निष्पत्य चोद्धृत्य समुत्पतिष्ये कूपादमुष्माद् भृशनीचादपि स्म। सकन्दुकां मुद्रिकां पश्यताद्य सर्वे कुमारा इति वीर्यसंश्रयात्॥ १५/२७॥
तदा कुमारानवदत् स विप्रो धिगस्त्रबाह्यां भवतां प्रवृत्तिम्। जाताः कुले भरतानां न वित्थ दिव्यानि चास्त्राणि सुरार्चितानि॥ १५/२८॥
इतीरिता अस्त्रविदं कुमारा विज्ञाय विप्रं सुरपूज्यपौत्रम्। सम्प्रार्थयामासुरथोद्धृतिं प्रति प्रधानमुद्रायुतकन्दुकस्य॥ १५/२९॥
स चाश्‍विषीकाभिरथोत्तरोत्तरं सम्प्रास्य दिव्यास्त्रबलेन कन्दुकम्। उद्धृत्य मुद्रोद्धरणार्थिनः पुनर्जगाद भुक्तिर्मम कल्प्यतामिति॥ १५/३०॥
यथेष्टवित्ताशनपानमस्य धर्मात्मजः प्रतिजज्ञे सुशीघ्रम्। तथैव तेनोद्धृतमङ्गुलीयं त्रिवर्गमुख्यात्मजवाक्यतोऽनु॥ १५/३१॥
पप्रच्छुरेनं सहिताः कुमाराः कोऽसीति सोऽप्याह पितामहो वः। वक्तेति ते दुद्रुवुराशु भीष्मं द्रोणोऽयमित्येव स तांस्तदोचे॥ १५/३२॥
न राजगेहं स कदाचिदेति तेनादृष्टः स कुमारैः पुराऽतः। भीष्मो विद्यास्तेन सहैव चिन्तयन्नस्त्रप्राप्तिं तस्य शुश्राव रामात्॥ १५/३३॥
श्रुत्वा वृद्धं कृष्णवर्णं द्विजं तं महास्त्रविद्यामपि तां महामतिः। द्रोणं ज्ञात्वा तस्य शिष्यत्व एतान् ददौ कुमारांस्तत्र गत्वा स्वयं च॥ १५/३४॥
द्रोणोऽथ तानवदद् यो मदिष्टं कर्तुं प्रतिज्ञां प्रथमं करोति। तं धन्विनां प्रवरं साधयिष्य इत्यर्जुनस्तामकरोत् प्रतिज्ञाम्॥ १५/३५॥
उन्मादनादीनि स वेद कृष्णादस्त्राण्यनापत्सु न तानि मुञ्चेत्। इत्याज्ञया केशवस्यापराणि प्रयोगयोग्यानि सदेच्छति स्म॥ १५/३६॥
भीष्मादिभिर्भविता सङ्गरो नस्तदा नाहं गुरुभिर्नित्ययोद्धा। भवेयमेकः फल्गुनोऽस्त्रज्ञ एषां निवारकश्‍चेन्मम धर्मलाभः॥ १५/३७॥
न बुद्धिपूर्वं वर इन्दिरापतेरन्यत्र मे ग्राह्य इतश्‍च जिष्णुः। करोतु गुर्वर्थमिति स्म चिन्तयन् भीमः प्रतिज्ञां न चकार तत्र॥ १५/३८॥
तत्प्रेरितेनार्जुनेन प्रतिज्ञा कृता यदा विप्रवरस्ततः परम्। स्नेहं नितान्तं सुरराजसूनौ कृत्वा महास्त्राणि ददौ स तस्य॥ १५/३९॥
स पक्षपातं च चकार तस्मिन् करोति चास्योरुतरां प्रशंसाम्। रहस्यविद्याश्‍च ददाति तस्य नान्यस्य कस्यापि तथा कथञ्चित्॥ १५/४०॥
भीमः समस्तं प्रतिभाबलेन जानन् स्नेहं त्वद्वितीयं कनिष्ठे। द्रोणस्य कृत्वा सकलास्त्रवेदिनं कर्तुं पार्थं नार्जुनवच्चकार॥ १५/४१॥
नैवातियत्नेन ददर्श लक्ष्यं शुश्रूषायां पार्थमग्रे करोति। स्वबाहुवीर्याद् भगवत्प्रसादान्निहन्मि शत्रून् किमनेन चेति॥ १५/४२॥
तदा समीयुः सकलाः क्षितीशपुत्रा द्रोणात् सकलास्त्राण्यवाप्तुम्। ददौ स तेषां परमास्त्राणि विप्रो रामादवाप्तान्यगतानि चान्यैः॥ १५/४३॥
अस्त्राणि चित्राणि महान्ति दिव्यान्यन्यैर्नृपैर्मनसाऽप्यस्मृतानि। अवाप्य सर्वे तनया नृपाणां शक्ता बभूवुर्न यथैव पूर्वे॥ १५/४४॥
नैतादृशाः पूर्वमासन् नरेन्द्रा अस्त्रे बले सर्वविद्यासु चैव। दौष्यन्तिमान्धातृमरुत्तपूर्वाश्‍चैतत्समा नासुरुदारवीर्याः॥ १५/४५॥
तदा कर्णोऽथैकलव्यश्‍च दिव्यान्यस्त्राण्याप्तुं द्रोणसमीपमीयतुः। सूतो निषाद इति नैतयोरदादस्त्राणि विप्रः स तु रामशिष्यः॥ १५/४६॥
कर्णोऽनवाप्य निजमीप्सितमुच्चमानो यस्मादवाप पुरुषोत्तमतोऽस्त्रवृन्दम्। विप्रोऽप्ययं तमजमेमि भृगोः कुलोत्थं इत्थं विचिन्त्य स ययौ भृगुपाश्रमाय॥ १५/४७॥
स सर्ववेत्तुश्‍च विभोर्भयेन विप्रोऽहमित्यवददस्त्रवरातिलोभात्। जानन्नपि प्रददावस्य रामो दिव्यान्यस्त्राण्यखिलान्यव्ययात्मा॥ १५/४८॥
अस्त्रज्ञचूडामणिमिन्द्रसूनुं विश्‍वस्य हन्तुं धृतराष्ट्रपुत्रः। एनं समाश्रित्य दृढो भवेतेत्यदाज्ज्ञात्वैवास्त्रमस्मै रमेशः॥ १५/४९॥
ज्ञानं च भागवतमाप्य पराश्‍च विद्या रामादवाप्य विजयं धनुरग्र्ययानम्। अब्दैश्‍चतुर्भिरथ च न्यवसत् तदन्ते हातुं न शक्त उरुगायमिमं स कर्णः॥ १५/५०॥
अङ्के निधाय स कदाचिदमुष्य रामः शिश्ये शिरो विगतनिद्र उदारबोधः। संसुप्तवत् सुरवरः सुरकार्यहेतोर्दातुं च वालिनिधनस्य फलं तदस्य॥ १५/५१॥
तत्रास राक्षसवरः स तु हेतिनामा काले महेन्द्रमनुपास्य हि शापतोऽस्य। कीटस्तमिन्द्र उत तत्र समाविवेश कर्णस्य शापमुपपादयितुं सुतार्थे॥ १५/५२॥
कर्णः स कीटतनुगेन किरीटिनैव ह्यूरोरधस्तलत औपरिगात्वचश्‍च। विद्धः शरेण स यथा रुधिरस्य धारां सुस्राव तं विगतनिद्र इवाह रामः॥ १५/५३॥
किं त्वं न चालयसि मां रुधिरप्रसेके प्राप्तेऽपि पावनविरोधिनि कोऽसि चेति। तं प्राह कर्ण इह नैव मया विधेयो निद्राविरोध इति कीट उपेक्षितो मे॥ १५/५४॥
जात्याऽस्मि सूत उत ते तनयोऽस्मि सत्यं तेनास्मि विप्र इति भार्गववंशजोऽहम्। अग्रेऽब्रुवं भवत ईश नहि त्वदन्यो माता पिता गुरुतरो जगतोऽपि मुख्यः॥ १५/५५॥
इत्युक्तमात्रवचने स तु कीटकोऽस्य रामस्य दृष्टिविषयत्वत एव रूपम्। सम्प्राप्य नैजमतिपूर्णगुणस्य तस्य विष्णोरनुग्रहत आप विमानगः स्वः॥ १५/५६॥
अथाह रामस्तमसत्यवाचं न ते सकाशे मम वासयोग्यता। तथाऽपि ते नैव वृथा मदीया भक्तिर्भवेज्जेष्यसि सर्वशत्रून्॥ १५/५७॥
अस्पर्धमानं न कथञ्चन त्वां जेता कश्‍चित् स्पर्धमानस्तु यासि। पराभूतिं नात्र विचार्यमस्ति प्रमादी त्वं भविता चास्त्रसङ्ख्ये॥ १५/५८॥
याहीति तेनोक्त उदारकर्मणा कर्णो ययौ तं प्रणम्येशितारम्।
तथैकलव्योऽपि निराकृतोऽमुना द्रोणेन तस्य प्रतिमां वनेऽर्चयत्॥ १५/५९॥
ततः कदाचिद् धृतराष्ट्रपुत्रैः पाण्डोः सुता मृगयां सम्प्रयाताः। अग्रे गच्छन् सारमेयो रुराव धर्मात्मजस्यात्र वने मृगार्थी॥ १५/६०॥
श्रुत्वा रावं सारमेयस्य दूरात् शरैर्मुखं शब्दवेधी पुपूरे। स एकलव्यो व्रणमस्य नाकरोत् श्‍वा पूरितास्यः पाण्डवानभ्ययात् सः॥ १५/६१॥
दृष्ट्वा चित्रं कुरवः पाण्डवाश्‍च द्रष्टुं कर्तारं मार्गयामासुरत्र। द्रोणाकृतिं मार्तिकीं पूजयन्तं ददृशुश्‍चैनं धनुरेवाभ्यसन्तम्॥ १५/६२॥
पैशाचमेवैष पिशाचकेभ्यः पूर्वं विवेदास्त्रवृन्दं निषादः। दिव्यान्यस्त्राण्याप्तुमेतां च शिक्षां द्रोणं सदा पूजयति स्म भक्त्या॥ १५/६३॥
दृष्ट्वा विशेषं तममुष्य पार्थो द्रोणायोचे त्वद्वचो मे मृषाऽऽसीत्। इत्युक्त एनं त्वभिगम्य दक्षिणां विप्रो ययाचे दक्षिणाङ्गुष्ठमेव॥ १५/६४॥
तस्य प्रसादोपचितोरुशिक्षो निषादोऽदाद् दक्षिणाङ्गुष्ठमस्मै। ततः परं नास्य बभूव शिक्षा सन्मुष्टिहीनस्य समाऽर्जुनेन॥ १५/६५॥
पुनः कृपालू रैवतपर्वते तं द्रोणः प्रादादस्त्रवराणि तस्मै। एकान्त एवास्य भक्त्या सुतुष्टो धन्विश्रेष्ठं कृतवानर्जुनं च॥ १५/६६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये पञ्चदशोऽध्यायः समाप्तः॥
षोडशोऽध्यायः
काले त्वेतस्मिन् भूय एवाखिलैश्‍च नृपैर्युक्तो मागधो योद्धुकामः। प्रायाद् यदूंस्तत्र नित्याव्ययातिबलैश्‍वर्योऽपीच्छयाऽगात् स कृष्णः॥ १६/१॥
सन्दर्शयन् बलिनामल्पसेनाद्युपस्कराणां बहुलोपस्करैश्‍च। प्राप्ते विरोधे बलिभिर्नीतिमग्र्यां ययौ सरामो दक्षिणाशां रमेशः॥ १६/२॥
सोऽनन्तवीर्यः परमोऽभयोऽपि नीत्यै गच्छन् जामदग्न्यं ददर्श। क्रीडार्थमेकोऽपि ततोऽतिदुर्गं श्रुत्वा गोमन्तं तत्र ययौ सहाग्रजः॥ १६/३॥
तदा दुग्धाब्धौ संसृतिस्थैः सुराद्यैः पूजां प्राप्तुं स्थानमेषां च योग्यम्। मुक्तस्थानादाप नारायणोऽजो बलिश्‍चागात् तत्र सन्द्रष्टुमीशम्॥ १६/४॥
तत्रासुरावेशममुष्य विष्णुः सन्दर्शयन् सुप्तिहीनोऽपि नित्यम्। संसुप्तवच्छिश्य उदारकर्मा सञ्ज्ञायै देवानां मुखमीक्ष्याप्रमेयः॥ १६/५॥
देवाश्‍च तद्भावविदोऽखिलाश्‍च निमीलिताक्षाः शयनेषु शिश्यिरे। तदा बलिस्तस्य विष्णोः किरीटमादायागाज्जहसुः सर्वदेवाः॥ १६/६॥
नारायणे सर्वदेवैः समेते ब्रह्मादिभिर्हासमाने सुपर्णः। गत्वा पातालं युधि जित्वा बलिं च किरीटमादायाभ्ययाद् यत्र कृष्णः॥ १६/७॥
तत् तस्य शीर्ष्णि प्रतिमुच्य नत्वा खगः स्तुत्वा देवदेवं रमेशम्। स्मृत आगच्छेत्येव विसर्जितोऽमुना ययौ दुग्धाब्धिं यत्र नारायणोऽसौ॥ १६/८॥
किरीटं तत् कृष्णमूर्ध्नि प्रविष्टं तत्तुल्यमासीत् तस्य रूपेष्वभेदात्। तदिच्छया तस्य नारायणस्य शीर्ष्ण्यप्यासीद् युगपद् दुग्धवार्धौ॥ १६/९॥
पूर्वं प्राप्तान्येव दिव्यायुधानि पुनर्वैकुण्ठं लोकमितानि भूयः। तदाऽवतेरू रौहिणेयस्य चैव भार्याऽप्यायाद् वारुणी नाम पूर्वा॥ १६/१०॥
सैवापरं रूपमास्थाय चागात् श्रीरित्याख्यं सेन्दिरावेशमग्र्यम्। कान्तिश्‍चागात् तस्य सोमस्य चान्या भार्या द्वयोः पूर्वतना सुरूपा॥ १६/११॥
ताभी रामो मुमुदे तत्र तिष्ठञ्छशाङ्कपूगोद्रिक्तकान्तिः सुधामा। तस्या वारुण्याः प्रतिमा पेयरूपा कादम्बरीं वारुणीं तां पपौ सः॥ १६/१२॥
एवं तयोः क्रीडतोः स्वैरमत्र राजन्यवृन्दानुगतो जरासुतः। गिरिं गोमन्तं परिवार्यादहत् तं दृष्ट्वा देवौ पुप्लुवतुर्बलाढ्यौ॥ १६/१३॥
गिरिस्ताभ्यां पीडितः सन् निमग्नो भूमौ पद्भ्यां योजनैकादशं सः। निष्पीडिताज्जलधारोद्गताऽस्माद् वह्निं व्याप्तं शमयामास सर्वम्॥ १६/१४॥
सेनां प्रविष्टौ सर्वराजन्यवृन्दं व्यमथ्नतां देववरौ स्वशस्त्रैः। तत्र हंसो डिभिकश्‍चैकलव्यः सकीचकस्तौ शिशुपालपौण्ड्रकौ॥ १६/१५॥
भौमात्मजो दन्तवक्रश्‍च रुक्मी सौभाधिपो मैन्दमैन्दानुजौ च। अन्ये च ये पार्थिवाः सर्व एव क्रोधात् कृष्णं परिवार्याभ्यवर्षन्॥ १६/१६॥
शस्त्रैरस्त्रैर्द्रुमपूगैः शिलाभिर्भक्ताश्‍च ये शल्यबाह्लीकमुख्याः। ससोमदत्तः सौमदत्तिर्विराटः पाञ्चालराजश्‍च जरासुतस्य। भयात् कृष्णं शस्त्रवर्षैरवर्षन् कारागृहे वासिता मागधेन॥ १६/१७॥
सर्वानेताञ्छरवर्षेण कृष्णो विसूतवाजिध्वजशस्त्रवर्मणः। कृत्वा वमच्छोणितानार्तरूपान् विद्रावयामास हरिर्यथा मृगान्॥ १६/१८॥
हत्वा सेनां विंशदक्षौहिणीं तां त्रिभिर्युक्तां रुक्मिणं नैव कृष्णः। रुक्मिण्यर्थे पीडयामास शस्त्राण्यस्य च्छित्वा विरथं द्रावयानः॥ १६/१९॥
जरासुतो रौहिणेयेन युद्धं चिरं कृत्वा तन्मुसलेन पोथितः। विमोहितः प्राप्तसञ्ज्ञश्‍चिरेण क्रुद्धो गदां तदुरस्यभ्यपातयत्॥ १६/२०॥
तेनाहतः सुभृशं रौहिणेयः पपात मूर्च्छाभिगतः क्षणेन। अजेयत्वं तस्य दत्तं हि धात्रा पूर्वं गृहीता विष्णुना रामगेन॥ १६/२१॥
तथाकृते बलभद्रे तु कृष्णो गदामादाय स्वामगान्मागधेशम्। तताड जत्रौ स तयाऽभिताडितो जगाम गां मूर्च्छयाऽभिप्लुताङ्गः॥ १६/२२॥
अथोत्तस्थौ रौहिणेयः सहैव समुत्तस्थौ मागधोऽप्यग्र्यवीर्यः। क्रुद्धो गृहीत्वा मौलिमस्याशु रामो वधायोद्यच्छन्मुसलं बाहुशाली॥ १६/२३॥
अथाब्रवीद् वायुरेनं न राम त्वया हन्तुं शक्यते मागधोऽयम्। वृथा न ते बाहुबलं प्रयोज्यममोघं ते यद् बलं तद्वदस्त्रम्॥ १६/२४॥
अन्यो हन्ता बलवानस्य चेति श्रुत्वा ययौ बलभद्रो विमुच्य। जरासुतं पुनरुद्यच्छमानं जघान कृष्णो गदया स्वयैव॥ १६/२५॥
तेनाहतः स्रस्तसमस्तगात्रः पपात मूर्च्छाभिगतः स राजा। चिरात् सञ्ज्ञां प्राप्य चान्तर्हितोऽसौ सम्प्राद्रवद् भीतभीतः सलज्जः॥ १६/२६॥
ययौ शिष्टै राजभिः संयुतश्‍च पुरं जीवेत्येव कृष्णेन मुक्तः। पुनर्युद्धं बहुशः केशवेन कृत्वा जितो राजगणैः समेतः॥ १६/२७॥
कृष्णो जित्वा मागधं रौहिणेययुक्तो ययौ दमघोषेण सार्धम्। पितृष्वसायाः पतिना तेन चोक्तः पूर्वं जितेनापि युधि स्म बान्धवात्॥ १६/२८॥
यामः पुरं करवीराख्यमेव महालक्ष्म्याः क्षेत्रसन्दर्शनाय। श्रुत्वा वाक्यं तस्य युद्धे जितस्य प्रीत्या युक्तस्यात्मना तद्युतोऽगात्॥ १६/२९॥
गन्धर्वोऽसौ दनुनामा नरोऽभूत् तस्मात् कृष्णे भक्तिमांश्‍चास राजा।
पुरप्राप्तांस्तान् स विज्ञाय पापः सृगालाख्यो वासुदेवः क्रुधाऽगात्॥ १६/३०॥
सूर्यप्रदत्तं रथमारुह्य दिव्यं वरादवध्यस्तिग्मरुचेः स कृष्णम्। योद्धुं ययावमुचच्चास्त्रसङ्घाञ्छिरस्तस्याथाशु जहार कृष्णः॥ १६/३१॥
द्विधा कृत्वा देहमस्यारिणा च पुत्रं भक्तं तस्य राज्येऽभिषिच्य। स शक्रदेवं मणिभद्रं पुरा यो ययौ पुरीं स्वां सहितोऽग्रजेन॥ १६/३२॥
नीतिं बलिष्ठस्य विहाय सेनां दूराद् युद्धं दर्शयित्वैव गुप्त्यै। स्वसेनायाः सर्वपूर्णात्मशक्तिः पुनः पुरीं प्राप्य सम्पूजितोऽवसत्॥ १६/३३॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये षोडशोऽध्यायः समाप्तः॥
सप्तदशोऽध्यायः
गतेऽथ चेदिपे स्वकं पुरं जनार्दनोऽशृणोत्। रमैव रुक्मिणीति योद्यतां स्वयंवराय ताम्॥ १७/१॥
स रुक्मिनामकोऽग्रजः श्रियो द्विषन् रमापतिम्। हरेः प्रदातुमुद्यतान् न्यवारयद्धरिप्रियाम्॥ १७/२॥
प्रघोषिते स्वयंवरेऽथ तेन मागधादयः। समीयुरुग्रपौरुषाः ससाल्वपौण्ड्रचेदिपाः॥ १७/३॥
तदा जगाम केशवो जवेन कुण्डिनं पुरम्। स्मृतोऽथ तेन पक्षिराट् समाजगाम केशवम्॥ १७/४॥
पतत्रवायुनाऽस्य ते नरेश्‍वराः प्रपातिताः। यदीदृशं पतत्रिणो बलं हरेः किमुच्यते॥ १७/५॥
किमत्र नः कृतं भवेत् सुखाय हीति तेऽब्रुवन्।
अथाब्रवीज्जरासुतो जयी पयोब्धिमन्दिरः। किलैष पक्षिवाहनो यतश्‍च नान्यथा भवेत्॥ १७/६॥
जिता वयं च सर्वशोऽमुनैकलेन संयुगे। अनेकशो न सङ्गतैर्जितः कदाचिदेष हि॥ १७/७॥
अमुष्य चाग्रजः पुरा निहन्तुमुद्यतो हि माम्। अदृश्यवाक्यतोऽत्यजत् प्रताडनात् सुपीडितम्॥ १७/८॥
किमस्य तूच्यते बलं वयं तृणोपमाः कृताः। समस्तशो मृधेमृधे हि येन चाक्षतेन हि॥ १७/९॥
किमत्र कुर्वतां सुखं भवेदुदीर्णसङ्कटे। इति ब्रुवन्नवाङ्मुखं नृपश्‍चकार विच्छविः॥ १७/१०॥
अथाह चेदिभूपतिः सदन्तवक्रको वचः। पुरा हरेर्हि पार्षदः प्रसन्नबुद्धिरेकदा॥ १७/११॥
शृणुष्व राजसत्तम प्रभुं शिवस्वयम्भुवोः। हरिं वदन्ति केचिदप्यदो भवेन्न वै मृषा॥ १७/१२॥
तथाऽऽवयोश्‍च दर्शने भवेत् कदाचिदूर्जिता। अमुष्य भक्तिरन्यथा पुनश्‍च जायते क्रुधा॥ १७/१३॥
न कारणं च विद्महे न संशयः परो हरिः। व्रजाम तं सुखार्थिनो वयं विहाय शत्रुताम्॥ १७/१४॥
इदं हि नः शुभप्रदं नचान्यथा शुभं क्वचित्। इतीरितो जरासुतो ददर्श तौ दहन्निव॥ १७/१५॥
अथ प्रहस्य सौभराट् वचो जगाद मागधम्। विनिन्द्य तौ क्रुधा स्फुरन् क्रुधा स्फुरन्तमीक्ष्य च॥ १७/१६॥
न तन्मृषा हरिः स्वयं जनार्दनो वधाय नः। प्रजात एष यादवो वयं च दानवेश्‍वराः॥ १७/१७॥
स्वधर्म एष नः सदा दृढप्रतीपता हरौ। स्वधर्मिणो हता अपि प्रयाम सद्गतिं ध्रुवम्॥ १७/१८॥
शिवश्‍च नः परा गतिर्गुरुर्भवानरिर्हरिः। इतीरितः स मागधो जगाद साधुसाध्विति॥ १७/१९॥
तथैव रुक्मिपूर्वकाः करूशचेदिपौ च तौ। विनिश्‍चयं कुबुद्धयो युधे च चक्रुरूर्जितम्॥ १७/२०॥
सदा प्रतीपकारिणौ भवाव कृष्ण इत्यपि। गुरोः प्रसादमाप्नुतां करूशचेदिभूभृतौ॥ १७/२१॥
पुनश्‍च ते त्वमन्त्रयन् सहैव पापबुद्धयः। ध्रुवं समागतो हरिर्लभेत रुक्मिणीमिमाम्॥ १७/२२॥
अयं त्रिलोकसुन्दरः सुरूपिणी च रुक्मिणी। मुखेन बाहुनाऽप्ययं समस्तलोकजिद् वशी॥ १७/२३॥
समस्तवेदिनां वरं जितारिमग्र्यरूपिणम्। समस्तयोषितां वरा व्रजेत रुक्मिणी ध्रुवम्॥ १७/२४॥
वयं च मानसङ्क्षयं नितान्तमाप्नुमस्तदा। न शक्नुमो निवारितुं शरैरमुं कथञ्चन॥ १७/२५॥
अतः स्वयंवरे यथा न सङ्गमो हरेर्भवेत्। तथा विधानमेव नः सुनीतिरूर्जिता ध्रुवम्॥ १७/२६॥
अतो न देयमस्य नः सुभूभुजां समागमे। क्वचित् कदाचिदासनं नचार्घ्यपूर्वको विधिः॥ १७/२७॥
नचास्यति क्षितौ क्वचिद् विमानितः पुरो हि नः। परासनस्थभूभुजां स मानितो हि दैवतैः॥ १७/२८॥
स दर्पमानसंयुतः क्रुधा प्रयास्यति ध्रुवम्। पुरीं स्वकां ततो वयं विधेम च स्वयंवरम्॥ १७/२९॥
इति स्म सर्वभूभुजां विनिश्‍चयं सकैशिकः। क्रथोऽवगम्य भीष्मकानुजोऽभ्ययाद्धरिं द्रुतम्॥ १७/३०॥
प्रणम्य पादपद्मयोर्निजं गृहं प्रवेश्य च। महासनं प्रदाय तौ प्रचक्रतुर्वरार्चनम्॥ १७/३१॥
अथागमच्छतक्रतोर्वचः प्रगृह्य भूभुजः। जरासुतादिकान् पुमानुवाच चार्थवद् वचः॥ १७/३२॥
अहं प्रियः शचीपतेः सदाऽस्य चाक्षिगोचरः। सुरेन्द्र आज्ञयाऽवदन्नृपान् व ईश्‍वरो हि सः॥ १७/३३॥
समस्तराजसत्पतिर्हरिर्नचान्य इत्यपि। वराभिषेकमीशितुः कुरुध्वमाश्‍वसंशयम्॥ १७/३४॥
अतोऽन्यथा शिरस्यहं निपातयामि वोऽशनिम्। इतीदमिन्द्रशासनं कुरुध्वमित्यसौ ययौ॥ १७/३५॥
तदीरितं निशम्य ते पुनः सुतप्तचेतसः। बभूवुरूचिरे वचः सुगर्वितो हि वासवः॥ १७/३६॥
पुरा बिभेति नः सदा प्रतिप्रति स्म वासवः। उताद्य कृष्णसंश्रयाद् दृढं विभीषयत्यसौ॥ १७/३७॥
अदृश्य एव देवराड् यदि स्म वज्रमुत्सृजेत्। भवेम पीडिता वयं वरादमृत्यवोऽपि हि॥ १७/३८॥
पुरा दिविस्थितस्य च प्रमर्दने वयं क्षमाः। उताद्य यद्यमुं वयं व्रजेम कृष्ण एष्यति॥ १७/३९॥
अतोऽभिषेचनाद् यदीह शार्ङ्गिणः शचीपतिः। न वज्रमुत्सृजेत् तदाऽभिषेचयाम तं वयम्॥ १७/४०॥
अतोऽन्यथा दनुर्यथा वरादमृत्युकोऽपि सन्। सुरेन्द्रवज्रताडितो बभूव कुक्षिगास्ययुक्॥ १७/४१॥
तथैव कृष्णसंश्रयात् स नः शचीपतिर्नयेत्। इति स्म निश्‍चिता नृपानयातयन्त शौरये॥ १७/४२॥
समस्तशो जरासुतादिभिः कृतेऽभिषेचने। अतीव भग्नमानकान् नचानुयाति कश्‍चन॥ १७/४३॥
समाश्रयं च केशवं तदैव जीवनार्थिनः। प्रकुर्युरासुरा अपीति देवकार्यसङ्क्षयः॥ १७/४४॥
इतीक्ष्य पाकशासनोऽवदज्जरासुतादिकान्। सरुक्मिचेदिसाल्वपो न यातु मागधो हरिम्॥ १७/४५॥
ततस्तु तान् विनाऽपरेऽधिराजराज इत्यमुम्। तदाऽभिषेक्तुमुद्यता नृपाः सुरेशशासनात्॥ १७/४६॥
ततः शचीपतिर्निजं वरासनं हरेरदात्। विवेश तत्र केशवो नभस्थलावतारिते॥ १७/४७॥
करे प्रगृह्य केशवो न्यवेशयत् सहासने। पतत्रिपुङ्गवं च तौ स भीष्मकानुजौ प्रभुः॥ १७/४८॥
अथाखिला नरेश्‍वरा मुनीन्द्रसंयुता हरिम्। सुशातकौम्भकुम्भकैः प्रचक्रुराभिषेकिणम्॥ १७/४९॥
विरिञ्चशर्वपूर्वकैरभिष्टुतः सुरादिभिः। समस्तदेवगायकैः प्रगीत आस केशवः॥ १७/५०॥
अथाह भीष्मकं प्रभुः स्वयंवरः किल त्वया। अभीप्सितः सुताकृते शुभाय ते भवेन्न सः॥ १७/५१॥
इयं रमा तवात्मजा बभूव तां हरेर्न चेत्। ददाति चेत् तदा पिता निरिन्दिरो व्रजेदधः॥ १७/५२॥
हिताय चैतदीरितं तवान्यथा न चिन्तय। न योषिदिच्छया त्वहं ब्रवीमि पश्य यादृशः॥ १७/५३॥
उदीर्य चैवमीश्‍वरश्‍चकार हाविरात्मनः। स विश्‍वरूपमुत्तमं विसङ्ख्यशीर्षबाहुकम्॥ १७/५४॥
अनन्ततेज आततं विसङ्ख्यरूपसंयुतम्। विचित्रमौलिकुण्डलाङ्गदोरुहारनूपुरम्॥ १७/५५॥
ज्वलत्सुकौस्तुभप्रभाभिभासकं शुभाम्बरम्। प्रपश्य यादृशाः स्त्रियो ममेत्यदर्शयच्छ्रियम्॥ १७/५६॥
अनन्तरूपिणीं परां मनुष्यदृष्टितोऽधिकाम्। स रुक्मिणीतनोरपि व्यदर्शयच्च देवताः॥ १७/५७॥
तदद्भुतं समीक्ष्य तु प्रभीत आशु भीष्मकः। पपात पादयोर्विभोः करोमि तत् तथेति च॥ १७/५८॥
पुनश्‍च विश्‍वरूपतां पिधाय पद्मलोचनः। जगाम पक्षिवाहनः पुरीं स्वबाहुपालिताम्॥ १७/५९॥
अपाम्पतिश्‍च मैथिलः स्वयंवरं कृतावपि। हरिं विनिश्‍चयादियं व्रजेदिति स्म चक्रतुः॥ १७/६०॥
स्वयंवरः क्षितेर्भुजां स्वधर्म इत्यतो द्वयोः। न दोष आस भीष्मको न केशवार्थमैच्छत॥ १७/६१॥
अतो हरौ प्रबोध्य तं गते कृपालुसत्तमे। वशीकृते च भीष्मके नृपास्त्वमन्त्रयन् पुनः॥ १७/६२॥
यशश्‍च धर्ममुत्तमं विधित्सता वृकोदरे। न केशवेन सूदितो जरासुतो हि मन्यते॥ १७/६३॥
वराच्छिवस्य मामयं न हन्तुमीष्ट उत्तमात्। अतः शिवप्रसादतो जितोऽपि जेष्य उत्तरम्॥ १७/६४॥
मृधेमृधे जितोऽपि सन् दृढाशया पुनःपुनः। समीहते युधे शिवं नचावमन्यते क्वचित्॥ १७/६५॥
अतः पुनश्‍च भूमिपानुवाच बारुहद्रथः। धिगेव पौरुषं हि नो यदेष नोऽजयत् सदा॥ १७/६६॥
अभूपतेर्नचासनं प्रदेयमित्युदाहृतम्। अमुष्य नस्तदन्यथा बभूव चिन्तितं नृपाः॥ १७/६७॥
अयं नृपोत्तमाङ्गणे महेन्द्रपीठमारुहत्। समस्तराजराजतामवाप नोऽप्यनिच्छताम्॥ १७/६८॥
अतः पुनः कथं हरिं वयं जयेम चिन्त्यताम्। यथा च भीष्मकात्मजामवाप्नुयाच्च चेदिराट्॥ १७/६९॥
अयं हि दत्तपुत्रको म औरसाद् विशिष्यते। अतो निवेश्य एष मे सुरूपिणी च रुक्मिणी॥ १७/७०॥
शिवागमेषु शिष्यकाः सरुक्मिसाल्वपौण्ड्रकाः। ममाखिला नृपास्ततः कुरुध्वमेतदेव मे॥ १७/७१॥
इतीरिते तु सौभराड् जगाद रुक्मिसंविदा। स्वयंवरो निवर्तितः स्वसारमेष दास्यति॥ १७/७२॥
नचातिवर्तितुं क्षमः पिताऽस्य चेदिपाय ताम्। प्रदातुकाममात्मजं वयोगतस्तथाऽबलः॥ १७/७३॥
स्वयं तु कृष्ण एत्य नो विजित्य कन्यकां हरेत्। ततोऽस्य पूर्वमेव नो ह्यभावता कृता शुभा॥ १७/७४॥
उपाय एष चिन्तितो मयाऽत्र मागधेश्‍वर। मुनिं हि गर्गनामकं ह्यमुष्य श्याल आक्षिपत्॥ १७/७५॥
यदाऽस्य षण्डतोदिता मुनेः पुरो हि तस्य च। परेण वृष्णयोऽहसंश्‍चुकोप गर्ग एषु ह॥ १७/७६॥
चकार हि प्रतिश्रवं समार्जये सुतं द्रुतम्। अकृष्णतां य आनयेद् भुवोऽपि वृष्णिनाशकः॥ १७/७७॥
यतो हि कृष्णसंश्रयाद् बतापहासिता वयम्। इति ब्रुवन् वनं ययौ तपश्‍च शैवमाचरत्॥ १७/७८॥
स चूर्णमायसं त्वदन् ददर्श चाब्दतः शिवम्। वरं ततोऽभिपेदिवान् सुतं हरेरभावदम्॥ १७/७९॥
स विष्णुदैवतोऽपि सन् प्रविष्ट उल्बणासुरैः। व्यधाद्धरेः प्रतीपकं व्रतं च नैष्ठिकं जहौ॥ १७/८०॥
तमार चासुराप्सरा बलिष्ठपुत्रकाम्यया। प्रविश्य गोपिकाङ्गनासमूहमध्यमुल्बणा॥ १७/८१॥
स यावनेन भूभृता हि गोपिकाभिरर्चितः। अपुत्रकेण जानता मुनेर्मनोऽनुचिन्तितम्॥ १७/८२॥
स चाप्सरस्तनौ सुतं निषिच्य यावनाय च। ददौ विमोहितः क्रुधा किमेतदीशवैरिणः॥ १७/८३॥
स आश्रमाच्च नैष्ठिकाद् विदूषितः प्रतीपकृत्। हरेश्‍च तापमेयिवान् जगर्ह चात्मशेमुषीम्॥ १७/८४॥
जगाम चारणं हरिं प्रपाहि मां सुपापिनम्। इति स्म विष्ण्वनुज्ञया चकार वैष्णवं तपः॥ १७/८५॥
कुतो हि भाग्यमापतेन्मुनेः शिवार्चने सदा। भवादृशा हि दानवाः स्थिराः शिवार्चने सदा॥ १७/८६॥
सुतोऽस्य कालनामको बभूव कृष्णमर्दितुम्। सदैव कालकाङ्क्षणात् स यावनाभिषेचितः॥ १७/८७॥
तवैव शिष्य एष चातिभक्तिमान् हि शङ्करे। प्रभूतसेनया युतो बलोद्धतश्‍च सर्वदा॥ १७/८८॥
तमेव यामि शासनात् तवोपनीय सत्वरम्। विकृष्णकं विधाय च क्षितेस्तलंं रमामहे॥ १७/८९॥
ततश्‍च रुक्मिणीं वयं प्रदापयाम चेदिपे। विनाश्य देवपक्षिणो यथेष्टमास्म सर्वदा॥ १७/९०॥
इतीरितो जरासुतो बभूव दुर्मना भृशम्। किरीटमण्डितं शिरश्‍चकार चाश्‍ववाग् भृशम्॥ १७/९१॥
करं करेण पीडयन् निशाम्य चात्मनो भुजौ। जगाद कार्यसिद्धये कथं प्रयाचये परम्॥ १७/९२॥
सुदुर्गकार्यसन्ततिं ह्यगुः स्म मद्भुजाश्रयाः। समस्तभूतले नृपाः स चाहमेष मागधः॥ १७/९३॥
कदाऽप्यचीर्णमद्य तत् कथं करोमि केवलम्। गिरीशपादसंश्रयः प्रभुः समस्तभूभृताम्॥ १७/९४॥
इतीरितः स सौभराड् जगाद वाक्यमुत्तरम्। भवानपि स्म मुह्यते किमस्मदादयः प्रभो॥ १७/९५॥
स्वशिष्यकैः कृतं तु यत् किमन्यसाधितं भवेत्। स्वशिष्यदासवर्गकैः समर्थयन्ति भूभुजः॥ १७/९६॥
अपि स्म ते बलाश्रयप्रवृत्तयोऽस्मदादयः। पुमान् कुठारसङ्ग्रहादशक्त ईर्यते हि किम्॥ १७/९७॥
कुठारसम्मितो ह्यसौ तवैव यावनेश्‍वरः। विना भवद्बलं क्वचित् प्रवर्तितुं नहि क्षमः॥ १७/९८॥
वरो हि कृष्णमर्दने वृतोऽस्य केवलः शिवात्। तदन्यशत्रुपीडनात् त्वमेव चास्य रक्षकः॥ १७/९९॥
तवाखिलैरजेयता शिवप्रसादतोऽस्ति हि। विशेषतो हरेर्जये वरादयं विमृग्यते॥ १७/१००॥
इतीरितेऽप्यतृप्तवत् स्थिते तु बारुहद्रथे। जगाम सौभमास्थितः स सौभराट् च यावनम्॥ १७/१०१॥
स कालयावनोऽथ तं जरासुतान्तिकागतम्। निशम्य भक्तिपूर्वकं प्रणम्य चार्चयद् द्रुतम्॥ १७/१०२॥
जरासुतो हि दैवतं समस्तकेशवद्विषाम्। इति प्रणम्य तां दिशं तदीयमाश्‍वपूजयत्॥ १७/१०३॥
तदीरितं निशम्य च द्रुतं त्रिकोटिसङ्ख्यया। अक्षौहिणीकया युतः स्वसेनया निराक्रमत्॥ १७/१०४॥
तदश्‍वमूत्रविष्ठया बभूव नामतः शकृत्। नदी सुवेगगामिनी कलौ च या वहेद् द्रुतम्॥ १७/१०५॥
पुनःपुनर्नदीभवं निशाम्य देशसङ्क्षयम्। तदन्यदेशमूत्रितं व्यशोषयद्धि मारुतः॥ १७/१०६॥
हरिश्‍च वैनतेययुग् विचार्य रामसंयुतः। सदाऽतिपूर्णसंविदप्यजोऽथ लीलयाऽस्मरत्॥ १७/१०७॥
युयुत्सुरेष यावनः समीपमागतोऽद्य नः। युयुत्सतामनेन नो जरासुतोऽभियास्यति॥ १७/१०८॥
स यादवान् हनिष्यति प्रभङ्गतस्तु कोपतः। पुरा जयाशया हि नो यदून् न जघ्निवानसौ॥ १७/१०९॥
निराशकोऽद्य यादवनपि स्म पीडयिष्यति। अतः समुद्रमध्यगापुरीविधानमद्य मे॥ १७/११०॥
प्ररोचते निधानमप्यमुत्र सर्वसात्त्वताम्। उदीर्य चैवमीश्‍वरोऽस्मरत् सुरेशवार्धकिम्॥ १७/१११॥
स भौवनः समागतः कुशस्थलीं विनिर्ममे। निरम्बुके तु सागरे जनार्दनाज्ञया कृते॥ १७/११२॥
महोदकस्य मध्यतश्‍चकार तां पुरीं शुभाम्। द्विषट्कयोजनायतां पयोब्धिमध्यगोपमाम्॥ १७/११३॥
चकार लावणोदकं जनार्दनोऽमृतोपमम्। सभां सुधर्मनामिकां ददौ समीरणोऽस्य च॥ १७/११४॥
शतक्रतोः सभां तु तां प्रदाय केशवाय सः। निधीन् समर्प्य सर्वशो ययौ प्रणम्य तं प्रभुम्॥ १७/११५॥
समस्तदेवतागणाः स्वकीर्यमर्पयन् हरौ। विमुच्य पक्षिपुङ्गवं स योद्धुमैच्छदच्युतः॥ १७/११६॥
समस्तमाधुरान् प्रभुः कुशस्थलीस्थितान् क्षणात्। विधाय बाहुयोधकः स यावनं समभ्ययात्॥ १७/११७॥
अनन्तशक्तिरप्यजः सुनीतिदृष्टये नृणाम्। व्यवासयन्निजाञ्जनान् स लीलयैव केवलम्॥ १७/११८॥
अनाद्यनन्तकालकं समस्तलोकमण्डलम्। यदीक्षयैव रक्ष्यते किमस्य वृष्णिरक्षणम्॥ १७/११९॥
निरायुधं च मामयं वराच्छिवस्य न क्षमः। समस्तसेनया युतोऽपि योद्धुमित्यदर्शयत्॥ १७/११९॥
स कृष्णपन्नगं घटे निधाय केशवोऽर्पयत्। निरायुधोऽप्यहं क्षमो निहन्तुमप्रियानिति॥ १७/१२०॥
घटं पिपीलिकागणैः प्रपूर्य यावनोऽस्य च। बहुत्वतो विजेष्य इत्यहिं मृतं व्यदर्शयत्॥ १७/१२१॥
किमत्र सत्यमित्यहं प्रदर्शयिष्य इत्यजः। उदीर्य दूतमभ्ययात् स यावनं प्रबाधितुम्॥ १७/१२२॥
स बाहुनैव केशवो विजित्य यावनं प्रभुः। निहत्य सर्वसैनिकान् स्वमस्य यापयत् पुरीम्॥ १७/१२३॥
महास्त्रशस्त्रसञ्चयान् सृजन्तमाशु यावनम्। न्यपातयद् रथोत्तमात् तलेन केशवोऽरिहा॥ १७/१२४॥
विवाहनं निरायुधं विधाय बाहुना क्षणात्। विमूर्च्छितं नचाहनत् सुरार्थितं स्मरन् हरिः॥ १७/१२५॥
पुरा हि यौवनाश्‍वजे वरप्रदाः सुरेश्‍वराः। ययाचिरे जनार्दनं वरं वरप्रदेश्‍वरम्॥ १७/१२६॥
अनर्थको वरोऽमुना वृतोऽपि सार्थको भवेत्। अरिं भविष्ययावनं दहत्वयं तवेश्‍वर॥ १७/१२७॥
तथाऽस्त्विति प्रभाषितं स्ववाक्यमेव केशवः। ऋतं विधातुमभ्ययात् स यौवनाश्‍वजान्तिकम्॥ १७/१२८॥
ससञ्ज्ञकोऽथ यावनो धरातलात् समुत्थितः। निपात्य यान्तमीश्‍वरं स पृष्ठतोऽन्वयात् क्रुधा॥ १७/१२९॥
हरिर्गुहां नृपस्य तु प्रविश्य संव्यवस्थितः। स यावनः पदाऽहनन्नृपं स तं ददर्श ह॥ १७/१३०॥
स तस्य दृष्टिमात्रतो बभूव भस्मसात् क्षणात्। स एव विष्णुरव्ययो ददाह तं हि वह्निवत्॥ १७/१३१॥
वराच्छिवस्य दैवतैरवध्यदानवान् पुरा। हरेर्वरान्निहत्य स प्रपेद आश्‍विमं वरम्॥ १७/१३२॥
सुदीर्घसुप्तिमात्मनः प्रसुप्तिभङ्गकृत्क्षयम्। स्वदृष्टिमात्रतस्ततो हतः स यावनस्तदा॥ १७/१३३॥
अतश्‍च पुण्यमाप्तवान् सुरप्रसादतोऽक्षयम्। स यौवनाश्‍वजो नृपो न देवतोषणं वृथा॥ १७/१३४॥
ततो हरिं निरीक्ष्य स स्तुतिं विधाय चोत्तमम्। हरेरनुज्ञया तपश्‍चकार मुक्तिमाप च॥ १७/१३५॥
ततो गुहामुखाद्धरिर्विनिःसृतो जरासुतम्। समस्तभूपसंयुतं जिगाय बाहुनेश्‍वरः॥ १७/१३६॥
तलेन मुष्टिभिस्तथा महीरुहैश्‍च चूर्णिताः। निपेतुरस्य सैनिकाः स्वयं च मूर्च्छितोऽपतत्॥ १७/१३७॥
ससाल्वपौण्ड्रचेदिपान् निपात्य सर्वभूभुजः। स पुप्लुवे जनार्दनः क्षणेन तां कुशस्थलीम्॥ १७/१३८॥
ससञ्ज्ञकाः समुत्थितास्ततो नृपाः पुनर्ययुः। जिगीषवोऽथ रुक्मिणीं विधाय चेदिपे हरिम्॥ १७/१३९॥
समस्तराजमण्डले विनिश्‍चयादुपागते। सभीष्मके च रुक्मिणीं प्रदातुमुद्यते मुदा॥ १७/१४०॥
समस्तलोकयोषितां वरा विदर्भनन्दना। द्विजोत्तमं हरेः पदोः सकाशमाश्‍वयापयत्॥ १७/१४१॥
निशम्य तद्वचो हरिः क्षणाद् विदर्भकानगात्। तमन्वयाद्धलायुधः समस्तयादवैः सह॥ १७/१४२॥
समस्तराजमण्डलं प्रयान्तमीक्ष्य केशवम्। सुयत्तमात्तकार्मुकं बभूव कन्यकावने॥ १७/१४३॥
पुरा प्रदानतः सुरेक्षणच्छलाद् बहिर्गताम्। रथे न्यवेशयद्धरिः प्रपश्यतां च भूभृताम्॥ १७/१४४॥
जरासुतादयो रुषा तमभ्ययुः शरोत्तमैः। विधाय तान् निरायुधान् जगाम केशवः शनैः॥ १७/१४५॥
पुनर्गृहीतकार्मुकान् हरिं प्रयातुमुद्यतान्। न्यवारयद्धलायुधो बलाद् बलोर्जिताग्रणीः॥ १७/१४६॥
तदा सितः शिरोरुहो हरेर्हलायुधे स्थितः। प्रकाशमादिशद् बलं विजेतुमत्र मागधम्॥ १७/१४७॥
स तस्य मागधो रणे गदाप्रहारचूर्णितः। पपात भूतले बलो विजित्य तं ययौ पुरीम्॥ १७/१४८॥
वरोरुवेषसंयुतोऽथ चेदिराट् समभ्ययात्। तमाससाद सात्यकिर्नदन् मृगाधिपो यथा॥ १७/१४९॥
चिरं प्रयुद्ध्य तावुभौ वरास्त्रशस्त्रवर्षिणौ। क्रुधा निरीक्ष्य तस्थतुः परस्परं स्फुरत्तनू॥ १७/१५०॥
समानभावमक्षमी शिनेः सुतात्मजः शरम्। अथोद्बबर्ह तं शरं बलान्मुमोच वक्षसि॥ १७/१५१॥
स तेन ताडितोऽपतद् विसञ्ज्ञको नृपात्मजः। विजित्य तं स सात्यकिर्ययौ प्रहृष्टमानसः॥ १७/१५२॥
अथापरे च यादवा विजित्य तद्बलं ययुः। पुरैव रुक्मिपूर्वकाः प्रजग्मुरच्युतं प्रति॥ १७/१५३॥
सहैकलव्यपूर्वकैः समेत्य भीष्मकात्मजः। हरिं ववर्ष सायकैः स सिंहवन्न्यवर्तत॥ १७/१५४॥
अक्षौहिणीत्रयं हरिस्तदा निहत्य सायकैः। अवाहनायुधं व्यधान्निषादपं शरैः क्षणात्॥ १७/१५५॥
शरं शरीरनाशकं समाददानमीश्‍वरम्। स एकलव्य आशु तं विहाय दुद्रुवे भयात्॥ १७/१५६॥
धनुर्भृतां वरे गते रणं विहाय भूभृतः। करूशराजपूर्वकाः क्षणात् प्रदुद्रुवुर्भयात्॥ १७/१५७॥
अथाससाद केशवं रुषा स भीष्मकात्मजः। शराम्बुधार आशु तं विवाहनं व्यधाद्धरिः॥ १७/१५८॥
चकर्त कार्मुकं पुनः स खड्गचर्मभृद्धरेः। रथं समारुहच्छरैश्‍चकर्त खड्गमीश्‍वरः॥ १७/१५९॥
शरैर्वितस्तिमात्रकैर्विधाय तं निरायुधम्। प्रियावचः प्रपालयन् जघान नैनमीश्वरः॥ १७/१६०॥
निबद्ध्य पञ्चचूडिनं विधाय तं व्यसर्जयत्। जगज्जनित्रयोरिदं विडम्बनं रमेशयोः॥ १७/१६१॥
सदैकमानसावपि स्वधर्मशासकौ नृणाम्। रमा हरिश्‍च तत्र तौ विजह्रतुश्च रुक्मिणा॥ १७/१६२॥
अथाससाद सौभराड् हरिं शराम्बुवर्षणः। हरिः शरं यमोपमं मुमोच तस्य वक्षसि॥ १७/१६३॥
शरेण तेन पीडितः पपात मन्दचेष्टितः। चिरात् ससञ्ज्ञकोऽगमत् त्रिनेत्रतोषणेच्छया॥ १७/१६४॥
समस्तराजसन्निधावयादवीं महीमिमाम्। करिष्य इत्युदीर्य स व्यधात् तपोऽतिदुश्‍चरम्॥ १७/१६५॥
अथो विवेश केशवः पुरीं कुशस्थलीं प्रभुः। प्रियायुतोऽब्जजादिभिः समीडितः सुरेश्‍वरैः॥ १७/१६६॥
पुरा ततो हलायुधः प्रियां निजां पुराऽपि हि। स वारुणीसमाह्वयामवाप रेवतीं प्रभुः॥ १७/१६७॥
पतिं यथाऽनुरूपिणं तदीयमेव पूर्वकम्। पिता तदीय ऐच्छत प्रवेत्तुमब्जसम्भवात्॥ १७/१६८॥
स तत्सदो गतो वरात् तदीयतः प्रगीतिकाम्। निशम्य नाविदद् गतं युगोरुकालपर्ययम्॥ १७/१६९॥
नरानयोग्यगीतिका विमोहयेत् ततो नृपः। स मूढबुद्धिरन्ततोऽल्पकाल इत्यमन्यत॥ १७/१७०॥
स मूर्च्छितः प्रबोधितोऽब्जजेन तं त्वपृच्छत। सुतापतिं बलं च सोऽब्रवीद् युगात्यये बहौ॥ १७/१७१॥
स रैवतो बलाय तां प्रदाय गन्धमादनम्। गतोऽत्र चीर्णसत्तपा अवाप केशवान्तिकम्॥ १७/१७२॥
बलोऽपि तां पुरातनप्रमाणसम्मितां प्रभुः। हलेन चात्मना समां चकार सत्यवाञ्छितः॥ १७/१७३॥
तया रतः सुतावुभौ शठोल्मुकाभिधावधात्। पुराऽर्यमांशकौ सुरावुदारचेष्टितो बलः॥ १७/१७४॥
जनार्दनश्‍च रुक्मिणीकरं शुभे दिनेऽग्रहीत्। महोत्सवस्तदाऽभवत् कुशस्थलीनिवासिनाम्॥ १७/१७५॥
चतुर्मुखेशपूर्वकाः सुरा वियत्यवस्थिताः। प्रतुष्टुवुर्जनार्दनं रमासमेतमव्ययम्॥ १७/१७६॥
मुनीन्द्रदेवगायकादयोऽपि यादवैः सह। विचेरुरुत्तमोत्सवे रमारमेशयोगिनि॥ १७/१७७॥
सुरांशकाश्‍च ये नृपाः समाहुता महोत्सवे। सपाण्डवाः समाययुर्हरिं रमासमायुतम्॥ १७/१७८॥
समस्तलोकसुन्दरौ युतौ रमारमेश्‍वरौ। समीक्ष्य मोदमाययुः समस्तलोकसज्जनाः॥ १७/१७९॥
तया रमन् जनार्दनो वियोगशून्यया सदा। अधत्त पुत्रमुत्तमं मनोभवं पुरातनम्॥ १७/१८०॥
चतुस्तनोर्हरेः प्रभोस्तृतीयरूपसंयुतः। ततस्तदाह्वयोऽभवत् स रुक्मिणीसुतो बली॥ १७/१८१॥
पुरैव मृत्यवेऽवदत् तमेव शम्बरस्य ह। प्रजातमब्जजाङ्कजस्तवान्तकोऽयमित्यपि॥ १७/१८२॥
स मायया हरेः सुतं प्रगृह्य सूतिकागृहात्। अवाक्षिपन्महोदधावुपेक्षितोऽरिपाणिना॥ १७/१८३॥
तमग्रसज्जलेचरः स दाशहस्तमागतः। कुमारमस्य तूदरे निरीक्ष्य शम्बरे ददुः॥ १७/१८४॥
विपाट्य मत्स्यकोदरं स शम्बरः कुमारकम्। न्यवेदयन्मनोभवप्रियाकरे सुरूपिणम्॥ १७/१८५॥
अनङ्गतामुपागते पुरा हरेण साऽङ्गजे। वशं विरिञ्चशापतो जगाम शम्बरस्य हि॥ १७/१८६॥
पुरा हि पञ्चभर्तृकां निशम्य कञ्जजोदिताम्। जहास पार्षतात्मजां शशाप तां ततस्त्वजः॥ १७/१८७॥
भवासुरेण दूषितेति सा ततो हि मायया। पिधाय तां निजां तनुं जगाम चान्ययाऽसुरम्॥ १७/१८८॥
गृहेऽपि साऽसुरे स्थिता निजस्वरूपतोऽसुरम्। न गच्छति स्म सा पतिं निजं समीक्ष्य हर्षिता॥ १७/१८९॥
रसायनैः कुमारकं व्यवर्धयद् रतिः पतिम्। सुपूर्णयौवनोऽभवच्चतुर्भिरेव वत्सरैः॥ १७/१९०॥
पतिं सुपूर्णयौवनं निरीक्ष्य तां विषज्जतीम्। उवाच कार्ष्णिरम्ब ते कुचेष्टितं कथं न्विति॥ १७/१९१॥
जगाद साऽखिलं पतौ तदस्य जन्म चागतिम्। ततोऽग्रहीत् स तां प्रियां रतिं रमापतेः सुतः॥ १७/१९२॥
ददौ च मन्त्रमुत्तमं समस्तमायिनाशकम्। भृगूत्थरामदैवतं रतिर्हरेः सुताय सा॥ १७/१९३॥
ततः स्वदारधर्षकं समाह्वयद् युधेऽङ्गजः। स शम्बरं समेत्य तं युयोध शक्तितो बली॥ १७/१९४॥
स खड्गचर्मधारिणं वरास्त्रशस्त्रपादपैः। यदा न योद्धुमाशकद्धरेः सुतं न दृश्यते॥ १७/१९५॥
सहस्रमायमुल्बणं त्वदृश्यमम्बराद् गिरीन्। सृजन्तमेत्य विद्यया जघान कृष्णनन्दनः॥ १७/१९६॥
स विद्यया विनाशितोरुमाय आशु शम्बरः। निकृत्तकन्धरोऽपतद् वरासिनाऽमुना क्षणात्॥ १७/१९७॥
निहत्य तं हरेः सुतस्तयैव विद्ययाऽम्बरम्। समास्थितः स्वभार्यया समं कुशस्थलीं ययौ॥ १७/१९८॥
समस्तवेदिनोर्मुनिर्नरान् विडम्बमानयोः। रमारमेशयोः सुतं जगाद तं स्म नारदः॥ १७/१९९॥
स रुक्मिणीजनार्दनादिभिः सरामयादवैः। पितामहेन चादरात् सुलालितोऽवसत् सुखम्॥ १७/२००॥
ततः पुरा स्यमन्तकं ह्यवाप सूर्यमण्डले। स्थिताद्धरेः स सत्रजित् सदाऽत्र केशवार्चकः॥ १७/२०१॥
सदाऽस्य विष्णुभाविनोऽप्यतीव लोभमान्तरम्। प्रकाशयन् रमापतिर्ययाच ईश्‍वरो मणिम्॥ १७/२०२॥
स तं न दत्तवांस्ततोऽनुजो निबद्ध्य तं मणिम्। वनं गतः प्रसेनको मृगाधिपेन पातितः॥ १७/२०३॥
तदा स सत्रजिद्धरिं शशंस सोदरान्तकम्। उपांशु वर्त्मना ततो हरिः सयादवो ययौ॥ १७/२०४॥
वने स सिंहसूदितं पदैः प्रदर्श्य वृष्णिनाम्। प्रसेनमृक्षपातितं स सिंहमप्यदर्शयत्॥ १७/२०५॥
ततो निधाय तान् बलं स जाम्बवत्परिग्रहम्। विवेश तत्र संयुगं बभूव तेन चेशितुः॥ १७/२०६॥
युयोध मन्दमेव स प्रभुः स्वभक्त इत्यजः। चकार चोग्रमन्ततः प्रकाशयन् स्वमस्य हि॥ १७/२०७॥
स मुष्टिपिष्टविग्रहो नितान्तमापदं गतः। जगाम चेतसाऽरणं रघूत्तमं निजं पतिं॥ १७/२०८॥
स्मृतिं गते तु राघवे तदाकृतिं यदूत्तमे। समस्तभेदवर्जितां समीक्ष्य सोऽयमित्यवैत्॥ १७/२०९॥
ततः क्षमापयन् सुतां प्रदाय रोहिणीं शुभाम्। मणिं च तं नुनाव स प्रपन्न आशु पादयोः॥ १७/२१०॥
विधाय चक्रदारितं सुजीर्णदेहमस्य सः। युवानमाशु केशवश्‍चकार वेदनां विना॥ १७/२११॥
विधाय भक्तवाञ्छितं प्रियासहाय ईश्‍वरः। प्रगृह्य तं महामणिं विनिर्ययौ गुहामुखात्॥ १७/२१२॥
गुहां प्रविष्टमीश्‍वरं बहून्यहान्यनिर्गतम्। प्रतीक्ष्य यादवास्तु ये गतास्तदा तु जहृषुः॥ १७/२१३॥
समस्तवृष्णिसन्निधौ यदूत्तमः स्यमन्तकम्। ददौ च सत्रजित्करे स विच्छविर्बभूव ह॥ १७/२१४॥
स दुर्यशो रमापतावनूच्य मिथ्यया तपन्। स्वपापहानिकाङ्क्षया ददौ सुतां जनार्दने॥ १७/२१५॥
मणिं च तं प्रदाय तं ननाम ह क्षमापयन्। मणिं पुनर्ददौ हरिर्मुमोद सत्यभामया॥ १७/२१६॥
रमैव सा हि भूरिति द्वितीयमूर्तिरुत्तमा। बभूव सत्रजित्सुता समस्तलोकसुन्दरी॥ १७/२१७॥
ततो हि सा च रुक्मिणी प्रिये प्रियासु तेऽधिकम्। जनार्दनस्य ते हरेः सदाऽवियोगिनी यतः॥ १७/२१८॥
अवाप साम्बनामकं सुतं च रोहिणी हरेः। चतुर्मुखांशसंयुतं कुमारमेव षण्मुखम्॥ १७/२१९॥
इति प्रशासति प्रभौ जगज्जनार्दनेऽखिलम्। अगण्यसद्गुणार्णवे कदाचिदाययौ द्विजः॥ १७/२२०॥
जनार्दनः स नामतो रमेशपादसंश्रयः। स मानितश्‍च विष्णुना प्रणम्य वाक्यमब्रवीत्॥ १७/२२१॥
क्षमस्व मे वचः प्रभो ब्रवीम्यतीव पातकम्। यतः सुपापदूतकस्ततो हि तादृशं वचः॥ १७/२२२॥
न तेऽस्त्यगोचरं क्वचित्‌ तथाऽपिचाज्ञया वदे। वदेति चोदितोऽमुना द्विजो जगाद माधवम्॥ १७/२२३॥
सुतौ हि साल्वभूपतेर्बभूवतुः शिवाश्रयौ। शिवप्रसादसम्भवौ पितुस्तपोबलेन तौ॥ १७/२२४॥
अजेयतामवध्यतां शिवाद् वरं समापतुः। जरासुतस्य शिष्यकौ तपोबलेन केवलम्॥ १७/२२५॥
महोदरं च कुण्डधारिणं च भूतकावुभौ। तथाऽजिताववध्यकौ दिदेश शङ्करस्तयोः॥ १७/२२६॥
तयोः सहाय एव तौ वराच्छिवस्य भूतकौ। अजेयतामवापतुर्नचान्यथाऽमरावपि॥ १७/२२७॥
अजेयतामवध्यतामवाप्य तावुभौ शिवात्। पितुस्तु राजसूयितां समिच्छतो मदोद्धतौ॥ १७/२२८॥
जरासुतो गुरुत्वतो विरोद्धुमत्र नेच्छति। नृपांस्तु देवपक्षिणो विजित्य कर्तुमिच्छतः॥ १७/२२९॥
स्वयं हि राजसूयितां जरासुतो न मन्यते। यतो हि वैष्णवं क्रतुं तमाहुरीश वैदिकाः॥ १७/२३०॥
इमौ पितुर्यशोऽर्थिनौ पराभवाय ते तथा। समिच्छतोऽच्युत क्रतुं भवन्तमूचतुश्‍च तौ॥ १७/२३१॥
समुद्रसंश्रयो भवान् बहून् प्रगृह्य लावणान्। सुभारकानुपैहि नाविति क्षमस्व मे वचः॥ १७/२३२॥
उदीर्य तं ननाम स प्र चाहसन् स्म यादवाः। हरिस्तु सात्यकिं वचो जगाद मेघनिस्वनः॥ १७/२३३॥
प्रयाहि सात्यके वचो ब्रवीहि मे नृपाधमौ। समेत्य वां वरायुधैः करं ददान्यसंशयम्॥ १७/२३४॥
उपैतमाशु संयुगार्थिनौ च पुष्करं प्रति। इतीरितः शिनेः सुतो जगाम विप्रसंयुतः॥ १७/२३५॥
उपेत्य तौ हरेर्वचो जगाद सात्यकिर्बली। विधाय तौ तृणोपमौ गिरा जगाम केशवम्॥ १७/२३६॥
ततः पुरैव तावुभौ द्विजं हरस्वरूपिणम्। सुदुःखवासनामकं प्रचक्रतुस्तृणोपमम्॥ १७/२३७॥
दशत्रिकैः शतैर्वृतो यतीश्‍वरैः स सर्ववित्। विपाटितात्मकौपिनादिसर्वमात्रकोऽभवत्॥ १७/२३८॥
वरात् स्वसम्भवादसौ न शापशक्तिमानभूत्। ततः समस्तभञ्जनोरुशक्तिमाप केशवम्॥ १७/२३९॥
स तान् समर्च्य माधवः प्रदाय चोरुमात्रकाः। ययौ च तैः समन्वितो वधाय साल्वपुत्रयोः॥ १७/२४०॥
तमत्रिजं हरात्मकं यतो हि वेद मागधः। ततोऽत्यजत् स्वशिष्यकौ निशम्य तत्प्रतीपकौ॥ १७/२४१॥
हरौ तु पुष्करं गते मुनीश्‍वरैः समन्विते। समीयतुश्‍च तावुभावथात्र हंसडीभिकौ॥ १७/२४२॥
स ब्रह्मदत्तनामकोऽत्र तत्पिताऽप्युपाययौ। समागतौ च भूतकौ शिवस्य यौ पुरःसरौ॥ १७/२४३॥
विचक्रनामकोऽसुरः पुरा विरिञ्चतो वरम्। अवध्यतामजेयतामवाप्य बाधते सुरान्॥ १७/२४४॥
स चाभवत् तयोः सखा सहायकाम्ययाऽगमत्। हिडिम्बराक्षसोऽपि यः पुराऽऽप शङ्कराद् वरम्॥ १७/२४५॥
न जीयसे न वध्यसे कुतश्‍चनेति तोषितात्। स चैतयोः सखाऽभवत् समाजगाम तत्र च॥ १७/२४६॥
अक्षौहिणीदशात्मकं बलं तयोर्बभूव ह। विचक्रगं षडात्मकं तथैकमेव राक्षसम्॥ १७/२४७॥
द्विरष्टसेनया युतौ सहैकयैव तौ नृपौ। समीयतुर्युधे हरिं हरिश्‍च तौ ससार ह॥ १७/२४८॥
अथ द्वयोर्द्वयोरभूद् रणो भयानको महान्। हरिर्विचक्रमेयिवान् बलश्‍च हंसमुद्धतम्॥ १७/२४९॥
तदाऽस्य चानुजं ययौ शिनिप्रवीर आयुधी। गदश्‍च नामतोऽनुजो हरेः स रोहिणीसुतः॥ १७/२५०॥
पुरा स चण्डको गणो हरेर्निवेदिताशनः। समाह्वयद् रणाय वै तयोः स तातमेव हि॥ १७/२५१॥
अक्षौहिणीत्रयान्विताः समस्तयादवास्तदा। त्रिलोचनानुगौ च तौ न्यवारयन् सराक्षसौ॥ १७/२५२॥
हरिर्विचक्रमोजसा महास्त्रशस्त्रवर्षिणम्। विवाहनं निरायुधं क्षणाच्चकार सायकैः॥ १७/२५३॥
पुनश्‍च पादपान् गिरीन् प्रमुञ्चतोऽरिणाऽरिहा। शिरो जहार देवता विनेदुरत्र हर्षिताः॥ १७/२५४॥
प्रसूनवर्षिभिः स्तुतश्‍चतुर्मुखादिभिः प्रभुः। ससार तौ हरानुगौ प्रभक्षकौ स सात्त्वताम्॥ १७/२५५॥
समस्तयादवान् रणे विधूय तौ जनार्दनम्। उपेत्य चांसगौ हरेरदंशतां सुकर्णकौ॥ १७/२५६॥
स तौ भुजप्रवेगतो विधूय शङ्करालये। न्यपातयद् बलार्णवोऽमितस्य किं तदुच्यते॥ १७/२५७॥
प्रभक्षयन्तमोजसा हिडिम्बमुद्धतं बलम्। सहोग्रसेनको ययौ पिता हरेः शरान् क्षिपन्॥ १७/२५८॥
तयो रथौ सहायुधौ प्रभक्ष्य राक्षसो बली। प्रगृह्य तावभाषत प्रयातमाशु मे मुखम्॥ १७/२५९॥
तदा गदावरायुधः सहैव हंसभूभृता। प्रयुद्ध्यमान आययौ विहाय तं हलायुधः॥ १७/२६०॥
तमागतं समीक्ष्य तौ विहाय राक्षसाधिपः। उपेत्य मुष्टिनाऽहनद् बलं स वक्षसि क्रुधा॥ १७/२६१॥
उभौ हि बाहुशालिनावयुद्ध्यतां च मुष्टिभिः। चिरं प्रयुद्ध्य तं बलोऽग्रहीत् स जङ्घयोर्विभुः॥ १७/२६२॥
अथैनमुद्धतं बलाद् बलः स दूर आक्षिपत्। पपात पादयोजने स नाजगाम तं पुनः॥ १७/२६३॥
विहाय सैनिकांश्‍च तौ नृपौ ययौ वनाय सः। निहत्य तस्य राक्षसान् हलायुधो ननाद ह॥ १७/२६४॥
गदस्तु साल्वभूभृता वयोगतेन योधयन्। विवाहनं निरायुधं चकार सोऽप्यपाद्रवत्॥ १७/२६५॥
सुतेन तस्य कन्यसा युयोध सात्यकी रथी। वरास्त्रशस्त्रयोधिनौ विजह्रतुश्‍च तावुभौ॥ १७/२६६॥
चिरं प्रयुद्ध्य सात्यकिः स हंसकन्यसा बली। शतं सपञ्चकं रणे चकर्त तस्य धन्विनाम्॥ १७/२६७॥
स खड्गचर्मभृद् रणेऽभ्ययात् सुतात्मजं शिनेः। स चैनमभ्ययात् तथा वरासिचर्मभृद् विभीः॥ १७/२६८॥
द्विषोडशप्रभेदकं वरासियुद्धमश्रमौ। प्रदर्श्य निर्विशेषकावुभौ व्यवस्थितौ चिरम्॥ १७/२६९॥
परस्परान्तरैषिणौ नचान्तरं व्यपश्यताम्। ततो विहाय सङ्गरं गतौ निरर्थकं त्विति॥ १७/२७०॥
ततः स हंससंयुतो जगाम योद्धुमच्युतम्। क्षणेन तौ निरायुधौ चकार केशवः शरैः॥ १७/२७१॥
हतं च सैन्यमेतयोश्‍चतुर्थभागशेषितम्। क्षणेन केशवेन तद्भयादपेयतुश्‍च तौ॥ १७/२७२॥
स पुष्करेक्षणस्तदा सुरैर्नुतोऽथ पुष्करे। उवास तां निशां प्रभुः सयादवोऽमितप्रभः॥ १७/२७३॥
परे दिने जनार्दनो नृपत्मजौ प्रविद्रुतौ। यमस्वसुस्तटे प्रभुः समाससाद पृष्ठतः॥ १७/२७४॥
स रौहिणेयसंयुतः समन्वितश्‍च सेनया। स्वशिष्टसेनया वृतौ पलायिनाववारयत्॥ १७/२७५॥
निवृत्य तौ स्वसेनया शरोत्तमैर्ववर्षतुः। सुकोपितौ समस्तशो यदूनवार्यपौरुषौ॥ १७/२७६॥
अथाससाद हंसको हलायुधं महाधनुः। अनन्तरोऽस्य सात्यकिं गदं च सर्वसैनिकान्॥ १७/२७७॥
स सात्यकिं निरायुधं विवाहनं विवर्मकम्। व्यधाद् गदं च तौ रणं विहाय हापजग्मतुः॥ १७/२७८॥
विधूय सैनिकांश्‍च स प्रगृह्य चापमाततम्। हरिं जगाम चोन्नदन् महास्त्रशस्त्रवर्षणः॥ १७/२७९॥
तमाशु केशवोऽरिहा समस्तसाधनोज्झितम्। क्षणाच्चकार सोऽप्यगाद् विसृज्य तं हलायुधम्॥ १७/२८०॥
हलायुधो निरायुधं विधाय हंसमोजसा। विकृष्टचाप आगतं ददर्श तस्य चानुजम्॥ १७/२८१॥
स हंस आशु कार्मुकं पुनः प्रगृह्य तं बलम्। यदाऽऽससाद केशवो न्यवारयत् तमोजसा॥ १७/२८२॥
शिनेः सुतात्मजोऽप्यसौ विहाय हंसकानुजम्। रथान्तरं समास्थितो जगाम तातमस्य च॥ १७/२८३॥
वयोगतः पिता तयोर्युयोध तेन वृष्णिना। शरं च कण्ठकूबरे व्यसर्जयत् स सात्यकेः॥ १७/२८४॥
स सात्यकिर्दृढाहतो जगाम मोहमाशु च। सुलब्धसञ्ज्ञ उत्थितः समाददेऽर्धचन्द्रकम्॥ १७/२८५॥
स तेन तच्छिरो बली चकर्त शुक्लमूर्धजम्। यदम्बयाऽभिकामितं पुरा पपात तत् क्षितौ॥ १७/२८६॥
नदंश्‍च सात्यकिर्हरेर्जगाम पार्श्‍वमुद्धतः। बलोऽपि हंसकानुजं युयोध सेनया युतम्॥ १७/२८७॥
हरिस्तु हंसमुल्बणैः शरैः समर्दयन् बलम्। जघान तस्य सर्वशो न कश्‍चिदत्र शेषितः॥ १७/२८८॥
स एक एव केशवं महास्त्रमुक् ससार ह। निवार्य तानि सर्वशो हरिनिर्जास्त्रमाददे॥ १७/२८९॥
स वैष्णवास्त्रमुद्यतं निरीक्ष्य यानतो महीम्। गतः पराद्रवद् भयात् पपात यामुनोदके॥ १७/२९०॥
वरास्त्रपाणिरीश्‍वरः पदाऽहनच्छिरस्यमुम्। स मूर्च्छितो मुखेऽपतन्महाभुजङ्गमस्य हि॥ १७/२९१॥
स धार्तराष्ट्रकोदरे यथा तमोऽन्धमेयिवान्। तथा सुदुःखसंयुतो वसन् मनोः परं म्रियेत्॥ १७/ २९२॥
ततोऽन्धमेव तत् तमो हरेर्द्विडेति निश्‍चयात्। तदाऽस्य चानुजोऽग्रजं विमार्गयन् जलेऽपतत्॥ १७/२९३॥
विहाय रोहिणीसुतं जले निमज्ज्य मार्गयन्। अपश्यमान आत्मनो व्यपाटयच्च काकुदम्॥ १७/२९४॥
विहाय देहमुल्बणं तमोऽवतीर्य चाग्रजम्। प्रतीक्षमाण उल्बणं समत्ति तत् सुखेतरम्॥ १७/२९५॥
ततो हरिर्बलैर्युतो बलान्वितो मुनीश्‍वरैः। समं कुशस्थलीं ययौ स्तुतः कशङ्करादिभिः॥ १७/२९६॥
स्वकीयपादपल्लवाश्रयं जनं प्रहर्षयन्। उवास नित्यसत्सुखार्णवो रमापतिर्गृहे॥ १७/२९७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये सप्तदशोऽध्यायः समाप्तः॥
अष्टादशोऽध्यायः
यदा रामादवाप्तानि दिव्यास्त्राणि प्रपेदिरे। द्रोणात् कुमारास्तेष्वासीत् सर्वेष्वप्यधिकोऽर्जुनः॥ १८/१॥
निजप्रतिभया जानन् सर्वास्त्राणि ततोऽधिकम्। नास्त्रयुद्धं क्वचिद् भीमो मन्यते धर्ममञ्जसा॥ १८/२॥
नहि भागवतो धर्मो देवताभ्युपयाचनम्। ज्ञानभक्ती हरेस्तृप्तिं विना विष्णोरपि क्वचित्॥ १८/३॥
नाकाङ्क्ष्यं किमुतान्येभ्यो ह्यस्त्रं काम्यफलप्रदम्। शुद्धे भागवते धर्मे निरतो यद् वृकोदरः॥ १८/४॥
न काम्यकर्मकृत् तस्मान्नायाचद् देवमानुषान्। हरिश्‍च नार्थितस्तेन कदाचित् कामलिप्सया॥ १८/५॥
भिक्षामटंश्‍च हुङ्कारात् करवद् वैश्यतोऽग्रहीत्। नान्यदेवा नतास्तेन वासुदेवान्न पूजिताः॥ १८/६॥
न प्रतीपं हरेः क्वापि स करोति कथञ्चन। अनुपस्कारिणो युद्धे नाभियाति ह्युपस्करी। नापयाति युधः क्वापि न क्वचिच्छद्म चाचरेत्॥ १८/७॥
नैवोर्ध्वदैहिकानुज्ञामवैष्ण्वकृतेऽकरोत्। न करोति स्वयं नैषां प्रियमप्याचरेत् क्वचित्॥ १८/८॥
सख्यं नावैष्णवैश्‍चक्रे प्रतीपं वैष्णवे नच। परोक्षेऽपि हरेर्निन्दां कृतो जिह्वां छिनत्ति च॥ १८/९॥
प्रतीपकारिणो हन्ति विष्णोर्वैतानजीघनत्। न संशयं कदाऽप्येष धर्मे ज्ञानेऽपि वाऽकरोत्॥ १८/१०॥
विद्योपजीवनं नैव चकारापद्यपि क्वचित्। अतो न धर्मनहुषौ प्रत्युवाच कथञ्चन॥ १८/११॥
आज्ञयैव हरेर्द्रौणेरस्त्राण्यस्त्रैरशामयत्। अदृश्योऽलम्बुसो भग्नो नान्यत्र तु कथञ्चन॥ १८/१२॥
नह्यस्त्रयुद्धे सदृशो द्रौणेरस्त्यर्जुनादृते। सर्ववित्त्वं ततो भीमे प्रदर्शयितुमीश्‍वरः। अदादाज्ञामस्त्रयुद्धे तथैवालम्बुसं प्रति॥ १८/१३॥
प्रत्यक्षीभूतदेवेषु बन्धुज्येष्ठेषु वा नतिम्। मर्यादास्थितयेऽशासद् भगवान् पुरुषोत्तमः॥ १८/१४॥
तत्रापि विष्णुमेवासौ नमेन्नान्यं कथञ्चन। आज्ञयैवास्त्रदेवांश्‍च प्रेरयामास नार्थनात्॥ १८/१५॥
अन्वेनमेव तद्धर्मे कृष्णैका संस्थिता सदा। धृतराष्ट्रादपि वरं ततो नात्मार्थमग्रहीत्॥ १८/१६॥
नाशपद् धार्तराष्ट्रांश्‍च महापद्यपि सा ततः। न वाचा मनसा वाऽपि प्रतीपं केशवेऽचरत्॥ १८/१७॥
अन्ये भागवतत्वेऽपि छिन्नधर्माः क्वचित्क्वचित्। स्यमन्तकार्थे रामोऽपि कृष्णस्य विमनाऽभवत्॥ १८/१८॥
अवमेनेऽर्जुनः कृष्णं विप्रस्य शिशुरक्षणे। प्रद्युम्न उद्धवः साम्बोऽनिरुद्धाद्याश्‍च सर्वशः॥ १८/१९॥
हरेरिष्टं सुभद्रायाः फल्गुने दानमञ्जसा। ज्ञात्वाऽपि रुरुधुः सम्यक् सात्यकिः कृष्णसम्मितम्॥ १८/२०॥
कदाचिन्मन्यते पार्थं धर्मजोऽपि नरं हरिम्। मत्वाऽबिभेज्जरासन्धवधे कृष्णमुदीरितुम्॥ १८/२१॥
बन्धनं शङ्कमानो हि कृष्णस्य विदुरोऽपि तु। कौरवेयसभामध्ये नावतारमरोचयत्॥ १८/२२॥
नकुलः करदानाय प्रेषयामास केशवे। अवमेने हरेर्बुद्धिं सहदेवः कुलक्षयात्॥ १८/२३॥
देवकीवसुदेवाद्या मेनिरे मानुषं हरिम्। भीष्मस्तु भार्गवं राममवमेने युयोध च॥ १८/२४॥
द्रोणकर्णद्रौणिकृपाः कृष्णाभावे मनो दधुः। देवाः शिवाद्या अपितु विरोधं चक्रिरे क्वचित्॥ १८/२५॥
ऋषिमानुषगन्धर्वा वक्तव्याः किमतः परम्। जन्मजन्मान्तरेऽज्ञानादवजानन्ति यत् सदा॥ १८/२६॥
तस्मादेको वायुरेव धर्मे भागवते स्थितः। लक्ष्मीः सरस्वती चेति परशुक्लत्रयं स्मृतम्॥ १८/२७॥
सर्वमेतच्च कथितं तत्रतत्रामितात्मना। व्यासेनैव पुराणेषु भारते च स्वसंविदा॥ १८/२८॥
यदा ते सर्वशस्त्रास्त्रवेदिनो राजपुत्रकाः। बभूवू रङ्गमध्ये तान् भारद्वजोऽप्यदर्शयत्॥ १८/२९॥
रक्तचन्दनसत्पुष्पवस्त्रशस्त्रगुडोदनैः। सम्पूज्य भार्गवं राममनुजज्ञे कुमारकान्॥ १८/३०॥
ते भीष्मद्रोणविदुरगान्धारीधृतराष्ट्रकान्। सराजमण्डलान् नत्वा कुन्तीं चादर्शयञ्छ्रमम्॥ १८/३१॥
सर्वैः प्रदर्शितेऽस्त्रे तु द्रोणादात्तमहास्त्रवित्। द्रौणिरस्त्राण्यमेयानि दर्शयामास चाधिकम्॥ १८/३२॥
ततोऽप्यतितरां पार्थो दिव्यास्त्राणि व्यदर्शयत्। अविध्यन्माशके पादे पक्षिणः पक्ष्म एव च। एवमादीनि चित्राणि बहून्येष व्यदर्शयत्॥ १८/३३॥
तदैव कर्ण आगत्य रामोपात्तास्त्रसम्पदम्। दर्शयन्नधिकः पार्थादभूद् राजन्यसंसदि॥ १८/३४॥
कुन्ती निजं सुतं ज्ञात्वा लज्जया नावदच्च तम्। पार्थोऽसहंस्तं युद्धायैवाह्वयामास संसदि॥ १८/३५॥
रणायाक्षत्रियाह्वानं जानन् धर्मप्रतीपकम्। भीमो निवार्य बीभत्सुं कर्णायादात् प्रतोदकम्॥ १८/३६॥
अक्षत्रसंस्कारयुतो जातोऽपि क्षत्रिये कुले। न क्षत्रियो हि भवति यथा व्रात्यो द्विजोत्तमः॥ १८/३७॥
निरुत्तरे कृते कर्णे भीमेनैव सुयोधनः। अभ्यषेचयदङ्गेषु राजानं पित्रनुज्ञया। धृतराष्ट्रः पक्षपातात् पुत्रस्यानुवशोऽभवत्॥ १८/३८॥
अभिषिक्ते तदा कर्णे प्रायादधिरथः पिता। सर्वराजसदोमध्ये ववन्दे तं वृषा तदा। तुतुषुः कर्मणा तस्य सन्तः सर्वे समागताः॥ १८/३९॥
भीमदुर्योधनौ तत्र शिक्षासन्दर्शनच्छलात्। समादाय गदे गुर्वी संरम्भादभ्युदीयतुः॥ १८/४०॥
देवासुरमनुष्यादि जगदेतच्चराचरम्। सर्वं तदा द्विधा भूतं भीमदुर्योधनाश्रयात्॥ १८/४१॥
देवा देवानुकूलाश्‍च भीममेव समाश्रिताः। असुरा आसुराश्‍चैव दुर्योधनसमाश्रयाः। द्विधाभूता मानुषाश्‍च देवासुरविभेदतः॥ १८/४२॥
जय भीम महाबाहो जय दुर्योधनेति च। हुङ्कारांश्‍चैव फट्कारांश्‍चक्रुर्देवासुरा अपि॥ १८/४३॥
दृष्ट्वा जगत् सुसंरब्धं द्रोणोऽथ द्विजसत्तमः। नेदं जगद् विनश्येत भीमदुर्योधनाश्रयात्। इति पुत्रेण तौ वीरौ न्यवारयदरिन्दमौ॥ १८/४४॥
स्वकीयायांस्वकीयायां योग्यतायां नतु क्वचित्। युवयोः सम इत्युक्त्वा द्रौणिरेतौ न्यवारयत्। द्रोणाज्ञया वारितौ तौ ययतुः स्वंस्वमालयम्॥ १८/४५॥
सुरासुरान् सुसंरब्धान् कालेन द्रक्ष्यथेति च। ब्रह्मा निवार्य ससुरो ययौ सेशः स्वमालयम्॥ १८/४६॥
कर्णं हस्ते प्रगृह्यैव धार्तराष्ट्रो गृहं ययौ। पार्थं हस्ते प्रगृह्यैव भीमः प्रायात् स्वमालयम्॥ १८/४७॥
पार्थेन कर्णो हन्तव्य इत्यासीद् भीमनिश्‍चयः। वैपरीत्येन तस्यासीद् दुर्योधनविनिश्‍चयः। तदर्थं नीतिमतुलां चक्रतुस्तावुभावपि॥ १८/४८॥
तथोत्कर्षे फल्गुनस्य यशसो विजयस्य च। उद्योग आसीद् भीमस्य धार्तराष्ट्रस्य चान्यथा॥ १८/४९॥
भीमार्थं केशवोऽन्ये च देवाः फल्गुनपक्षिणः। आसन् यथैव रामाद्याः सङ्ग्रहेण हनूमतः। सुराः सुग्रीवपक्षस्थाः पूर्वमासंस्तथैव हि॥ १८/५०॥
तदर्थमेव भीमस्य ह्यनुजत्वं सुरेश्‍वरः। आप पूर्वानुतापेन तेन भीमस्तथाऽकरोत्॥ १८/५१॥
दुर्योधनार्थं कर्णस्य पक्षिणो दैत्यदानवाः। आसुः सर्वे ग्लहावेतावासतुः कर्णफल्गुनौ॥ १८/५२॥
अथ पृष्टो दक्षिणार्थं द्रोण आह कुमारकान्। बद्ध्वा पाञ्चालराजानं दत्तेत्यूचुस्तथेति ते॥ १८/५३॥
ते धार्तराष्ट्राः कर्णेन सहिताः पाण्डवा अपि। ययुर्द्रोणेन सहिताः पाञ्चालनगरं प्रति॥ १८/५४॥
अथाह भीमः सामर्थ्यविवेकाभीप्सया गुरुम्। गर्व एष कुमाराणामनिवार्यो द्विजोत्तम। गच्छन्त्वेतेऽग्रतो नैषां वशगो द्रुपदो भवेत्॥ १८/५५॥
निवृत्तेष्वकृतार्थेषु वयं बद्ध्वा रिपुं तव। आनयाम न सन्देह इति तस्थौ ससोदरः॥ १८/५६॥
सद्रोणकेषु पार्थेषु स्थितेष्वन्ये ससूतजाः। ययुरात्तप्रहरणाः पाञ्चालान्तःपुरं द्रुतम्॥ १८/५७॥
कुमारान् ग्रहणेप्सूंस्तानुपयातानुदीक्ष्य सः। अक्षौहिणीत्रितययुङ् निःसृतो द्रुपदो गृहात्॥ १८/५८॥
ते शरैरभिवर्षन्तः परिवार्य कुमारकान्। अर्दयामासुरुद्वृृत्तान् स्त्रियो बालाश्‍च सर्वशः॥ १८/५९॥
हर्म्यसंस्थाः स्त्रियो बाला ग्रावभिर्मुसलैरपि। अत्यर्थमर्दयामासुः कुमारान् सुसुखैधितान्॥ १८/६०॥
द्रुपदस्य वरो ह्यस्ति सूर्यदत्तस्तपोबलात्। आ योजनात् पुरमुप न त्वा जेष्यति कश्‍चन॥ १८/६१॥
इति तेन वरेणैव सुखसंवर्धिताश्‍च ते। भग्नाः कुमारा आवृत्य दुद्रुवुर्यत्र पाण्डवाः॥ १८/६२॥
स्त्रीबालवृद्धसहितैः पाञ्चालैरप्यनुद्रुताः। भीमार्जुनेति वाशन्तो ययुर्यत्र स्म पाण्डवाः॥ १८/६३॥
तान् प्रभग्नान् समालोक्य भीमः प्रहरतां वरः। आरुरोह रथं वीरः पुर आत्तशरासनः॥ १८/६४॥
तमन्वयादिन्द्रसुतो यमौ तस्यैव चक्रयोः। युधिष्ठिरस्तु द्रोणेन सह तस्थौ निरीक्षकः॥ १८/६५॥
आयान्तमग्रतो दृष्ट्वा भीममात्तशरासनम्। दुद्रुवुः सर्वपाञ्चाला विविशुः पुरमेव च॥ १८/६६॥
द्रुपदस्त्वभ्ययाद् भीमं सपुत्रः सहसेनया। चक्ररक्षौ तु तस्यास्तां युधामन्यूत्तमौजसौ॥ १८/६७॥
धात्रर्यमावेशयुतौ विश्‍वावसुपरावसू। सुतौ तस्य महावीर्यौ सत्यजित् पृष्ठतोऽभवत्। स मित्रांशयुतो वीरश्‍चित्रसेनो महारथः॥ १८/६८॥
अग्रतस्तु शिखण्ड्यागाद् रथोदारः शरान् क्षिपन्। जनमेजयस्तमन्वेव पूर्वं चित्ररथो हि यः। त्वष्टुरावेशसंयुक्तः स शरानभ्यवर्षत॥ १८/६९॥
तावुभौ विरथौ कृत्वा विचापौ च विवर्मकौ। भीमो जघान तां सेनां सवाजिरथकुञ्जराम्॥ १८/७०॥
अथैनं शरवर्षेण युधामन्यूत्तमौजसौ। अभीयतुस्तौ विरथौ चक्रे भीमो निरायुधौ॥ १८/७१॥
हस्तप्राप्तं स पाञ्चालं नाग्रहीत् स वृकोदरः। गुर्वर्थमर्जुनस्योर्वीं प्रतिज्ञां कर्तुमप्यृताम्। मानभङ्गाय कर्णस्य पार्थमेव न्ययोजयत्॥ १८/७२॥
स शरान् क्षिपतस्तस्य पाञ्चालस्यार्जुनो द्रुतम्। पुप्लुवे स्यन्दने चापं छित्वा तं चाग्रहीत् क्षणात्। सिंहो मृगमिवादाय स्वरथे चाभिपेदिवान्॥ १८/७३॥
अथ प्रकुपितं सैन्यं फल्गुनं पर्यवारयत्। जघान भीमस्तरसा तत् सैन्यं शरवृष्टिभिः॥ १८/७४॥
अथ सत्यजिदभ्यागात् पार्थं मुञ्चञ्छरान् बहून्। तमर्जुनः क्षणेनैव चक्रे विरथकार्मुकम्॥ १८/७५॥
घ्नन्तं भीमं पुनः सैन्यमर्जुनः प्राह मा भवान्। सेनामर्हति राज्ञोऽस्य वीर हन्तुमशेषतः॥ १८/७६॥
सम्बन्धयोग्यस्तातस्य सखाऽयं नः सुधार्मिकः। नेष्याम एनमेवातो गुरोर्वचनगौरवात्॥ १८/७७॥
स्नेहपाशं ततश्‍चक्रे बीभत्सौ द्रुपदोऽधिकम्। ततः सेनां विहायैव भीमो बीभत्सुमन्वयात्॥ १८/७८॥
मुक्ता कथञ्चिद् भीमास्यात् सा सेना दुद्रुवे भयात्।
द्रुपदं स्थापयामासाथार्जुनो द्रोणसन्निधौ॥ १८/७९॥
पप्रच्छैनं तदा द्रोणः सख्यमस्त्युत नेति ह। अस्तीदानीमिति प्राह द्रुपदोऽङ्गिरसां वरम्॥ १८/८०॥
अथाह द्रुपदं द्रोणः सख्यमिच्छेऽक्षयं तव। नह्यराज्ञो भवेत् सख्यं तवेतीदंं कृतं मया॥ १८/८१॥
न विप्रधर्मो यद् युद्धमतस्त्वं न मया धृतः। शिष्यैरेतत् कारितं मे तव सख्यमभीप्सता॥ १८/८२॥
अतः सख्यार्थमेवाद्य त्वद्राज्यार्धो हृतो मया। गङ्गाया दक्षिणे कूले त्वं राजैवोत्तरे त्वहम्। नह्यराजत्व एकस्य सख्यं स्यादावयोः सखे॥ १८/८३॥
इत्युक्त्वोन्मुच्य तं द्रोणो राज्यार्द्धं गृह्य चामुतः। ययौ शिष्यैर्नागपुरं न्यवसन् सुखमत्र च।
ब्राह्मण्यत्यागभीरुः स नागृह्णद्धनुरप्यसौ॥ १८/८४॥
धार्तराष्ट्रैस्तु भीमस्य भयात् पादौ प्रणम्य च। शरणार्थं याचितत्वात् सपुत्रो युयुधे परैः। एवं हरीच्छयैवासौ क्षात्रं धर्ममुपेयिवान्॥ १८/८५॥
द्रुपदस्तु दिवारात्रं तप्यमानः पराभवात्। भीमार्जुनबलं दृष्ट्वा चेच्छन् पाण्डवसंश्रयम्॥ १८/८६॥
सम्बन्धीत्यर्जुनवचश्‍चिकीर्षुः सत्यमेव च। मार्दवं चार्जुने दृष्ट्वा सुतामैच्छत् तदर्थतः। पुत्रं च द्रोणहन्तारमिच्छन् विप्रवरौ ययौ॥ १८/८७॥
याजोपयाजावानीयाथार्बुदेन गवां नृपः। चकारेष्टिं तु तद्भार्यां द्विजाभ्यामत्र चाहुता। द्रुपदात् सुतलब्ध्यर्थं साहङ्काराद् व्यलम्बयत्॥ १८/८८॥
किमेतयेत्यवज्ञाय तावुभौ विप्रसत्तमौ। अजुह्वतां तत्पुत्रार्थं पत्न्याः प्राश्यं हविस्तदा॥ १८/८९॥
हुते हविषि मन्त्राभ्यां वैष्णवाभ्यां तदैव हि। दीप्ताङ्गारनिभो वह्निः कुण्डमध्यात् समुत्थितः॥ १८/९०॥
किरीटी कुण्डली दीप्तो हेममाली वरासिमान्। रथेनादित्यवर्णेन नदन् द्रुपदमभ्ययात्॥ १८/९१॥
धृष्टत्वाद् द्योतनत्वाच्च धृष्टद्युम्न इतीरितः। मुनिभिर्द्रुपदेनापि सर्ववेदार्थतत्त्ववित्॥ १८/९२॥
अन्वेनं भारती साक्षाद् वेदिमध्यात् समुत्थिता। प्राणो हि भरतो नाम सर्वस्य भरणाच्छ्रुतः॥ १८/९३॥
तद्भार्या भारती नाम वेदरूपा सरस्वती। शंरूपमाश्रिता वायुं श्रीरित्येव च कीर्तिता॥ १८/९४॥
आवेशयुक्ता शच्याश्‍च श्यामलायास्तथोषसः। ताश्‍चेन्द्रधर्मनासत्यसंश्रयाच्छ्रिय ईरिताः॥ १८/९५॥
सा कृष्णा नामतश्‍चासीदुत्कृष्टत्वाद्धि योषिताम्। कृष्णा सा वर्णतश्‍चासीदुत्कृष्टानन्दिनी च सा॥ १८/९६॥
उत्पत्तितश्‍च सर्वज्ञा सर्वाभरणभूषिता। सम्प्राप्तयौवनैवासीदजरा लोकसुन्दरी। उमांशयुक्ता नितरां सर्वलक्षणसंयुता॥ १८/९७॥
पूर्वं ह्युमा च देव्यस्ताः कदाचिद् भर्तृभिर्युताः। विलासं दर्शयामासुर्ब्रह्मणः पश्यतोऽधिकम्॥ १८/९८॥
शशाप तास्तदा ब्रह्मा मानुषीं योनिमाप्स्यथ। तत्रान्यगाश्‍च भवतेत्येवं शप्ताः सुराङ्गनाः॥ १८/९९॥
विचार्य भारतीमेत्य सर्वमस्यै निवेद्य च। सहस्रवत्सरं चैनां शुश्रूषित्वा बभाषिरे॥ १८/१००॥
देवि नो मानुषं प्राप्यमन्यगात्वं च सर्वथा। तथाऽपि मारुतादन्यं न स्पृशेम कथञ्चन॥ १८/१०१॥
ब्रह्मणैव च शप्ताः स्म पूर्वं चान्यत्र लीलया। एकदेहत्वमाप्यैनं यदा वञ्चयितुं गताः॥ १८/१०२॥
एकदेहा मानुषत्वमाप्स्यथ त्रिश उद्धताः। त्रिशो मद्वञ्चनायेता इति तेनोदिता वयम्॥ १८/१०३॥
अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु। चतुर्ष्वपि यतोऽस्माकं शापद्वयनिमित्ततः। चतुर्जन्म भवेद् भूमौ त्वां नान्यो मारुताद् व्रजेत्॥ १८/१०४॥
नियमोऽयं हरेर्यस्मादनादिर्नित्य एव च। अतस्त्वयैकदेहान्नो नान्य आप्नोति मारुतात्॥ १८/१०५॥
इतीरिते तथेत्युक्त्वा पार्वत्यादियुतैव सा। विप्रकन्याऽभवत् तत्र चतस्रः पार्वतीयुताः॥ १८/१०६॥
एकदेहस्थिताश्चक्रुर्गिरीशाय तपो महत्। तद्देहस्था भारती तु रुद्रदेहस्थितं हरिम्। तोषयामास तपसा कर्मैक्यार्थं धृतव्रता॥ १८/१०७॥
तस्यै स रुद्रदेहस्थो हरिः प्रादाद् वरं प्रभुः। अनन्ततोषणं विष्णोः स्वभर्त्रा सह जन्मसु॥ १८/१०८॥
सर्वेष्वपीति चान्यासां ददौ शङ्कर एव च। वरं स्वभर्तृसंयोगं मानुषेष्वपि जन्मसु॥ १८/१०९॥
ततस्तदैव देहं ता विसृज्य नलनन्दिनी। बभूवुरिन्द्रसेनेति देहैक्येन सुसङ्गताः॥ १८/११०॥
तदाऽऽसीन्मुद्गलो नाम मुनिस्तपसि संस्थितः। चकमे पुत्रिकां ब्रह्मेत्यशृणोत् स कथान्तरे॥ १८/१११॥
अपाहसत् सोऽब्जयोनिं शशापैनं चतुर्मुखः। भारत्याद्याः पञ्च देवीर्गच्छ मानिन्नभूतये॥ १८/११२॥
इतीरितस्तं तपसा तोषयामास मुद्गलः। शापानुग्रहमस्याथ चक्रे कञ्जसमुद्भवः॥ १८/११३॥
न त्वं यास्यसि ता देवी मारुतस्त्वच्छरीरगः। यास्यति त्वं तदा मूर्च्छां गतो नैव विबुद्ध्यसे॥ १८/११४॥
नच पापं ततस्ते स्यादित्युक्ते चैनमाविशत्। मारुतोऽथेन्द्रसेनां च गृहीत्वाऽथाभवद् गृही॥ १८/११५॥
रेमे च स तया सार्द्धं दीर्घकालं जगत्प्रभुः। ततो मुद्गलमुद्बोद्ध्य ययौ च स्वं निकेतनम्॥ १८/११६॥
ततो देशान्तरं गत्वा तपश्‍चक्रे स मुद्गलः। सेन्द्रसेना वियुक्ताऽथ भर्त्रा चक्रे महत् तपः॥ १८/११७॥
तद्देहगा भारती तु केशवं शङ्करे स्थितम्। तोषयामास तपसा कर्मैक्यार्थं हि पूर्ववत्। उमाद्या रौद्रमेवात्र तपश्‍चक्रुर्यथा पुरा॥ १८/११८॥
प्रत्यक्षे च शिवे जाते तद्देहस्थे च केशवे। पृथक्पृथक् स्वभर्त्राप्त्यै ताः पञ्चाप्येकदेहगाः। प्रार्थयामासुरभवत् पञ्चकृत्वो वचो हि तत्॥ १८/११९॥
शिवदेहस्थितो विष्णुर्भारत्यै तु ददौ पतिम्। अन्यासां शिव एवाथ प्रददौ चतुरः पतीन्॥ १८/१२०॥
देव्यश्‍चतस्रस्तु तदा दत्तमात्रे वरेऽमुना। देवानामवतारार्थं पञ्च देव्यः स्म इत्यथ। नाजानन्नेकदेहत्वाच्चिद्योगात् क्षीरनीरवत्॥ १८/१२१॥
ताः श्रुत्वा स्वपतिं देवि नचिरात् प्राप्स्यसीति च। विष्णूक्तं शङ्करोक्तं च चत्वारः पतयः पृथक्॥ १८/१२२॥
भविष्यन्तीत्यथैकस्या मेनिरे पञ्चभर्तृताम्। रुरुदुश्‍चैकदेहस्था एकैवाहमिति स्थिताः॥ १८/१२३॥
अथाभ्यगान्महेन्द्रोऽत्र सोऽब्रवीत् तां वरस्त्रियम्। किमर्थं रोदिषीत्येव साऽब्रवीद् वटुरूपिणम्॥ १८/१२४॥
शङ्करं दर्शयित्वैव पञ्चभर्तृत्वमेष मे। वरार्थमर्थितः प्रादादिति तं शिव इत्यथ॥ १८/१२५॥
अजानन् शक्र आहोच्चैः किमेतद् भुवनत्रये। मत्पालिते योषितं त्वं वृथा शपसि दुर्मते॥ १८/१२६॥
इतीरिते शिवः प्राह पत मानुष्यमाप्नुहि। अस्याश्‍च भर्ता भवसि त्वामेवैषा वरिष्यति॥ १८/१२७॥
पश्यात्र मदवज्ञानात् पतितांस्त्वादृशान् सुरान्। गिरेरधस्तादस्यैवेत्युक्तोऽसौ पाकशासनः॥ १८/१२८॥
उद्बबर्ह गिरिं तं तु ददर्शात्र च तान् सुरान्। पूर्वेन्द्रान् मारुतवृषनासत्यांश्‍चतुरः स्थितान्। मानुषेष्ववताराय मन्त्रं रहसि कुर्वतः॥ १८/१२९॥
ततो वरेण्यं वरदं विष्णुं प्राप्य स वासवः। तत्प्रसादान्नरांशेन युक्तो भूमावजायत॥ १८/१३०॥
मदवज्ञानिमित्तेन पतिता इति तान् सुरान्। मारुतादीन् मृषाऽवादीरिति ब्रह्मा शिवं तदा॥ १८/१३१॥
शशाप मानुषेषु त्वं क्षिप्रं जातः पराभवम्। शक्रान्नरतनोर्यासि यस्मै त्वं तु मृषाऽवदः॥ १८/१३२॥
मच्छप्तानां च देवीनामविचार्य मया यतः। पतियोगवरं प्रादा नावाप्स्यसि ततः प्रियाम्॥ १८/१३३॥
मानुषेषु ततः पश्‍चाद् भारतीदेहनिर्गताम्। स्वलोके प्राप्स्यसि स्वार्थे वरोऽयं ते मृषा भवेत्॥ १८/१३४॥
एषा सा द्रौपदी नाम पञ्चदेवीतनुर्भवेत्। मृषा वाग् येषु ते प्रोक्ता मारुताद्यास्तु तेऽखिलाः॥ १८/१३५॥
तासां पतित्वमाप्स्यन्ति भारत्यैव तु पार्वती। संयुक्ता व्यवहारेषु प्रवर्तेत नचान्यथा॥ १८/१३६॥
एते हि मारुताद्यास्ते देवकार्यार्थगौरवात्। जाता इति श्रुतिस्तत्र नावज्ञा तेऽत्र कारणम्। दीर्घकालं मनुष्येषु ततस्त्वं स्थितिमाप्स्यसि॥ १८/१३७॥
इत्युक्त्वा प्रययौ ब्रह्मा सोऽश्‍वत्थामा शिवोऽभवत्। पञ्चदेवीतनुस्त्वेषा द्रौपदी नाम चाभवत्॥ १८/१३८॥
वेदेषु सपुराणेषु भारते चावगम्यते। उक्तोऽर्थः सर्व एवायं तथा पूर्वोदिताश्‍च ये॥ १८/१३९॥
मुमुदुः सर्वपाञ्चाला जातयोः सुतयोस्तयोः। मानुषान्नोपभोगेन संसर्गान्मानुषेषु च॥ १८/१४०॥
मनुष्यपुत्रतायाश्‍च भावो मानुष एतयोः। अभून्नातितरामासीत् तदयोनित्वहेतुतः॥ १८/१४१॥
याजोपयाजौ तावेव दयिता द्रुपदस्य सा। मातृस्नेहार्थमनयोर्ययाचे ददतुश्‍च तौ॥ १८/१४२॥
जातमात्मनिहन्तारं भारद्वाजो निशम्य तम्। यशोऽर्थमस्त्राणि ददावग्रहीत् सोऽपि लोभतः। रामास्त्राणां दुर्लभत्वात् त्रिदशेष्वपि वीर्यवान्॥ १८/१४३॥
भीमार्जुनाभ्यां बद्धं तं श्रुत्वा पाञ्चालभूपतिम्।
प्राहिणोत् कृतवर्माणं पाण्डवानां जनार्दनः। पाण्डवेष्वतुलां प्रीतिं लोके ख्यापयितुं प्रभुः॥ १८/१४४॥
सम्मान्य पाण्डवान् सोऽपि शूरानुजसुतासुतः। तैर्मानितः कृष्णभक्त्या भ्रातृत्वाच्च हरिं ययौ॥ १८/१४५॥
ततःप्रभृति सन्त्यज्य देवपक्षा जरासुतम्। पाण्डवानाश्रिता भूपा ज्ञात्वा भैमार्जुनं बलम्॥ १८/१४६॥
विशेषतश्‍च कृष्णस्य विज्ञाय स्नेहमेषु हि। पराजिताश्‍च बहुशः कृष्णेनाचिन्त्यकर्मणा॥ १८/१४७॥
प्रतापाद्ध्येव ते पूर्वं जरासन्धवशं गताः। न स्नेहात् तद् बलं ज्ञात्वा पार्थानां केशवस्य च॥ १८/१४८॥
जन्मान्तराभ्यासवशात् स्निग्धाः कृष्णे च पाण्डुषु। जरासन्धभयं त्यक्त्वा तानेव च समाश्रिताः॥ १८/१४९॥
अपि तं बहुशः कृष्णविजितं नैव तत्यजुः। आसुराः पूर्वसंस्कारात् संस्कारो बलवान् यतः॥ १८/१५०॥
देवा हि कारणादन्यानाश्रयन्तोऽपि नान्तरम्। स्नेहं त्यजन्ति दैवेषु तथाऽन्येऽन्येष्वपि स्फुटम्॥ १८/१५१॥
धृतराष्ट्रो बलं दृष्ट्वा बहुशो भीमपार्थयोः। देवत्वाच्च स्वभावेन ज्येष्ठत्वाद् धर्मजस्य च। सुप्रीत एव तं चक्रे यौवराज्याभिषेकिणम्॥ १८/१५२॥
भीमार्जुनावथो जित्वा सर्वदिक्षु च भूपतीन्। चक्रतुः करदान् सर्वान् धृतराष्ट्रस्य दुर्जयौ॥ १८/१५३॥
तयोः प्रीतोऽभवत् सोऽपि पौरजानपदास्तथा। भीष्मद्रोणमुखाः सर्वेऽप्यतिमानुषकर्मणा॥ १८/१५४॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये भीमार्जुनदिग्विजयो नामाष्टादशोऽध्यायः समाप्तः॥
एकोनविंशोऽध्यायः
एवं शुभोच्चगुणवत्सु जनार्दनेन युक्तेषु पाण्डुषु चरत्स्वधिकं शुभानि। नास्तिक्यनीतिमतुलां गुरुदेवतादिसत्स्वञ्जसैव जगृहुर्धृतराष्ट्रपुत्राः॥ १९/१॥
नाम्ना कलिङ्ग इति चासुरको द्विजोऽभूत् शिष्यः सुरेतरगुरोः शकुनेर्गुरुः सः। नीतिं स कुत्सिततमां धृतराष्ट्रपुत्रेष्वाधाद् रहो वचनतः शकुनेः समस्ताम्॥ १९/२॥
छद्मैव यत्र परमं न सुराश्‍च पूज्याः स्वार्थेन वञ्चनकृते जगतोऽखिलं च। धर्मादि कार्यमपि यस्य महोपधिः स्यात् श्रेष्ठः स एव निखिलासुरदैत्यसङ्घात्॥ १९/३॥
इत्यादि कुत्सिततमां जगृहुः स्म विद्यामज्ञात एव धृतराष्ट्रमुखैः समस्तैः। तेषां स्वभावबलतो रुचिता च सैव विस्तारिता च निजबुद्धिबलादतोऽपि॥ १९/४॥
सम्पूर्णदुर्मतिरथो धृतराष्ट्रसूनुस्तातप्यमानहृदयो निखिलान्यहानि। दृष्ट्वा श्रियं परमिकां विजयं च पार्थेष्वाहेदमेत्य पितरं सह सौबलेन॥ १९/५॥
ज्येष्ठस्य तेऽपि हि वयं हृदयप्रजाता नार्हत्वमेव गमिता भवतैव राज्ये। भ्रातुः कनीयस उतापि हि दारजाता अन्यैश्‍च राज्यपदवीं भवतैव नीताः॥ १९/६॥
राज्यं महच्च समवाप्स्यति धर्मसूनुस्त्वत्तोऽथवाऽनुजबलात् प्रसभं वयं तु। दासा भवेम निजतन्तुभिरेव साकं कुन्तीसुतस्य परतोऽपि तदन्वयस्य॥ १९/७॥
नात्मार्थमस्ति मम दुःखमथातिशुद्धलोकप्रसिद्धयशसस्तव कीर्तिनाशः। अस्मन्निमित्त इति दुःखमतो हि सर्वेऽपीच्छाम मर्तुमथ नः कुरु चाप्यनुज्ञाम्॥ १९/८॥
एवं स्वपुत्रवचनं स निशम्य राजा प्रोवाच नानुगुणमेतदहो मनस्ते। को नाम पाण्डुतनयेषु गुणोत्तमेषु प्रीतिं न याति निजवीर्यभवोच्चयेषु॥ १९/९॥
ते हि स्वबाहुबलतोऽखिलभूपभूतिं मय्याकृषन्ति नच वः प्रतिषेधकास्ते। तस्माच्छमं व्रज शुभाय कुलस्य तात क्षेमाय नो भवति वो बलवद्विरोधः॥ १९/१०॥
एवं ब्रुवत्यपि नृपे पुनराह पाप आश्रित्य सौबलमतं यदि नैव पार्थान्। अन्यत्र यापयसि नागपुरात् परेतान् दृष्ट्वाऽखिलानपि हि नो मुदमेहि पार्थैः॥ १९/११॥
एवं निशम्य गदितं सुतहार्दपाशैराकृष्यताशु स नृपोऽरिधरेच्छयैव। प्रोवाच पुत्रमपि ते बलिनो हि पार्थाः शक्याः पुरात् तु नच यापयितुं कथञ्चित्॥ १९/१२॥
इत्युक्त आह पितरं शकुनिं निरीक्ष्य सृष्टो मया विधिरिहाद्य शृणुष्व तं च। आसंस्त्रयोदश समा हि पुरं प्रविष्टेष्वेतेषु तावदयमेव विधिर्मयेष्टः॥ १९/१३॥
द्रौणेर्हि नास्ति सदृशो बलवान् प्रतापी सोऽयं मया बहुविधैः परमैरुपायैः। नीतो वशं वशगतोऽस्य च मातुलेन साकं पिता तमनु चैष नदीप्रसूतः॥ १९/१४॥
एवं हि सैनिकगणा अपि दानमानैः प्रायो वशं मम गता अपि चैष कर्णः। अस्त्रे बलेऽप्यधिक एव सुरेन्द्रसूनोर्जेष्ये च मन्त्रबलतस्त्वहमेव भीमम्॥ १९/१५॥
त्रिंशच्छतं परमकाः सुरदुर्लभाश्‍च दुर्वाससो हि मनवोऽद्य मया गृहीताः। अन्यत्र ते प्रविहिता नहि वीर्यवन्तः स्युर्भीम इत्यहममून् न नियोजयामि॥ १९/१६॥
ते वीर्यदा विजयदा अपि वह्निवारिस्तम्भादिदाः सकलदेवनिकायरोधाः। वृष्ट्याद्यभीप्सितसमस्तकरा अमूभिर्जेष्यामि भीमममुमेकमयातयामैः॥ १९/१७॥
सौहार्दमेषु यदि चातितरां करोषि तत्रापि नैव हि मया क्रियते विरोधः। वत्स्यन्तु वारणवते भवतु स्म राष्ट्रं तेषां तदेव मम नागपुरं त्वदर्थे॥ १९/१८॥
एवं स्वपुत्रपरिपालनतो यशस्ते भूयाद् विनश्यति परप्रसवातिपुष्टौ। जाते बले तव विरोधकृतश्‍च ते स्युः स्वार्थं हि तावदनुयान्त्यपि केवलं त्वाम्॥ १९/१९॥
क्षत्तैक एव सततं परिपोषकोऽलं तेषां मम द्विडथ मन्त्रबलादमुष्य। पौराश्‍च जानपदकाः सततं द्विषन्ति मां तेष्वतीव दृढसौहृदचेतसश्‍च॥ १९/२०॥
एतेषु दूरगमितेषु निराश्रयत्वान्मामेव दुर्बलतया परितः श्रयन्ते। भीष्मादयश्‍च नहि तन्निकटे विरोधं कुर्युर्विनश्यति गतेषु हि सौहृदं तत्॥ १९/२१॥
भेदः कुलस्य भविता कुलनाशहेतुरस्माभिरेषु सहितेषु पुरे वसत्सु। तस्मादुपायबलतः प्रतियापनीयास्ते वारणावतमितो विहितोऽप्युपायः॥ १९/२२॥
विष्णुर्जयन्त इति शम्भुसहाय आस्ते देवोत्सवश्‍च सुमहान् भविताऽत्र सुष्ठु। भक्ताश्‍च ते हि नितरामरिशङ्खपाणौ त्वच्चोदिताः समुपयान्ति तमुत्सवं द्राक्॥ १९/२३॥
आज्ञाप्य मत्पुरुषतां पुरुषैर्मदीयैर्मध्यस्थवद् बहुगुणा उदिताश्‍च तत्र। तेषां पुरोऽत्र गमनाभिरुचिश्‍च जाता द्रष्टुं पुरं बहुगुणं ननु पाण्डवानाम्॥ १९/२४॥
इत्युक्तवत्यथ सुते स तथेत्युवाच प्राप्तेषु पाण्डुतनयेषु तथैव चोचे। ज्ञात्वैव तेऽपि नृपतेर्हृदयं समस्तं जग्मुः पितेति पृथया सह नीतिहेतोः॥ १९/२५॥
भीमस्तदा ह भविताऽत्र हि भैक्षचार इत्येव सम्यगनुविद्य निजं न कर्म। त्याज्यं त्विति प्रतिजगाद निजाग्रजाय यामो वयं नतु गृहात् स हि नः स्वधर्मः॥ १९/२६॥
निष्कालयन्ति यदि नो निजधर्मसंस्थान् योत्स्यामहेऽत्र नहि दस्युवधोऽप्यधर्मः। इत्यूचिवांसममुमाह च धर्मसूनुः कीर्तिर्विनश्यति हि नो गुरुभिर्विरोधे॥ १९/२७॥
इत्युक्तवाक्यममुमग्रजमन्वगात् स भीमः प्रदर्श्य निजधर्ममथानुवृत्त्यै। दोषो भवेदुभयतो यत एव तेन वाच्यः स्वधर्म उत न स्थितिरत्र कार्या॥ १९/२८॥
कीर्त्यर्थमेव निजधर्मपरिप्रहाणे प्राप्तेऽग्रजस्य वचनात् प्रविहातुमेव। भीमस्य दोषमुभयं प्रविहन्तुमीशो ज्येष्ठं चकार हरिरत्र सुतं वृषस्य॥ १९/२९॥
हन्तव्यतामुपगतेषु सुयोधनादिष्वन्यो वधान्नहि भवेन्निजधर्म एव। पूर्वं वधे नहि समस्तश एव दोषास्तेषां प्रयान्ति विवृतिं च तदर्थतोऽपि॥ १९/३०॥
क्षत्ताऽथ चाह सुवचोऽन्त्यजभाषयैव धर्मात्मजं विषहुताशभयात् प्रतीताः। आध्वं त्विति स्म स तथेति वचोऽप्युदीर्य प्रायाच्च वारणवतं पृथयाऽनुजैश्‍च॥ १९/३१॥
तान् हन्तुमेव च तदा धृतराष्ट्रसूनुर्लाक्षागृहं सपदि काञ्चनरत्नगूढम्। कृत्वाऽभ्ययातयदमुत्र हि विष्णुपद्या स्वामात्यमेव च पुरोचननामधेयम्॥ १९/३२॥
पूर्वं प्रहस्त इति यस्त्वभवत् सुपापः सोऽभ्येत्य पाण्डुतनयानभवच्च मन्त्री। दुर्योधनं प्रतिविहाय भवत्सकाशमायात इत्यवददेषु स कूटवाक्यम्॥ १९/३३॥
दिव्यं गृहं च भवतां हि मयोपनीतं प्रीत्यैव पापमनुयातुमहं न शक्तः। युष्मासु धर्मधृतिमत्सु सदा निवत्स्य इत्यूचिवांसममुमाहुरहो सुभद्रम्॥ १९/३४॥
दृष्ट्वैव जातुषगृहं वसया समेतं तद्गन्धतो वृषसुतः पवमानजातम्। तं चातिपापमवदत् सुमुखैष पापो हन्तुं न इच्छति सदा भव च प्रतीतः॥ १९/३५॥
क्षत्ताऽथ नीतिबलतोऽखिललोकवृत्तं जानन् स्वचारमुखतः खनकाय चोचे। उक्त्वैव धर्मतनयाय मदीयवाक्यं पूर्वोक्तमाशु कुरु तत्र बिलं सुदूरम्॥ १९/३६॥
चक्रे स चैवमथ वर्त्म वृतिच्छलेन द्वारं च तस्य स पिधाय ययौ गृहं स्वम्। भीमः पुरोचन उभावपि तौ वधाय च्छिद्रार्थिनौ मिथ उतोषतुरब्दकार्धम्॥ १९/३७॥
तस्याग्रजा च सहिता सुतपञ्चकेन तत्रागमत् तदनु मारुतिरेष कालः। इत्थं विचिन्त्य स निशम्य च तान् प्रसुप्तान् भ्रातॄंश्‍च मातरमथाशु बिले न्यधात् प्राक्॥ १९/३८॥
तं भागिनेयसहितं भगिनीं च तस्य पापां ददाह सगृहां पवमानसूनुः। साऽप्यागता हि गरलेन निहन्तुमेतान् भीमस्य पूर्वभुजिनो न शशाक चैतत्॥ १९/३९॥
तप्तं तया ससुतया च तपो नितान्तं स्यां सूनुभिः सह बलाददितिस्तथाऽब्दात्। तस्या अदाच्च गिरिशो यदि पुत्रकैस्त्वं युक्ता न यासि मृतिमेष वरस्तवेति॥ १९/४०॥
जानन्निदं सकलमेव स भीमसेनो हत्वा सुतैः सह कुबुद्धिमिमां हि तं च। भ्रातृंश्‍च मातरमुदूह्य ययौ बिलात् स निर्गत्य भीतिवशतोऽबलतां प्रयातान्॥ १९/४१॥
ज्ञात्वा पुरोचनवधं यदि भीष्ममुख्यैर्वैचित्रवीर्यतनया अभियोधयेयुः। किं नो भवेदिति भयं सुमहद् विवेश भीमं त्वृते च तनयान् सकलान् पृथायाः॥ १९/४२॥
भीमोऽभयोऽपि गुरुभिः स्वमुखेन युद्धमप्रीयमाण उत धर्मजवाक्यहेतोः। ऊह्यैव तानपि ययौ द्युनदीं च तीर्त्वा क्षत्त्राऽतिसृष्टमधिरुह्य जलप्रयाणम्॥ १९/४३॥
विश्‍वासिता विदुरपूर्ववचोभिरेव दाशोदिताभिरधिरुह्य च भीमपृष्ठम्। सर्वे ययुर्वनमथाभ्युदिते च सूर्ये दृष्ट्वैव सप्त मृतकानरुदंश्‍च पौराः॥ १९/४४॥
हा पाण्डवानदहदेष हि धार्तराष्ट्रो धर्मस्थितान् कुमतिरेव पुरोचनेन। सोऽप्येष दग्ध इह दैववशात् सुपापः को नाम सत्सु विषमः प्रभवेत् सुखाय॥ १९/४५॥
पौरेभ्य एव निखिलेन च भीष्ममुख्या वैचित्रवीर्यसहितास्तु निशम्य हेति। ऊचुः सुदुःखितधियोऽथ सुयोधनाद्याः क्षत्ता मृषैव रुरुदुर्युयुजुश्‍च कर्म॥ १९/४६॥
भीमोऽप्युदूह्य वनमाप हिडिम्बकस्य भ्रातॄन् पृथां च तृषितैरभियाचितश्‍च। पानीयमुत्तरपटेऽम्बुजपत्रनद्धं दूरादुदूह्य ददृशे स्वपतोऽथ तांश्‍च॥ १९/४७॥
रक्षार्थमेव परिजाग्रति भीमसेने रक्षःस्वसारमभियापयते हिडिम्बीम्। सा रूपमेत्य शुभमेव ददर्श भीमं साक्षात् समस्तशुभलक्षणसारभूतम्॥ १९/४८॥
सा राक्षसीतनुमवाप सुरेन्द्रलोकश्रीरेव शक्रदयिता त्वपरैव शच्याः। शापात् स्पृधा पतिमवाप्य च मारुतं सा प्राप्तुं निजां तनुमयाचत भीमसेनम्॥ १९/४९॥
तां भीम आह कमनीयतनुं न पूर्वं ज्येष्ठादुपैमि वनितां नहि धर्म एषः। सा चाह कामवशगा पुनरेतदेव स्वावेशयुग्घि मरुदग्र्यपरिग्रहस्य॥ १९/५०॥
सा भारती वरमिमं प्रददावमुष्यै स्वावेशमात्मदयितस्य च सङ्गमेन। शापाद् विमुक्तिमतितीव्रतःप्रसन्ना तेनाप सा निजतनुं पवमानसूनोः॥ १९/५१॥
ज्ञानं च नैजमभिदर्शयितुं पुनश्‍च प्राहेश्‍वरोऽखिलजगद्गुरुरिन्दिरेशः। व्यासस्वरूप इह चेत्य परश्‍व एव मां ते प्रदास्यति तदा प्रकरोषि मेऽर्थ्यम्॥ १९/५२॥
काले तदैव कुपितः प्रययौ हिडिम्बो भीमं निहन्तुमपि तां च निजस्वसारम्। भक्षार्थमेव हि पुरा स तु तां न्ययुङ्क्त नेतुं च तानथ समासददाशु भीमम्॥ १९/५३॥
सा भीममेव शरणं प्रजगाम तां च भ्रातॄंश्‍च मातरमथावितुमभ्ययात् तम्। भीमः सुदूरमपकृष्य सहोदराणां निद्राप्रभङ्गभयतो युयुधेऽमुना च॥ १९/५४॥
तौ मुष्टिभिस्तरुभिरश्मभिरद्रिभिश्‍च युद्ध्वा नितान्तरवतः प्रतिबोधितांस्तान्। सञ्चक्रतुस्तदनु सोदरसम्भ्रमं तं दृष्ट्वैव मारुतिरहन्नुरसि स्म रक्षः॥ १९/५५॥
तद् भीमबाहुबलताडितमीशवाक्यात् सर्वैरजेयमपि भूमितले पपात। वक्त्रस्रवद्बहुलशोणितमाप मृत्युं प्रायात् तमोऽन्धमपि नित्यमथ क्रमेण॥ १९/५६॥
हत्वैव शर्ववररक्षितराक्षसं तं सर्वैरवध्यमपि सोदरमातृयुक्तः। भीमो ययौ तमनु सा प्रययौ हिडिम्बी कुन्ती युधिष्ठिरमथास्य कृते ययाचे॥ १९/५७॥
ताभ्यामनूक्तमपि यन्न करोति भीमः प्रादुर्बभूव निखिलोरुगुणाभिपूर्णः। व्यासात्मको हरिरनन्तसुखाम्बुराशिर्विद्यामरीचिविततः सकलोत्तमोऽलम्॥ १९/५८॥
दृष्ट्वैव तं परममोदिन आशु पार्था मात्रा सहैव परिपूज्य गुरुं विरिञ्चेः। सल्लालिताश्‍च हरिणा परमातिहार्दप्रोत्फुल्लपद्मनयनेन सदोपविष्टाः॥ १९/५९॥
तान् भक्तिनम्रशिरसः समुदीक्ष्य कृष्णो भीमं जगाद नत आशु हिडिम्बया च। एतां गृहाण युवतीं सुरसद्मशोभां जाते सुते सहसुता प्रतियातु चैषा॥ १९/६०॥
एवं ब्रुवत्यगणितोरुगुणे रमेश ओमित्युदीर्य कृतवांश्‍च तथैव भीमः। स्कन्धेन चोह्य विबुधाचरितप्रदेशान् भीमं प्रयात्युदय एव रवेर्हिडिम्बी॥ १९/६१॥
सा नन्दनादिषु वनेषु विहृत्य तेन सायं प्रयाति पृथया सहितांश्‍च पार्थान्। एवं ययावपि तयोरिह वत्सरार्धो जातश्‍च सूनुरतिवीर्यबलोपपन्नः॥ १९/६२॥
देवोऽपि राक्षसतनुर्निरृतिः पुरा य आवेशयुक् च गिरिशस्य घटोत्कचाख्यः। पूर्वं घटोपमममुष्य शिरो बभूव केशा निमेषत उदासुरतो हि नाम॥ १९/६३॥
जाते सुते समयतो भगवत्कृतात् स भीमो जगाद ससुतां गमनाय तां च। स्मृत्याऽभियान उभयोरपि सा प्रतिज्ञां तेषां विधाय च ययौ सुरलोकमेव॥ १९/६४॥
व्यासोऽपि पाण्डुतनयैः सहितो बकस्य रौद्राद् वराज्जयवधापगतस्य नित्यम्। यातो वधाय परमागणितोरुधामा पूर्णाक्षयोरुसुख आशु तदैकचक्राम्॥ १९/६५॥
तान् ब्राह्मणस्य च गृहे प्रणिधाय कृष्णः शिष्या ममैत इति विप्रकुमाररूपान्। आयामि काल इति ताननुशास्य चायात् ते तत्र वासमथ चक्रुरनूच्य वेदान्॥ १९/६६॥
भिक्षामटत्सु सततं प्रतिहुङ्कृतेन भीमो विशां सदन एव गृहप्रमाणम्। भाण्डं कुलालविहितं प्रतिगृह्य गच्छत्याशङ्कयाऽवगमनस्य तमाह धर्मः॥ १९/६७॥
स्थूलं हि सद्म पृथिवीसहितं त्वरक्ष उद्धृत्य वह्निमुखतस्तदु चैकदोष्णा। भाण्डं तदर्थमुरु कुम्भकरेण दत्तं भिक्षां च तेन चरसि प्रतिहुङ्कृतेन॥ १९/६८॥
धर्मस्य ते सुनियतेर्बलतश्‍च बोधो भूयात् सुयोधनजनस्य ततो भयं मे। मात्रा सहैव वस फल्गुनपूर्वकैस्त्वमानीतमेव परिभुङ्क्ष्व नतु व्रजेथाः॥ १९/६९॥
इत्युक्त आशु स चकार तथैव भीमस्तेऽपि स्वधर्मपरिरक्षणहेतुमौनाः। भिक्षां चरन्त्यथ चतुर्ष्वपि तेषु यातेष्वेकत्र मातृसहितः स कदाचिदास्ते॥ १९/७०॥
तत्काल एव रुदितं निजवासहेतोर्विप्रस्य दारसहितस्य निशम्य भीमः। स्त्रीबालसंयुतगृहे शिशुलालनादौ लज्जेदिति स्म जननीमवदन्नचागात्॥ १९/७१॥
जानीहि विप्ररुदितं कुत इत्यतश्‍च योग्यं विधास्य इति सा प्रययौ च शीघ्रम्। सा संवृतैव सकलं वचनं गृहेऽस्य शुश्राव विप्रवर आह तदा प्रियां सः॥ १९/७२॥
दातव्य एव हि करोऽद्य च रक्षसोऽस्य साक्षाद् बकस्य गिरिसन्निभभक्षभोज्यः। पुंसाऽनसा च सहितोऽनडुहा पुमांस्तु नैवास्ति नोऽप्रददतां च समस्तनाशः॥ १९/७३॥
अन्यत्र याम इति पूर्वमुदाहृतं मे नैतत् प्रिये तव मनोगतमास तेन। यास्यामि राक्षसमुखं स्वयमेव मर्तुं भार्यैनमाह न भवानहमत्र यामि॥ १९/७४॥
अर्थे तवाद्य तनुसन्त्यजनादहं स्यां लोके सतीप्रचरिते तदृते त्वधश्‍च। कन्याऽऽह चैनमहमेमि न कन्ययाऽर्थ इत्युक्त आह धिगिति स्म स विप्रवर्यः॥ १९/७५॥
कन्योदिता बत कुलद्वयतारिणीति जाया सखेति वचनं श्रुतिगं सुतश्‍च। आत्मैव तेन नतु जीवनहेतुतोऽहं धीपूर्वकं न्रशनके प्रतिपादयामि॥ १९/७६॥
एवं रुदत्सु सहितेषु कुमारकोऽस्य प्राह स्वहस्तगतृणं प्रतिदर्श्य चैषाम्। एतेन राक्षसमहं निहनिष्य एवेत्युक्ते सुवाक्यमनु सा प्रविवेश कुन्ती॥ १९/७७॥
पृष्टस्तयाऽऽह स तु विप्रवरो बकस्य वीर्यं बलं च दितिजारिभिरप्यसह्यम्। संवत्सरत्रययुते दशके करं च प्रातिस्विकं दशमुखस्य च मातुलस्य॥ १९/७८॥
श्रुत्वा तमुग्रबलमत्युरुवीर्यमेव रामायणे रघुवरोरुशरातिभीतम्। विष्टं बिलेष्वथ नृपान् वशमाशु कृत्वा भीत्यैव तैस्तदनु दत्तकरं ननन्द॥ १९/७९॥
एवं बलाढ्यममुमाशु निहत्य भीमः कीर्तिं च धर्ममधिकं प्रतियास्यतीह। सर्वे वयं च तमनु प्रगृहीतधर्मा यास्याम इत्यवददाशु धरासुरं तम्॥ १९/८०॥
सन्ति स्म विप्रवर पञ्च सुता ममाद्य तेष्वेक एव नरवैरिमुखाय यातु। इत्युक्त आह स न ते सुतवध्ययाऽहं पापो भवानि तव हन्त मनोऽतिधीरम्॥ १९/८१॥
उक्तैवमाह च पृथा तनये मदीये विद्याऽस्ति दिक्पतिभिरप्यविषह्यरूपा। उक्तोऽपि नो गुरुभिरेष नियुङ्क्त एतां वध्यस्तथाऽपि न सुरासुरपालकैश्‍च॥ १९/८२॥
उक्त्वैवमेत्य निखिलं च जगाद भीम उद्धर्ष आस स निशम्य महास्वधर्मम्। प्राप्तं विलोक्य तमतीवविघूर्णनेत्रं दृष्ट्वा जगाद यमसूनुरुपेत्य चान्यैः॥ १९/८३॥
मातः किमेष मुदितोऽतितरामिति स्म तस्मै च सा निखिलमाह स चाब्रवीत् ताम्। कष्टं त्वया कृतमहो बलमेव यस्य सर्वे श्रिता वयममुं च विहंसि भीमम्॥ १९/८४॥
यद्बाहुवीर्यपरमाश्रयतो हि राज्यमिच्छाम एव निखिलारिवधं स्वधर्मम्। सोऽयं त्वयाऽद्य निशिचारिमुखाय मातः प्रस्थाप्यते वद ममाशु कयैव बुद्ध्या॥ १९/८५॥
इत्युक्तवन्तममुमाह सुधीरबुद्धिः कुन्ती न पुत्रक निहन्तुमयं हि शक्यः। सर्वैः सुरैरसुरयोनिभिरप्यनेन चूर्णीकृतो हि शतशृङ्गगिरिः प्रसूत्याम्॥ १९/८६॥
एष स्वयं हि मरुदेव नरात्मकोऽभूत् को नाम हन्तुमिममाप्तबलो जगत्सु। इत्येवमस्त्विति स तामवदत् परेद्युर्भीमो जगाम शकटेन कृतोरुभोगः॥ १९/८७॥
गत्वा त्वरन् बकवनाय सकाश आशु भीमः सपायससुभक्ष्यपयोघटाद्यैः। युक्तं च शैलनिभमुत्तममन्नराशिं स्पर्शात् पुरैव नरभक्षितुरत्तुमैच्छत्॥ १९/८८॥
तेनैव चान्नसमितौ परिभुज्यमान उत्पाट्य वृक्षममुमाद्रवदाशु रक्षः। वामेन मारुतिरपोह्य तदा प्रहारान् हस्तेन भोज्यमखिलं सहभक्ष्यमादत्॥ १९/८९॥
पीत्वा पयोऽत्वरित एनमवेक्षमाण आचम्य तेन युयुधे गुरुवृक्षशैलैः। तेनाहतोऽथ बहुभिर्गिरिभिर्बलेन जग्राह चैनमथ भूमितले पिपेष॥ १९/९०॥
आक्रम्य पादमपि पादतलेन तस्य दोर्भ्यां प्रगृह्य च परं विददार भीमः। मृत्वा स चोरु तम एव जगाम पापो विष्णुद्विडेव हि शनैरनिवृत्ति चोग्रम्॥ १९/९१॥
हत्वा तमक्षतबलो जगदन्तकं स यो राक्षसो न वश आस जरासुतस्य। भौमस्य पूर्वमपि नो भरतस्य राज्ञो भीमो न्यधापयदमुष्य शरीरमग्रे॥ १९/९२॥
द्वार्येव तत् प्रतिनिधाय पुरः स भीमः स्नात्वा जगाम निजसोदरपार्श्‍वमेव। श्रुत्वाऽस्य कर्म परमं तुतुषुः समेता मात्रा च ते तदनु भीतियुताः पुरस्थाः॥ १९/९३॥
दृष्ट्वैव राक्षसशरीरमुरु प्रभीता ज्ञात्वैव हेतुभिरथ क्रमशो मृतं च। विप्रस्य तस्य वचनादपि भीमसेनभग्नं निशम्य परमं तुतुषुश्‍च तस्मै॥ १९/९४॥
अन्नात्मकं करममुष्य च सम्प्रचक्रुः सोऽप्येनमाशु नरसिंहवपुर्धरस्य। चक्रे हरेस्तदनु सत्यवतीसुतस्य विष्णोर्हि वाक्प्रमुदिताः प्रययुस्ततश्‍च॥ १९/९५॥
उत्पत्तिपूर्वककथां द्रुपदात्मजाया व्यासो ह्यनूच्य जगतां गुरुरीश्‍वरश्च। यातेत्यचोदयदथाप्यपरे द्विजाग्र्यास्तान् ब्राह्मणा इति भुजिर्भवितेति चोचुः॥ १९/९६॥
पूर्वं हि पार्षत इमान् जतुगेहदग्धान् श्रुत्वाऽतिदुःखितमनाः पुनरेव मन्त्रः। याजोपयाजमुखनिःसृत एवमेष नासत्यतार्ह इति जीवनमेषु मेने॥ १९/९७॥
यत्र क्वचित् प्रतिवसन्ति निलीनरूपाः पार्था इति स्म स तु फल्गुनकारणेन। चक्रे स्वयंवरविघोषणमाशु राजस्वन्यैरधार्यधनुरीशवराच्च चक्रे॥ १९/९८॥
तत्काल एव वसुदेवसुतोऽपि कृष्णः सम्पूर्णनैजपरिबोधत एव सर्वम्। जानन्नपि स्म हलिना सहितो जगाम पार्थान् निशम्य च मृतानथ कुल्यहेतोः॥ १९/९९॥
स प्राप्य हस्तिनपुरं धृतराष्ट्रपुत्रान् संवञ्चयंस्तदनुसारिकथाश्‍च कृत्वा। भीष्मादिभिः परिगतोऽप्रियवज्जगाम द्वारावतीमुदितपूर्णसुनित्यसौख्यः॥ १९/१००॥
तस्यान्तरे हृदिकसूनुरनन्तरं स्वं श्‍वाफल्किबुद्धिबलमाश्रित इत्युवाच। सत्राजिदेष हि पुरा प्रतिजज्ञ एनामस्मत्कृते स्वतनयां मणिना सहैव॥ १९/१०१॥
सर्वांश्‍च नः पुनरसाववमत्य कृष्णायादात् सुतां जहि च तं निशि पापबुद्धिम्। आदाय रत्नमुपयाहि च नौ विरोधे कृष्णस्य दानपतिना सह साह्यमेमि॥ १९/१०२॥
इत्युक्त आशु कुमतिः स तु पूर्वदेहे दैत्यो यतस्तदकरोदथ सत्यभामा। आनन्दसंविदपि लोकविडम्बनाय तद्देहमस्य तिलजे पतिमभ्युपागात्॥ १९/१०३॥
श्रुत्वा तदीयवचनं भगवान् पुरीं स्वामायात एव तु निशम्य महोत्सवं तम्। पाञ्चालराजपुरुषोदितमाशु वृष्णिवर्यैरगान्मुसलिना सह तत्पुरीं च॥ १९/१०४॥
भीमोऽपि रुद्रवररक्षितराक्षसं तं हत्वा तृणोपमतया हरिभक्तवन्द्यः। उष्याथ तत्र कतिचिद्दिनमच्युतस्य व्यासात्मनो वचनतः प्रययौ निजैश्‍च॥ १९/१०५॥
माङ्गल्यमेतदतुलं प्रतियात शीघ्रं पाञ्चालकान् परमभोजनमत्र सिद्ध्येत्। विप्रैरितस्तत इतीरितवाक्यमेते शृण्वन्त एव परिचक्रमुरुत्तराशाम्॥ १९/ १०६॥
षण्णां च मध्यगमुदीर्णभुजं विशालवक्षस्थलं बहुलपौरुषलक्षणं च। दृष्ट्वैव मारुतिमसावुपलप्स्यतीह कृष्णामिति स्म च वचः प्रवदन्ति विप्राः॥ १९/१०७॥
रात्रौ दिवा च सततं पथि गच्छमानाः प्रापुः कदाचिदथ विष्णुपदीं निशायाम्। सर्वस्य रक्षितुमगादिह पृष्ठतस्तु भीमोऽग्र एव शतमन्युसुतोऽन्तरेऽन्ये॥ १९/१०८॥
प्राप्ते तदोल्मुकधरेऽर्जुन एव गङ्गां गन्धर्वराज इह चित्ररथोऽर्धरात्रे। दृष्ट्वैव विप्ररहितानुदकान्तरस्थः क्षत्रात्मजा इति हि धर्षयितुं स चागात्॥ १९/१०९॥
हन्ताऽस्मि वो ह्युपगतानुदकान्तमस्या नद्याश्‍च मर्त्यचरणाय निषिद्धकाले। इत्थं वदन्तममुमाह सुरेन्द्रसूनुर्गन्धर्व नास्त्रविदुषां भयमस्ति तेऽद्य॥ १९/११०॥
सर्वं हि फेनवदिदं बहुलं बलं ते नार्थप्रदं भवति चास्त्रविदि प्रयुक्तम्। इत्युक्तवन्तममुमुत्तमयानसंस्थो बाणान् क्षिपन्नभिससार सुरेशभृत्यः॥ १९/१११॥
आग्नेयमस्त्रमभिमन्त्र्य तदोल्मुके स चिक्षेप शक्रतनयोऽस्य रथश्‍च दग्धः। तं चाग्निना परिगृहीतमभिप्रगृह्य केशेषु सञ्चकर्षाशु सुरेन्द्रसूनुः॥ १९/११२॥
पार्थेन सन्धर्षितः शरणं जगाम धर्मात्मजं तमपि सोऽथ निजास्त्रमुग्रम्। सञ्जह्र एव तत आस च नामतोऽसावङ्गारवर्ण इति वर्णविपर्ययेण॥ १९/११३॥
गन्धर्व उल्बणसुरक्ततनुः स भूत्वा स्वर्णावदात उत पूर्वमुपेत्य सख्यम्। पार्थेन दुर्लभमहास्त्रमिदं ययाचे जानन्नपि स्म नहि तादृशमेष वेद॥ १९/११४॥
विद्या सुशिक्षिततमा हि सुरेन्द्रसूनौ तामस्य चावददसावपि कालतोऽस्मै। गन्धर्वगामवददन्वगदृश्यविद्यां पश्‍चादिति स्म पुरुहूतसुतस्य वाक्यात्॥ १९/११५॥
आधिक्यतः स्वगतसंविद एव साम्ये नैवेच्छति स्म निमयं स धनञ्जयोऽत्र। धर्मार्थमेव स तु तां परिदाय तस्मै कालेन संविदमुष्य च धर्मतोऽयात्॥ १९/११६॥
पार्थेन सोऽपि बहुलाश्‍च कथाः कथित्वा धौम्यस्य सङ्ग्रहणमाह पुरोहितत्वे। दास्यामि दिव्यतुरगानिति सोऽर्जुनाय वाचं निगद्य दिवमारुहदप्यगुस्ते॥ १९/११७॥
ते धौम्यमाप्य च पुरोधसमुत्तमज्ञं विप्रात्मजोपमतया विविशुः पुरं च। पाञ्चालकस्य निखिलां ददृशुश्‍च तत्र मूर्धाभिषिक्तसमितिं समलङ्कृतां च॥ १९/११८॥
राजन्यमण्डलमुदीक्ष्य सुपूर्णमत्र कृष्णां प्रगृह्य सहजः प्रगृहीतमालाम्। तेषां च मध्यमगमत् कुलवीर्यसम्पद्युक्तां विभूतिमथ चाह समस्तराज्ञाम्॥ १९/११९॥
तांश्‍च प्रदर्श्य सकलान् स हुताशनांशश्‍चापं च तत् प्रतिनिधाय सपञ्चबाणम्। आहाभिभाष्य सकलान् नृपतीनथोच्चैर्दीप्यद्धुताशनवपुर्घनतुल्यघोषः॥ १९/१२०॥
एतेन कार्मुकवरेण तरूपरिस्थमत्स्यावभासमुदके प्रतिवीक्ष्य येन। एतैः शरैः प्रतिहतो भवतीह मत्स्यः कृष्णाऽनुयास्यति तमद्य नरेन्द्रवीराः॥ १९/१२१॥
इत्यस्य वाक्यमनु सर्वनरेन्द्रपुत्रा उत्तस्थुरुद्धतमदाश्‍चलकुण्डलास्याः। अस्त्रं बलं च बहु नैजमभीक्षमाणाः स्पर्धन्त एव च मिथः समलङ्कृताङ्गाः॥ १९/१२२॥
केचिन्निरीक्ष्य धनुरेत्य न मे सुशक्यमित्येव चापययुरन्य उत प्रचाल्य। तत्राससाद शिशुपाल उरुप्रतापः सङ्गृह्य तत् समधिरोपणयत्न आसीत्॥ १९/१२३॥
माषान्तराय स चकर्ष यदैव कोट्या उन्नम्य तत् प्रतिजघान तमेव चाशु। अन्यत्र फल्गुनत एतदशक्यमेवेत्यञ्जो गिरीशवरतः स ययौ च भग्नः॥ १९/१२४॥
मद्रेश एत्य चकृषे स्थविरोऽपि वीर्याच्चेदीशतोऽप्यधिकमेव स मुद्गमात्रे। शिष्टेऽमुना प्रतिहतः स ययावशक्यं मत्वाऽऽत्मनस्तदनु भूपतयो विषण्णाः॥ १९/१२५॥
सन्नेषु भूपतिषु मागध आससाद सोऽवज्ञयैव बलवीर्यमदेन दृप्तः। चापं चकर्ष चलपादतलो बलेन शिष्टे स सर्षपमितेऽभिहतोऽमुनैव॥ १९/१२६॥
जानुन्यमुष्य धरणीं ययतुस्तदैव दर्पेण चास्थिरपदः स्थितिमात्रहेतोः। रौद्राद् वरात् स जडतां गमितोऽथ राजा राज्ञां मुखान्यनभिवीक्ष्य ययौ स्वराष्ट्रम्॥ १९/१२७॥
प्रायो गतास्तमनु भूपतयोऽथ कर्णो दुर्योधनार्थमनुगृह्य धनुश्‍चकर्ष। रामादुपात्तशुभशिक्षितमात्रतोऽसौ रोमावशिष्टमकरोद् धनुषोऽन्तमाशु॥ १९/१२८॥
तस्मिंश्‍च तेन विहते प्रतिसन्निवृत्ते भीमार्जुनौ द्विजसदस्युपसन्निविष्टौ। उत्तस्थतू रविशशिप्रतिमानरूपौ विप्रेषु तत्र च भिया विनिवारयत्सु॥ १९/१२९॥
विप्राश्‍च केचिदतियुक्तमिमौ हि वीरौ देवोपमाविति वचो जगदुस्ततस्तौ। दृष्ट्वैव कृष्णमुखपङ्कजमाशु चापसान्निध्यमाययतुरुत्तमवीर्यसारौ॥ १९/१३०॥
तत्रार्जुनः पवनजात् प्रियतोऽप्यनुज्ञामादाय केशवमजं मनसा प्रणम्य। कृत्वा गुणान्वितमदो धनुरश्रमेण यन्त्रान्तरेण स शरैरधुनोच्च लक्ष्यम्॥ १९/१३१॥
कृष्णा तदाऽस्य विदधे नवकञ्जमालां मध्ये च तां प्रतिविधाय नरेन्द्रपुत्रौ। भीमार्जुनौ ययतुरच्युतमाभिनम्य क्षुब्धस्तदा नृपवराब्धिरिमावधावत्॥ १९/१३२॥
द्रष्टुं हि केवलगतिर्नतु कन्यकाया अर्थे न चापमिह वृष्णिवराः स्पृशन्तु। इत्याज्ञयैव वरचक्रधरस्य लिप्सामन्यत्र चक्रुरिह नैव यदुप्रवीराः॥ १९/१३३॥
भीमस्तु राजसमितिं प्रतिसम्प्रयातां दृष्ट्वैव योजनदशोच्छ्रयमाशु वृक्षम्। आरुज्य सर्वनृपतीनभितोऽप्यतिष्ठद् दृष्ट्वा पलायनपराश्‍च बभूवुरेते॥ १९/१३४॥
भीमोऽयमेष पुरुहूतसुतोऽन्य एते पार्था इति स्म हलिने हरिरभ्यवोचत्। दृष्ट्वैव सोऽपि मुदमाप शिनेश्‍च पौत्रः खड्गं प्रगृह्य हर्षात् परिपुप्लुवेऽत्र॥ १९/१३५॥
प्रीतेषु सर्वयदुषु प्रपलायितेषु दुर्योधनादिनृपतिष्वखिलेषु भीमात्। कर्णोऽभ्ययाद्धरिहयात्मजमाशु मद्रराजो जगाम पवनात्मजमेव वीरः॥ १९/१३६॥
विप्रेषु दण्डपटदर्भमहाजिनानि कोपात् क्षिपत्सु न विनाशनमत्र भूयात्। क्षत्रस्य वैरत इति द्रुपदे च कृष्णं विप्रांश्‍च याचति स मारुतिरार शल्यम्॥ १९/१३७॥
वृक्षं त्वसौ प्रतिनिधाय च मद्रराजं दोर्भ्यां प्रगृह्य जवतो गगने निधाय। बन्धुत्वतो भुवि शनैरदधात् स तस्य विज्ञाय वीर्यमगमन्निजराजधानीम्॥ १९/१३८॥
पार्थोऽपि तेन धनुषा युयुधे स्म कर्णं सोऽप्यत्र बाहुबलमाविरमुत्र चक्रे। तौ धन्विनामनुपमौ चिरमस्यतां च सूर्यात्मजोऽत्र वचनं व्यथितो बभाषे॥ १९/१३९॥
त्वं फल्गुनो हरिहयो द्विजसत्तमो वा मूर्तं न मे प्रमुखतः स्थितिमन्य ईष्टे। यो वाऽस्मि कोऽपि यदि ते क्षममद्य बाणान् मुञ्चान्यथैहि रणतस्त्विति पार्थ आह॥ १९/१४०॥
कार्यं न मे द्विजवरैः प्रतियोधनेनेत्युक्त्वा ययौ रविसुतः स सुयोधनाद्यैः। नागाह्वयं पुरमथ द्रुपदात्मजां तामादाय चार्जुनयुतः प्रययौ स भीमः॥ १९/१४१॥
अग्नेऽश्‍विपुत्रसहितः स तु धर्मसूनुः प्रायात् कुलालगृहमन्वपि भीमपार्थौ। भिक्षेति तैरभिहिते प्रजगाद कुन्ती भुङ्ध्वं समस्तश इति प्रददर्श कन्याम्॥ १९/१४२॥
प्रामादिकं च वचनं न मृषा तयोक्तं प्रायो हि तेन कथमेतदिति स्म चिन्ता। तेषां बभूव वसुदेवसुतो हरिश्‍च तत्राजगाम परमेण हि सौहृदेन॥ १९/१४३॥
सम्भाष्य तैः स भगवानमितात्मशक्तिः प्रायान्निजां पुरममा यदुभिः समस्तैः। ज्ञातुं च तान् निशि स तु द्रुपदः स्वपुत्रं प्रास्थापयत् स च विलीन इमानपश्यत्॥ १९/१४४॥
भिक्षान्नभोजिन उतो भगिनीं निजां च तत्रातितृप्तहृदयामथ युद्धवार्ताम्। तेषां निशम्य नदतां घनवद् गभीरं क्षत्रोत्तमा इति मतिं स चकार वीरः॥ १९/१४५॥
प्रातस्तु तस्य जनितुर्वचसा पुरोधास्तान् प्राप्य मन्त्रविधिना मरुदात्मजेन। सम्पूजितोऽतिविदुषा प्रतिगृह्य तांश्‍च प्रावेशयन्नृपतिगेहममैव मात्रा॥ १९/१४६॥
तानागतान् समभिपूज्य निजात्मजां च विप्रादियोग्यपृथगुक्तपदार्थजातैः। पूर्णान् गृहांश्‍चतुर एव दिदेश राजा तत्रायुधादिपरिपूर्णगृहं च तेऽगुः॥ १९/१४७॥
चेष्टास्वराकृतिविवक्षितवीर्यशौर्यप्रागल्भ्यपूर्वकगुणैः क्षितिभर्तृपुत्रान्। विज्ञाय तान् द्रुपद एत्य च धर्मसूनुं पप्रच्छ कोऽसि नरवर्य वदस्व सत्यम्॥ १९/१४८॥
स प्राह मन्दहसितः किमिहाद्य राजन् पूर्वं हि वर्णविषये न विशेष उक्तः। पुत्रीकृते तव सुतेन तु लक्ष्यवेध उक्तो नरेन्द्रसमितौ स कृतोऽप्यनेन॥ १९/१४९॥
एवं ब्रुवाणमथ तं पृथया सहैव राजा वदेति पुनरेव ययाच एषः। सर्वं पृथाऽप्यवदतां स च तेन तुष्टो वाचं जगाद कृतकृत्य इहासमद्य॥ १९/१५०॥
पार्थार्थमेव हि मयैष कृतः प्रयत्नः त्वं फल्गुनोऽन्य उत वाऽद्य करं सुतायाः। गृह्णात्वितीरित इमं स तु धर्मसूनुराह स्म सर्व इति मे मनसि प्ररूढम्॥ १९/१५१॥
नात्र प्रमा मम हृदि प्रतिभात्यथापि धर्माचला मम मतिर्हि तदेव मानम्। इत्युक्तवत्यपि सहैव सुतेन राजा नैवैच्छदत्र भगवानगमच्च कृष्णः॥ १९/१५२॥
व्यासं तमीक्ष्य भगवन्तमगण्यपूर्णनित्याव्ययात्मगुणमाशु समस्त एव। नत्वाऽभिपूज्य वरपीठगतस्य चाज्ञामादाय चोपविविशुः सहितास्तदन्ते॥ १९/१५३॥
कृष्णस्तदाऽऽह नृपतिं प्रति देहि कन्यां सर्वेभ्य एव वृषवायुपुरन्दरा हि। नासत्यदस्रसहिता इम एव इन्द्राः पूर्वे च सम्प्रतितनश्‍च हरेर्हि पश्‍चात्॥ १९/१५४॥
एषां स्त्रियश्च निखिला अपिचैकदेहा पुत्री तवैव न ततोऽत्र विरुद्धता हि। इत्युक्तवत्यपि यदा द्रुपदश्‍चकार संवादिनीं न धियमेनमथाह कृष्णः॥ १९/१५५॥
दिव्यं हि दर्शनमिदं तव दत्तमद्य पश्याशु पाण्डुतनयान् दिवि संस्थितांस्त्वम्। एतां च ते दुहितरं सह तैः पृथक्स्थां तल्लक्षणैः सह ततः कुरु ते यथेष्टम्॥ १९/१५६॥
इत्युक्तवाक्यमनु तान् स ददर्श राजा कृष्णप्रसादबलतो दिवि तादृशांश्‍च। एतान् निशाम्य चरणौ जगदीशितुश्‍च भीतो जगाम शरणं तदनादरेण॥ १९/१५७॥
दत्त्वाऽभयं स भगवान् द्रुपदस्य कार्ये तेनोमिति स्म कथिते स्वयमेव सर्वाम्। वैवाहिकीं कृतिमथ व्यदधाच्च धौम्ययुक्तः क्रमेण जगृहुर्निखिलाश्‍च पाणिम्॥ १९/१५८॥
पाञ्चालकेषु च महोत्सव आस राजा तुष्टोऽभवत् सह सुतैः स्वजनैश्‍च सर्वैः। पौरैश्‍च जानपदिकैश्‍च यथैव रामे दत्त्वा सुतां जनक आप मुदं ततोऽनु॥ १९/१५९॥
उद्वाह्य तत्र निवसत्सु च पाण्डवेषु श्रुत्वैव रामसहितः सह यादवैश्‍च। आदाय पारिबर्हं बहुलं स कृष्ण आयान्मुदैव पृथया सहितांश्‍च पार्थान्॥ १९/१६०॥
दृष्ट्वैव तं मुमुदुराशु कुरुप्रवीरा आश्लिष्य कृष्णमथ नेमुरसौ च कृष्णाम्। दृष्ट्वा प्रदाय गृहयोग्यसमस्तभाण्डं सौवर्णमेभ्य उरु भूषणमच्युतोऽदात्॥ १९/१६१॥
देवाङ्गयोग्यशुभकुण्डलहारमौलिकेयूरवस्त्रसहितान्युरुभूषणानि। षण्णां पृथक्पृथगदात् पृथगेव योग्यान्यन्यद् ददावथ पितृष्वसुरात्मयोग्यम्॥ १९/१६२॥
रत्नानि गोगजतुरङ्गरथान् सुवर्णभारान् बहूनपि ददावथ चाशिषोऽग्र्याः। व्यासोऽप्यदादिह परत्र च पार्षतोऽपि भूषारथाश्‍वगजरत्नसुकाञ्चनानि॥ १९/१६३॥
दासीश्‍च दाससहिताः शुभरूपवेषाः साहस्रशो ददतुरत्र हरिर्नृपश्‍च। तासां विचित्रवसनान्युरुरत्नमालाः प्रत्येकशो ददतुरप्युरुभूषणानाम्॥ १९/१६४॥
मासान् बहूनपि विहृत्य सहैव पार्थैः कृष्णो ययौ यदुपुरीं सहितोऽग्रजेन। अन्तर्हिते भगवति प्रततोरुशक्तौ व्यासे च वत्सरमिहोषुरिमे च पार्थाः॥ १९/१६५॥
वैचित्रवीर्यतनयाः सह सौबलेन कर्णेन सिन्धुपतिना रथहस्तियोधैः। भूरिश्रवःप्रभृतिभिश्‍च सहैव हन्तुं पाञ्चालराजमगुरेत्य पुरीं पुनस्ते॥ १९/१६६॥
तैरर्दिते स्वपुर आशु स सोमकानां राजा सुतैः सह ससैनिक उद्गतोऽभूत्। तेषां च तस्य च बभूव महान् विमर्दः पुत्रौ च तस्य निहतौ विधुताश्‍च सेनाः॥ १९/१६७॥
चित्रे हते समर आशु सचित्रकेतौ धावत्सु सैनिकवरेषु च पार्षतस्य। पार्था रथैरभिययुर्धृतचापबाणा वैचित्रवीर्यतनयान् रविसूनुयुक्तान्॥ १९/१६८॥
तैस्तेषु पञ्चसु समं प्रतियोधयत्सु भूरिश्रवाः सरविजो विरथं चकार। शक्रात्मजं तदनु पर्वतसन्निकाशं दोर्भ्यां तु मारुतिरुरुं तरुमुद्बबर्ह॥ १९/१६९॥
आयान्तमीक्ष्य तरुहस्तमिमं समीरसूनुं सुयोधनमुखा निखिलाः सकर्णाः। भूरिश्रवाः शकुनिभूरिजयद्रथाश्‍च सर्वेऽपि दुद्रुवुरथो विविशुः पुरं स्वम्॥ १९/१७०॥
ज्ञात्वा समस्तमपि तद् विदुरोऽग्रजं स्वं वर्धन्त एव तनया भवतो नरेन्द्र। इत्याह सोऽपि मुदितः स्वसुतेन कृष्णा प्राप्तेति भूषणवराण्यदिशच्च वासः॥ १९/१७१॥
पार्था इति स्म विदुरोऽवददाशु सोऽपि स्वाकारगूहनपरो यदि तर्ह्यतीव। भद्रं मृता नहि पृथासहिताः स्म पार्थास्तेषां प्रवृत्तिमपि मे वद सर्वशस्त्वम्॥ १९/१७२॥
इत्युक्त आह विदुरः स हिडिम्बवध्यापूर्वां प्रवृत्तिमखिलामपि लक्ष्यवेधम्। उद्वाहमप्यथ नदीजमुखाश्‍च सर्वे तुष्टा बभूवुरपि वत्सरमूषुरेवम्॥ १९/१७३॥
श्रुत्वाऽथ कृष्णमुपयातमुरु प्रदाय रत्नं च पाण्डुतनयेषु गतं पुनश्‍च। तातप्यमानहृदयास्तु सुयोधनाद्या मन्त्रं प्रचक्रुरथ कर्णमुखा ययुश्‍च॥ १९/१७४॥
युद्धाय तेषु पुनरेव रथैः प्रयातेष्वाहाग्रजं स विदुरोऽपि नदीजमुख्यान्। एते हि पापतमचेतस एत्य पार्थान् युद्धाय मृत्युमुपयान्ति न संशयोऽत्र॥ १९/१७५॥
भीमार्जुनौ विषहितुं नहि कश्‍चनास्ति सामर्थ्ययुक् सुरवरेष्वपि वर्धितास्ते। ज्ञात्वैव वत्सरत एव महानधर्मस्तेषामुपेक्षणकृतस्तदलं नियुङ्क्ष्व॥ १९/१७६॥
आनीतये च विनियुज्य सुसान्त्वपूर्वमानीय योजय नृपेषु तथाऽर्धराज्यम्। एवं कृते तव भवेत् कुलवृद्धये हि धर्माय चोभयविनाशकरोऽन्यथा स्याः॥ १९/१७७॥
इत्युक्तवत्यनु तथेत्यवदन्नदीजो द्रोणः कृपश्‍च विदुरं स नृपोऽप्युवाच। याह्यानयेति स च वेगवता रथेन तत्रागमत् तदनु तैरभिपूजितश्‍च॥ १९/१७८॥
तत्काल एव वसुदेवसुतश्‍च कृष्णो व्यासश्‍च तानुपसमेत्य दुरन्तशक्ती। आदाय कुन्तिसहितान् विदुरेण युक्तौ नागाह्वयं पुरमितां सह भार्ययैव॥ १९/१७९॥
तेष्वागतेषु सुमहानभवत् प्रहर्षः पौरस्य जानपदिकस्य जनस्य चोच्चैः। भीष्मादिकाश्‍च मुदिताः प्रतिपूज्य गेहमावेशयन् सह नृपेण महोत्सवेन॥ १९/१८०॥
कृष्णामपूजयदतीव च सौबली सा दुर्योधनस्य दयितासहिताऽत्र तेऽपि।
ऊषुस्ततश्‍च निजपुत्रकदुर्विनीत्या कृष्णानिमित्तमुरुभीतित आह भीमात्॥ १९/१८१॥
कुन्ति प्रयाहि सहिता स्नुषया गृहं स्वं भीमाद् बिभेमि निजपुत्रकदुर्विनीत्या। कृष्णा त्रिलोकवनिताधिकरूपसारा यस्मादिति स्म ससुता प्रययौ गृहं सा॥ १९/१८२॥
ऊषुस्तथैव परिवत्सरपञ्चकं ते पाण्डोर्गृहे सुसुखिनोऽखिलभोगयुक्ताः। कृष्णा च तेषु पृथगेव चतुःस्वरूपा रेमे तथैकतनुरप्यभिमानिभेदात्॥ १९/१८३॥
कन्यैव साऽभवदतः प्रतिवासरं च जन्माभवद्ध्यभिमतेः पृथगेव नाशात्। प्रायो हि नाभिमतिनाशमवाप वाणी तस्मान्मरुच्च सकलेष्वभिविष्ट आसीत्॥ १९/१८४॥
धर्मात्मजादिषु मरुत् प्रतिविष्ट एषां बुद्धिं विमोह्य रमते सततं तया यत्। शुद्धैव सा हि तत एव दिनेदिने च सम्मोहतो मरणवद् भवतीह कन्या॥ १९/१८५॥
नो सुप्तिवत् त्विदमतोऽन्यवशत्वतो हि देहस्य संस्मृतित एव हरेर्न मोहः। नावेशवच्च तत एव मृतेः स्वरूपमेतत् त्वतः प्रतिदिनं जननाद्धि कन्या॥ १९/१८६॥
एवं स वायुरनुविष्टयुधिष्ठिरादिभीमात्मनैव रमते सततं तयैकः। अन्यादृशा हि सुरभुक्तिरतोऽन्यरूपा मानुष्यभुक्तिरिति नात्र विचार्यमस्ति॥ १९/१८७॥
वासिष्ठयादववृषावपि केशवौ तौ तत्रोषतुः परमसौहृदतो हि तेषु। ताभ्यामनन्तगुणपूर्णसुखात्मकाभ्यां पार्थाश्‍च ते मुमुदिरे युतसत्कथाभिः॥ १९/१८८॥
पूर्वं हि तेषु वनगेषु बभूव काशिराज्ञः सुताकृत उरुक्षितिपालयोगः। तत्र स्वयंवरगतां धृतराष्ट्रपुत्रः कन्यां बलाज्जगृह आत्मबलातिदृप्तः॥ १९/१८९॥
पूर्वं हि राजगणने मगधाधिराजः सङ्ख्यात इत्यतिरुषा प्रगृहीतकन्ये। दुर्योधने नृपतयो युयुधुः स्म तेन भग्नाश्‍च कर्णसहितेन सहानुजेन॥ १९/१९०॥
भग्नेषु तेषु पुनरात्तशरासनेषु कर्णो जगाद धृतराष्ट्रसुतं प्रयाहि। युक्तः सहोदरजनैर्गुरुभीष्ममुख्ययुक्तस्य ते न पुरमेत्य हि धर्षणेशाः॥ १९/१९१॥
एकान्ततो जयमवीक्ष्य च नानुयाति बार्हद्रथः पुरगतस्य जये न निष्ठा। द्रौणिं हि रुद्रतनुमेष सदा विजानन् नो तेन युद्धमभिवाञ्छति रुद्रभक्तः॥ १९/१९२॥
एकोऽहमेव नृपतीन् प्रतियोधयिष्य एतैर्मयि प्रविजितेऽपि न तेऽस्त्यकीर्तिः। एकं च तेऽनुजमिमे यदि पौरुषेण गृह्णीयुरत्र तव कीर्तिरुपैति नाशम्॥ १९/१९३॥
भीष्मादयोऽपि नहि योधयितुं समर्था राज्ञा ह्यनेन तत एव हि बाह्लिकोऽस्य। भृत्यो बभूव नहि भीष्ममयं युधेऽगाद् राजा नहीति नच तेन विरोध आसीत्॥ १९/१९४॥
इत्युक्त आशु स विमृश्य ययौ पुरं स्वं कर्णोऽपि तैः प्रतियुयोध जिगाय चैनान्। कर्णस्य वीर्यमगणय्य जरासुतोऽपि ह्येकैकमेव नृपतिं स दिदेश योद्धुम्॥ १९/१९५॥
सर्वेषु तेषु विजितेष्वभिजग्मिवान् स योद्धुं बृहद्रथसुतोऽप्यमुना रथेन। तं चैव रामवरतो विरथं विशस्त्रं चक्रे स चैनमथ मुष्टिभिरभ्युपेतौ॥ १९/१९६॥
सन्धौ यदैव जरया प्रतिसन्धितस्य कर्णो जघान न परत्र तुतोष राजा। न ज्ञातमेतदपि हो हलिना तदेतज्ज्ञातं त्वया भव ततो मम भृत्य एव॥ १९/१९७॥
एवंविधं सुकुशलं बहुयुद्धशौण्डं न त्वां हनिष्य उत ते पितुरेव पूर्वम्। बाह्वोर्बलादभिहृतं हि मयाऽङ्गराज्यं तत् त्वं गृहाण युधि कर्मकरश्‍च मे स्याः॥ १९/१९८॥
इत्युक्त आशु स तथैव चकार कर्णः पूर्वं हि तस्य निजराज्यपदैकदेशः। दुर्योधनेन विहितो मगधाधिराजं जित्वा वृकोदरहृतः पितुरेव दत्तः॥ १९/१९९॥
अङ्गाधिराज्यमुपलभ्य जरासुतस्य स्नेहं च सूर्यसुत आशु कुरून् जगाम। दृष्ट्वैव तं मुमुदिरे धृतराष्ट्रपुत्रा नानेन तुल्यमधिजग्मुरतो हरिं च॥ १९/२००॥
उद्वाह्य काशितनयां गिरिजाभिविष्टां साक्षान्नरेषु जनितां प्रथमामलक्ष्मीम्। तस्यां सुतं त्वजनयत् पुर आस योऽक्षः कन्यां पुरा प्रियतमां च षडाननस्य॥ १९/२०१॥
पुत्रो बभूव स तु लक्षणनामधेयः सा लक्षणेत्यधिकरूपगुणाऽस कन्या। तस्यानुजाश्‍च निजयोग्यगुणा अवापुर्भार्याः पुनश्‍च स सुयोधन आप भार्याः॥ १९/२०२॥
पूर्वं सुरान्तक इति प्रथितः सुतोऽभूद् दुःशासनस्य तदनु प्रतितप्यमानाः। दृष्ट्वैव पार्थबलवीर्यगुणान् समृद्धिं तां चैव ते प्रतिययुः स्म कलिङ्गदेशम्॥ १९/२०३॥
आसीत् स्वयंवर उतात्र कलिङ्गराजपुत्र्याः सुवज्र इति यं प्रवदन्ति भूपाः। रौद्राद् वरादविजितस्य च तस्य कन्यां दृप्तो बलात् स जगृहे धृतराष्ट्रसूनुः॥ १९/२०४॥
तत्राथ रुद्रवरतः स जरासुतेन युक्तो बबन्ध च सुयोधनमाशु जित्वा। कर्णः पराद्रवदिह स्म सुतेषु पाण्डोर्यस्मात् स्पृधाऽगमदतः स पराजितोऽभूत्॥ १९/२०५॥
दुर्योधनेऽनुजजनैः सह तैर्गृहीते भीष्माम्बिकेयविदुराग्रजवाक्यनुन्नः। भीमो विजित्य नृपतीन् सजरासुतांस्तान् हत्वा सुवज्रममुचद् धृतराष्ट्रपुत्रान्॥ १९/२०६॥
तेऽपि स्म कर्णसहिता मृतकप्रतीका नागाह्वयं पुरमथाययुरप्यमीषाम्। दृष्ट्वा विरोधमवदन्नृपतिश्‍च धर्मपुत्रं पुरन्दरकृतस्थलमाशु याहि॥ १९/२०७॥
तत्रार्धराज्यमनुभुङ्क्ष्व सहानुजैस्त्वं कोशार्धमेव च गृहाण पुरा हि शक्रः। तत्राभिषिक्त उत कञ्जभवादिदेवैस्तत्रस्थ एव स चकार चिरं च राज्यम्॥ १९/२०८॥
त्वं वीर शक्रसम एव ततस्तवैव योग्यं पुरं तदत आश्वभिषेचयामि। इत्युक्त आह स युधिष्ठिर ओमिति स्म चक्रेऽभिषेकमपि तस्य स आम्बिकेयः॥ १९/२०९॥
तस्याभिषेकमकरोत् प्रथमं स कृष्णो वासिष्ठनन्दन उरुर्भव चक्रवर्ती। यष्टाऽश्‍वमेधनिखिलात्मकराजसूयपूर्वैर्मखैः सततमेव च धर्मशीलः॥ १९/२१०॥
इत्येव पार्षतसुतासहितेऽभिषिक्ते कृष्णोऽपि वृष्णिवृषभः स तथाऽभ्यषिञ्चत्। एवं च मारुतिशिरस्यभिषेकमेतौ सञ्चक्रतुः स्म युवराजपदे सभार्यम्॥ १९/२११॥
भीमे च पार्षतसुतासहितेऽभिषिक्ते ताभ्यामनन्तसुखशक्तिचिदात्मकाभ्याम्। अन्यैश्‍च विप्रवृषभैः सुकृतेऽभिषेके धर्मात्मजानु मुमुदुर्निखिलाश्‍च सन्तः॥ १९/२१२॥
तस्मिन् महोत्सववरे दिनसप्तकानुवृत्ते वसिष्ठवृषभेण च वृष्णिपेन। कृष्णेन ते ययुरमा पृथया तया च पाञ्चालराजसुतया स्थलमिन्द्रवासम्॥ १९/२१३॥
कोशस्य चार्धसहितास्तु यदैव पार्था गच्छन्ति ताननुययुर्निखिलाश्‍च पौराः। ऊचुश्‍च हा बत सुयोधन एष पापो दूरे चकार ननु पाण्डुसुतान् गुणाढ्यान्॥ १९/२१४॥
भीमप्रतापमवलम्ब्य कलिङ्गबन्धान्मुक्तः सुतामपि हि तस्य पुरं निनाय। द्वेष्ट्येवमप्यतिबलान् हि सदैव पार्थान् यामो वयं गुणिभिरद्य सहैव पार्थैः॥ १९/२१५॥
आज्ञापयत्यपि स भेरिरवेण पार्थान् नैवानुगच्छत यदि व्रजथानु वोऽद्य। वित्तं हरिष्य इह सर्वमपीति तच्च पापः करोतु न वयं विजहाम पार्थान्॥ १९/२१६॥
सद्भिर्हि सङ्गतिरिहैव सुखस्य हेतुर्मोक्षैकहेतुरथ तद्विपरीतमन्यत्। तस्माद् व्रजेम सह पाण्डुसुतैर्हि शक्रप्रस्थं त्विति स्म धृतचेतस आह धर्मः॥ १९/२१७॥
प्रीतिर्यदि स्म भवतां मयि सानुजेऽस्ति तिष्ठध्वमत्र पितुरेव हि शासने मे। कीर्तिर्हि वोऽनुगमनात् पितुरत्ययेन नश्येन्न इत्यनुसरध्वमिहाम्बिकेयम्॥ १९/२१८॥
इत्येव तैः पुरजना निखिलैर्निषिद्धाः कृच्छ्रेण तस्थुरपि तान् मनसाऽन्वगच्छन्।
प्राप्याथ शक्रपुरमस्मरतां च कृष्णौ देवेशवर्धकिमथागमदत्र सोऽपि॥ १९/२१९॥
वासिष्ठपेन यदुपेन च पाण्डवानां रत्नोत्करं कुरु पुरं पुरुहूतपुर्याः। सादृश्यतस्त्विति नियुक्त उभौ प्रणम्य सर्वेश्‍वरौ स कृतवांश्‍च पुरं तथैव॥ १९/२२०॥
देशं च नातिजनसंवृतमन्यदेशसंस्थैर्जनैरभिपुपूरिर आशु पार्थाः। तेषां गुणैर्हरिपदानतिहेतुतश्‍च राष्ट्रान्तरा इह शुभा वसतीः स्म चक्रुः॥ १९/२२१॥
प्रस्थाप्य दूरमनुजस्य सुतान् स राजा चक्रेऽभिषेकमपि तत्र सुयोधनस्य। दुःशासनं च युवराजमसौ विधाय मेने कृतार्थमिव च स्वमशान्तकामः॥ १९/२२२॥
पार्थाश्‍च ते मुमुदुरत्र वसिष्ठवृष्णिवर्योदितानखिलतत्त्वविनिर्णयांस्तु। शृण्वन्त एव हि सदा पृथिवीं च धर्माद् भुञ्जन्त आश्रितरमापतिपादयुग्माः॥ १९/२२३॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये पाण्डवराज्यलाभो नाम एकोनविंशोऽध्यायः समाप्तः॥
विंशोऽध्यायः
यज्ञोरुदाननरदेववन्द्यताप्रश्नर्षिपूजासु युधिष्ठिरोऽभूत्। धर्मानुशास्तिहरितत्त्वशंसनस्वराष्ट्ररक्षादिषु भीम आसीत्॥ २०/१॥
स्त्रीधर्मसंशासनभृत्यकोशरक्षाव्ययादौ गुणदोषचिन्तने। अन्तःपुरस्थस्य जनस्य कृष्णा त्वासीद्धरेर्धर्मनिदर्शनी च॥ २०/२॥
बीभत्सुरासीत् परराष्ट्रमर्दने तेनानियम्यांंस्तु जरासुतादीन्। सकीचकादींश्‍च ममर्द भीमस्तस्यैव ते बलतो नित्यभीताः॥ २०/३॥
राष्ट्रेषु भीमेन विमर्दितेषु जिताश्‍च युद्धेषु निरुद्यमास्ते। बभूवुरासीद्धरिधर्मनिष्ठः प्रायेण लोकश्‍च तदीयशासनात्॥ २०/४॥
आजीविनां वेतनदस्तदाऽऽसीन्माद्रीसुतः प्रथमोऽथ द्वितीयः। सन्धानभेदादिषु धर्मराजपश्‍चाच्च खड्गी स बभूव रक्षन्॥ २०/५॥
धृष्टद्युम्नस्तत्र सेनाप्रणेता शक्रप्रस्थे नित्यमास्तेऽतिहार्दात्। विशेषतो भीमसखा स आसीद् राष्ट्रं चैषां सर्वकामैः सुपूर्णम्॥ २०/६॥
नावैष्णवो न दरिद्रो बभूव न धर्महानिश्‍च बभूव कस्यचित्। तेषां राष्ट्रे शासति भीमसेने न व्याधितो नापि विपर्ययान्मृतिः॥ २०/७॥
युधिष्ठिरं यान्ति हि दर्शनोत्सुकाः प्रतिग्रहायाप्यथ याजनाय। कार्यार्थिनो नैव वृकोदरेण कार्याणि सिद्ध्यन्ति यतोऽखिलानि॥ २०/८॥
गन्धर्वविद्याधरचारणाश्‍च सेवन्त एतान् सततं समस्ताः। यथा सुरेन्द्रं मुनयश्‍च सर्व आयान्ति देवा अपि कृष्णमर्चितुम्॥ २०/९॥
तेषां राष्ट्रे कार्तयुगा हि धर्माः प्रवर्तिता एव ततोऽधिकाश्‍च। वृद्धिश्‍च तस्मादधिका सुवर्णरत्नाम्बरादेरपि सस्यसम्पदाम्॥ २०/१०॥
अथोपयेमे शिशुपालपुत्रीं युधिष्ठिरो देवकीं नाम पूर्वाम्। स्वीयां भार्यां यत्सहजो धृष्टकेतुरनुह्लादः सवितुश्‍चांशयुक्तः॥ २०/११॥
तस्यां सुहोत्रो नामतः पुत्र आसीद् यश्‍चित्रगुप्तो नाम पूर्वं सुलेखः।
कृष्णा सैवाऽप्यन्यरूपेण जाता काशीशपुत्री यां प्रवदन्ति कालीम्॥ २०/१२॥
सा केवला भारती नान्यदेव्यस्तत्राविष्टास्तत्कृते काशिराजः। स्वयंवरार्थे नृपतीनाजुहाव सर्वांस्तेऽपि ह्यत्र हर्षात् समेताः॥ २०/१३॥
तेषां मध्ये भीमसेनांस एषा मालामधात् तत्र जरासुताद्याः। क्रुद्धा विष्णोराश्रितानाक्षिपन्त आसेदुरुच्चैः शिवमास्तुवन्तः॥ २०/१४॥
पूर्वं वाक्यैर्वैदिकैस्तान् स भीमो जिग्ये तर्कैः साधुभिः सम्प्रयुक्तैः। वेदा ह्यदोषा इति पूर्वमेव संसाधयित्वैव सदागमैश्‍च॥ २०/१५॥
वेदाधिक्यं शैवशास्त्राणि चाहुर्वेदोज्झितानां बहुलां च निन्दाम्। तथा शाक्तेयस्कान्दसौरादिकानां तत्रैवोक्तं छन्दसां वैष्णवत्वम्॥ २०/१६॥
विष्णोराधिक्यं तानि शास्त्राणि चाहुः शिवादिभ्यः कुत्रचिन्नैव वेदे। विष्णूत्कर्षः कथितो बौद्धपूर्वाश्‍चाहुर्विष्णुं परमं सर्वतोऽपि॥ २०/१७॥
लोकायताश्‍च क्वचिदाहुरग्र्यं विष्णुं गुरुं सर्ववरं बृहस्पतेः। सर्वागमेषु प्रथितोऽत एव विष्णुः समस्ताधिक एव मुक्तिदः॥ २०/१८॥
तेष्वागमेष्वेव परस्परं च विरुद्धता ह्यन्यपक्षेषु भूपाः। प्रत्यक्षतश्‍चात्र पश्यध्वमाशु बलं बाह्वोर्विष्णुपदाश्रयस्य॥ २०/१९॥
पूर्वं हि गङ्गा मम विष्णुपूजाविघ्नार्थमायाद् वामकरेण सा मे। नुन्ना परस्ताद् बहुयोजनं गता पुरे कुरूणां शिव आगतस्तदा॥ २०/२०॥
स व्याघ्ररूपी कपिलात्मिकामुमां परीक्षयन् मां हन्तुमिवाद्रवद् द्रुतम्। स मे युद्धे विजितो मूर्च्छितश्‍च गदाप्रहारादास लिङ्गान्तरस्थः॥ २०/२१॥
व्याघ्रेश्‍वरं नाम लिङ्गं पृथिव्यां ख्यातं तदास्ते तद्वदन्यत्र युद्धे। तीरे गोमत्या हैमवते गिरौ हि जितस्तत्राप्यास शार्दूललिङ्गम्॥ २०/२२॥
एवं प्रत्यक्षे विष्णुपदाश्रयस्य बलाधिक्ये किमु वक्तव्यमत्र। विष्णोराधिक्ये क्षत्रियाणां प्रमाणं बलं विप्रे ज्ञानमेवेति चाहुः॥ २०/२३॥
मया केदारे विप्ररूपी जितश्‍च रुद्रोऽविशल्लिङ्गमेवाशु भीतः। ततः परं वेदविदामगम्यताशापं प्रादाच्छङ्करो व्रीडितोऽत्र॥ २०/२४॥
एवं प्रत्यक्षे विष्णुबले प्रतीपं मनो यस्य ह्युत्तरं स ब्रवीतु। क्रोधाधिकश्‍चेत् क्षिप्रमायातु योद्धुमित्युक्तास्तेऽभ्याययुरात्तशस्त्राः॥ २०/२५॥
विद्राव्य तान् बाणसङ्घैः समस्तान् जरासुतं गदया योधयित्वा। बाहुभ्यां चैनं परिगृह्याशु विष्णोः पदोत्थायां प्राक्षिपद् देवनद्याम्॥ २०/२६॥
स व्रीडितः प्रययौ मागधांश्‍च भूपैः समेतो भीमसेनो रथं स्वम्। आरुह्य काशीश्‍वरपूजितश्‍च ययौ काल्या शक्रसनामकं पुरम्॥ २०/२७॥
तस्यां त्रिलोकाधिकरूपसद्गुणैरासम्मितायां रममाणः सुतं च। शर्वत्रातं नामाजनयत् पुरा यः समानवायुर्बलवीर्ययुक्तः॥ २०/२८॥
कृष्णोऽपि गत्वा द्वारवतीं सरामः सत्यापितुर्वधकर्तारमेव। शतधन्वानं हन्तुमैच्छत् स चैव ययाचेऽक्रूरं कृतवर्मानुयुक्तम्॥ २०/२९॥
तावब्रूतां सर्वलोकैककर्तुर्नावां विरोधं मनसाऽपि कुर्वः। कृष्णस्य सर्वेशितुरित्यनूक्त आरुह्य चाश्‍वीं भयतः पराद्रवत्॥ २०/३०॥
अन्वेव तं कृष्णरामौ रथेन यातौ शतं योजनानां दिनेन। गत्वा मृतायां वडवायां पदैव स प्राद्रवत् कृष्ण एनं पदाऽगात्॥ २०/३१॥
छित्वा शिरस्तस्य चक्रेण कृष्णो जानन्नक्रूरे मणिमेतेन दत्तम्। अप्यज्ञवल्लोकविडम्बनाय परीक्ष्य वासोऽत्र नेत्याह रामम्॥ २०/३२॥
अविश्‍वासात् स तु सक्रोध एव ययौ विदेहानवसत् पञ्च चाब्दान्। जानन् पार्थेभ्योऽहार्यतां केशवस्य वशीकर्तुं धार्तराष्ट्रो बलं गात्॥ २०/३३॥
बभूव शिष्योऽस्य तथा गदायामसन्निधानं केशवस्य प्रतीक्षन्। तदा ययाचे भगिनीं च तस्य स च प्रतिज्ञामकरोत् प्रदाने॥ २०/३४॥
ज्येष्ठं ह्येनं केशवो नातिवर्तेदित्येव मेने धार्तराष्ट्रः स तस्मात्। जग्राह हस्तं दक्षिणं सत्यहेतोर्ददौ च रामः करमस्मै हलाङ्कम्॥ २०/३५॥
रूपेण तस्या मोहितो धार्तराष्ट्रो विशेषतः कृष्णरामौ भगिन्याः। स्नेहाद् वशं यास्यत इत्यगृह्णाद्धस्तं हलाङ्कं हलिनो रिपुघ्नम्॥ २०/३६॥
जाता देवक्यां सा सुभद्रेति नाम्ना भद्रा रूपेणानकदुन्दुभेस्ताम्। कृत्वा पुत्रीं रोहिणी स्वामरक्षत् पूर्वं तु यासीत् त्रिजटैव नाम्ना॥ २०/३७॥
सीतायाः प्राङ्नित्यशुश्रूषणात् सा बभूव विष्णोर्भगिनी प्रिया च। उमावेशाद् रूपगुणोपपन्ना पद्मेक्षणा चम्पकदामगौरी॥ २०/३८॥
एतत् कृत्वा धृतराष्ट्रात्मजः स ययौ कुरून् निवसत्यत्र रामे।
कृष्णोऽक्रूरं विवसन्तं भयेन सहार्दिक्यं चानयित्वा जगाद॥ २०/३९॥
आनीय रामं च समस्तसात्त्वतां यदाऽवादीत् केशवः सन्निधाने। मणिस्त्वय्यास्ते दर्शयेत्येव भीतस्तदाऽक्रूरोऽदर्शयद् रत्नमस्मै॥ २०/४०॥
अव्याजतामात्मनो दर्शयित्वा हलायुधे केशवस्तस्य जानन्। रत्नाकाङ्क्षामुग्रसेनस्य चैव मातुश्‍च साम्बस्य पुनर्बभाषे॥ २०/४१॥
आस्तामक्रूरे मणिरन्यैरधार्यः सदा यज्ञाद् दानपतेः स धार्यः। न सत्या कृष्णावाञ्छितं किञ्चिदिच्छेत् तथाऽपि तस्या योग्य इत्याह कृष्णः॥ २०/४२॥
लब्ध्वा रत्नं दानपतिः सदैव सन्दीक्षितोऽभूद् यज्ञकर्मण्यतन्द्रः। प्रदर्श्य कृष्णो हलिने रत्नमेतच्छक्रप्रस्थं पाण्डवस्नेहतोऽगात्॥ २०/४३॥
वसन्नजस्तत्र बहूंश्‍च मासान् सफल्गुनोऽयान्मृगयां कदाचित्। हत्वा मृगान् यमुनातीरसंस्थः सोऽन्यां कालिन्दीं ददृशे तत्स्वसारम्॥ २०/४४॥
सा सूर्यपुत्री यमुनानुजाता तपश्‍चरन्ती कृष्णपत्नीत्वकामा। पृष्टाऽर्जुनेनाह समस्तमेतत् पत्नीं च तां जगृहे वासुदेवः॥ २०/४५॥
ततो गत्वा नग्नजितो गृहं च स्वयंवरे सप्त वृषानगृह्णात्। सर्वैरग्राह्यानसुरान् वरेण शिवस्य यैर्निर्जिता भूमिपालाः॥ २०/४६॥
ततो नीलां तस्य सुतां च लेभे पूर्वं नीला गोपकन्याऽपि याऽसीत्। सा देहेऽस्याः प्राविशत् पूर्वमेषा यस्मादेका द्विविधा सम्प्रजाता॥ २०/४७॥
पितृष्वसुर्मित्रविन्दा सुता च कृष्णे मालामासजद् राजमध्ये। विन्दानुविन्दौ भ्रातरावेव तस्या न्यषेधतां धार्तराष्ट्रार्थमुग्रौ॥ २०/४८॥
जित्वाऽवन्त्यौ नृपतींश्‍चैव सर्वानादाय तां प्रययौ वासुदेवः।
पितृष्वसुस्तनयां च द्वितीयां भद्रां दत्तामाग्रहीद् भ्रातृभिः सः॥ २०/४९॥
विश्‍वेषां देवानामवतारा हि पञ्च ते कैकया भ्रातरोऽस्या हरेश्‍च। भक्ता नित्यं पाण्डवानां च तातोऽप्येषां वशे शैब्यनामर्भुरग्रे॥ २०/५०॥
स्वयंवरो लक्षणायास्तथाऽऽसीद् यथा द्रौपद्या लक्ष्यवेधात्मकः सः। मद्रेषु तस्याश्‍च पिता पिनाकं स्वयंवरार्थं जगृहे गिरीशात्॥ २०/५१॥
लक्ष्यं च तत् सर्वतश्छन्नमेव द्वारं च तस्याप्युपरि स्म लक्षात्। छिन्नेषुणा पातनीयं च तद्धि द्रौपद्यर्थात् तदशक्यं ततोऽलम्॥ २०/५२॥
तत्राजग्मुर्मागधाद्याश्‍च सर्वे पार्था अपि द्रष्टुमिहाभ्युपाययुः। दुर्योधनाद्याश्‍च ससूतपुत्रा सज्जीकर्तुं धनुरप्युत्सहन्ते॥ २०/५३॥
केचिन्निपेतुर्धनुषैव ताडिता न वै केचिच्चालयितुं च शेकुः। दुर्योधनो मागधः सूतपुत्रः सज्यं कृत्वा लक्ष्यवीक्षां न शेकुः॥ २०/५४॥
धनञ्जयः स्वात्मबलं प्रकाशयन् सज्यं कृत्वा धनुरैक्षच्च लक्ष्यम्। नैवाददे बाणमनिच्छयैव प्राप्यां जानन् केशवेनैव तां च॥ २०/५५॥
भीमश्‍चापं लक्ष्यमप्येतदत्र द्रष्टुं च नैवैच्छदरीन्द्रधारिणः। योग्ये कर्मण्यायतंश्‍चापराधी स्यामित्यञ्जः पश्यमानो महात्मा॥ २०/५६॥
कृष्णस्ततश्‍चापमधिज्यमाशु कृत्वाऽचिन्त्यश्छिन्नबाणेन लक्ष्यम्। अपातयद् दुन्दुभयश्‍च दिव्या नेदुः प्रसूनं ववृषुः सुराश्‍च॥ २०/५७॥
कृष्णे ब्रह्माद्यैः स्तूयमाने नरेन्द्रकन्या मालां केशवांसे निधाय। तस्थावुपास्याथ सर्वे नरेन्द्रा युद्धायागुः केशवं ह्यात्तशस्त्राः॥ २०/५८॥
विद्राव्य तान् मागधादीन् स कृष्णो भीमार्जुनाभ्यां सहितः पुरीं स्वाम्। ययावेता अष्ट महामहिष्यः कृष्णस्य दिव्या लोकसुन्दर्य इष्टाः॥ २०/५९॥
भैष्मी सत्या चैकतनुर्द्विधैव जाता भूमौ प्रकृतिर्मूलभूता। तयैवान्याः सर्वदाऽनुप्रविष्टास्तासां मध्ये जाम्बवती प्रधाना॥ २०/६०॥
रामेण तुल्या जाम्बवती प्रियत्वे कृष्णस्यान्याः किञ्चिदूनाश्‍च तस्याः। यदाऽऽवेशो बहुलः स्याद् रमायास्तदा तासु प्रीयते केशवोऽलम्॥ २०/६१॥
यदाऽऽवेशो ह्रासमुपैति तत्र प्रद्युम्नतो विंशगुणाधिकाः स्युः। अनादितस्ताः केशवान्नान्यसंस्था रेमे ताभिः केशवो द्वारवत्याम्॥ २०/६२॥
एवं कृष्णे द्वारकामध्यसंस्थे गिरिं भूपा रैवतकं समाययुः। दुर्योधनाद्याः पाण्डवाश्‍चैव सर्वे नानादेश्या ये च भूपालसङ्घाः॥ २०/६३॥
आत्मानं तान् द्रष्टुमभ्यागतान् स कृष्णो गिरौ रैवतके ददर्श। नमस्कृते सर्वनरेन्द्रमुख्यैः कृष्णे वैदर्भ्या सह दिव्यासनस्थे॥ २०/६४॥
एत्याकाशान्नारदः कृष्णमाह सर्वोत्तमस्त्वं त्वादृशो नास्ति कश्‍चित्। इत्याश्‍चार्यो धन्य इत्येव शब्दद्वये तूक्ते वासुदेवस्तमाह॥ २०/६५॥
दक्षिणाभिः साकमित्येव कृष्णं पप्रच्छुरेतत् किमिति स्म भूपाः। नारायणो मुनिमूचे वदेति शृणुध्वमित्याह स नारदोऽपि॥ २०/६६॥
कूर्मो दृष्टो विष्णुपद्यां मयोक्तस्त्वमुत्तमो नास्ति समस्तवेति। ऊचे गङ्गामुत्तमां सा जलेशमुमामूचे पृथिवीनामिकां सः॥ २०/६७॥
या मादृशा देवताः सर्वशस्ता धृतास्तया प्रथितत्वात् पृथिव्या। शिवं शेषं गरुडं चाह साऽपि परावनात् पर्वतनामधेयान्॥ २०/६८॥
तैरेवाहं मत्समाश्‍चैव देव्यो ध्रियन्त इत्येव त ऊचिरेऽथ। ब्रह्माणमेवोत्तममाह सोऽपि वेदात्मिकां प्रकृतिं विष्णुपत्नीम्॥ २०/६९॥
सैका देवी बहुरूपा बभाषे युक्ता यदाऽहं ज्ञेन नारायणेन। यज्ञक्रियामानिनी यज्ञनाम्नी तदोत्तमा तत्प्रवेशात् तदाख्या॥ २०/७०॥
विष्ण्वाविष्टा यज्ञनाम्नी तदङ्कस्थिता सोचे केशवो ह्युत्तमोऽलम्। न तत्समश्‍चाधिकोऽतः कुतः स्यादृषे सत्यं नान्यथेति स्म भूयः॥ २०/७१॥
तयोक्तोऽहं नावतारेषु कश्‍चिद् विशेष इत्येव यदुप्रवीरम्। सर्वोत्तमोऽसीत्यवदं स चाह न केवलं मेऽङ्कगायाः श्रियोऽहम्॥ २०/७२॥
सदोत्तमः किन्तु यदा तु सा मे वामार्धरूपा दक्षिणानामधेया। यस्मात् तस्या दक्षिणतः स्थितोऽहं तस्मान्नाम्ना दक्षिणेत्येव सा स्यात्॥ २०/७३॥
सा दक्षिणामानिनी देवता च सा च स्थिता बहुरूपा मदर्धा। वामार्धो मे तत्प्रविष्टो यतो हि ततोऽहं स्यामर्धनारायणाख्यः॥ २०/७४॥
तदाऽप्यस्या उत्तमोऽहं सुपूर्णो न मादृशः कश्‍चिदस्त्युत्तमो वा। इत्येवावादीद् दक्षिणाभिः सहेति सर्वोत्तमत्त्वं दक्षिणानां स्मरन् सः॥ २०/७५॥
ताभिश्‍चैताभिर्दक्षिणाभिः समेताद् वरिष्ठोऽहं जगतः सर्वदैव। मत्सामर्थ्यान्नैव चानन्तभागो दक्षिणानां विद्यते नारदेति॥ २०/७६॥
उक्तं कृष्णेनाप्रतिमेन भूपा अन्योत्तमत्वं दक्षिणानां च शश्‍वत्। सेयं भैष्मी दक्षिणा केशवोऽयं तस्याः श्रेष्ठः पश्यत राजसङ्घाः॥ २०/७७॥
प्रत्यक्षं वो वीर्यमस्यापि कुन्त्या युद्धेऽर्थितः केशवो वीर्यमस्यै। अदर्शयत् पाण्डवान् धार्तराष्ट्रान् भीष्मद्रोणद्रौणिकृपान् सकर्णान्। निरायुधांश्‍चक्र एकक्षणेन लोकश्रेष्ठान् दैवतैरप्यजेयान्॥ २०/७८॥
व्रतं भीमस्यास्ति नैवाभिकृष्णमियामिति स्माज्ञया तस्य विष्णोः। चक्रं रथस्याग्रहीत् स प्रणम्य कृष्णं स तं केशवोऽपाहरच्च॥ २०/७९॥
एवं क्रीडन्तोऽप्यात्मशक्त्या प्रयत्नं कुर्वन्तस्ते विजिताः केशवेन। ततः सर्वे नेमुरस्मै पृथा च सविस्मया वासुदेवं ननाम॥ २०/८०॥
एवंविधान्यद्भुतानीह कृष्णे दृष्टानि वः शतसाहस्रशश्‍च। तस्मादेष ह्यद्भुतोऽप्युत्तमश्‍चेत्युक्ता नेमुस्तेऽखिला वासुदेवम्॥ २०/८१॥
वाय्वाज्ञया वायुशिष्यः स सत्यमित्याद्युक्त्वा नारदो रुक्मिणीं च। स्तुत्वा पुष्पं पारिजातस्य दत्त्वा ययौ लोकं क्षिप्रमब्जोद्भवस्य॥ २०/८२॥
साक्षात् सत्या रुक्मिणीत्येकसंविद् द्विधा भूता नात्र भेदोऽस्ति कश्‍चित्। तथाऽपि सा प्रमदानां स्वभावप्रकाशनार्थं कुपितेवास सत्या॥ २०/८३॥
साकं रुक्मिण्या राजमध्ये प्रवेशात् स्तवादृषेः पुष्पदानाच्च देवीम्। कोपाननं दर्शयन्तीमुवाच विडम्बनार्थं कामिजनस्य कृष्णः॥ २०/८४॥
दाताऽस्म्यहं पारिजातं तरुं त इत्येव तत्राथागमद् वासवोऽपि। सर्वैर्देवैर्भौमजितोऽप्यदित्यास्तेनैवाथो कुण्डलाभ्यां हृताभ्याम्॥ २०/८५॥
तदैवागुर्मुनयस्तेन नुन्ना बदर्यास्ते सर्व एवाशु कृष्णम्। ययाचिरे भौमवधाय नत्वा स्तुत्वा स्तोत्रैर्वैदिकैस्तान्त्रिकैश्‍च॥ २०/८६॥
इन्द्रेण देवैः सहितेन याचितो विप्रैश्‍च सस्मार विहङ्गराजम्। आगम्य नत्वा पुरतः स्थितं तमारुह्य सत्यासहितो ययौ हरिः॥ २०/८७॥
नित्यैव या प्रकृतिः स्वेच्छयैव जगच्छिक्षार्थं द्वादशीं भीमसञ्ज्ञाम्। उपोष्य बभ्रे कोटिधाराजलस्य विष्णोः प्रीत्यर्थं सैव हि सत्यभामा॥ २०/८८॥
तया युक्तो गरुडस्कन्धसंस्थो दूरानुयातो वज्रभृताऽप्यनुज्ञाम्। दत्त्वाऽमुष्मै प्रययौ वायुजुष्टामाशां कृष्णो भौमवधे धृतात्मा॥ २०/८९॥
भौमो ह्यासीद् ब्रह्मवरादवध्यो न शस्त्रभृज्जीयस इत्यमुष्मै। दत्तो वरो ब्रह्मणा तद्वदेव तस्यामात्यानां तद्वदवध्यता च॥ २०/९०॥
भौमेन जेयत्वमपि ह्यमीषां दत्तं भौमाय ब्रह्मणा क्रोडरूपात्। विष्णोर्जातायास्य दुर्गं च दत्तं प्राग्ज्योतिषं नाम पुरं समस्तैः॥ २०/९१॥
आसीद् बाह्ये गिरिदुर्गं तदन्तः पानीयदुर्गं मौरवं पाशदुर्गम्। तस्याप्यन्तः क्षुरधारोपमं तत्पाशाश्‍च ते षट्सहस्राः सुघोराः॥ २०/९२॥
अभेद्यत्वमरिभिरतार्यता च दत्ता दुर्गाणां ब्रह्मणाऽऽराधितेन। तस्यामात्याः पीठमुरौ निशुम्भहयग्रीवौ पञ्चजनश्‍च शूराः॥ २०/९३॥
सङ्कल्प्य तान् लोकपालानहं च ब्रह्मेत्यद्धा भाषमाणः स आस्ते। हन्तुं कृष्णो नरकं तत्र गत्वा गिरिं दुर्गं गदया निर्बिभेद॥ २०/९४॥
वायव्यास्त्रेणोदकं शोषयित्वा चकर्त खड्गेन मुरस्य पाशान्। अथाभिपेतुर्मुरपीठौ निशुम्भहयग्रीवौ पञ्चजनश्‍च शूराः॥ २०/९५॥
ताञ्छैलशस्त्रास्त्रशिलाभिवर्षिणश्‍चक्रे व्यसूंश्‍चक्रनिकृत्तकन्धरान्। तेषां सुताः सप्तसप्तोरुवीर्या वरादवध्या गिरिशस्याभिपेतुः॥ २०/९६॥
तानस्त्रशस्त्राभिमुचः शरोत्तमैः समर्पयामास स मृत्यवेऽच्युतः। हत्वा पञ्चत्रिंशतो मन्त्रिपुत्रान् जगाम भौमस्य सकाशमाशु॥ २०/९७॥
श्रुत्वा भौमः कृष्णमायातमारादक्षौहिणीत्रिंशकेनाभ्ययात् तम्। जघ्ने सेनां गरुडः पक्षपातैः पादं शेषं केशवः सायकौघैः॥ २०/९८॥
अथाससादाशु भौमोऽच्युतं तं मुञ्चन् बाणानस्त्रसम्मन्त्रितान् द्राक्। विव्याध तं केशवः सायकौघैर्भौमः शतघ्नीं ब्रह्मदत्ताममुञ्चत्‌॥ २०/९९॥
अच्छेद्योऽभेद्यो नित्यसंवित्सुखात्मा नित्याव्ययः पूर्णशक्तिः स कृष्णः। निगीर्य तां देववरः शतघ्नीं नित्याश्रान्तोऽदर्शयच्छ्रान्तवच्च॥ २०/१००॥
बहून् वरान् ब्रह्मणोऽन्येष्वमोघान् मोघीकृतान् वीक्ष्य परात्परेशः। भवेत् कथञ्चिद् बहुमानेन युक्त इत्येव कृष्णोऽदर्शयच्छ्रान्तवत् स्वम्॥ २०/१०१॥
तदा दृप्तं नरकं वीक्ष्य देवी सत्याऽऽददे कार्मुकं शार्ङ्गसञ्ज्ञम्। चकार तं यतमानं च भौमं निरायुधं विरथं च क्षणेन॥ २०/१०२॥
आलिङ्घ्य कृष्णः सत्यभामां पुनश्‍च रथान्तरे संस्थितं भौममुग्रम्। सृजन्तमस्त्राण्यरिणा निकृत्तस्कन्धं मृत्योरर्पयामास शीघ्रम्॥ २०/१०३॥
स मन्त्रिभिर्मन्त्रिपुत्रैः समेतो जगाम कृष्णावज्ञयाऽन्धं तमश्‍च। तदाविष्टो वायुरगाच्च कृष्णमन्तःपुरं प्राविशत् सत्ययेशः॥ २०/१०४॥
तदा भूमिः पञ्चभूतावरा या यस्यां जज्ञे नरकः श्रीवराहात्। मूलप्रकृत्यैव भूम्या नितान्तमाविष्टा या साऽगमत् कृष्णपादौ॥ २०/१०५॥
साऽदित्यास्ते कुण्डले पादयोश्‍च निधाय पौत्रं भगदत्तसञ्ज्ञम्। समर्पयामास तस्याभिषेकं प्राग्ज्योतिषे कारयामास कृष्णः॥ २०/१०६॥
संस्थाप्य तं सर्वकिरातराज्ये भौमाहृतं वैश्रवणाद् बलेन। शिवेन दत्तं धनदायातिसत्त्वं भगदत्तेऽधात् सुप्रतीकं रमेशः॥ २०/१०७॥
करीन्द्रमेकं तं निधायैव तस्मिन् कृत्वा प्रसादं च वसुन्धरायाः। चतुर्दन्तान् षट्सहस्रान् करीन्द्रान् पयोब्धिजान् प्राहिणोद् द्वारवत्यै॥ २०/१०८॥
नराधिपान् देवगन्धर्वनागाञ्जित्वाऽऽनीतं हेमरत्नोच्चराशिम्। शतद्वयं योजनानां समृद्धं समन्ततः प्राहिणोत् स्वां पुरीं सः॥ २०/१०९॥
महावीर्यैर्नैरृतै राक्षसेन्द्रैर्भौमानीतैर्निरृतिं योधयित्वा। स प्राहिणोत् सर्वरत्नोच्चराशिं गजांश्‍च नारायण आदिदेवः॥ २०/११०॥
तत्रापश्यत् कन्यका भूमिपानां भौमानीताः समरे तान् विजित्य। द्व्यष्टौ सहस्राणि शतं च रूपशीलोदारा अक्षताः सद्व्रतस्थाः॥ २०/११०॥
काश्‍चित् तत्रासन् देवगन्धर्वकन्यास्तासां प्रधाना त्वष्टृपुत्री कशेरुः। पुत्रा अग्नेः पूर्वमासंश्‍च तेऽथ स्त्रीत्वप्राप्त्यै चक्रुरुग्रं तपश्‍च॥ २०/१११॥
भार्यात्वार्थे वासुदेवस्य योषित्तनुं तासामिच्छतीनां समीरः। अदाद् वरं तपसाऽऽराधितः सन् स्त्रीभूतास्ते बदरीं सम्प्रजग्मुः॥ २०/११२॥
नारायणं तत्र शुश्रूषमाणाः प्राप्याप्सरस्त्वं राजकुलेषु जाताः। काश्‍चित् स्वर्गे ता निशम्यैव कृष्णं वव्रुः पतिं सर्वगुणाभिरामम्॥ २०/११३॥
आजानदेवैः सर्वगुणैः समास्ताः स्वभावतोऽथेन्दिरावेशतोऽतः। गुणाधिकास्ताः शिबिकासु कृष्ण आरोपयित्वा प्राहिणोद् द्वारवत्यै॥ २०/११४॥
समन्ततो योजनानां शते द्वे प्रवृद्धमिन्द्रस्य स रत्नपर्वतम्। नित्यामृतस्रावि जलेश्‍वरस्य छत्रं च दोर्भ्यां गरुडे न्यधाद्धरिः॥ २०/११५॥
स्वयं च सत्यासहितः समारुहत् स चाश्रमेणैव ययौ त्रिविष्टपम्। अभिप्रयातोऽखिललोकपालैर्जनार्दनः शक्रगृहं विवेश॥ २०/११६॥
सम्पूजितः सत्यभामासहायः शक्रेण शच्या सहितेन सादरम्। ददावदित्या अपि कुण्डले शुभे समस्तदेवैर्मुनिभिश्‍च वन्दितः॥ २०/११७॥
तमासुरावेशवशादजानती सत्यां च सर्वप्रभवौ जगत्प्रभू। निर्दोषसौख्यैकतनू शुभाशिषस्ताभ्यां ददौ साऽदितिरात्मपुत्रवत्॥ २०/११८॥
अथो सदानन्दचिदात्मदेहः स नन्दनोद्यानमजोऽनुरूपया। अनन्तशक्तिः सह सत्यभामया विवेश रन्तुं प्रिययाऽखिलेश्‍वरः॥ २०/११९॥
तयाऽच्युतोऽसौ कनकावदातया सुकुङ्कुमादिग्धपिशङ्गवाससा। पूर्णेन्दुकोट्यौघजयन्मुखाब्जया रेमेऽमितात्मा जगदेकसुन्दरः॥ २०/१२०॥
सर्वर्तुनित्योदितसर्ववैभवे सुरत्नचामीकरवृक्षसद्वने। सदैव पूर्णेन्दुविराजिते हरिश्‍चचार देव्या पवनानुसेविते॥ २०/१२१॥
निर्दोषसंवित्तनुरत्र सत्तरुं ददर्श सत्याऽमृतमन्थनोद्भवम्। सा पारिजातं मणिकाञ्चनात्मकं समस्तकामप्रदमार्तिहारिणम्॥ २०/१२२॥
दृष्ट्वैव तं सुस्मितचन्द्रिकास्फुरन्मुखारविन्दाऽसितलोललोचना। कपोलनिर्भातचलत्सुकुण्डला जगाद देवाधिपतिं पतिं सती॥ २०/१२३॥
तरुर्जगज्जीवद मे गृहाङ्गणे संस्थापनीयोऽयमचिन्त्यपौरुष। इतीरितस्तां कलशोपमस्तनीमालिङ्घ्य देवस्तरुमुद्बबर्ह॥ २०/१२४॥
स तेन वृक्षेण सहैव केशवस्तया च देव्याऽऽरुहदग्र्यपौरुषम्। खगेश्‍वरं तच्च निशम्य शच्या प्रचोदितो वासव आगमत् सुरैः॥ २०/१२५॥
तानासुरावेशयुतान् हरेश्‍च बलप्रकाशाय समुद्यतान् सुरान्। न्यवारयच्छार्ङ्गशरासनच्युतैर्हरिप्रिया बाणवरैः समस्तशः॥ २०/१२६॥
निरायुधं वैश्रवणं चकार चिक्षेप चाब्धौ गरुडो जलेश्‍वरम्। प्रधानवायोस्तनयं तु वायुं कोणाधिपं वह्नियमादिकानपि॥ २०/१२७॥
विबोध्य शार्ङ्गोत्थरवैः स्वकां तनुुमावेशितानामसुरैरगाद्धरिः। ते बोधितास्तेन रणं विसृज्य ययुर्विदित्वा तमनादिपूरुषम्॥ २०/१२८॥
शिवं च शक्रार्थमुपागतं हरिर्व्यद्रावयच्छार्ङ्गविनिःसृतैः शरैः। सवाहनो दूरतरे निपातितो गरुत्मता शम्भुरगाच्छराहतः॥ २०/१२९॥
विद्राविते बाणगणैश्‍च शौरिणा हरे हरौ वज्रमवासृजद् द्रुतम्। शक्रोऽग्रहीत् तं प्रहसन् जनार्दनः करेण वामेन स चापजग्मिवान्॥ २०/१३०॥
अपाहसत् तं जगदेकसुन्दरी हरिप्रियाऽथो जगदेकमातरम्। उवाच शक्रो जगतां जनित्रे प्रदर्शयामो वयमात्मशैशवम्॥ २०/१३१॥
जगाम चाथो शरणं जनार्दनं सुरैर्वृतो देवपतिः क्षमापयन्। शृङ्गं च दत्त्वा मणिपर्वतस्य प्रणम्य देव्या सहितं जगद्गुरुम्॥ २०/१३२॥
ययाच एनं परिरक्षणाय शचीपतिः केशवमर्जुनस्य। जगाद कृष्णोऽपि धरातलस्थिते न मय्यमुं कश्‍चन जेष्यतीति॥ २०/१३३॥
तमर्जुनार्थं वरमाप्य वासवः पुनःपुनश्‍चक्रधरं प्रणम्य। प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितो ययौ महाभागवतः स्वमालयम्॥ २०/१३४॥
कृष्णोऽप्यनुज्ञाप्य पुरन्दरं पुरीं निजां व्रजन्नभ्यधिकं व्यरोचत। किरीटधारी चलकुण्डलोल्लसन्मुखाम्बुजः पीतपटः सुकौस्तुभः॥ २०/१३५॥
विरोचमानस्य सदा जगत्प्रभोर्न वै विशेषः क्वचिदच्युतस्य। तथाऽपि तत् स्मारयितुं वचो भवेदपेक्ष्य चाल्पज्ञमतिं पुराणगम्॥ २०/१३६॥
प्रविश्य चेशः स्वपुरीं स यादवैः सुपूजितोऽन्तःपुरमेत्य चाङ्गणे। तरुं प्रियाया न्यदधाद् गृहस्य सहैव शृङ्गेण च रत्नसद्गिरेः॥ २०/१३७॥
प्रदाय रत्नानि च सर्वसात्त्वतां यथेष्टतस्ता अपि कन्यकाः प्रभुः। उद्वाह्य रेमे पृथगेव रत्नप्रसादसंस्थाभिरनन्तरूपः॥ २०/१३८॥
पृथक्पृथक् तासु दशैव पुत्रकान्यधत्त कन्यामपि सर्वशः प्रभुः। प्रद्युम्नसाम्बावपि भानुचारुदेष्णौ च तेषां नितरां गुणाधिकाः॥ २०/१३९॥
विवस्वतो योऽवरजोऽदितेः सुतः ख्यातश्‍च नाम्ना सवितेति कृष्णात्। जातः स सत्याजठरेऽत्र नाम्ना भानुस्तु भैष्म्या अपि चारुदेष्णः॥ २०/१४०॥
स चारुदेष्णोऽपि हि विघ्नराजो येऽन्ये च कृष्णस्य सुताः समस्ताः। ते चैव गीर्वाणगणास्तथाऽन्ये ये द्वारकायां निवसन्ति सर्वे॥ २०/१४१॥
तस्यां समस्तैरभिपूज्यमाने देवे स्वपुर्यां निवसत्यनन्ते। ययौ कदाचित् स तु रौक्मिणेयः साम्बेन सार्धं भुजगेन्द्रलोकम्॥ २०/१४२॥
अज्ञानतस्तैरभियोधितः स जिगाय सर्वानपि वासुकिं च। विद्राप्य बाणैरथ रत्नसञ्चयान् समाददे नेमुरमुं ततस्ते॥ २०/१४३॥
तैः पूजितः साम्बसहाय आशु मयं च मायाविनमस्त्रवर्षैः। विजित्य रुन्धानमनेन पूजितो ययौ रथेनाम्बरगेन नाकम्॥ २०/१४४॥
तत्रैव कृष्णेन तु पारिजाते हृते जयन्तं प्रजिगाय चाजौ। संस्पर्धयाऽऽयातममुष्य चानुजं साम्बोऽजयद् वृषभं नाम शस्त्रैः॥ २०/१४५॥
अस्त्राणि तावस्त्रवरैर्निहत्य तयोश्‍च ताभ्यां प्रतिदग्धयानौ। विद्राव्य तौ बाणवरैः सुरेन्द्रसम्पूजितौ ययतुर्विद्यया खे॥ २०/१४६॥
स विद्यया साम्बमुदूह्य रत्या प्रदत्तया रुक्मिणिनन्दनः पुरीम्।
ययौ ततो नारद आगमद् द्रुतं ज्ञातुं हरेर्बहुभार्यासु वृत्तिम्॥ २०/१४७॥
तं द्व्यष्टसाहस्रगृहेषु दृष्ट्वा तावत्स्वरूपैर्विहरन्तमेकम्।
सुविस्मितः प्रययौ तं प्रणम्य शक्रप्रस्थं पूजितश्‍चात्र पार्थैः॥ २०/१४८॥
स आज्ञया ब्रह्मण आह कृष्णां क्रमात् कर्तुं भीम एवैकसंस्थाम्। अन्या देवीः स्वापयित्वा शरीरे तस्या भारत्याः पूर्णभोगार्थमेव॥ २०/१४९॥
सुन्दोपसुन्दौ भ्रातरौ ब्रह्मवाक्यात् परस्परादन्यतो नैव वध्यौ। तिलोत्तमार्थे निहतौ परस्परं तयोर्वधार्थे सृष्टया तेन दैत्यौ॥ २०/१५०॥
अतः पृथग् वत्सरतो भवत्सु क्रमात् कृष्णा तिष्ठतां योऽन्ययुक्ताम्। पश्येद् वोऽसौ वत्सरं तीर्थयात्रां कुर्यादिति स्माथ चक्रुस्तथा ते॥ २०/१५१॥
ततः कदाचिद् धर्मराजेन युक्तां शस्त्रागारे विप्रगोरक्षणार्थम्। शस्त्रादित्सुः फल्गुनोऽद्राक् स शस्त्रैर्दस्यून् हत्वा तीर्थयात्रोन्मुखोऽभूत्॥ २०/१५२॥
युधिष्ठिराद्यै सौहृदाद् वारितोऽपि ययौ सत्यार्थं स कदाचिद् द्युनद्याम्। कुर्वन् स्नानं मायया नागवध्वा हृतो लोकं भुजगानां क्षणेन॥ २०/१५३॥
तस्याः पिता गरुडेनात्तपत्युः पुत्राकाङ्क्षी चोदयामास पार्थम्। संवत्सरं ब्रह्मचर्ये तु पार्थैः कृष्णाहेतोः समये साधु बद्धम्॥ २०/१५४॥
पुनःपुनर्याच्यमानः स पार्थः पुत्रार्थमस्या भुजगेन तस्याम्। उत्पादयामास सुतं कुजांशं नाम्नेरावन्तं वरुणावेशयुक्तम्॥ २०/१५५॥
गुणाः पितुर्मातृजातिः सुतानां यस्मात् सतां प्रायशस्तेन नागः। बली च पार्थप्रथमोद्भवत्वान्मायाविदस्त्री च सुधार्मिकश्‍च॥ २०/१५६॥
ततो ययावर्जुनस्तीर्थयात्राक्रमेण पाण्ड्यान् तनयोऽस्य मात्रा। सह त्यक्तो भुजगैर्देवलोके सम्पूजितो न्यवसद् दैवतैश्‍च॥ २०/१५७॥
सत्यात्ययान्नैव दोषोऽर्जुनस्य तेजीयसश्‍चिन्तनीयः कथञ्चित्। श्रेष्ठापराधान्नान्यदोषस्य लेपस्तेजीयसां निर्णयोऽयं हि शास्त्रे॥ २०/१५८॥
अतिस्नेहाच्चाग्रजाभ्यां तदस्य क्षान्तं सुता पाण्ड्यराजेन दत्ता। संवत्सरान्ते फल्गुनस्यानुरूपा चित्राङ्गदा वीरसेनेन तोषात्॥ २०/१५९॥
स वीरसेनस्त्वष्टुरंशो यमस्याप्यावेशयुक् सा च कन्या शची हि। तारादेहे सूर्यजस्याङ्गसङ्गात् स्वर्गं नागादन्तरिक्षादिहासीत्॥ २०/१६०॥
तेनैव हेतोर्नातिसामीप्यमासीत् तस्याः पार्थे पुत्रिकापुत्रधर्मात्। तस्यां जातो बभ्रुवाहोऽर्जुनेन पूर्वं जयन्तः कामदेवांशयुक्तः॥ २०/१६१॥
पुत्रं वीरं जनयित्वाऽर्जुनोऽतो गच्छन् प्रभासं शापतो ग्राहदेहाः। अमूमुचच्चाप्सरसः स पञ्च ताभिर्गृहीतः प्रविकृष्य तीरम्॥ २०/१६२॥
एवं हि तासां शापमोक्षः प्रदत्तो यदाऽखिला वो युगपत् सम्प्रकर्षेत्। एकस्तदा निजरूपाप्तिरेवेत्यलं तुष्टेन ब्राह्मणेनानतानाम्॥ २०/१६३॥
विप्रापहासात् कुत्सितयोनितस्ताः कन्यातीर्थे पाण्डवः सम्प्रमोच्य।
प्राप्तः प्रभासं वासुदेवानुजातां शुश्राव रामेण सुयोधनोद्यताम्॥ २०/१६४॥
विचिन्त्य कार्यं यतिरूपं गृहीत्वा कुशस्थलीं प्रययौ तं समीपे। प्राप्तं कृष्णः प्राहसत् संविजानन् सत्यासहायः शयनीयाधिरूढः॥ २०/१६५॥
सर्वज्ञा सा लीलया हासहेतुमपृच्छत् तं सोऽपि तस्यै बभाषे। लीलाभाजौ दर्शनार्थं पुनस्तावगच्छतां रैवतं शैलराजम्॥ २०/१६६॥
आक्रीडोऽसौ वृष्णिभोजान्धकानां तत्रापश्यत् केशवः फल्गुनं तम्। स्वसुर्दाने स प्रतिज्ञां रहोऽस्मै चक्रे कृष्णोऽथासदत् सर्ववृष्णीन्॥ २०/१६७॥
दृष्ट्वा गिरौ रौहिणेयो यतीन्द्रवेषं पार्थं ज्ञातियुक्तः प्रणम्य। चक्रे पूजां फल्गुनोऽपि प्रणामं गुणज्येष्ठोऽसीति चक्रे बलाय॥ २०/१६८॥
सर्वज्ञं तं वाग्मिनं वीक्ष्य रामः कन्यागारे वर्षकाले निवासम्। सत्कारपूर्वं कारयेत्याह कृष्णं नैवेत्यूचे केशवो दोषवादी॥ २०/१६९॥
युवा बली दर्शनीयोऽतिवाग्मी नायं योग्यः कन्यकागारवासम्। इत्युक्तवन्तं राम आहाप्तविद्ये नास्मिञ्छङ्केत्येव लोकाधिनाथम्॥ २०/१७०॥
नास्मन्मते रोचते त्वन्मतं तु सर्वेषां नः पूज्यमेवास्तु तेन। इत्युक्त्वा तं केशवः सोदरायै शुश्रूषस्वेत्याह सन्तं यतीन्द्रम्॥ २०/१७१॥
नित्याप्रमत्ता साधु सन्तोषयेति प्रोक्ता तथा साऽकरोत् सोऽपि तत्र। चक्रे मासान् वार्षिकान् सत्कथाभिर्वासं वाक्यं श्रद्दधानो हरेस्तत्॥ २०/१७२॥
संयाचितः फल्गुनेनाह वाक्यं यद् वासुदेवस्तन्न जानाति कश्‍चित्। ऋते पित्रोर्विपृथोः सात्यकेर्वा सुभद्रां ते प्रददानीति सत्यम्॥ २०/१७३॥
अस्त्रे शस्त्रे तत्त्वविद्यासु चैव शिष्यः शैनेयो वासुदेवेन्द्रसून्वोः। तस्मादस्मै कथयामास कृष्णः स्वशिष्यत्वाद् विपृथोश्‍चापि सर्वम्॥ २०/१७४॥
अन्ये सर्वे वासुदेवस्य पार्थान् प्रियान् नित्यं जानमाना अपि स्म। रामेणादिष्टा उद्धवोऽथाहुकाद्या हार्दिक्याद्या नैव दित्सन्ति जिष्णोः॥ २०/१७५॥
दुर्योधने दातुमिच्छन्ति सर्वे रामप्रियार्थं जानमाना हरेस्तत्। अप्यप्रियं राक्षसावेशयुक्तास्तस्मात् सर्वान् वञ्चयामास कृष्णः॥ २०/१७६॥
प्रद्युम्नसाम्बप्रमुखाश्‍च वञ्चिता ययुस्तीर्थार्थं रामयुक्ताः समग्राः। पिण्डोद्धारं तत्र महोत्सवेषु स्वावर्तयत्सु क्वचिदूचे सुभद्रा॥ २०/१७७॥
यते तीर्थान्याचरन् बान्धवांस्त्वमद्राक्षीर्नः क्वचिदिष्टान् स्म पार्थान्। कुन्तीं कृष्णां चेत्याह पृष्टः स पार्थ ओमित्येतेषामाह चानामयं सः॥ २०/१७८॥
भूयः साऽवादीद् भगवन्निन्द्रसूनुर्गतस्तीर्थार्थं ब्राह्मणेभ्यः श्रुतो मे। क्वचिद् दृष्टो भवतेत्योमिति स्म पार्थोऽप्यूचे क्वेति साऽपृच्छदेनम्॥ २०/१७९॥
अत्रैवेति स्मयमानं च पार्थं पुनःपुनः पर्यपृच्छच्छुभाङ्गी। सोऽप्याहोन्मत्ते सोऽस्मि हीति स्मयंस्तां फुल्लाक्षी तं सा ददर्शातिहृष्टा॥ २०/१८०॥
ततो हर्षाल्लज्जया चोत्पलाक्षी किञ्चिन्नोचे पार्थ एनामुवाच। कामाविष्टो मुख्यकालो ह्ययं नावुद्वाहार्थेऽस्त्विति सा चैनमाह॥ २०/१८१॥
नातिक्रमो वासुदेवस्य युक्तस्तस्मात् तेन स्वपितृभ्यां च दत्ताम्। युक्तो निजैर्बन्धुभिश्‍चोत्सवे मां समुद्वहेत्यथ कृष्णं स दध्यौ॥ २०/१८२॥
मातापितृभ्यां सहितोऽथ कृष्णस्तत्रैवायाद् वासवश्‍चाथ शच्या। समं मुनीन्द्रैः फल्गुनेन स्मृतः सन् तत्रैवागात् प्रीतियुक्तो निशायाम्॥ २०/१८३॥
कृष्णस्ततः पुरुहूतेन साकं तयोर्विवाहं कारयामास सम्यक्। मातापितृभ्यां सात्यकिनाऽपि युक्तो महोत्सवेऽन्याविदिते मुनीन्द्रैः॥ २०/१८४॥
ततः कृष्णः स्यन्दनं फल्गुनार्थे निधाय स्वं प्रययौ तद्रजन्याम्। गते च शक्रे रथमारुरोह प्रातः पार्थः सहितो भार्ययैव॥ २०/१८५॥
सर्वायुधैर्युक्तरथं समास्थिते गृहीतचापे फल्गुने द्वारवत्याम्। आसीद् रावः किं किमेतत् त्रिदण्डी कन्यां हरत्येष कोदण्डपाणिः॥ २०/१८६॥
ततस्तु तं सतनुत्रं महेन्द्रदत्ते दिव्ये कुण्डले वाससी च। दिव्यानि रत्नानि च भूषणानि दृष्ट्वा बिभ्राणं रक्षिणोऽवारयन् स्म॥ २०/१८७॥
ततः स आबद्धतलाङ्गुलित्रः सतूणीरश्‍चापमायम्य बाणैः। चक्रेऽन्तरिक्षं प्रदिशो दिशश्‍च निरन्तरं शिक्षया विद्यया च॥ २०/१८८॥
चक्रे सारथ्यं केशवेनैतदर्थं सुशिक्षिता तस्य सम्यक् सुभद्रा। तया पार्थो वारितो नैव कञ्चित् भिन्नत्वचं कृतवान् क्रीडमानः॥ २०/१८९॥
सुशिक्षया त्वद्भुतया शरौघैर्विद्राव्य तान् भीषयित्वैव सर्वान्। निर्गत्य पुर्या विपृथुं ददर्श रामेण पुर्या रक्षणे सन्नियुक्तम्॥ २०/१९०॥
प्रियं कुर्वन्निव रामस्य सोऽपि व्याजेन पार्थं सेनयैवावृणोत् तम्। कृष्णादेशान्नैव पार्थस्य चक्रे सम्यग् रोधं युयुधे च च्छलेन॥ २०/१९१॥
एको ह्यसौ मरुतां सौम्यनामा शुश्रूषार्थं वासुदेवस्य जातः। तं यादवं शरवर्षैर्ववर्ष यथा क्षतं न भवेत् सव्यसाची॥ २०/१९२॥
निरायुधं विरथं चैव चक्रे पार्थः सेनां तस्य नैवाहनच्च। दृष्ट्वा शरांस्तस्य तीक्ष्णांस्त्वचोऽपि न च्छेदकान् विपृथुस्तं तुतोष॥ २०/१९३॥
शिक्षां पार्थस्याधिकां मानयान उपेत्य पार्थं च शशंस सर्वाम्। आज्ञां विष्णोः सन्नियुद्ध्यन्निवास्मै कृत्तायुधः फल्गुनेनैव पूर्वम्॥ २०/१९४॥
ततः पराजितवच्छीघ्रमेत्य शशंस सर्वं हलिनेऽथ सोऽपि। प्रद्युम्नसाम्बादियुतोऽथ कोपादायात् पुरीं हन्तुकामोऽर्जुनं च॥ २०/१९५॥
कृष्णोऽपि सर्वं विपृथोर्निशम्य प्राप्तः सुधर्मां विमना इवासीत्। अवाङ्मुखस्तत्र यदुप्रवीराः प्रद्युम्नाद्या आहुरुच्चैर्नदन्तः॥ २०/१९६॥
मायाव्रतं तं विनिहत्य शीघ्रं वयं सुभद्रामानयामः क्षणेन। इत्युक्तवाक्यानवदद् बलस्तान् कृष्णाज्ञया यान्तु न स्वेच्छयैव॥ २०/१९७॥
ज्ञातव्यमेतस्य मतं पुरस्ताद्धरेर्विरोधे न जयो भवेद् वः। इत्युक्तवाक्ये हलिनि स्म सर्वे पप्रच्छुरानम्य जनार्दनं तम्॥ २०/१९८॥
अथाब्रवीद् वासुदेवोऽमितौजाः शृण्वन्तु सर्वे वचनं मदीयम्। पुरैवोक्तं तन्मया कन्यकाया मायाव्रतोऽसौ नार्हति सन्निधिस्थितिम्॥ २०/१९९॥
तां मे वाचं नाग्रहीदग्रजोऽयं बहून् दोषान् व्याहरतोऽप्यतो मया। अनुल्लङ्घ्यत्वादग्रजोऽनुप्रवृत्तः कन्यागृहे वासने कूटबुद्धेः॥ २०/२००॥
अतीतश्‍चायं कार्ययोगोऽसमक्षं हृता कन्या नोऽत्र का मानहानिः। भूयस्तरां मानिनस्तस्य सा स्यात् ज्ञाता च वो विपृथोः पार्थताऽस्य॥ २०/२०१॥
देया च कन्या नास्ति पार्थेन तुल्यो वरोऽस्माकं कौरवेयश्‍च पार्थः। पौत्रश्‍च कृष्णस्य सुपूर्णशक्तेः पैतृष्वसेयो वीरतमो गुणाढ्यः॥ २०/२०२॥
अर्थ्योऽस्माभिः स्वयमेवाहरत् स शक्रात्मजो नात्र नः कार्यहानिः। अनुद्रुत्यैनं यदि वः स्यात् पराजयो हानिर्दृढं यशसो वो भवेत॥ २०/२०३॥
जित्वा यद्येनं कन्यका चाहृता चेत् परामृष्टां नैव कश्‍चिद्धि लिप्सेत्। अतो न मे रोचते वोऽनुयानमित्यूचिवानास तूष्णीं परेशः॥ २०/२०४॥
श्रुत्वा हली कृष्णवाक्यं बभाषे मा यात चित्तं विदितं मयाऽस्य। अस्यानुवृत्तिर्विजयाय नः स्याच्छुभाय शान्त्यै परतश्‍च मुक्त्यै॥ २०/२०५॥
ततोऽर्जुनो यत्र तिष्ठन् न कश्‍चित् पराभवं याति कृष्णाज्ञयैव। रथेन तेनैव ययौ सभार्यः शक्रप्रस्थं चाविशद् भ्रातृगुप्तम्॥ २०/२०६॥
सम्भावितो भ्रातृभिश्‍चातितुष्टैरूचेऽथ सर्वं तेषु यच्चात्मवृत्तम्। शान्तेषु वाक्यादात्मनो यादवेषु कृष्णो युक्तो हलिनाऽगाच्च पार्थान्॥ २०/२०७॥
सार्द्धं ययौ शकटै रत्नपूर्णैः शक्रप्रस्थं पूजितस्तत्र पार्थैः। ददौ तेषां तानि रामेण युक्तस्तथा कृष्णायै भूषणानि स्वसुश्‍च॥ २०/२०८॥
मासानुषित्वा कतिचिद् रौहिणेयो ययौ पुरीं स्वां केशवोऽत्रावसच्च। बहून् वर्षान् पाण्डवैः पूज्यमानः प्रीतिं तेषामादधानोऽधिकां स्वाम्॥ २०/२०९॥
आसन् कृष्णायाः पञ्च सुता गुणाढ्या विश्‍वेदेवाः पञ्चगन्धर्वमुख्यैः। आविष्टास्ते चित्ररथाभिताम्रकिशोरगोपालबलैः क्रमेण॥ २०/२१०॥
प्रतिविन्ध्यः श्रुतसोमः श्रुताख्यकीर्तिः शतानीक उत श्रुतक्रियः। युधिष्ठिराद्यैः क्रमशः प्रजातास्तेषां द्वयोश्‍चावरजोऽभिमन्युः॥ २०/२११॥
चन्द्रांशयुक्तोऽतितरां बुधोऽसौ जातः सुभद्राजठरेऽर्जुनेन। धर्मेरशक्रांशयुतोऽश्‍विनोश्‍च तथैव कृष्णस्य च सन्निधानयुक्॥ २०/२१२॥
सर्वेऽपि ते वीर्यवन्तः सुरूपा भक्ता विष्णोः सर्वशास्त्रेष्वभिज्ञाः। मोदं ययुः पाण्डवास्तैः सुतैश्‍च विशेषतः सात्त्वतीनन्दनेन॥ २०/२१३॥
ततः कदाचित् खाण्डवं कृष्णपार्थौ चिक्रीडिषू सत्यभामासुभद्रे। आदाय यातौ परिचारकैश्‍च रथेन गन्धर्ववरानुगीतौ॥ २०/२१४॥
स्वैरं तयोस्तत्र विक्रीडतोश्‍च स्त्रीरत्नाभ्यां मन्दवातानुजुष्टे। वने प्रसूनस्तबकोरुराजिते जले च तिग्मद्युतिकन्यकायाः॥ २०/२१५॥
भूत्वा विप्रस्तौ ययाचेऽन्नमेत्य कृशानुरूचेऽनुमते रमेशितुः। पार्थः कीदृक् तेऽन्नमिष्टं वदेति स चावादीद् वह्निरहं वनार्थी॥ २०/२१६॥
प्रयाजान् देवाननुयाजांश्‍च शुल्कं हविर्दाने देवतानामयाचिषम्। बलह्रासस्तव भूयादिति स्म शप्त्वैव ते तांश्‍च ददुः पुरा मम॥ २०/२१७॥
पुनः पूर्तिः केन मे स्याद् बलस्येत्यब्जोद्भवं पृष्टवानस्मि नत्वा। यदा वनं खाण्डवं हि त्वमत्सि तदा बलं ते भवतीति सोऽब्रवीत्॥ २०/२१८॥
शक्रस्येदं खाण्डवं तेन विघ्नं करोत्यसौ तेन वां प्रार्थयामि। इत्युक्ते तं पार्थ ऊचे यदि स्याद् रथो धनुश्‍चाथ शक्रं निरोत्स्ये॥ २०/२१९॥
नरावेशादन्नदानप्रतिश्रवात् स्वस्यापि शक्रस्य विरोधमैच्छत्। पार्थः कृष्णस्य प्रेरणाच्चैव वह्निः पार्थं ययाचे शक्रविरोधशान्त्यै॥ २०/२२०॥
नहि स्वदत्तस्य पुनः स वैरं शक्रः कुर्यात् स्वयमिन्द्रो हि पार्थः। नाप्रेरितो विष्णुना तस्य रोधं पार्थः कुर्यादिति कृष्णं ययाचे॥ २०/२२१॥
नचायुक्तः केशवेनैष शक्त इति स्म कृष्णादाप भूयोऽप्यनुज्ञाम्। ययौ समीपं च हरेर्बदर्यामादाय चक्रं चामुतः केशवेऽदात्॥ २०/२२२॥
चक्रं गोमन्ते कृष्णमायाद्धि पूर्वं भक्त्या वह्निः केशवेऽदात् पुनस्तत्। चक्रं च विष्णोर्बहुधा व्यवस्थितं तदग्निदत्तं प्राक्तनं चैकधाऽऽसीत्॥ २०/२२३॥
धनुश्‍च गाण्डीवमथाब्जजस्य करोति येनाखिलसंयतिं सः। अंशेन दत्तं तदुमापतेश्‍च शक्रस्य सोमस्य जलेशितुश्‍च॥ २०/२२४॥
तेनैव ते जिग्युरथो जगत्त्रयं प्रसादतस्ते क्रमशोऽब्जयोनेः। अनन्यधार्यं विजयावहं च भारेण लक्षस्य समं शुभावहम्॥ २०/२२५॥
रथं च शुभ्राश्‍वयुतं जयावहं तूणौ तथा चाक्षयसायकौ शुभौ। ध्वजं च रामस्य हनूमदङ्कमादाय सर्वं वरुणादर्जुनेऽदात्॥ २०/२२६॥
विशेषतो ध्वजसंस्थे हनूमत्यजेयता स्याज्जयरूपो यतोऽसौ। सर्वं च तद् दिव्यमभेद्यमेव विद्युत्प्रभा ज्या च गाण्डीवसंस्था॥ २०/२२७॥
गाण्डीवमप्यास कृष्णप्रसादाच्छक्यं धर्तुं पाण्डवस्याप्यधार्यम्। देवैश्‍च तैर्ब्रह्मवराद् धृतं तद् ब्रह्मैव साक्षात् प्रभुरस्य धारणे॥ २०/२२८॥
इन्द्रस्य दत्तश्‍च वरः स्वयम्भुवा तेनापि पार्थस्य बभूव धार्यम्। इन्द्रो ह्यसौ फल्गुनत्वेन जातस्ततः सोऽस्त्रैः शरशालां चकार॥ २०/२२९॥
आ योजनद्वादशकाभिविस्तृतं पुरं चकाराशु पुरन्दरात्मजः। हुताशनोऽप्याशु वनं प्रगृह्य प्रभक्षयामास समुद्धतार्चिः॥ २०/२३०॥
प्रभक्ष्यमाणं निजकक्षमीक्ष्य सन्धुक्षयामास तदाऽऽशुशुक्षणिम्। अक्षोपमाभिर्बहुलेक्षणोऽम्भसां धाराभिराक्षुब्धमनाः क्षयाय॥ २०/२३१॥
अस्त्रैस्तु वृष्टिं विनिवार्य कृष्णः पार्थश्‍च शक्रं सुरपूगयुक्तम्। अयुद्ध्यतां सोऽपि पराजितोऽभूत् प्रीतश्‍च दृष्ट्वा बलमात्मनस्तत्॥ २०/२३२॥
स्नेहं च कृष्णस्य तदर्जुने धृतं विलोक्य पार्थस्य बलं च तादृशम्। निवर्त्य मेघानतितुष्टचित्तः प्रणम्य कृष्णं तनयं समाश्लिषत्॥ २०/२३३॥
विष्णुश्‍च शक्रेण सहेत्य केशवं समाश्लिषन्निर्विशेषोऽप्यनन्तः। स केवलं क्रीडमानः सशक्रः स्थितो हि पूर्वं युयुधे न किञ्चित्॥ २०/२३४॥
ब्रह्मा च शर्वश्‍च समेत्य कृष्णं प्रणम्य पार्थस्य च कृष्णनाम। सञ्चक्रतुश्‍चापि शिक्षाप्रकर्षाच्चक्रुश्‍च सर्वे स्वास्त्रदाने प्रतिज्ञाम्॥ २०/२३५॥
अनुज्ञातास्ते प्रययुः केशवेन क्रीडार्थमिन्द्रो युयुधे हि तत्र। प्रीत्या कीर्तिं दातुमप्यर्जुनस्य ततस्तुष्टः सह देवैर्ययौ स्वः॥ २०/२३६॥
दैत्याश्‍च नागाश्‍च पिशाचयक्षा हताः सर्वे तद्वनस्था हि ताभ्याम्। ऋते चतुष्पक्षिणश्‍चाश्‍वसेनं मयं च नान्यत् किञ्चिदासात्र मुक्तम्॥ २०/२३७॥
अयमग्ने जरितेत्यादिमन्त्रैः स्तुत्वा वह्निं पक्षिणो नैव दग्धाः। स चाश्‍वसेनः पुत्रकस्तक्षकस्य मात्रा ग्रस्तः प्रातिलोम्येन कण्ठे॥ २०/२३८॥
छिन्नेऽर्जुनेनान्तरिक्षे पतन्त्यास्तस्याः शक्रेणावितश्छिन्नपुच्छः। वधान्मातुः पुच्छभङ्गाच्च रोषाद्धन्तुं पार्थं कर्णतूणीरगोऽभूत्॥ २०/२३९॥
मयः कृष्णेनात्तचक्रेण दृष्टो ययौ पार्थं शरणं जीवितार्थी। पार्थार्थमेनं न जघान कृष्णः स्वभक्तश्‍चेत्यतिमायं रमेशः॥ २०/२४०॥
देवारिरित्येव मयि प्रकोपः कृष्णस्य तेनाहमिमं पुरन्दरम्। पार्थात्मकं शरणं यामि तेन कृष्णप्रियः स्यामिति तस्य बुद्धिः॥ २०/२४१॥
प्राणोपकृत्प्रत्युपकारमाशु किं ते करोमीति स पार्थमाह। कृष्णप्रसादाद्धि भवान् विमुक्तस्तस्मै करोत्वित्यवदत् स पार्थः॥ २०/२४२॥
कृष्णोऽपि राज्ञोऽतिविचित्ररूपसभाकृतावादिशत् तां स चक्रे। अनिर्गमं प्राणिनामर्थितौ तौ हुताशनेनाथ विधाय जग्मतुः॥ २०/२४३॥
दृष्ट्वा च तौ पाण्डवाः सर्व एव महामुदं प्रापुरेतन्निशम्य। कृष्णोऽपि पार्थैर्मुमुदेऽनन्तशक्तिः सुखज्ञानप्रभवौदार्यवीर्यः॥ २०/२४४॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये खाण्डवदाहो नाम विंशोऽध्यायः समाप्तः॥
एकविंशोऽध्यायः
जनार्दनाज्ञया मयः समस्तकौतुकोत्तराम्। सभां विधाय भूभृते ददौ गदां वृकोदरे॥ २१/१॥
स वायुधारितां गदां हि यौवनाश्‍वभूभृता। प्रसादतोऽस्य लम्भितामवाप्य मोदमाप ह॥ २१/२॥
पुनश्‍च वत्सरद्वयं समुष्य केशवो ययौ। समर्चितश्‍च पाण्डवैर्वियोजनेऽस्य चाक्षमैः॥ २१/३॥
ततो वसन् स्वपुर्यजः क्वचिद् रविग्रहे हरिः। सदारपुत्रबान्धवः स्यमन्तपञ्चकं ययौ॥ २१/४॥
पृथासुताश्‍च सर्वशः सदारपुत्रमातृकाः। क्षितीश्‍वराश्‍च सर्वशः प्रियाप्रिया हरेश्‍च ये॥ २१/५॥
तथैव नन्दगोपकः सदारगोपगोपिकः। मुनीश्‍वराश्‍च सर्वतः समीयुरत्र च प्रजाः॥ २१/६॥
प्रियाश्‍च ये रमेशितुर्हरिं त्रिरूपमेत्य ते। वसिष्ठवृष्णिनन्दनौ भृगूत्तमं तथाऽर्चयन्॥ २१/७॥
कृतार्थतां च ते ययू रमेशपाददर्शनात्। रविग्रहे समाप्लुता भृगूद्वहोत्थतीर्थके॥ २१/८॥
अनुग्रहं विधाय स स्वकेषु केशवस्त्रिवृत्। अयाजयच्च शूरजं मखैः समाप्तदक्षिणैः॥ २१/९॥
समस्तलोकसंस्थितात्मभक्तिमज्जनस्य सः। सुकालदर्शनात् परं व्यधादनुग्रहं हरिः॥ २१/१०॥
ततो ययौ स्वकां पुरीं पृथासुतैः सहाच्युतः। चकार तत्र चाह्निकं क्रतुं महाश्‍वमेधकम्॥ २१/११॥
हयं सभीमफल्गुना हरे रथं समास्थिताः। व्यचारयन् हरेः सुता दिनस्य पादमात्रतः॥ २१/१२॥
जिताः समस्तभूभृतो जरासुतादयः क्षणात्। वृकोदरादिभिस्तु तैर्हयश्‍च दिव्य आययौ॥ २१/१३॥
हयः स कृष्णनिर्मितो दिनेन लक्षयोजनम्। क्षमो हि गन्तुमञ्जसा दिनाश्‍वमेधसिद्धये॥ २१/१४॥
पराशरात्मजो हरिर्हरिं यदा त्वदीक्षयत्। तदाऽऽससाद ह द्विजस्तृणावहो रुराव च॥ २१/१५॥
व्रजन्ति जन्मनोऽनु मे सदा सुता अदृश्यताम्। इतीरितेऽर्जुनोऽब्रवीदहं हि पामि ते सुतान्॥ २१/१६॥
सकृष्णरामकार्ष्णिभिः सुता न मेऽत्र पालिताः। क्व तेऽत्र शक्तिरित्यमुं जगाद सोऽर्जुनं द्विजः॥ २१/१७॥
तदा जगाद फल्गुनोऽसुरैर्विदूषितात्मना। न विप्र तादृशोऽस्म्यहं यथैव केशवादयः॥ २१/१८॥
मया जिता हि खाण्डवे सुरास्तथाऽसुरानहम्। निवातवर्मनामकान् विजेष्य उत्तरत्र हि॥ २१/१९॥
उदीर्य चेति केशवं स ऊचिवान् व्रजाम्यहम्। इतीरितोऽवदद्धरिस्तवात्र शक्यते नु किम्॥ २१/२०॥
विलज्जमानमीक्ष्य तं जगाद केशवोऽरिहा। व्रजेति स प्रतिश्रवं चकार हाप्यरक्षणे॥ २१/२१॥
वह्निं प्रवेक्ष्येऽशक्तश्‍चेदित्युक्त्वा सर्वयादवैः। ययौ न रामप्रद्युम्नावनिरुद्धं च केशवः॥ २१/२२॥
न्ययोजयत् तत्साहाय्ये यशस्तेष्वभिरक्षितुम्। प्रियो हि नितरां रामः कृष्णस्यानु च तं सुतः॥ २१/२३॥
अनिरुद्धः कार्ष्णिमनु प्रद्युम्नाद् योऽजनिष्ट हि। रुक्मिपुत्र्यां रुक्मवत्यामाहृतायां स्वयंवरे॥ २१/२४॥
रतिरेव हि या तस्यां जातोऽसौ कामनन्दनः। पूर्वमप्यनिरुद्धाख्यो विष्णोस्तन्नाम्न एव च॥ २१/२५॥
आवेशयुक्तो बलवान् रूपवान् सर्वशास्त्रवित्। तस्मात् तांस्त्रीनृते कृष्णः पार्थसाहाय्यकारणात्॥ २१/२६॥
न्ययोजयत् सूतिकाले ब्राह्मण्याः स च फल्गुनः। अस्त्रैश्‍चकार दिग्बन्धं कुमारोऽथापि तु क्षणात्॥२१/२७॥
अदर्शनं ययौ पार्थो विषण्णः सह यादवैः। अधिक्षिप्तो ब्राह्मणेन ययौ यत्र श्रियःपतिः॥ २१/२८॥
अग्निं विविक्षन्तममुं निवार्य ययौ सविप्रः सहफल्गुनो हरिः। आशामुदीचीं बृहता रथेन क्षणेन तीर्त्वैव च सप्तवारिधीन्॥ २१/२९॥
ददुश्‍च मार्गं गिरयोऽब्धयस्तथा विदार्य चक्रेण तमोऽन्धमीशः। घनोदकं चाप्यतितीर्य तत्र ददर्श धाम स्वमनन्तवीर्यः॥ २१/३०॥
संस्थाप्य दूरे सरथं सविप्रं पार्थं स्वरूपे द्विचतुष्कबाहौ। समस्तरत्नोज्ज्वलदिव्यभूषणे विवेश नित्योरुगुणार्णवे प्रभुः॥ २१/३१॥
सहस्रमूर्धन्युरुशेषभोग आसीनरूपेऽमितसूर्यदीधितौ। रमासहाये तटिदुज्वलाम्बरे मुक्तैर्विरिञ्चादिभिरर्चिते सदा॥ २१/३२॥
स्थित्वैकरूपेण मुहूर्तमीश्‍वरो विनिर्ययौ विप्रसुतान् प्रगृह्य। सुनन्दनन्दादय एव पार्षदास्ते वैष्णवा भूमितले प्रजाताः॥ २१/३३॥
दर्पं निहन्तुं हरिरर्जुनस्य समानयद् विप्रसुतान् परेशः। प्रीतिर्महत्येव यतोऽर्जुने हरेः संशिक्षयामास ततः स एनम्॥ २१/३४॥
अप्राकृतात् सदनाद् वासुदेवो निःसृत्य सूर्याधिकलक्षदीधितेः। रथं समारुह्य सपार्थविप्र आगात् सुतांश्‍चैव ददौ द्विजाय॥ २१/३५॥
लोकशिक्षार्थमेवासौ प्रायश्‍चित्तं च चालने। चक्रे सार्धमुहूर्तेन समागम्य पुनर्मखम्॥ २१/३६॥
ब्रह्मादीनागतांश्‍चैव सदा स्वपरिचारकान्। पूजयित्वाऽभ्यनुज्ञाय ब्राह्मणानप्यपूजयत्॥ २१/३७॥
सस्नाववभृथं कृष्णः सदारः ससुहृज्जनः।
आयान्तं द्वारकां कृष्णं दन्तवक्रो रुरोध ह॥ २१/३८॥
जघान गदया कृष्णस्तत्क्षणात् सविडूरथम्। विडूरथस्तमोऽगच्छद् दन्तवक्रे च योऽसुरः॥ २१/३९॥ हरेश्च पार्षदः क्षिप्रं हरिमेव समाश्रितः।
कृष्णे प्राप्ते स्वलोकं च निःसृत्यास्मात् स्वरूपतः॥ २१/४०॥ एकीभावं स्वरूपेण द्वारपेण गमिष्यति।
ततः कृष्णः पुरीमेत्य बोधयामास फल्गुनम्॥ २१/४१॥
किमेतद् दृष्टमित्येव तेन पृष्टो रमापतिः। अयं द्वीपः सागरश्‍च लक्षयोजनविस्तृतौ॥ २१/४२॥
तदन्ये तु क्रमेणैव द्विगुणेनोत्तरोत्तराः। अन्त्याध्यर्धस्थलं हैमं बाह्यतो वज्रलेपकम्॥ २१/४३॥
एतत् सर्वं लोकनाम ह्येतस्माद् द्विगुणं तमः। अन्धं यत्र पतन्त्युग्रा मिथ्याज्ञानपरायणाः॥ २१/४४॥
घनोदकं तद्द्विगुणं तदन्ते धाम मामकम्। यत् तद् दृष्टं त्वया पार्थ तत्र मुक्तैरजादिभिः॥ २१/४५॥
सेव्यमानः स्थितो नित्यं सर्वैः परमपूरुषः। लोकालोकप्रदेशस्तु पञ्चाशल्लक्षविस्तृतः॥ २१/४६॥
सपञ्चाशत्सहस्रश्‍च तस्यापि गणनं तथा। योजनानां पञ्चविंशत्कोटयो मेरुपर्वतात्॥ २१/४७॥
चतसृष्वपि दिक्षूर्ध्वमधश्‍चाण्डं प्रकीर्तितम्। अबग्नीरनभोहङ्कृन्महत्तत्वगुणत्रयैः॥ २१/४८॥
क्रमाद् दशगुणैरैरेतदावृतं परतस्ततः। व्याप्तोऽहं सर्वगोऽनन्तोऽनन्तरूपो निरन्तरः॥ २१/४९॥
अनन्तशीर्षोऽनन्ताक्षोऽनन्तपादकरोरुकः। अनन्तगुणमाहात्म्यश्‍चिदानन्दशरीरकः॥ २१/५०॥
मद्वशा एव सर्वेऽपि त्वं चान्ये च धनञ्जय। मत्प्रसादाद् बलं चैव विजयश्‍चाखिला गुणाः॥ २१/५१॥
तस्मान्न विस्मयः कार्यो न दर्पश्‍च त्वयाऽनघ। मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु॥ २१/५२॥
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे। इत्युक्तः प्रणिपत्यैनं क्षमस्वेत्याह फल्गुनः॥ २१/५३॥
उषित्वा कतिचिन्मासान् ययुः सर्वेऽपि पाण्डवाः। अनुज्ञाताः केशवेन भक्तिनम्रधियोऽच्युते। सम्भाविताः केशवेन सौहार्देनाधिकेन च॥ २१/५४॥
ततः कदाचित् प्रवरे सभातले धर्मात्मजो राजभिर्भ्रातृभिश्‍च। वृतो निशम्यैव सभाः सुराणां यथा स्थिता नारदमन्वपृच्छत्॥ २१/५५॥
अन्तरिक्षं त्वया प्रोक्तं लक्षयोजनमुच्छ्रितम्। अर्धकोट्युुच्छ्रितः स्वर्गो विमानावलिसङ्कुलः॥ २१/५६॥
भुवः स्वर्गश्‍च कोट्यैैव योजनानां प्रविस्तृतौ। महर्जनस्तपश्‍चैव क्रमादध्यर्धयोजनाः॥ २१/५७॥
पञ्चाशत्कोटिविस्तारा योजनानां समस्तशः। यावन्त एते मिलितास्तत्प्रमाण उदीरितः। सत्याख्यो ब्रह्मलोकस्तु यत्र ब्रह्मा विराजते॥ २१/५३॥
ततश्‍च द्विगुणः प्रोक्तो विष्णुलोकः सनातनः। उत्तरोत्तरतः सर्वे सुखे शतगुणोत्तराः॥ २१/५४॥
अनन्तजनसम्पूर्णा अपि ते हीच्छया हरेः।
अवकाशवन्तो दिव्यत्वात् पूर्यन्ते न कदाचन। सर्वकामसुखैः पूर्णा दिव्यस्त्रीपुरुषोज्ज्वलाः॥ २१/५५॥
दिव्यरत्नसमाकीर्णं तथा पातालसप्तकम्। अधस्ताच्छेषदेवेन बलिना समधिष्ठितम्॥ २१/५६॥
कामभोगसमायुक्ता बहुवर्षसहस्रिणः। सप्तद्वीपेषु पुरुषा नार्यश्‍चोक्ताः सुरूपिणः॥ २१/५७॥
एषां च सर्वलोकानां धाता नारायणः परः। विष्णुलोकस्थितो मुक्तैः सदा सर्वैरुपास्यते॥ २१/५८॥
सेवका ब्रह्मणः सर्वे वेदा देवाश्‍च सर्वशः। शक्रस्य मुनयः सर्वे हरिश्‍चन्द्रश्‍च भूमिपः॥ २१/५९॥
अखिला अपि राजानः पाण्डुश्‍चास्मत्पिता मुने। यमस्यैवानुगाः प्रोक्ता राजभिस्तैर्यमेन च॥ २१/६०॥
उपास्यमानो भगवान् रामो यमसभातले। उक्त इन्द्रेण चोपास्यो वामनात्मा जनार्दनः॥ २१/६१॥
प्रादुर्भावाश्‍च निखिला ब्रह्मणोपासिताः सदा। वरुणस्यानुगा नागास्तत्र मत्स्याकृतिर्हरिः। गन्धर्वा धनदस्यापि तत्र कल्की हरिः प्रभुः॥ २१/६२॥
रुद्रस्योग्राणि भूतानि नृसिंहात्मा शिवेन च। उपास्यते सदा विष्णुरित्याद्युक्तं त्वयाऽनघ। सर्वरत्नस्थलान् दिव्यान् देवलोकान् प्रभाषता॥ २१/६३॥
तत्र मे संशयो भूयान् हरिश्‍चन्द्रः कथं नृपः। ऐन्द्रं सभातलं प्राप्तः पाण्डुर्नास्मत्पिता मुने॥ २१/६४॥
इत्युक्तो नारदः प्राह राजसूयकृतोन्नतिम्। हरिश्‍चन्द्रस्य तां दृष्ट्वा पिता मां प्राह पाण्डव॥ २१/६५॥
करोतु राजसूयं मे पुत्रो ज्येष्ठोऽनुजार्चितः। पालितो वासुदेवेन किं तस्यासाध्यमत्र हि॥ २१/६६॥
एतच्छ्रुत्वा धर्मसुतो भ्रातृभिः सहितो वशी। अवाप्तिं राजसूयस्य मन्त्रयामास धर्मवित्॥ २१/६७॥
सुकार्यमेतदित्यलं निशम्य सोदरोदितम्। अयातयत् स्वसारथिं स केशवाय भूपतिः॥ २१/६८॥
तदैव केशवस्य याः स्त्रियस्तदीयतातकैः। सहोदरैश्‍च यापितः स दूत आप माधवम्॥ २१/६९॥
प्रणम्य केशवं वचः स आह मागधेन ते। विवाहबान्धवा रणे विजित्य रोधिता गिरौ॥ २१/७०॥
नृपायुतद्वयेन सोऽष्टविंशकैः शतैरपि। यियक्षुरुग्ररूपिणं त्रिलोचनं त्वयि स्थिते॥ २१/७१॥
विमोचयस्व तान् प्रभो निहत्य मागधेश्‍वरम्। अवैदिकं मखं च तं विलुम्प धर्मगुप्तये॥ २१/७२॥
इतीरितेऽथ सारथिं निशाम्य धर्मजस्य च। निशम्य तद्वचस्तदा जगाम पाण्डवालयम्॥ २१/७३॥
स पाण्डवैः समर्चितो मखाय धर्मजेन च। प्र पृष्ट आह माधवो वचो जगत्सुखावहम्॥ २१/७४॥
क्रतुर्यथाविधानतः कृतो हि पारमेष्ठ्यकम्। पदं नयेत तत्पदे सुयोग्यमेव नान्यथा॥ २१/७५॥
अयोग्यकान् महापदे विधातुरेष हि क्रतुः। समानयोग्यतागणात् करोति मुक्तिगं वरम्॥ २१/७६॥
पुरा तु मुक्तितोऽधिकं स्वजातितः करोति च। अतस्त्रिशङ्कुपुत्रको नृपानतीत्य वर्तते॥ २१/७७॥
सुरांशकोऽपि ते पिता विना हि राजसूयतः। न शक्ष्यति त्रिशङ्कुजाद् वरत्वमाप्तुमद्य तु॥ २१/७८॥
तपश्‍चरन् समागते शचीपतौ पिता तव। मरुद्गणोत्तमः पुरा नतूत्थितः शशाप सः॥ २१/७९॥
व्रजस्व मानुषीं तनुं ततो मृतः पुनर्दिवम्। गतोऽपि च स्वकां तनुं प्रवेष्टुमत्र नेशसे॥ २१/८०॥
तदाऽधिकस्त्रिशङ्कुजो भविष्यति त्वदित्यथ। क्षमापितश्‍च वासवो जगाद राजसूयतः। त्रिशङ्कुजाधिको भवानवाप्स्यति स्वकां तनुम्॥ २१/८१॥
अतः सुकार्य एव ते युधिष्ठिर क्रतूत्तमः। भवद्भिरप्यवाप्यते स्वयोग्यताऽमुनाऽखिला॥ २१/८२॥
उदीर्य चैवमीश्‍वरः क्रतोरमुष्य योग्यता। वृकोदरे यतोऽखिला चतुर्मुखत्वयोग्यता॥ २१/८३॥
ततः सुपूर्णमस्य तत्फलं विधातुमञ्जसा। जगाद वायुवाहनो वचो युधिष्ठिरं त्विदम्॥ २१/८४॥
क्व राजसूयमद्य ते जरासुते तु जीवति। जयेत् क एव तं युधा मृतो न योऽपि सीरिणा॥ २१/८५॥
विरिञ्चशर्ववाक्यतः समस्तलोकजायिनि। स्थिते तु ते जरासुते न सेत्स्यति क्रतूत्तमः॥ २१/८६॥
इतीरिते रथाङ्गिना जगाद धर्मनन्दनः। निवर्तितं मनः क्रतोरलं ममामुना प्रभो॥ २१/८७॥
बभूविरे च भूभृतो नचाधिराज्यमापिरे। यदा च चक्रवर्तिनस्तदेदृशा न शत्रवः॥ २१/८८॥
इतीरितेऽमुनाऽवदत् प्रधानमारुतात्मजः। पदं चतुर्मुखस्य वा सुसाध्यमेव यत्नतः॥ २१/८९॥
निजानुभाववर्जिता हरेरनुग्रहोज्झिताः। महाप्रयत्नवर्जिता जना न जग्मुरुन्नतिम्॥ २१/९०॥
स्थिरोऽनुभाव एव मे महाननुग्रहो हरेः। प्रयत्नमेकमग्रतो निधाय भूतिमाप्नुमः॥ २१/९१॥
इतीरितेऽमुना हरिः समुद्यमात् प्रधानतः। स्थिते हि यज्ञकारणे वृकोदरे जगाद ह॥ २१/९२॥
स एक एव पूरुषो जरासुतोऽद्य वर्तते। समस्तसद्विरोधिनां बलं कलेरनन्तरः॥ २१/९३॥
तथा सतां समाश्रयो यदुद्भवाः सतां गुणाः। स एक एव तादृशस्त्वया विचिन्त्य यात्यताम्॥ २१/९४॥
यदि स्म तेन मागधो निहन्यते सतां जयः। विपर्ययेण चासतामिति स्म विद्धि नान्यथा॥ २१/९५॥
स पारमेष्ठ्यसत्पदं प्रयात्यसंशयं युधि। य एव हन्ति मागधं स एव धर्मपालकः॥ २१/९६॥
निहन्ति मागधेश्‍वरं य एष वैष्णवं जगत्। करोति शर्वपालितो यतः स बारुहद्रथः॥ २१/९७॥
निहन्ति शैवनायकं य एव वैष्णवाग्रणीः।
इति स्म भावसंयुते वदत्यजेऽबिभेन्नृपः॥ २१/९८॥
युधिष्ठिरे ब्रुवत्यजं मखेन मे त्वलं त्विति। तमाह मारुतात्मजो निहन्मि मागधं रणे॥ २१/९९॥
इतीरितेऽवदद्धरिर्व्रजामहे वयं त्रयः। अहं च भीमफल्गुनौ निहन्तुमेव मागधम्॥ २१/१००॥
वृकोदरेण हन्यते यदि स्म मागधाधिपः। मखश्‍च सेत्स्यते ध्रुवं जगच्च ते वशे भवेत्॥ २१/१०१॥
इतीरिते तु शौरिणा जगाद धर्मनन्दनः। स शूरसेनमण्डलप्रहाणतो हरेस्त्रसन्॥ २१/१०२॥
भयाद्धि यस्य माधुरं विहाय मण्डलं गताः। भवन्त एव सागरं ततो बिभेम्यहं रिपोः॥ २१/१०३॥
इमौ हि भीमफल्गुनौ ममाक्षिणी सदा प्रभो। मनोनिभो भवान् सदा न वो विनाऽस्म्यहं पुमान्॥ २१/१०४॥
अतो न जीवितात् प्रियानहं रिपोर्बलीयसः। सकाशमात्महेतुतः प्रयातयामि वो विभो॥ २१/१०५॥
इतीरितेऽवदत् पुनर्वृकोदरोऽरिकक्षभुक्। यदीयनेतृका रमाविरिञ्चशर्वपूर्वकाः॥ २१/१०६॥
वशे च यस्य तद् बलं सुरासुरोरगादिनाम्। स एष केशवः प्रभुः क्व चास्य बारुहद्रथः॥ २१/१०७॥
अधृष्यमस्ति मे बलं हरिप्रणायकस्य च। समस्तलोकनेतरि प्रभौ हि सर्वशक्तिता॥ २१/१०८॥
अजेयता तथाऽर्जुने हरेर्वरोद्भवाऽस्ति हि। अतो वयं त्रयोऽद्य तं प्रयाम मागधं रिपुम्॥ २१/१०९॥
हनिष्य एव मागधं हरेः पुरो न संशयः।
इतीरितेऽमुना हरिर्जगाद धर्मनन्दनम्॥ २१/११०॥
वयं त्रयः समेत्य तं प्रयातयाम मृत्यवे। हनिष्यति स्फुटं रणे वृकोदरो जरासुतम्॥ २१/१११॥
भयं न कार्यमेव ते मया हतः स नेति ह। मया हि नीतिहेतुतः स्वयं न हन्यते रिपुः॥ २१/११२॥
स शर्वसंश्रयाग्रणीर्मदाश्रयोत्तमेन तु। निहन्यते यदा तदा प्रकाशितं हि मे बलम्॥ २१/११३॥
अतो न शङ्कितं मनः कुरुष्व भूपते क्वचित्। प्रदर्शयामि तेऽनुजौ निहत्य मागधेश्‍वरम्॥ २१/११४॥
इतीरितः स विष्णुना विचार्य तद्गुणान् परान्। तथेति चाह ते त्रयः प्रतस्थुराशु मागधान्॥ २१/११५॥
समेत्य मागधांस्तु ते शिवोरुलिङ्गमित्यलम्। सुमाल्यवस्त्रभूषणैः समर्चितं गिरिं ययुः॥ २१/११६॥
स्वशीर्षतोऽपिचादृतं जरासुतेन ते गिरिम्। न्यपातयन्त बाहुभिस्तमस्य चोत्तमाङ्गवत्॥ २१/११७॥
अद्वारतस्ते नगरं प्रविश्य माषस्य नालेन कृतास्त्रिभेरीः। पुुष्टिप्रदा बिभिदुस्तस्य कीर्तिशास्त्रोपमा न्यक्कृतमागधेशाः॥ २१/११८॥
तथाऽऽपणेभ्यो बहुमाल्यगन्धान् प्रसह्य सङ्गृह्य शुभांश्‍च दध्रुः। अद्वारतस्तस्य गृहं च सस्रुर्भोशब्दतस्तं च नृपं प्रसस्रुः॥ २१/११९॥
तान् विप्रवेषान् स निशाम्य राजा महाभुजान् स्नातकवेषयुक्तान्। द्वितीयवर्णान् प्रविचिन्त्य बाहून् ज्याकर्कशान् वीक्ष्य बभाष एतान्॥ २१/१२०॥
के ष्ठाथ किं हेतुत आगताश्‍च कुतश्‍च मे पर्वतलिङ्गभेदनम्। कृतं भवद्भिः कुत एव दुर्नयाः कृतास्तथाऽन्ये द्विजवर्यवेषैः॥ २१/१२१॥
इति ब्रुवाणं भगवानुवाच कार्यं हि शत्रोरखिलं प्रतीपम्। इत्युक्त ऊचे नहि विप्रशत्रुरहं कुतो वो मम शत्रुता भवेत्॥ २१/१२२॥
इत्युक्तवाक्यं नृपतिं जगाद जनार्दनो नैव हि तादृशा द्विजाः। अहं रिपुस्तेऽस्मि हि वासुदेव इमौ च भीमार्जुननामधेयौ॥ २१/१२३॥
यद् बान्धवान् नः पिशिताशिधर्मतो रौद्रे मखे कल्पयितुं पशुत्वे। इच्छस्यरे वेदपथं विहाय तं त्वां बलाच्छास्तुमिहागता वयम्॥ २१/१२४॥
विमोक्षयामः स्वजनान् यदि त्वं न मोचयस्यद्य निगृह्य च त्वाम्। मुञ्चाथवा तानभियाहि वाऽस्मान् रणाय मर्तुं कृतनिश्‍चयोऽत्र॥ २१/१२५॥
इतीरितोऽसौ मगधाधिपो रुषा जगाद नाहं शिवयागयुक्तान्। मोक्ष्ये पशून् युगपद् वा क्रमेण योत्स्ये च वोऽथापि चमूसहायान्॥ २१/१२६॥
निरायुधः सायुधो वा युष्मदिष्टायुधेन वा। एकोऽपि सकलैर्योत्स्ये ससेनो वा ससैनिकान्॥ २१/१२७॥
इत्युक्तवन्तमवददजितोरुबलो हरिः। एह्येकमेको वाऽस्मासु ससैन्यो वा रणे नृप॥ २१/१२८॥
येन कामयसे योद्धुं तं न आसादय द्रुतम्। निरायुधः सायुधो वा त्वदभीष्टायुधेन वा। इत्याह भगवाञ्छत्रुं यशो भीमे विवर्धयन्॥ २१/१२९॥
घातयित्वा स्वशत्रुं च भीमेनानुग्रहं परम्। भीमस्य कर्तुमिच्छंश्‍च भक्तिज्ञानादिवर्धनम्॥ २१/१३०॥
तृणीकर्तुं रिपुं चैव निरायुधतयाऽगमत्। कृष्णभीमार्जुनास्तेन विप्रवेषाश्‍च तेऽभवन्॥ २१/१३१॥
निरायुधः क्षत्रवेषो नैव योग्यः कथञ्चन। ततो जग्मुर्विप्रवेषास्तृणीकर्तुं हि मागधम्॥ २१/१३२॥
मागधस्य ससैन्यस्य स्वगृहे संस्थितस्य च। निरायुधेन भीमेन समाह्वाने कृतेऽमितम्। धर्मं यशश्‍च भीमस्य वर्धयामास केशवः॥ २१/१३३॥
तृतीयमर्जुनं चैव समादाय ययौ रिपुम्। हरिस्तस्माच्च भीमस्य महाधिक्यं प्रकाशयन्। मुखेन मागधस्यैव वृण्वेकं न इति ब्रुवन्॥ २१/१३४॥
वृण्वेकमस्मास्विति स प्रोक्त आह जरासुतः। कुर्यां नैवार्जुनेनाहमबलेनैव सङ्गरम्॥ २१/१३५॥
पञ्चपञ्चाशदब्दोऽद्य ह्ययमेव च बालवत्। अबलत्वाद् युवाऽप्येष बाल एव मतो मम॥ २१/१३६॥
इत्युक्तोऽप्यर्जुनो नाह कुरु तर्हि परीक्षणम्। बाहुभ्यां धनुषा वेति शङ्कमानः पराजयम्॥ २१/१३७॥
अतो भीमे बलाधिक्यं सुप्रसिद्धमभून्महत्। एतदर्थं हि कृष्णेन समानीतः स फल्गुनः॥ २१/१३८॥
जानन् कृष्णे बलं घोरमविषह्यं स मागधः। कुत्सयन् गोप इति तं भयान्नैवाह्वयत् प्रभुम्॥ २१/१३९॥
आह्वयामास भीमं तु स्याद् वा मे जीवनं त्विति। हनिष्यत्येव मां कृष्ण इत्यासीन्नृपतेर्भयम्। तस्मात् तं नाह्वयामास वासुदेवं स मागधः॥ २१/१४०॥
अर्जुने तु जिते कृष्णभीमौ मां निहनिष्यतः। त्रयाणां दुर्बलाह्वानान्नश्येत् कीर्तिश्‍च मे ध्रुवा॥ २१/१४१॥
इति मत्वाऽऽह्वयामास भीमसेनं स मागधः। कथञ्चिज्जीवितं वा स्यान्नतु नश्यति मे यशः॥ २१/१४२॥
इतीक्ष्य भीमं प्रतियोधनाय सङ्गृृह्य राजा स जरासुतो बली। राज्ये निजं चात्मजमभ्यषिञ्चत् पुरा ख्यातं पत्रतापाख्यरुद्रम्॥ २१/१४३॥
बलं भीमे मन्यमानोऽधिकं तु गदाशिक्षामात्मनि चाधिकां नृपः। भीतो नियुद्धेऽस्य ददौ गदां स भीमाय चान्यां स्वयमग्रहीद् बली॥ २१/१४४॥
तदर्थमेवाशु गदां प्रगृह्य भीमो ययौ मागधसंयुतो बहिः। पुरात् सकृष्णार्जुन एव तत्र त्वयुद्ध्यतां केशवपार्थयोः पुरः॥ २१/१४५॥
वाचाऽजयत् तं प्रथमं वृकोदरः शिवाश्रयं विष्णुगुणप्रकाशया। ततो गदाभ्यामभिपेततुस्तौ विचित्रमार्गानपि दर्शयन्तौ॥ २१/१४६॥
तयोर्गदे तेऽशनिसन्निकाशे चूर्णीकृते देहमहाद्रढिम्ना। अन्योन्ययोर्वक्षसि पातिते रुषा यथाऽश्मनोः पांसुपिण्डौ सुमुक्तौ॥ २१/१४७॥
सञ्चूर्णितगदौ वीरौ मुष्टिभिर्जघ्नतुर्मिथः। ब्रह्माण्डस्फोटसङ्काशैर्यथा केशवकैटभौ॥ २१/१४८॥
चचाल पृथ्वी गिरयश्‍च चूर्णिताः कुलाचलाश्‍चेलुरलं विचुक्षुभुः। समस्तवारां पतयः सुरासुरा विरिञ्चशर्वादय आसदन्नभः॥ २१/१४९॥
सुरास्तु भीमस्य जयाभिकाङ्क्षिणस्तथाऽसुराद्या मगधाधिपस्य। पश्यन्ति सर्वे क्रमशो बलं स्वं समाददे मारुतनन्दनोऽपि॥ २१/१५०॥
मानयित्वा वरं धातुर्दिवसान् दश पञ्च च। वासुदेवाज्ञया भीमः शत्रुं हन्तुं मनो दधे॥ २१/१५१॥
स प्रणम्य हृषीकेशं हर्षादाश्लिष्य फल्गुनम्। रिपुं जग्राह मुकुटे वारणं मृगराडिव॥ २१/१५२॥
पृष्ठेऽस्य जानुमाधाय कूर्मदेशं बभञ्ज च। मृतिकाले पुनर्देहं विददार यथा पुरा॥ २१/१५३॥
मर्मण्येव न हन्तव्यो मयाऽयमिति मारुतिः। स्वपौरुषप्रकाशाय बभञ्जैनममर्मणि॥ २१/१५४॥
भज्यमाने शरीरेऽस्य ब्रह्माण्डस्फोटसन्निभः। बभूव रावो येनैव त्रस्तमेतज्जगत्त्रयम्॥ २१/१५५॥
निहत्य कृष्णस्य रिपुं स भीमः समर्पयामास तदर्चनं हरेः। कृतां हि भीमेन समर्चनां तां समक्षमादातुमिहागतो ह्यजः॥ २१/१५६॥
स्वीकृत्य पूजां च वृकोदरस्य दृढं समाश्लिष्य च तं जनार्दनः। प्रीतो नितान्तं पुनरेव कृष्णं ननाम भीमः प्रणतोऽर्जुनेन॥ २१/१५७॥
जग्मुः सुराश्‍चातितरां प्रहृष्टा ब्रह्मादयो दीनतराश्‍च दैत्याः। बलादुमेशस्य वरे प्रभग्ने वृकोदरेणाच्युतसंश्रयेण॥ २१/१५८॥
सुतो ययौ शरणं तान् रमेशभीमार्जुनान् सहदेवोऽस्य धीमान्। रथं स्वसारं च ददौ स मारुतेर्ननाम कृष्णं परया च भक्त्या॥ २१/१५९॥
रथो ह्यसौ वसुना वासुदेवाच्छक्रान्तराप्तो वसुवंशजत्वात्। जरासुतस्यास वृकोदरस्तं हरे रथं प्रार्पयामास तस्मै॥ २१/१६०॥
कृष्णोऽस्मरद् गरुडं स ध्वजेऽभूद् रथं कृष्णोऽथारुहत् पाण्डवाभ्याम्। भीमः कन्यां सहदेवस्य हेतोः समग्रहीदनुजस्यात्मनः सः॥ २१/१६१॥
नकुलस्यादान्मद्रराजो हि पूर्वं स्वीयां कन्यां सा तथैषाऽप्युषा हि। एका पूर्वं तेऽश्‍विनोश्‍चैव भार्या यमौ रेमाते यदुषा अश्‍विभार्या। ततः कृष्णायामग्रजभ्रातृभार्यावृत्तिं हि तौ चक्रतुर्माद्रिपुत्रौ॥ २१/१६२॥
जरासुतस्यात्मजः केशवादीन् रत्नैः समभ्यर्च्य ययावनुज्ञया। तदाज्ञया पितृकार्याणि कृत्वा तदाज्ञयैवामुचत् तान् नृपांश्‍च। तैः संस्तुतः केशवो भीमपार्थयुक्तो ययौ भक्तिर्नम्रैर्यथावत्॥ २१/१६३॥
सम्भावितास्ते सहदेवेन सम्यक् प्रशस्य कृष्णं भीमसेनं च सर्वे। ययुर्गृहान् स्वानपतत् केशवद्विड् जरासुतोऽन्धे तमसि क्रमेण॥ २१/१६४॥
कृष्णश्‍च पार्थौ च तथैकयानं समास्थिता धर्मजमभ्यगच्छन्। तेषां शङ्खध्वनिसम्बोधितात्मा राजा प्रीतश्चातितरां बभूव॥ २१/१६५॥
द्वैपायनोऽथ भगवानभिगम्य पार्थानाज्ञापयत् सकलसम्भृतिसाधनाय। तं राजसूयसहितं परमाश्‍वमेधयज्ञं समादिशदनन्यकृतं विरिञ्चात्॥ २१/१६६॥
कर्ता हि तस्य परमेष्ठिपदं प्रयाति यद्यन्यसद्गुणवरैः परमेष्ठितुल्यः। भीमे मखस्य फलमप्यधिकं विधातुं व्यासः क्रतुं तमदिशद् गुरुरब्जजस्य॥ २१/१६७॥
असाधारणहेतुर्यः कर्मणो यस्य चेतनः। स एव तत्फलं पूर्णं भुङ्क्तेऽन्योऽल्पमिति स्थितिः। विना विष्णुं निर्णयोऽयं स हि कर्मफलोज्झितः॥ २१/१६८॥
हेतवोऽपि हि पापस्य न प्रायः फलभागिनः। देवाः पुण्यस्य दैत्याश्‍च मानुषास्तु द्विभागिनः॥ २१/१६९॥
असाधारणहेतुश्‍च भीम एव प्रकीर्तितः। यज्ञस्यास्य जरासन्धवधात् कर्णजयादपि॥ २१/१७०॥
जयाच्च कीचकादीनामन्यैर्जेतुमशक्यतः। द्वितीयः फल्गुनश्‍चैव तृतीयस्तु युधिष्ठिरः॥ २१/१७१॥
तस्माद् ब्रह्मपदावाप्त्यै व्यासो भीमस्य तं क्रतुम्। अनन्यकृतमादिश्य दिशां विजयमादिशत्॥ २१/१७२॥
अथाब्रवीद् धनञ्जयो धनुर्ध्वजो रथो वरः। ममास्ति तद् दिशां जयो ममैव वाञ्छितः प्रभो॥ २१/१७३॥
इतीरितोऽखिलप्रभुर्जगाद सत्यमस्ति ते। समस्तसाधनोन्नतिर्महच्च वीर्यमस्ति हि॥ २१/१७४॥
तथापि कीचकादयो वृकोदरादृते वशम्। न यान्ति नापि ते वशं प्रयाति कर्ण एव च॥ २१/१७५॥
बलाधिकोऽसि कर्णतस्तथाऽपि नामृतः करम्। ददाति ते ह्यतिस्पृधा न वध्य एष तेऽद्य च॥ २१/१७६॥
सवर्मकुण्डलत्वतो न वध्य एष यत् त्वया। ततो वृकोदरो दिशं प्रयातु ते पितुः प्रियाम्॥ २१/१७७॥
जीवग्राहभयात् कर्णो ददाति करमञ्जसा। भीमाय नात्र सन्देहो जितोऽनेन च संयुगे॥ २१/१७८॥
अजेयौ शर्ववचनाद् रणे कीचकपौण्ड्रकौ। वशं प्रयातो भीमस्य तथाऽवध्योऽपि चेदिपः॥ २१/१७९॥
जीवग्राहभयं ह्येषां भीमान्मागधपातनात्। तस्मात् करं प्रयच्छन्ति जिता वा पूर्वमेव वा॥ २१/१८०॥
प्रयाहि च त्वं धनदप्रपालितां दिशं द्वीपान् सप्त चाशेषदिक्षु। नागांश्‍च दैत्यांश्‍च तथाऽधरस्थान् विजित्य शीघ्रं पुनरेहि चात्र॥ २१/१८१॥
रथो हि दिव्योऽम्बरगस्तवास्ति दिव्यानि चास्त्राणि धनुश्‍च दिव्यम्। येऽन्ये च बाणप्रमुखा अजेयाः शर्वाश्रयास्तानपि भीम एतु॥ २१/१८२॥
तथासुराश्‍चापि समस्तशोऽस्य बलिं प्रयच्छन्ति मदाज्ञयेतरे। दिशं प्रतीचीमथ दक्षिणां च यातां यमौ क्रमशो ह्यध्वरार्थे॥ २१/१८३॥
यशश्‍च धर्मश्‍च तयोरपि स्यादिति स्म कृष्णेन सुतेन काल्याः। उक्ते ययुस्ते तमभिप्रणम्य दिशो यथोक्ताः परमोरुसद्गुणाः॥ २१/१८४॥
वृकोदरोऽजयन्नृपान् विराटमाससाद ह। जितेऽत्र कीचके रणे समाददे करं ततः॥ २१/१८५॥
ततः क्रमान्नृपान् जित्वा चेदीनां विषयं गतः। मातृवाक्याद् भयाच्चैव शिशुपालेन पूजितः॥ २१/१८६॥
मातृष्वसुर्गृहे चोष्य दिवसान् कतिचित् सुखम्। करं सुमहदादाय ततः पूर्वां दिशं ययौ॥ २१/१८७॥
क्रमेण सर्वान् निर्जित्य पौण्ड्रकं च महाबलम्। विरथीकृत्य कर्णं च करमादाय सर्वतः॥ २१/१८८॥
हिमवच्छिखरे देवान् जित्वा शक्रपुरोगमान्। क्रीडार्थं युद्ध्यतस्तेभ्यस्तुष्टेभ्यो रत्नसञ्चयम्॥ २१/१८९॥
बाहुयुद्धेन शेषं च गरुडं च महाबलम्। क्रीडमानौ विनिर्जित्य भूषणान्याप तोषतः। ताभ्यां च दृढमाश्लिष्टः स्नेहविक्लिन्नया धिया॥ २१/१९०॥
पोप्लूयमानः स ततोऽम्बुधौ बली जगाम बाणस्य पुरं हरं च। रणेऽजयद् वारणरूपमास्थितं क्रीडन्तमेतेन च तोषितो हरः॥ २१/१९१॥
पृष्टश्‍च गिरिशेनासौ विस्तरं दिग्जयस्य च। सिंहव्याघ्रादिरूपाश्‍च आत्मना विजिता यथा। गरुत्मच्छेषशक्राद्या देवाः सर्वे तदब्रवीत्॥ २१/१९२॥
निशम्य शङ्करोऽखिलं मखस्य च प्रसाधकम्। हरिं ततो बलेः सुताद् ददौ च रत्नसञ्चयम्॥ २१/१९३॥
स बाणदैत्यतो महच्छिवेन दत्तमुत्तमम्। प्रगृह्य रत्नसञ्चयं स्वकं पुरं समाययौ॥ २१/१९४॥
स विप्रयादवेश्‍वरं द्विधास्थितं जनार्दनम्। पुरो निधाय तद् वसु प्रभूतमानमत् तदा॥ २१/१९५॥
सोऽभिवन्द्याग्रजं चैव यथावृत्तं न्यवेदयत्। आत्मनः कृष्णयोः सर्वं धर्मराजाग्रतो मुदा॥ २१/१९६॥
यथा जिताः कीचकाद्या एकलव्यसहायवान्। यथा जितः पौण्ड्रकश्‍च कर्णाद्याश्‍च तथाऽपरे॥ २१/१९७॥
यथा सिंहादितनवः शेषवीन्द्रेन्द्रपूर्वकाः। यथा गजतनुः शर्वस्तच्च सर्वमवर्णयत्॥ २१/१९८॥
सम्भावितश्‍च कृष्णाभ्यां राज्ञा च स महाबलः। आज्ञया व्यासदेवस्य यज्ञाङ्गानि समार्जयत्॥ २१/१९९॥
ऊचे तं भगवान् व्यासो जितं सर्वं त्वयाऽरिहन्। जये सर्वस्य यज्ञोऽयं पूर्णो भवति नान्यथा॥ २१/२००॥
विरिञ्चः सर्वजित् पूर्वं द्वितीयस्त्वमिहाभवः। इत्युक्त्वैनं समाश्लिष्य यज्ञाङ्गानि समादिशत्॥ २१/२०१॥
तदैवान्ये दिशो जित्वा समीयुस्तस्य येऽनुजाः। सहदेवो दक्षिणाशां जित्वा रत्नान्युपाहरत्॥ २१/२०२॥
तत्र रुक्मी न युयुधे सहदेवेन वीर्यवान्। जितः कृष्णेन पूर्वं यः शर्वादाप धनुर्वरम्॥ २१/२०३॥
तपसा तोषितात् कृष्णादन्यानेवामुनाऽखिलान्। विजेष्यसि यदा कृष्णविरोधस्ते तदा धनुः। मामेष्यतीति तेनोक्तो न व्यरुद्ध्यत केशवे॥ २१/२०४॥
स्वसुः स्नेहाच्च कृष्णस्य यज्ञकारयितृत्वतः। भीमार्जुनबलाच्चैव माद्रेयाय ददौ करम्। जिग्ये बलेनान्यनृपान् सहदेवः प्रतापवान्॥ २१/२०५॥
तथा स्मृतं समागतं घटोत्कचं विभीषणे। समादिशद् ययौ च सोऽप्यसौ ददौ महाकरम्॥ २१/२०६॥
पुरा हि राघवोदितं तदस्य सोऽखिलं तदा। विचार्य केशवं च तं बलं च भीमपार्थयोः। दिवौकसश्‍च पाण्डवानवेत्य सोऽददात् करम्॥ २१/२०७॥
महौघरत्नसञ्चयं स आप्य भीमसेनजः। ययौ च माद्रिनन्दनं स चाययौ स्वकं पुरम्॥ २१/२०८॥
नकुलः पश्‍चिमाशायां विजिग्येऽखिलभूभृतः। करमाप च वीरोऽसौ सौहार्दादेव मातुलात्। आययौ च महारत्नसञ्चयेन स्वकं पुरम्॥ २१/२०९॥
अर्जुनः कपिवरोच्छ्रितध्वजं स्यन्दनं समधिरुह्य गाण्डिवी। यात एव दिशमुत्तरां तदा पार्वतेयकुनृपाः समाययुः॥ २१/२१०॥
त्रैगर्ताः पार्वतेयाश्‍च सहिताः पाण्डुनन्दनम्। अभ्येत्य योधयामासुर्जानन्तस्तच्चिकीर्षितम्॥ २१/२११॥
तान् विजित्य युगपत् स पाण्डवः सञ्जयन् क्रमश एव तां दिशम्। प्राव्रजच्च भगदत्तमूर्जितं तेन चास्य समभून्महारणः॥ २१/२१२॥
सोऽभियुद्ध्य सगजो दिनाष्टकं श्रान्त आह पुरुहूतनन्दनम्। ब्रूहि ते समरकारणं त्विति प्राह देहि करमित्यथार्जुनः॥ २१/२१३॥
सोऽप्यदात् करममुष्य वासवो मद्गुरुस्तव पितेति सादरम्। नैव जेतुमिह शक्ष्यसि त्वमित्यावदद्धरिवरास्त्रतेजसा॥ २१/२१४॥
स्नेहपूर्वं प्रदत्ते तु करे नैवाह चोत्तरम्। अर्जुनो व्यर्थकलहमनिच्छन् स्नेहयन्त्रितः॥ २१/२१५॥
पार्थो जित्वाऽष्टवर्षाणि षड् द्वीपानपरानपि। अजयच्चतुर्दिशमपि सर्वशः शस्त्रतेजसा॥ २१/२१६॥
पातालसप्तकं गत्वा जित्वा दैतेयदानवान्। बलेश्‍च विष्णुवचनात् करं जग्राह सामतः॥ २१/२१७॥
जित्वा च वासुकिं भूरि रत्नमादाय सत्वरः। आजगाम पुरं स्वीयं वीरो वत्सरमात्रतः॥ २१/२१८॥
सुर्वणरत्नगिरयश्‍चतुर्भिस्तैः समार्जिताः। चत्वारो योजनानां हि दश त्रिंशच्छतं तथा॥ २१/२१९॥
चतुःशतं च क्रमश उच्छ्रिता दिग्जयार्जिताः। प्रतीच्याद्यपसव्येन क्रमाद् दिग्भ्यः समार्जिताः॥ २१/२२०॥
विश्‍वकर्मकृतत्वात् तु पुरस्याल्पेऽपिच स्थले। अन्तर्गतास्ते गिरयस्तदद्भुतमिवाभवत्॥ २१/२२१॥
ततो यज्ञः प्रववृते कृष्णद्वैपायनेरितः। ऋत्विजो मुनयोऽत्रासन् सर्वविद्यासु निष्ठिताः। द्वैपायनोक्तविधिना दीक्षितं चक्रिरे नृपम्॥ २१/२२२॥
ज्येष्ठत्वाद् याजमान्यं तु प्रणिधाय युधिष्ठिरे। भीमार्जुनादयः सर्वे सह तेन समासिरे॥ २१/२२३॥
ब्रह्माणीपदयोग्यत्वात् कृष्णैका यज्ञपत्न्यभूत्। पदायोग्यतया नान्याः पत्न्यस्तेषां सहासिरे॥ २१/२२४॥
आज्ञयैव जगद्धातुर्व्यासस्यानन्ततेजसः। स्थलमप्यत्र सर्वं हि रत्नहेममयं त्वभूत्। किमु पात्रादिकं सर्वं शिबिराणि च सर्वशः॥ २१/२२५॥
आहूतं दिग्जये पार्थैस्तदा लोकद्विसप्तकम्। सर्वमत्रागमद् ब्रह्मशर्वशक्रादिपूर्वकम्॥ २१/२२६॥
भीष्मो द्रोणश्‍च विदुरो धृतराष्ट्रः सहात्मजः। सस्त्रीका आययुस्तत्र बाह्लीकश्‍च सहात्मजः॥ २१/२२७॥
तथैव यादवाः सर्वे बलभद्रपुरोगमाः। रुक्मिणीसत्यभामाद्या महिष्यः केशवस्य च॥ २१/२२८॥
तत्र सर्वजगदेकसङ्गमे तत्त्वनिर्णयकथा बभूविरे। प्राश्निकोऽत्र परिपूर्णचिद्घनो व्यास एव भगवान् बभूव ह॥ २१/२२९॥
तत्त्वनिर्णयकथासु निर्णयो वासुदेवगुणविस्तरोऽभवत्। नास्ति तत्सदृश उत्तमः कुतः पार एष न ततोऽन्य इत्यपि॥ २१/२३०॥
बादरायणभृगूत्थरामयोः शृण्वतोः परमनिर्णये कृते। मोदमानजनतासमागमेऽपृच्छदत्र नृपतिर्यतव्रतम्॥ २१/२३१॥
जानमानोऽपि नृपतिः कृष्णं पूज्यतमं हरिम्। संशयं भूभृतां भेत्तुं भीष्मं पप्रच्छ धर्मवित्॥ २१/२३२॥
नास्ति नारायणसममिति वादेन निर्णये। कृते ब्रह्मादिभिरपि कृष्णं मर्त्यं हि मेनिरे॥ २१/२३३॥
नृपास्तस्मादयं कृष्णो नारायण इति स्म ह। सम्यग् ज्ञापयितुं धर्मसूनुर्भीष्ममपृच्छत॥ २१/२३४॥
ब्रह्मादयः सुरा यस्माद् दृश्यन्ते मर्त्यवन्नृभिः। नचैवातितराभ्यासो नृणामस्ति मुनिष्वपि॥ २१/२३५॥
सर्वशास्त्रविदं भीष्मं जानन्त्येते नृपा अपि। तस्माद् भीष्ममपृच्छत् स कुलवृद्धत्वतस्तथा॥ २१/२३६॥
पितामहाग्रपूजार्हः कोऽत्र लोकसमागमे। ब्रह्मशर्वादयश्‍चात्र सन्ति राजान एव च। इति पृष्टोऽब्रवीद् भीष्मः कृष्णं पूज्यतमं प्रभुम्॥ २१/२३७॥
यद्यप्येकस्त्रिधा विष्णुर्वसिष्ठभृगुवृष्णिषु। प्रादुर्भूतस्तथाऽप्येते नृपा हि व्यासरामयोः॥ २१/२३८॥
विप्रत्वान्न विरुद्ध्यन्ते तत एव च युक्तताम्। मन्यन्ते न विरोधश्‍च तेषां तत्र हि तादृशः॥ २१/२३९॥
अविवादे प्रसिद्धिश्‍च नैवास्य भविता क्वचित्। तस्मात् कृष्णाय दातव्यमिति भीष्मेण चिन्तितम्॥ २१/२४०॥
कृष्णाय दत्ते राजानो विवादं कुर्युरञ्जसा। विवादेन च कीर्तिः स्याद् वासुदेवस्य विस्तृता। ततः कृष्णायाग्रपूजा दत्ता पार्थैर्जगत्पुरः॥ २१/२४१॥
व्यासभार्गवयोः साक्षात् तदैक्यात् तदनन्तरम्। अग्र्यां पूजां ददुश्‍चान्यान् यथायोग्यमपूजयन्॥ २१/२४२॥
अग्र्योपहार उपयापित एव कृष्णे कोपादनिन्ददमुमाशु च चेदिराजः। श्रुत्वैव तत् पवनजोऽभिययौ नृपं तं हन्तुं जगद्गुरुविनिन्दकमृद्धमन्युः॥ २१/२४३॥
दूरेऽपि केशवविनिन्दनकारिजिह्वामुच्छेत्स्य इत्युरुतराऽस्य सदा प्रतिज्ञा। भीमस्य तं तु जगृहे सरिदात्मजोऽथ सम्प्रोच्य केशववचो निजयोर्वधाय॥ २१/२४४॥
मयैव वध्याविति तावाह यत् केशवः पुरा। तच्छ्रुत्वा भीमसेनोऽपि स्थितो भीष्मकरग्रहात्॥ २१/२४५॥
जानन्नपि हरेरिष्टं स्वकर्तव्यतयोत्थितः। भीम एतावदुचितमिति मत्वा स्थितः पुनः॥ २१/२४६॥
देवसङ्घभविनां महानभूद् वीक्ष्य तोष इह केशवेऽधिकाम्। अर्चनां य इह मानुषो जनो मध्य एव स तु संस्थितोऽभवत्॥ २१/२४७॥
आसुरा इह सुयोधनादयस्तत्र ते विमनसो बभूविरे। दुर्वचोभिरधिकं च चेदिपः कृष्णमार्च्छदुरुसद्गुणार्णवम्॥ २१/२४८॥
समाह्वयच्च केशवं युधे तमाशु केशवः। निवार्य तस्य सायकान् जघान चारिणा प्रभुः॥ २१/२४९॥
निकृत्तमानकन्धरः स भक्तिमानभूद्धरौ। तमाश्रितश्‍च योऽसुरो महातमः प्रपेदिवान्॥ २१/२५०॥
जयः प्रविश्य केशवं पुनश्‍च पार्षदोऽभवत्।
असौ च पाण्डवैः क्रतुः प्रवर्तितो यथोदितः॥ २१/२५१॥
सुवर्णरत्नभारकान् बहून् नृपा उपानयन्। उपायने सुयोधनं नृपोऽदिशद् ग्रहेऽस्य च॥ २१/२५२॥
अभोजयंस्तथा द्विजान् यथेष्टभक्ष्यभोज्यकैः। सुवर्णरत्नभारकान् बहूंश्‍च दक्षिणा ददुः॥ २१/२५३॥
यदिष्टमास यस्य च प्रदत्तमेव पाण्डवैः। समस्तमत्र सर्वशोऽथ सस्नुरुद्धता मुदा॥ २१/२५४॥
नदत्सुरोरुदुन्दुभिप्रगीतदेवगायकाः। प्रनृत्तदिव्ययोषितः सुरापगां व्यगाहयन्॥ २१/२५५॥
समस्तराजसंयुता विगाह्य जाह्नवीजले। पुरं ययुः पुनश्‍च ते स्वसद्म चागमन् सुराः॥ २१/२५६॥
गतेषु सर्वराजसु स्वकं पुरं स्वकेषु च। सभीष्मकेषु सर्वशः सहाम्बिकेयकेषु च॥ २१/२५७॥
विचित्ररत्नकारिते रविप्रभे सभातले। सकेशवो वरासने विवेश धर्मनन्दनः॥ २१/२५८॥
तथैव रुक्मिणीमुखाः परिग्रहा रमेशितुः। तथैव भीमफल्गुनावुपाविशन् हरेरुप॥ २१/२५९॥
सहैव वायुसूनुना तथैव पार्षतात्मजा। उपैव रुक्मिणीं शुभां तथैव सत्यभामिनीम्॥ २१/२६०॥
यमौ च पार्षतादयो धनञ्जयान्तिकेऽविशन्। तथैव रामसात्यकी समीप एव भूभृतः॥ २१/२६१॥
समासतां तु सा सभा व्यरोचताधिकं तदा। यथा सभा स्वयम्भुवः समास्थिता च विष्णुना॥ २१/२६२॥
विचित्रहेममालिनः शुभाम्बराश्‍च तेऽधिकम्। स्फुरत्किरीटकुण्डला विरेजुरत्र ते नृपाः॥ २१/२६३॥
विशेषतो जनार्दनः सभार्यको जगत्प्रभुः। यथा दिवौकसां सदस्यनन्तसद्गुणार्णवः॥ २१/२६४॥
उपासिरे च तं नृपाः समस्तशः सुहृद्गणाः। तदाऽऽजगाम खड्गभृत् सहानुजः सुयोधनः॥ २१/२६५॥
द्वारं सभाया हरिनीलरश्मिव्यूढं त्वजानन् स विहाय भित्तिम्। अभ्यन्तराणां दृशिनोऽविघातिनीं संस्फाटिकामाशु दृढं चुचुम्बे॥ २१/२६६॥
प्रवेशयेतां च यमौ तमाशु सभां भुजौ गृह्य नृपोपदिष्टौ। तत्रोपविष्टः क्षणमन्यतोऽगादमृष्यमाणः श्रियमेषु दिव्याम्॥ २१/२६७॥
तत्रेन्द्रनीलभुवि रत्नमयानि दृष्ट्वा पद्मानि नीरमनसा जगृहे स्ववस्त्रम्। रत्नोरुदीधितिनिगूढजलं स्थलं च मत्वा पपात सहितोऽवरजैर्जलौघे॥ २१/२६८॥
तं प्राहसद् भगवता क्षितिभारनाशहेतोः सुसूचित उरुस्वरतोऽत्र भीमः। पाञ्चालराजसुतया च समं तथाऽन्यैः स्वीयैस्तथाऽनु जहसुर्भगवन्महिष्यः॥ २१/२६९॥
मन्दस्मितेन किल सद्वदनेन्दुबिम्बो नारायणस्तु मुखमीक्ष्य मरुत्सुतस्य। नोवाच किञ्चिदथ धर्मसुतो निवार्य प्रास्थापयद् वसनमाल्यविलेपनानि॥ २१/२७०॥
कृष्णावृकोदरगतं बहुलं निधाय क्रोधं ययौ सशकुनिर्धृतराष्ट्रसूनुः। सुव्रीडितो नृपतिदत्तवराम्बरादीन् न्यक्कृत्य मार्गगत आह स मातुलं स्वम्॥ २१/२७१॥
यौ मामहसतां कृष्णाभीमौ कृष्णस्य सन्निधौ। तयोरकृत्वा सन्तापं नाहं जीवितुमुत्सहे॥ २१/२७२॥
यदि मे शक्तिरत्र स्याद् घातयेयं वृकोदरम्। अग्रपूजां च कृष्णस्य विलुम्पेयं न संशयः॥ २१/२७३॥
ईदृशं पाण्डवैश्‍वर्यं दृष्ट्वा को नाम जीवितम्। इच्छेत करदा येषां वैश्यवत् सर्वभूमिपाः॥ २१/२७४॥
इत्युक्तः शकुनिर्वैरं दृढीकर्तुं वचोऽब्रवीत्। किं ते वैरेण राजेन्द्र भ्रातृभिर्बलिभिः पुनः॥ २१/२७५॥
अनुजीवस्व तान् वीरान् गुणज्येष्ठान् बलाधिकान्। इतीरितोऽतिसंवृद्धकोप आह सुयोधनः॥ २१/२७६॥
यदि तेषां तदैश्‍वर्यं न मां गच्छेदशेषतः। सर्वथा नैव जीवेयमिति सत्यं ब्रवीमि ते॥ २१/२७७॥
नतु बाहुबलाच्छक्ष्य आदातुं तां श्रियं क्वचित्। नेन्द्रोऽपि समरे शक्तस्ताञ्जेतुं किमु मानुषाः॥ २१/२७८॥
इतीरितः पापतम आह गान्धारको नृपः। पापिनामखिलानां च प्रधानं चक्रवर्तिनाम्॥ २१/२७९॥
यांयां श्रियं प्रदीप्तां त्वं पाण्डवेषु प्रपश्यसि। तामक्लेशत आदास्ये क्रीडन्नक्षैस्त्वदन्तिके॥ २१/२८०॥
इतीरितः प्रसन्नधीः सुयोधनो बभूव ह। प्रजग्मतुश्‍च तावुभौ विचित्रवीर्यजं नृपम्॥ २१/२८१॥
धृतराष्ट्रमथोवाच द्वापरांशोऽतिपापकृत्। नास्तिक्यरूपः शकुनिर्विवर्णं हरिणं कृशम्॥ २१/२८२॥
दुर्योधनं तु तच्छ्रुत्वा कुत इत्याह दुर्मनाः। अब्रूतां तौ नृपायाशु द्वाभ्यां यन्मन्त्रितं पथि॥ २१/२८३॥
श्रुत्वैव तन्नेत्यवदत् स भूपतिर्विरोधि धर्मस्य विनाशकारणम्। कुमन्त्रितं वो न ममैतदिष्टं स्वबाहुवीर्याप्तमहाश्रियो हि ते॥ २१/२८४॥
त्वयाऽपि निर्जित्य दिशो मखाग्र्याः कार्याः स्पृधो मा गुणवत्तमैस्तैः। विशेषतो भ्रातृभिरग्र्यपौरुषैरित्युक्त आहाशु सुयोधनस्तम्॥ २१/२८५॥
यदि श्रियं पाण्डवानां नाक्षैराच्छेत्तुमिच्छसि। मृतमेवाद्य मां विद्धि पाण्डवैस्त्वं सुखी भव॥ २१/२८६॥
यदि मज्जीवनार्थी त्वमानयाश्‍विह पाण्डवान्। सभायां देवनायैव नचाधर्मोऽत्र कश्‍चन॥ २१/२८७॥
वेदानुजीविनो विप्राः क्षत्रियाः शस्त्रजीविनः। त्रुट्यते येन शत्रुश्‍च तच्छस्त्रं नैव चेतरत्॥ २१/२८८॥
अतः स्वधर्म एवायं तवापि स्यात् फलं महत्। इत्युक्तो मा फलं मेऽस्तु तवैवास्त्विति सोऽब्रवीत्॥ २१/२८९॥
एवं ब्रुवन्नपि नृप आविष्टः कलिना स्वयम्। पुत्रस्नेहाच्च विदुरमादिशत् पाण्डवान् प्रति॥ २१/२९०॥
आविवेश कलिस्तं हि यदा पुत्रत्वसिद्धये। अंशेन तत आरभ्य नैवास्मादपजग्मिवान्॥ २१/२९१॥
यावत् पुरं परित्यज्य वनमेव विवेश ह। तदन्तरा ततस्तस्य पापयुक्तं मनोऽभवत्॥ २१/२९२॥
न्यवारयत् तं विदुरो महामतिः पापं कुलस्यापि विनाशकोऽयम्। समुद्यमो नात्र विचार्यमस्ति कृथा न तस्मादयशश्‍च ते स्यात्॥ २१/२९३॥
इति ब्रुवाणं कलहोऽत्र न स्यान्निवारयामो वयमेव यस्मात्। द्रष्टुं सुतान् क्रीडत एकसंस्थानिच्छामि पार्थांश्‍च सुयोधनादीन्॥ २१/२९४॥
अतः क्षिप्रमुपानेयाः पार्था इति बलोदितः। ययौ स विदुरः पार्थान् द्वारकां केशवे गते॥ २१/२९५॥
गते हि पार्थसन्निधेः सुयोधनेऽथ नारदः। शशंस धर्मसूनुना प्रचोदितोऽरिमागतम्॥ २१/२९६॥
क उद्यमी नृपेष्विति प्रपृष्ट आह नारदः। स सौभराड् वरं शिवादवाप वृष्णिनिर्जयम्॥ २१/२९७॥
पांसुमुष्टिं सकृद्ग्रासी बहूनब्दांस्तपश्‍चरन्। आजगाम हरादाप्य वरं कृष्णजये पुनः॥ २१/२९८॥
स श्रुत्वा मागधवधं दिशां विजयमेव च। राजसूयं क्रतुं चैव शिशुपालवधं तथा॥ २१/२९९॥
यदून् प्रत्युद्यमं तूर्णं करोतीति निशम्य तत्। समैक्षद् धर्मजः कृष्णमुखशीतांशुमण्डलम्॥ २१/३००॥
अस्त्वित्युक्त्वा स गोविन्दः प्रेषयामास यादवान्। प्रद्युम्नादीन् दिनैः कैश्‍चित् स्वयं चागात् सहाग्रजः॥ २१/३०१॥
विदुरस्तु ततो गत्वा धर्मराजमथाह्वयत्। भ्रातृभिर्वार्यमाणोऽपि कृष्णया च स धर्मराट्। सार्द्धं मात्रा भ्रातृभिश्‍च कृष्णया च ययौ द्रुतम्॥ २१/३०२॥
ज्येष्ठाज्ञयैव विदुर आह्वयन्नपि धर्मजम्। नागन्तव्यमिति प्राह दोषानुक्त्वाऽक्षजान् बहून्॥ २१/३०३॥
इतीह दोषसञ्चयस्तथाऽपि ते पितुर्वचः। समीक्ष्य तद् द्वयं स्वयं कुरुष्व कार्यमात्मनः॥ २१/३०४॥
इतीरितोऽपि पाण्डवो ययौ कलिप्रवेशतः। विचित्रवीर्यजं नृपं समासदत् ससैनिकः॥ २१/३०५॥
कल्यावेशान्नृपतिः प्रतिजज्ञे पूर्वमेव धर्मात्मा। आहूतो द्यूतकरणान्निवर्तेयं नैव वारितोऽपीति॥ २१/३०६॥
तेनायात् स्वसुहृद्भिर्निवार्यमाणोऽपि नागपुरमाशु। नहि धर्मो द्यूतकृतो विशेषतः क्षत्रियस्य लोकगुरोः॥ २१/३०७॥
वैचित्रवीर्यतनयेन तु पाण्डुपुत्राः सम्भावितास्तमुप च न्यविशन् निशायाम्। प्रातश्‍च भीष्ममुखराः सकलाश्‍च भूपा आसेदुराशु च सभां सह पाण्डुपुत्रैः॥ २१/३०८॥
वैचित्रवीर्यनृपतिर्विदुरान्वितोऽस्य गान्धारराजसहितास्तनयाः सकर्णाः। प्राप्ताः सभातलमथाह्वयदत्र धर्मराजं सुतः सुबलकस्य स देवनाय॥ २१/३०९॥
सर्वांश्‍च तत्र कलिराविशदेव भीमपूर्वान् विनैव चतुरः सपृथां च कृष्णाम्। क्षत्तारमेव च ततो नहि भीष्ममुख्यैस्ते वारिताः कुलविनाशनकर्मवृत्ताः॥ २१/३१०॥
भीमादिभिः स विदुरेण च वार्यमाणो द्यूते निधाय पणमप्यखिलं स्ववित्तम्। गान्धारकेण विदिताक्षहृदा जितो द्राक् पाण्डोः सुतोऽथ नकुलं न्यदधात् पणाय॥ २१/३११॥
तस्मिन् जितेऽथ सहदेवमथार्जुनं च भीमं च सोमकसुतां स्वमपि क्रमेण। राजा निधाय विजितोऽथ सुयोधनः स्वं सूतं दिदेश पृषतात्मजपुत्रिकायाः॥ २१/३१२॥
सूतो गत्वा तदन्तं समकथयदिमां द्यूतमध्ये जिताऽसि क्षिप्रं चायाहि राज्ञां समितिमुरुतरामित्यथो साऽप्यवादीत्। नाहं यास्ये गुरूणां समितिमिति ययौ सोऽप्यमुं भीमभीतं ज्ञात्वा दुःशासनं सोऽप्यदिशदथ नृपो धार्तराष्ट्रोऽनुजं स्वम्॥ २१/३१३॥
स पापपूरुषोत्तमः प्रगृह्य केशपक्षके। पुरः स्वमातुरानयत् सभामयुग्मवाससीम्॥ २१/३१४॥
समाहृता रजस्वला जगाद भीष्मपूर्वकान्। अधर्म एष वार्यते न धर्मिभिर्भवद्विधैः॥ २१/३१५॥
कथं छलात्मके द्यूते जिते धर्मजयो भवेत्। नहि द्यूतं धर्म्यमाहुर्विशेषेण तु भूभुजाम्॥ २१/३१६॥
येऽधर्मं न वदन्तीह न ते वृद्धा इतीरिताः। अवृद्धमण्डितां नैव सभेत्याहुर्मनीषिणः॥ २१/३१७॥
कथं द्यूते जिता चाहमजिते स्वपतौ स्थिते। समानधर्मिणीमाहुर्भार्यां यस्माद् विपश्‍चितः॥ २१/३१८॥
सहैव कर्म कर्तव्यं पतौ दासे हि भार्यया। दासीत्वं न पृथङ् मे स्याज्जितेऽपि हि पतौ ततः॥ २१/३१९॥
इत्युक्ता अपि भीष्माद्याः कल्यावेशेन मोहिताः। पृच्छ धर्मजमित्युक्त्वा तूष्णीमेव बभूविरे॥ २१/३२०॥
दुर्योधनप्रतीपं हि न कश्‍चिदशकत् तदा। उवाच विदुरस्तत्र न धर्मोऽयमिति स्फुटम्॥ २१/३२१॥
न तस्य वाक्यं जग्राह धृतराष्ट्रः सहात्मजः। ऊर्ध्वबाहुः स चुक्रोश देवानां ख्यापयंस्तदा॥ २१/३२२॥
स्वाशक्तिं द्रौपदीं चाह जिता नैवासि धर्मतः। अधर्मो हि महानेतां सभामाक्रम्य तिष्ठति॥ २१/३२३॥
एवं तु विदुरेणोक्ते विकर्णः पापकोऽपि सन्। आह डम्भार्थमेवात्र धर्मवित्त्वं प्रकाशयन्। अधर्म एवायमिति कर्णोऽथैनमभर्त्सयत्॥ २१/३२४॥
दृष्ट्वा भीमः क्लिश्यमानां तु कृष्णां धर्मात्ययं धर्मराजे च दृष्ट्वा। राजा शास्य युवराजेन धर्माच्चलन् यस्माद् वाक्यमिदं बभाषे॥ २१/३२५॥
इमां न्यस्तवतो द्यूते धक्षणीयौ हि ते भुजौ। नैवमित्यर्जुनोऽवादीत् तमाहाथ वृकोदरः। वक्तव्यं नतु कर्तव्यं तस्मान्नहि मया कृतम्॥ २१/३२६॥
उत्तमे वचसा शिक्षा मध्यमेऽर्थापहारणम्। अधमे देहदण्डश्‍च तस्माद् वाच्यो युधिष्ठिरः॥ २१/३२७॥
अथ कर्णोऽब्रवीत् कृष्णामपतिर्ह्यसि शोभने। धार्तराष्ट्रगृहं याहीत्यथ दुर्योधनोऽवदत्। परस्परविरोधार्थं पाण्डवानामिदं वचः॥ २१/३२८॥
युधिष्ठिरो दुःखहेतुस्तवैको यद्येनमन्ये न गुरुर्न एषः। इति ब्रूयुरथवा भीमपार्थावेकोऽपि वा भीम इहोत्सृजे त्वाम्॥ २१/३२९॥
इत्युक्त ऊचे पवमानसूनुः पूज्योऽस्माकं धर्मजोऽसंशयेन। गुरुश्‍चाहं वोऽखिलानां यतो हि बलज्येष्ठं क्षत्रमाहुर्महान्तः॥ २१/३३०॥
बलज्यैष्ठ्ये यदि वः संशयः स्यादुत्तिष्ठध्वं सर्व एवाद्य वीराः। मृत्नामि वः पादतलेन सर्वान् सहानुबन्धान् यश्‍च मां योद्धुकामः॥ २१/३३१॥
इति ब्रुवन् समुत्थितो नदन् वृकोदरो यदा। विघूर्णिता सभाऽखिला भयान्नचाह किञ्चन॥ २१/३३२॥
भीष्मो द्रोणो विदुराद्याः क्षमस्व सर्वं त्वयोक्तं सत्यमित्येव हस्तौ। गृहीत्वैनं स्थापयामासुरस्मिन् स्थिते शान्तिं चापिरे धार्तराष्ट्राः॥ २१/३३३॥
निवारितो धर्मजेन गुरुभिश्‍चापरैस्तदा। माननार्थं गुरूणां तु भीमस्तान् न जघान ह॥ २१/३३४॥
नैवातिवर्तते ज्येष्ठं धर्मात्मानं युधिष्ठिरम्। तेषां पापाभिवृद्ध्यर्थं ज्येष्ठवृत्तिं च दर्शयन्॥ २१/३३५॥
अथ दुर्योधनः पापो भीमसेनस्य पश्यतः। ऊरुं सन्दर्शयामास कृष्णायै भीम आह तम्॥ २१/३३६॥
तवोरुमेनं गदयोरुवेगया बिभेत्स्य इत्येव पुनः सुयोधनः। ऊचे नान्यद् भवतामस्ति वित्तं द्यूते कृष्णं स्थापयध्वं पणाय॥ २१/३३७॥
अथाब्रवीद् वृकोदरः कृतेऽवमानने हरेः। निपात्य भूतले हि ते शिरो मृदिष्य इत्यलम्॥ २१/३३८॥
स वध्य एव मे सदा परोक्षतोऽपि यो हरिम्। विनिन्दयेदिति ध्रुवं प्रतिश्रुतं हि मारुतेः॥ २१/३३९॥
पुनश्‍च पापवृद्धये तदैव नो जघान तम्। विकर्तनात्मजः पुनर्जगाद सोमकात्मजाम्॥ २१/३४०॥
प्रयाहि भूभृतो हि नो गृहं न सन्ति पाण्डवाः। इतीरिते समुत्थितौ वृकोदरोऽनु चार्जुनः॥ २१/३४१॥
उभौ च तौ युधिष्ठिरो न्यवारयत् तथाऽपरे। ततो निषण्णयोस्तयोः सुयोधनो वचोऽब्रवीत्॥ २१/३४२॥
दुःशासनैषां वासांसि दासानां नो व्यपाकुरु। इत्युक्तोऽभ्यगमत् पार्थान् स्ववासांस्यथ ते ददुः॥ २१/३४३॥
ते चर्मवसना भूत्वा तानशिष्टान् प्रकाश्य च। निषेदुश्‍च क्षमायान्ते क्षमामालम्ब्य विस्तृताम्॥ २१/३४४॥
पुनर्दुर्योधनेनोक्तः पार्थानामथ पश्यताम्। चकर्ष वासो द्रौपद्यास्तदाऽवादीद् वृकोदरः॥ २१/३४५॥
पापेषु पूर्वस्य तथाऽधमस्य वंशे कुरूणामुरुधर्मशीलिनाम्। दुःशासनस्यास्य विदार्य वक्षः पिबामि रक्तं जगतः समक्षम्॥ २१/३४६॥
विकृष्यमाणे वसने तु कृष्णा सस्मार कृष्णं सुविशेषतोऽपि। तदाऽन्यदासीद् वसनं च तस्या दिव्यं सुसूक्ष्मं कनकावदातम्॥ २१/३४७॥
पुनःपुनश्‍चैव विकर्षमाणे दुःशासनेऽन्यानि च तादृशानि। बभूवुरन्तं न जगाम पापः श्रान्तो न्यषीदत् स्विन्नगात्रः सभायाम्॥ २१/३४८॥
वस्त्रोच्चये शैलनिभे प्रजाते दुर्योधनः प्राह सञ्जातकोपः। प्रवेशयेमां गृहमेव शीघ्रं किं नश्‍चिरेणेति सुमन्दबुद्धिः॥ २१/३४९॥
तच्छ्रुत्वा वचनं कृष्णा प्रतिज्ञामकरोत् तदा। भीमो दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः। शकुनिं त्वक्षकितवं सहदेवो वधिष्यति॥ २१/३५०॥
इत्युक्ते तत् तथेत्याह भीमसेनः सभातले। प्रतिज्ञामाददे पार्थस्तां माद्रीनन्दनस्तथा। नकुलः प्रतिजज्ञेऽथ शाकुनेयवधं प्रति॥ २१/३५१॥
ततः सुयोधनानुजश्‍चकर्ष पार्षतात्मजाम्। गृहाय तन्निशाम्य तु क्रुधाऽऽह मारुतात्मजः॥ २१/३५२॥
अर्जुनार्जुन नैवात्र क्षमा मे तात रोचते। पतितस्यास्य देहस्य काष्ठविष्ठासमस्य च। फलानि त्रीणि शिष्यन्ते विद्या कर्म सुता इति॥ २१/३५३॥
इति वेदोदितं वाक्यं न सुतो दारधर्षणे। दुष्टदारो नचाप्नोति लोकानर्धो हि दूषितः। अरक्षणाद् दूषिताया न त्यागाच्च शुभं भवेत्॥ २१/३५४॥
अतोऽद्य सानुबन्धकान् निहन्मि धार्तराष्ट्रकान्। इति ब्रुवन् व्यलोकयद् रिपून् दहन्निवौजसा॥ २१/३५५॥
ददर्श च महाघोरमादातुं परिघं रुषा। कर्तुं व्यवसितो बुद्ध्या निःशेषान् धृतराष्ट्रजान्॥ २१/३५६॥
तदा शिवा ववाशिरे सुयोधनाग्निगेहतः। तथैव तत्पितुर्गृहेऽप्यभूद् भयानकं बहु॥ २१/३५७॥
निमित्तान्यतिघोराणि कुपिते मारुतात्मजे। दृष्ट्वाऽऽम्बिकेयो विदुरं पप्रच्छैषां फलं द्रुतम्॥ २१/३५८॥
आह तं विदुरो ज्येष्ठं क्षणेऽस्मिंस्तव पुत्रकाः। सानुबन्धा न शिष्यन्ति वृकोदरबलाहताः॥ २१/३५९॥
क्रीडसेऽर्भकवत् त्वं हि किं जितं किं जितं त्विति। अधर्मेण जितानत्र जितान् पश्यसि पाण्डवान्॥ २१/३६०॥
स्त्रीषु द्यूतेषु वा दत्तं मदान्धेन नरेण वा। न दत्तमाहुर्विद्वांसस्तस्य बन्धुभिरेव च॥ २१/३६१॥
आहार्यं पुनराहुश्‍च तथाऽपि नतु पाण्डवैः। तत् कृतं तव पुत्राणां ख्यापयद्भिरशिष्टताम्॥ २१/३६२॥
इत्युक्त आहाम्बिकेयो निमित्तानां फलं कथम्। न भवेदिति स प्राह द्रुतं कृष्णा विमुच्यताम्॥ २१/३६३॥
तोषयस्व वरैश्‍चैनामन्यथा ते सुतान् मृतान्। विद्धि भीमेन निष्पिष्टान् माऽत्र ते संशयो भवेत्॥ २१/३६४॥
कृष्णा च पाण्डवाश्‍चैव तपोवृद्धिमभीप्सवः। तपसा नैव धक्ष्यन्ति तेन जीवन्ति ते सुताः॥ २१/३६५॥
तथाऽपि यदि कृष्णां त्वं न मोचयसि ते सुतान्। हनिष्यति न सन्देहो बलेनैव वृकोदरः॥ २१/३६६॥
इतीरितो विनिर्भर्त्स्य पुत्रं दुःशासनं नृपः। अमोचयद् वरैश्‍चैनां छन्दयामास पार्षतीम्॥ २१/३६७॥
छन्दिता सा वरैस्तेन धर्मे भागवते स्थिता। नैवात्मनो वरान् वव्रे वव्रे तेषां विमोक्षणम्॥ २१/३६८॥
युधिष्ठिरस्य सभ्रातुः सराष्ट्रस्य विमोक्षणम्। ददौ नृपोऽस्या न पुनश्छन्द्यमानाऽपि साऽवृणोत्॥ २१/३६९॥
भर्तुर्विष्णोश्‍च नान्यस्माद् वरस्वीकार इष्यते। एवं हि भगवद्धर्मस्तस्मात् सा नावृणोत् परम्॥ २१/३७०॥
अधर्मतो हृतत्वात् तु तद् दानं न वरो भवेत्। इति मत्वा पाण्डवानां वव्रे कृष्णा विमोक्षणम्॥ २१/३७१॥
श्‍वशुरादैहिकवराः क्षत्रियायास्त्रयो यतः। उक्ताः शतं च विप्राया धर्मे भागवते ततः। हेतुना तेन वव्रे सा नान्यत् किञ्चिदतः परम्॥ २१/३७२॥
ततो विमुक्ताः प्रययुश्‍च पार्था गुरून् प्रणम्य स्वपुरं सकृष्णाः। दुर्योधनानन्तरजो जगाद तातं निजं पापकृतां प्रधानः॥ २१/३७३॥
समस्तपाण्डवश्रियं समागतामहो पुनः। व्यमोचयो वृकोदराद् वधश्‍च नो ध्रुवं भवेत्॥ २१/३७४॥
अतः पुनश्‍च पाण्डवान् समाह्वयस्व नः कृते। पुनश्‍च देवनं भवेज्जिता वनं प्रयान्तु च॥ २१/३७५॥
तेनोक्तः स तथा राजा पाण्डवान् पुनराह्वयत्। पुनः पित्रा समाहूतो देवनाय युधिष्ठिरः। भ्रातृभिर्वार्यमाणोऽपि कृष्णया चागमत् सभाम्॥ २१/३७६॥
द्वादशाब्दं वने वासमज्ञातं त्वेकवत्सरम्। वासं प्रसिद्धनृपतेः पुरे नैवातिदूरतः॥ २१/३७७॥
कृष्णायाः पाण्डवानां वा दर्शनेऽज्ञातवासिनाम्। एकस्यापि समस्तानां द्वादशाब्दं पुनर्वनम्॥ २१/३७८॥
वत्सराज्ञातवासं च त्यागेऽप्युक्तविधेस्तथा। दुर्योधनः पणं चक्रे बुद्ध्या दुःशासनोक्तया॥ २१/३७९॥
गान्धारेण पुनश्‍चाक्षहृदयज्ञेन धर्मजः। पराजितो वनं यातुमैच्छत् सभ्रातृको यदा॥ २१/३८०॥
तदा ननर्त पापकृत् सुयोधनानुजो हसन्। वदंश्‍च मारुतात्मजं पुनःपुनश्‍च गौरिति॥ २१/३८१॥
उवाच च पुनः कृष्णां नृत्यन्नेव सभातले। अपतिर्ह्यसि कल्याणि गच्छ दुर्योधनालयम्॥ २१/३८२॥
एतेऽखिलाः षण्ढतिलास्तमोऽन्धं प्राप्ता नचैषां पुनरुत्थितिः स्यात्। इति ब्रुवणोऽनुचकार भीमं तदाऽहसन् धार्तराष्ट्राश्‍च सर्वे॥ २१/३८३॥
तदाऽकरोद् भीमसेनः प्रतिज्ञां हन्ताऽस्मि वो निखिलान् सङ्गरेऽहम्।
इतीरिते शरणं द्रोणमेव जग्मुः समस्ता धृतराष्ट्रपुत्राः॥ २१/३८४॥
यत्र द्रोणस्तत्र पुत्रस्तत्र भीष्मः कृपस्तथा। नचात्येति गुरून् भीम इति तं शरणं ययुः॥ २१/३८५॥
अब्रवीद् धार्तराष्ट्रांश्‍च द्रोणो विप्रोऽपि सन्नहम्। सपुत्रः सकृपः शस्त्रं ग्रहीष्ये भवतां कृते॥ २१/३८६॥
रक्षणे भवतां चैव कुर्यां यत्नं स्वशक्तितः। नतु भीमाद् रक्षितुं वः शक्तः सत्यं ब्रवीम्यहम्॥ २१/३८७॥
ततो ययुः पाण्डवास्ते सभाया वनाय कृष्णासहिताः सुशूराः। गत्याऽनुचक्रे युवसिंहखेलगतिं भीमं धार्तराष्ट्रोऽपहस्य॥ २१/३८८॥
दृष्ट्वा सभाया अर्धनिष्क्रान्तदेहो व्यावृत्य भीमः प्राह संरक्तनेत्रः। ऊरुं तवान्यं च रणे विभेत्स्ये इत्युक्त्वाऽसौ निर्गतोऽसत्सभायाः॥ २१/३८९॥
प्रयाताननु तान् कुन्ती प्रययौ पुत्रगर्द्धिनी। रोरुद्यमानां विदुरः स्थापयामास तां गृहे। प्रणम्य तां ययुः पार्थाः सकृष्णाः शीघ्रगामिनः॥ २१/३९०॥
युधिष्ठिरोऽवाग्वदनो ययौ न क्रोधचक्षुषा। दहेयं कौरवान् सर्वानिति कारुणिको नृपः॥ २१/३९१॥
उद्धृत्य बाहू प्रययौ बाहुशाली वृकोदरः। आभ्यामेवाखिलाञ्छत्रूञ्छक्तो हन्तुमहं त्विति॥ २१/३९२॥
अबद्धकेशा प्रययौ द्रौपदी सा सभातलात्। मुक्तकेशा भविष्यन्ति धार्तराष्ट्रस्त्रियस्त्विति॥ २१/३९३॥
वर्षन् पांसून् ययौ पार्थ इत्थं शत्रुषु सायकान्। वर्षयामीत्यभिप्रायः परमास्त्रविदां वरः॥ २१/३९४॥
यमाववाङ्मुखौ यातौ नावयोः शत्रवो मुखम्। पश्यन्त्वस्यामवस्थायामित्येव धृतचेतसौ॥ २१/३९५॥
प्रेतसंस्कारसूक्तानि पठन् धौम्योऽग्रतो ययौ। हतेषु धार्तराष्ट्रेषु मया कार्याः क्रिया इति॥ २१/३९६॥
तानथानुययुः सूता रथैः परिचतुर्दशैः। सूदाः पौरोगवाश्‍चैव भृत्या ये त्वाप्तकारिणः॥ २१/३९७॥
ततस्ते जाह्नवीतीरे वने वटमुपाश्रिताः। न्यषीदन्नागतान् दृष्ट्वा समस्तान् पुरवासिनः॥ २१/३९८॥
ततस्तु ते सर्वजगन्निवासं नारायणं नित्यसमस्तसद्गुणम्। स्वयम्भुशर्वादिभिरर्चितं सदा भक्त्याऽस्मरन् भक्तभवापहं प्रभुम्॥ २१/३९९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये पाण्डववनप्रवेशो नाम एकविंशोऽध्यायः समाप्तः॥
द्वाविंशोऽध्यायः
आगन्तुकामान् पुरवासिनस्ते संस्थाप्य कृच्छ्रेण कुरुप्रवीराः। रात्रौ प्रविष्टा गहनं वनञ्च किर्मीरमासेदुरथो नराशम्॥ २२/१॥
बकानुजोऽसौ निखिलैरजेयो वराद् गिरीशस्य निहन्तुकामः। सदारसोदर्यमभिप्रसस्रे भीमं महावृक्षगिरीन् प्रमुञ्चन्॥ २२/२॥
स सम्प्रहारं सह तेन कृत्वा भीमो निपात्याशु धरातले तम्। चक्रे मखे सङ्गरनामधेये प्रसह्य नारायणदैवते पशुम्॥ २२/३॥
निहत्य रक्षो वनमध्यसंस्थास्तदा यतीनामयुतैः समेताः। अशीतिसाहस्रमुनिप्रवीरैर्दशांशयुक्तैः सहिता व्यचिन्तयन्॥ २२/४॥
विचिन्त्य तेषां भरणाय धर्मजः सम्पूज्य सूर्यस्थितमच्युतं प्रभुम्। दिनेऽक्षयान्नं पिठरं तदाप रत्नादिदं कामवरान्नदं च॥ २२/५॥
बभार तेनैव युधिष्ठिरस्तान् प्रत्येकशस्त्रिंशतदासदासिकान्। सुवर्णपात्रेषु हि भुञ्जते ये गृहे तदीये बहुकोटिदासिके॥ २२/६॥
सत्सङ्गमाकाङ्क्षिण एव तेऽवसन् पार्थैः सहान्ये च मुनीन्द्रवृन्दाः। शृण्वन्त एभ्यः परमार्थसाराः कथा वदन्तश्‍च पुरातनास्तथा॥ २२/७॥
एवं गजानां बहुकोटिवृन्दांस्तथा रथानां च हयांश्‍च वृन्दशः। विसृज्य रत्नानि नरांश्‍च वृन्दशो वने विजह्रुर्दिवि देववत् सुखम्॥ २२/८॥
गवां च लक्षं प्रददाति नित्यशः सुर्वणभारांश्‍च शतं युधिष्ठिरः। सभ्रातृकोऽसौ वनमाप्य शक्रवन्मुमोद विप्रैः सहितो यथासुखम्॥ २२/९॥
पार्थेषु यातेषु किमत्र कार्यमिति स्म पृष्टो विदुरोऽग्रजेन। आहूय राज्यं प्रतिपादयेति प्राहैनमाहाथ रुषाऽऽम्बिकेयः॥ २२/१०॥
ज्ञातं प्रतीपोऽसि ममात्मजानां न मे त्वया कार्यमिहास्ति किञ्चित्। यथेष्टतस्तिष्ठ वा गच्छ वेति प्रोक्तो ययौ विदुरः पाण्डुपुत्रान्॥ २२/११॥
तस्मिन् गते भ्रातृवियोगकर्शितः पपात भूमौ सहसैव राजा। सञ्ज्ञामवाप्यादिशदाशु सञ्जयं जीवामि चेदाशु ममानयानुजम्॥ २२/१२॥
इतीरितः सञ्जयः पाण्डवेयान् प्राप्यानयद् विदुरं शीघ्रमेव। सोऽप्यागतः क्षिप्रमपास्तदोषो ज्येष्ठं ववन्देऽथ स चैनमाश्लिषत्॥ २२/१३॥
अङ्कं समारोप्य स मूर्ध्नि चैनमाघ्राय लेभे परमां मुदं तदा।
क्षत्तारमायान्तमुदीक्ष्य सर्वे ससौबला धार्तराष्ट्रा अमर्षात्। सम्मन्त्र्य हन्तुं पाण्डवानामुतैकं छन्नोपधेनैव ससूतजा ययुः॥ २२/१४॥
विज्ञाय तेषां गमनं समस्तलोकान्तरात्मा परमेश्‍वरेश्‍वरः। व्यासोऽभिगम्यावददाम्बिकेयं निवारयाश्‍वेव सुतं तवेति॥ २२/१५॥
अवाप्य पार्थानयमद्य मृत्युं सहानुबन्धो गमिता ह्यसंशयम्। इतीरिते तेन निवारयेति प्रोक्तो हरिः प्राह न संवदे तैः॥ २२/१६॥
मैत्रेय आयास्यति सोऽपि वाचं शिक्षार्थमेतेष्वभिधास्यतीह। तां चेत् करोत्येष सुतस्तवास्य भद्रं तदा शप्स्यति त्वन्यथा सः॥ २२/१७॥
उक्त्वेति राजानमनन्तशक्तिर्व्यासो ययौ तत्र गतेषु तेषु। सुयोधनाद्येषु हतेषु पार्थैर्भूभारहानिर्न भवेदिति प्रभुः॥ २२/१८॥
सर्वाश्‍च चेष्टा भगवन्नियुक्ताः सदा समस्तस्य चितोऽचितश्‍च। तथाऽपि विष्णुर्विनिवारयेत् क्वचिद् वाचा विधत्ते च जनान् विडम्बयन्॥ २२/१९॥
मैत्रेय आगादथ भूपतिश्‍च पुत्रान् समाहूय सकर्णसौबलान्। सम्पूजयामास मुनिं स चाह दातुं राज्यं पाण्डवान् सम्प्रशंसन्॥ २२/२०॥
विशेषतो भीमबलं शशंस किर्मीरनाशादि वदन् मुनीन्द्रः। श्रुत्वाऽसहंस्तद् धृतराष्ट्रपुत्र आस्फालयामास निजोरुमुग्रः॥ २२/२१॥
शशाप चैनं मुनिरुग्रतेजास्तवोरुभेदाय भवेत् सुयुद्धम्।
इत्यूचिवान् धृतराष्ट्रानतोऽपि ययौ न चेद् राज्यदस्त्वं तथेति। श्रुत्वा तु किर्मीरवधं स्वपित्रा पृष्टं क्षत्त्रोक्तं सोऽत्रसद् धार्तराष्ट्रः॥ २२/२२॥
वने वसन्तोऽथ पृथासुतास्ते वार्तां स्वकीयां प्रापयामासुराशु। कृष्णे सोऽपि द्रुतमायात् ससत्यः सम्बन्धिनो ये च पाञ्चालमुख्याः॥ २२/२३॥
क्रुद्धं कृष्णं धार्तराष्ट्राय पार्थाः क्षमापयामासुरुच्चैर्गृणन्तः।
गुणांस्तदीयानमितान् प्रणम्य तदा रुदन्ती द्रौपदी चाप पादौ। सा पादयोः पतिता वासुदेवमस्तौत् समस्तप्रभुमात्मतन्त्रम्॥ २२/२४॥
अचिन्त्यनित्याव्ययपूर्णसद्गुणार्णवैकदेहाखिलदोषदूर।
रमाब्जजेरेशसुरेन्द्रपूर्ववृन्दारकाणां सतताभिवन्द्य। समस्तचेष्टाप्रद सर्वजीवप्रभो विमुक्ताश्रय सर्वसार॥ २२/२५॥
इति ब्रुवन्ती सकलानुभूतं जगाद सर्वेशितुरच्युतस्य। यस्याधिकानुग्रहपात्रभूता स्वयं हि शेषेशविपादिकेभ्यः॥ २२/२६॥
श्रुत्वा समस्तं भगवान् प्रतिज्ञां चकार तेषामखिलाश्‍च योषाः।
पतीन् समालिङ्घ्य विमुक्तकेशा भीमाहतान् दर्शये नान्यथेति। तां सान्त्वयित्वा मधुरैः सुवाक्यैर्नारायणो वाचमिमां जगाद॥ २२/२७॥
यदीहाहं स्थितो नैवं भविताऽहं त्वयोधयम्। साल्वराजं दुरात्मानं हतश्‍चासौ सुपापकृत्॥ २२/२८॥
सन्निधानेऽथवा दूरे कालव्यवहितेऽपि वा। स्वभावाद् वा व्यवहिते वस्तुव्यवहितेऽपि वा। नाशक्तिर्विद्यते विष्णोर्नित्याव्यवहितत्वतः॥ २२/२९॥
तथाऽपि नरलोकस्य करोत्यनुकृतिं प्रभुः। दुष्टानां दोषवृद्ध्यर्थं भीमादीनां गुणोन्नतेः॥ २२/३०॥
युधिष्ठिरेऽतिवृद्धं तु राजसूयादिसम्भवम्। धर्मं च सङ्क्रामयितुं कृष्णायामनुजेषु च॥ २२/३१॥
योग्यताक्रमतो विष्णुरिच्छयेत्थमचीकपत्। एधमानद्विडित्येव विष्णोर्नाम हि वैदिकम्॥ २२/३२॥
स्वयोग्यताया अधिकं धर्मज्ञानादिजं फलम्। भीष्मद्रोणाम्बिकेयादेः पार्थेष्वेव निधापितुम्॥ २२/३३॥
पुनश्‍च पापवृद्ध्यर्थमजो दुर्योधनादिषु। व्यासोऽम्बिकासुतं प्राह पार्था मेऽभ्यधिकं प्रियाः। तेषां प्रवासनं चैव प्रियं न मम सर्वथा॥ २२/३४॥
इति दुर्योधनादीनां पापवृद्ध्यर्थमेव सः। प्रिया इत्येव कथनात् पाण्डवानां शुभोन्नतेः॥ २२/३५॥
गुरुत्वाद् भीमसेनस्य क्षमा द्यूतेऽर्जुनादिनाम्। नातिधर्मस्वरूपोऽत्र धर्मो भीमे निरौपधः॥ २२/३६॥
द्रौपद्या अप्यतिक्लेशात् क्षमा धर्मो महानभूत्। सा हि भीममनो वेद न कार्यः शाप इत्यलम्॥ २२/३७॥
तस्माद् यथायोग्यतया हरिणा धर्मवर्धनम्। कृतं तत्रासन्निधानकारणं केशवोऽब्रवीत्॥ २२/३८॥
साल्वं श्रुत्वा समायान्तं रौक्मिणेयादयो मया। प्रस्थापिता हि भवतां सकाशे ते ययुः पुरीम्। तदा साल्वोऽपि सौभेन द्वारकामर्दयद् भृशम्॥ २२/३९॥
प्रद्युम्न आशु निरगादथ सर्वसैन्यैरन्यैश्‍च यादवगणैः सहितोऽनुजैश्‍च। साल्वोऽवगम्य तनयं मम तद्विमानात् पापोऽवरुह्य रथमारुहदत्र योद्धुम्॥ २२/४०॥
कृत्वा सुयुद्धममुना मम पुत्रकोऽसावस्त्राणि तस्य विनिवार्य महास्त्रजालैः। दत्तं मया शरममोघमथाददे तं हन्तुं नृपं कृतमतिस्त्वशृणोद् वचः खे॥ २२/४१॥
नारायणेन हि पुरा मनसाऽभिकॢप्तं कृष्णावतारमुपगम्य निहन्मि साल्वम्। इत्येव तेन हरिणाऽपि स भार्गवेण विद्रावितो न निहतः स्वमनोनुसारात्॥ २२/४२॥
वध्यस्त्वया नहि ततोऽयमयं च बाणश्‍चक्रायुधस्य दयितो नितराममोघः। मा मुञ्च तेन तमिमं विनिवर्तयेऽहं साल्वं हृदि स्थित इतीरितमीरणेन॥ २२/४३॥
श्रुत्वा वचः स पवनस्य शरं त्वमोघं सञ्जह्र आशु स च साल्वपतिः स्वसौभम्। आरुह्य बालकलहेन किमत्र कार्यं कृष्णेन सङ्गर इति प्रययौ स्वदेशम्॥ २२/४४॥
प्रद्युम्नसाम्बगदसारणचारुदेष्णाः सेनां निहत्य सह मन्त्रिगणैस्तदीयाम्। आह्लादिनः स्वपुरमाययुरप्यहं च तत्रागमं सपदि तैः श्रुतवानशेषम्॥ २२/४५॥
यस्मिञ्छरे करगते विजयो ध्रुवः स्यात् मत्तेजसा तदनुसङ्ग्रहणात् सुतान्मे। यातं निशम्य रिपुमात्मपुरीं च भग्नां दृष्ट्वैैव तेन तदनुव्रजनं कृतं मे॥ २२/४६॥
तं सागरोपरिगसौभगतं निशाम्य मुक्ते च तेन मयि शस्त्रमहास्त्रवर्षे। तं सन्निवार्य तु मया शरपूगविद्धो माया युयोज मयि पापतमः स साल्वः॥ २२/४७॥
ताः क्रीडया क्षणमहं समरे निशाम्य ज्ञानास्त्रतः प्रतिविधूय बहूंश्‍च दैत्यान्। हत्वाऽऽशु तं च गिरिवर्षिणमाशु सौभं वार्धौ न्यपातयमरीन्द्रविभिन्नबन्धम्॥ २२/४८॥
तं स्यन्दनस्थितमथो विभुजं विधाय बाणेन तद्रथवरं गदया विभिद्य। चक्रेण तस्य च शिरो विनिकृत्य धातृशर्वादिभिः प्रतिनुतः स्वपुरीमगां च॥ २२/४९॥
तस्मादिदं व्यसनमास हि विप्रकर्षात् मे कार्यतस्त्विति निगद्य पुनश्‍च पार्थान्। कृष्णां च सान्त्वयितुमत्र दिनान्युवास सत्या च सोमकसुतामनुसान्त्वयन्ती॥ २२/५०॥
पाण्डवानां च या भार्याः पुत्रा अपि हि सर्वशः। अन्वेव पाण्डवान् याता वनमत्रैव संस्थिताः॥ २२/५१॥
धृष्टद्युम्नस्ततः कृष्णां सान्त्वयित्वैव केशवम्। प्रणम्य समनुज्ञातो भागिनेयैः पुरं ययौ॥ २२/५२॥
धृष्टकेतुश्‍च भगिनीं काशिराजः सुतामपि। पुरं ययतुरादाय कुन्त्यैवान्याः सह स्थिताः॥ २२/५३॥
पार्वती नकुलस्यासीद् भार्या पूर्वं तिलोत्तमा। पूर्वोक्ते चैव यमयोर्भार्ये कुन्त्या हि वारिताः॥ २२/५४॥
सुभद्रामभिमन्युं च रथमारोप्य केशवः। पाण्डवानभ्यनुज्ञाय सभार्यः स्वपुरीं ययौ॥ २२/५५॥
कञ्चित् कालं द्रौपदेया उष्य पाञ्चालके पुरे। ययुर्द्वारवतीमेव तत्रोषुः कृष्णपालिताः॥ २२/५६॥
ततः परं धर्मराजो निर्विण्णः स्वकृतेन ह। भ्रातृभार्यापदे कृष्णां स्थापयामास सर्वदा॥ २२/५७॥
ऊषुर्वने च ते पार्था मुनिशेषान्नभोजिनः। भुक्तवत्स्वेवानुजेषु भुङ्क्ते राजा युधिष्ठिरः॥ २२/५८॥
अलङ्घ्यत्वात् तदाज्ञाया अनुजाः पूर्वभोजिनः। तस्यानन्तरमेवैका भुङ्क्ते सा पार्षतात्मजा॥ २२/५९॥
एवं सदा विष्णुपरायणानां तत्प्रार्पणान्नैकभुजां प्रयातः। संवत्सरस्तत्र जगाद कृष्णा भीमाज्ञया धर्मराजं सुवेत्त्री॥ २२/६०॥
अतिमार्दवयुक्तत्वाद् धर्मराजश्‍चतुर्दशे। अपि वर्षे गुरुभयाद् राज्यं नेच्छेदिति प्रभुः। मारुतिः प्रेषयामास कृष्णां प्रस्तावहेतवे॥ २२/६१॥
क्षमा सर्वत्र धर्मो न पापहेतुश्‍च दुर्जने। राज्ञां सामर्थ्ययुक्तानामिति संस्थाप्य शास्त्रतः॥ २२/६२॥
हत्वा चतुर्दशे वर्षे धार्तराष्ट्रानराज्यदान्। कर्तुं राज्यं पुरो गन्ता भवानीत्यग्रजेन ह॥ २२/६३॥
कारयन् सत्यशपथं विवादस्य क्रमेच्छया। आदिशत् प्रथमं कृष्णां भीमः सा नृपमब्रवीत्॥ २२/६४॥
नैव क्षमा कुजनतासु नृपस्य धर्मस्तां त्वं वृथैव धृतवानसि सर्वकालम्। इत्युक्त आह नृपतिः परमा क्षमैव सर्वत्र तद्विधृतमेव जगत् समस्तम्॥ २२/६५॥
कर्ता च सर्वजगतः सुखदुःखयोर्हि नारायणस्तदनुदत्तमिहास्य सर्वम्। तस्मान्न कोपविषयोऽस्ति कुतश्‍च कश्‍चित् तस्मात् क्षमैव सकलेषु परोऽस्य धर्मः॥ २२/६६॥
इत्युक्तवन्तं नृपमाह पार्षती यदि क्षमा सर्वनरेषु धर्मः। राज्ञा न कृत्यं नच लोकयात्रा भवेज्जगत् कापुरुषैर्विनश्येत्॥ २२/६७॥
सत्यं च विष्णुः सकलप्रवर्तको रमाविरिञ्चेशपुरःसराश्‍च। काष्ठादिवत् तद्वशगाः समस्तास्तथाऽपि न व्यर्थता पौरुषस्य॥ २२/६८॥
तदाज्ञया पुरुषश्‍चेष्टमानश्चेष्टानुसारेण शुभाशुभस्य। भोक्ता न तच्चेष्टितमन्यथा भवेत् कर्ता तस्मात् पुरुषोऽप्यस्य वश्यः॥ २२/६९॥
वृथा यदि स्यात् पौरुषं कस्य हेतोर्विधिर्निषेधश्‍च समस्तवेदगः। विधेर्निषेधस्य च नैव गोचरः पुमान् यदि स्याद् भवतो हि तौ हरेः॥ २२/७०॥
तेनैव लेपश्‍च भवेदमुष्य पुण्येन पापेन च नैव चासौ। लिप्येत ताभ्यां परमः स्वतन्त्रः कर्ता ततः पुरुषोऽप्यस्य वश्यः॥ २२/७१॥
इतीरितो धर्मजः कृष्णयैव निरुत्तरत्वं गमितस्त्वभर्त्सयत्। कुतर्कमाश्रित्य हरेरपि त्वमस्वातन्त्र्यं साधयसीति चोक्त्वा॥ २२/७२॥
छलेन तेन प्रतिभर्त्सिता सा क्षमापयामास नृपं यतः स्त्री। वाचालता नातितरां हि शोभते स्त्रीणां ततः प्राह वृकोदरस्तम्॥ २२/७३॥
राजन् विष्णुः सर्वकर्ता नचान्यस्तत्तन्त्रमेवान्यदसौ स्वतन्त्रः। तथाऽपि पुंसा विहितं स्वकर्म कार्यं त्याज्यं चान्यदत्यन्तयत्नात्॥ २२/७४॥
प्रत्यक्षमेतत् पुरुषस्य कर्म तेनानुमेया प्रेरणा केशवस्य। स्वकर्म कृत्वा विहितं हि विष्णुना तत्प्रेरणेत्येव बुधोऽनुमन्यते॥ २२/७५॥
तेनैति सम्यग् गतिमस्य विष्णोर्जनोऽशुभो दैवमित्येव मत्वा। हित्वा स्वकं कर्म गतिं च तामसीं प्रयाति तस्मात् कार्यमेव स्वकर्म॥ २२/७६॥
ज्ञातव्यं चैवास्य विष्णोर्वशत्वं कर्तव्यं चैवात्मनः कार्यकर्म। प्रत्यक्षैषा कर्तृता जीवसंस्था तथाऽऽगमादनुमानाच्च सर्वम्॥ २२/७७॥
विष्णोर्वशे तन्न हेयं द्वयं च जानन् विद्वान् कुरुते कार्यकर्म। तत्प्रेरकं विष्णुमेवाभिजानन् भवेत् प्रमाणत्रितयानुगामी॥ २२/७८॥
पूर्णं प्रमाणं तत् त्रयं चाविरोधेनैकत्रस्थं तत् त्रयं चाविरोधि। पृथङ् मध्यं चाप्रमाणं विरोधि स्यात् तत् तस्मात् त्रयमेकत्र कार्यम्॥ २२/७९॥
अज्ञः प्रत्यक्षं त्वपहायैव दैवं मत्वा कर्तृ स्वात्मकर्म प्रजह्यात्। विद्वाञ्जीवं विष्णुवशे विदित्वा करोति कर्तव्यमजस्रमेव॥ २२/८०॥
स्वभावाख्या योग्यता या हठाख्या याऽनादिसिद्धा सर्वजीवेषु नित्या।
सा कारणं प्रथमं तु द्वितीयमनादिकर्मैव तथा तृतीयः। जीवप्रयत्नः पौरुषाख्यस्तदेतत् त्रयं विष्णोर्वशगं सर्वदैव॥ २२/८१॥
स कस्यचिन्न वशे वासुदेवः परात् परः परमोऽसौ स्वतन्त्रः। हठश्‍चासौ तारतम्यस्थितो हि ब्रह्माणमारभ्य कलिश्‍च यावत्। हठाच्च कर्माणि भवन्ति कर्मजो यत्नो यतो हठकर्मप्रयोक्ता॥ २२/८२॥
विना यत्नं न हठो नापि कर्म फलप्रदो वासुदेवोऽखिलस्य। स्वातन्त्र्यशक्तेर्विनियामको हि तथाऽप्येतान् सोऽप्यपेक्ष्यैव युञ्जेत्॥ २२/८३॥
एतानपेक्ष्यैव फलं ददानीत्यस्यैव सङ्कल्प इति स्वतन्त्रता। नास्यापगच्छेत् स हि सर्वशक्तिर्नाशक्तता क्वचिदस्य प्रभुत्वात्॥ २२/८४॥
तस्मात् कार्यं तेन कॢप्तं स्वकर्म तत्पूजार्थं तेन तत्प्राप्तिरेव। अतोऽन्यथा निरयः सर्वथा स्यात् स्वकर्म विप्रस्य जपोपदेशौ।
विष्णोर्मुखाद् विप्रजातिः प्रवृत्ता मुखोत्थितं कर्म तेनास्य सोऽदात्॥ २२/८५॥
बाह्वोर्जातः क्षत्रियस्तेन बाह्वोः कर्मास्य पापप्रतिवारणं हि। प्रवर्तनं साधुधर्मस्य चैव मुखस्य बाह्वोश्‍चातिसामीप्यतोऽस्य। जपोपदेशौ क्षत्रियस्यापि विष्णुश्‍चक्रे धर्मौ यज्ञकर्मापि विप्रेे॥ २२/८६॥
वैश्यो यस्मादूरुजस्तेन तस्य प्रजावृद्धिस्तज्जकर्मैव धर्मः। तत्सादृश्यात् स्थावराणां च वृद्धिः करोरूर्वोः सन्निकृष्टत्वहेतोः। वार्तात्मकं कर्म धर्मं चकार विष्णुस्तस्यैवाङि्‌घ्रजः शूद्र उक्तः॥ २२/८७॥
गतिप्रधानं कर्म शुश्रूषणाख्यं सादृश्यतो हस्तपदोस्तथैव। हस्तोद्भवं कर्म तस्यापि धर्मः सन्तानवृद्धिश्‍च समीपगत्वात्॥ २२/८८॥
भुजावुरो हृदयं यद् बलस्य ज्ञानस्य च स्थानमतो नृपाणाम्। बलं ज्ञानं चोभयं धर्म उक्तः पाणौ कृतीनां कौशलं केवलं हि। तस्मात् पाण्योरूरुपदोरुपस्थितेर्विट्छूद्रकौ कर्मणां कौशलेतौ॥ २२/८९॥
प्राधान्यतो धर्मविशेष एष सामान्यतः सर्व एवाखिलानाम्। वयं हि देवास्तेन सर्वं हि कर्म प्रायेण नो धर्मतामेति शश्‍वत्॥ २२/९०॥
एतैर्धर्मैर्विष्णुना पूर्वकॢप्तैः सर्वैर्वर्णैर्विष्णुरेवाभिपूज्यः। तद्भक्तिरेवाखिलानां च धर्मो यथायोग्यं ज्ञानमस्यापि पूजा॥ २२/९१॥
पिता गुरुः परमं दैवतं च विष्णुः सर्वेषां तेन पूज्यः स एव। तद्भक्तत्वाद् देवताश्‍चाभिपूज्या विशेषतस्तेषु येऽत्यन्तभक्ताः॥ २२/९२॥
सम्पूजितो वासुदेवः स मुक्तिं दद्यादेवापूजितो दुःखमेव। स्वतन्त्रत्वात् सुखदुःखप्रदोऽसौ नान्यः स्वतन्त्रस्तद्वशा यत् समस्ताः॥ २२/९३॥
स्वतन्त्रत्वात् सुखसज्ज्ञानशक्तिपूर्वैर्गुणैः पूर्ण एषोऽखिलैश्‍च। स्वतन्त्रत्वात् सर्वदोषोज्झितश्‍च निःसीमशक्तिर्हि यतः स्वतन्त्रः॥ २२/९४॥
दोषास्पृष्टौ गुणपूर्तौ च शक्तिर्निःसीमत्वाद् विद्यते तस्य यस्मात्। एवं गुणैरखिलैश्‍चापि पूर्णो नारायणः पूज्यतमः स्वधर्मैः। अस्माकं यत् तेन नातिक्षमैव धर्मो दुष्टानां वारणं ह्येव कार्यम्॥ २२/९५॥
हन्याद् दुष्टान् यः क्षत्रियः क्षत्रियांश्‍च विशेषतो युद्धगतान् स्मरन् हरिम्। स्वबाहुवीर्येण च तस्य बाहू चैतन्यमात्रौ भवतः सदेहौ॥ २२/९६॥
पापाधिकांश्‍चैव बलाधिकांश्‍च हत्वा मुक्तावधिकानन्दवृद्धिः। प्रीतिश्‍च विष्णोः परमैव तत्र तस्माद्धन्तव्याः पापिनः सर्वथैव॥ २२/९७॥
ये त्वक्षधूर्ता ग्रहणं गता वा पापास्तेऽन्यैर्घातनीयाः स्वदोर्भ्याम्। राजानं वा राजपुत्रं तथैव राजानुजं वाऽभियातं निहन्यात्॥ २२/९८॥
राज्ञः पुत्रोऽप्यकृतोद्वाहको यः स घातनीयो न स्वयं वध्य एव। क्रूरं चान्यद् धर्मयुक्तं परैस्तत् प्रसाधनीयं क्षत्रियैर्न स्वकार्यम्। एवं धर्मो विहितो वेद एव वाक्यं विष्णोः पञ्चरात्रेषु तादृक्॥ २२/९९॥
अक्षद्यूतं निकृतिः पापमेव कृतं त्वया गर्हितं सौबलेन। न कुत्रचिद् विधिरस्यास्ति तेन न तद् दत्तं द्यूतहृतं वदन्ति॥ २२/१००॥
भीतेन दत्तं द्यूतदत्तं तथैव दत्तं कामिन्यै पुनराहार्यमेव। एवं धर्मः शाश्‍वतो वैदिको हि द्यूते स्त्रियां नाल्पमाहार्यमाहुः॥ २२/१०१॥
यद्येषां वै भोग्यमल्पं तदीयं भोगेन तद्बन्धुभिस्तच्च हार्यम्। निवारणे पुरुषस्य त्वशक्तैस्तद् राज्यं नः पुनराहार्यमेव॥ २२/१०२॥
त्वं धर्मनिष्ठश्‍चाग्रजश्‍चेति राजन्नृतेऽनुज्ञां न मया तत् कृतं च। दाताऽस्यनुज्ञां यदि तान् निहत्य त्वय्येव राज्यं स्थापयाम्यद्य सम्यक्॥ २२/१०३॥
सत्यं पापेष्वपि कर्तुं यदीच्छा तथाऽपि मासा द्वादश नः प्रयाताः। वेदप्रामाण्याद् वत्सरास्ते हि मासैः सहस्राब्दं सत्रमुक्तं नराणाम्। अज्ञातमेकं मासमुष्याथ शत्रून् निहत्य राज्यं प्रतिपादयामः॥ २२/१०४॥
मा मित्राणां तापकस्त्वं भवेथास्तथाऽमित्राणां नन्दकश्‍चैव राजन्। ज्वलस्वारीणां मूर्ध्नि मित्राणि नित्यमाह्लादयन् वासुदेवं भजस्व॥ २२/१०५॥
स्वतन्त्रत्वं वासुदेवस्य सम्यक् प्रत्यक्षतो दृश्यते ह्यद्य राजन्। यस्मात् कृष्णो व्यजयच्छङ्करादीन् जरासुतादीन् कादिवरैरजेयान्॥ २२/१०६॥
ब्रह्मादीनां प्रकृतेस्तद्वशत्वं दृष्टं हि नो बहुशो व्यासदेहे। पाराशर्यो दिव्यदृष्टिं प्रदाय स्वातन्त्र्यं नोऽदर्शयत् सर्वलोके॥ २२/१०७॥
तस्माद् राजन्नभिनिर्याहि शत्रून् हन्तुं सर्वान् भोक्तुमेवाधिराज्यम्। एवञ्च ते कीर्तिधर्मौ महान्तौ प्राप्यौ राजन् वासुदेवप्रसादात्॥ २२/१०८॥
एवमुक्तोऽब्रवीद् भीमं धर्मपुत्रो युधिष्ठिरः। त्रयोदशाब्दस्यान्तेऽहं कुर्यामेव त्वदीरितम्॥ २२/१०९॥
सत्यमेतन्न सन्देहः सत्येनात्मानमालभे। लोकापवादभीरुं मां नातोऽन्यद् वक्तुमर्हसि॥ २२/११०॥
तुदसे चातिवाचा मां यद्येवं भीम मां वदेः। तदैव मेऽत्ययः कार्यो हन्तव्याश्‍चैव शत्रवः। नैतादृशैरिदानीं तु वाक्यैर्बाधितुमर्हसि॥ २२/१११॥
भीष्मद्रोणादयोऽस्त्रज्ञा निवार्याश्‍च कथं युधि। पूज्यास्ते बाहुयुद्धेन न निवार्याः कथञ्चन॥ २२/११२॥
अस्त्राणि जानन्नपि हि न प्रयोजयसि क्वचित्। तस्माद् तदैव गन्तव्यं विज्ञातास्त्रे धनञ्जये॥ २२/११३॥
इत्युक्तो भीमसेनस्तु स्नेहभङ्गभयात् ततः। नोवाच किञ्चिद् वचनं स्वाभिप्रेतमवाप्य च॥ २२/११४॥
अभिप्रायो हि भीमस्य निश्‍चयेन त्रयोदशे। युधिष्ठिरस्य राज्यार्थं गमनार्थे प्रतिश्रवः। अन्यथाऽतिमृदुत्वात् स न गच्छेद् भिन्नधीः परैः॥ २२/११५॥
कृतकृत्ये तथा भीमे स्थिते धर्मात्मजो हि सः। भीष्मद्रोणादिविजयः कथं स्यादित्यचिन्तयत्॥ २२/११६॥
निवारणं गुरूणां हि भीम इच्छति न क्वचित्। तस्मात् ते ह्यर्जुनेनैव निवार्या इत्यचिन्तयत्॥ २२/११७॥
आपद्येव हि भीमस्तान् निवारयति नान्यथा।
एवं चिन्तासमाविष्टं विज्ञायैव युधिष्ठिरम्॥ २२/११८॥
सर्वज्ञः सर्वशक्तिश्‍च कृष्णद्वैपायनोऽगमत्। नृपतिं बोधयामास चिन्ताव्याकुलमानसम्॥ २२/११९॥
इमं मन्त्रं वदिष्यामि येन जेष्यति फल्गुनः। भीष्मद्रोणादिकान् सर्वान् तं त्वं वद धनञ्जये॥ २२/१२०॥
इत्युक्त्वैवावदन्मन्त्रं सर्वदैवतदृष्टिदम्। न स्वयं ह्यवदत् पार्थे फलाधिक्यं यतो भवेत्॥ २२/१२१॥
भीष्णद्रोणादिविजय एतावद् वीर्यमेव हि। अलं नातोऽधिकं कार्यमेतावद् योग्यमस्य च। फल्गुनस्येति भगवान् न स्वयं ह्यवदन्मनुम्॥ २२/१२२॥
गते व्यासे भगवति सर्वज्ञे सर्वकर्तरि। धर्मराजोऽवदन्मन्त्रं फल्गुनाय रहस्यमुम्॥ २२/१२३॥
तमाप्य फल्गुनो मन्त्रं ययौ ज्येष्ठौ प्रणम्य च। यमजौ च समाश्लिष्य गिरिमेवेन्द्रकीलकम्।
तपश्‍चकार तत्रस्थः शङ्करस्थं हरिं स्मरन्॥ २२/१२४॥
षण्मासेऽतिगतेऽपश्यन्मूकं नामासुरं गिरौ। वराहरूपमायातं वधार्थं फल्गुनस्य च॥ २२/१२५॥
तं ज्ञात्वा फल्गुनो वीरः सज्यं कृत्वा तु गाण्डिवम्। चिक्षेप वज्रसमितांस्तत्काये सायकान् बहून्॥ २२/१२६॥
किरातरूपस्तमनु सभार्यश्‍च त्रियम्बकः। स ममार हतस्ताभ्यां दानवः पापचेतनः॥ २२/१२७॥
तेनोक्तोऽसौ मयैवायं वराहोऽनुगतोऽद्य हि। तमाविध्यो यतस्त्वं हि तद् युद्ध्यस्व मया सह॥ २२/१२८॥
इत्युक्तः फल्गुनः प्राह तिष्ठतिष्ठ न मोक्ष्यसे। इत्युक्त्वा तावुभौ युद्धं चक्रतुः पुरुषर्षभौ॥ २२/१२९॥
तत्राखिलानि चास्त्राणि फल्गुनस्याग्रसच्छिवः। ततोऽर्जुनस्तु गाण्डीवं समादायाभ्यताडयत्॥ २२/१३०॥
तदप्यग्रसदेवासौ प्रहसन् गिरिशस्तदा। बाहुयुद्धं ततस्त्वासीत् तयोः पुरुषसिंहयोः॥ २२/१३१॥
पिण्डीकृत्य ततो रुद्रश्‍चिक्षेपाथ धनञ्जयम्। मूर्च्छामवाप महतीं फल्गुनो रुद्रपीडितः॥ २२/१३२॥
पूर्वं सम्प्रार्थयामास शङ्करो गरुडध्वजम्। अवराणां वरं मत्तो येषां त्वं सम्प्रयच्छसि। अजेयत्वं प्रसादात् ते विजेयाः स्युर्मयाऽपि ते॥ २२/१३३॥
इत्युक्तः प्रददौ विष्णुरुमाधीशाय तं वरम्। तेनाजयच्छ्वेतवाहं गिरिशो रणमध्यगम्॥ २२/१३४॥
केवलान् वैष्णवान् मन्त्रान् व्यासः पार्थाय नो ददौ। एतावताऽलं भीष्मादेर्जयार्थमिति चिद्घनः॥ २२/१३५॥
केवलैर्वैष्णवैर्मन्त्रैः स्वदत्तैर्विजयावहैः। अतिवृद्धस्य पार्थस्य दर्पः स्यादित्यचिन्तयत्॥ २२/१३६॥
पार्थः सञ्ज्ञामवाप्याथ जयार्थ्याराधयच्छिवम्। व्यासोदितेन मन्त्रेण तानि पुष्पाणि तच्छिरः॥ २२/१३७॥
आरुहन् स तु तं ज्ञात्वा रुद्र इत्येव फल्गुनः। नमश्‍चक्रे ततः प्रादादस्त्रं पाशुपतं शिवः॥ २२/१३८॥
अस्त्रं तद् विष्णुदैवत्यं साधितं शङ्करेण यत्। तस्मात् पाशुपतं नाम स्वान्यस्त्राण्यपरे सुराः। ददुस्तदैव पार्थाय सर्वे प्रत्यक्षगोचराः॥ २२/१३९॥
इन्द्रोऽर्जुनं समागम्य प्राह प्रीतोऽस्मि तेऽनघ। रुद्रदेहस्थितं ब्रह्म विष्ण्वाख्यं तोषितं त्वया। तेन लोकं ममागच्छ प्रेषयामि रथं तव॥ २२/१४०॥
इत्युक्त्वा प्रययाविन्द्रस्तद्रथेनैव मातलिः। आयात् पार्थस्तमारुह्य ययौ तातनिकेतनम्॥ २२/१४१॥
पूजितो दैवतैः सर्वैरिन्द्रेणाभिनिवेशितः। तेन सार्धमुपासीदत् तस्मिन्नैन्द्रे वरासने॥ २२/१४२॥
प्रीत्या समाश्लिष्य कुरुप्रवीरं शक्रो द्वितीयां तनुमात्मनः सः। ईक्षन् मुखं तस्य मुमोद सोऽपि ह्युवास तस्मिन् वत्सरान् पञ्च लोके॥ २२/१४३॥
अस्त्राणि तस्मा अदिशत् स वासवो महान्ति दिव्यानि तदोर्वशी तम्। सम्प्राप्य भावेन तु मानुषेण माता कुलस्येति निराकृताऽभूत्॥ २२/१४४॥
षण्ढो भवेत्येव तयाऽभिशप्ते पार्थे शक्रोऽनुग्रहं तस्य चादात्। संवत्सरं षण्ढरूपी चरस्व न षण्ढता ते भवतीति धृष्णुः॥ २२/१४५॥
ततोऽवसत् पाण्डवेयो गान्धर्वं वेदमभ्यसन्। गन्धर्वाच्चित्रसेनात् तु तथाऽस्त्राणि सुरेश्‍वरात्॥ २२/१४६॥
सुभद्रयाऽभिमन्युना सह स्वकां पुरीं गतः। जनार्दनोऽत्र संवसन् कदाचिदित्थमैक्षत॥ २२/१४७॥
मया वरो हि शम्भवे प्रदत्त आस पूर्वतः। वरं ग्रहीष्य एव ते सकाशतो विमोहयन्॥ २२/१४८॥
“त्वामाराध्य तथा शम्भो ग्रहीष्यामि वरं सदा। द्वापरादौ युगे भूत्वा कलया मानुषादिषु॥ २२/१४९॥
स्वागमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु। मां च गोपय येन स्यात् सृष्टिरेषोत्तराधरा॥” २२/१५०॥
इति वाक्यमृतं कर्तुमभिप्रायं विजज्ञुषी। प्रीत्यर्थं वासुदेवस्य रुक्मिणी वाक्यमब्रवीत्। जातेऽपि पुत्रे पुत्रार्थं सा हि वेद मनोगतम्॥ २२/१५१॥
पुत्रो मे बलवान् देव स्यात् सर्वास्त्रविदुत्तमः। इत्युक्तो भगवान् देव्या सम्मोहाय सुरद्विषाम्। ययौ सुपर्णमारुह्य स्वीयं बदरिकाश्रमम्॥ २२/१५२॥
“एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति। त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय॥ २२/१५३॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज। प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु॥ २२/१५४॥
अहं त्वां पूजयिष्यामि लोकसम्मोहनोत्सुकः। तमोऽसुरा नान्यथा हि यान्तीत्येतन्मतं मम॥” २२/१५५॥
इत्युक्तवचनं पूर्वं केशवेन शिवाय यत्। तत् सत्यं कर्तुमायान्तं कृष्णं बदरिकाश्रमम्। सर्वज्ञा मुनयः सर्वे पूजयाञ्चक्रिरे प्रभुम्॥ २२/१५६॥
रात्रौ कृष्णे मुनिमध्ये प्रविष्टे घण्टाकर्णः कर्णनामा पिशाचौ। समायातां गिरिशेन प्रदिष्टौ कृष्णं द्रष्टुं द्वारकां गन्तुकामौ॥ २२/१५७॥
तौ दृष्ट्वा मुनिमध्यस्थं केशवं तदबोधतः। कृत्वा स्वजातिचेष्टाश्‍च ध्यानेनैनमपश्यताम्॥ २२/१५८॥
दृष्ट्वा हृदि स्थितं तौ तु कौतूहलसमन्वितौ। स्तुत्वा भक्त्या प्रणामं च बहुशश्‍चक्रतुः शुभौ॥ २२/१५९॥
तयोः प्रसन्नो भगवान् स्पृष्ट्वा गन्धर्वसत्तमौ। चकार क्षणमात्रेण दिव्यरूपस्वरान्वितौ॥ २२/१६०॥
ताभ्यां पुनर्नृत्तगीतसंस्तवैः पूजितः प्रभुः। ययौ कैलासमद्रीशं चकारेव तपोऽत्र च॥ २२/१६१॥
स्वीयानेव गुणान् विष्णुर्भुञ्जन् नित्येन शोचिषा। शार्वं तपः करोतीव मोहयामास दुर्जनान्॥ २२/१६२॥
पूर्वं तेनोदितं यत्तल्लोकान् मोहयताऽञ्जसा। शर्वं प्रति तवाहं तु कुर्यां द्वादशवत्सरम्॥ २२/१६३॥
तपोऽसुराणां मोहाय सुराः सन्तु गतज्वराः। इति तस्मात् तदा कृष्ण एकाहेन बृहस्पतिम्॥ २२/१६४॥
स्वाज्ञया चारयामास क्षिप्रं द्वादशराशिषु। द्वादशाब्दमभूत् तेन तदहः केशवाज्ञया॥ २२/१६५॥
एकस्मिन्नह्नि भगवान् राशिंराशिं च वत्सरम्। कल्पयित्वोपवासादीन् मनसा नियमानपि॥ २२/१६६॥
मासव्रतं सार्धशतश्‍वासकालैरकल्पयत्। मनसैव स्वभक्तानां द्वादशाब्दव्रताप्तये॥ २२/१६७॥
तत्रास्य गरुडाद्यास्तु परिचर्यां स्वपार्षदाः। चक्रुर्होमादिकाश्‍चैव क्रियाश्‍चक्रे जनार्दनः। स्वात्मानं प्रति पापानां शिवायेति प्रकाशयन्॥ २२/१६८॥
एवं स्थितं तमरविन्ददलायताक्षं ब्रह्मेन्द्रपूर्वसुरयोगिवरप्रजेशाः। अभ्याययुः पितृमुनीन्द्रगणैः समेता गन्धर्वसिद्धवरयक्षविहङ्गमाद्याः॥ २२/१६९॥
शर्वोऽपि सर्वसुरदैवतमात्मदैवमायान्तमात्मगृहसन्निधिमाश्‍ववेत्य। अभ्याययौ निजगणैः सहितः सभार्यो भक्त्याऽतिसम्भ्रमगृहीतसमर्हणाग्र्यः॥ २२/१७०॥
अभ्येत्य पादयुगलं जगदेकभर्तुः कृष्णस्य भक्तिभरितः शिरसा ननाम। चक्रे स्तुतिं च परमां परमस्य पूर्णषाड्गुण्यविग्रहविदोषमहाविभूतेः॥ २२/१७१॥
कृष्णोऽप्ययोग्यजनमोहनमेव वाञ्छन् तुष्टाव रुद्रहृदिगं निजमेव रूपम्। रुद्रो निशम्य तदुवाच सुरान् समस्तान् सत्यं वदामि शृणुताद्य वचो मदीयम्॥ २२/१७२॥
विष्णुः समस्तसुजनैः परमोऽभ्युपेयस्तत्प्राप्तयेऽहमनिलोऽथ रमाऽभ्युपेयाः। एष ह्यशेषनिगमार्थविनिर्णयोऽर्थो यद् विष्णुरेव परमो मम चाब्जयोनेः॥ २२/१७३॥
अव्यक्ततः सकलजीवगणाच्च नित्यमित्येव निश्‍चय उतैतदनुस्मरध्वम्। इत्युक्तवत्यखिलदेवगणा गिरीशे कृष्णं प्रणेमुरतिवृद्धरमेशभक्त्या॥ २२/१७४॥
उक्तैरन्यैश्‍च गिरिशवाक्यैस्तत्त्वविनिर्णयैः। कृष्णस्यैव गुणाख्यानैः पुनरिन्द्रादिदेवताः। ज्ञानाभिवृद्धिमगमन् पुराऽपि ज्ञानिनोऽधिकम्॥ २२/१७५॥
सर्वदेवोत्तमं तं हि जानन्त्येव सुराः सदा। तथाऽपि तत्प्रमाणानां बहुत्वाद् येऽत्र संशयाः। युक्तिमात्रे तेऽपि रुद्रवाक्यादपगतास्तदा॥ २२/१७६॥
ततः कृष्णः सुतवरं त्वत्त आदास्य इत्यजः। यदुक्तवाञ्छिवं पूर्वं सत्यं कर्तुं तदब्रवीत्॥ २२/१७७॥
पुत्रं देहीति सोऽप्याह पूर्वमेव सुतस्तव। जातः प्रद्युम्ननामा यः स मद्दत्तः प्रवादतः॥ २२/१७८॥
पुरा दग्धो मया कामस्तदाऽयाचत मां रतिः। देहि कान्तं ममेत्येव तदा तामहमब्रवम्॥ २२/१७९॥
उत्पत्स्यते वासुदेवाद् यदा तं पतिमाप्स्यसि। इत्यतोऽसौ मया दत्त इव देव त्वदाज्ञया॥ २२/१८०॥
दासोऽस्मि तव देवेश पाहि मां शरणागतम्। इत्युक्त्वाऽभिप्रणम्यैनं पुनराह सुरान् हरः॥ २२/१८१॥
यदर्थमेष आयातः केशवः शृणुतामराः। योऽसुरो वक्रनामाऽऽसीदवध्यो ब्रह्मणो वरात्। तदा जाताद् वासुदेवपुत्रात् कामादृते क्वचित्॥ २२/१८२॥
तं हन्तुमेव पुत्रं स्वं प्रद्युम्नमुदरेऽर्प्य च। आयात इह तं चापि ददाह स्वोदरात् सुतम्। निःसारयित्वा कक्षं च दग्धं पश्यत देवताः॥ २२/१८३॥
ज्वालामालाकरालेन स्वतेजोवर्धितेन च। प्रद्युम्नेनैव तं दैत्यं दग्ध्वा वनसमन्वितम्। पुनश्‍च स्वोदरे पुत्रं स्थापयामास केशवः॥ २२/१८४॥
सद्योगर्भं पुनस्तं च रुक्मिण्यां जनयिष्यति। पूर्ववत् क्षणमात्रेण युवा च स भविष्यति॥ २२/१८५॥
दृष्टमेतन्नारदाद्यैर्मुनिभिः सर्वमेव च। एवं क्रीडत्ययं देवः पूर्णैश्‍वर्येण केवलम्। इत्युक्ते केशवं नेमुर्देवाः शक्रपुरोगमाः॥ २२/१८६॥
ततो हरिर्ब्रह्मसुरेन्द्रमुख्यैः सुरैः स्तुतो गरुडस्कन्धसंस्थः। पुनःपुनः प्रणतः शङ्करेण स्तुतस्तृतीयेऽह्नि निजां पुरीमगात्॥ २२/१८७॥
कृष्णे प्रयाते निलयं पुरद्विषो रात्रौ पौण्ड्रो वासुदेवः समागात्। सहैकलव्येन निजेन मातुः पित्रा तथाऽक्षौहिणीकत्रयेण॥ २२/१८८॥
पुरीं प्रभञ्जन्तममुं विदित्वा सरामशैनेययदुप्रवीराः। संयोधयामासुरथाभ्यवर्षच्छरैर्निषादाधिप एकलव्यः॥ २२/१८९॥
तदस्त्रशस्त्रैः सहसा विषण्णा यदुप्रवीरा विगतप्रदीपाः। सहैव रामेण शिनेश्‍च नप्त्रा समाविशन् स्वां पुरमेव सर्वे॥ २२/१९०॥
पुनः समादाय तथोरुदीपिका अग्रे समाधाय च रौहिणेयम्। विनिःसृता आत्तशस्त्राः स्वपुर्याः सिंहा यथा धर्षिताः सद्गुहायाः॥ २२/१९१॥
अथाससादैकलव्यं रथेन रामः शैनेयः पौण्ड्रकं वासुदेवम्। अयुद्ध्यतां तौ सात्यकिः पौण्ड्रकश्‍च तथाऽन्योन्यं विरथं चक्रतुश्‍च॥ २२/१९२॥
ततो गदायुद्धमभूत् तयोर्द्वयोस्तथा रामश्‍चैकलव्यश्‍च वीरौ। कृत्वाऽन्योन्यं विरथं गदाभ्यामयुद्ध्यतां जातदर्पौ बलाग्र्यौ॥ २२/१९३॥
तस्मिन् काले केशवो वैनतेयमारुह्यायाद् यत्र ते युद्धसंस्थाः। दृष्ट्वा कृष्णं हर्षसम्पूरितात्मा रामो हन्तुं चैकलव्यं समैच्छत्॥ २२/१९४॥
उद्यम्य दोर्भ्यां स गदां जवेन यदापतद् रौहिणेयो निषादम्। बलं कोपं चास्य दृष्ट्वैकलव्यः पराद्रवज्जीवितेच्छुः सुदूरम्॥ २२/१९५॥
विद्रावयन् रौहिणेयोऽन्वयात् तं भीतोऽपतच्चैकलव्योऽम्बुधौ सः। वेलान्तं तं द्रावयित्वाऽत्र तस्थौ रामो गदापाणिरदीनसत्त्वः॥ २२/१९६॥
सुपापोऽसावेकलव्यः सुभीतो रामं मत्वैवानुयान्तं पुनश्‍च। समुद्रेऽशीतिं योजनानामतीत्य पश्‍चादैक्षद् द्वीपमेवाधिरुह्य॥ २२/१९७॥
रामो विजित्यातिबलं रणे रिपुं मुदैव दामोदरमाससाद। पौण्ड्रस्त्ववज्ञाय शिनिप्रवीरं निवार्यमाणोऽभिययौ जनार्दनम्॥ २२/१९८॥
तं केशवो विरथं व्यायुधं च क्षणेन चक्रे स ययौ निजां पुरीम्। प्रस्थापयामास पुनश्‍च दूतं कृष्णायैको वासुदेवोऽहमस्मि॥ २२/१९९॥
मदीयलिङ्गानि विसृज्य चाशु समागच्छेथाः शरणं मामनन्तम्। तद्दूतोक्तं वाक्यमेतन्निशम्य यदुप्रवीरा उच्चकैः प्राहसन् स्म॥ २२/२००॥
कृष्णः प्रहस्याह तवायुधानि दास्याम्यहं लिङ्गभूतानि चाजौ। इत्युक्तोऽसौ दूत एत्याह तस्मै स चाभ्यागाद् योद्धुकामो हरिश्‍च॥ २२/२०१॥
तं शातकौम्भे गरुडे रथस्थे स्थितं चक्रादीन् कृत्रिमान् सन्दधानम्। श्रीवत्सार्थे दग्धवक्षस्थलं च दृष्ट्वा कृष्णः प्राहसत् पापबुद्धिम्॥ २२/२०२॥
ततोऽस्त्रशस्त्राण्यभिवर्षमाणं विजित्य तं वासुदेवोऽरिणैव। चकर्त तत्कन्धरं तस्य चानु मातामहस्याच्छिनत् सायकेन॥ २२/२०३॥
अपातयच्चाशु शिरः स तेन काशीश्‍वरस्येश्‍वरो वारणास्याम्। स च ब्रह्माहं वासुदेवोऽस्मि नित्यमिति ज्ञानादगमत् तत् तमोऽन्धम्॥ २२/२०४॥
साहाय्यकृच्चास्य च काशिराजो यथैव किर्मीरहिडिम्बसाल्वाः। अन्ये च दैत्या अपतंस्तमोऽन्धं तथैव सोऽप्यपतत् पापबुद्धिः॥ २२/२०५॥
निहत्य तौ केशवो रौक्मिणेयं पुनर्वैदर्भ्यां जनयामास सद्यः।
स चैकलव्यो रामजितः शिवाय चक्रे तपोऽजेयतां चाप तस्मात्॥ २२/२०६॥
स शर्वदत्तेन वरेण दृप्तः पुनर्योद्धुं कृष्णमेवाससाद। तस्यास्त्रशस्त्राणि निवार्य केशवश्‍चक्रेण चक्रे तमपास्तकन्धरम्। स चाप पापस्तम एव घोरं कृष्णद्वेषान्नित्यदुःखात्मकं तत्॥ २२/२०७॥
एवं यदूनामृषभेण सूदिते पौण्ड्रे तथा काशिराजे च पापे। काशीशपुत्रस्तु सुदक्षिणाख्यस्तपोऽचरच्छङ्करायोरुभक्त्या॥ २२/२०८॥
प्रत्यक्षगं तं शिवं पापबुद्धिः कृष्णाभावं याचते दुष्टचेताः। कृत्यामस्मै दक्षिणाग्नौ शिवोऽपि दैत्यावेशादददादावृतात्मा॥ २२/२०९॥
स दक्षिणाग्निश्‍चासुरावेशयुक्तः सम्पूजितः काशिराजात्मजेन। वरादुमेशस्य विवृद्धशक्तिर्ययौ कृष्णो यत्र सम्पूर्णशक्तिः॥ २२/२१०॥
कृष्णस्तस्य प्रतिघातार्थमुग्रं समादिशच्चक्रमनन्तवीर्यः। जाज्वल्यमानं तदमोघवीर्यं व्यद्रावयद् वह्निमिमं सुदूरम्॥ २२/२११॥
कृत्यात्मको वह्निरसौ प्रधानवह्नेः पुत्रश्‍चक्रविद्रावितोऽथ। सहानुबन्धं च सुदक्षिणं तं भस्मीचकाराशु सपुत्रभार्यम्॥ २२/२१२॥
दग्ध्वा पुरीं वारणासीं सुदर्शनः पुनः पार्श्‍वं वासुदेवस्य चागात्। सुदक्षिणोऽसौ तम एव जग्मिवान् कृष्णद्वेषात् सानुबन्धः सुपापः॥ २२/२१३॥
कृष्णः क्रीडन् द्वारवत्यां सुपूर्णनित्यानन्दः क्वचिदाह स्म भैष्मीम्। विडम्बयन् गृहिणामेव चेष्टा नित्याविरोधोऽपि तया विदोषया॥ २२/२१४॥
त्वया न कार्यं मम किञ्च भद्रे मयाऽरीणां मानभङ्गार्थमेव। समाहृताऽसीति सा चावियोगं सदा कृष्णेनात्मनोऽप्येव वेत्त्री॥ २२/२१५॥
स्त्रिया भेत्तव्यं भर्तुरित्येव धर्मं विज्ञापयन्ती दुःखितेवास देवी। तां सान्त्वयामास गृहस्थधर्मं विज्ञापयन् देवदेवोऽप्यदुःखाम्॥ २२/२१६॥
एवं क्रीडत्यब्जनाभे रमायां कृष्णादिष्टो गोकुलं रौहिणेयः। प्रायाद् दृष्ट्वा तत्र नन्दं यशोदां तत्पूजितः कृष्णवार्तां च पृष्टः॥ २२/२१७॥
मासौ तत्र न्यवसद् गोपिकाभी रेमे क्षीबो यमुनामाह्वयच्च। मत्तोऽयमित्येव नदीमनागतां चकर्ष रामो लाङ्गलेनाग्र्यवीर्यः॥ २२/२१८॥
पुनस्तया प्रणतः संस्तुतश्‍च व्यसर्जयत् तामथ नन्दगोपम्। आपृच्छ्य चागाद् द्वारकां केशवाय न्यवेदयन्नन्दगोपादिभक्तिम्॥ २२/२१९॥
तदैव मैन्दो विविदश्‍च भौमे हते सखाये दानवावेशयुक्तौ। आनर्तराष्ट्रं वासुदेवप्रतीपौ व्यनाशयेतां वासुदेवोऽथ चोचे॥ २२/२२०॥
रामाय सोऽदाद् वरमब्जनाभो वध्यावेतौ भवतां तेऽप्यवध्यौ। वराद् विरिञ्चस्य तथामृताशनादुभौ च मैन्दो विविदो व्रजेति॥ २२/२२१॥
गत्वा स मैन्दं प्रथमं जघान क्रोधात् युद्धायागतं रैवताग्रे।
दिने परस्मिन् विविदं जघान शिला वर्षन्तं मुसलेनाग्र्यकर्मा। तयोराविष्टौ तावसुरौ तमोऽन्धं प्राप्तौ च तावश्‍विनौ स्वं च लोकम्॥ २२/२२२॥
दुर्योधनस्यास पुत्री रतिर्या पूर्वं नाम्ना लक्षणा कान्तरूपा। स्वयंवरस्थां तां बलादेव साम्बो जग्राह सा चैनमासानुरक्ता॥ २२/२२३॥
बलाद् गृहीतां वीक्ष्य तां कर्णमुख्या दुर्योधनाद्या युयुधुः क्रोधदीप्ताः। कृच्छ्रेण तं विरथीकृत्य चैकं सर्वे समेता जगृहुर्धार्तराष्ट्राः। कर्णेन भूरिश्रवसा च सार्द्धं बाह्वोर्बलादेव दुर्योधनस्य॥ २२/२२४॥
श्रुत्वैव तद् वृष्णयः सर्व एव समुद्यमं चक्रिरे कौरवेषु। निवार्य तान् बलभद्रः स्वयं ययौ सहोद्धवः कौरवेयाञ्छमार्थी॥ २२/२२५॥
पुरस्य बाह्योपवने स्थितः स प्रास्थापयच्चोद्धवं कौरवार्थे। आगत्य सर्वे कुरवोऽस्य पूजां चक्रुः स चाहोग्रसेनस्य चाज्ञाम्॥ २२/२२६॥
आज्ञापयद् वो नृपतिः स्म यन्नः कुमारकः प्रगृहीतो भवद्भिः। एकः समेतैर्बहुभिर्बान्धवार्थं क्षान्तं तन्नो मुञ्चताश्‍वेव साम्बम्॥ २२/२२७॥
आज्ञापयामास व उग्रसेन इत्युक्तमेव तु निशम्य कुरुप्रवीराः। संश्राव्य दुष्टवचनानि बलं पुरं स्वं क्रोधात् समाविविशुरत्र चुकोप रामः॥ २२/२२८॥
स लाङ्गलेन तत् पुरं विकृष्य जाह्नवीजले। निपातयन्निवारितः प्रणम्य सर्वकौरवैः॥ २२/२२९॥
सभार्यमाशु पुत्रकं सुयोधनाभिपूजितम्। सपारिबर्हमाप्य च प्रजग्मिवान् स्वकं पुरम्॥ २२/२३०॥
इत्यादिकर्माणि महान्ति रामस्यासञ्छेषस्याच्युतावेशिनोऽलम्। यस्याच्युतावेशविशेषकालं ज्ञात्वा भीमोऽप्यस्य नोदेति युद्धे॥ २२/२३१॥
क्रीडायुद्धे बहुशो रौहिणेये व्यक्तिं विष्णोर्भीमसेनो विदित्वा। तात्कालिकीं पीड्यमानोऽपि तेन नैवोद्यमं कुरुते विष्णुभक्त्या॥ २२/२३२॥
तदा जयी प्रभवत्येष रामो नातिव्यक्तस्तत्र यदा जनार्दनः। तदा भीमो विजयी स्यात् सदैव विष्णोः केशावेशवान् यत् स रामः॥ २२/२३३॥
एतादृशैनैव रामेण युक्ते कृष्णे द्वार्वत्यां निवसत्यब्जनाभे। स्वप्नेऽनिरुद्धेन रता कदाचिद् बाणात्मजोषा चित्रलेखामुवाच॥ २२/२३४॥
तमानयेत्यथ सा चित्रवस्त्रे प्रदर्श्य लोकान् समदर्शयत् तम्। पौत्रं विदित्वा वचनाच्च तस्याः कृष्णस्य तं चानयत् तत्र रात्रौ॥ २२/२३५॥
अनिरुद्धं गुणोदारमानीतं चित्रलेखया। प्राप्य रेमे बाणसुता दिवसान् सुबहूनपि॥ २२/२३६॥
गूढं कन्यागृहे तं तु ज्ञात्वा कन्याभिरक्षिणः। ऊचुर्बाणायादिशच्च किङ्करान् ग्रहणेऽस्य सः॥ २२/२३७॥
आगताननिरुद्धस्तान् परिघेण महाबलः। निहत्य द्रावयामास स्वयमायात् ततोऽसुरः। स तु युद्ध्वाऽतिकृच्छ्रेण नागास्त्रेण बबन्ध तम्॥ २२/२३८॥
अथ कृष्णः समारुह्य गरुडं रामसंयुतः। प्रद्युम्नेन च तत्रागात् प्रथमं तत्र वह्निभिः॥ २२/२३९॥
युद्ध्वैवाङ्गिरसा चैव क्षणाद् विद्राव्य तान् हरिः। विद्राव्य सर्वप्रमथानाससाद ज्वरं ततः॥ २२/२४०॥
तेन भस्मप्रहारेण ज्वरितं रोहिणीसुतम्। आश्लिष्य विज्वरं चक्रे वासुदेवो जगत्प्रभुः॥ २२/२४१॥
स्वयं विक्रीड्य तेनाथ कञ्चित् कालं जनार्दनः। निष्पिष्य मुष्टिभिश्‍चान्यं ससर्ज ज्वरमच्युतः॥ २२/२४२॥
स्वयं जित्वाऽपि गिरिशभृत्यं नालमिति प्रभुः। स्वभृत्येनैव जेतव्य इत्यन्यं ससृजे तदा॥ २२/२४३॥
ज्वरेण वैष्णवेनासौ सुभृशं पीडितस्तदा। ग्रासार्थमुपनीतश्‍च जगाम शरणं हरिम्। तेन स्तुतः स भगवान् मोचयामास तं विभुः॥ २२/२४४॥
क्रीडार्थमत्यल्पजनेष्वपि प्रभुः कथञ्चिदेव व्यजयद् व्यथां विना। इत्यादि मोहाय स दर्शयत्यजो नित्यस्वतन्त्रस्य कुतो व्यथादयः॥ २२/२४५॥
यदा ज्वराद्या अखिलाः प्रविद्रुतास्तदा स्वयं प्राप हरिं गिरीशः। तयोरभूद् युद्धमथैनमच्युतो विजृम्भयामास विजृम्भणास्त्रतः॥ २२/२४६॥
विजृम्भिते शङ्करे निष्प्रयत्ने स्थाणूपमे संस्थिते कञ्जजातः। दैत्यावेशाद् वासुदेवानभिज्ञं सम्बोधयामास सदुक्तिभिः प्रभुः॥ २२/२४७॥
प्रगृह्य शर्वं च विवेश विष्णोः स तूदरं दर्शयामास तत्र। शिवस्वरूपं स्तम्भितं बिल्वनाम्नि वने गिरीशेन च यत् तपः कृतम्। शैवं पदं प्राप्तुमेवाच्युताच्च तच्चावदत् कञ्जजः शङ्करस्य॥ २२/२४८॥
व्यपेतमोहोऽथ वृषध्वजो हरिं तुष्टाव बाणोऽभिससार केशवम्। तस्याच्युतो बाहुसहस्रमच्छिनत् पुनश्‍चारिं जगृहे तच्छिरोर्थे॥ २२/२४९॥
तदा शिवेन प्रणतो बाणरक्षणकाम्यया। कृत्वा स्वभक्तं बाणं तं ररक्ष द्विभुजीकृतम्। मोचयित्वाऽनिरुद्धं च ययौ बाणेन पूजितः॥ २२/२५०॥
एवमग्नीनङ्गिरसं ज्वरं स्कन्दमुमापतिम्। बाणं चायत्नतो जित्वा प्रायाद् द्वारवतीं प्रभुः॥ २२/२५१॥
येनायत्नेन विजितः सर्वलोकहरो हरः। किं ज्वरादिजयो विष्णोस्तस्यानन्तस्य कथ्यते॥ २२/२५२॥
ईदृशानन्तसङ्ख्यानां शिवानां ब्रह्मणामपि। रमाया अपि यद्वीक्षां विना न चलितुं बलम्॥ २२/२५३॥
नच ज्ञानादयो भावा नचास्तित्वमपि क्वचित्। अनन्तशक्तेः कृष्णस्य न चित्रः शूलिनो जयः॥ २२/२५४॥
चित्रलेखासमेतोषान्वितपौत्रसमन्वितः। सरामः ससुतो वीन्द्रमारुह्य द्वारकां गतः। रेमे तत्र चिरं कृष्णो नित्यानन्दो निजेच्छया॥ २२/२५५॥
एवंविधान्यगणितानि यदूत्तमस्य कर्माण्यगण्यमहिमस्य महोत्सवस्य। नित्यं रमाकमलजन्मगिरीशशक्रसूर्यादिभिः परिणुतानि विमुक्तिदानि॥ २२/२५६॥
एवं वसत्यमितपौरुषवीर्यसारे नारायणे स्वपुरि शक्रधनञ्जयोक्तः। सम्प्राप्य लोमशमुनिः सकलानि तीर्थान्याप्तुं स पाण्डुतनयेषु सहाय आसीत्॥ २२/२५७॥
पृथ्वीं प्रदक्षिणत एत्य समस्ततीर्थस्नानं यथाक्रमत एव विधाय पार्थाः। सम्पूज्य तेषु निखिलेषु हरिं सुभक्त्या कृष्णे समर्पयितुमापुरथ प्रभासम्। सम्भावनाय सकलैर्यदुभिः समेतस्तेषां च रामसहितो हरिराजगाम॥ २२/२५८॥
पार्थैः सम्पूजितस्तत्र कृष्णो यदुगणैः सह। पार्थान् सम्पूजयामासुर्वृष्णयश्‍चाज्ञया हरेः॥ २२/२५९॥
तत्र भीमं तपोवेषं दृष्ट्वाऽतिस्नेहकारणात्। दुर्योधनं निन्दयति रामे सात्यकिरब्रवीत्॥ २२/२६०॥
सर्वे वयं निहत्याद्य सकर्णान् धृतराष्ट्रजान्। अभिमन्युं स्थापयामो राज्ये यावत् त्रयोदशम्॥ २२/२६१॥
संवत्सरं समाप्यैव पुरं यास्यन्ति पाण्डवाः। ततो युधिष्ठिरो राजा राज्यं शासतु पूर्ववत्॥ २२/२६२॥
एवं वदत्येव शिनिप्रवीरे जनार्दनः पार्थमुखान्युदीक्ष्य। उवाच शैनेय न पाण्डुपुत्राः परेण संसाधितराज्यकामाः॥ २२/२६३॥
स्वबाहुवीर्येण निहत्य शत्रूनाप्स्यन्ति राज्यं त इतीरितेऽमुना। तथेति पार्था अवदंस्ततस्ते कृष्णं पुरस्कृत्य ययुर्दशार्हाः॥ २२/२६४॥
क्रमेण पार्था अपि शैशिरं गिरिं समासदंस्तत्र कृष्णां सुदुर्गे। विषज्जन्तीमीक्ष्य तैः संस्मृतोऽथ हैडिम्ब आयात् सहितो निशाचरैः॥ २२/२६५॥
उवाह कृष्णां स तु तस्य भृत्या ऊहुः पार्थांस्ते बदर्याश्रमं च। प्राप्यात्र नारायणपूजया कृतस्वकीयकार्या ययुरुत्तरां दिशम्॥ २२/२६६॥
अतीत्य शर्वश्‍वशुरं गिरिं ते सुवर्णकूटंं निषधं गिरिं च। मेरोः प्राच्यां गन्धमादे गिरौ च प्रापुर्बदर्याश्रममुत्तमं भुवि॥ २२/२६७॥
तस्मिन् मुनीन्द्रैरभिपूज्यमाना नारायणं पूजयन्तः सदैव। चक्रुस्तपो ज्ञानसमाधियुक्तं सुतत्त्वविद्यां प्रतिपादयन्तः॥ २२/२६८॥
एवं बदर्यां विहरत्सु तेषु क्वचिद् रहः कृष्णया वायुसूनौ। स्थिते गरुत्मानुरगं जहार महाह्रदाद् वासुदेवासनाग्र्यः॥ २२/२६९॥
तत्पक्षपातेन विचालिते तु तस्मिन् गिरौ कमलं हैममग्र्यम्। पपात कृष्णाभीमयोः सन्निधाने उद्यद्भानोर्मण्डलाभं सुगन्धम्॥ २२/२७०॥
दृष्ट्वाऽतिगन्धं वरहेमकञ्जं कुतूहलाद् द्रौपदी भीमसेनम्। बहून्ययाचत् तादृशान्यानुभावमविषह्यं जानती देवदैत्यैः॥ २२/२७१॥
तयाऽर्थितः सगदस्तुङ्गमेनं गिरिं वेगादारुहद् वायुसूनुः। प्रशस्यमानः सुरसिद्धसङ्घैर्मृद्नन् दैत्यान् सिंहशार्दूलरूपान्॥ २२/२७२॥
आसेदिवांस्तत्र हनूमदाख्यं निजं रूपं प्रोद्यदादित्यभासम्। जानन्नप्येनं स्वीयरूपं स भीमश्‍चिक्रीड एतेन यथा परेण॥ २२/२७३॥
धर्मो देवानां परमो मानुषत्वे स्वीये रूपेऽप्यन्यवदेव वृत्तिः। अनादानं दिव्यशक्तेर्विशेषान्नरस्वभावे सर्वदा चैव वृत्तिः। तस्माद् भीमो हनुमांश्‍चैक एव ज्यायःकनीयोवृत्तिमत्राभिपेदे॥ २२/२७४॥
सर्वे गुणा आवृता मानुषत्वे युगानुसारान्मूलरूपानुसारात्। क्रमात् सुराणां भागतोऽव्यक्तरूपा आदानतो व्यक्तिमायान्त्युरूणाम्॥ २२/२७५॥
नैवाव्यक्तिः काचिदस्तीह विष्णोः प्रादुर्भावेष्वतिसुव्यक्तशक्तेः। इच्छाव्यक्तिः प्रायशो मारुतस्य तदन्येषां व्यक्तता कारणेन॥ २२/२७६॥
तस्माद् भीमो धर्मवृद्ध्यर्थमेव स्वीये रूपेऽप्यन्यवद् वृत्तिमेव। प्रदर्शयामास तथाऽसुराणां मोहायैवाशक्तवच्छक्तिरूपः॥ २२/२७७॥
तद्रूपवृद्धिं भीमसेनोऽथ दृष्ट्वा श्रुत्वा हनूमन्मुखतः कथाश्‍च। रामस्य तच्चातुरात्म्यं च दिव्यं चातुर्युगं धर्ममप्यग्र्यमेव॥ २२/२७८॥
ध्वजाद् बीभत्सोर्गर्जनेनैव शत्रुपराभवे तेन दत्तेऽर्जुनस्य। ययौ प्रणम्यैनमाश्‍वेव भीमः सौगन्धिकं वनमत्यग्र्यरूपम्॥ २२/२७९॥
नरागम्यां नलिनीमेत्य तत्र दृष्ट्वा पद्मान्यद्भुताकारवन्ति। हैमानि दिव्यान्यतिगन्धवन्ति समासदद् वार्यमाणो नराशैः॥ २२/२८०॥
ते भीममात्तायुधमुग्ररूपं महाबलं रूपनवावतारम्। न्यवारयन् क्रोधवशाः समेताः शतं सहस्राण्ययुतानि सङ्ख्ये॥ २२/२८१॥
वराच्छिवस्यैव परैरजेयाः शस्त्रास्त्रवृष्टिं मुमुचुः सुभीमाम्। भीमेऽखिलज्ञे तपसां निधाने बलोदधौ शैवशास्त्रं वदन्तः॥ २२/२८२॥
तान् वैष्णवैरेव शास्त्रैः स भीमो विजित्य पूर्वं वाङ्मये सङ्गरे तु। शस्त्रास्त्रवर्षस्य कुर्वन् प्रतीपं जघ्नेऽखिलान् गदया तेषु वीरान्॥ २२/२८३॥
“वातेन कुन्त्यां बलवान् स जातः शूरस्तपस्वी द्विषतां निहन्ता। सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः॥” २२/२८४॥
तत्रापरांश्‍चैव बहूनसत्यं निरीश्‍वरं चाप्रतिष्ठं च लोकम्। सिद्धोऽहमीशोऽहमिति ब्रुवाणान् गुणान् विष्णोः ख्यापयन् वादतोऽजैत्॥ २२/२८५॥
भिन्नं विष्णुमधिकं सर्वतश्‍च ब्रुवन् प्रवीरान् लक्षमेषां निजघ्ने। ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव। अशक्नुवन्तः सहिताः समस्ता हतप्रवीराः सहसा निवृत्ताः॥ २२/२८६॥
विक्रम्य तान् गदयाऽसौ निहत्य विद्राव्य सर्वान् नलिनीं प्रविश्य। पीत्वाऽमृताम्भश्‍च ततोऽम्बुजानि दिव्यानि जग्राह कुरुप्रवीरः॥ २२/२८७॥
अथो कलहशंसीनि निमित्तानि युधिष्ठिरः। दृष्ट्वा कृष्णामपृच्छच्च क्व भीम इति दीनधीः॥ २२/२८८॥
सौगन्धिकार्थं यातं तं श्रुत्वा कृष्णामुखान्नृपः। आरुह्य राक्षसश्रेष्ठान् कृष्णया भ्रातृभिः सह॥ २२/२८९॥
ययौ वृकोदरो यत्र दृष्ट्वा चैनमवस्थितम्। उवाच मैवमित्येनं भीतो गिरिशकोपतः॥ २२/२९०॥
देवेभ्यो मरणाद् भीता राक्षसा वित्तपाज्ञया। तदीयां नलिनीं ते हि रक्षन्त्यस्याश्रयो हरः। जानन् वित्तेश्‍वरो भीममाहात्म्यं न चुकोप ह॥ २२/२९१॥
वसत्सु तत्र पार्थेषु पुनः कतिपयैर्दिनैः। उवाच भीमसेनस्य यशोधर्माभिवृद्धये॥ २२/२९२॥
पञ्चवर्णानि पुष्पाणि कृष्णा वीक्ष्याहृतानि तु। मारुतेन कुबेरस्य गृहान्नृभिरगम्यतः॥ २२/२९३॥
अगम्योऽयं गिरिः सर्वैः कुबेरेणाभिपालितः। अद्य त्वयैव गन्तव्यो विधूयाखिलराक्षसान्॥ २२/२९४॥
इत्युक्त आशु सगदः सधनुः सबाणो भीमो गिरीन्द्रमजितोरुबलो विगाहे। प्राप्तं निशम्य बलदैवतसूनुमत्र पद्मत्रयं न्यरुणदुद्धतराक्षसानाम्॥ २२/२९५॥
अग्रे निधाय मणिमन्तमजेयमुग्रं शम्भोर्वराद् विविधशस्त्रमहाभिवृष्ट्या। तान् सर्वराक्षसगणान् मणिमत्समेतान् भीमो जघान सपदि प्रवरैः शरौघैः॥ २२/२९६॥
अवध्यांस्तान् क्षणेनैव हत्वा भीमो महाबलः। रणे क्रोधवशान् सर्वानतिष्ठद् गिरिमूर्धनि॥ २२/२९७॥
ते हता भीमसेनेन प्रापुरन्धन्तमोऽखिलाः। हताः सौगन्धिकवने मणिमांश्‍च पुनः कलौ। जातो मिथ्यामतिं सम्यगास्तीर्यापस्तमोऽधिकम्॥ २२/२९८॥
ततो वैश्रवणो राजा महापद्मत्रये हते। राक्षसानामवध्यानां सखाये मणिमत्यपि। आरुरोह रथं दिव्यं योद्धुकामो वृकोदरम्॥ २२/२९९॥
असुरावेशतस्तस्य भीमे क्रोधो महानभूत्। स आजगाम भीमेन योद्धुं वित्तपतिः स्वयम्॥ २२/३००॥
तस्मिन् काले भीमसेनस्य घोषं श्रुत्वा राजाऽपृच्छदाशु स्म कृष्णाम्। क्व भीम इत्येव तयोदितं च श्रुत्वा जगामाशु रक्षोंससंस्थः॥ २२/३०१॥
सभ्रातृके मुनिभिः कृष्णया च गते राजन्यत्र भीमं कुबेरः। दृष्ट्वाऽसुरावेशतो धर्मजं च किञ्चिन्मुक्तः स्नेहयुक्तस्तथाऽऽस॥ २२/३०२॥
धृतायुधं भीममीक्ष्यापि किञ्चिद् दैत्यावेशाद् बहु मेने न भीमम्। अगस्त्यशापं चावदत् स्वस्य पूर्वं सखायनाशे कारणं राजराजः॥ २२/३०३॥
दैत्यावेशादुज्झितः शान्तभावो ददौ निजं स्थानमेषां सुतुष्टः। आवासार्थं तेऽवसंस्तत्र पार्थास्तथाऽन्येषां दैवतानां गृहेषु॥ २२/३०४॥
तत्रैव तेषां वसतां महात्मनामानन्दिनामब्दचतुष्टये गते। पञ्चाब्दमध्याप्य महान्ति चास्त्राणीन्द्रो गुर्वर्थं फल्गुनेनार्थितोऽभूत्॥ २२/३०५॥
वधं वव्रे स्वशत्रूणामिन्द्रः पार्थात् स्वरूपतः। निवातकवचाख्यानां येषां ब्रह्मा ददौ वरम्। अवध्यतां सुरैर्दैत्यैर्गन्धर्वैः पक्षिराक्षसैः॥ २२/३०६॥
पुनरिन्द्रेणार्थितोऽदाज्जहीमान् नरदेहवान्। इति तेनार्जुनं शक्रः स्वात्मानं नरदेहगम्। जगाद तान् जहीत्येव किरीटं स्वं निबद्ध्य च॥ २२/३०७॥
ऐन्द्रं स्यन्दनमारुह्य पार्थो मातलिसंयुतः। गाण्डीवं धनुरादाय ययौ हन्तुं महासुरान्॥ २२/३०८॥
शङ्खं ददुस्तस्य देवा देवदत्तः स शङ्खराट्। नादयन् शङ्खघोषेण धनुर्विस्फारयन् महत्॥ २२/३०९॥
दधानः कुण्डले दिव्ये शक्रदत्ते सुभास्वरे। आससाद पुरं दिव्यं दैत्यानामिन्द्रनन्दनः॥ २२/३१०॥
तस्य शङ्खध्वनिं श्रुत्वा गाण्डीवस्य च निःस्वनम्। अभिसस्त्रुर्महावीर्या निवातकवचासुराः॥ २२/३११॥
तिस्रः कोट्यो दानवानां स्वयम्भुवरगर्विताः। नानायुधै रणे पार्थमभ्यवर्षन् सुसंहताः॥ २२/३१२॥
तेषां स शस्त्राणि किरीटमाली निवार्य गाण्डीवधनुःप्रमुक्तैः। शरैः शिरांसि प्रचकर्त वीरो महास्त्रशिक्षाबलसम्प्रयुक्तैः॥ २२/३१३॥
सर्वे हतास्तेन महारथेन ते दानवाः सोऽपि ययौ तथाऽन्यान्। पौलोमकालेयगणाभिधानान् षष्टिं सहस्राणि महारथानाम्॥ २२/३१४॥
तानस्त्रशस्त्राण्यभिवर्षमाणान् धनञ्जयः पाशुपतास्त्रतो द्राक्। दग्ध्वा ययौ पुनरेवेन्द्रसद्म तं सस्वजे प्रीतियुतश्‍च शक्रः॥ २२/३१५॥
ययुरन्धं तमश्चापि सर्वे देवद्विषोऽसुराः।
अथानुज्ञाप्य पितरं रथेनैन्द्रेण भास्वता। सोदर्याणां सकाशं स ययौ वज्रधरात्मजः॥ २२/३१६॥
आयान्तमीक्ष्य बीभत्सुं मुमुदुर्भ्रातरोऽधिकम्। ऊषुश्‍च चतुरोऽब्दांस्ते पुनर्मेरौ प्रमोदिनः॥ २२/३१७॥
कथाभिर्वासुदेवस्य ध्यानेनाभ्यर्चनेन च। ययौ कालः सुखेनैव तेषां विष्णुरतात्मनाम्॥ २२/३१८॥
नैव शत्रूननुत्साद्य नानादाय महद् यशः। नाकृत्वा वासुदेवाज्ञां राज्ञां मुख्यगतिर्भवेत्॥ २२/३१९॥
तदन्येषां तु वर्णानां क्षमा बाह्येषु शत्रुषु। प्रायो धर्म इति प्रोक्तो हरेराज्ञाऽखिलस्य च॥ २२/३२०॥
इति भीमवचः श्रुत्वा ससोदर्यो युधिष्ठिरः। राक्षसस्कन्धमारूढः कृष्णया चाययौ पुनः॥ २२/३२१॥
पादेषु तेषु निवसत्सु हिमालयस्य याम्याश्रितेषु पवमानसुतः कदाचित्। धन्वी मृगाननुचरन् सहसाऽऽससाद हायोः सुतं नहुषमाजगरोरुरूपम्॥ २२/३२२॥
पूर्वं हि वृत्रवधतोऽम्बुजनालतन्तुसंस्थे शचीप्रणयिनि प्रविचिन्त्य देवाः। चक्रुस्त्रिलोकपतिमायुसुतं वरं च दत्त्वाऽक्षिगोचरतपोऽस्य बलं च सर्वम्॥ २२/३२३॥
स सर्वसुरविप्रेन्द्रतपश्‍च बलमक्षयम्। अवाप्य ववृधे नित्यं दर्पादैच्छच्छचीमपि॥ २२/३२४॥
स इन्द्रवचनाच्छच्या महर्षिगणवाहने। नियुक्तो वञ्चनायैव वाहयामास तानृषीन्॥ २२/३२५॥
स शचीप्रतिषेधार्थमगस्त्येन महात्मना। वेदप्रामाण्यविषये पृष्टो नेत्याह मूढधीः। प्रमाणमिति तेनोक्तः शिरस्येनं पदाऽहनत्॥ २२/३२६॥
तदा भृगुं तस्य जटासु लीनं कदाऽपि तस्याक्षिपथं न यातम्। आविश्य कञ्जप्रभवः शशाप व्रजाशु पापाजगरत्वमेव॥ २२/३२७॥
षष्ठे काले यस्त्वयाऽसादितः स्यात् स ते वशं यातु बलाधिकोऽपि। यदा गृहीतं पुरुषं निहन्तुं न शक्ष्यसे यदि स त्वद्गृृहीतः। शक्तोऽपि नात्मानमभिप्रमोचयेत् तदाऽस्य स्यात् त्वत्तपोऽग्र्यं बलं च॥ २२/३२८॥
सर्वदेवमुनीन्द्राणां यत् तपस्त्वामुपाश्रितम्। तच्च सर्वं तमेवैति नात्र कार्या विचारणा॥ २२/३२९॥
यदा प्रश्नांस्त्वदीयांश्‍च कश्‍चित् परिहरिष्यति। दिवं गन्ताऽसि च तदा विसृज्याजगरं तनुम्। स्मृतिश्‍च मत्प्रसादेन सर्वदा ते भविष्यति॥ २२/३३०॥
भृगुदेहगतेनैवं शप्तः कमलयोनिना। पपाताजगरो भूत्वा नहुषः क्षणमात्रतः॥ २२/३३१॥
इन्द्रोऽप्यवाप स्वं स्थानमिष्ट्वा विष्णुं विपापकः। धर्मवृद्ध्यर्थमेवैतत् पापमासीच्छचीपतेः॥ २२/३३२॥
नहि लोकावनं पापं त्रैलोक्येशस्य वज्रिणः। वृत्रं हत्वा महानासेत्यादि वेदपदं च यत्॥ २२/३३३॥
“क्वचित् पापं च पुण्यानां वृद्धये भवति स्फुटम्। वृत्रहत्या यथेन्द्रस्य जाता धर्माभिवृद्धये॥ २२/३३४॥
देवानां वा मुनीनां वा भवेदेवं न वै नृणाम्। पापं यत् पुण्यमेवैतदसुराणां विलोमतः।”
एवं स्कान्दे हि वचनं न पापं तच्छचीपतेः॥ २२/३३५॥ नान्यस्य पदमाप्स्यन्ति तद् देवानां व्रतं परम्। तस्मात् ते नहुषं शक्रपदे विदधुरीश्‍वराः॥ २२/३३६॥
तस्मिन्नेवं निपतिते ब्रह्मणः शापकारणात्। अष्टाविंशतिमे प्राप युगे भीमस्तमुल्बणम्। जानन्नेव तदीयं तत् तप आदातुमिच्छया॥ २२/३३७॥
यत्तत् सुराणां सर्वेषां मुनीनां च तपः स्थितम्। तद् गृहीतुं वशमगादिच्छयैवास मारुतिः॥ २२/३३८॥
देवानां हि नृजातानामल्पं व्यक्तं भवेद् बलम्। इच्छया व्यक्ततां याति वायोरन्येषु तच्च न॥ २२/३३९॥
नित्यं व्यक्ता गुणा विष्णोरिति शास्त्रस्य निर्णयः। एवमन्येऽपि हि गुणा मानुषादिषु जन्मसु॥ २२/३४०॥
देवानां मानुषादौ तु शक्येऽप्यव्यक्तताकृते। धर्मवृद्धिर्भवेत् तेषां प्रीतो भवति केशवः॥ २२/३४१॥
तन्मानुषे बले तस्य वराद् वारितवत् स्थिते। दैवं बलं सुशक्तोऽपि व्यक्तं चक्रे न मारुतिः॥ २२/३४२॥
आत्ममोक्षाय न प्रश्नान् व्याजहार स चाभिभूः। विद्योपजीवनं धर्मो विप्राणामपि नो यतः॥ २२/३४३॥
किमुत क्षत्रियस्येति जानन्नपि वृकोदरः। तत्प्रश्नपरिहारेण नात्ममोक्षं समैच्छत॥ २२/३४४॥
अयतन्तमपि ह्येनं चालनायापि नाशकत्। पूर्णोऽपि सर्वलोकानां बलेन नहुषस्तदा। वेष्टयित्वैव तं भीमं स्थितोऽसौ नाशकत् परम्॥ २२/३४५॥
भ्रातृमात्रादिषु स्नेहात् क्षिप्रमात्मविमोक्षणम्। इच्छन्नपि न मोक्षाय यत्नं चक्रे वृकोदरः। सर्वदेवमुनीन्द्राणां तप आदातुमत्रगम्॥ २२/३४६॥
भ्रात्रादिषु स्नेहवशान्न स्थातव्यमिहेत्यपि। मन्वानः कालतो भङ्गं स्वयमेवैष यास्यति। आज्ञया वासुदेवस्य दार्ढ्याद् देहस्य मे तथा॥ २२/३४७॥
स्रस्ताङ्गे पतिते सर्पे यास्यामीति विचिन्तयन्। तस्थौ भीमो हरिं ध्यायन् स्वभावान्न तदिच्छया॥ २२/३४८॥
तदैव ब्रह्मवचनात् पूर्वोक्तान् केशवाज्ञया। बलं तपश्‍च सर्वस्य तत्स्थमायाद् वृकोदरम्॥ २२/३४९॥
पूरिते नहुषस्थेन तपसा च बलेन च। भीमे स नहुषोऽथासीत् स्रस्तभोगः शनैःशनैः॥ २२/३५०॥
गते भीमे निमित्तानि दृष्ट्वा राजा युधिष्ठिरः। पप्रच्छ क्व गतो भीम इति कृष्णां चलन्मनाः॥ २२/३५१॥
यातं मृगार्थं स निशम्य राजा तदूरुवेगात् पतितान् नगेन्द्रान्। दृष्ट्वा पथा तेन ययौ स तत्र दृष्ट्वा च सर्पावृतमन्वपृच्छत्॥ २२/३५२॥
स कारणं नहुषात् सर्वमेव शुश्राव तत्प्रश्नमशेषतश्‍च। भ्रातृस्नेहाद् व्याकरोद् धर्मसूनुस्तदैव सोऽप्यारुहत् स्वर्गलोकम्॥ २२/३५३॥
दिव्याम्बरे कुण्डलिनि स्वपूर्वे गते विमानेन स धर्मराजः। भीमश्‍चायात् स्वाश्रमायैव सर्वं युधिष्ठिरः कथयामास तत्र॥ २२/३५४॥
श्रुत्वा कृष्णा भ्रातरश्‍चास्य सर्वे सर्वे मुनीन्द्रा भीमसेनेऽतिभक्ताः। व्रीडां ययुर्भीमसेनग्रहेण तथाऽब्रुवन् स्नेहतो भीमसेनम्॥ २२/३५५॥
नैतादृशं साहसं तेऽनुरूपं शक्तोऽपि यत् स्वात्मनो मोक्षणाय। नैवाकरो यत्नमतो निजानां महद् दुःखं हृदये प्रार्पयस्त्वम्॥ २२/३५६॥
मैवं पुनः कार्यमिति ब्रुवन्तः समाश्लिषन् सर्व एवैत्य भीमम्।
ततोऽहोभिः कैश्‍चिदापुः कुरूणां राष्ट्रं पार्था मुनिमुख्यैः समेताः॥ २२/३५७॥
ततोऽमितौजा भगवानुपागमन्नारायणः सत्यभामासहायः। सम्पूजितः पाण्डवैस्तैः समेतश्‍चक्रेऽथ सौहार्दनिमित्तसत्कथाः॥ २२/३५८॥
कृष्णा च सत्या च परस्परं मुदा सम्भाषणं चक्रतुर्योषिदग्र्येे। परीक्षयन्त्या सत्यया सर्ववेत्त्र्या निर्दोषया चोदिता प्राह कृष्णा॥ २२/३५९॥
स्त्रीधर्मानखिलांस्तत्र सत्यां निर्दोषसंविदम्। ज्ञात्वाऽपि कृष्णा प्रोवाच लोकशिक्षार्थमेव तु॥ २२/३६०॥
क्रीडार्थमेव वचनं ज्ञात्वा सत्यासमीरितम्। तस्यानुसारिवाक्यानि तत्प्रीत्या एव साऽब्रवीत्॥ २२/३६१॥
ततः कतिपयाहानि निरुष्यात्र जनार्दनः। ययौ सभार्यः स्वपुरीं पाण्डवाननुमान्य च॥ २२/३६२॥
ततः कदाचिन्मृगयां गतेषु पार्थेषु राजा सैन्धव आससाद। सकोटिकाश्यः सबलश्‍च तेषां वराश्रमं सोऽत्र ददर्श कृष्णाम्॥ २२/३६३॥
व्रजन् विवाहार्थमसौ निशाम्य कृष्णां कोटिं प्रेषयित्वैव काश्यम्। आयाहि मामित्यवदत् सुपापस्तया निरस्तो जगृहे करे च॥ २२/३६४॥
तया धूतो निपपाताशु भूमौ पुनः ससञ्ज्ञोऽभ्यगमद् विलज्जः। ततोऽसहायत्वत एव कृष्णा धौम्यायोक्त्वा साग्निरन्वेहि मेति। समारुहत् सैन्धवस्यैव यानं सुखं न यासीति तमीरयित्वा॥ २२/३६५॥
तदा निमित्तानि निशाम्य पार्थाः समाययुस्त्वरयैवाश्रमाय। श्रुत्वा दासीवचनात् सर्वमेव चक्रुः क्षिप्रं सैन्धवस्यानुयानम्॥ २२/३६६॥
आक्रोशमानं भीमसेनेति धौम्यं दृष्ट्वा तस्याग्रे सैन्धवं चातिपापम्। चक्रुर्नादान् सिंहवत् पाण्डुपुत्रा दृष्ट्वा कृष्णा चावतरद् रथात् तदा। धौम्येन सार्द्धं सा ययौ चाश्रमाय सैन्यं पार्थास्तत्र निजघ्नुरोजसा॥ २२/३६७॥
अग्रे कृष्णां योऽवदत् सिन्धुराजं याहीति तं कोटिकाश्यं सुपापम्। छित्वा शिरो मृत्यवे भीमसेनो निवेदयामास तमः स चागात्॥ २२/३६८॥
हत्वा सेनामखिलां सैन्धवस्य भीमार्जुनौ सयमं धर्मराजम्। विसृज्य धावन्तमथानुजग्मतुर्जयद्रथं विरथं फल्गुनोऽकः॥ २२/३६९॥
पद्भ्यां धावन्तं भीमसेनो निगृह्य दत्त्वा प्रहारांश्‍च भृशं तमार्तम्। आदायाधाद् द्रौपदीपादयोश्‍च तं मोचयामास च धर्मसूनुः॥ २२/३७०॥
दासो द्रौपद्या अहमित्येव वाक्ये तेनैवोक्ते भीमसेनोऽप्यमुञ्चत्। स व्रीडितोऽवाग्वदनो ययौ वनं पार्थाश्‍च तत्रोषुरतिप्रमोदिनः॥ २२/३७१॥
मार्कण्डेयस्तदाऽऽगत्य तेषामकथयत् कथाः। बह्व्यश्‍चैव विचित्राश्‍च भाषात्रयसमन्विताः॥ २२/३७२॥
लोकदर्शनमाश्रित्य देवाश्‍च मुनयस्तथा। ब्रूयुः कथास्तत्र शिक्षा ग्राह्या नार्थः कथञ्चन॥ २२/३७३॥
अर्थः समाधिभाषासु ग्राह्यः सर्वोऽप्यसंशयम्। परदर्शनभाषासु ज्ञेयं तद्दर्शनं तथा॥ २२/३७४॥
ग्राह्यो नार्थो वैदिकं तु दर्शनं ग्राह्यमेव हि। अन्यार्थो गुह्यभाषासु ग्राह्य एवं विनिर्णयः॥ २२/३७५॥
जयद्रथस्तु भीमेन यदा पञ्चशिखीकृतः। तपसा शिवमाराध्य वव्रे पाण्डवरोधनम्। ऋतेऽर्जुनादर्जुनस्य तुष्टो हि तपसा शिवः॥ २२/३७६॥
वने वसत्स्वेव च पाण्डवेषु चक्रे यज्ञं पौण्डरीकाख्यमेव। संस्पर्धया राजसूयस्य राजा दुर्योधनो नाप्यसौ तत्कलार्हः॥ २२/३७७॥
दुर्योधनस्याज्ञया पाण्डवानां दुःशासनः प्रेषयामास दूतम्। आगच्छतेत्यवमानाय तं तु भीमोऽवादीद् रणयज्ञं स्वगम्यम्॥ २२/३७८॥
ततो दिनैः कैश्‍चन धार्तराष्ट्राः सकर्णगान्धारनृपाः कुमन्त्रतः। सभार्यकाः पाण्डवान् द्रौपदीं च महैश्‍वर्यं दर्शयित्वाऽवमन्तुम्॥ २२/३७९॥
तै स्यन्दनैः काञ्चनरत्नचित्रैर्महागजैस्तुरगैः पत्तिभिश्‍च। स्वलङ्कृताश्‍चित्रमाल्याम्बराश्‍च विनिर्ययुर्द्वैतवनाय शीघ्रम्॥ २२/३८०॥
गवां दृष्टिच्छद्मना निर्गतांस्तान् ज्ञात्वा शक्रस्तेजसो भङ्गकामः। तत्सामर्थ्यं वरमस्मै प्रदाय तद्बन्धनायादिशच्चित्रसेनम्॥ २२/३८१॥
स षष्टिसाहस्रककोटियूथपैर्गन्धर्वमुख्यैः संवृतोऽगात् सरस्तत्। यस्मिन् स्नातुं वाञ्छति धार्तराष्ट्रस्तदाज्ञया पुरुषास्तानथोचुः॥ २२/३८२॥
स्नातुं समायास्यति धार्तराष्ट्रो राजेश्‍वरो निःसरध्वं तदस्मात्। तीर्थादाज्ञां धारयन्तश्‍च तस्येत्युक्ता गन्धर्वा जहसुस्तानथोच्चैः॥ २२/३८३॥
ऊचुर्वयं मानयामस्तदाज्ञां त्रिलोकानां यः पतिः शक्रदेवः। न मानुषाणामपि चक्रवर्तिनां किम्वल्पसारस्य सुयोधनस्य॥ २२/३८४॥
इतीरिते कुपितो धार्तराष्ट्रो जघान गन्धर्ववराञ्छरौघैः। जघ्नुः सकर्णा अपि तस्य सोदरा जघ्नुश्‍च ते धार्तराष्ट्रस्य सेनाम्॥ २२/३८५॥
मुहूर्तमासीत् सममेव युद्धं तेषां तदा धार्तराष्ट्रस्य चैव। पुरां भिन्दोर्वरतो मायया च गन्धर्ववीरा ववृधुस्ततः स्म॥ २२/३८६॥
तेजोभङ्गं तत्र सुयोधनस्य पार्थार्थमत्र प्रविधातुमेव। बलं ददावब्जजः केशवश्‍च गन्धर्वाणां तेऽभ्ययुर्धार्तराष्ट्रान्॥ २२/३८७॥
स चित्रसेनः प्रथमं कर्णमेव युयोध पार्थस्पर्धया तेन युद्ध्यन्। कर्णो नाशक्नोद् वचनाद् भार्गवस्य रामस्य नित्यामितषड्गुणस्य॥ २२/३८८॥
स भग्नयानश्‍च विकर्णयानमास्थाय तस्यैव नियम्य वाजिनः। पराद्रवत् तेन सहैव शीघ्रं दुर्योधनश्‍चित्रसेनं युयोध॥ २२/३८९॥
मुहूर्तमेतेन समं स युद्ध्यन्नन्यैर्गन्धर्वैर्बहुभिर्माययैव। भग्ने रथे भूमितले स्थितः सन् गृहीत आसीच्चित्रसेनेन सङ्ख्ये॥ २२/३९०॥
महाबलो धार्तराष्ट्रोऽपि शक्रवराद् विष्णोराज्ञया चाभिवृद्धे। स चित्रसेनेन धृतस्तदाऽसीद् बद्धः पाशैर्वैद्युतैरिन्द्रदत्तैः॥ २२/३९१॥
तस्यानुजाः शकुनी राजभार्याः सर्वे बद्धाः शक्रदूतैः प्रणीताः। आदाय तानम्बरे सम्प्रयातेष्वरूरुवन् पाण्डवान् मन्त्रिणोऽस्य॥ २२/३९२॥
समीपमागत्य पृथासुतानां पराभूतं वः कुलं शक्रभृत्यैः। धृतः सभार्यः सानुजो धार्तराष्ट्रस्तं मोचयध्वं भ्रातरं भारताग्र्याः॥ २२/३९३॥
इत्युक्त ऊचे भीमसेनोऽग्रजं स्वं जाने राजन् यादृशोऽयं विमर्दः। ऐश्‍वर्यं स्वं दर्शयन् नः समागाद् दुर्योधनस्तेजसो भङ्गमिच्छन्॥ २२/३९४॥
विज्ञाय तेषां मन्त्रितं वज्रबाहुरेतच्चक्रे नात्र नः कार्यहानिः। दिव्यं ज्ञानं स्वात्मनो दर्शयन् स एतावदुक्त्वा विरराम भीमः॥ २२/३९५॥
एकाहयज्ञे दीक्षितेनैव राज्ञा सम्प्रेषितो भीमसेनोऽर्जुनश्‍च। समाद्रेयौ चित्रसेनं रणे तौ विजित्य दुर्योधनमाश्‍वमुञ्चताम्॥ २२/३९६॥
स चित्रसेनो वासवोक्तं च सर्वं कुमन्त्रितं धार्तराष्ट्रस्य चाह। पार्थस्य भीमस्य च तन्निशम्य सुव्रीडितो धृतराष्ट्रात्मजोऽभूत्॥ २२/३९७॥
समाप्य यज्ञं च ततोऽभियान्तं सर्वे प्रापुर्धर्मराजं स चाशु। सम्पूज्य तूत्सृज्य च चित्रसेनमूचे गान्धारे न पुनः कार्यमीदृक्॥ २२/३९८॥
स पाण्डवैर्मोचितः सानुजश्‍च सभार्यकः किञ्चिदतोऽपगम्य। सम्मेलनायोपविष्टश्‍च तत्र सुव्रीडितः सूतपुत्रं ददर्श॥ २२/३९९॥
स चाह दिष्ट्या जयसि राजन्निति सुयोधनम्। व्रीडितो नेति तं चोक्त्वा यथावृत्तं सुयोधनः। उक्त्वा प्रायोपवेशं च चक्रे तत्र सुदुःखितः॥ २२/४००॥
कर्णदुःशासनाभ्यां च सौबलेन च देविना। अन्यैश्‍च याच्यमानोऽपि नैवोत्तस्थौ सुयोधनः॥ २२/४०१॥
ततो निशायां प्राप्तायां स्वपक्षे प्रविषीदति। मन्त्रयित्वाऽसुरैः कृत्या निर्मिता होमकर्मणि॥ २२/४०२॥
शुक्रेणोत्पादिता कृत्या सा प्रसुप्तेषु मन्त्रिषु। धार्तराष्ट्रं समादाय ययौ पातालमाशु च। अथ सम्बोधयामासुर्दैत्या दुर्योधनं नृपम्॥ २२/४०३॥
त्वं दिव्यः पुरुषो वीरः सृष्टोऽस्माभिः प्रतोषितात्। तपसा शङ्कराद् वज्रकायोऽवध्यश्‍च सर्वदा। अस्माकं पक्षभूतस्त्वं देवानां चैव पाण्डवाः॥ २२/४०४॥
इदानीं सर्वदेवानां वरात् त्वं विजितो रणे। वयं तथा करिष्यामो यथा जेष्यसि पाण्डवान्॥ २२/४०५॥
कृष्णेन निहतश्‍चैव नरकः कर्ण आस्थितः। स च कृष्णार्जुनाभावं करिष्यति न संशयः॥ २२/४०६॥
भीष्मादींश्‍च वयं सर्वानाविशामो जयाय ते। तपसा वर्धयिष्यामस्त्वां कर्णादींश्‍च सर्वशः॥ २२/४०७॥
तस्माद् गत्वा पालयस्व राज्यं राजन्नपेतभीः। इदं कस्यापि नाख्येयं सुगुप्तं भूतिवर्धनम्॥ २२/४०८॥
इत्युक्त्वा कृत्यया भूयः स्वस्थाने स्थापितो नृपः। उमया निर्मितात्मार्धमुत्तरं हरनिर्मितम्। ज्ञात्वैवावध्यतां चैव राज्ये बुद्धिं चकार सः॥ २२/४०९॥
नोवाच कस्यचित् तेषु स्वानुभूतं सुयोधनः।
प्रभातायां तु शर्वर्यां पुनः कर्णोऽब्रवीद् वचः॥ २२/४१०॥
भृत्यैस्तवैव पार्थैर्यन्मोचितोऽसि परन्तप। तेन मान्योऽधिकं लोके यद् भृत्या एव तादृशाः। किमु त्वं राजशार्दूल तदुत्तिष्ठ स्थिरो भव॥ २२/४११॥
या च तेऽर्जुनमाहात्म्ये शङ्का सा व्येतु मे शृणु। यावन्नैवार्जुनं हन्यां पादौ प्रक्षालये स्वयम्॥ २२/४१२॥
इत्युक्तोऽवरजैश्‍चैव सर्वैः शकुनिना तथा। याचितो रथमारुह्य ययौ नागपुरं द्रुतम्॥ २२/४१३॥
सकुण्डलं सकवचमवध्यं सूर्यनन्दनम्। ज्ञात्वेन्द्र उभयं तस्मादैच्छदादातुमुत्तमम्॥ २२/४१४॥
तद् विज्ञाय रविः कर्णं स्वप्न उक्त्वा न्यवारयत्। सर्वथा दास्य इत्युक्ते प्राहादेयं वरायुधम्॥ २२/४१५॥
ददौ चोत्कृत्य कवचं कुण्डले च शचीपतेः। अमोघां शक्तिमादाय ज्ञात्वेन्द्रं द्विजरूपिणम्॥ २२/४१६॥
ऋतेऽर्जुनादेकमेव वधिष्यस्यनयेति सः। दत्त्वा शक्तिं ययौ शक्रः सार्द्धं कवचकुण्डलैः॥ २२/४१७॥
पार्था विमुच्यैव सुयोधनं तं वने वसन्तो मुदिताः सदैव। सहारणीभाण्डमथो मृगेण हृतं द्विजस्याशु निशम्य चान्वयुः॥ २२/४१८॥
तस्मिन्नदृश्ये तृषिता एकैकमुदकार्थिनः। ययुर्युधिष्ठिरमृते सुप्तास्ते धर्ममायया। अदृश्येनैव धर्मेण वारिता वारिपायिनः॥ २२/४१९॥
क्षत्रधर्मस्य रक्षार्थं न तत्प्रश्नान् विदां वराः। व्याचक्रुः शक्तिमन्तोऽपि पानीयार्थमरिन्दमाः॥ २२/४२०॥
न विप्राणां च धर्मोऽयं विद्याया उपजीवनम्। क्षत्रियाणां तु किमुत प्रसभं तेन ते पपुः॥ २२/४२१॥
देवा अपि मनुष्येषु जाताः सुबलिनोऽपि हि। मानुषेणैव भावेन युक्ताः स्युः केशवादृते। कार्येष्वेषां क्रमेणैव व्यक्तिमायान्ति सद्गुणाः॥ २२/४२२॥
अतो भीमार्जुनौ धर्मादत्युत्तमबलावपि। देवमायां समाश्रित्य धर्मेण स्वापितौ क्षणात्॥ २२/४२३॥
मुहूर्तमेव सा माया तयोराच्छादने क्षमा। ततः प्रबुद्धयोर्धर्मो नैव शक्तिशतांशभाक्॥ २२/४२४॥
उक्तं पद्मपुराणे च तदेतत् सर्वमञ्जसा। तस्मान्नाशक्तिरनयोः सम्भाव्या भीमपार्थयोः॥ २२/४२५॥
धर्मात्मजोऽथाजगामोदकान्तं दृष्ट्वा भ्रातॄंस्तत्र दुःखाभितप्तः। इच्छन् पातुं वारि संवारितश्‍च पित्रा बकाकारमितेन नापात्॥ २२/४२६॥
अर्थे भ्रातॄणामैच्छदसौ तदीयप्रश्नप्रतिव्याहरणं दयालुः। ततो धर्मो यक्षतनुः स भूत्वा प्रश्नांश्‍चक्रे व्याकरोत् तान् स पार्थः॥ २२/४२७॥
ततस्तुष्टो वरमस्मै ददौ स एकोत्थानं भ्रातृमध्ये स वव्रे। यद्येकः स्यान्नकुलोऽस्त्वित्यथाह तुष्टो धर्मः कथमेतत् कृतं ते। अतिप्रीतिर्भीमसेने तवास्ति बली चासौ राज्यहेतुस्तव स्यात्॥ २२/४२८॥
इत्युक्त ऊचे माद्रिपुत्रं विहाय कुन्तीपुत्रो न मयोत्थापनीयः। स एवमुक्तो नितरां प्रीयमाण उत्थापयामास च तान् समस्तान्॥ २२/४२९॥
यथेष्टरूपप्राप्तिमेषां पुनश्‍च स्वकामतो निजरूपाप्तिमादात्। अज्ञातवासेऽज्ञाततां सर्वदैव ददौ तेषां प्रीत एवानृशंस्यात्। एवं क्रीडन् पुत्र इत्यात्मनैव यशोधर्मावात्मनो वर्धयन् सः॥ २२/४३०॥
युधिष्ठिरात्मनः स्वस्य यशोधर्मविवृद्धये। कृत्वाऽरण्यपहारादि पुनर्दत्त्वा च तत् स्वयम्। दातुं विप्राय तद्धस्ते ययौ धर्मो दिवं पुनः॥ २२/४३१॥
ततो राजा भीमसेनार्जुनौ च सार्द्धं यमाभ्यामरणीं प्रदाय। मुदा युताः कृष्णया सार्धमेव सन्तुष्टुवुः कृष्णमनन्तमच्युतम्॥ २२/४३२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णयेऽरणीप्राप्तिर्नाम द्वाविंशोऽध्यायः समाप्तः॥
त्रयोविंशोऽध्यायः
नारायणानुग्रहतो यथावन्निस्तीर्य तान् द्वादशाब्दान् वने ते। विसृज्य च ब्राह्मणादीन् सधौम्यानज्ञातवासाय ततो मनो दधुः॥ २३/१॥
गत्वा विराटस्य पुरीं निधाय हेतीः शम्यां छन्नरूपा बभूवुः। यतिः सूदः षण्डवेषोऽथ सूतवेषो गोपो गन्धकर्त्री च जाताः॥ २३/२॥
सर्वे विराटं ययुरत्र देववत् सम्भावितास्तेन शुभोरुलक्षणाः। युधिष्ठिरस्यैव शुश्रूषणं ते चक्रुर्हृदा वासुदेवस्य नान्यत्॥ २३/३॥
परपाको गृहस्थस्य क्षत्रियस्य विशेषतः। न योग्य इति सूदस्य बभ्रे वेषं वृकोदरः॥ २३/४॥
वैदिकव्यवहारेषु ज्ञानाधिक्यप्रसिद्धितः। जानीयुर्भीम इत्येव सूदवेषस्ततोऽभवत्॥ २३/५॥
स्वीयं वेदविदां सर्वं देवेशानां च किं पुनः। अतस्तेऽन्याश्रयं नैव चक्रुः स्वबलसंश्रयात्॥ २३/६॥
शापादेवार्जुनः षण्डवेषोऽभून्नकुलस्तथा। क्षत्रियानन्तरत्वात् तु सूतजातेस्तथाऽभवत्॥ २३/७॥
सूतस्यानन्तरत्वात् तु वैश्यजातेस्तथाऽभवत्। सहदेवो वैश्यजातिर्गोपालस्तेषु चोत्तमः॥ २३/८॥
ततो गोपालतामाप यतिः पूज्योऽखिलैर्यतः। यतिरासीद्धर्मजोऽतः सोऽभ्यासार्थं सदैव च॥ २३/९॥
अक्षासक्तोऽभवत् पश्‍चात् दर्शयिष्यन् स्वशिष्टताम्। भीमसेनसधर्मार्थं शूद्रा सैरन्ध्रिकाऽभवत्। द्रौपदी भर्तृसाधर्म्यं स्त्रीणां धर्मो यतः सदा॥ २३/१०॥
अथाजगाम मल्लकः समस्तभूमिमण्डले। वरेण योऽजितो जयी शिवस्य सञ्जगर्ज च॥ २३/११॥
तमीक्ष्य सर्वमल्लका विराटराजसंश्रयाः। प्रदुद्रुवुर्भयार्दितास्तदाऽवदद् युधिष्ठिरः॥ २३/१२॥
य एष सूद आशु तं निहत्य मल्लमोजसा। यशस्तवाभिवर्धयेत् समाह्वयाद्य तं नृप॥ २३/१३॥
इतीरिते समाहुतो जगाद मारुतिर्वचः। प्रसादतो हरेरहं निषूदयेऽद्य मल्लकम्॥ २३/१४॥
समस्तदेववृन्दतो महान् य एव केशवः। समस्तदेवनामवांस्तदीयभक्तितो बलम्॥ २३/१५॥
य एव देवनामधा इति श्रुतिर्जगाद हि। महांश्‍च देव एष तत् स मे जयं विधास्यति॥ २३/१६॥
युधिष्ठिराभिधश्‍च यो युधिष्ठिरे स्थितः सदा। त्वयि स्थितस्त्वमित्यसौ सदाऽभिधीयते हरिः॥ २३/१७॥
इति ब्रुवाणो मल्लं तमभियातो वृकोदरः। अनयत् मृत्युलोकाय बलाढ्यैरपि दुर्जयम्॥ २३/१८॥
एवं निवसतां तत्र पाण्डवानां महात्मनाम्। संवत्सरे द्विमासोने विजित्य दिश आगतः। कीचको मत्स्यनृपतेः श्यालो बलवतां वरः॥ २३/१९॥
स द्रौपदीं वीक्ष्य मनोभवार्तः सम्प्रार्थयामास तया निरस्तः। मासे गते भगिनीं स्वां सुदेष्णां सम्प्रार्थयामास तदर्थमेव॥ २३/२०॥
तया निषिद्धोऽपि पुनःपुनस्तां यदा ययाचेऽथ सा चाह कृष्णाम्। समानयाश्‍वेव सुरां मदर्थमितीरिता नेति भीताऽवदत् सा॥ २३/२१॥
बलात् तया प्रेषिता तद्गृृहाय यदाऽगमत् तेन हस्ते गृहीता। विधूय तं प्राद्रवत् सा सभायै स्मृत्वाऽऽदित्यस्थं वासुदेवं परेशम्॥ २३/२२॥
अनुद्रुत्यैनां पातयित्वा पदा स सन्ताडयामास तदा रविस्थितः। नारायणो हेतिनामैव रक्षो न्ययोजयत् तददृश्यं समागात्॥ २३/२३॥
वायुस्तमाविश्य तु कीचकं तं न्यपातयत् तां समीक्ष्यैव भीमः। चुकोप वृक्षं च समीक्ष्यमाणं तं वारयामास युधिष्ठिरोऽग्रजः॥ २३/२४॥
कृष्णा रात्रौ भीमसकाशमेत्य हन्तुं पापं कीचकं प्रैरयत् तम्। भीमस्य बुद्ध्या निशि सा कीचकं च जगाद गन्तुं शून्यगृहे स चागात्॥ २३/२५॥
तत्रैनमासाद्य च भीमसेनो विजित्य तं बाहुयुद्धे निहत्य। शिरो गुदे पाणिपादौ च तस्य प्रवेशयामास विमृद्य वीरः॥ २३/२६॥
अवध्यं तं निहतं वीक्ष्य तस्य पञ्चोत्तरं शतमेवानुजानाम्। सर्वं वराच्छङ्करस्य ह्यवध्यं सहैव कृष्णां तेन दग्धुं बबन्ध॥ २३/२७॥
सा नीयमाना कीचकैः संरुराव श्रुत्वैव तं भीमसेनो महान्तम्। उद्धृत्य वृक्षं तेन जघान सर्वानादाय कृष्णां पुनरागात् गृहं च॥ २३/२८॥
एवं यत्नात् तपसा तैरवाप्तो वरः शिवादजयत्वं रणेषु। अवध्यता चैव षडुत्तरास्ते शतं हता भीमसेनेन सङ्ख्ये॥ २३/२९॥
गन्धर्व इत्येव निहत्य सर्वान् मुमोद भीमो द्रौपदी चाथ कृष्णाम्। याहीत्यूचे सा सुदेष्णा भयेन त्रयोदशाहं पालयेत्याह तां सा॥ २३/३०॥
अस्त्वित्येनामाह भयात् सुदेष्णा तथाऽवसन् पूर्णमब्दं च तेऽत्र।
तदा पार्थान् प्रविचिन्त्याखिलायां पृथ्व्यां छन्नान् धार्तराष्ट्रस्य दूताः। अविज्ञाय प्रययुर्धार्तराष्ट्रमूचुर्हतं कीचकं योषिदर्थे॥ २३/३१॥
तेनावदद् द्रौपदीकारणेन दुर्योधनो निहतं कीचकं तम्। भीमेनागुस्तत्र दुर्योधनाद्या भीष्मादिभिः सह कर्णेन चैव॥ २३/३२॥
अग्रे ययौ तत्र योद्धुं सुशर्मा स गा विराटस्य समाजहार। श्रुत्वा विराटोऽनुययौ ससैन्यस्तं पाण्डवाश्‍चानुययुर्विनाऽर्जुनम्॥ २३/३३॥
विजित्य सङ्ख्ये जगृहे विराटं तदा सुशर्मा तमयाद् वृकोदरः। स तस्य सेनां विनिहत्य मात्स्यं विमोच्य जग्राह सुशर्मराजम्। युधिष्ठिरो मोचयामास तं च ततो रात्रौ न्यवसन् बाह्यतस्ते॥ २३/३४॥
ततोऽपरदिने सर्वे भीष्मद्रोणपुरःसराः। रहितं कीचकैर्मात्स्यं शक्यं मत्वाऽभिनिर्ययुः॥ २३/३५॥
कीचकस्य हिडिम्बस्य बककिर्मीरयोरपि। जरासन्धस्य नृपतेः कंसादीनां च सर्वशः॥ २३/३६॥
न बाधनाय भीष्माद्या अपि शेकुः कथञ्चन। तस्मात् ते कीचकं शान्तं श्रुत्वा मात्स्यं ययुर्युधे॥ २३/३७॥
यतिष्ये रक्षितुं भीमाद्धार्तराष्ट्रानिति स्वकाम्। सत्यां कर्तुं प्रतिज्ञां तु ययौ द्रोणः सपुत्रकः॥ २३/३८॥
यदि युद्धाय निर्यान्ति ज्ञाताः स्युः पाण्डवास्तदा। न चेद् विराटमनतं नमयिष्यामहे वयम्। इति मत्वा विराटस्य जगृहुर्गाः समन्ततः॥ २३/३९॥
तदोत्तरः सारथित्वे प्रकल्प्य पार्थं ययौ तान्निशाम्यैव भीतः। ततोऽर्जुनः सारथिं तं विधाय कृच्छ्रेण संस्थाप्य च तान् ययौ कुरून्॥ २३/४०॥
आदाय गाण्डीवमथ ध्वजं च हनूमदङ्कं सदरोऽग्रतो गाः। निवर्त्य युद्धाय ययौ कुरूंस्तान् जिग्ये सर्वान् द्वैरथेनैव सक्तान्॥ २३/४१॥
एकीभूतान् पुनरेवानुयातान् सम्मोहनास्त्रेण विमोहयित्वा। जग्राह तेषामुत्तरीयाण्यृते तु भीष्मस्य वेदास्त्रघातं स एव॥ २३/४२॥
विधाय भीष्मं विरथं जगाम तदा श्रुत्वा मत्स्यपतिर्जितान् कुरून्। मुमोद पुत्रेण जिता इति स्म तदाऽऽह षण्डेन जितान् युधिष्ठिरः॥ २३/४३॥
तदा क्रुद्धः प्राहरत् तं विराटः सोऽक्षेण तद् भीमधनञ्जयाभ्याम्। श्रुतं तदा कुपितौ तौ निशाम्य न्यवारयत् तावपि धर्मसूनुः॥ २३/४४॥
निजस्वरूपेण समास्थितान् नो यदि स्म नासौ प्रणिपातपूर्वकम्। क्षमापयेद् वध्य इत्यात्मरूपं समास्थितास्तस्थुरथापरे दिने॥ २३/४५॥
तदा विराटासनमास्थितं नृपं युधिष्ठिरं वीक्ष्य विराट आह। किमेतदित्यूचिवानुत्तरोऽस्मै तान् पाण्डवान् गोग्रहणे च वृत्तम्॥ २३/४६॥
ततो विराटो भयकम्पिताङ्गः प्रणम्य पार्थान् शरणं जगाम। ददौ च कन्यामुत्तरां फल्गुनाय पुत्रार्थमेव प्रतिजग्राह सोऽपि॥ २३/४७॥
एवं विराटं मोचयित्वैव गाश्‍च तमस्यन्धे कीचकान् पातयित्वा। प्राप्तो धर्मः सुमहान् वायुजेन तस्यानु पार्थेन च गोविमोक्षणात्॥ २३/४८॥
अयातयन् केशवायाथ दूतान् सहाभिमन्युः सोऽपि रामेण सार्धम्। आगादनन्तानन्दचिद् वासुदेवो विवाहयामासुरथाभिमन्युम्॥ २३/४९॥
आसीन्महानुत्सवस्तत्र तेषां दाशार्हवीरैः सह पाण्डवानाम्। सपाञ्चालानां वासुदेवेन सार्धमज्ञातवासं समतीत्य मोदताम्॥ २३/५०॥
दुर्योधनाद्या सूतपुत्रेण सार्धं ससौबलेया युधि पार्थपीडिताः। भीष्मादिभिः सार्धमुपेत्य नागपुरं मन्त्रं मन्त्रयामासुरत्र॥ २३/५१॥
अज्ञातवासे फल्गुनो नोऽद्य दृष्टस्तस्मात् पुनर्यान्तु पार्था वनाय। इति ब्रुवाणानाह भीष्मोऽभ्यतीतमज्ञातवासं द्रोण आहैवमेव॥ २३/५२॥
तयोर्वाक्यं ते त्वनादृत्य पापा वनं पार्थाः पुनरेव प्रयान्तु। इति स्म दूतं प्रेषयामासुरत्र जानन्ति विप्रा इति धर्मजोऽवदत्॥ २३/५३॥
सौरमासानुसारेण धार्तराष्ट्रा अपूर्णताम्। आहुश्‍चान्द्रेण मासेन पूर्णः कालोऽखिलोऽप्यसौ॥ २३/५४॥
दिनानामधिपः सूर्यः पक्षमासाब्दपः शशी। तस्मात् सौम्याब्दमेवात्र मुख्यमाहुर्मनीषिणः॥ २३/५५॥
सौम्यं कालं ततो यज्ञे गृह्णन्ति नतु सूर्यजम्। तदेतदविचार्यैव लोभाच्च धृतराष्ट्रजैः॥ २३/५६॥
राज्यंं न दत्तं पार्थेभ्यः पार्थाः कालस्य पूर्णताम्। ख्यापयन्तो विप्रवरैरुपप्लाव्यमुपाययुः॥ २३/५७॥
सवासुदेवा अखिलैश्‍च यादवैः पाञ्चालमात्स्यैश्‍च युताः सभार्याः। उपप्लाव्ये ते कतिचिद् दिनानि वासं चक्रुः कृष्णसंशिक्षितार्थाः॥ २३/५८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये विराटपर्वकथानिरूपणं नाम त्रयोविंशोऽध्यायः समाप्तः॥
चतुर्विंशोऽध्यायः
ततः सम्मन्त्र्यानुमते कृष्णस्य स्वपुरोहितम्। द्रुपदः प्रेषयामास धृतराष्ट्राय शान्तये॥ २४/१॥
स गत्वा धृतराष्ट्रं तं भीष्मद्रोणादिभिर्युतम्। उवाच न विरोधस्त उत्पाद्यो धर्मसूनुना। यस्य भीमार्जुनौ योधौ नेता यस्य जनार्दनः॥ २४/२॥
श्रुतास्ते भीमनिहता जरासन्धादयोऽखिलाः। यथा च रुद्रवचनादवध्या राक्षसाधिपाः॥ २४/३॥
तीर्थविघ्नकराः सर्वे तीर्थान्याच्छाद्य संस्थिताः। तिस्रः कोट्यो महावीर्या भीमेनैव निषूदिताः॥ २४/४॥
भ्रातॄणां ब्राह्मणानां च लोकानां च हितैषिणा। ततो हि सर्वतीर्थानि गम्यान्यासन् नृणां क्षितौ॥ २४/५॥
यथा जटासुरः पापः शर्वाणीवरसंश्रयात्। अवध्यो विप्ररूपेण वञ्चयन्नेव पाण्डवान्॥ २४/६॥
ज्ञात्वाऽपि भीमसेनेन विप्ररूपस्य नो वधः। योग्य इत्यहतो भीमे मृगयार्थं गते क्वचित्॥ २४/७॥
यमौ युधिष्ठिरं कृष्णां चादायैव पराद्रवत्। दृष्टो भीमेन तांस्त्यक्त्वा संसक्तस्तेन सङ्गरे॥ २४/८॥
निपात्य भूमौ पादेन सञ्चूर्णितशिरास्तमः। जगाम किमु ते पुत्राः शक्या हन्तुमिति स्म ह॥ २४/९॥
निवातकवचाश्‍चैव हताः पार्थेन ते श्रुताः। जानासि च हरेर्वीर्यं यस्येदमखिलं वशे। सब्रह्मरुद्रशक्राद्यं चेतनाचेतनात्मकम्॥ २४/१०॥
तस्मादेतैः पालितस्य धर्मजस्य स्वकं वसु। दीयतामिति तेनोक्तो धृतराष्ट्रो नचाकरोत्॥ २४/११॥
ततः सहैव यदुभिः कृष्णं द्वारवतीं गतम्। युद्धसाहाय्यमिच्छन्तौ धार्तराष्ट्रधनञ्जयौ॥ २४/१२॥
युगपद् ययतुस्तत्र वेगेनाजयदर्जुनम्। दुर्योधनः शिरस्थान आसीनोऽभूद्धरेस्तदा॥ २४/१३॥
दर्पान्नाहं राजराज उपास्ये पादयोरिति। तयोरागमनं पूर्वं ज्ञात्वैव हि हरिः प्रभुः॥ २४/१४॥
असुप्तः सुप्तवच्छिश्ये तत्रातिष्ठद् धनञ्जयः। प्रणम्य पादयोः प्रह्वो भक्त्युद्रेकात् कृताञ्जलिः॥ २४/१५॥
तमैक्षत् प्रथमं देवो जानन्नपि सुयोधनम्। स्वागतं फल्गुनेत्युक्ते पूर्वमागामहं त्विति। आह दुर्योधनस्तं च स्वागतेनाभ्यपूजयत्॥ २४/१६॥
तयोरागमने हेतुं श्रुत्वा प्राह जनार्दनः। एकः पूर्वागतोऽत्रान्यः पूर्वदृष्टो मया यतः॥ २४/१७॥
समं करिष्ये युवयोरेकत्राहं निरायुधः। अन्यत्र दशलक्षं मे पुत्राः शूराः पदातयः॥ २४/१८॥
इत्युक्ते फल्गुनः कृष्णं वव्रे तद्भक्तिमान् यतः। अन्यस्तत्राभक्तिमत्त्वाद् वव्रे गोपान् प्रयुद्ध्यतः॥ २४/१९॥
पार्थानामेव साहाय्यं करिष्यन्नपि केशवः। तस्याभक्तिं दर्शयितुं चक्रे समवदीश्‍वरः॥ २४/२०॥
ततः पार्थेन सहितः पाण्डवान् केशवो ययौ।
दुर्योधनो ययौ रामं स भयात् केशवस्य च। न साहाय्यं करोमीति प्राह तत्स्नेहवानपि॥ २४/२१॥
उपप्लाव्ये सभायां हि तत्पक्षीयं वचो ब्रुवन्। निराकृतः सात्यकिना समक्षं केशवस्य च॥ २४/२२॥
ततो दुर्योधनं नायात् स च हार्दिक्यसंयुतः।
जगाम हस्तिनपुरमक्षौहिण्यो दशाभवन्। एका च धार्तराष्ट्रस्य नानादेश्यैर्नृपैर्युताः॥ २४/२३॥
सप्त पाण्डुसुतानां च मात्स्यद्रुपदकैकयैः। धृष्टकेतुजरासन्धसुतकाशीनृपैर्युताः॥ २४/२४॥
पुरुजित् कुन्तिभोजश्‍च चेकितानश्‍च सात्यकिः। पाण्डवान् सेनया युक्ताः समीयुर्देवपक्षिणः॥ २४/२५॥
विन्दानुविन्दावावन्त्यौ जयत्सेनोऽन्यकैकयाः। क्षेमधूर्तिर्दण्डधरः कलिङ्गोऽम्बष्ठ एव च॥ २४/२६॥
श्रुतायुरच्युतायुश्‍च बृहद्बलसुदक्षिणौ। श्रुतायुधः सैन्धवश्‍च राक्षसोऽलम्बुसस्तथा॥ २४/२७॥
अलायुधोऽलम्बलश्‍च दैत्या दुर्योधनं ययुः। गत्वा दुर्योधनाहूतो भगदत्तोऽपि तं ययौ॥ २४/२८॥
सपुत्रपौत्रो बाह्लीको भीष्मद्रोणकृपा अपि। प्रीत्यर्थं धृतराष्ट्रस्य बभूवुस्तत्सुतानुगाः॥ २४/२९॥
पाण्ड्यश्‍च वीरसेनाख्यः पाण्डवानेव संश्रितः।
शल्यं च पाण्डवानेव यान्तं ज्ञात्वा सुयोधनः। सुसभाः कारयामास सर्वभोगसमन्विताः॥ २४/३०॥
ता युधिष्ठिरकॢप्ताः स मत्वा शल्योऽब्रवीदिदम्। य एताः कारयामास तदभीष्टं करोम्यहम्॥ २४/३१॥
लीनः श्रुत्वा धार्तराष्ट्रः सत्यं कुर्वित्यभाषत। देहि मे युद्धसाहाय्यमिति सोऽपि यशोऽर्थयन्। रक्षार्थमात्मवाक्यस्य तथेत्येवाभ्यभाषत॥ २४/३२॥
स पाण्डवांस्ततो गत्वा तैरनुज्ञात एव च। तेजोवधार्थं कर्णस्य धनञ्जयकृतेऽर्थितः। तथेत्युक्त्वा ययौ धर्मनन्दनं कौरवान् प्रति॥ २४/३३॥
सञ्जयं प्रेषयामास धृतराष्ट्रोऽथ शान्तये। पाण्डवान् प्रत्यधर्मं च युद्धं स प्रत्यपादयत्॥ २४/३४॥
हठवादेऽवदद् भीमो यं धर्मं द्रौपदी तथा। तमेवोक्त्वा धर्मजस्तु चकार च निरुत्तरम्। कृष्णोऽपि तस्य धर्मस्य प्रामाण्यं प्रत्यपादयत्॥ २४/३५॥
ततो निरुत्तरः कृष्णं पाण्डवांश्‍च प्रणम्य सः। धृतराष्ट्रं ययौ तं च विनिन्द्य प्रययौ गृहम्॥ २४/३६॥
निन्दितः सञ्जयेनासावाहूय विदुरं निशि। पप्रच्छ सोऽवदद् धर्मं पार्थानां राज्यदापनम्॥ २४/३७॥
ऐहिकस्य सुखस्यापि कारणं तदनिन्दितम्। अन्यथा सर्वपुत्राणां नाशं धर्मातिलङ्घनम्॥ २४/३८॥
तत्र भावमकृत्वा स ज्ञानादिच्छन्नघक्षयम्। विष्णोः स्वरूपं पप्रच्छ सोऽस्मरच्च सनातनम्॥ २४/३९॥
स आगत्यावदत् तत्त्वं विष्णोर्मायाविनः शुभा।
न गतिश्‍चेत्यथ प्रातः सञ्जयः पाण्डवोदितम्। अवदद् धृतराष्ट्राय सभायां कुरुसन्निधौ॥ २४/४०॥
तच्छ्रुत्वा स तु भीतोऽपि पुत्रस्नेहानुगो नृपः।
राज्यं नादात् पाण्डवानां ततो धर्मसुतो नृपः॥ २४/४१॥
यदुक्तवान् सञ्जयाय यदि दित्सति नः पिता। राज्यं तदा त्वमागच्छ विदुरो वा न चेन्नच। तावथानागतौ ज्ञात्वा मन्त्रयामास शौरिणा॥ २४/४२॥
सोऽप्याहाहं गमिष्यामि सभायामृषिसन्निधौ। वक्ष्ये पथ्यानि युक्तानि यदि नासौ ग्रहीष्यति। वध्यः सर्वस्य लोकस्य स भवेत् सर्वधर्महा॥ २४/४३॥
इत्युक्तो वैरमात्मोत्थं लोकमध्ये प्रहापयन्। लोकसङ्ग्रहणार्थाय भीमसेनोऽब्रवीद् वचः॥ २४/४४॥
नास्मन्निमित्तनाशः स्यात् कुलस्यापि वयं कुलम्। रक्षितुं धार्तराष्ट्रस्य भवेमाधश्‍चरा इति॥ २४/४५॥
इच्छताऽप्यखिलान् हन्तुं धार्तराष्ट्रान् दृढात्मना। भीमेनोक्तो वासुदेवो लोकसङ्ग्रहणेच्छया॥ २४/४६॥
वधं तेषां धर्ममेव लोके ख्यापयितुं हरिः। आक्षिपन्निव भीमं तं युद्धाय प्रैरयद् दृढम्॥ २४/४७॥
अभिप्रायं केशवस्य जानन् भीमो निजं बलम्। राज्ञां मध्येऽवदत् तच्च कृष्णोऽभ्यधिकमेव हि॥ २४/४८॥
शशंस सत्यैः सद्वाक्यै राज्ञां मध्ये प्रकाशयन्। वधं कुरूणां सद्धर्मं गुणान् भीमस्य चामितान्॥ २४/४९॥
नित्यमेकमनस्कौ तावपि केशवमारुती। एवं लोकस्य संवादहेतोः संवादमक्रताम्॥ २४/५०॥
ततः कृष्णोऽर्जुनं चैव कृपालुं सन्धिकामुकम्। हेतुमद्भिः शुभैर्वाक्यैरनुनीय जगत्पतिः। उक्तो मानुषया बुद्ध्या नकुलेन सुनीतिवत्॥ २४/५१॥
शौर्यप्रकाशनायैव युद्धं योजयताद् भवान्। इत्युक्तः सहदेवेन युयुधानेन चाच्युतः॥ २४/५२॥
दस्यूनां निग्रहो धर्मः क्षत्रियाणां यतः परः। अतो न धार्तराष्ट्रैर्नः सन्धिः स्यादिति पार्षती। जगाद कृष्णं सोऽप्येनामोमित्युक्त्वा विनिर्ययौ॥ २४/५३॥
ससात्यकिः स्यन्दनवर्यसंस्थितः पृथातनूजैरखिलैः स भूमिपैः। अन्वागतो दूरतरं गिरा तान् संस्थाप्य विप्रप्रवरैः कुरून् ययौ॥ २४/५४॥
एकोऽपि विष्णुः स तु भार्गवात्मा व्यासात्मकश्‍चानुगतो मुनीन्द्रैः। ययौ तदुक्तेर्हि गुणान् प्रवेत्तुं नान्यो हि शक्तस्तमृते यतः प्रभुम्॥ २४/५५॥
स वन्द्यमानोऽखिलराष्ट्रवासिभिः प्रसूनवर्षैरभिवर्षितः सुरैः। संस्तूयमानः प्रणतोऽब्जजादिभिर्गजाह्वयं प्राप परोऽप्रमेयः॥ २४/५६॥
स भीष्ममुख्यैः सरसाभियातः सहैव तैः प्रययौ राजमार्गे। दिदृक्षवस्तं जगदेकसुन्दरं गुणार्णवं प्राययुरत्र सर्वे॥ २४/५७॥
सम्भावितस्तैः परमादरेण विवेश गेहं नृपतेरनन्तः। स भीष्ममुख्यान् पुरतो निधाय वैचित्रवीर्येण समर्चितोऽजः। रौक्मे निषण्णः परमासने प्रभुर्बभौ स्वभासा ककुभोऽवभासयन्॥ २४/५८॥
यथोचितं तेषु विधाय केशवो दौर्योधनं प्राप्य गृहं च पूजितः। पूजां तदीयां गुणवद्द्विडित्यसौ जग्राह नो विदुरं चाजगाम॥ २४/५९॥
स भीष्मपूर्वैरभियाचितोऽपि जगाम नैषां गृहमादिदेवः। उपेक्षिता द्रौपदीत्यप्रमेयो जगाम गेहं विदुरस्य शीघ्रम्॥ २४/६०॥
स तेन भक्त्याऽभिगतः प्रसन्नः प्रविश्य चान्तर्गृहमीश्‍वरोऽजः। भक्त्याऽभिपूर्णेन ससम्भ्रमेण सम्पूजितः सर्वसमर्पणेन॥ २४/६१॥
परे दिनेऽसौ धृतराष्ट्रसूनुना समानीतः संसदि कौरवाणाम्। विवेश दिव्ये मणिकाञ्चनासने सार्द्धं मुनीन्द्रैः परमार्थवेदिभिः॥ २४/६२॥
सम्पूजितो भीष्ममुखैः समस्तै रराज राजीवसमाननेत्रः। यथोचितास्तत्र विधाय वार्ता जगाद काले कलिकल्मषापहः॥ २४/६३॥
वैचित्रवीर्य स्वकुलस्य वृद्ध्यै प्रदेहि राज्यं तव सत्सुताय। यशश्‍च धर्मं परमं प्रसादं मम त्वमाप्नोषि तदैव राजन्। अतोऽन्यथा यशसो धर्मतश्‍च हीनः प्रतीपत्वमुपैषि मेऽतः॥ २४/६४॥
इतीरितः प्राह ममातिवर्तिनं सुतं स्वयं मे प्रतिबोधयेति। स वासुदेवेन विबोधितोऽपि पापाभिसन्धिर्धृतराष्ट्रसूनुः। उत्थाय तस्मादनुजैरमात्यैर्नियन्तुमीशं कुमतिर्व्यधान्मतिम्॥ २४/६५॥
येये तदा केशवसंयमाय न्यमन्त्रयंस्ते विबुधप्रतीपाः। अतो विकर्णप्रमुखा अपि स्म वध्यत्वमायन्नशुभां गतिं च॥ २४/६६॥
कर्णः सुरांशोऽपि सुयोधनार्थे न्यमन्त्रयद् भावतो नैव दुष्टः। अतो गतिश्‍चास्य सुशोभनाऽभूद् येऽत्रानुकूलाः परमस्य ते शुभाः॥ २४/६७॥
ऋषिभिर्जामदग्न्येन व्यासेनाप्यमितौजसा। वासुदेवात्मकेनैवं त्रिरूपेणैव विष्णुना॥ २४/६८॥
मातापितृभ्यां भीष्माद्यैरनुशिष्टोऽपि दुर्मतिः। दुर्योधनो मन्त्रयते मुकुन्दस्यानुबन्धनम्॥ २४/६९॥
सात्यकिः कृतवर्मा च तच्छुश्रुवतुरञ्जसा। संस्थाप्य कृतवर्माणं रहः सात्यकिरत्र च। अभ्येत्य केशवं प्राह दुर्योधनविनिश्‍चयम्॥ २४/७०॥
जानन्नप्यखिलं कृष्णस्तच्छ्रुत्वा सात्यकेर्मुखात्। वैचित्रवीर्यमवदत् पश्य मामिति सर्वगम्॥ २४/७१॥
अथ तेनाहुते पुत्रे सामात्ये पुरुषोत्तमः। स्वरूपं दर्शयामास सर्वगं पूर्णषड्गुणम्॥ २४/७२॥
तत् कालसूर्यामितदीप्तिसर्वजगद्भरं शाश्‍वतमप्रमेयम्। दृष्ट्वैव चक्षूंषि सुयोधनाद्या न्यमीलयन् दीधितिवारितानि॥ २४/७३॥
पिधाय रूपं पुनरेव तद्धरिर्वैचित्रवीर्येण समर्थितः पुनः। कृत्वाऽन्धमेव प्रययौ सुयोधनं सहानुगं पापतमं प्रकाश्य॥ २४/७४॥
अनन्तशक्तिः पुरुषोत्तमोऽसौ शक्तोऽपि दुर्योधनचित्तनिग्रहे। नैव व्यधादेनमथोक्तकारिणं निपातयन्नन्धतमस्यनन्तः॥ २४/७५॥
पुनश्‍च कुन्तीगृहमेत्य कृष्णस्तथोद्योगं धर्मसुतस्य शिष्टम्। श्रुत्वा ययौ सूर्यजमात्मयाने निधाय तस्यावददात्मजन्म॥ २४/७६॥
आयाहि पार्थानिति तद्वचः स नैवाकरोन्मानितो धार्तराष्ट्रैः। संस्थाप्य तं भगवान् द्रौणये च रहोऽवदन्मित्रभावं पृथाजैः॥ २४/७७॥
यावत् पितुर्मरणं सोऽपि मैत्रीं वव्रे पार्थैस्तं च विसृज्य कृष्णः। ययौ कुरून् पूर्वमेवोद्विसृज्य पृथासुतानां स सकाशमीशः॥ २४/७८॥
सम्प्रार्थितः पृथया चैव कर्णः पार्थैर्योगं याहि सूनुर्ममासि। तेनाप्युक्ता वासविना विनाऽहं हन्यां सुतांस्ते न कथञ्चनेति॥ २४/७९॥
ततो ययुः कौरवाः पाण्डवाश्‍च कुरुक्षेत्रं योद्धुकामाः सकृष्णाः। चक्रुश्‍च ते शिबिराण्यत्र सर्वे शुभे देशे पाण्डवाः कृष्णबुद्ध्या॥ २४/८०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये युद्धोद्योगो नाम चतुर्विंशोऽध्यायः समाप्तः॥
पञ्चविंशोऽध्यायः
ते सेने समरारम्भे समेते सागरोपमे। भीमभीष्ममुखे वीक्ष्य प्राह वासविरच्युतम्॥ २५/१॥
“सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत।” इत्युक्तः स तथा चक्रे पार्थः पश्यंश्‍च बान्धवान्। विससर्ज धनुः पापाशङ्की तत्राह माधवः॥ २५/२॥
स्वधर्मो दुष्टनिधनं धर्मज्ञानानुपालनम्। क्षत्रियस्य तमुत्सृज्य निन्दितो यात्यधो ध्रुवम्॥ २५/३॥
“यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥” २५/४॥
नच शोकस्त्वया कार्यो बन्धूनां निधनेच्छया। देहस्य सर्वथा नाशादनाशाच्चेतनस्य च॥ २५/५॥
सृष्टिस्थित्यप्ययाज्ञानबन्धमोक्षप्रवृत्तयः। प्रकाशनियमौ चैव ब्रह्मेशादिक्षरस्य च। अक्षरप्रकृतेश्चैव मत्त एव नचान्यतः॥ २५/६॥
न मे कुतश्‍चित् सर्गाद्याः स्वातन्त्र्याद् गुणपूर्तितः। अतः समाधिकाभावात् सर्वं मद्वशमेव च॥ २५/७॥
ज्ञात्वैषां निधनाद्यं च जीवादेरस्वतन्त्रताम्। अस्वातन्त्र्यान्निवृत्तौ च मामनुस्मर युद्ध्य च॥ २५/८॥
“ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः। अनन्येनैव योगेन मां ध्यायन्त उपासते॥ २५/९॥
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्। भवामि न चिरात् पार्थ मय्यावेशितचेतसाम्॥” २५/१०॥
“मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि नचाहं तेष्ववस्थितः॥” २५/११॥
सुपूर्णसत्सर्वगुणदेहोऽहं सर्वदा प्रभुः। अस्पृष्टाखिलदौषैकनित्यसत्तनुरव्ययः। इत्युक्तो वासविः प्राह व्याप्तं ते दर्शयेश मे॥ २५/१२॥
अथ दिव्यदृशं तस्य दत्त्वा व्याप्तं निजं वपुः। देशतः कालतश्‍चैव पूर्णं सर्वगुणैः सदा। दर्शयामास भगवान् यावत्यर्जुनयोग्यता॥ २५/१३॥
तत्प्रार्थितः पुनः कृष्णस्तद्रूपं लोकमानतः। पूर्ववद् दर्शयामास पुनश्‍चैनमशिक्षयत्॥ २५/१४॥
ज्ञानज्ञेयप्रकृत्यादि ज्ञापयन् पुरुषोत्तमः। तेनानुशिष्टः पार्थस्तु सशरं धनुराददे॥ २५/१५॥
अथ व्यूढेष्वनीकेषु नदन् वायुसुतोऽभ्ययात्। समितिं धार्तराष्ट्राणां ते तं सर्वेऽभ्यवारयन्। ससृजुः शरवृष्टिं च भीमसेनस्य मूर्धनि॥ २५/१६॥
क्षिप्रं नैव प्रहर्तव्यं ज्ञातिषु प्रहरत्स्वपि। इत्येवाप्रहरत्यस्मिन् शत्रुभिः शरविक्षते॥ २५/१७॥
अमुचन् धार्तराष्ट्रेषु शस्त्रवृष्टिं दुरासदाम्। सौभद्रप्रमुखा वीराः सर्वे पाण्डुसुतात्मजाः॥ २५/१८॥
अपीडयंस्ताञ्छस्त्रौघैर्धार्तराष्ट्राः समन्ततः। ररक्ष तान् वायुसुतो विसृजञ्छरसञ्चयान्॥ २५/१९॥
तत्र भीमशरैर्नुन्ना धार्तराष्ट्राः समन्ततः।
भग्नास्तानथ गाङ्गेयो दिव्यास्त्रविदधारयत्॥ २५/२०॥
अथ द्वन्द्वानि युद्धानि बभूवुर्विजिगीषताम्। द्रोणपार्षतयोश्‍चैव शैनेयकृतवर्मणोः॥ २५/२१॥
दुःशासनेन वीरस्य माद्रेयस्य यवीयसः। नकुलस्य विकर्णस्य कार्ष्णेयैर्दुर्मुखादिनाम्॥ २५/२२॥
वृत्ते द्वन्द्वमहायुद्धे तत्र धर्मजपक्षगाः। जिता विनैव शैनेयं सोऽजयद्धृदिकात्मजम्॥ २५/२३॥
अथ भीष्मद्रोणमुखैर्भगदत्तादिभिस्तथा। विद्राव्यमाणं स्वबलं स्थापयामास मारुतिः॥ २५/२४॥
द्रोणं च भगदत्तं च कृपं दुर्योधनं तथा। केवलं बाहुवीर्येण व्यजयद् भीमविक्रमः।
हत्वोत्तरं मद्रराजो व्यद्रावयदनीकिनीम्॥ २५/२५॥
अथ भीष्ममुदीर्णास्त्रं द्रावयन्तं वरूथिनीम्। ससौमदत्तिं सौभद्रसहायोऽर्जुन आसदत्॥ २५/२६॥
सौभद्रं तत्र विक्रान्तमतीत्य द्युसरित्सुतः। द्रावयामास पाञ्चालान् पश्यतः सव्यसाचिनः॥ २५/२७॥
तस्य विक्रममालक्ष्य पार्थं तद्गौरवानुगम्। दृष्ट्वा युधिष्ठिरो राजा क्रुद्धः सेनामपाहरत्॥ २५/२८॥
रात्रौ युधिष्ठिरश्‍चिन्तामाप्य पार्थं व्यगर्हयत्।
स कृष्णाद्यैः सान्त्वितश्‍च पुनर्युद्धाय निर्ययौ॥ २५/२९॥
एवं भीष्मो दशाहानि सेनापत्यं चकार ह। कृत्वा तु पाण्डवैर्युद्धं तत् कर्तुमकृतोपमम्॥ २५/३०॥
कर्णोऽर्धरथ इत्युक्त्वा तावद् युद्धात् प्रयापितः। यावत् त्वं योत्स्यसे तावन्न योत्स्यामीति निर्गते॥ २५/३१॥
कर्णेऽयुतरथानां च नित्यशो वधमाहवे। प्रतिजज्ञेऽकरोत् तच्च पुनश्‍चास्त्रविदां वरः॥ २५/३२॥
सुसमर्थावपि वधे तस्य भीमधनञ्जयौ। स्नेहेन यन्त्रितौ तस्य गौरवाच्चान्ववर्तताम्॥ २५/३३॥
बभूवुस्तत्र युद्धानि चित्राणि सुबहूनि च। तान्यम्बरे विमानस्था ब्रह्मरुद्रपुरःसराः। अपश्यन् देवताः सर्वा गन्धर्वाप्सरसोऽसुराः॥ २५/३४॥
धृष्टद्युम्नो महेष्वासः प्रतिव्यूह्यापगासुतम्। चक्रे युद्धानि सुबहून्यजेयः शत्रुभी रणे॥ २५/३५॥
तत्रोद्दधार कृष्णोऽपि फल्गुनं मृदुयोधिनम्। दृष्ट्वा चक्रं तथोद्यम्य बाहुं भीष्माय जग्मिवान्॥ २५/३६॥
तेन स्तुतो गृहीतश्‍च फल्गुनेन प्रणम्य च। प्रार्थितो रथमारूढः पुनः शङ्खमपूरयत्॥ २५/३७॥
ततो भीष्मोऽर्जुनश्‍चैव शस्त्रास्त्रैरभ्यवर्षताम्। अयत्नेन जितश्‍चैव फल्गुनेनापगासुतः॥ २५/३८॥
अयुतानि बहून्याजौ रथानां निजघान च। जिताः सेनापहारं च चक्रुर्भीष्ममुखास्ततः॥ २५/३९॥
कदाचिदग्रगो भीमो भीष्मद्रोणौ विसारथी। कृत्वा विद्राव्य तानश्‍वान् भित्त्वा व्यूहं विवेश ह॥ २५/४०॥
पुनः संस्थापितरथौ विजित्यायत्नतो बली। यतमानौ महेष्वासौ धार्तराष्ट्रान् जघान ह। पञ्चविंशद्धतास्तत्र धार्तराष्ट्रा महाबलाः॥ २५/४१॥
भगदत्तद्रौणिकृपशल्यदुर्योधनादयः। सर्वे जिता द्राविताश्‍च सेना च बहुला हता॥ २५/४२॥
विरथो व्यायुधश्‍चैव दृढवेधविमूर्च्छितः। कृतो दुर्योधनः सर्वराज्ञां भीमेन पश्यताम्॥ २५/४३॥
ततोऽपहारं सैन्यस्य जिताश्‍चक्रुश्‍च कौरवाः। दुर्योधनो निशायां च ययौ यत्र नदीसुतः। पीडितो भीमबाणैश्‍च क्षरद्गात्रो ननाम तम्॥ २५/४४॥
उवाच हेतुना केन वयं जीयाम सर्वदा। पाण्डवाश्‍च जयं नित्यं लब्ध्वा हर्षमवाप्नुवन्॥ २५/४५॥
तमाह भीष्मस्तेऽजेया देवास्ते धरणीं गताः। विशेषतः केशवेन पालितास्तत्प्रियाः सदा॥ २५/४६॥
मानसोत्तरशैले हि पुरा ब्रह्मपुरःसराः। स्थिता देवास्तदाऽपश्यद् ब्रह्मैको हरिमम्बरे॥ २५/४७॥
स्तुत्वा सम्पूज्य भूमेः स भारावतारणाय तम्। प्रार्थयामास तेनोक्तं देवानामवदद् विभुः॥ २५/४८॥
अयं नारायणो देवः पूर्णानन्तगुणार्णवः। आज्ञापयति वः सर्वान् प्रादुर्भावाय भूतले। स्वयं च देवकीपुत्रो भविष्यति जगत्पतिः॥ २५/४९॥
एवं तेन समादिष्टा धर्मवाय्वादयोऽखिलाः। अभवन् पाण्डवाद्यास्ते सेन्द्राः सहमरुद्गणाः॥ २५/५०॥
स च नारायणो देवो देवकीनन्दनोऽभवत्। तेनैते पालिताः पार्था अजेया देवसर्गिणः। तस्मात् तैः सन्धिमन्विच्छ यदीच्छस्यपराभवम्॥ २५/५१॥
इत्युक्तो डम्भबुद्ध्यैव नत्वा विष्णुं ततो ययौ। प्रातर्निर्यातयामास सेनां युद्धाय दुर्मतिः॥ २५/५२॥
दिव्यौषधेन भीष्मस्य भूत्वा च निरुजस्ततः। भीष्ममग्रे निधायैव ययौ युद्धाय दंशितः॥ २५/५३॥
तत्रासीद् युद्धमतुलं भीमभीष्मानुयायिनाम्। पाण्डवानां कुरूणां च शूराणामनुवर्तिनाम्॥ २५/५४॥
धृष्टद्युम्नस्तत्र भीमानुयायी दुर्योधनस्यावरजैः प्रयुद्ध्यन्। सम्मोहनास्त्रेण विमोहयित्वा विकर्णपूर्वानहनच्च सेनाम्॥ २५/५५॥
ततो द्रोणस्तान् समुत्थाप्य सर्वान् विज्ञानास्त्रेणासदत् पार्षतं च। तं भीमसेनः सूतहीनं विधाय व्यद्रावयच्छत्रुगणाञ्छरौघैः॥ २५/५६॥
अथासदत् कृतवर्मा रथेन धृष्टद्युम्नं सोऽभ्ययात् तावुभौ च। ववर्षतुः शरवर्षैरथोग्रैस्तत्राकरोद् विरथं द्रौपदिस्तम्॥ २५/५७॥
तस्मिन् जिते रथवीरे स्वयं तं दुर्योधनः पार्षतमाससाद। तं भीमसेनो विरथायुधं च कृत्वा बाणेनाहनज्जत्रुदेशे॥ २५/५८॥
विमूर्च्छितं तं रुधिरौघमुच्चैर्वमन्तमाशु स्वरथे निधाय। कृपो ययौ मारुतिर्धार्तराष्ट्रीं व्यद्रावयत् पृतनां बाणपूगैः॥ २५/५९॥
अथेन्द्रसूनुः केशवप्रेरितेन रथेन शत्रून् विधमञ्छरौघैः। रथान् रणे पञ्चविंशत्सहस्रान् निनाय वैवस्वतसादनाय॥ २५/६०॥
तमन्वयाद् युयुधानः सुधन्वा विद्रावयन् धार्तराष्ट्रस्य सेनाम्। तमभ्ययात् सौमदत्तिस्तयोश्‍च सुयुद्धमासीदतिभैरवास्त्रम्॥ २५/६१॥
पुत्रान् दशास्याशु निहत्य वीरः स सात्यकेः सौमदत्तिः सकाशे। समर्दयामास शरीरदारणैः शरैरुभौ तौ विरथौ च चक्रतुः॥ २५/६२॥
अथासिपाणिं युयुधानमाशु महासिहस्तेन च सौमदत्तिना। आसादितं वीक्ष्य रथं स्वकीयमारोपयामास सुतोऽनिलस्य॥ २५/६३॥
सुयोधनः सौमदत्तिं स्वकीयरथे व्यवस्थाप्य च भीमसेनात्।
अपाद्रवद् वासविर्भीष्ममाजौ समाससादाशु महेन्द्रकल्पः॥ २५/६४॥
उभौ च तावस्त्रविदां प्रबर्हौ शरैर्महाशीविषसन्निकाशैः। ततक्षतुर्नाकसदां समक्षं महाबलौ संयति जातदर्पौ॥ २५/६५॥
स्वबाहुवीर्येण जितः स भीष्मः किरीटिना लोकमहारथेन। सेनामपाहृत्य ययौ निशायामासादितायामथ पाण्डवाश्‍च॥ २५/६६॥
ततः परेद्युः पुनरेव भीमभीष्मौ पुरस्कृत्य समीयतुस्ते। सेने तदा सारथिहीनमाशु भीष्मं कृत्वा मारुतिरभ्यगात् परान्। निपातितास्तेन रथेभवाजिनः प्रदुद्रुवुश्‍चावशिष्टाः समस्ताः॥ २५/६७॥
दुर्योधनाद्येषु पराजितेषु भीष्मद्रोणद्रौणिपुरःसरेषु। महागजस्थो भगदत्त आगादायन् बाणं भीमसेनेऽमुचच्च॥ २५/६८॥
तेनातिविद्धे भीमसेनेऽस्य पुत्र उद्यच्छमानं पितरं निवार्य। घटोत्कचोऽभ्यद्रवदाशु वीरः स्वमायया हस्तिचतुष्टयस्थः॥ २५/६९॥
स वैष्णवास्त्रं भगदत्तसंस्थं विज्ञाय विष्णोर्वरतो विशेषतः। अमोघमन्यत्र हरेर्मरुत्सुतः पुत्रे याते न स्वयमभ्यधावत्॥ २५/७०॥
अनुग्रहादभ्यधिकादवध्यं जानन्नपि स्वं वासुदेवस्य नित्यम्। तद्भक्तिवैशेष्यत एव तस्य सत्यं वाक्यं कर्तुमरिं नचागात्। यदा स्वपुत्रेण जितो भवेत् स किम्वात्मनेत्येव तदा प्रवेत्तुम्॥ २५/७१॥
स विस्मृतास्त्रस्तु यदा भवेत तदा भीमो भगदत्तं प्रयाति। ऋते भीमं वाऽर्जुनं नास्त्रमेष प्रमुञ्चतीत्येव हि वेद भीमः॥ २५/७२॥
चतुर्गजात्मोपरिगात्मकश्‍च घटोत्कचः सुप्रतीकं च तं च। नानाप्रकारैर्वितुदंश्‍चकार सन्दिग्धजीवौ जगतः समक्षम्॥ २५/७३॥
गजार्तनादं तु निशम्य भीष्ममुखाः समापेतुरमुं च दृष्ट्वा। महाकायं भीमममुष्य पृष्ठगोपं च वाय्वात्मजमत्रसन् भृशम्। ते भीतभीताः पृतनापहारं कृत्वाऽपजग्मुः शिबिराय शीघ्रम्॥ २५/७४॥
दिने परे चैव पुनः समेताः परस्परं पाण्डवकौरवास्ते। तत्रासदन्नागसुतासमुद्भवः पार्थात्मजः शाकुनेयान् षडेकः॥ २५/७५॥
तैः प्रासहस्तैः क्षतकायोऽतिरूढकोपः स खड्गेन चकर्त तेषाम्। शिरांसि वीरो बलवानिरावान् भयं दधद् धार्तराष्ट्रेषु चोग्रम्॥ २५/७६॥
दृष्ट्वा तमुग्रं धृतराष्ट्रपुत्रो दिदेश रक्षोऽलम्बुसनामधेयम्। जह्यार्जुनिं क्षिप्रमिति स्म तच्च समासदन्नागसुतातनूजम्॥ २५/७७॥
तयोरभूद् युद्धमतीव दारुणं मायायुजोर्वीर्यवतोर्महाद्भुतम्। ससादिनोऽश्‍वान् स तु राक्षसोऽसृजत् ते पार्थपुत्रस्य च सादिनोऽहनन्। ततस्त्वनन्ताकृतिमाप्तमार्जुनिं सुपर्णरूपोऽहनदाशु राक्षसः॥ २५/७८॥
हतं निशम्यार्जुनिमुग्रपौरुषो ननाद कोपेन वृकोदरात्मजः। चचाल भूर्नानदतोऽस्य रावतः ससागरागेन्द्रनगा भृशं तदा॥ २५/७९॥
अलम्बुसस्तं प्रसमीक्ष्य मारुतेः सुतं बलाढ्यं भयतः पराद्रवत्। पराद्रवत् धार्तराष्ट्रस्य सेनाः सर्वास्तमाराथ सुयोधनो नृपः॥ २५/८०॥
स भीमपुत्रस्य जघान मन्त्रिणो महाबलांश्‍चतुरोऽन्यांस्तथैव। हतावशेषेषु च विद्रवत्सु घटोत्कचोऽभ्याहनदाशु तं नृपम्॥ २५/८१॥
स पीड्यमानो युधि तेन रक्षसा प्रवेशयामास शरं घटोत्कचे। दृढाहतस्तेन तदा बलीयसा घटोत्कचः प्रव्यथितेन्द्रियो भृशम्। तस्थौ कथञ्चिद् भुवि पात्यमानः पुनः शरानप्यसृजत् सुयोधने॥ २५/८२॥
चिरं प्रयुद्धौ नृपराक्षसाधिपौ परस्पराजेयतनू रणाजिरे।
द्रोणादयो वीक्ष्य रिरक्षिषन्तः सुयोधनं प्रापुरमित्रसाहाः॥ २५/८३॥
स द्रोणशल्यौ गुरुपुत्रगौतमौ भूरिश्रवःकृतवर्मादिकांश्‍च। ववर्ष बाणैर्गगनं समाश्रितो घटोत्कचः स्थूलतमैः सुवेगैः॥ २५/८४॥
तमेकमग्र्यै रथिभिः परिष्कृतं निरीक्ष्य भीमोऽभ्यगमत् समस्तान्। द्रोणोऽत्र भीमप्रहितैः शरोत्तमैः सुपीडितः प्राप्तमूर्च्छः पपात॥ २५/८५॥
द्रौणिं कृपाद्यान् ससुयोधनांश्‍च चकार भीमो विरथान् क्षणेन। निवार्यमाणांस्तु वृकोदरेण घटोत्कचस्तान् प्रववर्ष सायकैः॥ २५/८६॥
तेनाम्बरस्थेन तरुप्रमाणैरभ्यर्दिताः कुरवः सायकौघैः। भूमौ च भीमेन शरौघपीडिताः पेतुर्नेदुः प्राद्रवंश्‍चातिभीताः॥ २५/८७॥
सर्वांश्‍च ताञ्छिबिरं प्रापयित्वा विना भीष्मं कौरवान् भीमसेनः। घटोत्कचश्‍चानदतां महास्वनौ नादेन लोकानभिपूरयन्तौ॥ २५/८८॥
दुर्योधनोऽथ स्वजनैः समेतः पुनः प्रायाद् रणभूणिं स भीष्मम्। जयोपायं भैमसेनेरपृच्छत् स्वस्यैव स प्राह न तं व्रजेति॥ २५/८९॥
प्राग्ज्योतिषं चैव घटोत्कचाय सम्प्रेषयामास सुरापगासुतः। स प्राप्य हैडिम्बमयोधयद् बली स चार्दयामास सकुञ्जरं तम्॥ २५/९०॥
तेनार्दितः प्राहिणोच्छूलमस्मै वियत्यवप्लुत्य तदा घटोत्कचः। प्रगृह्य शूलं प्रबभञ्ज जानुमारोप्य देवा जहृषुस्तदीक्ष्य॥ २५/९१॥
तदा स तस्यैव पदानुगान् नृपो जघान तं मारुतिरभ्ययाद् रणे। स प्राहिणोद् भीमसेनाय वीरो गजं तमस्तम्भयदाशु सायकैः॥ २५/९२॥
संस्तम्भिते बाणवरैस्तु नागे भीमस्याश्‍वान् सायकैरार्दयत् सः। सोऽभ्यर्दिताश्‍वोऽथ गदां प्रगृह्य हन्तुं नृपं तं सगजं समासदत्॥ २५/९३॥
स हन्तुकामेन रुषाऽभिपन्नो भीमेन राजा पुरतः पृष्ठतश्‍च। कृष्णेनास्त्रं वैष्णवं तद् गृहीतुं सहार्जुनेनापययौ स भीतः॥ २५/९४॥
तस्मिन् गते भीमसेनार्जुनाभ्यां विद्राविते राजसङ्घे समस्ते। भीष्मः सेनामपहृत्यापयातो दुर्योधनस्तं निशि चोपजग्मिवान्॥ २५/९५॥
संश्रावितः क्रूरवचः स तेन चक्रे प्रतिज्ञां मृत्युभयं विहाय। शक्त्या हनिष्यामि परानिति स्म चक्रे च तत् कर्म तथा परेद्युः॥ २५/९६॥
तं शक्तितो जुगुपुर्धार्तराष्ट्रास्तेनार्दिताश्‍चेदिपाञ्चालमत्स्याः। पराद्रवन् भीष्मबाणोरुभीताः सिंहार्दिताः क्षुद्रमृगा इवार्ताः॥ २५/९७॥
संस्थाप्य तान् भीष्ममभिप्रयान्तमलम्बुसोऽवारयत् पार्थसूनुम्। विजित्य तं केशवभागिनेयो भीष्मं ययौ धार्तराष्ट्रोऽमुमार॥ २५/९८॥
तद् युद्धमासीन्नृपपार्थपुत्रयोर्विचित्रमत्यद्भुतमुग्ररूपम्। समं चिरं तत्र धनुश्‍चकर्त ध्वजं च राजा सहसाऽभिमन्योः॥ २५/९९॥
अथैनमुग्रैश्‍च शरैर्ववर्ष सूतं च तस्याशु जघान वीरः।
तदाऽसदद् भीमसेनो नृपं तं जघान चाश्‍वान् धृतराष्ट्रजस्य॥ २५/१००॥
द्रोणो द्रौणिर्भगदत्तः कृपश्‍च सचित्रसेना अभ्ययुर्भीमसेनम्। सर्वांश्‍च तान् विमुखीकृत्य भीमः स चित्रसेनाय गदां समाददे॥ २५/१०१॥
तामुद्यतां वीक्ष्य पराद्रवंस्ते स चित्रसेनश्‍च रथादवप्लुतः। सञ्चूर्णितो गदया तद्रथश्‍च तज्जीवनेनोद्धृषिताश्‍च कौरवाः॥ २५/१०२॥
भीष्मस्तु पाञ्चालकरूशचेदिष्वहन् सहस्त्राणि चतुर्दशोग्रः। रथप्रबर्हानतितिग्मतेजा विद्रावयामास परानवीनिव॥ २५/१०३॥
विद्राव्य सर्वामपि पाण्डुसेनां विश्राव्य लोकेषु च कीर्तिमात्मनः। सेनामपाहृत्य ययौ निशागमे संस्तूयमानो धृतराष्ट्रपुत्रैः॥ २५/१०४॥
द्रोणो विराटस्य पुरो निहत्य शङ्खं सुतं तस्य विजित्य तं च। विद्राव्य सेनामपि पाण्डवानां ययौ नदीजेन सहैव हृष्टः॥ २५/१०५॥
भीमार्जुनावपि शत्रून् निहत्य विद्राव्य सर्वांश्‍च युधि प्रवीरान्। युधिष्ठिरेणापहृते स्वसैन्ये भीतेन भीष्माच्छिबिरं प्रजग्मतुः॥ २५/१०६॥
युधिष्ठिरो भीष्मपराक्रमेण भीतो भीष्मं स्ववधोपायमेव। प्रष्टुं ययौ निशि कृष्णोऽनुजाश्‍च तस्यान्वयुस्तं स पितामहो यत्॥ २५/१०७॥
भीमार्जुनौ शक्नुवन्तावपि स्म नर्तेऽनुज्ञां हन्तुमिमं समैच्छताम्। पूज्यो यतो भीष्म उदारकर्मा कृष्णोऽप्यायात् तेन हि पाण्डवार्थे॥ २५/१०८॥
प्राप्यानुज्ञां भीष्मतस्ते वधाय शिखण्डिनं तद्वचसाऽग्रयायिनम्। कृत्वा परेद्युर्युधये विनिर्गता भीष्मं पुरस्कृत्य तथा परेऽपि॥ २५/१०९॥
शिखण्डिनो रक्षकः फल्गुनोऽभूद् भीष्मस्य दुःशासन आस चाग्रे। अन्ये च सर्वे जुगुपुर्भीष्ममेव न्यवारयन् भीमसेनादयस्तान्॥ २५/११०॥
भीष्माय यान्तं युयुधानमाजौ न्यवारयद् राक्षसोऽलम्बुसोऽथ। तं वज्रकल्पैरतुदद् वृष्णिवीरः शरैः स मायामसृजत् तदोग्राम्॥ २५/१११॥
अस्त्रेण मायामपनुद्य वीरो व्यद्रावयद् राक्षसं सात्यकिस्तम्। तस्मिन् गते युयुधानो रथेन ययौ भीष्मं पार्थमन्वेव धन्वी॥ २५/११२॥
द्रोणो द्रौणिर्धार्तराष्ट्रश्‍च राजा भूरिश्रवा भगदत्तः कृपश्‍च। शल्यो बाह्लीकः कृतवर्मा सुशर्मा सर्वाश्‍च सेना वारिता वायुजेन॥ २५/११३॥
स तान् मुहुर्विरथीकृत्य वीरः प्राग्ज्योतिषं सगजं द्रावयित्वा। न्यवारयत् फल्गुनं योद्धुकामं पार्थश्‍च देवव्रतमाससाद॥ २५/११४॥
युधिष्ठिरं भीष्ममभिप्रयान्तं माद्रीसुताभ्यां सहितं नृवीरम्। न्यवारयच्छकुनिः सादिनां च युतोऽयुतेनैव वराश्‍वगेन॥ २५/११५॥
तान् सादिनोऽश्‍वांश्‍च निहत्य सर्वान् विजित्य तं शकुनिं पाण्डवास्ते। प्रापुर्भीष्मं द्रौपदेयाश्‍च सर्वे तथा विराटद्रुपदौ कुन्तिभोजः॥ २५/११६॥
धृष्टद्युम्नं भीष्ममभिप्रयान्तं न्यवारयत् सैन्धवस्तं स बाणैः। हताश्‍वसूतं सगणं द्रावयित्वा समासदद् भीष्ममेवाशु वीरः॥ २५/११७॥
गुप्तोऽथ पार्थेन रणे शिखण्डी भीष्मं समासाद्य शरैरताडयत्। भीष्मः स्त्रीत्वं तस्य जानन् न तस्मै मुमोच बाणान् स तु तं तुतोद॥ २५/११८॥
शिखण्डिनं वारयामास बाणैर्दुर्मर्षणोऽमर्षणविह्वलेक्षणः। नात्येतुमेनमशकच्छिखण्डी दुःशासनः पार्थमवारयत् तदा॥ २५/११९॥
स लोकवीरोऽपि दुरात्मनाऽमुना रुद्धोऽशकन्नैनमतीत्य यातुम्। भीष्मं पार्थः सायकाश्‍चास्य तस्मिन् ससज्जिरे पर्वतेष्वप्यसक्ताः॥ २५/१२०॥
अमर्षयुक्तौ चिरमेव वीरावयुद्ध्यतामर्जुनधार्तराष्ट्रौ। समं तदासीन्महदद्भुतं च दिवौकसां पश्यतां भूभृतां च॥ २५/१२१॥
तदा विराटद्रुपदौ कुन्तिभोजं कृष्णासुतान् केकयांश्‍चेकितानम्। भूरिश्रवाः सोमदत्तो विकर्णः सकेकया वारयामासुरुच्चैः॥ २५/१२२॥
जित्वैव तांस्तेऽभिययुश्‍च भीष्मं तदाऽर्जुनोऽतीत्य दुःशासनं च। भीष्मं शरैरार्च्छदरिप्रमाथिभिः शिखण्डिनं धार्तराष्ट्रात् विमुच्य॥ २५/१२३॥
स तैः समस्तैर्बहुभिः शस्त्रपूगैः भृशं मर्मस्वर्दितश्‍चापमुक्तैः। शरैः समस्तान् विरथांश्‍चकार शैनैयपाञ्चालयुधिष्ठिराद्यान्॥ २५/१२४॥
स चेदिपाञ्चालकरूशमुख्यान् रथोत्तमान् पञ्चविंशत्सहस्रान्। सम्प्रेषयामास यमाय बाणैर्युगान्तकालाग्निरिव प्रवृद्धः॥ २५/१२५॥
निरीक्ष्य तं सूर्यमिवातपन्तं सञ्चोदितो वासुदेवेन पार्थः। चिच्छेद तत्कार्मुकं लोकवीरो रणेऽर्धचन्द्रेण स चान्यदाददे॥ २५/१२६॥
चिच्छेद तच्चैवमष्टौ धनूंषि शक्तिं च चर्मासिवरं पराणि च। धनूंषि दत्तानि नृभिर्नृपस्य सर्वाणि चिच्छेद स पाकशासनिः॥ २५/१२७॥
ततः शरैः सूर्यकरप्रकाशैर्विव्याध सर्वे च युधिष्ठिराद्याः। तैरर्दितो न्यपतद् भूतले स प्राणान् दधारापि तथोत्तरायणात्॥ २५/१२८॥
निपातितेऽस्मिन् मारुतिर्द्रोणमुख्यान् विद्राव्य तत्रागमदाशु तेऽपि। तदायुधानि प्रणिधाय वीराः पार्थाः परे चैनमुपासदन् स्म॥ २५/१२९॥
प्रणम्य तं तद्वचनात् समीयुस्तस्मिन् दिने शिबिराण्येव सर्वे। परे दिने सर्व एवोपतस्थुर्भीष्मं यदूनां पतिना सहैव॥ २५/१३०॥
स पूर्वदिवसे पार्थदत्तबाणोपबर्हणः। तदाऽपि तृट्परीतात्मा योग्यं पेयमयाचत॥ २५/१३१॥
धार्तराष्ट्रैरविज्ञातं तदभिज्ञाय वासविः। वारुणास्त्रेण भित्त्वा स भूमिं वारि सुगन्धि च। ऊर्ध्वधारमदादास्ये तर्पितोऽनेन सोऽवदत्॥ २५/१३२॥
यादृश्यस्त्रज्ञता पार्थे दृष्टाऽत्र कुरुनन्दनाः। यादृग् बाह्वोर्बलं भीमे संयुगेषु पुनःपुनः॥ २५/१३३॥
यादृशं चैव माहात्म्यमनन्तमजरं हरेः। विज्ञातं सर्वलोकस्य सभायां दृष्टमेव च॥ २५/१३४॥
उपारमत तद् युद्धं सुखिनः सन्तु भूमिपाः। यथोचितं विभक्तां च भुङ्ग्ध्वं भूपाः सदा भुवम्। इत्युक्तः स ययौ तूष्णीं धार्तराष्ट्रः स्वकं गृहम्॥ २५/१३५॥
व्यासदत्तोरुविज्ञानात् सञ्जयादखिलं पिता। श्रुत्वा तदा पर्यतप्यत् पाण्डवाः कृष्णदेवताः। मुमुदुः शिबिरं प्राप्य सर्वे कृष्णानुमोदिताः॥ २५/१३६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये भीष्मपातो नाम पञ्चविंशोऽध्यायः समाप्तः॥
षड्विंशोऽध्यायः
अथाखिलानां पृथिवीपतीनामाचार्यमग्र्यंं रथिनां सुविद्यम्। रामस्य विश्‍वाधिपतेः सुशिष्यं चक्रे चमूपं धृतराष्ट्रपुत्रः॥ २६/१॥
कर्णोऽपि भीष्मानुमतो धनुष्मान् युद्धोद्यतोऽभूत् तदसत्कृतः पुरा। तस्मिन् स्थितेऽनात्तधनुस्तदैव रथं समास्थाय गुरुं समन्वयात्॥ २६/२॥
द्रोणो वृतो धार्तराष्ट्रेण धर्मसुतग्रहे तेन कृते प्रतिश्रवे। ज्ञात्वा यत्ताः पाण्डवास्तं समीयुर्युद्धाय तत्राभवदुग्रयुद्धम्॥ २६/३॥
पतत्रिभिस्तत्र दुधाव शात्रवान् द्रोणो धनुर्मण्डलमन्त्रनिःसृतैः। तमाससादाशु वृकोदरो नदंस्तमासदन् द्रौणिकृपौ च मद्रराट्॥ २६/४॥
स तान् विधूयाभ्यपतद् रणेऽग्रणीर्द्रोणं तमन्वार्जुनिरभ्ययात् परान्। ववार तं मद्रपतिस्तयोरभूद् रणो महांस्तत्र गदां समाददे।
शल्योऽथ भीमोऽभिययौ गदाधरस्तमेतयोरत्र बभूव सङ्गरः॥ २६/५॥
उभावजेयौ गदिनामनुत्तमावतुल्यवीर्यौ प्रवरौ बलीयसाम्। विचेरतुश्‍चित्रतमं प्रपश्यतां मनोहरं तावभिनर्दमानौ। गदाप्रपातायितवज्रगात्रौ ददर्श लोकोऽखिल एव तौ रणे॥ २६/६॥
गदाभिघातेन वृकोदरस्य विचेतनः प्रापतदत्र मद्रराट्। भीमोऽपि कोपात् प्रचलत्पदः क्षितौ निधाय जानुं सहसोत्थितः क्षणात्॥ २६/७॥
विचेतनं पतितं मद्रराजं विलोक्य भीमं च तमाह्वयन्तम्। रथं समारोप्य जनस्य पश्यतः पुरश्‍च भीमस्य कृपोऽपजग्मिवान्॥ २६/८॥
विजित्य मद्राधिपमोजसाऽरिहा नदन् रथं प्राप्य निजं स मारुतिः। व्यद्रावयद् बाणगणैः परेषामनीकिनीं द्रोणसमक्षमेव॥ २६/९॥
विद्रावयत्याशु कुरून् वृकोदरे विधूय सौभद्रमुखान् ससात्यकीन्। द्रोणोऽभिपेदे नृपतिं गृहीतुं तमाससादाशु धनञ्जयो रथी॥ २६/१०॥
स वासुदेवप्रयते रथे स्थितः शरैः शरीरान्तकरैः समन्ततः। निहत्य नागाश्‍वरथान् प्रवर्तयन्नदृश्यताश्‍वेव च शोणितापगाः॥ २६/११॥
निहन्यमानासु किरीटिना चमूष्वारक्षिते धर्मसुते तथाऽऽपदः। चमूं च भीमार्जुनबाणभग्नां द्रोणोऽपहृत्यापययौ निशागमे॥ २६/१२॥
स धार्तराष्ट्रेण युधिष्ठिराग्रहात् संश्रावितः क्रूरवचो निशायाम्। जगाद दूरं समराद् विनीयतां पार्थस्ततो धर्मसुतं ग्रहीष्ये॥ २६/१३॥
ततः सुशर्मा सहितो महारथैः संशप्तकैर्दूरतरं प्रणेतुम्। युद्धाय भीमानुजमाशु कॢप्तो दुर्योधनेनोमिति सोऽप्यवादीत्॥ २६/१४॥
समाह्वयामासुरथार्जुनं ते प्रातर्हुताशस्य दिशं रणाय।
अयोधयत् तान् स च तत्र गत्वा भीमो गजानीकमथात्र चावधीत्॥ २६/१५॥
निहन्यमानेषु गजेषु सर्वशो विद्राव्यमाणेष्वखिलेषु राजसु। प्राग्ज्योतिषो धार्तराष्ट्रार्थितस्तं समागमत् सुप्रतीकेन धन्वी॥ २६/१६॥
विभीषिताः सुप्रतीकेन भीमहया न तस्थुस्तदनु स्म सात्यकिः। सौभद्रमुख्याश्‍च गजं तमभ्ययुश्‍चिक्षेप तेषां स रथानथाम्बरे॥ २६/१७॥
शैनेयपूर्वेषु रथोज्झितेषु भूमाववप्लुत्य कथञ्चिदेव। स्थितेषु भीमे च विभीषिताश्‍वान् संयम्य युद्ध्यत्यपि कृष्ण ऐक्षत्॥ २६/१८॥
सङ्क्लेशितो वैष्णवास्त्रं विमुञ्चेत् प्राग्ज्योतिषो भीमसेने ततोऽहम्। याम्यर्जुनेनैव तदस्त्रमात्मनः स्वीकर्तुमन्येन वरादधार्यम्॥ २६/१९॥
इति स्म सञ्चिन्त्य सहार्जुनेन तत्राययावथ पार्थं त्रिगर्ताः। न्यवरायंस्त्वाष्ट्रमस्त्रं स तेषु व्यवासृजन्मोहनायाशु वीरः॥ २६/२०॥
तदस्त्रवीर्येण विमोहितास्ते परस्परं कृष्णपार्थाविति स्म। जघ्नुस्तदा वासविस्तान् विसृज्य प्राग्ज्योतिषं हन्तुमिहाभ्यगाद् द्रुतम्॥ २६/२१॥
विसृज्य भीमं स च पार्थमेव ययौ गजस्कन्धगतो गजं तम्। सञ्चोदयामास रथाय तस्य चक्रेऽपसव्यं हरिरेनमाशु॥ २६/२२॥
मनोजवेनैव रथे परेण सम्भ्राम्यमाणे नतु तं गजः सः। प्राप्तुं शशाकाथ शरैः सुतीक्ष्णैरभ्यर्दयामास नृपं स वासविः॥ २६/२३॥
अस्त्रैश्‍च शस्त्रैः सुचिरं नृवीरावयुद्ध्यतां तौ बलिनां प्रबर्हौ। अथो चकर्तास्य धनुः स पार्थः स वैष्णवास्त्रं च तदाऽङ्कुशेऽकरोत्॥ २६/२४॥
तस्मिन्नस्त्रे तेन तदा प्रमुक्ते दधार तद् वासुदेवोऽमितौजाः। तदंसदेेशेऽस्य तु वैजयन्ती बभूव मालाऽखिललोकभर्तुः॥ २६/२५॥
दृष्ट्वैव तद् धारितमच्युतेन पार्थः किमर्थं विधृतं त्वयेति। ऊचे तमाहाशु जगन्निवासो मयाऽखिलं धार्यते सर्वदैव॥ २६/२६॥
न मादृशोऽन्योऽस्ति कुतः परो मत् सोऽहं चतुर्धा जगतो हिताय। स्थितोऽस्मि मोक्षप्रलयस्थितीनां सृष्टेश्‍च कर्ता क्रमशः स्वमूर्तिभिः। स वासुदेवादिचतुःस्वरूपः स्थितोऽनिरुद्धो हृदि चाखिलस्य॥ २६/२७॥
स एव च क्रोडतनुः पुराऽहं भूमिप्रियार्थं नरकाय चादाम्। अस्त्रं मदीयं वरमस्य चादामवध्यतां यावदस्त्रं ससूनोः॥ २६/२८॥
अस्त्रस्य चान्यो नतु कश्‍चिदस्ति योऽवध्य एतस्य कुतश्‍च मत्तः। इति स्म तेनैव मया धृतं तदस्त्रं तदेनं जहि चास्त्रहीनम्॥ २६/२९॥
इत्युक्तमाकर्ण्य स केशवेन सम्मन्त्र्य बाणं हृदये मुमोच। प्राग्ज्योतिषस्यापरमुत्तमं शरं गजेन्द्रकुम्भस्थल आश्‍वमज्जयत्॥ २६/३०॥
उभौ च तौ पेततुरद्रिसन्निभौ महेन्द्रवज्राभिहताविवाशु। निहत्य तौ वासविरुग्रपौरुषो मुमोद साधु स्वजनाभिपूजितः॥ २६/३१॥
अथाचलं वृषभं चैव हत्वा कनीयसौ शकुनेस्तं च बाणैः। विव्याध मायामसृजत् स तां च विज्ञानास्त्रेणाशु नाशाय चक्रे॥ २६/३२॥
स नष्टमायः प्राद्रवत् पापकर्मा ततः पार्थः शरपूगैश्‍चमूं ताम्। विद्रावयामास तदा गुरोः सुतो माहिष्मतीपतिमाजौ जघान॥ २६/३३॥
तदा भीमस्तस्य निहत्य वाहान् व्यद्रावयद् धार्तराष्ट्रीं चमूं च। भीमार्जुनाभ्यां हन्यमानां चमूं तां दृष्ट्वा द्रोणः क्षिप्रमपाजहार॥ २६/३४॥
प्राग्ज्योतिषे निहतेऽथाग्रहाच्च युधिष्ठिरस्यातिविषण्णरूपः। दुर्योधनोऽश्रावयद् दीनवाक्यान्यत्र द्रोणं सोऽपि नृपं जगाद॥ २६/३५॥
पार्थे गते श्‍वो नृपतिं ग्रहीष्ये निहन्मि वा तत्सदृशं तदीयम्। इति प्रतिज्ञां स विधाय भूयः प्रातर्ययौ युद्धमाकाङ्क्षमाणः॥ २६/३६॥
पद्मव्यूहं व्यूह्य परैरभेद्यं वराद् विष्णोस्तस्य मन्त्रं हि जप्त्वा। पार्थाश्‍च तं प्रापुरृतेऽर्जुनेन संशप्तकैर्युयुधे सोऽपि वीरः॥ २६/३७॥
पार्था व्यूहं च तं प्राप्य नाशकन् भेत्तुमुद्यताः। जानंश्‍च प्रतिभायोगात् काम्यं नैवाजपन्मनुम्॥ २६/३८॥
भीमो युधिष्ठिरस्तत्र तज्ज्ञं सौभद्रमब्रवीत्। भिन्धि व्यूहमिमं तात वयं त्वामनुयामहे॥ २६/३९॥
स एवमुक्तो रथिनां प्रबर्हो विवेश भित्त्वा द्विषतां चमूं ताम्। अन्वेव तं वायुसुतादयश्‍च विविक्षवः सैन्धवेनैव रुद्धाः॥ २६/४०॥
वरेण रुद्रस्य निरुद्ध्यमानो जयद्रथेनात्र वृकोदरस्तु। विष्णोरभीष्टं वधमार्जुनेस्तदा विज्ञाय शक्तोऽपि नचात्यवर्तत॥ २६/४१॥
जयद्रथस्थेन वृषध्वजेन प्रयुद्ध्यमानेषु वृकोदरादिषु। प्रविश्य वीरः स धनञ्जयात्मजो विलोडयामास परोरुसेनाम्॥ २६/४२॥
स द्रोणदुर्योधनकर्णशल्यद्रौण्यग्रणीभिः कृतवर्मयुक्तैः। रुद्धश्‍चचारारिबलेष्वभीतः शिरांसि कृन्तंस्तदनुव्रतानाम्॥ २६/४३॥
स लक्षणं राजसुतं प्रसह्य पितुः समीपेऽनयदाशु मृत्यवे। बृहद्बलं चोत्तमवीर्यकर्मा वरं रथानामयुतं च पत्रिभिः॥ २६/४४॥
द्रोणादयस्तं हरिकोपभीताः प्रत्यक्षतो हन्तुमशक्नुवन्तः। सम्मन्त्र्य कर्णं पुरतो निधाय चक्रुर्विचापाश्‍वरथं क्षणेन॥ २६/४५॥
कर्णो धनुस्तस्य कृपश्‍च सारथिं द्रोणो हयानाशु विधूय सायकैः। सचर्मखड्गं रथचक्रमस्य प्रणुद्य हस्तस्थितमेव चक्रुः॥ २६/४६॥
भीतेषु कृष्णादथ तद्वधाय तेष्वाससादाशु गदायुधं गदी। दौःशासनिस्तौ युगपच्च मम्रतुर्गदाभिघातेन मिथोऽतिपौरुषौ॥ २६/४७॥
तस्मिन् हते शत्रुरवं निशम्य हर्षोद्भवं मारुतिरुग्रविक्रमः। विजित्य सर्वानपि सैन्धवादीन् युधिष्ठिरस्यानुमते न्यषीदत्॥ २६/४८॥
व्यासस्तदा तानमितात्मवैभवो युधिष्ठिरादीन् ग्लपितानबोधयत्। विजित्य संशप्तकपूगमुग्रो निशागमे वासविराप साच्युतः॥ २६/४९॥
निशम्य पुत्रस्य वधं भृशार्तः प्रतिश्रवं सोऽथ चकार वीरः। जयद्रथस्यैव वधे निशायां स्वप्नेऽनयत् तं गिरिशान्तिकं हरिः॥ २६/५०॥
स्वयमेवाखिलजगद्रक्षाद्यमितशक्तिमान्। अप्यच्युतो गुरुद्वारा प्रसादकृदहं त्विति॥ २६/५१॥
ज्ञापयन् फल्गुनस्यास्त्रगुरुं गिरिशमञ्जसा। प्रापयित्वैनमेवैतत्प्रसादादस्त्रमुल्बणम्। चक्रे तदर्थमेवास्य चक्रे रक्षां तदात्मिकाम्॥ २६/५२॥
सान्त्वयित्वा सुभद्रां च गत्वोपप्लाव्यमच्युतः। योजयित्वा रथं प्रातः सार्जुनो युद्धमभ्ययात्॥ २६/५३॥
श्रुत्वा प्रतिज्ञां पुरुहूतसूनोर्दुर्योधनेनार्थितः सिन्धुराजम्। त्राताऽस्म्यहं सर्वथेति प्रतिज्ञां कृत्वा द्रोणो व्यूहमभेद्यमातनोत्॥ २६/५४॥
स दिव्यमग्र्यं शकटाब्जचक्रं कृत्वा स्वयं व्यूहमुखे व्यवस्थितः।
पृष्ठे कर्णद्रौणिकृपैः सशल्यैर्जयद्रथं गुप्तमधात् परैश्‍च॥ २६/५५॥
अथार्जुनो दिव्यरथोपरिस्थितः सुरक्षितः केशवेनाव्ययेन। विजित्य दुर्मर्षणमग्रतोऽभ्ययाद् द्रोणं सुधन्वा गुरुमुग्रपौरुषः॥ २६/५६॥
प्रदक्षिणीकृत्य तमाश्‍वगात् ततः कालात्ययं त्वेव विशङ्कमानः। रथं मनोवेगमथानयद्धरिर्यथा शराः पेतुरमुष्य पृष्ठतः॥ २६/५७॥
विजित्य हार्दिक्यमथाप्रयत्नतः स इन्द्रसूनुः प्रविवेश तद् बलम्। विलोडयामास च सायकोत्तमैर्यथा गजेन्द्रो नलिनीं बलोद्धतः॥ २६/५८॥
स उच्चकाशेऽतिरथो रथोत्तमे सवासुदेवो हरिणा यथेन्द्रः। चकर्त चोग्रो द्विषतां शिरांसि शरैः शरीरान्तकरैः समन्ततः॥ २६/५९॥
दृढायुमच्युतायुं च हत्वा विन्दानुविन्दकौ। शराभ्यां प्रेषयामास यमाय विजयो युधि॥ २६/६०॥
सुदक्षिणं च काम्बोजं निहत्याम्बष्ठमेव च। श्रुतायुधं नदीजातं वरुणादाससाद ह। यस्यादाद् वरुणो दिव्याममोघां महतीं गदाम्॥ २६/६१॥
स तु तेन शरैस्तीक्ष्णैरर्पितो विरथं क्षणात्। चकार पार्थस्य रथमारुह्यारिधराय ताम्॥ २६/६२॥
गदां चिक्षेप सा तस्य वारुणेः शिर एव तु। बिभेद शतधा शीर्णमस्तिष्कः सोऽपतद् भुवि॥ २६/६३॥
अयुद्ध्यन्तं स्वगदया यदि ताडयति स्वयम्। तया विशीर्णमस्तिष्को भविष्यसि न संशयः। अमोघा चान्यथा सेयं गदा तव भविष्यति॥ २६/६४॥
इत्यब्रवीत् तं वरुणः पुरा तेन स केशवे। अयुद्ध्यति गदाक्षेपात् तया शीर्णशिरा अभूत्॥ २६/६५॥
हतेषु वीरेषु निजेषु सङ्घशो विद्रावितेष्वालुलिते च सैन्ये। दुर्योधनो द्रोणमुपेत्य दीनमुवाच हा पार्थ उपेक्षितस्त्वया॥ २६/६६॥
इतीरितेऽभेद्यममुष्य वर्म बद्ध्वा महामन्त्रबलात् स विप्रः। जगाद येनैव बलेन पार्थैर्विरुद्ध्यसे तेन हि याहि फल्गुनम्॥ २६/६७॥
इतीरितो धार्तराष्ट्रः स चापमादाय सौवर्णरथोपरिस्थितः। जगाम पार्थं तमवारयच्च शरैरनेकैरनलप्रकाशैः॥ २६/६८॥
विव्याध पार्थोऽपि तमुग्रवेगैः शरैर्न ते तस्य च वर्मभेदनम्। चक्रुस्ततो वासविर्दिव्यमस्त्रं तद्वर्मभेदाय समाददे रुषा॥ २६/६९॥
सन्धीयमानं तु गुरोः सुतस्तच्चिच्छेद पार्थोऽथ सुयोधनाश्‍वान्। हत्वा तलेऽविद्ध्यदथैनमुग्रैर्द्रौणिः शरैः पार्थमवारयद् युधि॥ २६/७०॥
स द्रौणिकर्णप्रमुखैर्धनञ्जयो युयोध ते चैनमवारयञ्छरैः। बभूव युद्धं तदतुल्यमद्भुतं जयद्रथार्थेऽद्भुतवीर्यकर्मणाम्॥ २६/७१॥
पार्थे प्रविष्टे कुरुसैन्यमध्यं द्रोणोऽविशत् पाण्डवसैन्यमाशु। स तद्रथानीकमुदग्रवेगैः शरैर्विधूय न्यहनच्च वीरान्॥ २६/७२॥
स वीरवर्यः स्थविरोऽपि यूनां युवेव मध्ये प्रचचार धन्विनाम्। प्रपातयद् वीरशिरांसि बाणैर्युधिष्ठिरं चासददुग्रवीर्यः॥ २६/७३॥
नृपग्रहेच्छुं तमवेत्य सत्यजिन्न्यवारयद् द्रौपदिराशु वीर्यवान्। निवारितस्तेन शिरः शरेण चकर्त पाञ्चालसुतस्य विप्रः॥ २६/७४॥
निहत्य तं वीरतमं रणोत्कटं युधिष्ठिरं बाणगणैः समार्दयत्। स्वशक्तितस्तेन विधाय सङ्गरं निरायुधो व्यश्‍वरथः कृतः क्षणात्॥ २६/७५॥
स ऊर्ध्वबाहुर्भुवि संस्थितोऽपि गृहीतुमाजौ गुरुणाऽभिपन्नः। माद्रीसुतस्यावरजस्य यानमारुह्य वेगादपजग्मिवांस्ततः॥ २६/७६॥
द्रोणं ततः शैशुपालिः सपुत्रो जारासन्धिः काशिराजः सशैब्यः। समासदन् कैकयाश्‍चैव पञ्च समर्दयन् बाणगणैश्‍च सर्वशः॥ २६/७७॥
स तान् क्रमेणैव निकृत्तकन्धाराञ्छरोत्तमैस्तत्र विधाय विप्रः। निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः॥ २६/७८॥
विधूयमाने गुरुणोरुसैन्ये पृथासुतानां पृतनाः परेषाम्। प्रायो रणे मारुतसूनुनैव हतप्रवीरा मृदिताः पराद्रवन्॥ २६/७९॥
अलम्बुसो नाम तदैव राक्षसः समासदन्मारुतिमुग्रपौरुषम्। स पीडितस्तेन शरैः सुतेजनैः क्षणाददृश्यत्वमवाप मायया॥ २६/८०॥
सोऽदृश्यरूपोऽनुचरानपीडयद् भीमस्य तद् वीक्ष्य चुकोप मारुतिः। अस्त्रज्ञतामात्मनि केशवाज्ञया सन्दर्शयन्नागतधर्मसङ्कटः॥ २६/८१॥
त्वाष्ट्रास्त्रमादत्त स काम्यकर्महीनोऽपि भीमस्तत उत्थिताः शराः। ते बाणवर्यास्तददृश्यवेधिनो रक्षो विदार्याविविशुर्धरातलम्॥ २६/८२॥
तद्धन्यमानं प्रविहाय भीममपाद्रवद् दूरतरं सुभीतम्। ततस्तु भीमो द्विषतां वरूथिनीं विद्रावयामास शरैः सुमुक्तैः॥ २६/८३॥
तदैव कृष्णातनयाः समेता जघ्नुः शलं संयति सौमदत्तिम्।
अलम्बुसं प्राप तदा घटोत्कचः परस्परं तौ रथिनावयुद्ध्यताम्॥ २६/८४॥
घटोत्कचस्तं विरथं विधाय खस्थं ख एवाभियुयोध संस्थितः। ततस्तु तं भीमसुतो निगृह्य निपात्य भूमौ प्रददौ प्रहारम्॥ २६/८५॥
पदा शिरस्येव स पिष्टमस्तको ममार मध्ये पृथिवीपतीनाम्।
तस्मिन् हते भैमसेनिः कुरूणां व्यद्रावयद् रथवृन्दं समन्तात्॥ २६/८६॥
तदाऽऽसदत् कृतवर्मा रथेन सेनां पाण्डूनां शरवर्षं प्रमुञ्चन्। ददौ वरं तस्य हि पूर्वमच्युतः प्रीतः स्तुत्या सर्वजयं मुहूर्ते॥ २६/८७॥
स तेन पाञ्चालगणान् विजिग्ये यमौ च भीमस्य पुरोऽथ तं च। विव्याध बाणेन स वासुदेववरं विजानन् न तदा समभ्ययात्॥ २६/८८॥
विनैव वृष्णीन् विजये वरो यदमुष्य तेनास्य हयान् स सात्यकिः। निहत्य बाणैरतुदत् स यानमन्यत् समास्थाय ततोऽपजग्मिवान्॥ २६/८९॥
तदा हरिः पाञ्चजन्यं सुघोषमापूरयामास जयेऽभियुद्ध्यति। कर्णादिभिर्द्रौणिमुखै रिपूणां बलप्रहाणाय परः परेभ्यः॥ २६/९०॥
स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिःसृतध्वनिः। जगद् विरिञ्चेशसुरेन्द्रपूर्वकं प्रकम्पयामास युगात्यये यथा॥ २६/९१॥
गाण्डीवघोषे च तदाऽभिभूते युधिष्ठिरो भीतभीतस्तदैत्य। शैनेयमूचे परसैन्यमग्ने पार्थे स्वयं युद्ध्यति केशवः स्म॥ २६/९२॥
न श्रूयते गाण्डिवस्याद्य घोषः संश्रूयते पाञ्चजन्यस्य रावः। तद् याहि जानीहि तमद्य पार्थं यदि स्म जीवत्यसहाय एषः॥ २६/९३॥
इतीरितः सात्यकिरत्र विप्रान् सम्पूज्य वित्तैः परमाशिषश्‍च। जयाय तेभ्यः प्रतिगृह्य सेनामुखं ययौ भीमसेनानुयातः॥ २६/९४॥
भीमस्तु सेनामुखमाशु भित्त्वा प्रावेशयद् युयुधानं चमूं ताम्। स युद्ध्यमानो गुरुणाऽभ्युपेक्षितः सूतं निहत्य द्रावयामास चाश्‍वान्॥ २६/९५॥
बलं विवृद्धं च तदाऽस्य सात्यकेर्विप्राशीर्भिः कृष्णवरादपि स्म। बलस्य वृद्धिर्हि पुराऽस्य दत्ता कृष्णेन तुष्टेन दिने हि तस्मिन्॥ २६/९६॥
तदा विवृद्धोरुबलात् स सात्यकिः संस्थाप्य भीमं प्रययौ रथेन। तं बाणवर्षैः पृतनां समन्तान्निघ्नन्तमाजौ हृदिकात्मजोऽभ्ययात्॥ २६/९७॥
तयोरभूद् युद्धमतीव दारुणं तत्राकरोत् तं विरथं स सात्यकिः। विजित्य तं सात्यकिरुग्रधन्वा ययावतीत्यैव शिरांसि यूनाम्। कृन्तन् शरैस्तं जलसन्ध आगमद् रणे गजस्कन्धगतोऽभियोद्धुम्॥ २६/९८॥
निवारयन्तं तमसह्यविक्रमं निहत्य बाणैः समरे स सात्यकिः। विलोडयामास बलं कुरूणां निघ्नन् गजस्यन्दनवाजिपत्तिनः॥ २६/९९॥
स पार्वतेयांश्‍च शिलाप्रवर्षिणो निहत्य विद्राव्य च सर्वसैनिकान्। समासदत् केशवफल्गुनौ च बली तमाराथ च यूपकेतुः॥ २६/१००॥
तयोरभूद् युद्धमतीव घोरं चिरं विचित्रं च महद् विभीषम्। परस्परं तौ तुरगान् निहत्य निपात्य सूतौ धनुषी निकृत्य। समीयतुश्‍चर्मवरासिधारिणौ विचित्रमार्गानपि दर्शयन्तौ॥ २६/१०१॥
स सौमदत्तिर्भुवि सात्यकिं रणे निपात्य केशेषु च सम्प्रगृह्य। पदाऽस्य वक्षस्यधिरुह्य खड्गमुदग्रहीदाशु शिरोऽपहर्तुम्॥ २६/१०२॥
तद् वासुदेवस्तु निरीक्ष्य विश्‍वतश्‍चक्षुर्जगादाशु धनञ्जयं रणे। त्रायस्व शैनेयमिति स्म सोऽपि भल्लेन चिच्छेद भुजं परस्य॥ २६/१०३॥
स तेन चोत्कृत्तसखड्गबाहुर्विनिन्द्य पार्थं निषसाद भूमौ। प्रायोपविष्टः शरसंस्तरे हरिं ध्यायन् विनिन्दन्नसुरप्रवेशात्॥ २६/१०४॥
गतेऽसुरावेश उतातिभक्त्या ध्यायत्यमुष्मिन् गरुडध्वजं तम्। शैनेय उत्थाय निवार्यमाणः कृष्णार्जुनाद्यैरहरच्छिरोऽस्य॥ २६/१०५॥
तदा स्वकीयं रथमेतदर्थं कॢप्तं ददौ सात्यकये ससूतम्। कृष्णोऽथ पार्थस्य हयास्तृषाऽर्दितास्तदाऽसृजद् वारुणास्त्रं स पार्थः॥ २६/१०६॥
तेनैव तीर्थं परमं चकार तथाऽश्‍वशालामपि बाणरूपाम्। ततो विमुच्यात्र हयानपाययद्धरिस्तदा वासविरार्दयत् परान्॥ २६/१०७॥
युयोज कृष्णस्तुरगान् रथे पुनर्गतश्रमानुद्धृतसायकान् प्रभुः। प्रचोदिते तेन रथे स्थितः पुनस्तथैव बीभत्सुररीनयोधयत्॥ २६/१०८॥
शिनिप्रवीरे तु गते युधिष्ठिरः पुनश्‍च चिन्ताकुलितो बभूव ह। जगाद भीमं च न गाण्डिवध्वनिः संश्रूयते पाञ्चजन्यस्य रावः॥ २६/१०९॥
मया नियुक्तश्‍च गतः स सात्यकिर्भारं च तस्याधिकमेव मन्ये। तत् पाहि पार्थं युयुधानमेव त्वं भीम गत्वा यदि जीवतस्तौ॥ २६/११०॥
इतीरितः प्राह वृकोदरस्तं न रक्षितं वासुदेवेन पार्थम्। ब्रह्मेशानावपि जेतुं समर्थौ किं द्रौणिकर्णादिधनुर्भृतोऽत्र॥ २६/१११॥
अतो भयं नास्ति धनञ्जयस्य न सात्यकेश्‍चैव हरेः प्रसादात्। रक्ष्यस्त्वमेवात्र मतो मयाऽद्य द्रोणो ह्ययं यतते त्वां ग्रहीतुम्॥ २६/११२॥
इतीरितः प्राह युधिष्ठिरस्तं न जीवमाने युधि मां घटोत्कचे। धृष्टद्युम्ने चास्त्रविदां वरिष्ठे द्रोणो वशं नेतुमिह प्रभुः क्वचित्॥ २६/११३॥
यदि प्रियं कर्तुमिहेच्छसि त्वं मम प्रयाह्याशु च पार्थसात्यकी। रक्षस्व सञ्ज्ञामपि सिंहनादात् कुरुष्व मे पार्थशैनेयदृष्टौ॥ २६/११४॥
तथा हते चैव जयद्रथे मे कुरुष्व सञ्ज्ञामपि तेन चोक्तः। भीमस्तु हैडिम्बममुष्य रक्षणे व्यधाच्च सेनापतिमेव सम्यक्॥ २६/११५॥
स चाह सेनापतिरत्र भीमं प्रयाहि तौ यत्र च केशवार्जुनौ। न जीवमाने मयि धर्षितुं क्षमो द्रोणो नृपं मृत्युरहं च तस्य॥ २६/११६॥
इति ब्रुवाणंं प्रणिधाय भीमः पुनःपुनस्तं नृपतिं गदाधरः। ययौ परानीकमधिज्यधन्वा निरन्तरं प्रवमन् बाणपूगान्॥ २६/११७॥
न्यवारयत् तं शरवर्षधारो द्रोणो वचश्‍चेदमुवाच भीमम्। शिष्यस्नेहाद् वासविः सात्यकिश्‍च मया प्रमुक्तौ भृशमानतौ मयि॥ २६/११८॥
स्वीया प्रतिज्ञाऽपि हि सैन्धवस्य गुप्तौ मया पार्थकृते विसृष्टा। दास्ये न ते मार्गमहं कथञ्चित् पश्यास्त्रवीर्यं मम दिव्यमद्भुतम्॥ २६/११९॥
इत्युक्तवाक्यः स गदां समाददे चिक्षेप तां द्रोणरथाय भीमः। उवाच चाहं पितृवन्मानये त्वां सदा मृदुस्त्वां प्रति नान्यथा क्वचित्॥ २६/१२०॥
अमार्दवे पश्य च यादृशं बलं ममेति तस्याशु विचूर्णितो रथः। गदाभिघातेन वृकोदरस्य ससूतवाजिध्वजयन्त्रकूबरः॥ २६/१२१॥
द्रोणो गदामापततीं निरीक्ष्य त्ववप्लुतो लाघवतो धरातले। तदैव दुर्योधनयापितं रथं परं समास्थाय शरान् ववर्ष ह॥ २६/१२२॥
शरैस्तदीयैः परमास्त्रमन्त्रितैः प्रवृष्यमाणो जगदीरणात्मजः। शिरो निधायाशु पुरो वृषो यथा तमभ्ययादेव रथादवप्लुतः॥ २६/१२३॥
मनोजवादेव तमाप्य भीमो रथं गृहीत्वाऽम्बर आक्षिपत् क्षणात्। शक्तोऽप्यहं त्वां न निहन्मि गौरवादित्येव सुज्ञापयितुं तदस्य॥ २६/१२४॥
सवाजिसूतः सरथः क्षितौ पतन् विचूर्णितोऽस्माद् गुरुरप्यवप्लुतः। तदा विशोकोऽस्य रथं समानयत् तमारुहद् भीम उदारविक्रमः॥ २६/१२५॥
द्रोणोऽपि दुर्योधनदत्तमन्यं रथं समास्थाय युधिष्ठिरं ययौ। गृहीतुकामं नृपतिं प्रयान्तं न्यवारयत् संयति वाहिनीपतिः॥ २६/१२६॥
विद्रावितां द्रोणशरैः स्वसेनां संस्थाप्य भूयो द्रुपदात्मजः शरैः। द्रोणं निवार्यैव चमूं परेषां विद्रावयामास च तस्य पश्यतः॥ २६/१२७॥
तयोरभूद् युद्धमतीव रौद्रं जयैषिणोः पाण्डवधार्तराष्ट्रयोः। अत्यद्भुतं सन्ततबाणवर्षमनारतं सुचिरं निर्विशेषम्॥ २६/१२८॥
ततः प्रायाद् भीमसेनोऽमितौजा मृद्गञ्छरैः कौरवराजसेनाम्। विन्दानुविन्दप्रमुखा धार्तराष्ट्रास्तमासेदुर्द्वादश वीरमुख्याः। विद्धः शरैस्तैर्बहुभिर्वृकोदरः शिरांसि तेषां युगपच्चकर्त॥ २६/१२९॥
हतेषु तेषु प्रवरेषु धन्विनां सत्यव्रतः पुरुमित्रो जयश्‍च। वृन्दारकः पौरवश्‍चेत्यमात्याः समासेदुर्धार्तराष्ट्रस्य भीमम्॥ २६/१३०॥
स तैः पृषत्कैरवकीर्यमाणः सितान् विपाठान् युगपत् समाददे। जहार तैरेव शिरांसि तेषां हतेषु तेष्वेव परे प्रदुद्रुवुः॥ २६/१३१॥
स सिंहवत् क्षुद्रमृगान् समन्ततो विद्राव्य शत्रून् हृदिकात्मजं रणे। अभ्यागमत् तेन निवारितः शरैः क्षणेन चक्रे विरथाश्‍वसूतम्। स गाढविद्धस्तु वृकोदरेण रणं विसृज्यापययौ क्षणेन॥ २६/१३२॥
विजित्य हार्दिक्यमथाशु भीमो विद्रावयामास वरूथिनीं ताम्। सम्प्रेषयन् सर्वनराश्‍वकुञ्जरान् यमाय यातो हरिपार्थपार्श्‍वम्॥ २६/१३३॥
दृष्ट्वैव कृष्णविजयौ परमप्रहृष्टस्ताभ्यां निरीक्षित उत प्रतिभाषितश्‍च। सञ्ज्ञां नृपस्य स ददावपि सिंहनादात् श्रुत्वा परां मुदमवाप स चाग्र्यबुद्धिः॥ २६/१३४॥
भीमस्य नानदत एव महास्वनेन विण्मूत्रशोणितमथो मृतिमापुरेके।
भीतेषु सर्वनृपतिष्वमुमाप तूर्णं कर्णो विकर्णमुखरा अपि धार्तराष्ट्राः॥ २६/१३५॥
हत्वा विकर्णमुत तत्र च चित्रसेनं सञ्चूर्णितं प्रविदधे रथमर्कसूनोः। घोरैः शरैः पुनरपि स्म समर्द्यमानः कर्णोऽपयानमकरोद् द्रुतमेव भीमात्॥ २६/१३६॥
आश्‍वास्य चैव सुचिरं पुनरेव भीमं युद्धाय याति धृतराष्ट्रसुतैस्तथाऽन्यैः। तांश्‍चैव तत्र विनिहत्य तथैव कर्णो व्यश्‍वायुधः कृत उतापययौ क्षणेन॥ २६/१३७॥
विकर्णचित्रसेनाद्या एवं वीरतमाः सुताः। कर्णस्य पश्यतो भीमबाणकृत्तशिरोधराः॥ २६/१३८॥
निपेतुर्धृतराष्ट्रस्य रथेभ्यः पृथिवीतले। त्रयोविंशतिरेवात्र कर्णसाहाय्यकारिणः॥ २६/१३९॥
एकविंशतिवारं च व्यश्‍वसूतरथध्वजः। गाढमभ्यर्द्दितस्तीक्ष्णैः शरैर्भीमेन संयुगे॥ २६/१४०॥
प्राणसंशयमापन्नः सर्वलोकस्य पश्यतः। रणं त्यक्त्वा प्रदुद्राव रुदन् दुःखात् पुनःपुनः॥ २६/१४१॥
द्वाविंशतिमयुद्धे तु रामदत्तं सुभास्वरम्। अभेद्यं रथमारुह्य विजयं धनुरेव च॥ २६/१४२॥
तद्दत्तमेव सङ्गृह्य तूणौ चाक्षयसायकौ। आससाद रणे भीमं कर्णो वैकर्तनो वृषा॥ २६/१४३॥
सुघोर आसीत् स तयोर्विमर्दो भीमस्य कर्णस्य च दीर्घकालम्। आकाशमाच्छादयतोः शरौघैः परस्परं चैव सुरक्तनेत्रयोः॥ २६/१४४॥
ततो भीमो महाबाहुः सहजाभ्यां च संयुतम्। त्वां तु कुण्डलवर्मभ्यां शक्नुयां हन्तुमञ्जसा॥ २६/१४५॥
इति ज्ञापयितुं तस्य कुण्डले कवचं तथा। शरैरुत्कृत्य समरे पातयामास भूतले॥ २६/१४६॥
एवं तान्यपकृष्याहं हन्यां त्वामिति वेदयन्। पुनश्‍च बहुभिस्तीक्ष्णैः शरैरेनं समार्दयत्॥ २६/१४७॥
ततस्तु भीमस्य बभूव बुद्धिरस्पर्धिनः सर्वजयो हि दत्तः। अमुष्य रामेण नच स्पृधाऽयं कर्णो मया युद्ध्यति कृच्छ्रगो ह्ययम्॥ २६/१४८॥
तथाऽपि मे भगवानत्यनुग्रहाज्जयं ददात्यात्मवचो विहाय। मया तु मान्यं वचनं हरेः सदा तस्माद् दास्ये विवरं त्वद्य शत्रोः॥ २६/१४९॥
एवं स्मृत्वा तेन रन्ध्रे प्रदत्ते कर्णोऽस्त्रवीर्येण धनुर्न्यकृन्तत्। रश्मीन् हयानां च ततो रथं स तत्याज नैजं बलमेव वेदयन्॥ २६/१५०॥
न मे रथाद्यैर्धनुषाऽपि कार्यमित्येव सञ्ज्ञापयितुं वृकोदरः। खमुत्पपातोत्तमवीर्यतेजा रथं च कर्णस्य समास्थितः क्षणात्॥ २६/१५१॥
भीतस्तु कर्णो रथकूबरे तदा व्यलीयताधः स वृकोदरो रथात्। अवप्लुतो ज्ञापयितुं स्वशक्तिं निरायुधत्वेऽप्यरिनिग्रहादौ॥ २६/१५२॥
नैच्छद् ग्रहीतुं विनिहन्तुमेव वा रथं धनुर्वाऽस्य रणेऽपहर्तुम्। द्रोणस्य यद्वत् पूर्वमतीव शक्तोऽप्यमानयद् रामवचोऽस्य भक्त्या॥ २६/१५३॥
सत्यां कर्तुं वासवेश्‍च प्रतिज्ञां सम्मानयन् वैष्णवत्वाच्च कर्णम्। दातुं रन्ध्रं सूर्यजस्य प्रयातः शरक्षेपार्थं दूरमतिष्ठदत्र॥ २६/१५४॥
ततः कर्णो दूरगतं वृकोदरं सम्मानयन्तं रामवाक्यं विजानन्। शरैरविध्यत् स च तानवारयद् गजैर्मृतैस्तांश्‍च चकर्त कर्णः॥ २६/१५५॥
व्यसून् गजान् प्रक्षिपन्तं समेत्य संस्पृश्य चापेन वचश्‍च दुष्टम्। संश्रावयामास सुयोधनस्य प्रीत्यै प्रजानन्नपि तस्य वीर्यम्॥ २६/१५६॥
संश्रावयन्तं वचनानि रूक्षाण्यपाहनद् बाणवरैस्तदाऽर्जुनः। स वर्महीनः पार्थबाणाभितप्तो व्यपागमद् भीम आपात्मयानम्॥ २६/१५७॥
कर्णो भीमे वासवीं नैव शक्तिं विमोक्तुमैच्छन्नैव बीभत्सुतोऽन्यान्। हन्यामिति प्राह यतः स कुन्त्यै यद्यप्यवध्यः स तयाऽपि भीमः॥ २६/१५८॥
नारायणास्त्रं शिरसि प्रपातितं न यस्य लोमाप्यदहच्छिरस्थितम्। किं तस्य शक्तिः प्रकरोति वासवी तथाऽन्यदप्यस्त्रशस्त्रं महच्च॥ २६/१५९॥
भीमः कर्णरथं प्राप्तः शक्तिं नादातुमैच्छत। अभिप्रायं केशवस्य जानन् हैडिम्बमृत्यवे।
ततः कर्णोऽन्यमास्थाय रथमर्जुनमभ्ययात्॥ २६/१६०॥
दिव्यं रथं धनुश्‍चैव कृष्णबुद्ध्याऽर्जुनो हरेत्। इति भीतस्तु तां शक्तिमादायार्जुनमृत्यवे। युद्धायायाद् रथं चापं शक्तिं चैकत्र नाकरोत्॥ २६/१६१॥
एकं हृतं चेदन्यत् स्यादिति मत्वा भयाकुलः। बिभेति सर्वदा नीतेः कृष्णस्यामिततेजसः॥ २६/१६२॥
निश्‍चितो मरणायैव मृतिकाले तु तं रथम्। आरुह्यागाद्धि पूर्वं तु न कालं मन्यते मृतेः॥ २६/१६३॥
शक्तिं तु तद्रथगतां प्रसमीक्ष्य कृष्णः संस्थाप्य पार्थमपि सात्यकिमेव योद्धुम्। दत्त्वा स्वकीयरथमेव विरोचनस्य पुत्रेण सोऽदिशदमुष्य बलं प्रदाय॥ २६/१६४॥
शिष्यं त्वशक्तमिह मे प्रतियोधनाय पार्थो ह्यदादिति स सात्यकिमीक्षमाणः। संस्पर्धयैव युयुधे विरथं चकार तेनैव सात्यकिरमुं हरियानसंस्थः॥ २६/१६५॥
न केशवरथे कश्‍चित् स्थितो याति पराजयम्। अतश्‍च सात्यकिर्नाप कर्णेनात्र पराजयम्॥ २६/१६६॥
शस्त्रसङ्ग्रहकाले तु कुमाराणां व्रतं भवेत्। इत्युक्तं जामदग्न्येन धनुर्विद्यापुराकृता॥ २६/१६७॥
तच्छत्रुवधरूपं च पूर्वासिद्धं च गूहितम्। अविरुद्धं च धर्मस्य कार्यं रामस्य तुष्टिदम्॥ २६/१६८॥
अनुपद्रवं च लोकस्येत्यतो भीमो व्रतं त्विदम्। चकार तूबरेत्युक्ते हन्यामिति रहः प्रभुः॥ २६/१६९॥
अनुपद्रवाय लोकस्य सुव्यक्तश्मश्रुमण्डलः। सुश्मश्रुं मां न कश्‍चिद्धि तथा ब्रूयादिति स्फुटम्। तदर्जुनो विजानाति स्नेहाद् भीमोदितं रहः॥ २६/१७०॥
अर्जुनस्यापि गाण्डीवं देहीत्युक्तो निहन्मि तम्। गाण्डीवस्यागमं पूर्वं जानात्येव हि नारदात्। इति तच्च विजानाति भीम एको नचापरः॥ २६/१७१॥
प्रतिज्ञां भीमसेनस्य ब्रुवतः फल्गुने रहः। दुर्योधनस्तु शुश्राव तां च कर्णाय सोऽब्रवीत्॥ २६/१७२॥
अतूबरोऽपि तेनासौ तस्मात् तूबर इत्यलम्। उक्तः प्रकोपनायैव तस्मादर्जुनमब्रवीत्॥ २६/१७३॥
जानासि मत्प्रतिज्ञां त्वं त्वत्प्रतिज्ञामहं तथा। अतो हन्तव्यतां प्राप्तो मम वैकर्तनोऽत्र हि॥ २६/१७४॥
प्रतिज्ञातो वधश्‍चास्य त्वयाऽपि मदनुज्ञया। अतस्त्वया मयैवायं हन्तव्यः सूतनन्दनः॥ २६/१७५॥
इत्युक्तो वासविः प्राह हन्तव्योऽयं मयैव हि। त्वदीयोऽहं यतस्तेन मत्कृतं त्वत्कृतं भवेत्॥ २६/१७६॥
न त्वत्कृतं मत्कृतं स्याद् गुरुर्मम यतो भवान्। अतो मयैव हन्तव्य इत्युक्त्वा कर्णमब्रवीत्॥ २६/१७७॥
रूक्षा वाचः श्रावितोऽयं भीमः कृष्णस्य शृण्वतः। यच्चाभिमन्युर्युष्माभिरेकः सम्भूय पातितः॥ २६/१७८॥
अतस्त्वां निहनिष्यामि त्वत्पुत्रं च तवाग्रतः।
इत्युक्तोऽन्यरथं प्राप्य कर्ण आवीज्जयद्रथम्॥ २६/१७९॥
द्रौणिकर्णाभिगुप्तं तं नाशकद्धन्तुमर्जुनः। तत्र वेगं परं चक्रे द्रौणिः पार्थनिवारणे॥ २६/१८०॥
नचैनमशकत् तर्तुं यत्नवानपि फल्गुनः। तयोरासीच्चिरं युद्धं चित्रं लघु च सुष्ठु च॥ २६/१८१॥
तद् दृष्ट्वा भगवान् कृष्णो लोहितायति भास्करे।
अजिते द्रोणतनये त्वहते च जयद्रथे। अर्जुनस्य जयाकाङ्क्षी ससर्ज तम ऊर्जितम्॥ २६/१८२॥
तमोव्याप्ते गगने सूर्यमस्तं गतं मत्वा द्रौणिपूर्वाः समस्ताः। विशश्रमुः सैन्धवश्‍चार्जुनस्य हतप्रतिज्ञस्य मुखं समैक्षत॥ २६/१८३॥
तदा हरेराज्ञया शक्रसूनुश्‍चकर्त बाणेन जयद्रथस्य। वह्निं विविक्षन्निव दर्शितः शिरस्तदा वचः प्राह जनार्दनस्तम्॥ २६/१८४॥
नैतच्छिरः पातय भूतले त्वमितीरितः पाशुपतास्त्रतेजसा। दधार बाणैरनुपुङ्खपुङ्खैः पुनस्तमूचे गरुडध्वजो वचः॥ २६/१८५॥
इदं पितुस्तस्य करे निपात्यतां वरोऽस्य दत्तो हि पुराऽमुनाऽयम्। शिरो निकृत्तं भुवि पातयेद् यस्तवास्य भूयाच्च शिरः सहस्रधा॥ २६/१८६॥
इति स्म वध्योऽस्य पिताऽपि तेनेत्युदीरिते तस्य सन्ध्याक्रियस्य। अङ्के व्यधात् तच्छिर आशु वासविः स सम्भ्रमात् तद् भुवि च न्यपातयत्॥ २६/१८७॥
ततोऽभवत् तस्य शिरः सहस्रधा हरिश्‍च चक्रे तमसो लयं पुनः। तदैव सूर्ये सकलैश्‍च दृष्टे हाहेति वादः सुमहानथासीत्॥ २६/१८८॥
भीमस्तदा शल्यदुर्योधनादीन् कृपं च जित्वा व्यनदत् सुभैरवम्। कुर्वन् साहाय्यं फल्गुनस्यैव तुष्टो बभूव शैनेय उतो हते रिपौ॥ २६/१८९॥
अपूरयत् पाञ्चजन्यं च कृष्णो मुदा तदा देवदत्तं च पार्थः। भीमस्य नादं सहपाञ्चजन्यघोषं श्रुत्वा निहतं सिन्धुराजम्। ज्ञात्वा राजा धर्मसुतो मुमोद दुर्योधनश्‍चास सुदुःखितस्तदा॥ २६/१९०॥
ततो द्रौणिमुखां सेनां सर्वां भीमोऽभ्यवर्तत। पार्थः कर्णमुखां शिष्टां ततोऽभज्यत तद् बलम्॥ २६/१९१॥
शीर्णां सेनां प्रविविशुर्धृष्टद्युम्नपुरोगमाः। ततस्तं देशमापुस्ते यत्र भीमधनञ्जयौ॥ २६/१९२॥
तत एकीकृताः सर्वे पाण्डवाः सहसोमकाः। परान् विद्रावयामासुस्ते भीताः प्राद्रवन् दिशः॥ २६/१९३॥
विद्राव्यमाणं सैन्यं तं दृष्ट्वा दुर्योधनो नृपः। जयद्रथवधाच्चैव कुपितोऽभ्यद्रवत् परान्॥ २६/१९४॥
स भीमसेनं च धनञ्जयं च युधिष्ठिरं माद्रवतीसुतौ च। धृष्टद्युम्नं सात्यकिं द्रौपदेयान् सर्वानेकः शरवर्षैर्ववर्ष॥ २६/१९५॥
तं विव्यधुस्ते बहुभिः शिलीमुखैः स ताननादृत्य चकर्त बाणैः। धनूंषि चित्राणि महारथानां चकार सङ्ख्ये विरथौ यमौ च॥ २६/१९६॥
आदाय चापानि पराणि तेऽपि दुर्योधनं ववृषुः सायकौघैः। अचिन्तयित्वैव शरान् स एको न्यवारयत् तानखिलांश्‍च बाणैः॥ २६/१९७॥
तं गाहमानं द्विषतां बहूनां मध्ये द्रोणद्रौणिकृपप्रधानाः। दृष्ट्वा सर्वे जुगुपुः स्वात्तचापा अनारतं बाणगणान् सृजन्तः॥ २६/१९८॥
सुयोधनः कर्णमाह जहि भीममिमं युधि। स आह नैष शक्यो हि जेतुं देवैः सवासवैः॥ २६/१९९॥
दैवाज्जीवाम्यहं राजन् युद्ध्यंस्तेनातिपीडितः। अतो घटामहे शक्त्या जयो दैवसमाहितः॥ २६/२००॥
दुर्योधनो द्रोणमाह सैन्धवस्त्वदुपेक्षया। पार्थेन निहतो भीमसात्यकिभ्यां च मे बलम्॥ २६/२०१॥
प्रतिज्ञा च परित्यक्ता पाण्डवस्नेहतस्त्वया।
इत्युक्तः कुपितो द्रोणः प्रतिज्ञामकरोत् ततः॥ २६/२०२॥
इतः परं नैव रणाद् रात्रावहनि वा क्वचित्। गच्छेयं नच मोक्ष्यामि वर्म बद्धं कथञ्चन॥ २६/२०३॥
मत्पुत्रश्‍च त्वया वाच्यः पाञ्चालान् नैव शेषय। सदौहित्रानिति प्रोक्त्वा विजगाहे निशागमे॥ २६/२०४॥
चमूं परेषामभ्यागाद् धृष्टद्युम्नस्तमाशु च। द्रौणिदुर्योधनौ तत्र विरथीकृत्य मारुतिः। द्रावयामास तत् सैन्यं पश्यतां सर्वभूभृताम्॥ २६/२०५॥
अक्षौहिण्यस्तु सप्तैव सेनयोरुभयोरपि। हतास्तासां च भीमेन तिस्रो द्वे फल्गुनेन च॥ २६/२०६॥
सौभद्रसात्यकिमुखैस्तन्मध्ये षोडशांशकः। हैडिम्बपार्षतमुखैस्त्रयाच्च दशमांशकः॥ २६/२०७॥
भीष्मद्रोणद्रौणिभिश्‍च द्वे समं निहते तदा। तदन्यैर्मिलितैः सर्वैस्तच्चतुर्थांश एव च॥ २६/२०८॥
ततो रात्रौ पञ्चभिश्‍च पार्थाः षडि्‌भश्‍च कौरवाः। अक्षौहिणीभिः संव्यूह्य युद्धं चक्रुः सुदारुणम्।
भीमं सेनां द्रावयन्तं पुनः कर्णः समासदत्॥ २६/२०९॥
स कर्णपुरतो भीमो दुष्कर्णं कर्णमेव च। दुर्योधनस्यावरजौ निष्पिपेष पदा क्षणात्। रथाश्‍वध्वजसूतैश्‍च सहितौ न व्यपश्यताम्॥ २६/२१०॥
निरायुधोऽहमिति मां त्वमात्थ परुषं वचः। निरायुधः पदैवाहं त्वां हन्तुमशकं तदा॥ २६/२११॥
इति कर्णस्य तौ भीमः सञ्ज्ञया ज्ञापयन् भुवि। पदा पिपेष कालिङ्गं मुष्टिनैव जघान ह॥ २६/२१२॥
मुष्टिना त्वद्वधायाहं समर्थ इति किं वदे। तस्मान्मया रक्षितस्त्वमिति ज्ञापयितुं प्रभुः। साश्‍वसूतध्वजरथः कालिङ्गो मुष्टिचूर्णितः॥ २६/२१३॥
केतुमांश्‍च पिता तस्य शक्रदेवः श्रुतायुधः। अक्षौहिण्या सेनया च सह भीमेन पातिताः। खड्गयुद्धे पुरा भीष्मे सेनापत्यं प्रकुर्वति॥ २६/२१४॥
कर्णानुजान् ध्रुवाद्यांश्‍च बहून् जघ्ने स वै निशि।
सञ्ज्ञां भीमकृतां ज्ञात्वा शक्तिं चिक्षेप चापराम्। कर्णः शक्तिर्मया दिव्या न मुक्ता तेन जीवसि॥ २६/२१५॥
इति ज्ञापयितुं तां तु ज्ञात्वा भीमः क्षणात् तदा। खमुत्पत्य गृहीत्वा च कर्णे चिक्षेप सत्वरः॥ २६/२१६॥
यदि त्वया तदा मुक्ता शक्तिस्त्वां सा हनिष्यति। इति ज्ञापयितुं सा च कर्णरक्षणकाङ्क्षिणा॥ २६/२१७॥
मुक्ता दक्षभुजे साऽथ विदार्य धरणीं तथा। भित्त्वा विवेश कर्णस्य दर्शयन्ती निदर्शनम्॥ २६/२१८॥
ततो भीमः पुनः स्वं तु रथमास्थाय चापभृत्। कर्णस्य पुरतः शत्रून् द्रावयामास सर्वतः॥ २६/२१९॥
तं कर्णो वारयामास शरैः सन्नतपर्वभिः। भीमः कर्णरथायैव गदां चिक्षेप वेगतः॥ २६/२२०॥
स तद्गदाविघाताय स्थूणाकर्णास्त्रमासृजत्। तेनास्त्रेण प्रतिहता सा गदा भीममाव्रजत्॥ २६/२२१॥
भीमो गदां समादाय कर्णस्य रथमारुहत्। तया सञ्चूर्णयामास कर्णस्य रथकूबरम्॥ २६/२२२॥
एवं त्वच्चूर्णने शक्तो मत्कामात् त्वं हि जीवसि। एवं निदर्शयित्वैव पुनः स्वं रथमाव्रजत्॥ २६/२२३॥
पुनः कर्णपुरः सेनां जघान बहुशो रणे।
कर्णस्तु तं परित्यज्य सहदेवमुपाद्रवत्॥ २६/२२४॥
स तु तं विरथीकृत्य धनुः कण्ठेऽवसज्य च। कुत्सयामास बहुशः स तु निर्वेदमागमत्॥ २६/२२५॥
न हन्तुमैच्छत् तं कर्णः पृथायै स्वं वचः स्मरन्। तं विसृज्य रणे कर्णो जघ्ने पार्थवरूथिनीम्॥ २६/२२६॥
ततो द्रौणिर्विविधैर्बाणसङ्घैर्जघान पार्थस्य चमूं समन्ततः। सा हन्यमाना रणकोविदेन नाशं लेभे मृत्युनाऽर्ता प्रजेव॥ २६/२२७॥
दृष्ट्वा सेनां द्रौणिबलाभिभूतां तमाह्वयामास घटोत्कचो युधे। द्रौणिस्तमाहालमलं न वत्स पुत्रस्तातं योधयस्वाद्य मां त्वम्॥ २६/२२८॥
इत्युक्त ऊचे न पिता मम त्वं सखा पितुर्यद्यपि शत्रुसंश्रयात्। अरिश्‍च मेऽसीति तमाह यद्यरिं मां मन्यसे तद्वदहं करोमि ते॥ २६/२२९॥
इत्यूचिवाञ्छक्रधनुःप्रकाशं विष्फार्य चापं प्रकिरञ्छरौघान्। अभ्यागमद् राक्षसमुग्रवेगः स्वसेनया सोऽपि तमभ्यवर्तत॥ २६/२३०॥
स रक्षसां लक्षसमावृतो बली नृभिश्‍च वीरैर्बहुभिः सुशिक्षितैः। अक्षौहिणीमात्रबलेन राक्षसः सङ्क्षोभयामास गुरोः सुतं शरैः॥ २६/२३१॥
स तेन बाणैर्बहुभिः सुपीडितो विभिन्नगात्रः क्षतजाभिप्लुताङ्गः। व्यावृत्य नेत्रे कुपितो महद् धनुर्विष्फार्य बाणै रजनीं चकार॥ २६/२३२॥
सोऽक्षौहिणीं तां क्षणमात्रतः क्षरन् महाशरांस्तानपि राक्षसान् क्षयम्। निनाय पुत्रं च घटोत्कचस्य निष्ठ्यं पुरा योऽञ्जनवर्मनामकः॥ २६/२३३॥
निरीक्ष्य सेनां स्वसुतं च पातितं घटोत्कचो द्रोणसुतं शरेण। विव्याध गाढं स तु विह्वलो ध्वजं समाश्रितश्‍चाशु ससञ्ज्ञकोऽभवत्॥ २६/२३४॥
उत्थाय बाणं यमदण्डकल्पं सन्धाय चापे प्रविकृष्य राक्षसे। मुमोच तेनाभिहतः पपात विनष्टसञ्ज्ञः स्वरथे घटोत्कचः॥ २६/२३५॥
विमूर्च्छितं सारथिरस्य दूरं निनाय युद्धाज्जगतो विपश्यतः।
द्रौणिश्‍च सेनां निशि तैः शरोत्तमैर्व्यद्रावयत् पाण्डवसोमकानाम्॥ २६/२३६॥
सञ्ज्ञामवाप्याथ घटोत्कचोऽपि क्रुद्धोऽविशत् कौरवसैन्यमाशु। विद्रावयामास च बाणवर्षैः प्रकम्पयामास महारथांस्तथा॥ २६/२३७॥
तदैव पार्थं प्रति योद्धुमागतं वैकर्तनं वीक्ष्य जगत्पतिर्हरिः। घटोत्कचं प्राहिणोच्छक्तिमुग्रां तस्मिन् मोक्तुं पार्थरक्षार्थमेव॥ २६/२३८॥
स कर्णमाहूय युयोध तेन तस्यानु दुर्योधनपूर्वकाश्‍च ये। द्रोणेन चैतान् समरे स एको निवारयामास ममर्द चाधिकम्॥ २६/२३९॥
ते बाध्यमाना बहुशो बलीयसा कर्णं पुरोधाय तमभ्ययोधयन्। न विव्यथे तत्र रणे स कर्णः स्ववीर्यमास्थाय महास्त्रवेत्ता॥ २६/२४०॥
निवारयामास गुरोः सुतं तदा भीमस्त्रिगर्ताञ्छतमन्युनन्दनः। अलम्बको नाम तदैव राक्षसः समासदत् भीमसुतं निहन्तुम्॥ २६/२४१॥
युद्ध्वा प्रगृह्यैनमथो निपात्य घटोत्कचो भूमितलेऽसिनाऽस्य। उत्कृत्य शीर्षं तु सुयोधनेऽक्षिपद् विषेदुरत्राखिलभूमिपालाः॥ २६/२४२॥
अलायुधोऽथागमदुग्रवीर्यो नराशनस्तं स घटोत्कचोऽभ्ययात्। युद्ध्वा मुहूर्तं स तु तेन भूमौ निपात्य तं यज्ञपशुं चकार॥ २६/२४३॥
अथास्य शिर उत्कृत्य क्रोधाद् दुर्योधनोरसि। चिक्षेप तेन सम्भ्रान्ताः सर्वे दुर्योधनादयः॥ २६/२४४॥
घटोत्कचबलख्यात्यै समर्थेनापि यो रणे। न हतो भीमसेनेन हतेऽस्मिन् भैमसेनिना॥ २६/२४५॥
सर्वे सञ्चोदयामासुः कर्णं शक्तिविमोक्षणे। अस्मिन् हते हतं सर्वं किं नः पार्थः करिष्यति॥ २६/२४६॥
एवं सञ्चोद्यमानः स धार्तराष्ट्रैः पुनःपुनः। हैडिम्बेनार्द्यमानैस्तु स्वयं च भृशपीडितः। आदत्त शक्तिं विपुलां पाकशासनसम्मताम्॥ २६/२४७॥
तामम्बरस्थाय घटोत्कचाय शैलोपमायातुलविक्रमाय। चिक्षेप मृत्यो रसनोपमामलं प्रकाशयन्तीं प्रदिशो दिशश्‍च॥ २६/२४८॥
निर्भिन्नवक्षाः स तया पपात व्यचूर्णयच्छत्रुबलं हतोऽपि। तस्मिन् हते जहृषुर्धार्तराष्ट्रा उच्चुक्रुशुर्दुधुवुश्‍चाम्बराणि॥ २६/२४९॥
तदा ननर्त केशवः समाश्लिषच्च फल्गुनम्। ननाद शङ्खमाधमज्जहास चोरुनिस्वनः॥ २६/२५०॥
तमपृच्छद् गुडाकेशः किमेतदिति दुर्मनाः। हते सुतेऽग्रजेऽस्माकं वीरे किं नन्दसि प्रभो॥ २६/२५१॥
तमाह भगवान् कृष्णो दिष्ट्या जीवसि फल्गुन। त्वदर्थं निहिता शक्तिर्विमुक्ताऽस्मिन् हि राक्षसे॥ २६/२५२॥
ततो युधिष्ठिरो दुःखादमर्षाच्चाभ्यवर्तत। कर्णं प्रति तमाहाथ कृष्णद्वैपायनः प्रभुः॥ २६/२५३॥
ययाऽर्जुनो निहन्तव्यस्तयाऽसौ राक्षसो हतः। तन्मा शुचस्त्वं राजेन्द्र दिष्ट्या जीवति फल्गुनः। इत्युक्त्वा प्रययौ व्यासस्ततो युद्धमवर्तत॥ २६/२५४॥
भीमार्जुनाभ्यामिह हन्यमाने बले कुरूणामितरैश्‍च पाण्डवैः। प्रदीपहस्ता अथ योधकाश्‍च सर्वेऽपि निद्रावशगा बभूवुः॥ २६/२५५॥
दृष्ट्वैव तानाह धनञ्जयस्तदा स्वप्स्यन्तु यावच्छशिनः प्रकाशः। इतीरिता आशिषः फल्गुनाय प्रयुज्य सर्वे सुषुपुर्यथास्थिताः॥ २६/२५६॥
पुनश्‍च चन्द्रेऽभ्युदिते युधे ते समाययुः शस्त्रमहास्त्रवर्षाः। तत्रायातः सात्यकिं सोमदत्तो भूरिश्‍च ताभ्यां युयुधे स एकः॥ २६/२५७॥
हतौ च तौ पेततुस्तेन भूमौ बाह्लीक एनं समरे त्वयोधयत्। स सात्यकिं विरथीकृत्य बाणं वधाय तस्याशु मुमोच वीरः॥ २६/२५८॥
चिच्छेद तं भीमसेनस्त्रिधैव तस्मै शतघ्नीं प्रजहार बाह्लिकः। तया हतो विह्वलितो वृकोदरो जघान तं गदया सोऽपतच्च॥ २६/२५९॥
बाह्लीकः प्रार्थयामास पूर्वं स्नेहपुरःसरम्। भीम त्वयैव हन्तव्यो रणेऽहं प्रीतिमिच्छता। तदा यशश्‍च धर्मं च लोकं च प्राप्नुयामहम्॥ २६/२६०॥
इत्युक्त आह तं भीमो नितरां व्यथितस्तदा। हन्यां नैवान्यथा युद्धे तत् ते शुश्रूषणं भवेत्। इति तेन हतस्तत्र भीमसेनेन बाह्लिकः॥ २६/२६१॥
हते बाह्लीके कौरवा भीमसेनमभ्याजग्मुः कर्णसुयोधनाद्याः। द्रौणिं पुरस्कृत्य गुरुं च पार्षतः सभ्रातृकः सात्यकिना समभ्ययात्॥ २६/२६२॥
संशप्तकैरेव पार्थो युयोध तद् युद्धमासीदतिरौद्रमद्भुतम्। अक्षौहिणी तत्र भीमार्जुनाभ्यां निषूूदिता रात्रियुद्धे समस्ता॥ २६/२६३॥
ततः सूर्यश्‍चाभ्युदितस्तदाऽतिघोरं द्रोणः कर्म युद्धे चकार। स पाञ्चालानां रथवृन्दं प्रविश्य जघान हस्त्यश्‍वरथान् नरांश्‍च॥ २६/२६४॥
विद्रावितास्तेन महारथाश्‍च नैवाविन्दञ्छर्म बाणान्धकारे। युवेव वृद्धोऽपि चचार युद्धे स उग्रधन्वा परमास्त्रवेत्ता॥ २६/२६५॥
रथार्बुदं तेन हतं च तत्र ततः सहस्रं गुणितं नराणाम्। ततो दशांशो निहतो हयानां गजार्बुदं चैव रणोत्कटेन॥ २६/२६६॥
तथा विराटद्रुपदौ शराभ्यां निनाय लोकं परमाजिमध्ये। ततो विजित्यैव गुरोः सुतादीन् धृष्टद्युम्नं भीमसेनो जुगोप॥ २६/२६७॥
धृष्टद्युम्नो भीमसेनाभिगुप्तो द्रोणं हन्तुं यत्नमुच्चैश्‍चकार। निवारयामास गुरुः शरौघैर्धृष्टद्युम्नं सोऽपि तं सायकेन। विव्याध तेनाभिहतः स मूर्च्छामवाप विप्रो निषसाद चाशु॥ २६/२६८॥
धृष्टद्युम्नः सत्वरं खड्गचर्मणी आदाय तस्यारुरुहे रथोत्तमम्। सञ्ज्ञामवाप्याथ गुरुः शरौघैः प्रादेशमात्रैर्व्यथयामास तं च॥ २६/२६९॥
स तैरतिव्यथितस्तद्रथाच्च परावृत्तः स्वरथमारुरोह। सुसंरब्धौ तौ पुनरेव युद्धं सञ्चक्रतुर्वृष्टशराम्बुधारौ॥ २६/२७०॥
निवार्य शत्रुं स शरैर्ब्रह्मास्त्रमसृजद् द्विजः। तेन सन्दाहयामास पाञ्चालान् सुबहून् रणे। पुरुजित् कुन्तिभोजश्‍च तेनान्ये च हतास्तदा॥ २६/२७१॥
भीमोऽर्जुनः सात्यकिश्‍च पर्यायेण गुरोः सुतम्। दूरतो वारयामासुर्महत्या सेनया सह॥ २६/२७२॥
कर्णदुर्योधनादींश्‍च शल्यं भोजं कृपं तथा। भीमार्जुनौ शरौघेण वारयामासतू रणे॥ २६/२७३॥
तत्र भीमो गजानीकं जयत्सेनं च मागधम्। जघान सुबहूंश्‍चैव मागधानां रथव्रजान्॥ २६/२७४॥
अथ मालवराजस्य त्वश्‍वत्थामाभिधं गजम्। भीमसेनहतं दृष्ट्वा वासुदेवप्रचोदितः। अश्‍वत्थामा हत इति प्राह राजा युधिष्ठिरः॥ २६/२७५॥
अश्‍वत्थामवधं श्रुत्वा नाहं योत्स्य इति स्वयम्। पुरोक्तं धर्मजायैव तेन द्रोणो युधिष्ठिरम्॥ २६/२७६॥
ब्रूहि सत्यमिति प्राह सत्यमित्येव सोऽब्रवीत्। उपांशु कुञ्जरश्‍चेति द्रोणोऽतो व्यथितोऽभवत्॥ २६/२७७॥
तस्य भीमो रथेषां च गृहीत्वा न तवेदृशम्। योग्यं गुणवतो नित्यं परधर्मोपजीवनम्॥ २६/२७८॥
इत्याह खस्था मुनयश्‍चालमेहीति तं तदा। ऊचुस्तदखिलं ज्ञात्वा द्रोणः शस्त्रमवासृजत्॥ २६/२७९॥
सन्यस्य कर्माणि तदाऽखिलानि योगारूढः परमं वासुदेवम्। सर्वेश्‍वरं नित्यनिरस्तदोषं ध्यायन् मुक्त्वा देहमगात् स्वधाम। तं केशवः पाण्डवा गौतमश्‍च यान्तं स्वलोकं ददृशुर्विहायसा॥ २६/२८०॥
धृष्टद्युम्नः पाण्डवैर्वार्यमाणोऽप्यगात् खड्गं चर्म चादाय तत्र। छित्वाऽसिना तस्य शिरः पुनश्‍च रथं स्वकीयं त्वरया समास्थितः। दृष्ट्वा कृपस्तं सुभृशं भयार्दितः सम्प्राद्रवद् वाजिनमेकमास्थितः॥ २६/२८१॥
सञ्छिन्ने द्रोणशिरसि गर्हयामास वासविः। युधिष्ठिरश्च पाञ्चाल्यं सात्यकिश्‍चापि कोपितः॥ २६/२८२॥
धृष्टद्युम्नस्तु तावाह कथं भूरिश्रवा हतः। इति तं सात्यकिः क्रुद्धो गदापाणिः समभ्ययात्। आह्वयामास पाञ्चाल्यस्तं धृतासिरविस्मयः॥ २६/२८३॥
तदा जग्राह शैनेयं भीमः कृष्णप्रचोदितः। शमयामास पार्थं च पाञ्चाल्यस्नेहयन्त्रितः॥ २६/२८४॥
ते वासुदेवेन तदा सुुशिक्षिताः स्नेहं पुनः पूर्ववदापुरुत्तमम्। यत्ताश्‍च युद्धाय समुद्यताश्‍च तदाऽगमद् द्रौणिरप्यात्तधन्वा॥ २६/२८५॥
आश्रुत्य तातं निहतं प्रतिज्ञां चकार निःशेषरिपुप्रमाथने। नारायणास्त्रं विससर्ज कोपात् तदा भीता भीममृते समस्ताः॥ २६/२८६॥
युधिष्ठिरः प्राह विषण्णचेतनः शैनेयपूर्वाः प्रतियान्तु सर्वे। सभ्रातृकोऽहं द्रौणिवरास्त्रभग्नो भवेयमित्यत्र जगाद केशवः॥ २६/२८७॥
नमध्वमस्त्रस्य ततो विमोक्ष्यथेत्यथ प्रणेमुश्‍च धनञ्जयादिकाः। सर्वे न भीमस्तदमुष्य मूर्ध्नि पपात सोऽग्नाविव संस्थितोऽग्निः॥ २६/२८८॥
अदह्यमाने भीमेऽपि वह्नौ वह्निरिव स्थिते। अवेष्टयद् वारुणेन पार्थोऽत्रात्मप्रपत्तये॥ २६/२८९॥
न देहे पतितास्त्रस्य बहिर्वेष्टनतः फलम्। तथाऽपि स्नेहवशगो वेष्टयामास फल्गुनः॥ २६/२९०॥
अमोघत्वं निजास्त्रस्य भीमस्यावध्यतामपि। साधयन् सार्जुनः कृष्णो भीमस्य रथमारुहत्॥ २६/२९१॥
वेष्टितं वारुणास्त्रेण प्रविष्टं बाह्यतस्तदा। सहितत्वात् केशवेन नरत्वादथ फल्गुनम्॥ २६/२९२॥
तदस्त्रं नादहत् ताभ्यां स्वरथादवरोपिते। भीम आच्छिन्नहेतौ च तदस्त्रं शान्तिमागमत्॥ २६/२९३॥
शुद्धक्षत्रियधर्मेषु निरतो यद् वृकोदरः। वाहनादवतीर्यान्यैः प्रणतेऽपि निरायुधैः। सायुधः सरथी युद्ध्यदविषह्यमपीश्‍वरैः॥ २६/२९४॥
स्वधर्महानौ मित्राणां कर्तव्यं यन्निषेधनम्। अतः सोऽन्यानपि प्राह मा नमध्वमिति स्वयम्॥ २६/२९५॥
नमस्कार्यमपि ह्यस्त्रं न नम्यं जीवनेच्छया। समरे शत्रुणा मुक्तं तस्मात् तं न चकार सः॥ २६/२९६॥
अस्त्राभिमानी वायुर्हि देवताऽस्य हरिः स्वयम्। तस्माद् भीमस्वरूपत्वान्नादहच्चाग्निमग्निवत्॥ २६/२९७॥
मनसैवादरं चक्रे भीमोऽस्त्रे च हरौ तदा। क्षत्रधर्मानुसारेण न ननाम च बाह्यतः॥ २६/२९८॥
वासुदेवः स्वकीयास्त्रं भीमं चामोघमेव तु। साधयित्वाऽनन्तशक्तिः पुनरश्‍वानचोदयत्॥ २६/२९९॥
पुनः प्रयोक्तुमस्त्रं तद् धार्तराष्ट्रोऽभ्यचोदयत्। द्रौणिर्न शक्यमित्युक्त्वा धृष्टद्युम्नं समभ्ययात्॥ २६/३००॥
आयान्तमीक्ष्यैव गुरोः सुतं तं धृष्टद्युम्नं सात्यकिरन्वयाद् रणे। उभौ च तौ सायकाभ्यामविध्यन्निपेततुस्तौ च विमूर्च्छितौ रणे॥ २६/३०१॥
भीमस्याभ्यागतस्याश्‍वान् द्रौणिर्व्यद्रावयद् रणे। संस्थापयति तान् भीमे ददर्श द्रौणिमर्जुनः॥ २६/३०२॥
ततोऽर्जुनस्तं प्रतियोद्धुमागमद् रूक्षा वाचः श्रावयन् क्रुद्धरूपः। तत्राग्नेयं द्रौणिरमुञ्चदस्त्रं तेन व्याप्ता पृतना पाण्डवानाम्॥ २६/३०३॥
अक्षौहिणी निहता चात्र सेना पार्थं सयानं हरिरुज्जहार। जीवन्तमालोक्य सुरेन्द्रनन्दनं द्रौणिः कोपात् कार्मुकं चापहाय। ययौ तमागत्य जगाद कृष्णो वेदान्तकृत् पूर्णषाड्गुण्यदेहः॥ २६/३०४॥
मा याहि साक्षाद् गिरिशः सुराणां कार्याय भूमौ बलवानजायथाः। महच्च कार्यं पुनरस्ति दृष्टं तवाशु तच्च प्रतिपादयेति॥ २६/३०५॥
तथोदितः प्रातरिति ब्रुवाणो ययौ प्रणम्याखिलवेदयोनिम्। ययुस्तमन्वेव सुयोधनादयो दुःखानतास्ते शिबिराय भीताः॥ २६/३०६॥
पार्थाश्‍च सर्वे मुदिता जनार्दनं परं स्तुवन्तः शिबिराय जग्मुः। तत्रापि रात्रावमितान् हरेर्गुणाननुस्मरन्तो मुमुदुः समेताः॥ २६/३०७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये नारायणास्त्रोपशमनं नाम षड्विंशोऽध्यायः समाप्तः॥
सप्तविंशोऽध्यायः
अथानुज्ञामुपादाय द्रौणेर्दुर्योधनो नृपः। कर्णं सेनापतिं चक्रे सोऽगाद् युद्धाय दंशितः॥ २७/१॥
तत्राभवद् युद्धमतीव दारुणं पाण्डोः सुतानां धृतराष्ट्रजैर्गजे। तत्रोदयाद्रिप्रतिमे प्रदृश्यते भीमो यथोद्यत्सविताऽतिनिर्मलः॥ २७/२॥
तं कालयन्तं नृपतीन् क्षेमधूर्तिरभ्यागमत् तस्य गजं जघान च। तं वीर्यमत्तं प्रतिलभ्य भीमो निनाय मृत्योः सदनाय शीघ्रम्॥ २७/३॥
निहत्य तं मारुतिरभ्यकृन्तच्छिरांसि यूनां परपक्षपातिनाम्। विक्षोभयामास च शत्रुसैन्यं सिंहो यथैव श्‍वसृगालयूथम्॥ २७/४॥
सङ्क्षोभ्यमाणं तदनीकमीक्ष्य द्रौणी रथेन प्रतिजग्मिवांस्तम्। तद् युद्धमासीदतिघोरमद्भुतं पुरा यथा नास च कस्यचित् क्वचित्॥ २७/५॥
दृष्ट्वैव तद् देवगन्धर्वविप्रा ऊचुर्नेदृग् दृष्टपूर्वं सुयुद्धम्। नचोत्तरं वाऽपि भविष्यतीदृक् कलां च सर्वाणि न षोडशीमयुः॥ २७/६॥
नैतादृशी ज्ञानसम्पद् बलं वा द्वयं कुतो वायुमृते शिवं तथा। द्वयोः समाहार इह द्वयोरपि ज्ञानस्य बाह्वोश्‍च बलस्य सूर्जितः॥ २७/७॥
इतीर्यमाणे विबुधैर्नरोत्तमौ दिशः समस्ता गगनं च पत्रिभिः। निरन्तरं चक्रतुरुत्तमोजसौ दृष्ट्वैव तद् प्रीतिमगुर्महारथाः॥ २७/८॥
शरासने मारुतिना निराकृते द्रौणिर्महास्त्राणि मुमोच तस्मिन्। तान्यस्त्रवर्यैर्बलवानविस्मयः संशामयामास सुतोऽनिलस्य॥ २७/९॥
पुनः शरैरेव परस्परं तावयुद्ध्यतां चित्रमलं च सुष्ठु। तदा तु भीमस्य शरैर्भृशार्दितो द्रौणिः पपाताशु दृढं विचेतनः॥ २७/१०॥
भीमश्‍च विह्वलतनुः स तु किञ्चिदेव पूर्वं गते गुरुसुते प्रययौ क्षणेन। निर्धूतयुद्धश्रम आत्तधन्वा योद्धुं गजौघं प्रति नादिताशः॥ २७/११॥
तस्मिन् गजान् मर्दयति धार्तराष्ट्रो युधिष्ठिरम्। अगाद् युद्धाय तौ युद्धं राजानौ चक्रतुश्‍चिरम्॥ २७/१२॥
तत्र तं विरथं चक्रे सहसैव युधिष्ठिरः। स गदामाददे गुर्वीं तं भीमोऽभ्यपतद् गदी॥ २७/१३॥
दृष्ट्वा कृपस्तं स्वरथमारोप्यापययौ ततः।
तदैव कर्णनकुलौ भृशं बाणैरयुद्ध्यताम्॥ २७/१४॥
नकुलं विरथं कृत्वा कर्णोऽथ प्रपलायिनम्। अनुद्रुत्य च वेगेन कण्ठे धनुरवासृजत्॥ २७/१५॥
उक्त्वा च परुषा वाचः कुन्त्या वचनगौरवात्। न जघानैव नकुलं विसृज्य च ययौ परान्॥ २७/१६॥
विन्दानुविन्दावथ कैकयौ रणे समासदत् सात्यकिरुग्रविक्रमः। तयोरमुष्याभवदुग्रवैशसं प्रवर्षतोरुत्तमसायकान् बहून्॥ २७/१७॥
ताभ्यां निरुद्धः सहसा जहार तत्रानुविन्दस्य शिरोऽथ विन्दः। युयोध शैनेयमथारथावुभौ परस्परं चक्रतुरुत्तमाहवे॥ २७/१८॥
ततश्‍च चर्मासिधरौ प्रचेरतुः श्येनौ यथाऽऽकाशतले कृतश्रमौ। निकृत्य चान्योन्यमुभौ च चर्मणी वरासिपाणी युगपत् समीयतुः॥ २७/१९॥
तत्रापहस्तेन शिरः सकुण्डलं जहार विन्दस्य मृधे स सात्यकिः। निहत्य तौ बन्धुजनैः सुपूजितो जगाम शत्रूनपरान् प्रकम्पयन्॥ २७/२०॥
कृपमायान्तमीक्ष्यैव तपसा मां प्रपीडयेत्। इति मत्वा पार्षतस्तु भीमं शरणमेयिवान्॥ २७/२१॥
कर्णं समन्तात् प्रतिकालयन्तं वरूथिनीमिन्द्रसुतः समभ्ययात्। क्षणात् तमाजौ विरथं च चक्रे ततोऽपहारं स चकार चम्वाः॥ २७/२२॥
पराजितः संयति सूर्यसूनुः सुतेन शक्रस्य स धार्तराष्ट्रम्।
जगाद बाहुं प्रतिगृह्य पार्थो जिगाय मामन्यमनस्कमाजौ॥ २७/२३॥
कामं रथो मे धनुरप्यभेद्यं दत्तं भृगूणामधिपेन दिव्यम्। यन्ता न तादृङ् मम यादृशो हरिः शल्यो यदि स्यात् त्वदरिं निहन्याम्॥ २७/२४॥
इतीरिते सौत्यकृते स शल्यं प्रोवाच स क्रुद्ध इवाभवत् तदा। दुर्योधनो रथिनः सारथेस्तु व्यावर्णयन्नुत्तमतामशामयत्॥ २७/२५॥
बुद्ध्या बलेन ज्ञानेन धैर्याद्यैरपि योऽधिकः। रथिनः सारथिः स स्यादर्जुनस्य यथा हरिः। यथा शिवस्य ब्रह्माऽभूद् दहतस्त्रिपुरं पुरा॥ २७/२६॥
इत्यादिवाक्यैः संशान्त इव शल्योऽस्य सारथिः। बभूव तेन सहितः सेनां व्यूह्य रवेः सुतः॥ २७/२७॥
गच्छन् युद्धाय दर्पेण प्राह यो मेऽर्जुनं पुमान्। दर्शयेत् तस्य दास्यामि प्रीतो वित्तमनर्गलम्॥ २७/२८॥
इति ब्रुवाणं बहुशः प्राह शल्यः प्रहस्य च। निवातकवचा येन हता दग्धं च खाण्डवम्। को नाम तं जयेन्मर्त्यो दृष्टो वाऽपि स गोग्रहे॥ २७/२९॥
काकगोमायुधर्मा त्वं हंससिंहोपमं रणे। मा याहि पार्थं मा याहि हतोऽनेन यमक्षयम्॥ २७/३०॥
इत्युक्तो रविजो मद्रान् नितरां पर्यकुत्सयत्। शल्योऽपि सर्वदेशेषु नीचमध्योत्तमा नराः। सन्तीत्युक्त्वाऽस्य सारथ्यं चक्रे पार्थहितेप्सया॥ २७/३१॥
कर्णोऽपि शल्यनियतेन रथेन पार्थसेनामवाप्य विदुधाव शरैः समन्तात्। संरक्षितो युधि सुयोधनगौतमाद्यैराचार्यजेन च महास्त्रविदां वरेण॥ २७/३२॥
तं भीमपार्षतशिनिप्रवराभिगुप्ता सा पाण्डवेयपृतनाऽभिववर्ष बाणैः। तां सूर्यसूनुरथ बाणवरैर्विदार्य सम्प्राद्रवच्छितशरैरपि धर्मसूनुम्॥ २७/३३॥
कृत्वा तमाशु विरथं धनुरस्य कण्ठे सज्यं निधाय परुषा गिर आह चोच्चैः।
दृष्ट्वैव मारुतिरमुं भृशमातुतोद दुर्योधनं विरथकार्मुकमाशु कृत्वा॥ २७/३४॥
तं प्राणसंशयगतं नृपतिं निरीक्ष्य कर्णं जगाद युधि मद्रपतिः प्रदर्श्य। यस्यार्थमेष समरस्त्वमियं च सेना तं त्वं यमस्य सदनं प्रयियासुमद्य। भीमेन पीडितममुं परिपाहि शीघ्रं किं ते युधिष्ठिरममुं हि मुधाऽभिपीड्य॥ २७/३५॥
श्रुत्वाऽस्य वाक्यमतिहाय युधिष्ठिरं तं कर्णो ययौ नृपतिरक्षणतत्परोऽलम्।
दृष्ट्वैव तं पवनसूनुरभि त्वियाय क्रोधाद् दिधक्षुरिव कर्णममेयधामा॥ २७/३६॥
राजावनाय शिनिपुङ्गवपार्षतौ च सन्दिश्य कर्णमभिगच्छत आस रूपम्। अन्ते कृतान्तनरसिंहतनोर्यथैव विष्णोर्हरं ग्रसत आत्तसमस्तविश्‍वम्। तद्वेगतः प्रतिचचाल धरा समस्ता विद्राविता च सकला प्रतिवीरसेना॥ २७/३७॥
वैकर्तनेन शरसञ्चयताडितः स बाणं च वज्रसदृशं प्रमुमोच तस्मिन्। तेनाहतो मृतकवत् स पपात कर्णो भीमः क्षुरं च जगृहेऽभिययौ च पद्भ्याम्॥ २७/३८॥
निन्दां हरेस्तु विदधाति परोक्षगोऽपि यस्तं प्रगृह्य करवाणि विजिह्वमेव। एवं हि वायुतनयस्य सदा प्रतिज्ञा छेत्तुं स तेन रविजस्य ससार जिह्वाम्॥ २७/३९॥
आयान्तमन्तिकममुं प्रसमीक्ष्य शल्यो नेत्याह हेतुभिरहो न मृषा प्रतिज्ञा। कार्या त्वयैव पुरुहूतसुतस्य जिह्वां मा तेन पातय मरुत्सुत सूतसूनोः॥ २७/४०॥
इत्युक्त्वा प्रमुखात् तस्य रथेनैव तु मद्रराट्। वैकर्तनमपोवाह सर्वलोकस्य पश्यतः॥ २७/४१॥
जित्वा सूर्यसुतं भीमः कौरवाणामनीकिनीम्। सर्वां विद्रावयामास द्रौणिदुर्योधनावृताम्॥ २७/४२॥
अक्षौहिणीत्रयं तेन तदा विलुलितं क्षणात्।
तदैव गुरुपुत्रोऽयात् पाण्डवानामनीकिनीम्॥ २७/४३॥
विमृद्य सकलां सेनां कृत्वा च विरथं नृपम्। धृष्टद्युम्नं यमौ चैव सात्यकिं द्रौपदीसुतान्। क्षणेन विरथीकृत्य सर्वांश्‍चक्रे निरायुधान्॥ २७/४४॥
तान् भग्नदर्पान् रणतोऽपयातानन्वेव बाणावृतमन्तरिक्षम्। कुर्वन् ययौ धर्मराजस्तमाह किं नः स्वधर्मे निरतान् विहंसि॥ २७/४५॥
क्षत्रियान् परधर्मस्थो मा हिंसीरिति चोदितः। प्रहस्य तान् विहायैव ययौ यत्राच्युतार्जुनौ॥ २७/४६॥
संशप्तकैस्तत्र संयुद्ध्यमानं समाह्वयामास सुरेन्द्रसूनुम्। स बाणयुक्तं भुजगेन्द्रकल्पमुन्नम्य बाहुं युधये सुशूरम्॥ २७/४७॥
पार्थः संशप्तकगणैः संसृष्टः समरार्थिभिः। आहूतो द्रौणिना चैव कार्यं कृष्णमपृच्छत। चोदयामास च हयान् कृष्णो द्रौणिरथं प्रति॥ २७/४८॥
उभौ च तावस्त्रविदां प्रधानौ महाबलौ संयति जातदर्पौ। शरैः समस्ताः प्रदिशो दिशश्‍च द्रोणेन्द्रसूनू तिमिराः प्रचक्रतुः॥ २७/४९॥
द्रौणिस्तदा स्यन्दनवाजिरोमस्वरोमकूपध्वजकार्मुकेभ्यः। शरानमोघान् सततं सृजानो बबन्ध पार्थं शरपञ्जरेण॥ २७/५०॥
तस्मिन् निबद्धे हरिरप्रमेयो विबोधयामास सुरेन्द्रसूनुम्। आलिङ्गनेनास्य ददौ बलं च स उत्थितोऽस्त्राण्यमुचन्महान्ति॥ २७/५१॥
निवार्य तानस्त्रवरैर्गुरोः सुतश्‍चिच्छेद च ज्यां युधि गाण्डिवस्य। ववर्ष पार्थं च शरैरथान्या ज्याऽऽसीत् तया गाण्डिवं सोऽप्ययुङ्क्त॥ २७/५२॥
ततः शरेण कुपितः शितेन द्रौणिसारथेः। शिरो जहार कौन्तेयः सारथ्यं सोऽकरोत् स्वयम्॥ २७/५३॥
शरान् विसृजता तेन सारथ्यमपि कुर्वता। शरकूटेन पार्थः स पुनर्बद्धो द्विजन्मना॥ २७/५४॥
पुनरालिङ्ग्य कृष्णस्तमधाच्छत्रुविघातकम्। बलमस्मिंस्ततः पार्थ उत्तस्थौ शरचापभृत्। ववर्ष च शरान् भूयो द्रोणपुत्रेऽरिमर्दनः॥ २७/५५॥
पुनस्तस्य तुतोद ज्यां द्रौणिः सन्धाय तां पुनः। पार्थो द्रोणसुतस्याश्‍वरश्मींश्‍चिच्छेद सायकैः॥ २७/५६॥
विरश्मयो हया द्रौणेः पुनः पार्थशराहताः। अपोहुर्दूरमेवास्मात् सोऽपि सन्धाय तान् पुनः। चिन्तयामास नैतस्मादधिकं शक्यतेऽर्जुने॥ २७/५७॥
सारथित्वात् केशवस्य ध्वजस्थत्वाद्धनूमतः। गाण्डिवत्वात् कार्मुकस्य चेषुध्योरक्षयत्वतः॥ २७/५८॥
अवध्यत्वात् तथाऽश्‍वानामभेद्यत्वाद् रथस्य च। अतो योद्धुं समर्थोऽपि नाद्य यामि धनञ्जयम्॥ २७/५९॥
एवं स मत्वा प्रविवेश सेनां पाण्डोः सुतानामथ तं समभ्ययात्। पाण्ड्यस्तयोरास सुयुद्धमद्भुतं प्रवर्षतोः सायकपूगमुग्रम्॥ २७/६०॥
अष्टावष्टशतान्यूहुः शकटानि यदायुधम्। अह्नस्तदष्टभागेन द्रौणिश्‍चिच्छेद तत्र हि॥ २७/६१॥
अथ तं विरथं कृत्वा छित्वा कार्मुकमाहवे। सकुण्डलं शिरो द्रौणिर्जहार मुकुटोज्ज्वलम्॥ २७/६२॥
अथ विद्रावयामास पृतनां पाण्डवीं शरैः। तदा जघान पार्थोऽपि दण्डधाराख्यमागधम्॥ २७/६३॥
विद्राव्यमाणां पृतनां निरीक्ष्य गुरोः सुतेनाभ्यगमत् त्वरावान्। धृष्टद्युम्नस्तं स ऊचे सुपापं हनिष्ये त्वामद्य युद्धे गुरुघ्नम्॥ २७/६४॥
इत्युक्तो दर्शयामास पार्षतः खड्गमुत्तमम्। अयं तव पितुर्हन्ता वदिष्यति तवोत्तरम्॥ २७/६५॥
इत्युक्त्वा धनुरादाय ववर्ष च शरान् बहून्। तयोः समभवद् युद्धं तुमुलं रोमहर्षणम्॥ २७/६६॥
तत्र तं पार्षतं द्रौणिः क्षणेन विरथायुधम्। कृत्वाऽन्ताय शरांस्तीक्ष्णान् मुमोच नच तस्य ते। त्वचं च चिच्छिदुर्द्रौणिः खड्गहस्तोऽभिजग्मिवान्॥ २७/६७॥
खड्गेन सोऽस्त्रशस्त्रैरप्यनिर्भिण्णत्वचं तदा। मौर्व्या ममन्थ धनुषः पातयित्वा धरातले॥ २७/६८॥
आकृष्यमाणं पार्षतं तं दृष्ट्वा कृष्णप्रचोदितः। पार्थो भीमश्‍चोभयतः शरैरभिविजघ्नतुः॥ २७/६९॥
स ताभ्यां वज्रसमितैः शरैरभिहतो भृशम्। विसृज्य पार्षतं स्वीयमारुरोह रथं पुनः॥ २७/७०॥
जगाम च ततोऽन्यत्र पाञ्चाल्योऽपि रथं पुनः। आरुह्यान्यं स्वात्तधन्वा कृतवर्माणमभ्ययात्॥ २७/७१॥
तयोरासीत् सुतुमुलं युद्धमद्भुतदर्शनम्। तत्र नातिप्रयत्नेन पाञ्चाल्यो विरथायुधम्। चकार कृतवर्माणं तमपोवाह गौतमः॥ २७/७२॥
अथ दुर्योधनो राजा माद्रेयावभ्ययाद् रणे। ताभ्यां तस्याभवद् युद्धं घोरमद्भुतदर्शनम्। तत्र नातिप्रयत्नेन तेन तौ विरथीकृतौ॥ २७/७३॥
स्वयं युधिष्ठिरो राजा तदा तं समवारयत्। व्यश्‍वसूतध्वजं चक्रे तं च दुर्योधनो रणे॥ २७/७४॥
अथागतं सूर्यसुतं पुनश्‍च जगाम भीमो रभसो रथेन। दुर्योधनं चास्य समक्षमेव चकार वीरो विरथं क्षणेन॥ २७/७५॥
निवार्य कर्णं च शरैरमुष्य सूनोः सुषेणस्य शिरश्‍चकर्त। पपात भूमौ स पितुः समीपे यथा हतः सत्यसेनोऽमुनैव। यथैव कर्णावरजौ पुरैव निशायुद्धे कर्णपुरः प्रपातितौ॥ २७/७६॥
हतं समीक्ष्यैव विकर्तनात्मजः क्रोधान्वितो भीमसेनं विहाय। ययौ प्रमृद्यैव चमूं युधिष्ठिरं रथेऽपरे स्वश्‍वयुते व्यवस्थितम्॥ २७/७७॥
न्यवारयेतां शिनिपुत्रपार्षतौ कृष्णासुताः सोमकसङ्घयुक्ताः। स तान् समस्तान् विरथान् विधाय युधिष्ठिरं प्राप युतं यमाभ्याम्॥ २७/७८॥
निहत्य सोऽश्‍वान् युधि धर्मसूनोर्निरायुधौ तौ च यमौ चकार। तानेकयानोपगतान् पुनश्‍च ममर्द बाणैश्‍च वचोभिरुग्रैः॥ २७/७९॥
तदैव मोक्षाय नृपस्य भीमो दुर्योधनं विरथं संविधाय। विव्याध मर्मस्वतितीक्ष्णसायकैस्तं दर्शयामास रवेः सुताय॥ २७/८०॥
शल्यस्तदा धर्मसुतं विहाय कर्णो ययौ तत्र युधिष्ठिरोऽपि। गत्वा शनैः शिबिरं तत्र शिश्ये कर्णो यदा राजगर्द्धी जगाम॥ २७/८१॥
द्रौणिः कृपश्‍चात्र तदैव जग्मतुस्तदा भीमो द्रौणिकर्णौ जगाम। कृपो नृपं रथमारोपयच्च विद्धं शरैर्भीमबाहुप्रमुक्तैः॥ २७/८२॥
नृपं समादाय कृपेऽपयाते भीमार्दितौ द्रौणिकर्णौ शरौघैः। विहाय तं जग्मतुः सोमकानां चमूं शरौघैरभिपातयन्तौ॥ २७/८३॥
अथात्र राजानमचक्षमाणो धनञ्जयो वासुदेवप्रणुन्नः। अभ्याययौ पार्षतः स्वां तु सेनां कर्णाहतां वीक्ष्य कुरूनपीडयत्॥ २७/८४॥
न्यवारयत् समायातं कपिप्रवरकेतनम्। द्रौणिर्दुःशासनश्‍चैव धृष्टद्युम्नमवारयत्॥ २७/८५॥
उभावतिरथौ तौ तु शस्त्रास्त्रैरभ्यवर्षताम्। दुःशासनः पार्षतश्‍च कुर्वन्तौ बाणजं तमः॥ २७/८६॥
तत्र दुःशासनेनाजौ स्तम्भितो द्रुपदात्मजः। यतमानोऽपि निर्यत्नः कृतो युद्धे निरायुधः॥ २७/८७॥
तदाऽभवद् युद्धमतीव दारुणं द्रौणेस्तनूजेन तु वज्रपाणेः। तत्रापि बद्धः शरपञ्जरेण पार्थोऽपनुत्ताऽपि च गाण्डिवज्या॥ २७/८८॥
पार्थोऽथ कृष्णैधितबाहुवीर्यो निहत्य सूतं गुरुपुत्रकस्य। छित्वा च रश्मींस्तुरगानमुष्य विद्रावयामास शरैः सुदूरम्॥ २७/८९॥
अतीत्य पुत्रं तु गुरोः समागते पार्थे कर्णो द्रावयामास सेनाम्। पाण्डोः सुतानां शरवर्षधारो दुर्योधनश्‍चानु ययौ तमेव॥ २७/९०॥
कर्णमायान्तमालोक्य द्रावयन्तं निजां चमूम्। धनुरन्यत् समादाय धृष्टद्युम्नो न्यवारयत्॥ २७/९१॥
तयोरासीन्महद् युद्धं चिरं सममविश्रमम्। तदैव सात्यकिर्वीरो दुर्योधनमवारयत्॥ २७/९२॥
निवारितः सात्यकिना रणे दुर्योधनो नृपः। निहत्य सात्यकेरश्‍वान् द्रौपदेश्‍चापमच्छिनत्॥ २७/९३॥
तदन्तरैव कर्णोऽपि पार्षताश्‍वानपातयत्। तयोर्विरथयोरेव भग्नं तत् पाण्डवं बलम्॥ २७/९४॥
बलं स्वकीयं बहुधा विभिन्नं समीक्ष्य भीमो मृगराजकेतुः। कृत्वा धराकम्पकमुग्रनादं रणेऽभ्ययात् कौरवराजसैन्यम्॥ २७/९५॥
नादेन बाणैश्‍च वृकोदरेण भग्नं तदा कौरवसैन्यमाशु। दिशो विदुद्राव सुयोधनोऽपि कृतो रणे तेन विवाहनायुधः॥ २७/९६॥
दृष्ट्वैव तत् पाण्डवानां च सेना समावृत्ता क्षिप्रमवार्यविक्रमा। तया पुनः कौरवाणां बलं तद् भग्नं दूराद् दूरतरं प्रदुद्रुवे॥ २७/९७॥
हन्यमानं दिशो यातं पाञ्चालैर्भीमसंश्रयात्। दुर्योधनबलं दृष्ट्वा जज्वालाधिरथिः क्रुधा॥ २७/९८॥
सोऽमोघं रामदैवत्यमस्त्रं भार्गवसञ्ज्ञितम्। सर्वास्त्रनाशकं दिव्यमप्रतिद्वन्द्वमाददे॥ २७/९९॥
तच्च भीमपुरोगेषु सैन्येष्वमुचदुल्बणम्। तदस्त्रं वर्जयामास भीमं रामप्रसादतः। अन्ये तु दुद्रुवुः केचिच्छिष्टाः प्रापुर्यमक्षयम्॥ २७/१००॥
नह्यस्त्रं द्रावमाणांस्तद्धन्ति तेन सपार्षताः। पाञ्चाला द्रौपदेयाश्‍च शैनेयाद्याश्‍च सर्वशः॥ २७/१०१॥
पलायनेनोर्वरिता अर्जुनोऽप्यस्त्रमुद्यतम्। वीक्ष्य प्रत्यस्त्रहीनं तदप्राप्यैव रवेः सुतम्॥ २७/१०२॥
वासुदेवमिदं प्राह वर्जयित्वैव सूतजम्। अन्यत्र यामि नैवास्मादस्त्राज्जीवनमन्यथा॥ २७/१०३॥
इत्यूचिवांसं पार्थं तं कृष्णोऽप्राप्यैव सूतजम्। अन्येनैव पथा भीमं प्रापयामास विश्‍वकृत्॥ २७/१०४॥
तत्रार्जुनोऽवदद् भीमं याहि द्रष्टुं युधिष्ठिरम्। प्रवृत्तिं विद्धि भूपस्य मां तु संशप्तका युधे। आह्वयन्ति हतोच्छेषास्तानहं यामि तद् युधे॥ २७/१०५॥
इत्यूचिवांसं तमुवाच भीमो जानन् स्वबाह्वोर्बलमप्रमेयम्। संशप्तकान् सूतजं कौरवांश्‍च योत्स्येऽहमेकस्त्वमुपैहि भूपम्॥ २७/१०६॥
त्यक्त्वा रणं नाहमितो व्रजेयं न मां वदेत् कश्‍चन युद्धभीतम्। इति ब्रुवाणं तमनन्तशक्तिः प्रीतः कृष्णः प्रशशंसाधिकेष्टम्॥ २७/१०७॥
ययौ युधिष्ठिरं द्रष्टुं शिबिरं सार्जुनो हरिः। दृष्ट्वा तौ नृपतिः कर्णं हतं मत्वा शशंस ह॥ २७/१०८॥
अभिवाद्य हनिष्यामीत्युक्तः पार्थेन स क्रुधा। भृशं विनिन्द्य बीभत्सुमाह कृष्णाय गाण्डीवम्। देहि पुत्रं स राधाया हनिष्यति न संशयः॥ २७/१०९॥
अथवा भीम एवैनं निवृत्ते त्वयि पातयेत्। त्वं तु कुन्त्या वृथा सूतः क्लीबो मिथ्याप्रतिश्रवः॥ २७/११०॥
अहं हि सूतपुत्रेण क्लिष्टो मारुतितेजसा। जीवामीत्यग्रजेनोक्त उद्बबर्हासिमुत्तमम्। वासुदेवस्तदाऽऽहेदं किमेतदिति सर्ववित्॥ २७/१११॥
तमाह गाण्डिवं दातुं य वदेत् तद्वधो मया। प्रतिज्ञातस्ततो हन्मि नृपमित्याह तं हरिः॥ २७/११२॥
सत्यस्य वचनं श्रेयो सत्यज्ञानं तु दुष्करम्। यत् सतां हितमत्यन्तं तत् सत्यमिति निश्‍चयः॥ २७/११३॥
धर्मस्य वचनं श्रेयो धर्मज्ञानं तु दुष्करम्। यः सतां धारको नित्यं स धर्म इति निश्‍चयः॥ २७/११४॥
कौशिकाख्यो ब्राह्मणो हि लीनं ग्रामजनं क्वचित्। तस्करेष्वभिधायैव निरयं प्रत्यपद्यत॥ २७/११५॥
कश्‍चिद् व्याधो मृगं हत्वा मातापितृनिमित्ततः। भक्षार्थमभ्यगात् स्वर्गमसुरोऽसौ मृगो यतः। उपद्रवाय लोकस्य तपश्‍चरति दुर्मतिः॥ २७/११६॥
तस्मात् सद्धारको धर्म इति कृत्वा विनिश्‍चयम्। मा नृपं जहि सत्यां त्वङ्कुरु वाचं तिरस्कुरु। इत्युक्तो बहुधाऽनिन्दत् क्रोधादेवार्जुनो नृपम्॥ २७/११७॥
त्वं नृशंसो कृतघ्नश्‍च निर्वीर्यः परुषंवदः। त्वत्तः सुखं नास्ति किञ्चिन्न मां गर्हितुमर्हसि॥ २७/११८॥
भीमो मां गर्हितुं योग्यो यो ह्यस्माकं सदा गतिः। यो युद्ध्यते सर्ववीरैरद्यापि त्वं तु निन्दकः॥ २७/११९॥
इत्याद्युक्त्वाऽऽत्मनाशाय विकोशं कृतवानसिम्। पुनः कृष्णेन पृष्टः स स्वाभिप्रायमुवाच सः। तच्छ्रुत्वा गर्हयित्वैनं पुनराह जनार्दनः॥ २७/१२०॥
मतिपूर्वं देहहानात् पापं महदवाप्यते। धर्मार्थकाममोक्षाणां साधनं देहतोऽस्ति यत्॥ २७/१२१॥
अतो मा त्यज देहं तु कुरु चात्मप्रशंसनम्। वधो गुरूणां त्वङ्कारः स्वप्रशंसैव चात्मनः। इत्युक्तः स त्वहङ्काराच्छशंस स्वगुणानलम्॥ २७/१२२॥
गुरुनिन्दाऽऽत्मपूजा च न धर्माय भवेत् क्वचित्। तथाऽप्यर्जुनहार्दं तत् सम्प्रकाश्य जनार्दनः॥ २७/१२३॥
तस्य लज्जां समुत्पाद्य नाशयित्वा च तं मदम्। नाहं वेद परं धर्मं कृष्ण एव गतिर्मम॥ २७/१२४॥
इति भावं समुत्पाद्य दोषान् नाशयितुं हरिः। कारयामास तत् सर्वमर्जुनेन जगत्पतिः॥ २७/१२५॥
तत एतदविज्ञानात् कुपितो नृपतिर्भृशम्। आहास्तु राजा भीमस्त्वं युवा मां जहि च स्वयम्। वनं वा विफलो यामीत्युक्त्वोत्तस्थौ स्वतल्पलतः॥ २७/१२६॥
तं वासुदेवः प्रतिगृह्य हेतुमुक्त्वा सर्वं शमयामास नेता। पार्थश्‍च भूपस्य पपात पादयोः क्षमापयन् सोऽपि सुप्रीतिमाप॥ २७/१२७॥
तौ भ्रातरौ वासुदेवप्रसादान्महापदो मुक्तिमाप्यातिहृष्टौ। भक्त्या समस्ताधिपतिं शशंसतुस्त्वया समः को नु हरे हितो नः॥ २७/१२८॥
ततः प्रणम्य बीभत्सुरग्रजं परिरम्भितः। तेनाभिनन्दितः प्रीत्या चाशीर्भिः प्रययौ युधे॥ २७/१२९॥
तं शयितं कर्णजये स्विन्नगात्रं हरिस्तदा। सङ्कीर्त्य पूर्वकर्माणि नरावेशं विशेषतः। व्यञ्जयामास धैर्यं च तस्यासीत् तेन सुस्थिरम्॥ २७/१३०॥
भीमस्तदा शत्रुबलं समस्तं विद्रावयामास जघान चाजौ। वीरान् रणायाभिमुखान् स्वयन्त्रा कुर्वंश्‍च वार्तां रममाण एव॥ २७/१३१॥
तदाऽऽसदत् तं शकुनिः ससैन्यो दुर्योधनस्यावरजैरुपेतः। तं भीमसेनो विरथं निरायुधं विधाय बाणैर्भुवि च न्यपातयत्॥ २७/१३२॥
न जघ्निवांस्तं सहदेवभागं प्रकल्पितं स्वेन तदाऽक्षगोष्ठ्या। तं मूर्च्छितं श्‍वासमात्रावशिष्टं दुर्योधनः स्वरथेनापनिन्ये॥ २७/१३३॥
दुर्योधनस्यावरजा दशात्र प्रदुद्रुवुर्भीमसेनं विहाय।
तदाऽर्जुनं वासुदेवं च दृष्ट्वा प्रीतः श्रुत्वा धर्मराजप्रवृत्तिम्॥ २७/१३४॥
पुनश्‍च निघ्नन्तमरिप्रवीरान् विद्रावयन्तं च निजां वरूथिनीम्। ससार दुःशासन आत्तधन्वा भीमोऽपि तं सिंह इवाभिपेदिवान्॥ २७/१३५॥
तं रूक्षवाचो मुहुरर्पयन्तं विधाय भीमो विरथं क्षणेन। प्रगृह्य भूमौ विनिपात्य वक्षो विदारयामास गदाप्रहारतः॥ २७/१३६॥
आक्रम्य कण्ठं च पदोदरेऽस्य निविश्य पश्यन् मुखमात्तरोषः। विकोशमाकाशनिभं विधाय महासिमस्योरसि सञ्चखान॥ २७/१३७॥
कृत्वाऽस्य वक्षस्युरुसत्तटाकं पपौ निकामं तृषितोऽमृतोपमम्। तच्छोणिताम्भो भ्रमदक्षमेनं संस्मारयामास पुरा कृतानि॥ २७/१३८॥
वाक्सायकांश्‍चास्य पुरा समर्पितान् संस्मारयामास पुनःपुनर्भृशम्। दन्तान्तरं न प्रविवेश तस्य रक्तं ह्यपेयं पुरुषस्य जानतः॥ २७/१३९॥
तथाऽपि शत्रुप्रतिभीषणाय पपाविवास्वाद्य पुनःपुनर्भृशम्। स्मरन् नृसिंंहं भगवन्तमीश्‍वरं स मन्युसूक्तं च ददर्श भक्त्या॥ २७/१४०॥
“यस्ते मन्यो” इत्यतो नारसिंहं सोमं तस्मै चार्पयच्छोणिताख्यम्। युद्धाख्ययज्ञे सोमबुद्ध्याऽरिवक्ष इहेति साम्ना गदया विभिन्दन्॥ २७/१४१॥
उवाच वाचं पुरुषप्रवीरः सत्यां प्रतिज्ञां लोकमध्ये विधाय। याः सपतयस्ता अपतयो हि जाता या साऽपतिः सा सपतिश्‍च जाता॥ २७/१४२॥
पश्यन्तु चित्रां परमस्य शक्तिं ये वै तिलाः षण्ढतिला बभूवुः। एनं गृहीतं हि मया यदीह कश्‍चित् पुमान् मोचयतु स्ववीर्यात्॥ २७/१४३॥
इति ब्रुवाणः पुनरेव रक्तं पपौ सुधां देववरो यथा दिवि। पुनश्‍च सप्राणममुं विसृज्य नदन् ननर्तारिबले निरायुधः॥ २७/१४४॥
प्रत्यनृत्यन् पुरा येऽस्मान् पुनर्गौरिति गौरिति। तान् वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति॥ २७/१४५॥
इति ब्रुवन् नृत्यमानोऽरिमध्य आस्फोटयञ्छत्रुगणानजोहवीत्। शशाक च द्रष्टुममुं न कश्‍चिद् वैकर्तनद्रौणिसुयोधनादिषु॥ २७/१४६॥
भयाच्च कर्णस्य पपात कार्मुकं निमीलयामास तदाऽक्षिणी च। सम्बोधितो मद्रराजेन युद्धे स्थितः कथञ्चित् स तु पार्थभागः॥ २७/१४७॥
द्रौणिर्विहायैनमपाजगाम दूरं तदा भीमसेनो जगाद। पीतः सोमो युद्धयज्ञे मयाऽद्य वध्यः पशुर्मे हरये सुयोधनः॥ २७/१४८॥
इति ब्रुवन् मृतमृत्सृज्य शत्रुं दुर्योधनं चाशु रुषाऽभिदुद्रुवे। आयान्तमीक्ष्यैव तमुग्रपौरुषं दुद्राव भीतः स सुयोधनो भृशम्॥ २७/१४९॥
बलद्वयं चापययौ विहाय भयाद् भीमं कृष्णपार्थौ विनैव। आयोधनं शून्यमभून्मुहूर्तं ननर्त भीमो व्याघ्रपदेन हर्षात्॥ २७/१५०॥
सङ्कल्प्य शत्रून् गोवदेवाजिमध्ये शार्दूलवत् तच्चरितं निशाम्य। जहास कृष्णश्‍च धनञ्जयश्‍च शशंसतुश्‍चैनमतिप्रहृष्टौ॥ २७/१५१॥
यदा स रङ्गः पवमानसूनुना शून्यः कृतस्तत्र मुहूर्तमात्रात्। दुर्योधनस्यावरजाः शरौघैरवीवृषन् भीममुदारसत्त्वम्॥ २७/१५२॥
तान् मारुतिर्बाणवरैर्निकृत्तशीर्षान् यमायानयदाशु वीरः। तस्मिन् दिने विंशतिधार्तराष्ट्रा हतास्तदन्ये समरात् प्रदुद्रुवुः॥ २७/१५३॥
कर्माण्यनन्यौपयिकानि भीमे कुर्वत्येवं भीतभीतेऽरिसङ्घे। निमीलिताक्षे च भयेन कर्णे कर्णात्मजो नकुलं प्रत्यधावत्॥ २७/१५४॥
माद्रीसुतो वृषसेनं शरौघैरवारयत् तं विरथं चकार। कर्णात्मजः सोऽप्यसिचर्मपाणिस्तस्यानुगांस्त्रिसहस्रं जघान॥ २७/१५५॥
कर्णात्मजस्तस्य सञ्छिद्य चर्म भीमार्जुनादीनपि बाणसङ्घैः। अवीवृषत् तस्य पार्थः शरेण ग्रीवाबाहूरून् युगपच्चकर्त॥ २७/१५६॥
एकेन बाणेन सुते हते स्वे वैकर्तनो वासविमभ्यधावत्। तयोरभूद् द्वैरथयुद्धमद्भुतं सर्वास्त्रविद्वरयोरुग्ररूपम्॥ २७/१५७॥
पक्षग्रहास्तत्र सुरासुरास्तयोरन्ये च जीवा गगनं समाश्रिताः। महान् विवादोऽप्यभवत् तयोः कृते तदा गिरीशोऽवददब्जयोनिम्॥ २७/१५८॥
सुरासुराणां भीमदुर्योधनौ द्वौ समाश्रयौ तत्प्रियौ कर्णपार्थौ। प्राणोपमौ तेन चैतत्कृते ते सुरासुराः कर्तुमिच्छन्ति युद्धम्। तदा विनाशो जगतां महान् स्यात् तेनानयोः सममेवास्तु युद्धम्॥ २७/१५९॥
इतीरिते वासवः पद्मयोनिं जगाद कृष्णो यत्र जयश्‍च तत्र। कामो न कृष्णस्य मृषा भवेद्धि कामोऽस्य पार्थस्य जयं प्रदातुम्॥ २७/१६०॥
इत्यूचिवान् वासवः फल्गुनस्य जयोऽस्तु कर्णस्य वधस्तथेति। उक्त्वाऽनमत् कञ्जभवस्तथेति प्राहासुरान् देवताश्‍चाबभाषे॥ २७/१६१॥
न कर्णार्जुनयोरर्थे विरोधं कुरुत क्वचित्। भीमदुर्योधनार्थे वा पश्यन्त्वेव च सङ्गरम्। इत्युक्ते शान्तिमापन्ना ददृशुः सङ्गरं तयोः॥ २७/१६२॥
ववर्षतुस्तौ च महास्त्रशस्त्रैर्भीमो रथस्थोऽवरजं जुगोप। शैनेयपाञ्चालमुखाश्‍च पार्थमावार्य तस्थुः प्रसभं नदन्तः॥ २७/१६३॥
दुर्योधनो द्रौणिमुखाश्‍च कर्णं ररक्षुरावार्य तदाऽऽस युद्धम्। तत्रार्जुनं बाणवरैः स कर्णः सम्मर्दयामास विशेषयन् रणे॥ २७/१६४॥
तदा नदन् भीमसेनो जगाद गदां समादाय समात्तरोषः। अहं चैनं गदया पोथयामि त्वां वा जहीमं समुपात्तवीर्यः। कृष्णोऽपि तं बोधयामास सम्यङ् नरावेशं व्यञ्जयन् भूय एव॥ २७/१६५॥
समृद्धवीर्यः स तदा धनञ्जयः सुयोधनद्रौणिकृपान् सभोजान्। साकं च बाणैर्विरथांश्‍चकार विव्याध तानप्यरिहा सुपुङ्खैः॥ २७/१६६॥
ते किञ्चिद् दूरतस्तस्थुः पश्यन्तो युद्धमद्भुतम्।
अमानुषं तत् पार्थस्य दृष्ट्वा कर्म गुरोः सुतः। गृहीत्वा पाणिना पाणिं दुर्योधनमभाषत॥ २७/१६७॥
दृष्टं हि भीमस्य बलं त्वयाऽद्य तथैव पार्थस्य यथा जिता वयम्। अलं विरोधेन समेत्य पाण्डवैः प्रशाधि राज्यं च मया समेतः॥ २७/१६८॥
धनञ्जयस्तिष्ठति वारितो मया जनार्दनो नैव विरोधमिच्छति। वृकोदरस्तद्वचने स्थितः सदा युधिष्ठिरः शान्तमनास्तथा यमौ॥ २७/१६९॥
हितार्थमेतत् तव वाक्यमीरितं गृहाण मे नैव भयादुदीरितम्। अहं ह्यवध्यो मम चैव मातुलो न शङ्कितुं मे वचनं त्वमर्हसि॥ २७/१७०॥
इतीरितः प्राह सुयोधनस्तं दुःशासनस्याद्य पपौ हि शोणितम्। शार्दूलचेष्टामकरोच्च भीमो न मे कथञ्चित् तदनेन सन्धिः॥ २७/१७१॥
इत्युक्तो द्रौणिरासीत् स तूष्णीं कर्णधनञ्जयौ।
महास्त्रशस्त्रवर्षेण चक्रतुः खं निरन्तरम्॥ २७/१७२॥
आग्नेयवारुणैन्द्रादीन्येतान्यन्योन्यमृत्यवे। ब्रह्मास्त्रमप्युभौ तत्र प्रयुज्यानदतां रणे। अन्योन्यास्त्रप्रतीघातं कृत्वोभौ च विरेजतुः॥ २७/१७३॥
क्रमेण वृद्धोरुबलेन तत्र सुरेन्द्रपुत्रेण विरोचनात्मजः। निराकृतो नागमयं शरोत्तमं ब्रह्मास्त्रयुक्तं विससर्ज वासवौ॥ २७/१७४॥
तं वासुदेवो रथमानमय्य मोघं चकारार्जुनतः किरीटम्। चूर्णीकृतं तेन सुरेन्द्रसूनोर्दिव्यं ययौ बाणगतश्‍च नागः॥ २७/१७५॥
नमिते वासुदेवेन रथे पञ्चाङ्गुलं भुवि। अपाङ्गदेशमुद्दिश्य मुक्ते नागे किरीटिनः॥ २७/१७६॥
भङ्क्त्वा किरीटं वियति गच्छति प्रभुणोदितः। बाणैस्तक्षकपुत्रं तं वासविः पूर्ववैरिणम्॥ २७/१७७॥
हत्वा निपातयामास भूमौ कर्णस्य पश्यतः। ब्रह्मास्त्रस्यातिवेगित्वं प्राप्तं कर्णेन भार्गवात्॥ २७/१७८॥
पुनश्‍च पार्थेन महास्त्रयुद्धं प्रकुर्वतः सूर्यसुतस्य चक्रम्। रथस्य भूमिर्ग्रसति स्म शापादस्त्राणि दिव्यानि च विस्मृतिं ययुः॥ २७/१७९॥
उद्धर्तुकामो रथचक्रमेव पार्थं ययाचेऽवसरं प्रदातुम्। नेत्याह कृष्णोऽञ्जलिकं सुघोरं त्रिनेत्रदत्तं जगृहे च पार्थः॥ २७/१८०॥
सत्येन धर्मेण च सन्नियोज्यो मुमोच कर्णस्य वधाय बाणम्। चिच्छेद तेनैव च तस्य शीर्षं सन्धित्सतो बाणवरं सुघोरम्॥ २७/१८१॥
अपराह्णेऽपराह्णस्य सूर्यजस्येन्द्रसूनुना। छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः॥ २७/१८२॥
तस्मिन् हते दीनमुखः सुयोधनो ययौ समाहृत्य बलं सशल्यः। युधिष्ठिरः कर्णवधं निशम्य तदा समागत्य ददर्श तत्तनुम्॥ २७/१८३॥
शशंस कृष्णं च धनञ्जयं च भीमं च येऽन्येऽपि युधि प्रवीराः। गत्वा च ते शिबिरं मोदमाना ऊषुः सकृष्णास्तदनुव्रताः सदा॥ २७/१८४॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये कर्णपातो नाम सप्तविंशोऽध्यायः समाप्तः॥
अष्टाविंशोऽध्यायः
प्रभातायां तु शर्वर्यां गुरुपुत्रानुमोदितः। शल्यं सेनापतिं कृत्वा योद्धुं दुर्योधनोऽभ्ययात्॥ २८/१॥
तमभ्ययुः पाण्डवाश्‍च हृष्टा युद्धाय दंशिताः। तत्रासीत् सुमहद् युद्धं पाण्डवानां परैः सह॥ २८/२॥
अग्रे भीमः पाण्डवानां मध्ये राजा युधिष्ठिरः। पृष्ठे गाण्डीवधन्वाऽऽसीद् वासुदेवाभिरक्षितः॥ २८/३॥
चक्ररक्षौ यमौ राज्ञो धृष्टद्युम्नश्‍च सात्यकिः। नृपस्य पार्श्‍वयोरास्तामग्रेऽन्येषां गुरोः सुतः॥ २८/४॥
मध्ये शल्यः पृष्ठतोऽभूद् भ्रातृभिश्‍च सुयोधनः। चक्ररक्षौ तु शल्यस्य शकुनिस्तत्सुतस्तथा। कृपश्‍च कृतवर्मा च पार्श्‍वयोः समुपस्थितौ॥ २८/५॥
तत्राभवन्महद् युद्धं भीमस्य द्रौणिना सह। राज्ञः शल्येन च तथा घोररूपं भयानकम्॥ २८/६॥
तत्र नातिप्रयत्नेन द्रौणिर्भीमेन सायकैः। विरथीकृतस्तथा धर्मसूनुः शल्येन तत्क्षणात्॥ २८/७॥
आससाद तदा शल्यं कपिप्रवरकेतनः। तयोरासीन्महद् युद्धमद्भुतं रोमहर्षणम्॥ २८/८॥
रथमन्यं समास्थाय द्रौणिर्भीमं समभ्ययात्। दुर्योधनश्‍च भीमस्य शरैरावारयद् दिशः॥ २८/९॥
तावुभौ शरवर्षेण वारयामास मारुतिः। ताभ्यां तस्याभवद् युद्धं सुघोरमतिमानुषम्॥ २८/१०॥
दुर्योधनस्यावरजान् द्रौपदेया युयुत्सुना। शिखण्ड्याद्यैर्मातुलैश्‍च सह सर्वान् न्यवारयन्॥ २८/११॥
सहदेवस्तु शकुनिमुलूकं नकुलस्तदा। धृष्टद्युम्नश्‍च हार्दिक्यं सात्यकिः कृपमेव च। तेषां तदभवद् युद्धं चित्रं लघु च सुष्ठु च॥ २८/१२॥
शल्यस्तु शरसङ्घातैः पार्थस्यावारयद् दिशः। सोऽपि विव्याध विशिखैः शल्यमाहवशोभिनम्। तयोः सुसममेवासीच्चिरं देवासुरोपमम्॥ २८/१३॥
ततः शरं वज्रनिभं मद्रराजः समाददे। तेन विव्याध बीभत्सुं हृदये स मुमोह च॥ २८/१४॥
उपलभ्य पुनः सञ्ज्ञां वासविः शत्रुतापनः। चिच्छेद कार्मुकं सङ्ख्ये मद्रराजस्य धीमतः॥ २८/१५॥
सोऽन्यत् कार्मुकमादाय मुमोचास्त्राणि फल्गुने। सौरं याम्यं च पार्जन्यं तान्यैन्द्रैण जघान सः॥ २८/१६॥
पुनर्न्यकृन्तत् तच्चापमिन्द्रसूनुरमर्षितः। शल्यो गदां समादाय चिक्षेपार्जुनवक्षसि। तदा मुमोह बीभत्सुस्तत उच्चुक्रुशुः परे॥ २८/१७॥
प्राप्य सञ्ज्ञां पुनः पार्थः शल्यं विव्याध वक्षसि। स विह्वलितसर्वाङ्गः शिश्रिये ध्वजमुत्तमम्॥ २८/१८॥
समाश्‍वस्तः पुनर्बाणं यमदण्डनिभं रणे। मुमोच पार्थस्य स च निर्बिभेद स्तनान्तरम्॥ २८/१९॥
तेन विह्वलितः पार्थो ध्वजयष्टिं समाश्रितः। समाश्‍वस्तः प्रचिच्छेद मद्रराजस्य कार्मुकम्। छत्रं ध्वजं च तरसा सारथिं च न्यपातयत्॥ २८/२०॥
तदाऽन्यं रथमास्थाय धर्मराजः शरोत्तमैः। चतुर्भिश्‍चतुरो वाहाञ्छल्यस्य निजघान ह॥ २८/२१॥
शल्योऽन्यं रथमास्थाय सर्वांस्ताञ्छरवृष्टिभिः। छादयामास राजानं विरथं च चकार ह॥ २८/२२॥
निहत्याश्‍वान् सात्यकेश्‍च धृष्टद्युम्नस्य चाभिभूः। चापे छित्त्वा च यमयोर्दध्मौ शङ्खं महास्वनम्॥ २८/२३॥
ततस्तु शल्यं समुदीर्यमाणं दृष्ट्वा रणे भीमसेनस्तरस्वी। न्यवारयद् बाणवरैरनेकैश्‍चकार चैनं विरथं क्षणेन॥ २८/२४॥
आस्थाय चान्यं रथमापतन्तं पुनश्‍च शल्यं भृशमेव मर्मसु। निर्भिद्य बाणैर्विरथं चकार पुनस्तृतीयं रथमारुरोज॥ २८/२५॥
आत्तान्यात्तान्यायुधान्यस्य भीमः सर्वाणि चिच्छेद बिभेद चास्य। मर्माणि बाणैर्नितरां पुनश्‍च स मुष्टिमुद्यम्य जगाम धर्मजम्॥ २८/२६॥
तं भीमभिन्नमर्माणं विवर्माणं निरायुधम्। श्‍वासमात्रावशिष्टं च मरणायैव केवलम्॥ २८/२७॥
आत्मानमभिगच्छन्तं दृष्ट्वाऽन्यं रथमास्थितः। हन्तुकामो रणे वीरममोघां शक्तिमाददे॥ २८/२८॥
दिव्यास्त्रैरभिसंयोज्य तां तदा धर्मनन्दनः। सत्यधर्मफलैश्‍चैव चिक्षेपास्य हृदि त्वरन्॥ २८/२९॥
स भिन्नहृदयो भूमौ पपाताभिमुखो नृपम्। सत्यधर्मरतः शल्य इन्द्रस्यातिथितामगात्॥ २८/३०॥
मद्रराजे हते वीरे सुशर्माऽर्जुनमभ्ययात्। संशप्तकावशिष्टैस्तमनयन्मृत्यवेऽर्जुनः॥ २८/३१॥
दुर्योधनस्यावरजानवशिष्टान् वृकोदरः। सर्वाञ्जघान सेनां च निःशेषामकरोद् रणे॥ २८/३२॥
उलूकं सहदेवोऽथ शकुनिं चातिपापिनम्। जघान द्रौणिहार्दिक्यकृपान् भीमार्जुनौ ततः॥ २८/३३॥
बहुशो विरथीकृत्य पीडयित्वा पुनःपुनः। द्रावयामासतुस्ते तु भीषिता विविशुर्वनम्॥ २८/३४॥
शैनेयेन गृहीतोऽथ सञ्जयोऽनन्तशक्तिना। व्यासेन मोचितोऽथैकः पार्थान् दुर्योधनोऽभ्यगात्॥ २८/३५॥
तेषामभूत् तस्य च घोररूपं युद्धं स बाणैर्बहुशोऽर्जुनं च। चकार मूर्च्छाभिगतं युधिष्ठिरं यमावयत्नाद् विरथांश्‍चकार॥ २८/३६॥
तं भीमसेनो विरथं चकार गजं समारुह्य पुनः समभ्ययात्। पुनश्‍च शैनेयशिखण्डिपार्षतान् यमौ नृपं च व्यदधान्निरायुधान्॥ २८/३७॥
गजे च भीमेन शरैर्निपातिते समारुहद् वाजिवरं सुनिर्भयः। स तेन च प्रासकरो रणेऽरिहा चचार शैनैयमताडयच्च॥ २८/३८॥
मुमोह तेनाभिहतः स सात्यकिर्यमावपि प्रासनिपीडितौ रथे। निषीदतुर्धर्मसुतं प्रयान्तं समीक्ष्य भीमोऽस्य जघान वाजिनम्॥ २८/३९॥
प्रासे निकृत्ते च वृकोदरेण विवाहनः सोऽपि ययौ सुयोधनः। आदाय गुर्वीं च गदां प्रयातो द्वैपायनस्योरु सरो विवेश॥ २८/४०॥
एवमक्षौहिणीषट्वं भीमेन निहतं रणे। पञ्च पार्थेन निहता अर्द्धं कालिङ्गकानृते। एकादशाक्षौहिणीभ्यः शिष्टमन्यैर्निसूदितम्॥ २८/४१॥
अक्षौहिणीचतुष्कं च पार्थानां द्रौणिना हतम्। अन्यैरन्याः समस्तैश्‍च द्रोणकर्णमहाव्रताः। दुर्योधनो भौमसूनुः प्रायः सेनाहनः क्रमात्॥ २८/४२॥
जयं लब्ध्वा नदत्सूच्चैः पाण्डवेषु महात्मसु। दुर्योधनो जलस्तम्भं कृत्वा मन्त्राञ्जजाप ह॥ २८/४३॥
मन्त्रा दूर्वाससा दत्ता मृतसञ्जीवनप्रदाः। जले स्थित्वा जपन् सप्तदिनैः सर्वान् मृतानपि। उद्धरेद् धार्तराष्ट्रोऽयं स्युरवध्याश्‍च ते पुनः॥ २८/४४॥
इति विद्याबलं तस्य ज्ञात्वा पाण्डुसुतास्ततः। अन्विषन्तः शुश्रुवुश्‍च व्याधेभ्यस्तं जले स्थितम्। आगच्छंश्‍च ततस्तत्र पुरस्कृत्य जनार्दनम्॥ २८/४५॥
तदा जलात् समुन्मज्य त्रिभिर्द्रौणिपुरःसरैः। मन्त्रयन्तं स्म ददृशुस्तान् दृष्ट्वा ते प्रदुद्रुवुः॥ २८/४६॥
दुर्योधनोऽविशत् तोयं दृष्ट्वा तं केशवाज्ञया।
युधिष्ठिरः सुपरुषैर्वाक्यैरेनमथाह्वयत्॥ २८/४७॥
अमर्षितोऽसौ धृतराष्ट्रपुत्रः श्‍वसंस्तदा दण्डहतो यथाऽहिः। उवाच शाठ्यात् तपसे वनाय यायां भवाञ्छासतु सर्वपृथ्वीम्॥ २८/४८॥
तमाह धर्मजो राजा यस्त्वं कृष्णे समागते। सूच्यग्रवेधितां पृथ्वीं दातुं नैच्छः कथं पुनः॥ २८/४९॥
घातयित्वा सर्वपृथ्वीं भीष्मद्रोणमुखानपि। दातुमिच्छसि सर्वां च पृथ्वीं नाद्य वयं पुनः॥ २८/५०॥
अहत्वा प्रतिगृह्णीम एहि युद्धे स्थिरो भव। न कुरूणां कुले जातस्त्वं यो भीतो ह्यपोऽविशः॥ २८/५१॥
इत्यादि रूक्षवचनं श्रुत्वा दुर्योधनो रुषा। जलस्तम्भात् समुत्तस्थौ श्‍वसन्नाशीविषो यथा॥ २८/५२॥
उवाच चैक एवाहमकिरीटो विवर्मकः। भवन्तो बहवो वर्मशिरस्त्राणयुता अपि॥ २८/५३॥
यद्येवमपि मे युद्धं भवद्भिर्मन्यसे समम्। सर्वैरेकेन वा युद्धं करिष्ये नच भीर्मम॥ २८/५४॥
इत्युक्त आह धर्मात्मा वर्माद्यं च ददामि ते। वृणीष्व प्रतियोद्धारं पञ्चानां यं त्वमिच्छसि॥ २८/५५॥
हत्वैकं भुङ्क्ष्व राज्यं त्वमन्ये याम वनं वयम्। हते वा त्वयि तेनैव भुञ्जीमश्‍चाखिलां भुवम्। आधत्स्व चायुधं येन जेतुमिच्छसि शात्रवान्॥ २८/५६॥
इत्युक्त ऊचे नहि दुर्बलैरहं योत्स्ये चतुर्भिर्भवदर्जुनादिभिः। भीमेन योत्स्ये गदया सदा हि मे प्रिया गदा नान्यदथायुधं स्पृशे॥ २८/५७॥
श्रुत्वाऽस्य वाक्यं रभसा वृकोदरो गदां तदाऽध्यर्धभराधिकां मुदा। राज्ञो गदायाः प्रतिगृह्य वीरः समुत्थितो युद्धमनाः समुन्नदन्॥ २८/५८॥
अथाह नारायण आदिदेवो युधिष्ठिरं कष्टमिदं कृतं त्वया। नह्येष राजा गदया रणे चरन् शक्यो विजेतुं निखिलैः सुरासुरैः॥ २८/५९॥
स निश्‍चयाद् वश्‍चतुरो निहन्यात् सहार्जुनान् भीमसेनः कथञ्चित्। हन्तैनमाजौ नहि भीमतुल्यो बले क्वचिद् धार्तराष्ट्रः कृती च॥ २८/६०॥
ऊरू भीमेन भेत्तव्यौ प्रतिज्ञां रक्षता रिपोः। नाभेरधस्ताद्धननं जना आहुर्गदामृधे॥ २८/६१॥
अधर्म इति तत् कृष्णो लोकनिन्दानिवृत्तये। आपद्धर्मं दर्शयितुं किञ्चिद् व्याजेन संयुतः॥ २८/६२॥
भीमो हन्याद् धार्तराष्ट्रमित्यूचे यद्यपि स्फुटम्। अव्याजेनापि शक्तोऽसौ बलं निःसीममाह च॥ २८/६३॥
आह शिक्षामप्यनूनां यत्नं दुर्योधनेऽधिकम्। नहि भीमोऽतिप्रयत्नं कुर्यादिति गुणो ह्ययम्॥ २८/६४॥
प्रतिज्ञापालनं धर्मो दुष्टेषु च विशेषतः। इति धर्मरहस्यं तु वित्तः कृष्णवृकोदरौ॥ २८/६५॥
नान्यस्ततो लोकनिन्दां व्यपनेतुमुभावपि। अनापद्यापदिव च दर्शयेतां जनस्य तु॥ २८/६६॥
ततो भीमः सर्वलोकस्य धर्मं प्रकाशयन् वाक्यमिदं जगाद। ऊरू तवाहं हि यथाप्रतिज्ञं भेत्स्यामि नैवात्र विचारणीयम्॥ २८/६७॥
इति ब्रुवन्तं प्रससार चाजौ दुर्योधनस्तत्र बभूव युद्धम्। भीमस्तदाऽग्य्रप्रकृतिं विधित्सुर्मन्दः स आजौ व्यचरज्जनार्थे॥ २८/६८॥
दर्शयन्तौ गदामार्गं चित्रं तौ प्रविचेरतुः। बलभद्रोऽप्याजगाम तदा तौ प्रतिवारितुम्॥ २८/६९॥
वारितावपि तेनोभौ नैव युद्धं विमुञ्चताम्। ततो ददर्श तद् युद्धं मानितः कृष्णपूर्वकैः। तौ शिक्षाबलसंयुक्तौ मण्डलानि विचेरतुः॥ २८/७०॥
तत्र भीमं वञ्चयितुं धार्तराष्ट्रः शिरः क्षितौ। व्यधादुच्छ्रितसक्थीकस्तदा कृष्णाभ्यनुज्ञया। पृष्ठमूलेऽहनद् भीमो भिन्नसक्थिश्‍च सोऽपतत्॥ २८/७१॥
प्रतिज्ञापालनार्थाय नाभेर्नोपर्यधस्तदा। गदायुद्धस्य मर्यादां यशश्‍चाप्यभिरक्षितुम्॥ २८/७२॥
नाधस्तान्मध्य एवासौ निजघ्ने तं वृकोदरः। एवं प्रतिज्ञायुग्मार्थं भग्नसक्थियुगं रणे॥ २८/७३॥
द्यूते कृष्णं निधेहीति यदवादीत् सुयोधनः। तत्प्रतिज्ञानुसारेण भीमो मूर्धानमक्रमीत्। “ऋषभं मा समानानाम्” इति सूक्तं ददर्श च॥ २८/७४॥
तेषां पुण्यानि विद्याश्‍च समादायैव सर्वशः। तांश्‍चकार तमोगन्तॄंस्तस्य मूर्ध्नि पदाऽऽक्रमत्॥ २८/७५॥
स्मारयामास कर्माणि यानि तस्य कृतानि च। कृष्णबन्धे कृतो मन्त्र इति मूर्ध्नि पदाऽहनत्॥ २८/७६॥
पुनःपुनश्‍च तद् वीक्ष्य चुक्रोध मुसलायुधः। चुक्रोश नैव धर्मोऽयमित्यसावूर्ध्वबाहुकः॥ २८/७७॥
पुनः क्रोधातिताम्राक्ष आदाय मुसलं हलम्। अभिदुद्राव भीमं तं न चचाल वृकोदरः॥ २८/७८॥
अभये संस्थिते भीमे रामं जग्राह केशवः। आह धर्मेण निहतो भीमेनायं सुयोधनः॥ २८/७९॥
न मण्डलेऽभिसारे वा नापसारे च नाभितः। अधो हन्याद् वञ्चयन्तमधो हत्वा न दुष्यति॥ २८/८०॥
कृता प्रतिज्ञा च वृकोदरेण भेत्स्ये तवोरू इति युक्तिपूर्वकम्। संश्रावयानेन तदेष धर्मतो जघान दुर्योधनमग्र्यकर्मा॥ २८/८१॥
वासुदेववचः श्रुत्वा धर्मच्छलमिति ब्रुवन्। रौहिणेयो जगामाशु स्वपुरीमेव सानुगः॥ २८/८२॥
तस्मिन् गते वासुदेवं समपृच्छद् युधिष्ठिरः। धर्मोऽयमथवाऽधर्म इति तं प्राह केशवः॥ २८/८३॥
न साक्षाद् धर्मतो वध्या ये तु पापतमा नराः। देवैर्हि वञ्चयित्वैव हताः पूर्वं सुरारयः। अतोऽयमप्यधर्मेण हतो नात्रास्ति दूषणम्॥ २८/८४॥
भीष्मद्रोणौ च कर्णश्‍च यदैवोपाधिना हताः। को नु दुर्योधने पापे हते दोषः कथञ्चन॥ २८/८५॥
प्रतिज्ञापालनायापि बिभेदोरू वृकोदरः। धर्मतश्‍च प्रतिज्ञेयं कृताऽनेनानुरूपतः॥ २८/८६॥
लोकतोऽपि न धर्मस्य हानिरत्र कथञ्चन। ये भीमस्याप्रभावज्ञा आपद्धर्मं च मन्वते॥ २८/८७॥
अवध्यत्वे शिववराद् गदाशिक्षाबलादपि। जरासन्धोपमो यस्माद् धार्तराष्ट्रः सुविश्रुतः॥ २८/८८॥
तस्मात् सद्धर्म एवायं भीमचीर्ण इति ब्रुवन्। अपि संशयिनं चक्रे धर्मराजं जगत्पतिः॥ २८/८९॥
भूभारक्षतिजो धर्मो मच्छुश्रूषात्मकश्च यः। भीमस्यैव भवेत् सम्यगिति बुद्ध्या परः प्रभुः॥ २८/९०॥
स्वेनैव बलभद्राय जनाय च पुनःपुनः। श्रुत्वाऽप्युक्तं न तत्याज संशयं धर्मजो यतः। ततोऽप्यसंशयं कृष्णो न चकार युधिष्ठिरम्॥ २८/९१॥
मुख्यधर्मं हि भगवान् बलायाह जनाय च। धर्मेणैव हतो राजा धार्तराष्ट्रः सुयोधनः। इति यद् वक्ष्यति पुनर्निश्‍चयार्थोऽर्जुनाय च॥ २८/९२॥
पुनःपुनर्धर्मत एव भीमो जघान राजानमिति ब्रुवन्तम्। जगाद कृष्णं स्फुरिताधरोष्ठः क्रोधात् सुपापो धृतराष्ट्रसूनुः। त्वयैव पापे निहिता हि पार्थाः पापाधिकस्त्वं हि सदैक एव॥ २८/९३॥
इत्यूचिवांसं प्रजगाद कृष्णो न त्वत्समः पापतमः कदाचित्। भीष्मादिहत्याऽपि तवैव पापं यदन्वयुस्त्वामपि पापनिश्‍चयम्। पापं च पापानुगतं च हत्वा कथञ्चनाप्यस्ति नचैव पापम्॥ २८/९४॥
न पाण्डवेष्वस्ति ततो हि किञ्चित् पापं प्रयत्नाच्च निसर्गतोऽपि। गुणाधिकास्ते मदुपाश्रयाच्च को नाम तेष्वण्वपि पापमाह॥ २८/९५॥
निसर्गतः पापतमस्त्वमन्यान् धर्मस्थितान् पापपथे निधाय। स्वयं च पापे निरतः सदैव पापात् सुपापां गतिमेव यासि॥ २८/९६॥
इति ब्रुवन्तं पुनराह कृष्णं दुर्योधनः पापकृतां प्रधानः। स्वन्तोत्तमो नाम क एव मत्तः को नाम दोषोऽस्ति मया कृतोऽत्र॥ २८/९७॥
इष्टं च यज्ञैश्‍चरितं च पूर्तैः पदं रिपूणां निहितं च मूर्ध्नि। मृत्युश्‍च सङ्ग्रामशिरस्यवाप्तो रणोन्मुखेनैव मया किमन्यत्॥ २८/९८॥
इष्टा भोगा मया भुक्ताः प्राप्ता च परमा गतिः। दुःखिनो दुःखमाप्स्यन्ति पार्थास्ते कूटयोधिनः॥ २८/९९॥
चन्द्रसूर्यनिभैः शूरैर्धार्मिकैः सद्भिरुज्झिता। केवला रत्नहीनेयं पाण्डवैर्भुज्यतां मही॥ २८/१००॥
इत्युक्तवत्येव नृपे सुरेशैः प्रसूनवृष्टिर्विहिता पपात। तामेव बुद्धिं धृतराष्ट्रसूनोः कृत्वा दृढां पातयितुं तमोऽन्धे॥ २८/१०१॥
सम्भावयत आत्मानं वासुदेवं विनिन्दतः। तत्परांश्‍च कथं न स्यात् तमोऽन्ते च विशेषतः॥ २८/१०२॥
यदैकैकमलं तत्र दुःखाधिक्यं समुच्चयात्। इति तत् कारयित्वेश आह मोघं तवाखिलम्॥ २८/१०३॥
नृशंसस्य कृतघ्नस्य गुणवद्द्वेषिणः सदा। यदि धर्मफलं ध्वान्तं सूर्यवत् स्यात् प्रकाशकम्॥ २८/१०४॥
वदन् पुनः पुनरिदं धर्मतो हत इत्यपि। ख्यपयामास भगवान् जने निजजनेष्टदः॥ २८/१०५॥
प्रख्यापिते वासुदेवेन धर्मे सतां सर्वेषां हृद्यमासीत् समस्तम्। हतं च धर्मेण नृपं व्यजानन् पापोऽयमित्येव विनिश्‍चितार्थाः॥ २८/१०६॥
युधिष्ठिरोऽपापदर्शी सदैव ससंशयोऽभूत् सुमनोऽभिवृष्ट्या। स्नेहाद् द्रौणिः सञ्जयो रौहिणेयो दौर्योधनात् पापमित्येव चोचुः॥ २८/१०७॥
ततः कृष्णः पाण्डुपाञ्चालकैस्तैर्भृशं नदद्भिर्हृषितैः समेतः। ययौ विरिञ्चेशसुरेन्द्रमुख्यैः सम्पूजितस्तैश्‍च रणाङ्गणात् स्मयन्॥ २८/१०८॥
ततः श्रुत्वा सञ्जयाद् दुःखतप्तं सम्बोधयिष्यन् पितरं युयुत्सुः। कृष्णस्य राज्ञश्‍च मतेऽनुयातो जगाम चान्वेव जनार्दनश्‍च॥ २८/१०९॥
धर्मयुक्तैश्‍च तत्त्वार्थैर्लोकवृत्तानुदर्शकैः। वाक्यै राजानमाश्‍वास्य प्रायात् पार्थान् पुनर्हरिः॥ २८/११०॥
कालानुसारतो देवांश्‍चोपसंहर्तुमच्युतः। ययौ सपार्थशैनेयः कुरूणां शिबिरं निशि॥ २८/१११॥
तदैव हार्दिक्यकृपान्वितोऽयात् दुयोधनं द्रौणिरमुं शयानम्। प्रभग्नसक्थिं श्‍वसृगालभूतैः सम्भक्ष्यमाणं ददृशे श्‍वसन्तम्॥ २८/११२॥
स दुःखशोकाभिहतो विनिन्द्य पार्थान् मया भूप किमत्र कार्यम्। इत्याह निष्पाण्डवतां कुरुष्वेत्यमुं व्यधात् पांस्वभिषेकिणं नृपः॥ २८/११३॥
उच्छिद्य सन्ततिं पाण्डोः कृत्वा स्वक्षेत्रसन्ततिम्। तया भूरक्षणहृदा सोऽभिषिक्तस्तथेत्यगात्॥ २८/११४॥
स कृष्णभीमपार्थानां भयादेव पुनर्वनम्। कृपसात्वतसंयुक्तो विवेश गहनं रथी॥ २८/११५॥
तस्य चिन्तयतो द्रोणवधं दुर्योधनस्य च। नागान्निद्रा निशीथे च ध्वाङ्क्षान् न्यग्रोधवासिनः॥ २८/११६॥
हतान् सुबहुसाहस्रानेकेनातिबलेन तु। कौशिकेन निरीक्ष्यैव प्राह तौ कृपसात्वतौ॥ २८/११७॥
निदर्शनेन ह्येतेन प्रेरितः परमात्मना। यामि पाण्डुसुतान् हन्तुमित्युक्त्वाऽरुरुहे रथम्॥ २८/११८॥
निवारितोऽपि ताभ्यां स प्राद्रवच्छिबिरं प्रति। अनुजग्मतुस्तावपि तं शिबिरद्वारि चैक्षत॥ २८/११९॥
उग्ररूपधरं रुद्रं स्वकीयां तनुमेव सः। परीतं वासुदेवेन बहुकोटिस्वरूपिणा॥ २८/१२०॥
दृष्ट्वैव वासुदेवं तमत्रसद् गौतमीसुतः। वासुदेवाज्ञयैवात्र स्वात्मनाऽपि सदाशिवः॥ २८/१२१॥
अयुद्ध्यदग्रसच्चाशु द्रौणेः सर्वायुधान्यपि। अचिन्त्या हरिशक्तिर्हि दृश्यन्तेऽत्महनोऽपि हि॥ २८/१२२॥
अतस्तया प्रेरितेन स्वात्मनैवाखिलेष्वपि। आयुधेषु निगीर्णेषु द्रौणिर्यज्ञं तु मानसम्। चक्रेऽत्मानं पशुं कृत्वा स्वात्मस्थायैव विष्णवे॥ २८/१२३॥
यज्ञतुष्टेन हरिणा प्रेरितः शङ्करः स्वयम्। आत्मने द्रोणपुत्राय ददौ सर्वायुधानि च॥ २८/१२४॥
उवाच चाहमादिष्टो विष्णुना प्रभविष्णुना। अरक्षं पार्थशिबिरमियन्तं कालमेव तु॥ २८/१२५॥
तदिच्छयैव निर्दिष्टो दास्ये मार्गं तवाद्य च। आयुधानि च सर्वाणि हन्तुं सर्वानिमाञ्जनान्॥ २८/१२६॥
इत्युदीर्य प्रदायाशु सर्वा हेतीर्वृषध्वजः।
तत्रैवान्तर्दधे सोऽपि प्रोवाच कृपसात्वतौ॥ २८/१२७॥
ये निर्यास्यन्ति शिबिराज्जहितं तांश्च सर्वशः। इत्युक्त्वा प्रविवेशान्तर्धन्वी खड्गी कृतान्तवत्॥ २८/१२८॥
पारावताश्‍वं स तदा शयानमुपेत्य पद्भ्यां समताडयच्च। वक्षस्यसाववदद् वीतनिद्रो जाने भवन्तं हि गुरोस्तनूजम्॥ २८/१२९॥
समुत्थितं मां जहि शस्त्रपाणिं शस्त्रेण वीरोऽसि स वीरधर्मः। लोकाश्‍च मे सन्त्वथ शस्त्रपूता इति ब्रुवाणं स रुषा जगाद॥ २८/१३०॥
न सन्ति हि ब्रह्महणां सुलोका विशेषतश्‍चैव गुरुद्रुहां पुनः। न धर्मयुद्धेन वधार्हकाश्‍च ये त्वद्विधाः पापतमाः सुपाप॥ २८/१३१॥
अवश्यभाविनं मृत्युं धृष्टद्युम्नो विचिन्त्य तम्। तूष्णीं बभूव स्वप्नेऽपि नित्यं पश्यति तां मृतिम्॥ २८/१३२॥
द्रौणिं च कालरात्रिं च द्रोणपातादनन्तरम्। विशसन्तं कृषन्तीं च स्वप्ने पश्यति पार्षतः॥ २८/१३३॥
समाक्षिपद् द्रोणसुतोऽस्य कण्ठे निबद्ध्य मौर्वीं धनुषोऽप्युरस्थः। ममन्थ कृच्छ्रेण विहाय देहं ययौ निजं स्थानमसौ च वह्निः॥ २८/१३४॥
ततः शिखण्डिनं हत्वा युधामन्यूत्तमौजसौ। जनमेजयं च पाञ्चालीसुतानभिययौ ज्वलन्॥ २८/१३५॥
तैरुत्थितैरस्यमानः शरैः खड्गेन जघ्निवान्। सर्वान् सव्यापसव्येन तथाऽन्यान् पाण्डवात्मजान्।
ऋत एकं भैमसेनिं काशिराजात्मजात्मजम्॥ २८/१३६॥
तं तदाऽन्तर्हितः शर्वः कैलासमनयत् क्षणात्। स शर्वत्रातनामाऽऽसीदतस्तत्रैव सोऽवसत्॥ २८/१३७॥
पुराऽर्थितः स्वदौहित्रस्यामरत्वाय शङ्करः। काशिराजेन तेनासौ जुगोपैनं कृपायुतः॥ २८/१३८॥
वासुदेवमतं ज्ञात्वा साम्राज्याय परीक्षितः। वारयामास भूलोकं नैव याहीत्यमुं शिवः॥ २८/१३९॥
सामान्यतोऽपाण्डवाय द्रौणिनाऽप्यभिसन्धितम्। तद्रूपेणैव रुद्रेण विनैनमिति चिन्तितम्॥ २८/१४०॥
अस्त्रं ब्रह्मशिरश्‍चैनं न जघानैक्यतस्तयोः।
चेकितानादिकांश्‍चैव जघानान्यान् स सर्वशः॥ २८/१४१॥
स चेदिपाञ्चालकरूशकाशीनन्यांश्‍च सर्वान् विनिहत्य वीरः। शिशूंस्त्रियश्‍चैव निहन्तुमुग्रः प्राज्वालयत् तच्छिबिरं समन्तात्॥ २८/१४२॥
जिजीविषूंस्तत्र पलायमानान् द्वारि स्थितो गौतमसात्वतौ च।
निजघ्नतुः सर्वतः पार्षतस्य सूतस्त्वेकः शेषितो दैवयोगात्॥ २८/१४३॥
खड्गेन प्रहृतं दृष्ट्वा हार्दिक्येन पपात ह। भूमौ प्रागेव संस्पर्शान्न ज्ञातस्तमसाऽमुना। अन्यासक्ते समुत्थाय प्राद्रवद् यत्र पार्षती॥ २८/१४४॥
तस्या अकथयत् सर्वं सा भीमायाह दुःखिता। प्राद्रवद् रथमारुह्य स धन्वी गौतमीसुतम्॥ २८/१४५॥
तदन्तरे द्रौणिरपि प्रयातः कृष्णासुतानां मुदितः शिरांसि। आदाय हार्दिक्यकृपानुयातो दुर्योधनं सन्निकृष्टप्रयाणम्॥ २८/१४६॥
दृष्ट्वा तदुक्तं च निशम्य पापस्तुष्टोऽत्यजत् साध्विति देहमाशु। भीमार्जुनाभ्यामथ केशवाच्च भीताः पृथग् द्रौणिमुखाः प्रयाताः॥ २८/१४७॥
तत्रैकलं द्रोणसुतं रथेन यान्तं रथी मारुतिरन्वधावत्। तमाद्रवन्तं प्रसमीक्ष्य भीतः पराद्रवद् द्रौणिरभिद्रुताश्‍वैः॥ २८/१४८॥
आद्रवन्तं पुनर्दृष्ट्वा भीमं द्रोणात्मजो रुषा। आवृत्य युद्ध्यन् विजितोऽस्त्रं ब्रह्मशिर आददे॥ २८/१४९॥
एतस्मिन्नन्तरे कृष्णो धर्मजेनार्जुनेन च। तत्रागमत् तदस्त्रं च भीमं चाव्यर्थतां नयन्। अवध्यो भीमसेनस्तदस्त्रं चामोघमेव यत्॥ २८/१५०॥
विष्णुनैवोभयं यस्मात् कॢप्तं भीमोऽस्त्रमेव तत्। गायत्री तत्र मन्त्रो यद् ब्रह्मा तद्ध्यानदेवता। ध्येयो नारायणो देवो जगत्प्रसविता स्वयम्॥ २८/१५१॥
ऊचे च पार्थयोः कृष्णो यत् कृतं द्रौणिना पुरा। स्वायुधानां याचनं चाप्यशक्तेन तदुद्धृतौ॥ २८/१५२॥
पृष्टेनोक्तं त्वया हीनां कृत्वा दुर्योधनाय गाम्। दातुं तदायुधं मेऽद्येत्येवमुक्तेऽत्मनोदितम्। मैवं कार्षीः पुनरिति ध्यायताऽब्धेस्तटे स्वमु॥ २८/१५३॥
तदस्त्रं प्रज्वलद् दृष्ट्वाऽपाण्डवत्वविधित्सया। धरायां द्रौणिना मुक्तं कृष्णेन प्रेरितोऽर्जुनः॥ २८/१५४॥
स्वस्त्यस्तु द्रोणपुत्राय भूतेभ्यो मह्यमेव च। इति ब्रुवंस्तदेवास्त्रमस्त्रशान्त्यै व्यसर्जयत्॥ २८/१५५॥
अनस्त्रज्ञेषु मुक्तं तद्धन्यादस्त्रमुचं यतः। गुरुभक्त्या ततो द्रौणेः स्वस्त्यस्त्वित्याह वासविः॥ २८/१५६॥
तदस्त्रयोस्तु संयोगे भूतानां संहृतिर्भवेत्। भूतानां स्वस्तिरप्यत्र काङ्क्षिता करुणात्मना॥ २८/१५७॥
तथाऽप्यस्त्रद्वयं युक्तं भूतानां नाशकृद् ध्रुवम्। तस्मान्निवारयन् योगं तयोर्मध्येऽभवत् क्षणात्। निःसीमशक्तिः परमः कृष्णः सत्यवतीसुतः॥ २८/१५८॥
संस्थाप्यास्त्रद्वयं दूरे तावाह पुरुषोत्तमः। सन्ति ह्यस्त्रविदः पूर्वं प्रायश्‍चैतन्न तैः कृतम्। लोकोपद्रवकृत् कर्म सन्तः कुर्युः कथं क्वचित्॥ २८/१५९॥
इत्युक्तो फल्गुनः प्राह मया मुक्तं महापदि। शान्त्यर्थमेव च विभो क्षन्तव्यं भवता ततः॥ २८/१६०॥
द्रौणिरप्येवमेवाह तौ वेदपतिरब्रवीत्। निवर्त्यतामस्त्रमिति शक्रसूनुस्तथाऽकरोत्। निवर्तनाप्रभुं द्रौणिं वासुदेवोऽभ्यभाषत॥ २८/१६१॥
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः। निवर्तने ततः शक्तो नायं द्रोणात्मजोऽपि सन्।
अब्रह्मचर्यादित्युक्ते व्यासो द्रौणिमभाषत॥ २८/१६२॥
निवर्तनासमर्थस्त्वं देहि नैसर्गिकं मणिम्। जितः प्रागेव भीमेन भीमायैव महाप्रभम्। अपि केवलया वाचा पार्थेभ्योऽस्त्रं निवर्तय॥ २८/१६३॥
इत्युक्तो मूर्धजं रत्नं जरामरणनाशनम्। क्षुत्तृट्च्छ्रमापहं दिव्यं गन्धध्वान्तहरं शुभम्॥ २८/१६४॥
उत्कृत्य भीमाय ददौ मुक्ताः पञ्चैव पाण्डवाः।
अस्त्रादिति ततो वेदभर्ता वासविमब्रवीत्॥ २८/१६५॥
तात मुक्तं द्रौणिनाऽपि त्वमेवास्त्रं निवर्तय। इत्युक्तस्तं प्रणम्याशु सञ्जहारार्जुनोऽपि तत्॥ २८/१६६॥
यादवेशोऽथ गौतम्याः सुतमाहैकसन्ततेः। वाचा निवर्तयास्त्रं त्वमित्युक्ते द्रौणिरब्रवीत्॥ २८/१६७॥
पक्षपातादिच्छसि त्वं भागिनेयस्य सन्ततिम्। तत्रैव पातयाम्यस्त्रमुत्तरागर्भकृन्तने॥ २८/१६८॥
वासुदेवः पुनः प्राह यदि हन्तव्य एव ते। गर्भस्तथाऽपि नैवास्त्रं पातयास्मिन् कथञ्चन॥ २८/१६९॥
अभिमन्योर्मृतस्यैव देहे पातय मानद। एवं त्वदस्त्रनिहतं गर्भमुज्जीवयाम्यहम्॥ २८/१७०॥
पातये गर्भ एवाहमित्यूचे गौतमीसुतः। अथाह वासुदेवस्तमीषत्क्रुद्ध इव प्रभुः॥ २८/१७१॥
दुर्मते पश्य मे वीर्यं यत् ते शक्यं कुरुष्व तत्। उज्जीवयाम्यहं गर्भं यततः शक्तितोऽपि ते॥ २८/१७२॥
सन्ततिर्वर्षसाहस्रं पाण्डवानां भवेद् भुवि। मत्पालितां न कश्‍चित् तां तावद्धन्तुं क्षमः क्वचित्॥ २८/१७३॥
जानामि ते मतिं दुष्टां जिघांसोः पार्थसन्ततिम्। चिकीर्षोर्धार्तराष्ट्रस्य तन्तुं भूयः सुदुष्करम्॥ २८/१७४॥
मदाज्ञया सा विफला भवित्री वाञ्छा मुमुक्षोर्विमुखस्य विष्णोः। यथैव तेनैव नराधिरूढो गम्यस्तव स्यान्नच भूमिभागः॥ २८/१७५॥
दुर्गन्धयुक्तो व्रणसञ्चिताङ्गः सदा चरः स्या विपिनेषु मन्दः। यावद् भुवि स्यादिह पार्थतन्तुर्व्यासोऽपि तं प्राह तथेति देवः॥ २८/१७६॥
रूपद्वयेनापि हरेस्तथोक्तो जगाद कालीतनयं स कृष्णम्। त्वया सह स्यान्मम सङ्गमो विभो यथेष्टतः स्यान्नच मेऽत्र विघ्नः॥ २८/१७७॥
इत्युक्त ओमिति प्राह भगवान् बादरायणः। तं प्रणम्य ययौ सोऽपि स्वप्नदृष्टमनुस्मरन्॥ २८/१७८॥
स्वप्ने हि द्रौपदेयानां वधो दृष्टो त्मना निशि। अर्जुनेन प्रतिज्ञातं द्रौपद्यै स्ववधं प्रति॥ २८/१७९॥
निबध्यानयनं चैव तेनैव शिबिरं प्रति। मुञ्चेति द्रौपदीवाक्यं नेति भीमवचस्तथा। कृष्णवाक्यान्मणिं हृत्वा देशान्निर्यापणं तथा॥ २८/१८०॥
इत्यादि स्वप्नदृष्टं यत् प्रायः सत्यमभूदिति। चिन्तयन् प्रययौ देवं द्रौणिः शस्त्रभृतां वरः॥ २८/१८१॥
स कृष्णोक्तमपि प्राप्य बादरायणशिष्यताम्। प्राप्योत्तरद्वापरे च वेदान् संविभजिष्यति॥ २८/१८२॥
ततः सप्तर्षिर्भूत्वा पाराशर्यप्रसादतः। एकीभावं स्वरूपेण यास्यत्यच्युतनिष्ठया॥ २८/१८३॥
कृपोऽथ पाण्डवान् प्राप्य गौरवात् पूजितश्‍च तैः। अभूदाचार्य एवासौ राज्ञां तत्तन्तुभाविनाम्॥ २८/१८४॥
बादरायणशिष्यत्वं पुनः प्राप्य भजन्नमुम्। साकं स्वभागिनेयेन भाव्येको मुनिसप्तके।
कृतवर्मा द्वारवतीं ययौ कृष्णानुमोदितः॥ २८/१८५॥
कृष्णायै तं मणिं दत्त्वा भीमस्तां पर्यसान्त्वयत्। विकोपा भीमवाक्येन राज्ञे सा च मणिं ददौ॥ २८/१८६॥
राजार्हे च मणौ दत्ते मह्यं भीमेन लौकिकाः। स्त्रीपक्षपातं राजा च शङ्केयुर्मारुतेरिति॥ २८/१८७॥
मणिं राज्ञे ददौ कृष्णा भर्तृप्रियहिते रता। सोऽप्याबध्य मणिं मूर्ध्नि रेजे राजा गवामिव॥ २८/१८८॥
वेदेश्‍वरेणापि यदूत्तमेन कृष्णेन युक्तास्तत आशु पार्थाः। ययुः सभार्या निजराजधानीं हत्वेव सन्तोऽन्तररीन् स्वराज्यम्॥ २८/१८९॥
युधिष्ठिरस्यानु विचित्रवीर्यसुतस्य पादावभिवन्दमानम्। आकृष्य भीमं परमेश्‍वरोऽयोमयाकृतिं धात् पुरतो नृपस्य॥ २८/१९०॥
भीमाकृतिं तां स सुयोधनेन कारायितामभ्यसने गदायाः। आश्लिष्य चूर्णीकृतवानसृग् वमन् हा तात भीमेति वदन् पपात॥ २८/१९१॥
तमाह कृष्णो न हतोऽद्य भीमो नच त्वयाऽन्यैरपि शक्यतेऽसौ। हन्तुं स्वबुद्धिः प्रथिता त्वयाऽद्य पापा हि ते बुद्धिरद्यापि राजन्॥ २८/१९२॥
स्वबुद्धिदोषादतिपापशीलपुत्राख्यपापानि विवर्धयित्वा। नीतो वशं तैः फलमद्य भुञ्जन् न क्रोधितुं चार्हसि भीमसेने॥ २८/१९३॥
इत्युक्तो शान्तबुद्ध्यैव राज्ञाऽऽहूतो वृकोदरः। अभ्यवन्दत तत्पादावनुजाद्याश्‍च तस्य ये॥ २८/१९४॥
वज्राच्च दृढदेहत्वादविकारे वृकोदरे। न दोषो विवृतोऽस्य स्यादिति कृष्णेन वञ्चितः। सर्वानाश्लिष्य च प्रेम्णा युयोज नृप आशिषः॥ २८/१९५॥
कुलनाशकरः पापः शापयोग्यस्तव ह्यहम्। इत्युक्त्वैव प्रणमतो गान्धारी सुपदाङ्गुलीः॥ २८/१९६॥
ददर्श धर्मराजस्य पट्टान्तेन प्रकोपिता। तस्याः क्रोधाग्निनिर्दग्धनखः स कुनखोऽभवत्॥ २८/१९७॥
वन्दमानं पुनर्भीममाह सा क्रोधविह्वला। अधर्मतः कथं भीम सुतं मे त्वं निजघ्निवान्॥ २८/१९८॥
इत्युक्तेऽस्याः शमयितुं क्रोधमग्रे वृकोदरः। प्राह न प्राणसन्देहे पापं स्यात् पापिनो वधे॥ २८/१९९॥
इत्युक्त्वा तां पुनः प्राह प्रतिज्ञाहानिमन्तरा। न मेऽस्ति प्राणसन्देह इति जानन् वृकोदरः॥ २८/२००॥
यथाप्रतिज्ञं भ्रातृव्यान् रणे मम निजघ्नुषः। कोऽधर्मः क्षत्रजातेस्तु तद्धानौ जीवनं नहि॥ २८/२०१॥
पापा न शुद्धधर्मेण हन्तव्या इति च श्रुतिः। अन्यवत् पापहननं पापायेत्याह हि श्रुतिः। अतोऽसुरान् नैकृतिकान् निकृत्या घ्नन्ति देवताः॥ २८/२०२॥
“निकृत्या निकृतिं हन्यान्निकृत्या नैव धार्मिकान्।” इति श्रुतिर्हि परमा पठ्यते पैङ्गिभिः सदा॥ २८/२०३॥
इत्युक्ता तं पुनः प्राह कथं ते नरशोणितम्। पीतं नरेणैव सता न पीतमिति सोऽब्रवीत्॥ २८/२०४॥
दन्तान्तरं न मे प्राप शोणितं त्वत्सुतस्य तत्। प्रतिज्ञापालनायापि प्रतिकर्तुं च तत् कृतम्॥ २८/२०५॥
भीषणाय च शत्रूणां पीतवच्च प्रदर्शितम्। वेददृष्टश्‍च धर्मोऽयमतिपापजनं प्रति॥ २८/२०६॥
इत्युक्तोवाच नैवान्धद्वयस्यास्य वृकोदर। घ्नता पुत्रशतं यष्टिमात्रं चोर्वरितं त्वया॥ २८/२०७॥
तामाह भीमः पापिष्ठा वधयोग्यापराधिनः। सर्वे हता इति पुनः साऽऽह येनाकृतस्तव। अपराधः स एकोऽपि किं नास्तीत्यवदत् स ताम्॥ २८/२०८॥
सर्वैः समेतैः कृष्णस्य बन्धनाय विनिश्‍चितम्। अन्यानि च सुपापानि कृतान्यत्र पुराऽपिच॥ २८/२०९॥
वासुदेवं सभासंस्थं ब्रुवाणं धर्मसंहितम्। पुनःपुनरवज्ञाय यान्तं दुर्योधनं बहिः। सर्वेऽन्वगच्छन्नित्यादीन्यभिप्रेत्य वृकोदरः॥ २८/२१०॥
नैकोऽप्यनपराधी मे स्वयं ताननुशिक्षितुम्। असमर्था मयि क्रोधं किं करोषि निरर्थकम्॥ २८/२११॥
इत्युक्ता साऽभवत् तूष्णीं क्रमात् सर्वैश्‍च पाण्डवैः। वन्दिता व्यासवाक्याच्च किञ्चिच्छान्ताऽथ साऽभवत्॥ २८/२१२॥
तस्या याश्‍च स्नुषाः सर्वास्ताभिः सह पुरस्कृताम्। कृत्वा तं धृतराष्ट्रं च विदुरादींश्‍च सर्वशः॥ २८/२१३॥
पाण्डवाः प्रधनस्थानं सभार्याः पृथया सह।
कृष्णाभ्यां च ययुस्तत्र गान्धार्यास्तपसो बलम्॥ २८/२१४॥
जानन् पाण्डवरक्षार्थं चिकीर्षुस्तत्तपोव्ययम्। वेदेश्‍वरो ददौ चक्षुर्दिव्यं सत्यवतीसुतः॥ २८/२१५॥
तेन दृष्ट्वा प्रेतदेहान् सर्वांस्तत्र समाकुला। शशाप यादवेशानं त्वयाऽस्मत्कुलनाशनम्। यत् कृतं तत् तव कुलं गच्छत्वन्योन्यतः क्षयम्॥ २८/२१६॥
इत्युक्तो भगवान् कृष्णः स्वचिकीर्षितमेव तत्। अस्त्वेवमित्याह विभुरीश्‍वरोऽप्यन्यथाकृतौ॥ २८/२१७॥
तेन तस्यास्तपो नष्टं हीना साऽतो हि भर्तृतः। नाशयेद्धि स्वयं विष्णुः स्वयोग्यादधिकान् गुणान्॥ २८/२१८॥
तत आश्लिष्य भर्तॄणां देहान् प्ररुदतीः स्त्रियः। सर्वा दुर्योधनादीनां दर्शयामास केशवः। कृष्णायै सा च तं देवमस्तुवत् पूर्णषड्गुणम्॥ २८/२१९॥
ततो देहान् प्रसिद्धानां पार्थाः समदहन् सताम्। अन्येषां धृतराष्ट्रादीन् पुरस्कृत्यैव कांश्‍चन। सूतैः पञ्चभिरेवः स्वैः सरस्वत्यां प्रचिक्षिपुः॥ २८/२२०॥
स्नेहान्नृपो यमौ च स्वान्नाजौ तस्मिन् न्ययोजयन्। शवाः प्रायो बहुत्वेन तत्रतत्रैव संस्थिताः॥ २८/२२१॥
ततो ददत्सु पानीयं गङ्गायां स्वजनस्य तु। पृथा कर्णाय दत्तेति पार्थानाहाग्रजं च तम्॥ २८/२२२॥
ततो हाहेति विलपन् राजा परमदुःखितः। शशाप सर्वनारीणां गुह्यं हृदि न तिष्ठतु॥ २८/२२३॥
हा मातस्तव धृत्यैव वयं सर्वे भृशं हताः। ज्येष्ठं पितृसमं हत्वा प्रतिपत्स्याम कां गतिम्॥ २८/२२४॥
एवं वदन्तं कौन्तेयं वासुदेवः सनारदः। शमयामास सद्वाक्यैर्गुणान् कर्णस्य चाब्रवीत्॥ २८/२२५॥
ततस्ते प्रेतकार्याणि चक्रुः सर्वेऽपि सर्वशः। सर्वेषामधिराज्ये च स्थितोऽभूत् पाण्डवाग्रजः॥ २८/२२६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णयेऽष्टाविंशोऽध्यायः समाप्तः॥
एकोनत्रिंशोऽध्यायः
यदैव कृष्णौ सकलाधिराज्ये युधिष्ठिरं यौवराज्ये च भीमम्। विप्रैर्युतावभिषिच्याशिषश्‍च युक्ता दत्त्वा हर्षयामासतुस्तौ॥ २९/१॥
तदैव चार्वाक इति प्रसिद्धं रक्षस्त्रिदण्डी यतिरेव भूत्वा। युधिष्ठिरं गर्हयामास विप्रास्त्वां गर्हयन्तीति सुपापशीलः॥ २९/२॥
श्रुत्वैव तद् दुःखितमाशु धर्मजं दृष्ट्वा विप्राः शेपुरमुं भृशार्ताः। अगर्हितं नित्यमस्माभिरेनं यतोऽवोचो गर्हितमद्य पाप। भस्मीभवाश्‍वेव ततस्त्वितीरिते क्षणादभूत् पापतमः स भस्मसात्॥ २९/३॥
भस्मीकृतेऽस्मिन् यतिवेषधारिणि युधिष्ठिरं दुःखितं वृष्णिसिंहः। प्रोवाच नायं यतिरुग्रकर्मा सुयोधनस्यैव सखा सुपापः॥ २९/४॥
रक्षोऽधमोऽयं निहतोऽद्य विप्रैस्तन्मा शुचः कृतकार्योऽद्य राजन्। इतीरितः शान्तमनाः स विप्रान् सन्तर्पयामास धनैश्‍च भक्त्या॥ २९/५॥
असान्त्वयच्च बान्धवान् स पौरसंश्रयादिकान्। ददौ यथेष्टतो धनं ररक्ष चानु पूर्ववत्॥ २९/६॥
स भीष्मद्रोणकर्णानां वधाद् दुर्योधनस्य च। पापाशङ्की तप्यमानो राज्यत्यागे मनो दधे॥ २९/७॥
सोऽनुजैः कृष्णया विप्रैरप्युक्तो धर्मशासनम्। भीमं सम्प्रार्थयित्वैव न वेत्सीत्याह फल्गुनम्॥ २९/८॥
तस्मिन् क्रुद्धे नृपं प्राहुर्विप्रास्त्वत्तोऽपि धर्मवित्। शक्रोऽर्जुन इति श्रुत्वाऽप्येतद्धर्मे ससंशयम्। मत्स्नेहादेव सर्वेऽपि धर्मोऽयमिति वादिनः॥ २९/९॥
इत्येवं शङ्कमानं तमूचतुर्विप्रयादवौ। कृष्णौ धर्मोऽयमित्येव शास्त्रयुक्त्या पुनःपुनः॥ २९/१०॥
नातिनिश्‍चितबुद्धिं तं तदाऽपि पुरुषोत्तमौ। हतपक्षगतत्वेन त्वच्छङ्काया अगोचरः। यतो भीष्मस्ततो याहि तमित्यूचतुरव्ययौ॥ २९/११॥
स ताभ्यां भ्रातृभिश्‍चैव मुनिभिश्‍च समन्वितः। भीष्मं ययौ लज्जितेऽस्मिंस्तं भीष्मायाह केशवः॥ २९/१२॥
पृच्छेत्युक्तः स भीष्मेण पप्रच्छाखिलमञ्जसा। अत्रोवाचाखिलान् धर्मान् कृष्णो भीष्मशरीरगः॥ २९/१३॥
भीष्मो ह्याह हरिं पार्था बोधनीयास्त्वयैव हि। का शक्तिर्मम देवेश पार्थान् बोधयितुं प्रभो॥ २९/१४॥
इत्युक्तो भगवानाह त्वत्कीर्त्यै त्वयि संस्थितः। प्रवक्ष्याम्यखिलान् धर्मान् सूक्ष्मं तत्त्वमपीति ह॥ २९/१५॥
राज्ञः प्रथमतो धर्मो भगवद्धर्मपालनम्। तदर्थं कण्टकोद्धारो धर्मा भागवता अपि। मनोवाक्कर्मभिर्विष्णोरच्छिद्रत्वेन चार्चनम्॥ २९/१६॥
पूर्णाशेषगुणो विष्णुः स्वतन्त्रश्‍चैक एव तु। तद्वशं सर्वमन्यच्च सर्वदेति विनिश्‍चयः॥ २९/१७॥
देवताक्रमविज्ञानमपूजाऽन्यस्य वै हरेः। पूजा भागवतत्वेन देवादीनां च सर्वशः॥ २९/१८॥
वृथा कर्माकृतिः क्वापि निराशीस्त्वं सदैव च। विष्णोर्भागवतानां च प्रतीपस्याकृतिः सदा। परस्परविरोधे तु विशिष्टस्यानुकूलता॥ २९/१९॥
प्रियं विष्णोस्तदीयानामपि सर्वं समाचरेत्। धर्ममप्यप्रियं तेषां नैव किञ्चित् समाचरेत्॥ २९/२०॥
साम्ये विरोधे च बहूननुवर्तेत वैष्णवान्। एते साधारणा धर्मा ज्ञेया भागवता इति॥ २९/२१॥
तत्त्वविज्ञापनं धर्मो विप्रस्य तु विशेषतः। शारीरदण्डसन्त्यागः पुत्रभार्यादिकानृते। तत्रापि नाङ्गहानिः स्याद् वेदना वा चिरं नतु॥ २९/२२॥
नचार्थदण्डः कर्तव्यो विप्रवैश्यादिभिः क्वचित्। शारीरदण्डविषये वैश्यादीनां च विप्रवत्॥ २९/२३॥
यथालब्धेन वर्तेत भिक्षया वा द्विजोत्तमः। शिष्ययाज्योपलब्धैर्वा क्षत्रधर्मेण वाऽऽऽपदि॥ २९/२४॥
महापदि विशां धर्मैः क्षत्रियः सुरविप्रयोः। अन्यत्र सर्ववित्तेन वर्तेतैतांश्‍च पालयन्॥ २९/२५॥
विरोधिनः क्षत्रियाच्च प्रसह्यैव हरेद् धनम्। सामादिक्रमतो धर्मान् वर्तयेद् दण्डतोऽन्ततः। अपलायी सदा युद्धेऽसतां कार्यमृते क्वचित्॥ २९/२६॥
कृषिवाणिज्यगोरक्षाकुसीदं वैश्यजीवनम्। परिचर्यैव शूद्रस्य वृत्तिरन्ये स्वपूर्ववत्। वर्तेयुर्ब्राह्मणाद्याश्‍च क्रमात् पूज्या हरिप्रियाः॥ २९/२७॥
हरिभक्तावनुच्चस्तु वर्णोच्चो नातिपूज्यते। विना प्रणामं पूज्यस्तु वर्णहीनो हरिप्रियः। आदरस्तत्र कर्तव्यो यत्र भक्तिर्हरेर्वरा॥ २९/२८॥
ज्ञापनं क्षत्रियाणां च धर्मो विप्राभ्यनुज्ञया। तदभावे तु वैश्यानां शूद्रस्य परमापदि॥ २९/२९॥
वर्णेष्वज्ञेष्ववर्णस्तु न ज्ञानी स्यात् कथञ्चन। इति श्रुतेरवर्णस्य ज्ञापनप्राप्तिरेव न॥ २९/३०॥
ज्ञेयं सर्वं त्रिवर्णस्थस्त्रीभिर्वेदान् विनाऽखिलम्। स्वीयपुन्नियतिः स्त्रीणां स्वदारनियतिर्नृणाम्॥ २९/३१॥
धर्मो गुणोत्तमानां तु स्मृत्यैवान्धं तमो व्रजेत्। गुणसर्वस्वहानिः स्यादुत्तरोत्तरतोऽत्र च॥ २९/३२॥
अधोऽधोऽधिकदोषः स्यात् स्त्रीणामन्यत्र मध्यतः। वेदा अप्युत्तमस्त्रीभिः कृष्णाद्याभिरिवाखिलाः॥ २९/३३॥
देव्यो मुनिस्त्रियश्‍चैव नरादिकुलजा अपि। उत्तमा इति विज्ञेया सच्छूद्रैरप्यवैदिकम्। ज्ञेयमन्यैर्हरेर्नाम निजकर्तव्यमेव च॥ २९/३४॥
सर्वथाऽन्धं तमो याति वरं सदृशमेव च। यो विष्णोर्मन्यते किञ्चिद् गुणैः कैश्‍चिदपि क्वचित्॥ २९/३५॥
ब्रह्मेशानादिकमपि भेदं यो वा न मन्यते। भेददृक् तद्गुणादौ वा प्रादुर्भावगतेऽपि यः॥ २९/३६॥
प्राकृतं देहमथवा दुःखाज्ञानश्रमादिकम्। मन्यते तारतम्यं वा तद्भक्तेष्वन्यथैव यः॥ २९/३७॥
मनोवाक्तनुभिर्यो वा तस्मिंस्तद्भक्त एव वा। विरोधकृद् विष्ण्वधीनादन्यत् किञ्चिदपि स्मरन्॥ २९/३८॥
अन्याधीनत्वविच्चास्य सर्वपूर्त्यविदेव च। भक्तिहीनाश्‍च ते सर्वे तमोऽन्धं यान्त्यसंशयम्॥ २९/३९॥
तत्त्वे संशययुक्ता ये सर्वे ते निरयोपगाः। दोषेभ्यस्ते गुणाधिक्ये नैव यान्त्यधमां गतिम्। गुणदोषसाम्ये मानुष्यं सर्वदैव पुनःपुनः॥ २९/४०॥
यावद् दोषक्षयश्‍चोर्ध्वा गतिः क्रमश एव तु। सर्वदोषक्षये मुक्तिरात्मयोग्यानुसारतः॥ २९/४१॥
भक्तिज्ञानोन्नतावेव स्वर्गश्‍च शुभकर्मणः। विष्णुवैष्णववाक्येन हानिः पापस्य कर्मणः॥ २९/४२॥
इत्यादि धर्मसर्वस्वं भीष्मस्थेनैव विष्णुना। पार्थानां गदितं तच्च श्रुत्वा धर्मसुतोऽनुजान्। पप्रच्छ विदुरं चैव सारं धर्मादिषु त्रिषु॥ २९/४३॥
आह क्षत्ता धर्ममेव सारमर्थं च मध्यमम्। नीचं कामं निष्फलत्वादर्थमेवार्जुनोऽब्रवीत्॥ २९/४४॥
सारं स द्विविधो ज्ञेयो दैवो मानुष एव च। दैवो विद्या हिरण्यादिर्मानुषः परिकीर्तितः॥ २९/४५॥
मध्यमो धर्म एवात्र साध्यं साधनमेव च। विद्याह्वयोऽर्थो धर्मस्य विद्ययैव विमुच्यते॥ २९/४६॥
मानुषोऽर्थोऽपि विद्यायाः कारणं सुप्रयोजितः। तुष्टोऽर्थेन गुरुर्यस्मात् कैवल्यं दातुमप्यलम्॥ २९/४७॥
धर्मार्थतां विनाऽप्यर्थैस्तुष्येयुर्गुरुदेवताः। यद्यनुद्देशितो धर्मोऽप्यर्थमेवानु संव्रजेत्॥ २९/४८॥
गुरुताऽर्थगतैव स्यात् कामोऽधस्ताद्धि निष्फलः। यमावत्र विदां श्रेष्ठावर्जुनोक्तमनूचतुः॥ २९/४९॥
अथाह भीमः प्रवरः सुतत्त्वदृशां समस्तानभिभाष्य हर्षात्। स्मयन् न कामादतिरिक्तमस्ति किञ्चिच्छुभं क्वावरतां स यायात्॥ २९/५०॥
काम्यं हि कामाभिधमाहुरार्याः काम्याः पुमर्थाः सह साधनैर्यत्। अकाम्यतां यात्यपुमर्थ एव पुमर्थितत्वाद्धि पुमर्थ उक्तः॥ २९/५१॥
विज्ञानभक्त्यादिकमप्यतीव तत्साधनं कामबहिष्कृतं चेत्। न साधनं स्यात् परमोऽपि मोक्षो न साध्यतां याति विना हि कामात्॥ २९/५२॥
परात् परोऽप्यादिपुमान् हरिश्‍च स्वस्येतरेषामपि काम्य एव। अकामितोऽवाग्गतिमेव दद्यात् कामः पुमर्थोऽखिल एव तेन॥ २९/५३॥
इच्छैव कामोऽस्तु तथाऽपि नैतामृते हि चित्त्वं घटकुड्यवत् स्यात्। सारस्ततः सैव चिदात्मिकाऽपि सा चेतना गूढतनुः सदैव॥ २९/५४॥
न प्रश्नयोग्यः पृथगेव कामस्तेनैष राजन् यदि तारतम्यम्। इच्छस्ययं ते त्रिविधो हि वेद्यो धर्मार्थयुक्तः परमो मतोऽत्र। एकाविरोधी यदि मध्यमोऽसौ द्वयोर्विरोधी तु स एव नीचः॥ २९/५५॥
तस्मात् स्वबुद्धिप्रमदाभिरेव कामं रमेथा अनुरूपकामः। राजन् न कामादपरं शुभं हि परो हि कामो हरिरेव येन॥ २९/५६॥
प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः। इदं वचो व्याससमासयुक्तं सम्प्रोच्य भीमो विरराम वीरः॥ २९/५७॥
प्रशस्य भीममन्यांश्‍च राजा मोक्षमथास्तुवत्। स्वयुक्तेरप्रतीपत्वान्निराचक्रे न मारुतिः॥ २९/५८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये धर्मसारनिरूपणं नाम एकोनत्रिंशोऽध्यायः समाप्तः॥
त्रिंशोऽध्यायः
अथ कृष्णमनुस्मृत्य भीष्मे स्वां वसुतां गते। कृत्वा कार्याणि सर्वाणि गङ्गामाश्‍वास्य दुःखिताम्॥ ३०/१॥
आश्‍वासितश्‍च कृष्णाभ्यां धर्मजो दुःखितः पुनः। पराशरसुतेनोक्तः कृष्णेनानन्तराधसा॥ ३०/२॥
अपापे पापशङ्कित्वादश्‍वमेधैर्यजाच्युतम्। कुरुष्व राज्यं धर्मेण पालयापालकाः प्रजाः॥ ३०/३।
इत्युक्तः स तथा चक्रे त्यक्त्वा भोगांश्‍च कृत्स्नशः। गोव्रतादिव्रतैर्युक्तः पालयामास मेदिनीम्॥ ३०/४॥
ददौ देयानि मुख्यानि यथाकाममखण्डितम्। नैवार्थी विमुखः कश्‍चिदभूद् योग्यः कथञ्चन॥ ३०/५॥
प्रष्टा च दाताऽखिलराजनम्यो यष्टा च धर्मात्मज एव तत्र। बभूव पाण्डोर्गृहमावसंश्‍च राजाधिराजो वनितानिवृत्तः॥ ३०/६॥
भीमस्तु दौर्योधनमेव सद्म प्रपेदिवानूर्जितवीर्यलब्धम्। कृष्णासहायः सुरराजयोग्यानभुङ्क्त भोगान् युवराज एव॥ ३०/७॥
कृष्णा च पार्थाश्‍चतुरो विहाय सुव्यक्तसारस्वतशुद्धभावा। रराज राजावरजेन नित्यमनन्ययोगेन शिखेव वह्नेः॥ ३०/८॥
प्रीत्यैव विज्ञानयुजाऽन्यपार्थैः संवादतः परिहृता गतभाविकाले। अपि स्वकीयं पतिमेव भीममवाप्य सा पर्यचरन्मुदैव॥ ३०/९॥
रराज राजावरजस्तया स द्विरूपया सोमककाशिजातया। श्रिया भुवा चैव यथाऽब्जनाभो निहत्य सर्वान् दितिजान् महाब्धौ॥ ३०/१०॥
सर्वोत्तुङ्गो नामतः प्राणवायोरंशो निशायां गुरुपुत्रसूदितः। माताऽस्य देवीति च रौहिणेयी भीमप्रियाऽऽसीद् या पुरास्यैव राका॥ ३०/११॥
अन्याश्‍चासुर्वासुदेव्यो दिशो या आपश्‍च पूर्वं विंशतिरग्र्यरूपाः। ताभिर्युक्तो दैवतैरप्यलभ्यानभुङ्क्त भोगान् विबुधानुगार्चितः॥ ३०/१२॥
ररक्ष धर्मानखिलान् हरेः स निधाय विप्राननुशास्य युक्तान्। सद्वैष्णवान् विदुषः पञ्च पञ्च सवेतनान् ग्राममनु स्वकीयान्॥ ३०/१३॥
दधार दण्डं तदवर्तिषु स्वयं जग्राह चान्वेव मुदाऽथ तद्गतान्। तद्वृत्तमन्यैरपि विप्रवर्यैः संशोधयन् सर्वमसौ यथावत् ॥ ३०/१४॥
नावैष्णवः कश्‍चिदभूत् कुतश्‍चिन्नैवान्यनिष्ठो नच धर्महन्ता। न विध्यवर्ती नच दुःखितोऽभून्नापूर्णवित्तश्‍च तदीयराष्ट्रे॥ ३०/१५॥
वासिष्ठवृष्णिप्रवरौ प्रपश्यतां ताभ्यां च भीमेन मुनीश्‍वरैश्‍च। संशिक्षितानां प्रथमाद् युगाच्च गुणाधिकः कलिरासीत् प्रजानाम्॥ ३०/१६॥
शुभं महत् स्वल्पफलं कृते हि विपर्ययेणाशुभमेष दोषः। तद्धीनमप्युच्चशुभं कृताद् युगाच्चक्रे कलिं मारुतिरच्युताश्रयात्॥ ३०/१७॥
धनञ्जयः प्रोद्यतदण्ड आसीत् सदाऽन्यचक्रेषु निजाग्रजेरितः। विभीषयित्वा नृपतीन् सरत्नान् पदोर्नृपस्याग्रभुवो न्यपातयत्॥ ३०/१८॥
तदैव कृष्णस्य मुखारविन्दाद् विनिःसृतं तत्त्वविनिर्णयामृतम्। पिबन् सुताद्याधिमसौ क्रमेण त्यजंश्‍च रेमे विरतातिभोगः॥ ३०/१९॥
दुःशासनस्यावसथं सुभद्राचित्राङ्गदासहितोऽध्यावसंश्‍च। सचन्द्रिकाकान्तिरनूनबिम्बो नभस्थितश्‍चन्द्र इवात्यरोचत॥ ३०/२०॥
समस्तभृत्याश्रितवेतनानां माद्रेय आसीत् प्रथमः प्रदाता। स दुर्मुखस्यावसथेऽवसच्च स मद्रराजात्मजयाऽग्र्यवर्ती॥ ३०/२१॥
सन्धानभेदानुगतप्रवृत्तिस्तिष्ठंश्‍च दुर्मर्षणशुभ्रसद्मनि। नृपाङ्गरक्षः प्रगृहीतखड्गस्तस्यानुजो मागधकन्ययाऽऽऽसीत्॥ ३०/२२॥
सेनापतिः कृप आसीद् युयुत्सुः ससञ्जयो विदुरश्‍चाम्बिकेयम्। पार्थेरिताः पर्यचरन् स्वयं च सर्वे यथा दैवतमादरेण॥ ३०/२३॥
द्विरूपकृष्णप्रहितेषु पाण्डुषु क्षितिं प्रशासत्सु न कश्‍चनातुरः। नचाक्रमान्मृत्युरभून्न नार्यो विभर्तृका नो विधुरा नराश्‍च॥ ३०/२४॥
शब्दादयश्‍चासुरतीव हृद्या निकामवर्षी च सुरेश्‍वरोऽभूत्। प्रजा अनास्पृष्टसमस्ततापा अनन्यभक्त्याऽच्युतमर्चयन्ति॥ ३०/२५॥
पृथ्वी च गावः ससरस्वतीका निकामदोहा अभवन् सदैव। अब्दाब्धिनद्यो गिरिवृक्षजङ्गमाः सर्वेऽपि रत्नप्रभवा बभूवुः॥ ३०/२६॥
कृष्णाश्रयात् सर्वमिदं वशे ते विधाय सम्यक् परिपालयन्तः। दिवीव देवा मुमुदुः सदैव मुनीन्द्रगन्धर्वनृपादिभिर्युताः॥ ३०/२७॥
समुज्ज्वला पाण्डवकीर्तिनारी पदं विधायासुरपक्षमूर्धसु। वराभये चैव सतां कराभ्यां कृष्णप्रसूता जगदण्डमावृणोत्॥ ३०/२८॥
पातालपादां पृथिवीनितम्बामाकाशमध्यां करसन्तताशाम्। ग्रहर्क्षताराभरणां द्युवक्षसं विरिञ्चलोकस्थलसन्मुखाम्बुजाम्॥ ३०/२९॥
विकुण्ठनाथाभयहस्तमादरान्मूर्ध्ना वहन्तीं वरभारताख्याम्। निशम्य तामीक्ष्य समस्तलोकाः पवित्रिता वेदिभवामिवान्याम्॥ ३०/३०॥
प्रपालयत्स्वेव धरां सकृष्णेष्वद्धैव पार्थेषु कलिर्बलिश्‍च। सुपापदैत्यौ क्वच राष्ट्रविल्पवं सञ्चक्रतुस्तच्छ्रुतमाशु पार्थैः॥ ३०/३१॥
नृपेण कृष्णेन च साधु चोदितो भीमस्तदा तौ सगणौ विजित्य। बलिं प्रविद्राव्य कलिं निबद्ध्य समानयत् कृष्णनृपेन्द्रयोः पुरः॥ ३०/३२॥
पप्रच्छ तं कृष्णपुरो युधिष्ठिर उदारधीः। कले किमिति मे राष्ट्रं विप्लावयसि दुर्मते॥ ३०/३३॥
इत्युक्त आह कालोऽयं दुर्योधननिपातनम्। आरभ्य मम तत्र त्वं बलादाक्रम्य तिष्ठसि। ततो मया कृतो राष्ट्रविप्लवस्ते नराधिप॥ ३०/३४॥
तमाह राजा राज्ञां हि बलाद् राज्यं प्रवर्तते। अपि कालभवं राष्ट्रं त्वदीयं मादृशैर्नृपैः। ह्रियते बलवद्भिर्हि राज्याशा ते कुतस्तदा॥ ३०/३५॥
कालो वा कारणं राज्ञो राजा वा कालकारणम्। इति ते संशयो मा भूद् राजा कालस्य कारणम्॥ ३०/३६॥
तमुवाच कलिः काले मदीये त्वादृशः कुतः। राजानं पूर्वमाविश्य विप्रांश्‍च स्यामहं नृप॥ ३०/३७॥
वासुदेवसहायेषु तेजो युष्मासु मे नहि। क्व राजाऽसावृते युष्मान् यो मया नाभिभूयते॥ ३०/३८॥
मदीयकाले भूपाल विप्रदेवविरोधिनि। मद्दृष्टिपाते क्व गुणाः क्व वेदाः क्व सुयुक्तयः॥ ३०/३९॥
जगाद नृपतिः सत्यं कले वक्ष्यनृतोऽपि सन्। मोचये त्वार्तवचनाद् यदाऽस्मत्सन्ततेः परम्। विलुम्पस्यखिलान् धर्मान् करं तत्रापि नोऽर्पय॥ ३०/४०॥
सीमाधिर्बहुवाक्यं च तुलामाने च मे करः। नैवातिक्रममेतेषां कुरु सर्वात्मना क्वचित्॥ ३०/४१॥
तमाह भगवान् कृष्णो यावत् पाण्डवसन्ततिः। तावन्न ते भवेच्छक्तिः प्रवृत्तस्यापि भूतले॥ ३०/४२॥
पाण्डवेभ्यः परं यावत् क्षेमकः क्रमवर्धिता। क्षेमकात् परतः पूर्तिं शक्तिस्ते यास्यति ध्रुवम्॥ ३०/४३॥
न द्रष्टव्यं भूतलं ते कुत एव स्पृशेर्भुवम्। यावत् पार्था अहं चात्र ततो भुवि पदं कुरु॥ ३०/४४॥
इत्युक्तो वासुदेवेन मोचितो धर्मजेन च। तान् प्रणम्य ययौ पारे समुद्रस्याश्रयद् गुहाम्। पार्थाश्‍च कृष्णसहिता रक्षन्तः क्ष्मां मुदं ययुः॥ ३०/४५॥
एवं पार्थान् प्रतिष्ठाप्य शक्रप्रस्थे तु सार्जुनः। क्रीडन् दिव्याः कथाः प्राह पुत्रशोकापनुत्तये।
गीतोक्तं विस्मृतं चास्मै पुनर्विस्तरतोऽवदत्॥ ३०/४६॥
वाणी प्राणो वासुदेव इत्येतैरखिलं ततम्। सर्वोत्तमत्वमेतेषां सर्वमेतद्वशे जगत्। उत्तरोत्तरमेतेऽपि गुणोच्चास्तद्वशेऽपरे॥ ३०/४७॥
इत्थं हरेर्वशे सर्वं गुणपूर्णश्‍च स प्रभुः। एक एव नचान्योऽस्ति प्राणोच्चा तदधो रमा॥ ३०/४८॥
स हुताश इति प्रोक्तो हुतमत्त्यखिलं यतः। वाक्प्राणमध्यगो नित्यं धारयत्यखिलं जगत्। स ईशो ब्रह्मरुद्राद्या जीवा एव प्रकीर्तिताः॥ ३०/४९॥
एतस्यानादिसद्भक्ता मुक्तियोग्या हि ते स्मृताः। अनादिद्वेषिणो येऽस्मिंस्तमोयोग्याः सुपापिनः॥ ३०/५०॥
मिश्रा मध्या इति ज्ञेयाः संसारपरिवर्तिनः। एवं जीवास्त्रिधा प्रोक्ता भवन्त्येते नचान्यथा॥ ३०/५१॥
तारतम्यं च विज्ञेयं लिङ्गैर्दैहिकमानसैः। विष्णोर्लिङ्गानुसारित्वात् तारतम्यात् तदीक्षणम्॥ ३०/५२॥
विष्णोस्तदनुगानां च प्रीतिकृद् धर्म ईरितः। अधर्मोऽन्य इयं निष्ठा प्रलापः किं करिष्यति। एवमाद्यनुशास्याजः पार्थं पार्थैः सुसत्कृतः॥ ३०/५३॥
कथञ्चित् तानवस्थाप्य सुदूरानुगतान् प्रभुः। सुभद्रासहितः प्रायाद् यानेन द्वारकापुरीम्॥ ३०/५४॥
समाधिविरतोदङ्कपरिपृष्टः पथि प्रभुः। हतं दुर्योधनं प्राह सभ्रातृसुतसैनिकम्॥ ३०/५५॥
तं शिष्यवधकोपेन शप्तुमात्मानमुद्यतम्। केशवोऽशमयद् वाक्यैर्विश्‍वरूपं प्रदर्श्य च॥ ३०/५६॥
मद्भक्तो नितरामेष मदाराधनतत्परः। मामवज्ञाय निरयं माऽनुत्थानं व्रजेदिति॥ ३०/५७॥
कृपया वासुदेवेन बोधितः शान्तमानसः। पश्‍चात्तापाभितप्तात्मा तमेव शरणं ययौ॥ ३०/५८॥
तस्मै देवोऽभयं दत्त्वा प्रेषयिष्येऽमृतं तव। दातुं शक्रमिति प्रोक्त्वा ययौ द्वारवतीं प्रभुः॥ ३०/५९॥
अथादिदेश देवेशं वासुदेवोऽमृतं मुनेः। देहीति वञ्चयिष्यामीत्याह सोऽपि क्षमापयन्॥ ३०/६०॥
ओमित्युक्तो भगवता तत्स्नेहात् स शचीपतिः। सुजुगुप्सितमातङ्गवेषो भूत्वा मुनिं ययौ॥ ३०/६१॥
मूत्रस्रोतसि सौधञ्च निधाय कलशं वशी। मूत्रयन्निव तं प्राह वासुदेवः सुधामिमाम्। महर्षे प्रेषयामास तवार्थे तां पिबेति च॥ ३०/६२॥
स मूत्रमिति मत्वा तं याहीत्येवाह भर्त्सयन्। वञ्चयित्वैव तं शक्रो ययौ प्रीतः स्वमालयम्॥ ३०/६३॥
असाधारणमन्नं हि देवानाममृतं सदा। अन्यपीतिस्ततस्तस्य देवानां परमाप्रिया॥ ३०/६४॥
आत्मदत्तप्रसादाच्च स्वापराधात् प्रचालिते। उदङ्के वासुदेवस्तु युक्तमित्येव मन्यते॥ ३०/६५॥
स्वपुरीं प्राप्य यदुभिः पूजितः शूरसूनवे। वृत्तान्तं कथयामास केशवो यदुसंसदि॥ ३०/६६॥
वधमन्तरितं सूनोः सात्त्वतेशेन सात्त्वती। प्रणम्य कथयेत्यूचे तत आह जनार्दनः॥ ३०/६७॥
ततः सुदुःखिताः शूरपुत्राद्या अभिमन्यवे। श्राद्धदानानि बहुशश्‍चक्रुः केशवसंयुताः॥ ३०/६८॥
निवसत्यत्र विश्‍वेशे धर्मराजः क्रतूत्तमम्। अश्‍वमेधमनुष्ठातुं नाविन्दद् वित्तमञ्जसा॥ ३०/६९॥
हतशेषात् क्षत्रसङ्घात् करं नैच्छद् दयापरः। नच मध्यमकल्पेन यष्टुं तस्य मनो गतम्॥ ३०/७०॥
विज्ञाय नित्यविज्ञातनिखिलो बादरायणः। आविर्भूतो हिमवतः शृङ्गं यत्राभिसङ्गतम्॥ ३०/७१॥
मेरुशृङ्गेण यत्रैव विष्णुः स्वात्मानमव्ययम्। लोकस्य सङ्ग्रहायेजे कर्मबन्धोज्झितोऽपि सन्॥ ३०/७२॥
शङ्कराद्याः सुरा यत्र मरुत्तश्‍चेजिरे हरिम्। दानवो वृषपर्वा च तत्रास्ति धनमक्षयम्॥ ३०/७३॥
तच्छङ्करशरीरस्थं जामदग्न्यं हरिं परम्। इष्ट्वैवानुज्ञया तस्य स्वीकृत्य यज तेन च। इत्याह व्यासवाक्यानु भीमोऽप्याह युधिष्ठिरम्॥ ३०/७४॥
धनस्य देवता विष्णुर्जामदग्न्योऽखिलेश्‍वरः। स शङ्करशरीरस्थो यज्ञोच्छिष्टधनाधिपः॥ ३०/७५॥
तेनैव विष्णुना दत्तमर्जुनायास्त्रमुत्तमम्। कार्याण्यन्यानि चास्माकं कृतान्येतेन विष्णुना॥ ३०/७६॥
स ब्रह्मरुद्रशक्रादिपददाताऽखिलेश्वरः। स्वतन्त्रः परतन्त्रांस्तानावर्तयति चेच्छया॥ ३०/७७॥
प्रियोऽस्माकं प्रियास्तस्य सर्वदैव वयं नृप। अतस्तदभ्यनुज्ञातधनेनैव यजामहे॥ ३०/७८॥
सोऽयं पितामहोऽस्माकं व्यासस्तन्नः प्रदास्यति। इत्युक्त्वा तं पुरस्कृत्य कृष्णद्वैपायनं ययुः॥ ३०/७९॥
धनं कृष्णः समादाय समन्ताच्छतयोजनम्। ददौ तेषां तेऽपिचोहुर्हस्त्युष्ट्राश्‍वनरादिभिः॥ ३०/८०॥
युधिष्ठिरमृते सर्वे भीमसेनपुरोगमाः। यज्ञार्थमूहिरे भूरि स्वर्णमुद्यद्रविप्रभम्॥ ३०/८१॥
तदैव वासुदेवोऽपि सभार्यः स सुभद्रया। आगच्छन् हस्तिनपुरं पथ्युदङ्केन पूजितः॥ ३०/८२॥
तत्कामवर्षिणो मेघांस्तस्य दत्वोदकार्थिनः। सफलं स्ववरं कृत्वा जगाम गजसाह्वयम्॥ ३०/८३॥
आसन्नेष्वेव पार्थेषु व्यासे च पुरुषोत्तमे। प्रविवेश पुरं कृष्णस्तदाऽसूतोत्तरा मृतम्॥ ३०/८४॥
द्रौण्यस्त्रसूदितं बालं दृष्ट्वा कुन्त्यादिकाः स्त्रियः। शरण्यं शरणं जग्मुर्वासुदेवं जगत्पतिम्॥ ३०/८५॥
प्रत्यक्षमात्मना गर्भे रक्षितं प्रसवे हतम्। पुनरुज्जीवयामास केशवः पार्थतन्तवे॥ ३०/८६॥
तदैव विविशुः पार्था सकृष्णाः सधनोच्चयाः। सर्वे मुमुदिरे दृष्ट्वा पौत्रं केशवरक्षितम्॥ ३०/८७॥
ददौ दानानि बहुशो धर्मपुत्रो युधिष्ठिरः। पौत्रजन्मनि हृष्टात्मा वासुदेवं ननाम च॥ ३०/८८॥
कुन्तीकृष्णासुभद्राभिर्वैराट्याऽन्याभिरेव च। पाण्डवैः पुरुषैरन्यैः संस्तुतः प्रणतो हरिः॥ ३०/८९॥
ततः कृष्णाभ्यनुज्ञाताः पाराशर्यसदस्यकाः। आरेभिरेऽश्‍वमेधं ते मुनिभिर्ब्रह्मवादिभिः॥ ३०/९०॥
सर्वयज्ञात्मकं तेषामश्‍वमेधं जगत्पतिः। कारयामास भगवान् कृष्णद्वैपायनः स्वयम्॥ ३०/९१॥
साधनानि तु सर्वाणि शालां चैव हिरण्मयीम्। पवमानसुतश्‍चक्रे कृष्णद्वैपायनेरितः॥ ३०/९२॥
अथानुमन्त्रितोत्सृष्टं पुरोहितपुरस्कृतम्। तुरगं कृष्णसारङ्गमनुवव्राज वासविः॥ ३०/९३॥
स जित्वा रुन्धतः सर्वान् नृपतीञ्छस्त्रतेजसा। चारयामास सर्वेषु राष्ट्रेष्वविजितोऽरिभिः॥ ३०/९४॥
युधिष्ठिराज्ञया तेन न कश्‍चिन्निहतस्तदा। आहूताश्‍च नृपास्तेन यज्ञार्थं प्रीयताऽखिलाः॥ ३०/९५॥
बभ्रुवाहनप्रसङ्गः
मळलूरं क्रमात् प्राप्तस्तत्रैनं बभ्रुवाहनः। अभ्ययादर्घ्यपाद्याद्यैस्तमाह विजयः सुतम्॥ ३०/९६॥
योद्धुकामोऽर्घ्यमादाय त्वयाऽद्याभिगतो ह्यहम्। न प्रीये पौरुषं धिक् ते यन्मेध्याश्‍वो न वारितः॥ ३०/९७॥
तदाऽपि पितृभक्त्यैनमयुद्ध्यन्तमुलूपिका। प्राह युद्ध्यस्व यत् प्रीत्यै गुरोः कार्यमसंशयम्। प्रीणनायैव युद्ध्यस्व पित्रे सन्दर्शयन् बलम्॥ ३०/९८॥
इत्युक्तो युयुधे पित्रा बलं सर्वं प्रदर्शयन्। अर्जुनस्तु सुतस्नेहान्मन्दं योधयति स्मयन्॥ ३०/९९॥
स तु सर्वायुधक्षेपेऽप्यविकारं धनञ्जयम्। दृष्ट्वा बाल्यात् परीक्षायै मन्त्रपूतं महाशरम्। चिक्षेप पित्रे दैवेन तेनैनं मोह आविशत्॥ ३०/१००॥
मूर्च्छितं तं गुरुं दृष्ट्वा तद्भक्त्या भृशदुःखितः। प्रायोपविष्टस्तन्माता विललापातिदुःखिता॥ ३०/१०१॥
विजगर्ह तदोलूपीं धिग् जगत्त्रयपूजितम्। अजीघनो मे भर्तारं पुत्रेणैवाविजानता॥ ३०/१०२॥
लोकवीरं पतिं हत्वा न मे कार्यं सुतेन च। पतिलोकमहं यास्ये तृप्ता भव कलिप्रिये॥ ३०/१०३॥
इत्युक्त्वा मरणायैव तां विनिश्‍चितमानसाम्। धरायां विलुठन्तीं च दृष्ट्वा भुजगनन्दिनी॥ ३०/१०४॥
नागलोकात् समादाय विशल्यकरणीं क्षणात्। उत्थापयामास पतिं त्रिलोकातिरथं तया॥ ३०/१०५॥
प्रहस्योवाच च तदा श्रुतं वाक्यं पुरा मया। सुरलोके सुरैः प्रोक्तं भीष्माद्या नातिधर्मतः॥ ३०/१०६॥
यद्धतास्तेन दोषेण पार्थस्तेनातिवेदनाम्। रणे व्रजेदिति न तत् परतः स्यादिति ह्यहम्॥ ३०/१०७॥
वचनादेव देवानां युद्ध्येत्यात्मजमब्रुवम्। देवानामेव सङ्कल्पान्मूर्च्छितश्‍चार्जुनोऽभवत्। भुक्तदोषफलश्‍चायं पुनर्भोक्ष्यति नान्यतः॥ ३०/१०८॥
अन्येन पातितस्यास्य यशो नश्येत् त्रिलोकगम्। नार्जुनस्य यशो नश्येदिति दैवैरिदं कृतम्॥ ३०/१०९॥
इत्युक्तः प्रीतिमापेदे पुत्रभार्यायुतोऽर्जुनः। यज्ञार्थं तावथाहूय पूजितः प्रययौ ततः॥ ३०/११०॥
द्वारकायाः समीपस्थं प्रद्युम्नाद्याः सुता हरेः। प्रसह्याश्‍वमपाजह्रुराह्वयन्तोऽर्जुनं युधे॥ ३०/१११॥
सुभद्राहरणं मार्ष्टुं नीतेऽश्‍वे तैर्धनञ्जयः। गौरवाद् वासुदेवस्य मातुलस्य च केवलम्॥ ३०/११२॥
मातुलायाब्रवीदश्‍वं हृतं पौत्रैरबन्धुवत्। स निर्भत्स्य कुमारांस्तान् मेध्यमश्‍वममोचयत्॥ ३०/११३॥
मातुलं स प्रणम्याथ यज्ञार्थं तान् निमन्त्र्य च। गच्छन् गजाह्वयं दूतमग्रतोऽयापयन्नृपे॥ ३०/११४॥
सकृष्णः सहसोदर्यः श्रुत्वाऽसौ प्राप्तमर्जुनम्। प्रीतो बाष्पातिपूर्णाक्षो भ्रातृस्नेहादभाषत॥ ३०/११५॥
वासुदेव न पश्यामि दुर्लक्षणमथार्जुने। केन दुर्लक्षणेनायं बहुदुःखी प्रवासगः॥ ३०/११६॥
पृष्टस्तं केशवः प्राह भ्राता ते दीर्घपिण्डिकः। तेनायं दुःखबहुल इत्युक्त्वा पुनरेव च। वदन्तमेव पाञ्चाली कटाक्षेण न्यवारयत्॥ ३०/११७॥
समस्तलक्षणाभिज्ञाः कृष्णः सत्या वृकोदरः। कृष्णा स पञ्चमो नास्ति विद्या शुद्धेयमञ्जसा॥ ३०/११८॥
प्रसङ्गात् प्राप्तुमिच्छेत् तां विद्याशीलो युधिष्ठिरः। इति लोभात् तु पाञ्चाली वासुदेवं न्यवारयत्॥ ३०/११९॥
तद्गौरवाद् वासुदेवो नोत्तरं प्रत्यभाषत। विस्मारयामास च तं प्रब्रुवाणः कथान्तरम्॥ ३०/१२०॥
उदरस्य किञ्चिदाधिक्यं वृषणाधिक्यमेव च। सव्यबाहोस्तथाऽऽधिक्यं दुर्लक्षणमथार्जुने॥ ३०/१२१॥
तन्नोक्तं वासुदेवेन दृश्यमानमपि स्फुटम्। ज्ञानानन्दह्रासकरा ह्येते दोषाः सनातनाः॥ ३०/१२२॥
समस्तजीवराशौ तु दुर्लक्षणविवर्जितौ। पूर्णचित्सुखशक्त्यादेर्योग्यौ कृष्णा च मारुतिः॥ ३०/१२३॥
अनादिदुःखहीनत्वे सुखाधिक्ये च लक्षणम्। रुक्मिणीसत्यभामादिरूपायाः श्रिय एव तु॥ ३०/१२४॥
मुख्यं ततोऽपि मुख्यं तु स्वातन्त्र्यादेरशेषतः। गुणराशेः परं लिङ्गं नित्यं व्यासादिरूपिणः। विष्णोरेव नचान्यस्य स ह्येकः पूर्णसद्गुणः॥ ३०/१२५॥
साश्‍वेऽर्जुने यज्ञवाटं प्रविष्टेऽस्य सहोदराः। पूजिताः पूजयामासुर्मुदिताः सहकेशवाः॥ ३०/१२६॥
ततः स यज्ञो यदुवीररक्षितो व्यासोपदिष्टो मुनिभिः प्रवर्तितः। अशोभतालं सकलैर्नृपैश्‍च समागतैर्विप्रवरैश्‍च जुष्टः॥ ३०/१२७॥
स कृष्णयुग्मेन च भार्गवेण त्रिधा विभक्तेन परेण पुंसा। अधिष्ठितोऽशोभत विश्‍वमेतद् विश्‍वादिरूपेण यथैव तेन॥ ३०/१२८॥
यथा विरिञ्चस्य पुराऽऽस यज्ञो यथैव शक्रस्य शतक्रतुत्वे। तथैव सोऽभूद् विधिशर्वशक्रपूर्वैः सुरैराविरलङ्कृतोऽधिकम्॥ ३०/१२९॥
न देवगन्धर्वमुनिस्वधर्ममर्त्यादिकेष्वास स योऽत्र नास। स्वलङ्कृतैर्नाकिजनैः सकान्तैररूरुचन्नाकवदेतदोकः॥ ३०/१३०॥
तत्रैव तत्त्वानि ससंशयानि निःसंशयान्यासुरलं विवादे। परस्परोत्थे हरिणा त्रिरूपिणा संस्थापितान्यग्र्यवचोभिरुच्चैः॥ ३०/१३१॥
प्रगीतगन्धर्ववरः प्रनृत्तसदप्सराः सन्ततवादिविप्रः। विवेचयद्देवनृपौघ एको रराज राजाऽखिलसत्क्रतूनाम्॥ ३०/१३२॥
समस्तदेव्यः सहवासुदेव्यः स्वलङ्कृताः फुल्लमुखारविन्दाः। विचेरुरत्रैव सहाप्सरोभिर्निषेदुरप्यच्युतसत्कथारमाः॥ ३०/१३३॥
न वै मुमुक्षुर्न बुभूषुरत्र न वै विवित्सुश्‍च कुतो बुभुक्षुः। नासत्यकामा अभवन् कुतश्‍चित् प्रदातरि प्राज्ञवरेऽनिलात्मजे॥ ३०/१३४॥
दिनेदिने तत्र महान्नपर्वताः सभक्षसारा रसवन्त ऊर्जिताः। नद्यः पयःसर्पिरजस्रपूर्णाः समाक्षिकाद्या अपि पायसह्रदाः॥ ३०/१३५॥
ह्रदा महान्तस्त्रिदशादियोग्याः सुयोगयुक्ता हरिचन्दनादेः। तथाऽञ्जनालक्तकमुख्यमण्डनद्रव्याग्र्यवाप्यो मणिकाञ्चनोद्भवाः॥ ३०/१३६॥
यथेष्टपानाशनभोगशिष्टाः सहस्रशो मारुतिना तु कारिताः। गन्धा रसाद्याश्‍च समस्तभोगा दिवीव तत्रासुरतीव हृद्याः॥ ३०/१३७॥
नैतादृशः कश्‍चन भूतपूर्वो मखो विना रामविरिञ्चवज्रिणाम्। मखानिति प्रोचुरशेषलोका दृष्ट्वा मखं तं पुरुषोत्तमेरितम्॥ ३०/१३८॥
स एवमद्धा हरिदैवतः क्रतुः पञ्चाश्‍वमेधात्मक उच्चकल्पः। दिनेदिने स्वृद्धगुणो बभूव मुदावहो वत्सरपञ्चकत्रयम्॥ ३०/१३९॥
यज्ञावसाने निखिलाश्‍च पाण्डवाः कृष्णा च पृथ्वीमखिलां सवित्ताम्। माङ्गल्यमात्रं दयिताशरीरे निधाय सर्वाभरणानि चैव। समर्पयामासुरजे वरेण्ये व्यासे विभागाय यथोक्तमृत्विजाम्॥ ३०/१४०॥
प्रियो विभागो यदमुष्य विष्णोरतो विभागार्थमिवार्पयंस्ते। हृदा समस्तं हरयेऽर्पितं तैः स हि द्विजस्थोऽपि समस्तकर्ता॥ ३०/१४१॥
देहेन्द्रियप्राणमनांसि चेतनैः सहैव तस्मा अतिसृज्य नेमुः।
त्वदीयमेतन्निखिलं वयं च नास्त्यस्मदीयं क्वच किञ्चनेश। स्वतन्त्र एकोऽसि न कश्‍चिदन्यः सर्वत्र पूर्णोऽसि सदेति हृष्टाः॥ ३०/१४२॥
ततो विभक्ते मुनयोऽवदंस्ते प्रत्यर्पयामो वयमेषु राज्यम्। पूर्णा हिरण्येन वयं धरायाः प्रपालने योग्यतमा इमे हि॥ ३०/१४३॥
पार्थाः सभार्या द्विजवाक्यमेतन्निशम्य कृष्णाय पुनः प्रणम्य। ऊचुस्तपो नोऽस्तु वनेऽर्पयित्वा राज्यं मखान्ते त्वयि धर्मलब्धम्॥ ३०/१४४॥
इतीरितः प्राह स बादरायणो मुनीश्‍वरैरप्यभियाचितः प्रभुः। हिरण्यमेव स्वमिदं मुनीनां मदाज्ञया भुङ्ध्वमशेषराज्यम्॥ ३०/१४५॥
समर्पितं मे फलवच्च तत् स्यात् पुनर्ग्रहो नैव च दोषकारी। पितामहोऽहं भवतां विशेषतो गुरुः पतिश्‍चैव ततो मदर्हथ॥ ३०/१४६॥
इतीरितास्ते प्रतिपद्य राज्यं ददुर्हिरण्यं निखिलं च तस्मै। विभज्य विप्रान् स निजं तु भागमदात् पृथायै निखिलं प्रसन्नः॥ ३०/१४७॥
सभार्यकाणां वररत्नभूषणान्यशेषतः पुत्रभुवां प्रदाय। पृथक्पृथग् योग्यवरानथैभ्यः प्रादात् प्रभुस्ते मुदिताः प्रणेमुः॥ ३०/१४८॥
तद् यज्ञपञ्चकमजस्त्रिगुणां स एभ्यः सद्दक्षिणां क्रतुपतिर्निखिलामवाप्य। चक्रेऽश्‍वमेधत्रयमेकमेवं तेषां हरिर्बहुसुर्वणकनामधेयम्॥ ३०/१४९॥
सकृष्णेष्वथ पार्थेषु सुस्नातावभृथेष्वलम्। पञ्चेन्द्रवद् विराजत्सु स्तूयमानेष्वृषीश्‍वरैः॥ ३०/१५०॥
स्तूयमाने च तद्यज्ञे क्रोधो नकुलतां गतः। कृत्वोग्रगर्जनं यज्ञं तांश्‍च यज्ञकृतोऽखिलान्॥ ३०/१५१॥
गर्हयन्नूचिवानित्थं भार्यापुत्रस्नुषान्वितः। सक्तुप्रस्थमदाद् विप्र उञ्छवृत्तिः सुभक्तितः॥ ३०/१५२॥
धर्मायातिथये तस्य कलां नार्हति षोडशीम्। यज्ञोऽयमिति हेतुं च विप्रैः पृष्टोऽभ्यभाषत॥ ३०/१५३॥
अतिथेस्तस्य पादोदक्लिन्नः पार्श्‍वो हिरण्मयः। एको ममाभूदपरः सर्वतीर्थादिकेष्वपि॥ ३०/१५४॥
मज्जतोऽवभृथेष्वद्धा यज्ञानामत्र चादरात्। नाभूदित्यथ तत्तत्त्ववेदिभिर्मुनिपुङ्गवैः॥ ३०/१५५॥
कृष्णेन च तमोऽन्धं तं प्रापयद्भिः स्मिते कृते। अदर्शनं जगामाशु तमः प्राप च कालतः। तदर्थमेव हैरण्यः पार्श्‍वस्तस्याभवत् पुरा॥ ३०/१५६॥
कृष्णस्य पाण्डवानां च मखादेश्‍च गुणान् बहून्। वदन्तो भर्त्सयाञ्चक्रुस्तन्मतज्ञा मधुद्विषः॥ ३०/१५७॥
श्राद्धार्थं हि पयः पूर्वं जमदग्नेरदूषयत्। नाकुलेनैव रूपेण क्रोधस्तं पितरोऽशपन्॥ ३०/१५८॥
भव त्वं नकुलस्तावद् यावद् धर्मादिकान् सुरान्। क्षेप्स्यसीति तमो घोरं भूयः पापेन यात्वयम्। इत्यभिप्रेत्य तैः शप्तस्तथा कृत्वा तमोऽभ्ययात्॥ ३०/१५९॥
यद्यप्यल्पधनत्यक्तं वित्तं बहुफलं भवेत्। तथाऽप्यनन्तफलदाः कर्तुरेव महागुणाः॥ ३०/१६०॥
सतां प्रीतिश्‍च तत्रापि सद्वरो हरिरेव हि। पार्थेभ्योऽभ्यधिकः कर्ता समो वा को गुणैर्भवेत्॥ ३०/१६१॥
सतां च प्रवरो विष्णुः सद्भिर्मुनिसुरैर्युतः। प्रत्यक्षतः कारयति पार्थैः प्रियतमैश्‍च तैः। यं मखप्रवरं तस्य समं किं शुभसाधनम्॥ ३०/१६२॥
पठन्ति पैङ्गिनश्‍चैतान् मन्त्रानन्वर्थकानिह। “अवैष्णवकृतं कर्म सर्वमन्तवदुच्यते। अनन्तं वैष्णवकृतं तत्र वर्णक्रमात् परम्॥ ३०/१६३॥
वैष्णवैरपि मर्त्यैर्यत् कृतं शतगुणं ततः। गान्धर्वं कर्म तस्माच्च पितृभिर्मुनिभिस्ततः॥ ३०/१६४॥
देवशक्रशिवब्रह्मकृतं तस्मात् क्रमेण च। शतोत्तरमिति ज्ञेयं नान्यद् ब्रह्मकृतोपमम्॥ ३०/१६५॥
वैष्णवत्वं क्रमाद् वृद्धं ब्रह्मान्तं जीवराशिषु। फलाधिक्यं कर्मणां हि विष्णोः प्रीत्यैव नान्यथा॥” ३०/१६६॥
इति तेन न पार्थानां कर्मणाऽन्यत् समं क्वचित्। गुणैर्ज्ञानादिभिः क्वापि तस्मात् क्रोधः स तामसः। विनिन्द्य तान् सुसत्त्वस्थांस्तमोऽन्धमुपजग्मिवान्॥ ३०/१६७॥
अथ पृष्टो वासुदेवः सुरविप्रादिसंसदि। युधिष्ठिरेण संहृष्टो जगादाशेषतः प्रभुः॥ ३०/१६८॥
ते च श्रुत्वाऽखिलान् धर्मान् भक्त्या परमया युताः। पूजयन्तो जगन्नाथमापुश्‍च परमां मुदम्॥ ३०/१६९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये त्रिंशोऽध्यायः समाप्तः॥
एकत्रिंशोऽध्यायः
यज्ञेश्‍वरेणाभियुतेषु भक्त्या महीं प्रशासत्सु पृथासुतेषु। यियक्षुरागान्निशि विप्रवर्यो युधिष्ठिरं वित्तमभीप्समानः॥ ३१/१॥
प्रातर्ददानीति नृपस्य वाक्यं निशम्य विप्रस्त्वरितो मखार्थे। भीमं ययाचे स नृपोक्तमाशु निशम्य चादान्निजहस्तभूषणम्॥ ३१/२॥
अनर्घमग्निप्रतिमं विचित्ररत्नान्वितं विप्रवरस्तदाप्य। ययौ कृतार्थोऽथ च नन्दिघोषमकारयद् वायुसुतस्तदैव॥ ३१/३॥
अकालजं तं तु निशम्य राजा पप्रच्छ दूतैस्तमुवाच भीमः। यन्मर्त्यदेहोऽपि विनिश्‍चितायुरभून्नृपस्तेन ममास हर्षः॥ ३१/४॥
इतीरितोऽसौ नृपतिस्त्वरेत धर्मार्थमित्यस्य मतं प्रपूजयन्। जगाद साध्वित्यथ भूय एव धर्मे त्वरावानपि सम्बभूव॥ ३१/५॥
अथाम्बिकेयं विषयेषु सक्तं दुःसङ्गदुष्टं कृतभूरिदोषम्। समस्तराजाप्ययहेतुभूतं विचार्य तं मारुतिरन्वकम्पत॥ ३१/६॥
अकुर्वतस्तीक्ष्णतपः कुतश्‍चिन्नैवास्य लोकाप्तिरमुष्य भूयात्। रागाधिकोऽयं न तपश्‍च कुर्यादित्यस्य वैराग्यकराणि चक्रे॥ ३१/७॥
आज्ञां परैरस्य निहन्ति सोदरैर्वधूजनैरप्यतिपूजितेऽस्मिन्। स निष्टनत्येवमपीतरैः स्वैः सुपूजितो नास तदा विरागः॥ ३१/८॥
सर्वे हि पार्थास्तमृते सभार्या वैचित्रवीर्यं परमादरेण। पर्येव चक्रुः सततं सभार्यं कृष्णा च न स्यात् तनयार्तिमानिति॥ ३१/९॥
स प्रीयमाणो नितरां च तेषु नैवाधिकं प्रीयते भीमसेने। स्मरन् सुतांस्तेन हतान् समस्तानपि प्रभावं परमस्य जानन्॥ ३१/१०॥
तस्यापनेतुं विषयेषु सक्तिं द्वेषं तथैवात्मनि भीमसेनः। जगाद माद्रीसुतयोः समक्षमास्फोट्य संशृण्वत एव तस्य॥ ३१/११॥
ताविमौ मे भुजौ वृत्तौ पीनौ चन्दनरूषितौ। ययोरन्तरमासाद्य जरठस्य सुता हताः॥ ३१/१२॥
यमौ तदन्वमोदेतां तत्स्नेहाद् गौरवादपि। नैव तत् कृष्णया ज्ञातं पृथया च सपुत्रया॥ ३१/१३॥
तच्छ्रुत्वोत्पन्ननिर्वेदं क्षत्ता ज्येष्ठस्य वर्धयन्। उवाच जीविताशा ते ननु राजन् गरीयसि॥ ३१/१४॥
अहो गरीयसी जन्तोर्जीविताशा यथा भवान्। भीमापवर्जितं पिण्डमादत्से गृहपालवत्॥ ३१/१५॥
नचापराधो भीमस्य ब्रुवतस्त्वामिदं वचः।
अग्निर्निसृष्टो दत्तश्‍च गरो दाराश्‍च दूषिताः। हृतं क्षेत्रं धनं यस्य किं भीमेन कृतं त्वयि॥ ३१/१६॥
अलमासज्जतस्तेऽद्य निर्वेदकरमीरितम्। उपकाराय भीमेन तव द्वेषं त्यजात्र यत्॥ ३१/१७॥
विमुच्य द्वेषकामौ त्वं वने तीर्थनिषेवकः। तपसाऽऽराधय हरिं ततः पूतो भविष्यसि॥ ३१/१८॥
इत्युक्तो द्वेषमुत्सृज्य भीमे निर्वेदमागतः। अनुज्ञां तपसे प्राप्तुमुपवासपरोऽभवत्॥ ३१/१९॥
अनश्नन्तं चतुर्थेऽह्नि धृतराष्ट्रं युधिष्ठिरः। ज्ञात्वा सम्प्रार्थयामास भोजनार्थं पुनःपुनः॥ ३१/२०॥
अनुज्ञां वनवासाय त्वत्तः प्राप्यैव सर्वथा। भोक्ष्येऽन्यथा नेति वदन् धृतराष्ट्रः श्रमान्वितः। उपवासकृशो भार्यां शिश्रिये मूर्च्छितः क्षणात्॥ ३१/२१॥
शन्तमेन करेणाथ धर्मजस्तं मृदु स्पृशन्। शनैः सञ्ज्ञामगमयदब्रवीच्च सुदुःखितः॥ ३१/२२॥
पुरस्कृत्य युयुत्सुं त्वं कुरु राज्यमकण्टकम्। वयमेव त्वदर्थाय कुर्मः सर्वे तपो वने॥ ३१/२३॥
नेत्याह धृतराष्ट्रस्तं कुलधर्मो हि नो वने। अन्ते देहपरित्यागस्तन्माऽनुज्ञातुमर्हसि॥ ३१/२४॥
तयोर्विवदतोरेवं कृष्णद्वैपायनः प्रभुः। सर्वज्ञः सर्वकर्तेश आविर्भूतोऽब्रवीन्नृपम्॥ ३१/२५॥
तपसाऽशेषदोषाणां क्षयकाममिमं नृपम्। अनुजानीहि नैवास्य धर्मविघ्नकरो भव॥ ३१/२६॥
काले निर्वेदमापन्नस्तपसा दग्धकिल्बिषः। शुभां गतिमयं यायादन्यथा न कथञ्चन॥ ३१/२७॥
इत्युक्तो धर्मराजस्तमनुजज्ञे स चाशितः। शिक्षयामास सद्धर्मान् नीतिं च विदुषेऽप्यलम्। केवलस्नेहतो राज्ञे शुश्राव विनयात् स च॥ ३१/२८॥
अनुज्ञाय गृहं प्राप्ते धर्मजे विदुरं पुनः। श्राद्धाय वित्तमाकाङ्क्षन् प्रेषयामास तद्वचः॥ ३१/२९॥
श्रुत्वा युधिष्ठिरो भीममाह दातव्यमद्य नः। पुत्रपौत्राप्तबन्धूनां श्राद्धेच्छोर्वित्तमञ्जसा॥ ३१/३०॥
तमाह भीमः पापानां विमुखानां मधुद्विषः। पारलौकिकसाहाय्यं न कार्यमितरार्थतः। दत्तेनापि हि वित्तेन पुत्रश्राद्धं करिष्यति॥ ३१/३१॥
तज्ज्ञात्वा ददतां दोषो भवेदिति विचिन्तयन्। कष्टात् कष्टतरं यान्तु सर्वे दुर्योधनादयः॥ ३१/३२॥
भीष्मादीनां वयं श्राद्धकर्तारस्तेन किं ततः। कानीनत्वात् तु कर्णस्य सहास्माभिः पृथैव हि। श्राद्धकर्मण्यधिकृता किं तस्मै दीयते धनम्॥ ३१/३३॥
इत्युक्तवन्तं नृपतिरर्जुनश्‍चोचतुः पुनः। यियासोर्याचमानस्य निजबाहुबलार्जितम्। देहि वित्तं परमतः किं त्वामेषोऽभियाचते॥ ३१/३४॥
इत्युक्तमपि नेत्येव ब्रुवाणं शुद्धधार्मिकम्। अप्रीत्या जोषमास्वेति प्रोच्योवाच युधिष्ठिरः॥ ३१/३५॥
कोशतो यद् बहिर्वित्तं दानभोगादिकारणम्। मम सन्निहितं सर्वं तत् पित्रेऽद्यार्पितं मया॥ ३१/३६॥
एवमेवार्जुनोऽप्याह विदुरं पुनरूचतुः। मुख्यधर्मरते भीमे न पिता क्रोद्धुमर्हति। इत्युक्तो वित्तमादाय गत्वा क्षत्ताऽग्रजेऽब्रवीत्॥ ३१/३७॥
युधिष्ठिरार्जुनौ भक्तिं नितरां त्वयि चक्रतुः। नातिहृष्टस्त्वदाज्ञायां भीमस्तन्मा क्रुधोऽत्र च॥ ३१/३८॥
शुद्धे क्षत्रियधर्मे हि निरतोऽयं वृकोदरः। नृपार्जुनौ धर्मरतावपि लोककृपापरौ॥ ३१/३९॥
अजातकोपस्तच्छ्रुत्वा धृतराष्ट्रः प्रशान्तधीः। कृत्वा श्राद्धानि सर्वेषां महादानान्यनारतम्। दशरात्रं ददौ शुद्धमनसा निरृणत्वधीः॥ ३१/४०॥
सर्वं समर्प्य गोविन्दे पार्थेभ्योऽन्येभ्य एव च। स्वजनेभ्यः समादाय स्रवन्नेत्रेभ्य उच्चधीः। अनुज्ञां निर्गतः प्राह पौरजानपदान् नृपः॥ ३१/४१॥
धर्मतो रक्षिता यूयमस्मत्पूर्वैर्महात्मभिः। नचाहं परमस्नेहाद् युष्माभिः सुकृपालुभिः। अरक्षितेति कथितः प्रमादादपि सज्जनाः॥ ३१/४२॥
इष्टं च यज्ञैः पूर्तैश्‍च चरितं युष्मदाश्रयात्। पुत्रस्तु मम पापात्मा सर्वक्षत्रविनाशकः। सर्वातिशङ्की मूढश्‍च वृद्धानां शासनातिगः॥ ३१/४३॥
सौभ्रात्रं येन सन्त्यज्य पाण्डवेषु महात्मसु। कृतं विरूपं सुमहत् कुर्याद् यन्नापरः क्वचित्॥ ३१/४४॥
अप्रियाणि च कृष्णस्य सुबहून्याचरत् कुधीः। प्रायस्तेनापि मन्देन युष्मास्वप्यशिवं कृतम्॥ ३१/४५॥
भ्रातरोऽस्य च सर्वेऽपि तच्छीलमनुवर्तिनः। हताश्‍च स्वेन पापेन ससुतामात्यबान्धवाः॥ ३१/४६॥
सोऽहं वयोगतश्‍चैव पुत्रादिभिरभिप्लुतः। तत्सम्बन्धकृतं पापं स्वकृतं चाप्यपेशलम्। पाण्डवेषु सकृष्णेषु तपसा मार्ष्टुमुद्यतः॥ ३१/४७॥
तत्र मामनुजानीध्वं कृपया मित्रवत्सलाः। मत्प्रियार्थमपि स्नेहः पाण्डवेषु महात्मसु॥ ३१/४८॥
क्रियमाणोऽपि कर्तव्यो भूय एव सदाचलः। ते हि मे पुत्रकाः सन्त इहामुत्र च सौख्यदाः॥ ३१/४९॥
इत्युक्ते स्वगुणानुच्चैः कीर्तयद्भिः सुदुःखितैः। पर्यश्रुनयनैः कृच्छ्रात् पौरजानपदैश्‍चिरात्। अनुज्ञातो ययौ पार्थैरनुयातः सुदूरतः॥ ३१/५०॥
सञ्जयो विदुरश्‍चैनं सभार्यमनुजग्मतुः। अनुवव्राज तं कुन्ती वनाय कृतनिश्‍चया॥ ३१/५१॥
वार्यमाणापि तनयैः सभार्यैर्भृशदुःखितैः। संस्थाप्य तान् सुकृच्छ्रेण ययौ सान्वेव तं नृपम्॥ ३१/५२॥
सन्दर्शितपथो राजा कुन्तीविदुरसञ्जयैः। गान्धारीसहितः प्राप कुरुक्षेत्रं जगद्गुरोः। क्रमेणैवाश्रमं व्यासदेवस्य सुरपूजितम्॥ ३१/५३॥
त्रिवत्सरेणास्य निजस्य लोकप्राप्तिं सभार्यस्य जगाद तत्र। ब्रह्माङ्कजस्तेन भृशं प्रतीतो व्यासोपदिष्टं व्यचरत् तपोऽग्र्यम्॥ ३१/५४॥
सक्षत्तृगान्धारिपृथे ससञ्जये तपोभिराराधयति प्रभुं हरिम्। वैचित्रवीर्येऽत्र सदारबन्धुभृत्याश्च पार्था दृशये समाययुः॥ ३१/५५॥
क्षत्तैकतामत्र युधिष्ठिरेण प्राप्तोऽथ भार्यासहितं ससञ्जयम्। उपासमानेषु विचित्रवीर्यपुत्रं पृथां चैव पृथासुतेषु॥ ३१/५६॥
प्रादुर्बभूवामितशक्तितेजोज्ञानाद्भुतैश्‍वर्यसुखादिरूपः। व्यासो हरिस्तत्र समीक्ष्य सर्वे सम्पूजयामासुरुदग्र्यभक्त्या॥ ३१/५७॥
तैः पूजितस्तत्र निषण्ण आह यद्यद् यदिष्टं प्रवदन्तु तत्तत्। दास्यामि तस्याद्य तदित्यमुष्मिन् भक्त्युुच्छ्रयः पाण्डुसुतैः सदारैः। वृतोऽत्र कुन्ती रविसूनुजन्ममृत्यूत्थदोषापगमं ययाचे॥ ३१/५८॥
तेषां प्रदत्तेष्वभिवाञ्छितेषु वैचित्रवीर्यः सह भार्ययैव। सम्मन्त्र्य निःशेषरणेहतानां सन्दर्शनं प्रार्थितवांस्तमीशम्॥ ३१/५९॥
ततस्तु ते सत्यवतीसुतस्य सर्वेश्‍वरस्याज्ञया सर्व एव। समागताः स्वर्गलोकात् क्षणेन दत्ता च दिव्या दृगमुष्य राज्ञः॥ ३१/६०॥
ऊषुश्‍च रात्रिं परमाज्ञयैव सर्वे स्वभार्यासहिता यथा पुरा। तृप्तः सदारो नृपतिश्‍च तत्र सर्वेऽपि दृष्ट्वा महदद्भुतं तत्॥ ३१/६१॥
अथाज्ञयैवास्य परस्य सर्वाः स्त्रियो निजेशैः सहिता ययुः स्वः।
विनोत्तरां तां तु कथां निशम्य पारीक्षितोऽयाचत तातदृष्टिम्॥ ३१/६२॥
तं चानयामास तदैव कृष्णो ह्यचिन्त्यशक्तिः स विकुण्ठलोकात्। दृष्ट्वा स पारीक्षित आप तुष्टिं स्वतातमीशेन समाहृतं पुनः॥ ३१/६३॥
सम्पूज्यं तं कृष्णमपीशवन्द्यं क्षमापयामास परीक्षिदात्मजः। चक्रे च विस्रम्भमतीव भारते पुनश्‍च तत्रस्थजनैः समेतः॥ ३१/६४॥
पार्थाः पुनः प्राप्य पुरं स्वकीयं धर्मेण पृथ्वीं परिपालयन्तः। भोगानरागा अजुषन्त योग्यान् युक्ता जगद्धातरि वासुदेवे॥ ३१/६५॥
वर्षत्रयान्ते त्मसमाहिताग्निं त्यक्ताग्निभिस्तैर्वनमालिहद्भिः। ते शुश्रुवुर्धृतराष्ट्रं सभार्यं सहैव कुन्त्या परिदग्धदेहम्॥ ३१/६६॥
वीटामुखं ध्यानपरं निशम्य स्वर्यातमात्मीयपितृव्यमाशु। समेत्य भर्त्रा प्रतिपूज्यमानां कुन्तीं च तप्ता विदधुः क्रियाश्‍च॥ ३१/६७॥
ते विष्णुभक्त्या परिपूतकर्मभिर्ज्ञानेन चान्ते तमनुस्मरन्तः। पार्थैः सुपुत्रैः सुकृतोर्ध्वकर्मभिर्वृद्धिं शुभस्यापुरनप्ययां शुभाः॥ ३१/६८॥
गावद्गणिर्व्याससकाशमेत्य शुश्रूषया तस्य पुनर्निजां गतिम्।
प्रपेदिवान् पाण्डुसुताश्‍च कृष्णं प्रतीक्षमाणाः पृथिवीमशासन्॥ ३१/६९॥
अष्टादशाब्दाः पृथिवीं समस्तां प्रशासतामेवमगुर्महात्मनाम्। अरिक्तधर्मार्थसुखोत्तमानामनुज्झितानन्तपदस्मृतीनाम्॥ ३१/७०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णय एकत्रिंशोऽध्यायः समाप्तः॥
द्वात्रिंशोऽध्यायः
ततः कुरुक्षेत्रमवाप्य कृष्णो दीक्षां प्रपेदे द्विषडब्दसत्रे। स एव च व्यासभृगूद्वहात्मा चक्रेऽत्र सादस्यमजोऽप्रमेयः॥ ३२/१॥
तत्रर्त्विजो दक्षभृगुप्रधानाः पार्था यदूनां प्रवरैः समेताः। ब्रह्मेशशक्रप्रमुखाः सुराश्‍च चक्रुः सुसाचिव्यमनन्तदासाः॥ ३२/२॥
सर्वे च जीवा वसुधातलस्था येऽन्येऽन्तरिक्षद्युमुखोत्तरेषु। वसन्ति नारायणपादसंश्रयास्ते चात्र सर्वे मुमुदुः सनागाः॥ ३२/३॥
सुनिर्णयस्तत्त्वविनिर्णयार्थिनां तत्त्वस्य चाभूदिह वादशीलिनाम्। मिथो विवादात् सुरभूसुराणां वाक्याद्धरेर्व्यासभृगूद्वहात्मनः॥ ३२/४॥
धर्मार्थकामानखिलानवापुस्तदर्थिनो मुक्तिमपीह कृष्णात्। यथेष्टपानाशनवाससो जना विचेरुरत्रामरमानवादयः॥ ३२/५॥
क्षेत्रं तदासीद्धरिलोकसम्मितं यदीयुरत्राखिलसज्जना युतिम्। नानाप्तकामाश्‍च यतो बभूवुर्निर्यत्नदृश्यश्‍च यतोऽत्र केशवः॥ ३२/६॥
द्वादशाब्दं महासत्रमेवमेतादृशं हरिः। समाप्यावभृथस्नातः पूजयित्वाऽखिलान् जनान्॥ ३२/७॥
अनुजज्ञे क्रमेणैव वत्सरेण समागतान्।
स्वकुलं सञ्जिहीर्षुः स विप्रशापमजीजनत्॥ ३२/८॥
उपदिश्य परं ज्ञानमुद्धवायामुनाऽऽश्रमम्। बदर्याख्यं प्रापयित्वा सप्तमाब्दं शतोत्तरम्। प्रतीक्षन् पालयामास पार्थैः सह भुवं प्रभुः॥ ३२/९॥
समारब्धं कलियुगं यदा दुर्योधनोऽपतत्। षट्त्रिंशाब्दं पुनः कृष्णः कृतमेवान्ववर्तयत्॥ ३२/१०॥
कृतादपि विशेषोऽयं यत् पुण्यस्याधिकं फलम्। अल्पमेव च पापस्य कालात् कृष्णाज्ञया तथा॥ ३२/११॥
एवं सुधार्मिके लोके हरिभक्तिपरायणे। नष्टेषु कलिलिङ्गेषु युगवृत्तिमभीप्सवः॥ ३२/१२॥
ब्रह्मरुद्रादयो देवाः स्तुत्वा केशवमव्ययम्। व्यज्ञापयन् स्वलोकाप्तिमोमित्याह स चाच्युतः॥ ३२/१३॥
प्राचुर्ये सज्जनस्य स्यान्न कलेर्वृद्धिरञ्जसा। इति स्वकुलसंहृत्यै प्रभासमनयत् प्रभुः॥ ३२/१४॥
पुण्यक्षेत्रेऽपि न मृतिः स्वगृहे त्वतिधर्मदा। गत्वैवाल्पमपि क्षेत्रं स्यान्महत् फलमित्यजः॥ ३२/१५॥
प्रकाशयितुमेवैतान् प्रभासाय कुशस्थलात्। नीत्वा दानानि सद्धर्मांस्तैरकारयदच्युतः॥ ३२/१६॥
ते ततः शापदोषेण कृष्णेनैव विमोहिताः। मैरेयमत्ता अन्योन्यं निपात्य स्वां तनुं गताः। तद् दृष्ट्वा बलदेवोऽपि योगेन स्वतनुं जहौ॥ ३२/१७॥
ततः परेशोऽगणितानुभावः स्वसारथिं पाण्डवानां सकाशम्। स्वलोकयानप्रतिबोधनाय स्वस्यानु चैषां त्वरयाऽभ्ययातयत्॥ ३२/१८॥
अथासतः पिप्पलमूल ईशितुरूरुस्थितं पादतलं सुताम्रम्। दृष्ट्वा जरा नाम ससर्ज शल्यं भक्तोऽप्यलं रोहितं शङ्कमानः॥ ३२/१९॥
अच्छेद्याभेद्यदेहस्य शल्ये पादमुपस्थिते। समीपमागतो व्याधो दृष्ट्वा भीतोऽपतद् भुवि॥ ३२/२०॥
विप्रवाक्यं मानयानः कारयित्वाऽमुना हरिः। पापं मां जहि देवेति याचन्तमनयद् दिवम्॥ ३२/२१॥
पादप्रहारदोषेण तं भृगुं व्याधतां गतम्। पश्‍चात्तापेन भक्त्या च सुप्रीतस्तच्छरीरिणम्। स्वाज्ञाप्राप्तविमानेन दिवं निन्ये जनार्दनः॥ ३२/२२॥
नीचा योनिर्नीचनीचकर्माप्तं नीचकर्मतः। अदुष्टत्वात् तु मनसो भक्तिलोपो नचाप्यभूत्। भृगोरत्राबुद्धिपूर्वं नातिदोषकृदप्यभूत्॥ ३२/२३॥
ततो विरिञ्चेशपुरन्दराद्याः पुनः स्तुवन्तोऽभिययुः प्रणम्य। कृष्णं स चाश्‍वेव ययौ स्वलोकं स्वतेजसा सर्वमिदं प्रकाशयन्॥ ३२/२४॥
गोपालमन्त्रं भजतां फलप्रदस्त्वेकेन रूपेण स भुव्यदृश्यः। तस्थौ द्वितीयेन च सूर्यमण्डले तृतीयमासीच्छिवपूजितं वपुः॥ ३२/२५॥
सम्पूजितं ब्रह्मलोके चतुर्थं कञ्जोद्भवेनाथ परं स्वधाम। समाप्नुवानं वपुरस्य पञ्चमं भक्त्याऽन्वयुर्देववराः स्वशक्त्या॥ ३२/२६॥
तत्तेजसा ते प्रविमुष्टदृष्टयः पुरुष्टुताद्या अमितोरुदीधितेः। यावत् स्वगम्यं त्वनुगम्य तस्थुर्निमीलिताक्षा विहतोर्ध्वचाराः॥ ३२/२७॥
वीन्द्रेशशेषानुगतः स्वयम्भूर्धाम प्रविष्टं तमजं प्रणम्य। वीन्द्रादिकैरप्ययुतः स्वपित्राऽऽश्लिष्टो रहश्‍चाकथयत् तथाऽस्तौत्॥ ३२/२८॥
स पूर्वरूपेण समेत्य चैक्यं विभज्य चेच्छानुसृतोऽथ रेमे। हरिः श्रिया ब्रह्ममुखैश्‍च मुक्तैः सम्पूज्यमानोऽमितसद्गुणात्मा॥ ३२/२९॥
ब्रह्माऽपि शर्वादियुतः स्वलोकं प्राप्तः पुनस्तत्र गतं च कृष्णम्। रेमेऽभिपश्यन् प्रतिपूजयंस्तं सुराश्‍च सर्वे रविबिम्बसंस्थम्॥ ३२/३०॥
यतो न दर्शिता भ्रान्तिः प्रादुर्भावेष्वपि क्वचित्। देहत्यागानुसारेण हरिणा तदिहाच्युतः॥ ३२/३१॥
मोहयित्वाऽसुरानन्धं तमः प्रापयितुं प्रभुः। चिदानन्दैकदेहोऽपि त्यक्तं देहमिवापरम्। सृष्ट्वा स्वदेहोपमितं शयानं भुव्यगाद् दिवम्॥ ३२/३२॥
दारुकोक्त्या समायातः पार्थस्तमदहत् तदा। रौहिणेयादिकानां च शरीराणि प्रधानतः। दारुको विष्णुलोकं तु पुनराप यथागतम्॥ ३२/३३॥
तथैव जनमोहाय प्राप्य वह्नावदृश्यताम्। रुक्मिण्यगाद्धरेः पार्श्‍वं सत्या कृत्वा तपस्तथा॥ ३२/३४॥
चिदानन्दैकदेहेऽपि द्विरूपे इव ते यतः। एकैवातः कृष्णवत् ते दुष्टान् मोहयतस्तथा॥ ३२/३५॥
अन्या महामहिष्यस्तु त्यक्त्वा देहं हुताशने। काश्‍चित् काश्‍चित् तु तपसा त्यक्तदेहा हरिं ययुः॥ ३२/३६॥
रौहिणेयादिकानां च भार्या वह्निमुखे तनुम्। त्यक्त्वा स्वभर्तॄनेवापुः सर्वा एव पतिव्रताः॥ ३२/३७॥
वसुदेवः पार्थमुखाच्छ्रुत्वैतद् योगमास्थितः। त्यक्त्वा देहं कश्यपत्वं प्राप कृष्णानुरागतः॥ ३२/३८॥
तस्यार्जुनोऽश्‍वमेधाग्नावन्त्यकर्माकरोत् तदा। त्यक्तदेहास्तस्य भार्या वह्नौ प्रापुस्तमेव च॥ ३२/३९॥
स्त्रियो बालांस्तथाऽऽदाय धनं चैव धनञ्जयः। विनिर्ययौ द्वारवत्यास्तां जग्रास च सागरः॥ ३२/४०॥
स्त्रीबालसहिते पार्थ एकस्मिन् पथि गच्छति। शापात् सुपापा आभीराः स्त्रीजनान् जह्रुरुद्धताः॥ ३२/४१॥
यास्ताः षोडशसाहस्रवनिताः शतसंयुताः। कृष्णशापान्म्लेच्छवशं ययुर्दर्पनिमित्ततः॥ ३२/४२॥
ह्रियमाणे धने चैव वनितासु च वासविः। युयुत्सुर्गाण्डिवं सज्यं कृच्छ्रेणैव चकार ह॥ ३२/४३॥
क्षीणास्तस्य शरा दैवान्नास्त्राणि स्मृतिमाययुः। स तद् दैवकृतं ज्ञात्वा संस्मरन् पुरुषोत्तमम्। निघ्नञ्छत्रून् गाण्डिवेन शेषं रक्षन् कुरूनगात्॥ ३२/४४॥
तदा कुरुक्षेत्रगतं जगद्गुरुं सुपूर्णविज्ञानबलाब्धिसत्सुखम्। तमेव वासिष्ठकुलोद्वहं हरिं निरीक्ष्य दुःखेन पपात पादयोः॥ ३२/४५॥
स तेन पुंसां प्रवरेण हेतुभिः सम्बोधितोऽज्ञानतमोंशुमालिना। संस्थाप्य चेतः पुनरेव तस्मिन् जहौ शुचः प्रायश एव धैर्यात्॥ ३२/४६॥
स्त्रियो म्लेच्छहृताः कृष्णप्रेषिताद् दाल्भ्यतः पुनः। गोविन्दैकादशीं श्रुत्वा कृत्वा सारस्वते जले। निमज्ज्य वायोर्वचनात् त्यक्तदेहा दिवं ययुः॥ ३२/४७॥
अर्जुनस्तु कुरुक्षेत्रे हार्दिक्ययुयुधानयोः। सुतौ सारस्वते चैव देशे राज्येऽभ्यषेचयत्॥ ३२/४८॥
अनिरुद्धसुतं वज्रं प्रियं कृष्णस्य सद्गुणम्। सशूरसेनेन्द्रप्रस्थराजानमकरोद् वशी॥ ३२/४९॥
स्त्रीबालांश्‍च धनं चैव तस्मिन् संस्थाप्य फल्गुनः। ययौ भ्रातॄनशेषं च वृत्तं तेषामवर्णयत्॥ ३२/५०॥
ते वै वियोगसमयं स्मरन्तो मुरवैरिणः। अभ्यषिञ्चन् भागवतं महाराज्ये परीक्षितम्॥ ३२/५१॥
स्त्रीहारिणां च म्लेच्छानां वधायैनमयोजयत्। कृतं च तेन तत् कर्म वोढ्रा पैतामहीं धुरम्। समयं परिरक्षद्भिर्न पार्थैरेव तत् कृतम्॥ ३२/५२॥
वासुदेवपदास्पृष्टभूकण्टकसमुद्धृतिः। समयः पाण्डवानां हि तस्यैवानुगतिः परम्॥ ३२/५३॥
अनुव्रजद्भिर्विश्‍वेशं नास्माभिर्भूस्तदुज्झिता। भोक्ष्या रक्ष्याऽपि वा तेषामित्येव समयः पुरा॥ ३२/५४॥
तत्र काली भीमभार्या वैष्णवं योगमास्थिता। कृष्णयैकत्वमापन्ना त्यक्त्वा देहं तु मानुषम्॥ ३२/५५॥
सुभद्राद्यास्तु या भार्याः पार्थानां तु तदाज्ञया। युयुत्सुश्‍चात्र शिक्षार्थं पौत्रस्यैवावसन् पुरे॥ ३२/५६॥
सन्त्यज्य राजचिह्नानि वैष्णवं योगमास्थिताः। वीराध्वानं ययुः सर्वे कृष्णया सह पाण्डवाः॥ ३२/५७॥
प्रागुदीचीं दिशं पूर्वं ययुस्तत्रार्जुनो धनुः।
नात्यजल्लोभतस्तं तु समुद्रमुप पावकः। दृष्ट्वा ययाचे राजानं तदुक्तः प्रास्यदम्बुधौ॥ ३२/५८॥
प्रातिभाव्यं तु वरुणे निस्तीर्याग्निरदृश्यताम्।
ययौ तेऽपि ययुः क्षिप्रं प्लवन्तः सप्तवारिधीन्॥ ३२/५९॥
अहोभिः सप्तभिर्योगं समारूढाः प्रदक्षिणम्। कृत्वा क्वचिदसज्जन्त आसेदुर्गन्धमादनम्। तत्र नारायणक्षेत्रे तेषां तन्वोऽपतन् क्रमात्॥ ३२/६०॥
द्रौपदीसहदेवादिपञ्चानां तत्र मारुतिः। सदेहनाकानिच्छुत्वाद् देहप्रपतनं हि तत्॥ ३२/६१॥
तेषामिहेति याथार्थ्यं जानन् पप्रच्छ धर्मजम्। केन केनापतद् देहो दोषेण न इति क्रमात्॥ ३२/६२॥
मृतिकाले हि यो यस्य दोषं वक्त्यृणमोचनम्। तस्मात् स्यादुक्तदोषस्येत्याह यच्छ्रुतिरेव तत्। ऋणमोक्षाय सर्वेषां भीमो दोषानवादयत्॥ ३२/६३॥
सोऽपीच्छापतितान् देहानजानञ्छुद्धकर्मणाम्। अपश्यन् कारणं प्राह दोषात् स्यादेवमित्यपि। राजा सम्भावनामात्रं नहि कार्यमकारणम्॥ ३२/६४॥
“स्वच्छन्दमृत्यवो योगाद् देहानुत्सृज्य पाण्डवाः। कृष्णा चापुः परं स्थानं यन्न यान्त्यपि देवताः।” इति श्रुतेर्न ते पापाद् देहांस्तत्यजुरूर्जिताः॥ ३२/६५॥
“ऋणान्युन्मुच्य दोषोक्त्या स्वानां भीमः स्वकां तनुम्। तत्याज परमं ध्यायन्नाप च स्थानमुत्तमम्।” इति स्कन्दपुराणोक्तं व्यासवाक्यमृषीन् प्रति॥ ३२/६६॥
भीमादृते हि चतुर्षु पक्षपातस्तु वासवौ। योग्य एवेति कृष्णाया न दोषः स्यात् कथञ्चन॥ ३२/६७॥
नीतिरूपे वीर्यबले महान्त्येषां यतः क्रमात्। प्राणत्वाद् भोगशक्तिश्‍च नहि दोषाय मारुतेः॥ ३२/६८॥
“यथास्वरूपविज्ञानमात्मन्यपि न दोषकृत्।” इति व्यासस्मृतेरेषामुक्तदोषोद्भवः कथम्॥ ३२/६९॥
कदाचिदतिमानोऽपि त्रयाणामेषु जायते। तथाऽपि तत्फलं नैतत् तारतम्यं हि मुक्तिगम्। गुणदोषाधिकाल्पत्वादत्रस्थमपि हि श्रुतम्॥ ३२/७०॥
प्रारब्धकर्मनाशे हि पतेद् देहोऽप्यपापिनः। युधिष्ठिरोऽपि हि स्वर्गं बुभुजे नैव तत्तनुः॥ ३२/७१॥
अतिमानादयो दोषाः कुत एव हि मारुतेः। अनादिकालतः सर्वदोषहीना गुणाधिकाः॥ ३२/७२॥
सर्वजीवगणेभ्यो ये ते हि वायुत्वमाप्नुयुः। ऋजवो नाम ये देवा देवानामपि देवताः॥ ३२/७३॥
अभावं ह्यतिमानादेर्भीमस्याह च केशवः। “यत्किञ्चात्मनि कल्याणं सम्भावयसि पाण्डव। सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम्॥” ३२/७४॥
इति तस्माद् यथा युद्धे धर्महानिममन्यत। एवमत्राप्यधर्मेण देहपातं नृपोऽब्रवीत्॥ ३२/७५॥
पूज्येभ्यः पूर्वमेवैषां देहपातमभीप्सताम्। तत्कामाद् देहपातोऽभून्न पापान्मुच्यतां यथा॥ ३२/७६॥
नहि पापफलान्मुक्तौ देहपातः कथञ्चन। किन्तु कर्मक्षयादेव तथा सर्वत्र निश्‍चितः॥ ३२/७७॥
तेषु स्वलोकान् प्राप्तेषु धर्मजः श्वात्मना सह। ययौ पुरो देवरथस्तदाऽस्यावततार ह॥ ३२/७८॥
रथमारुहेति कथितो रथिना पुरतः शुनः। आरोहमब्रवीन्नैतद् युक्तमित्याह सोऽपि तम्॥ ३२/७९॥
नारुहेयं विना श्‍वानमिति तेन स्थिरोदिते। स्वरूपं दर्शयामास धर्मो ह्याप्तः श्‍वरूपताम्॥ ३२/८०॥
आनृशंस्यपरत्वेन कीर्तिमेवात्मनो वृषः। ख्यापयामास कौन्तेयरूपिणो धर्मसूक्तिभिः॥ ३२/८१॥
ततः स रथमारुह्य लोकानामुत्तरोत्तरम्। अतिक्रम्याखिलान् राज्ञो जगाम श्रीपतिप्रियः॥ ३२/८२॥
सर्वेषामुत्तरं लोकमैन्द्रं प्राप्येदमेव ते। स्थानमित्युदितो देवैर्दुर्योधनमवैक्षत॥ ३२/८३॥
सभ्रातृकं ज्वलन्तं च सर्वेषामुपरि स्थितम्। तं दृष्ट्वा परमक्रुद्धो निमील्य नयने शुभे॥ ३२/८४॥
भ्रातरो मे क्व कृष्णा च कर्णाद्याः क्वच बान्धवाः। धृष्टद्युम्नादयः पुत्रा हैडिम्बाद्याश्‍च सर्वशः॥ ३२/८५॥
यादवाश्‍चेति पप्रच्छ देवांस्ते च तमब्रुवन्। किं ते तैः स्वकृतं कर्म भुज्यतेऽत्र नचापरैः॥ ३२/८६॥
इत्युक्त आह पापोऽयं पृथिवीक्षयकारकः। सर्वातिशङ्की मित्रध्रुङ् नारायणपराङ्मुखः॥ ३२/८७॥
नास्तिकोऽतिशठः क्रूरो द्वेष्टा विष्णोश्‍च तद्भुवाम्। कथं दुर्योधनः स्थानं सर्वोत्तममवाप्तवान्॥ ३२/८८॥
कथं च सर्वधर्मज्ञा नारायणपरायणाः। संस्थिताः परमे धर्मे दृश्यन्तेऽत्र न मत्प्रियाः॥ ३२/८९॥
यत्र सन्तस्तु ते सन्ति तत्र स्थातव्यमेव मे। निरयेऽपि नचात्रापि ह्यनेन सह पापिना। अस्य वीरतमस्येदं धार्तराष्ट्रस्य युज्यते॥ ३२/९०॥
इत्युक्ता देवता दूतं स्वानां सन्दर्शनार्थिनः। राज्ञः सम्प्रेषयामासुस्तत्सन्दर्शितवर्त्मना॥ ३२/९१॥
दुर्गन्धेन सुकृच्छ्रेण तमसा प्रावृतेन च। गत्वैव कियतीं भूमिं तद्दुर्गन्धासहो नृपः। इच्छन् निवर्तनं तत्र स्वानां वाच इवाशृणोत्॥ ३२/९२॥
क्षणं तिष्ठ महाराज सन्निधानबलात् तव। वेदना नो न महतीत्येतच्छ्रुत्वा युधिष्ठिरः॥ ३२/९३॥
के यूयमिति पप्रच्छ दीनध्वनिविशङ्कितः। भीमोऽहमर्जुनः कर्ण इत्याद्युक्तमिवाशृणोत्॥ ३२/९४॥
श्रुत्वा तत् कृपयाऽऽविष्टः शोकामर्षसमन्वितः। आह दूत यथेष्टं त्वं गच्छ नाहमितो व्रजे॥ ३२/९५॥
नच स्वर्गेण मे कार्यं त्यक्त्वा स्वजनमीदृशम्। इत्युक्तः प्रययौ दूतस्तस्थावत्र युधिष्ठिरः॥ ३२/९६॥
ततोऽत्र देवाः पुरुहूतपूर्वकाः समाययुः स्नेहवशाद् युधिष्ठिरे। तेष्वागतेष्वेव न तत्र वाचो दीना न दुर्गन्धतमोऽप्यपश्यत्। स्वर्गोत्तमं देशमपश्यदेतदभ्रान्तचेताः स युधिष्ठिरस्तदा॥ ३२/९७॥
आहात्र धर्मः पुनरात्मसद्यशः प्रकाशयन् पाण्डुसुताभिधं स्वम्। धर्माद् विशिष्टा हि सदाऽनृशंसता दृष्टा च सा त्वय्यधिका त्रिशो मया॥ ३२/९८॥
शक्रोऽप्युवाचैनमिदं मृषा ते प्रदर्शितं द्रोणकृते मृषागिरः। कृच्छ्रादिदं ते कथितं नचातिविस्रम्भ आसीत् तव कृष्णवाक्ये॥ ३२/९९॥
नह्याज्ञया वासुदेवस्य किञ्चित् पापं भवेत् सर्वविधर्मिणोऽपि। ब्रह्मापरोक्ष्येऽपि विकर्म सूचकं प्रारब्धपापस्य विषाशनं यथा। पश्यात्र भीमप्रमुखान् सुखस्थान् सम्पूज्यमानांस्त्रिदशैः सुरूपान्॥ ३२/१००॥
कुतः परब्रह्मदृशां सुशुद्धसत्कर्मणां विष्णुपरायणानाम्। परेण योगेन विसृष्टतन्वां दुखं भवेद् देववराधिपानाम्॥ ३२/१०१॥
एते हि देवप्रवराः पृथिव्यां जाता भुवो भारजिहीर्षुमीशम्। प्रतोष्य तद्भावितबुद्धिकर्मभिः पुनश्‍च तेनैव सहापिरे दिवम्॥ ३२/१०२॥
न ते नृपाद्यापि हि मानुषो गतो भावस्ततो द्वेष्टि सुयोधनादीन्। निमज्ज्य तद् विष्णुपदोदकेऽत्र विसृज्य देहं भज देवभावम्॥ ३२/१०३॥
सुयोधनाद्या यदिमे सुपापा आरब्धपुण्यक्षयमाप्य नित्ये। निःशेषसौख्योज्झितनित्यदुःखेऽवशाः पतिष्यन्त्यपुनर्निवृत्ताः॥ ३२/१०४॥
देवांशजा ये तु समस्तशस्ते स्वमूलरूपं समवाप्य काले। स्वतारतम्यानुसृतां विमुक्तिं प्राप्स्यन्ति नात्रापि विचार्यमस्ति॥ ३२/१०५॥
इत्युक्त आश्‍वेव निमज्य गङ्गां धर्मात्मजस्तत्र विसृज्य देहम्। सद्यो बभौ दैवमवाप्य कायं विसृष्टरोषादिसमस्तदोषः॥ ३२/१०६॥
स तु प्रपश्यन् स्वजनं समस्तं स्वमूलरूपातिसमीपसंस्थम्। ददर्श भीमं च मरुत्समीपे मध्ये ज्वलन्तं मरुतां गणस्य॥ ३२/१०७॥
ददर्श कृष्णामपि तत्समीपे श्रिया ज्वलन्तीं समतीत्य चान्याः।
स्प्रष्टुं च संस्कारवशादियेष निषिध्य तं प्राह सुराधिराजः॥ ३२/१०८॥
एषा हि साक्षाज्जगतां प्रियस्य प्राणात्मनो जीववरेश्‍वरस्य। प्राणप्रिया श्रीरिति नाम यस्याः शमात्मकेऽस्मिन् रमते सदैका॥ ३२/१०९॥
युष्मच्चतुर्देहगतस्य वायोर्वायुप्रिया भीमतनोस्तथैव। भोगाय सृष्टा पुरुषोत्तमेन युष्मत्प्रियार्थं भवतां च दारैः॥ ३२/११०॥
प्रीतिस्ततो ह्यभ्यधिका बभूव भीमस्य चास्यास्तदनु स्म पार्थे। ततो भवत्स्वेव यथाक्रमेण गुणानुसारेण समीरणस्य॥ ३२/१११॥
इयं हि सा शुद्धतनुः प्रजाता शच्यादियोगापगताग्र्यदेहा। यूयं च सर्वे मरुतो विशेषसंयोगहीनाः स्वशरीरसंस्थाः॥ ३२/११२॥
स्पर्शेऽपि नास्याः पवमानपत्न्याः सुपूतताऽलं भवतामिदानीम्। नचोत्तरत्रापि भवेत् कथञ्चिद् दिवौकसां मानुषदेहिनो यथा॥ ३२/११३॥
इतीरितं तं प्रतिसन्निवृत्तं विनाशयन् मानुषवासनां स्वयम्। समाश्लिषच्छुद्धतनुः स्तनोत्थो धर्मो हरेः सोऽभवदाशु तत्समः॥ ३२/११४॥
ततस्तु पार्था अखिलाः स्वमूलरूपैः सहैवाविविशुर्मुदाऽन्विताः। स्वीयानि सद्मानि ततोऽप्यनूनभोगाः सदारा न्यवसंश्‍च तत्र॥ ३२/११५॥
तत्रापि कृष्णेन समागमोऽभूत् पुरेव तेषामपि तत्पराणाम्। चिक्रीड एभिः सहितस्तथैव कृष्णोऽपि तद्वत् सरथोऽर्जुनेन॥ ३२/११६॥
अन्ये तु देवांशभवाः समस्ताः स्वमूलरूपैक्यमवापुराशु।
कर्मक्षयादेव सुरेतरास्तु पुण्यक्षयं प्राप्य भुवि प्रजाताः॥ ३२/११७॥
चतुःसहस्रं त्रिशतोत्तरं ते संवत्सराणामनुभूय दिव्यान्। भोगान् नरत्वेऽपि सदेश्‍वरोऽहमसज्जगच्चेति धियाऽऽप्नुवंस्तमः॥ ३२/११८॥
दुःखेऽपि तेषामिह तारतम्यं कलेः परं दुःखमिहाखिलाच्च। यथा विरिञ्चस्य सुखं परं स्यान्मुक्तौ हरिद्वेषकृतो विशेषः॥ ३२/११९॥
केचित् पिशाचासुरराक्षसत्वमवाप्य विष्णोरपि तत्पराणाम्। द्वेषात् तमोऽन्धं त्वरया समाप्नुयुर्देवाः स्वकाले निजयोग्यमुक्तिम्॥ ३२/१२०॥
चतुःसहस्रे त्रिशतोत्तरे गते संवत्सराणां तु कलौ पृथिव्याम्। जातः पुनर्विप्रतनुः स भीमो दैत्यैर्निगूढं हरितत्त्वमाह॥ ३२/१२१॥
तदैव कृष्णाऽपि भुवि प्रजाता प्रीत्यै हरेरन्धतमस्यपातयत्।
महासुरान् विष्णुपरार्जुनाद्या कृते प्रजाता हरितोषणाय। पुनश्‍च ते स्थानमवाप्य सर्वे स्वीयं परान्ते तु विमुक्तिमाप्नुयुः॥ ३२/१२२॥
वायुत्वमाप्तः स हनूमदंशो ब्राह्मं पदं प्राप्य वृकोदरश्‍च। वागीश्‍वरीत्वं गतयैव कृष्णया सहैव मुक्तिं गमिताऽखिलोत्तमाम्॥ ३२/१२३॥
भुवि द्युलोके च विरिञ्चतायां मुक्तौ च ताभ्यामधिकं समस्तात्। सन्तोष्यते पूर्णगुणो रमेशः सदैव नित्योर्जिततद्रतिभ्याम्॥ ३२/१२४॥
“भूषन् न योऽधि बभ्रूषु नम्नते” “बळित्था तद् वपुषे धायि दर्शतम्”। “तां सु ते कीर्तिं मघवन् महित्वा” इत्यादिसूक्तानि च तत्प्रमाणम्॥ ३२/१२५॥
अन्यानि वाक्यानि च वैदिकानि सपञ्चरात्रोक्तिपुराणकानि। पृष्टश्‍च भीष्मोऽत्र युधिष्ठिरेण तन्मोक्षधर्मेष्वपि किञ्चिदाह॥ ३२/१२६॥
एवं प्रयातेषु सकेशवेषु स्वानेव लोकान् यदुपाण्डवेषु। परीक्षिदाद्यास्तु तदन्वयोत्था व्यासानुशिष्टाः पृथिवीमरक्षन्॥ ३२/१२७॥
तैः क्षेमकान्तैरिह भारतादिशास्त्राणि शृण्वद्भिरशेषविद्भिः। व्यासप्रसादाच्च कलौ च धर्मो ज्ञानं च सुत्रातमगान्न नाशम्॥ ३२/१२८॥
संवत्सराणां तु सहस्रके गते प्राप्तेषु विद्यामखिलेषु सत्सु। दग्धाः पुरा ये त्रिपुरं घ्नतैव रुद्रेण जाताः पृथिवीतले ते॥ ३२/१२९॥
अदर्शनं सर्वमुनीन्द्रवृन्दैः सहैव सञ्ज्ञानमहानिधाने। व्यासे प्रयातेऽपि सुतत्त्वविद्या तत्सम्प्रदायादपि तैरवाप्ता॥ ३२/१३०॥
उत्सादितत्वात् तु दुरागमानां तत्सम्प्रदायस्य च नाशितत्वात्। प्रसारितत्वाच्च सदागमानां पापा अपि ज्ञानमवापुरेतत्॥ ३२/१३१॥
शुना पुरोडाशमिवावलीढं वेदश्रुतिं वाऽन्त्यजनैरवाप्ताम्। अनन्तदुःखाप्तिसुयोग्यदैत्यैर्विद्यामवाप्तां तु न सेहिरे सुराः॥ ३२/१३२॥
नावाग्गतिः क्वापि सुवेदिनां भवेत् प्राप्यं सुखं नित्यमवश्यमेभिः। प्राप्यं तमोऽन्धं त्वसुरैर्न मुक्तिः कदाचिदप्येतदचिन्तयन् सुराः॥ ३२/१३३॥
ज्ञानप्रदानाय सतां तदन्यज्ञानप्रणाशाय च विष्णुनैते। कॢप्तास्ततस्ते सविरिञ्चशर्वा विज्ञापयामासुरुपेत्य विष्णुम्॥ ३२/१३४॥
क्षीरोदधेरुत्तरतीरनिष्ठितैरभिष्टुतः सुष्टुतिभिः पुरुष्टुतः। प्रदाय तेषामभयं रमापतिः क्षणादभूच्चारुतमाकृतिः शिशुः॥ ३२/१३५॥
यस्त्रैपुराणां प्रथमोऽत्र जातः शुद्धोदनेत्येव जिनेति चोक्तः। क्षेत्रे गयाख्येऽस्य शिशुं प्रजातं सम्प्रास्य दूरेऽत्र बभूव विष्णुः। अजानमानाः स्वशिशुं गतं तं शिशुं हरिं वीक्ष्य निजं स्म मेनिरे॥ ३२/१३६॥
तेषां तदा वैदिककर्म वीक्ष्य सम्प्राहसत् तद्वपुषैव केशवः। तं जातमात्रं प्रहसन्तमीक्ष्य सुविस्मितैः पृष्ट उवाच विष्णुः। बुद्धोऽहमित्येव सुनित्यबोधाज्जगाद चैषामथ बुद्धदर्शनम्॥ ३२/१३७॥
तथाऽप्यविश्‍वासमेवक्ष्य तेषां सस्मार देवानखिलान् जनार्दनः। विज्ञाय ते तस्य मनोगतं निजान् प्रचिक्षिपुर्हेतिगणानमुष्मिन्॥ ३२/१३८॥
स जातमात्रः शिवपूर्वकाणां शूलादिहेतीरखिला निगीर्य। दैत्यातिमोहाय निजं च चक्रं स्वमुक्तमाश्‍वेव वशी समग्रहीद्॥ ३२/१३९॥
तदासनत्वेन विधाय तस्मिन् समास्थितं देवगणाः प्रणम्य। जग्मुः स्वधामानि वचांसि चास्य स्वीचक्रुराश्‍वेव जिनादिदैत्याः॥ ३२/१४०॥
ते ज्ञानधर्मावपहाय पापा विमोहिता देववरेण सर्वे। जग्मुस्तमोऽन्धं क्षणिकं समस्तं ज्ञानं न सच्चेति दृढं स्मरन्तः॥ ३२/१४१॥
नारायणोऽप्याप्य सुरेन्द्रवृन्दं वृत्तं च तेषामखिलं निगद्य। पृष्टश्‍च तैराह निजं हृदिस्थं बौद्धागमार्थं सृतिबन्धमोचनम्॥ ३२/१४२॥
क्षणादयः क्षणिकास्तद्विशेषा यतः प्रयान्त्येव निसर्गतोऽखिलाः। ततः स्थिरत्वेऽपि विशेषसंश्रयादुक्तं क्षणस्थायि मया समस्तम्॥ ३२/१४३॥
तद्वान् विशेषश्‍च यतो न भिन्नौ सदा स्वनिर्वाहकशक्तियुक्तौ। अतः क्षणस्थायि समस्तमेतत् स्थिरात्मकं चेति हि नास्ति भेदः॥ ३२/१४४॥
ज्ञोऽहं सदैकः परमो मयैतत् सदाऽननीयं हि यतोऽस्वतन्त्रम्। ज्ञानात्मकं विश्‍वमतो मयोक्तं जडस्वरूपं च किमु स्म चेतनम्॥ ३२/१४५॥
शंशीलकोऽहं यत एव चोच्चः शूनामकस्तद्धि मया निधेयम्। शून्याभिधं दोषविरुद्धरूपो दोषोज्झितोऽन्यस्त्वखिलादनामा। एनैव साद्यं त्वसदेव नामतस्त्वभाव एनैव भवेद् यतस्तत्॥ ३२/१४६॥
इत्यादि बोद्धव्यमिदं समस्तं मयोदितं क्वापि न हेयमस्ति। इत्यादि देवान् प्रतिबोधयंश्‍च देवैः सहोवास स बुद्धदेवः। गत्वा स्वधामाप्यपरेण रूपेणास्ते पृथक् चैकतनुर्यथेष्टम्॥ ३२/१४७॥
ततस्तु बुद्धोदितपक्षसंस्थो जिनोऽपि चक्रे मतमन्यदेव। बौद्धेन जैनेन मतेन चैव दैत्यांशकाः प्रीतिमगुः समस्ताः॥ ३२/१४८॥
प्रशान्तविद्येत्यभिधं तथाऽन्यद् बुद्धोक्तशास्त्रं त्रिदशा अवाप्य। तोषं ययुर्वेदसमस्तसारं यामास्थितानामचिरेण मुक्तिः॥ ३२/१४९॥
अन्ये मनुष्या अपि भारताद्यं सत्सम्प्रदायं परिगृह्य विष्णुम्। यजन्त आपुः परमां गतिं तन्न सेहिरे क्रोधवशादिदैत्याः॥ ३२/१५०॥
शैवं तपस्ते विपुलं विधाय जगद्विमोहोर्जितशक्तिमस्मात्। प्राप्य प्रजाता भुवि मोहनं च चक्रुः कुतर्कैरभिदां वदन्तः॥ ३२/१५१॥
तेषां प्रपाताय सतां च मुक्त्यै जन्मास भीमस्य यदुक्तमत्र।
दुर्गा पुनर्विप्रकुलेऽवतीर्णा हनिष्यति व्रातमथासुराणाम्॥ ३२/१५२॥
ततः कलेरन्तमवाप्य धर्मज्ञानादिकल्याणगुणप्रहीने। लोके विरिञ्चत्रिपुरघ्नशक्रपूर्वाः पयोब्धिं त्रिदशाः प्रजग्मुः॥ ३२/१५३॥
नारायणस्तैः स्तुतिपूर्वमर्थितो भवाय लोकस्य स शम्फलाख्ये। ग्रामे मुनेर्विष्णुयशोऽभिधस्य गृहे बभूवाविरचिन्त्यशक्तिः॥ ३२/१५४॥
कलेस्तु कात्कारत एष कल्की ज्ञानं कलं कं सुखमेव तद्वान्। कल्कीति वा तेन समस्तदस्युविनाशनं तेन दिनाद् व्यधायि॥ ३२/१५५॥
अधर्मवृत्तं विमुखं हरेश्‍च निहत्य निःशेषजनं तुरङ्गी। संस्थापयामास स धर्मकेतुं ज्ञानं स्वभक्तिं च निजप्रजासु॥ ३२/१५६॥
उपसंहारः
इत्याद्यनन्तानि हरेरुदारकर्माणि रूपाणि च सद्गुणाश्‍च। नित्यव्यपेताखिलदोषकस्य ब्रह्मेत्यनन्तेति च नाम येन॥ ३२/१५७॥
आनन्दतीर्थाख्यमुनिः सुपूर्णप्रज्ञाभिधो ग्रन्थमिमं चकार। नारायणेनाभिहितो बदर्यां तस्यैव शिष्यो जगदेकभर्तुः॥ ३२/१५८॥
यस्तत्प्रसादादखिलांश्‍च वेदान् सपञ्चरात्रान् सरहस्यसङ्ग्रहान्। वेदेतिहासांश्‍च पुराणयुक्तान् यथावदन्या अपि सर्वविद्याः॥ ३२/१५९॥
समस्तशास्त्रार्थविनिर्णयोऽयं विशेषतो भारतवर्त्मचारी। ग्रन्थः कृतोऽयं जगतां जनित्रं हरिं गुरुं प्रीणयताऽमुनैव॥ ३२/१६०॥
विनिर्णयो नास्त्यमुना विना यद् विप्रस्थितानामिह सर्ववाचाम्। तद् ब्रह्मसूत्राणि चकार कृष्णो व्याख्या तथैषामयथाकृताऽन्यैः॥ ३२/१६१॥
निगूहितं यत् पुरुषोत्तमत्वं सूत्रोक्तमप्यत्र महासुरेन्द्रैः। जीवेश्‍वरैक्यं प्रवदद्भिरुग्रैर्व्याख्याय सूत्राणि चकार चाविः॥ ३२/१६२॥
व्यासाज्ञया भाष्यवरं विधाय पृथक्पृथक् चोपनिषत्सुभाष्यम्। कृत्वाऽखिलान्यं पुरुषोत्तमं च हरिं वदन्तीति समर्थयित्वा॥ ३२/१६३॥
तनुस्तृतीया पवनस्य सेयं सद्भारतार्थप्रतिपादनाय। ग्रन्थं चकारेममुदीर्णविद्या यस्मिन् रमन्ते हरिपादभक्ताः॥ ३२/१६४॥
“तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः। निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः। यदीमनु प्रदिवो मध्व आधवे गुहासन्तं मातरिश्‍वा मथायति॥ ३२/१६५॥”
इत्यादिवाक्योक्तमिदं समस्तं तथा पुराणेषु च पञ्चरात्रे। अत्रोदिता याश्‍च कथाः समस्ता वेदेतिहासादिविनिर्णयोक्ताः॥ ३२/१६६॥
तस्मादयं ग्रन्थवरोऽखिलानां धर्मादिमोक्षान्तपुमर्थहेतुः। किञ्चोदितैरस्य गुणैस्ततोऽन्यैर्नारायणः प्रीतिमुपैत्यतोऽलम्॥ ३२/१६७॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत्। वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु- र्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे॥ ३२/१६८॥
यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः। प्रीयतां प्रीत एवालं विष्णुर्मे परमः सुहृत्॥ ३२/१६९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये पाण्डवस्वर्गारोहणं नाम द्वात्रिंशोऽध्यायः समाप्तः॥
॥ समाप्तश्चायं ग्रन्थः॥