उपोद्घातः
ॐ शं नो॑ मि॒त्रः शं वरु॑णः।
शं नो॑ भवत्वर्य॒मा।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॑।
शं नो॒ विष्णु॑रुरुक्र॒मः।
नमो॒ ब्रह्म॑णे।
नम॑स्ते वायो।
त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि।
त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि।
ऋ॒तं व॑दिष्यामि।
स॒त्यं व॑दिष्यामि।
तन्माम॑वतु।
तद्व॒क्तार॑मवतु।
अव॑तु॒ माम्।
अव॑तु व॒क्तारम्᳚।
ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥ १/१॥
ॐ॥ सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्येकम्।
सर्वैर्देवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्ठम्॥ *॥
“आदित्यसंस्थिताद् विष्णोः श्रुत्वा ब्रह्मा यथा हरिम्।
तुष्टाव तत्प्रकारेण वरुणोक्तेन वै भृगुः।
विष्णुमस्तौत् तथा प्राह शन्नोमित्रादिका श्रुतिः।
यदुवाच हरिः सूर्यमण्डलस्थः परः पुमान्।
ब्रह्मा तदाह वरुणे वरुणो भृगवेऽपितु।
शन्नोमित्रादिभिर्वाक्यैस्तैरेव हरिमस्तुवत्।
भृगुः पञ्चात्मकं पूर्णमन्नादिमयमच्युतम्।
मुक्तगीतावसानैस्तु स्तुतस्तेन जनार्दनः।
सुप्रीतः प्रददौ ज्ञानं स्वात्मभक्तिं च शाश्वतीम्॥”
मृग्यम्
इत्यादि यजुःसंहितायाम्।
“भृगुवाक्यतया वायुनमस्कारादिकं हरिः।
प्रोवाच ब्रह्मणे चैवं वचः सुबहुदर्शिषु॥”
मृग्यम्
इति च॥ १॥
शिक्षावल्ली
शीक्षां व्या᳚ख्यास्या॒मः।
वर्णः॒ स्वरः।
मात्रा॒ बलम्।
साम॑ सन्ता॒नः।
इत्युक्तः शी᳚क्षाध्या॒यः॥ १/२॥
स॒ह नौ॒ यशः।
स॒ह नौ ब्र॑ह्मव॒र्चसम्।
अथातः सꣳहिताया उपनिषदं व्या᳚ख्यास्या॒मः।
पञ्चस्वधिक॑रणे॒षु।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज॑मध्या॒त्मम्।
ता महासꣳहिता इ॑त्याच॒क्षते।
अथा॑धिलो॒कम्।
पृथिवी पू᳚र्वरू॒पम्।
द्यौरुत्त॑ररू॒पम्।
आका॑शः स॒न्धिः॥ १/३॥
वायुः॑ सन्धा॒नम्।
इत्य॑धिलो॒कम्।
अथा॑धिज्यौ॒तिषम्।
अग्निः पू᳚र्वरू॒पम्।
आदित्य उत्त॑ररू॒पम्।
आ॑पः स॒न्धिः।
वैद्युतः॑ सन्धा॒नम्।
इत्य॑धिज्यौ॒तिषम्।
अथा॑धिवि॒द्यम्।
आचार्यः पू᳚र्वरू॒पम्॥ १/४॥
अन्तेवास्युत्त॑ररू॒पम्।
वि॑द्या स॒न्धिः।
प्रवचनꣳ॑ सन्धा॒नम्।
इत्य॑धिवि॒द्यम्।
अथाधि॒प्रजम्।
माता पू᳚र्वरू॒पम्।
पितोत्त॑ररू॒पम्।
प्र॑जा स॒न्धिः।
प्रजननꣳ॑ सन्धा॒नम्।
इत्यधि॒प्रजम्॥ १/५॥
अथाध्या॒त्मम्।
अधराहनुः पू᳚र्वरू॒पम्।
उत्तराहनुरुत्त॑ररू॒पम्।
वाक् स॒न्धिः।
जिह्वा॑ सन्धा॒नम्।
इत्यध्या॒त्मम्।
इतीमा म॑हास॒ꣳ॒हिताः।
य एवमेता महासꣳहिता व्याख्या॑ता वे॒द।
सन्धीयते प्रज॑या प॒शुभिः।
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न॥ १/६॥
यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः।
छन्दो॒भ्योऽध्य॒मृता᳚त् सम्ब॒भूव॑।
स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु।
अ॒मृत॑स्य देव॒ धार॑णो भूयासम्।
शरी॑रं मे॒ विच॑र्षणम्।
जि॒ह्वा मे॒ मधु॑मत्तमा।
कर्णा᳚भ्यां॒ भूरि॒ विश्रु॑वम्।
ब्रह्म॑णः को॒शो॑ऽसि मे॒धयाऽपि॑हितः।
श्रु॒तं मे॑ गोपाय।
आ॒वह॑न्ती वितन्वा॒ना॥ १/७॥
कु॒र्वा॒णा चीर॑मा॒त्मनः॑।
वासाꣳ॑सि॒ मम॒ गाव॑श्च।
अ॒न्न॒पा॒ने च॑ सर्व॒दा।
ततो॑ मे॒ श्रिय॒माव॑ह।
लो॒म॒शां प॒शुभिः॑ स॒ह स्वाहा᳚।
आ मा॑ यन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚।
वि मा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚।
प्र मा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚।
दमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚।
शमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚॥ १/८॥
यशो॒ जने॑ऽसानि॒ स्वाहा᳚।
श्रेया॒न् वस्य॑सोऽसानि॒ स्वाहा᳚।
तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚।
स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚।
तस्मि᳚न् स॒हस्र॑शाखे।
निभ॑गा॒हं त्वयि॑ मृजे॒ स्वाहा᳚।
यथाऽऽपः॒ प्रव॑ता॒ यन्ति॑।
यथा॒ मासा॑ अहर्ज॒रम्।
ए॒वं मां ब्र॑ह्मचा॒रिणः॑।
धात॒रा य॑न्तु स॒र्वतः॒ स्वाहा᳚।
प्र॒ति॒वे॒शो॑ऽसि॒ प्र मा॑ भाहि॒ प्र मा॑ पद्यस्व॥१/९॥
वरणीयो
वर्णः।
स्वरतेस्तु
स्वरः।
मानात् त्राता
मात्रा।
बलरूपः।
समश्च सर्वरूपेषु।
सन्ततः
च।
“वर्णादिवाचकं रूपं ज्ञेयं वर्णादिनामकम्।
विष्णोर्वर्णादिसंस्थं च पुंसु तत्तत्क्रियाप्रदम्।
नारायणादिरूपाणि लोकादिषु च पञ्चसु।
अनिरुद्धावसानानि ध्येयानि चतुरात्मना।
वासुदेवादिकान्येव तानि पूर्वोत्तरार्णयोः।
संहितायास्तथा सन्धौ सन्धाने चापि कृत्स्नशः।
यो वेदैतानि रूपणि सर्वभोगसमन्वितः।
प्राप्नोति वैष्णवं स्थानं मुक्तः स्वर्गाभिधं परम्।
यो विश्वरूपो भगवांश्च्छन्दसामधिपो हरिः।
छन्दोभ्योऽमृतरूपेभ्यः सुव्यक्तस्तदुपासनात्।
मेधावी तत्त्वविज्ञानी भूत्वा क्षिप्रं विमुच्यते॥”
मृग्यम्
इति च।
“वेदावासत्वतो विष्णुर्ब्रह्मकोश इति स्मृतः।
भगः षड्गुणपूर्णत्वाद् बहुरूपत्वतो विभुः।
सहस्रशाख इत्युक्तस्तमुपास्य जनार्दनम्।
मुच्यते नात्र सन्देहः सर्वभोगैश्च पूज्यते॥”
मृग्यम्
इति प्रकॢप्ते।
“आवहन्ती चिरं सर्वभोगान् या श्रीः सनातनी।
तां मय्यावह गोविन्द सुशिखण्डोपशोभिताम्॥”
मृग्यम्
इति च।
भूर्भुवः॒ सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः।
तासा॑मुहस्मै॒ तां च॑तु॒र्थीम्।
माहा॑चमस्यः॒ प्रवे॑दयते।
मह॒ इति॑।
तद् ब्रह्म॑।
स आ॒त्मा।
अङ्गा᳚न्य॒न्या दे॒वताः᳚।
भूरिति॒ वा अ॒यं लो॒कः।
भुव॒ इत्य॒न्तरि॑क्षम्।
सुव॒रित्य॒सौ लो॒कः॥ १/१०॥
मह॒ इत्या॑दि॒त्यः।
आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते।
भूरिति॒ वा अ॒ग्निः।
भुव॒ इति॑ वा॒युः।
सुव॒रित्या॑दि॒त्यः।
मह॒ इति॑ च॒न्द्रमाः᳚।
च॒न्द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीꣳ॑षि॒ मही॑यन्ते।
भूरिति॒ वा ऋचः॑।
भुव॒ इति॒ सामा॑नि।
सुव॒रिति॒ यजूꣳ॑षि॥ १/११॥
मह॒ इति॒ ब्रह्म॑।
ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते।
भूरिति॒ वै प्रा॒णः।
भुव॒ इत्य॑पा॒नः।
सुव॒रिति॑ व्या॒नः।
मह॒ इत्यन्नम्᳚।
अन्ने॑न॒ वाव सर्वे᳚ प्रा॒णा मही॑यन्ते।
ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा।
चत॑स्रश्चतस्रो॒ व्याहृ॑तयः।
ता यो वेद॑।
स वे॑द॒ ब्रह्म॑।
सर्वे᳚ऽस्मै दे॒वा ब॒लिमाव॑हन्ति॥ १/१२॥
स य ए॒षो᳚ऽन्तर्हृ॑दय आका॒शः।
तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑।
अमृ॑तो हिर॒ण्मयः॑।
अन्त॑रेण॒ तालु॑के।
य ए॒ष स्तन॑ इवाव॒लम्ब॑ते।
से᳚न्द्रयो॒निः।
यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते।
व्य॒पोह्य॑ शीर्षकपा॒ले।
भूरित्य॒ग्नौ प्रति॑तिष्ठति।
भुव॒ इति॑ वा॒यौ॥ १/१३॥
सुव॒रित्या॑दि॒त्ये।
मह॒ इति॒ ब्रह्म॑णि।
आ॒प्नोति॒ स्वारा᳚ज्यम्।
आ॒प्नोति॒ मन॑स॒स्पतिम्᳚।
वाक्प॑ति॒श्चक्षु॑ष्पतिः।
श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः।
ए॒तत् ततो॑ भवति।
आ॒का॒शश॑रीरं॒ ब्रह्म॑।
स॒त्यात्म॑प्रा॒णारा॑मं॒ मन॑ आनन्दम्।
शान्ति॑समृद्धम॒मृतम्᳚।
इति॑ प्राचीनयो॒ग्योपा᳚स्व॥ १/१४॥
पृ॒थि॒व्य॑न्तरि॑क्षं॒ द्यौर्दिशो॑ऽवान्तरदि॒शाः।
अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि।
आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा।
इत्य॑धिभू॒तम्।
अथाध्या॒त्मम्।
प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नः स॑मा॒नः।
चक्षुः॒ श्रोत्रं॒ मनो॒ वाक् त्वक्।
चर्म॑ मा॒ꣳ॒सꣴ स्नावास्थि॑ म॒ज्जा।
ए॒तद॑धि वि॒धाय॒ ऋषि॒रवो॑चत्।
पाङ्क्तं॒ वा इ॒दꣳ सर्वम्᳚।
पाङ्क्ते॑नै॒व पाङ्क्तꣴ॑ स्पृणो॒तीति॑॥ १/१५॥
“भूरादिव्याहृतीभिस्तु वाच्यं मूर्तिचतुष्टयम्।
अनिरुद्धादिकं वासुदेवान्तं देहमध्यगः।
वासुदेवो महोनामा त्वनिरुद्धः शिरो मतः।
भूर्नामाऽथ भुवोनामा बाहू प्रद्युम्न ईरितः।
सङ्कर्षणः सुवर्नामा पादौ तस्य महात्मनः।
अनन्योऽप्यन्यशब्देन चतुरात्मा प्रकीर्त्यते।
निर्विशेषोऽपि भगवान् सङ्ख्यामात्रविशेषतः।
लोकज्योतिः प्राणवेदेष्वेकः स पुरुषोत्तमः।
प्रत्येकशश्चातुरात्म्याच्छोडशात्मा प्रकीर्तितः।
महीयते महति च स्वयं स भगवान् हरिः।
पूज्यपूजकभेदोऽत्र नैव कश्चिदपीष्यते।
नामप्रवृत्तिहेतुत्वान्नाम लोकादिकं हरेः।
अयं समीपस्थतया त्वसौ प्राणे स्थितत्वतः।
ईक्षणादन्तरिक्षं चाथादित्यस्थोऽदितेः सुतः।
अग्निरग्नौ स्थितत्वाच्च वायुर्वयति यज्जगत्।
चन्द्र आह्लादरूपत्वादृगर्च्यत्वाज्जनार्दनः।
यजुर्याज्यस्वरूपत्वात् साम चासौ समत्वतः।
बृहत्वाद् ब्रह्म वेदानां समुदायेऽखिले स्थितः।
तत्सम्बन्धाद् वेदराशिर्ब्रह्मशब्देन कीर्तितः।
प्रकृष्टनयनात् प्राणोऽपानोऽवाङ् नयनाद्धरिः।
विविधं नयनाद् व्यानः सोऽन्नं सर्वोपजीव्यतः।
एवं षोडशरूपोऽसौ चतुरात्मा व्यवस्थितः।
महाचमसनामाऽसौ यस्मादतिचमत्कृतिः।
माहाचमस्यस्तज्ज्ञानी ब्रह्मा सम्परिकीर्तितः।
एवं षोडशरूपाणां ज्ञानयोग्यश्चतुर्मुखः।
स एव ब्रह्मवित् तस्मात् पूज्यते मुक्तिगोऽपि सन्।
सर्वदेवैरतितरां यः सम्यक् षोडशात्मवित्॥”
मृग्यम्
इति व्याहृतितत्त्वे।
“तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे सुवरिति प्रतिष्ठे द्वे प्रतिष्ठे द्वे एते अक्षरे”
शतपथब्राह्मणे १४/८/६/४
इत्यादिश्रुतेः।
सर्वव्याहृतीनां प्रवेत्ता माहाचमस्यश्चतुर्थीत्वेनैतां प्रवेदयत इति विशेषः।
“भूर्नामा स्फूर्तिरूपत्वाद् भूरिवीर्यत्वतो भुवः।
सुवः सुबलरूपत्वान्महः पूर्णत्वतो विभुः।
तदेतच्चतुराकारं ब्रह्मोक्तं गुणबृंहणात्।
स आत्मा सर्वदेवानां चतुरात्मा जनार्दनः।
तस्य ब्रह्मादयो देवा अङ्गमागन्तुकत्वतः।
वासुदेवादिरूपोऽसौ षोडशात्मा चतुश्चतुः।
स एव सर्ववेदोक्तः सर्वविद्यासु चेश्वरः।
प्रणवार्था व्याहृतयो व्याहृत्यर्था ऋगादयः।
इतिहासः पुराणं च पञ्चरात्रं च सर्वशः।
सम्यग् व्याहरणाद् विष्णोः श्रुता व्याहृतयस्त्विति।
सर्ववेदोक्तसर्वस्वव्याहृतेर्व्याहृतित्वमु।
विशेषेणाहरन्तीमं विष्णुमित्यथवा स्मृताः॥”
मृग्यम्
इति व्याहृतिसारे।
“य एष हृदयाकाशस्त्वनिरुद्धस्तु तद्गतः।
प्रद्युम्नस्तालुमध्यस्थो लम्बिन्यामिन्द्रनामकः।
व्याख्यः सुपर्णरूपत्वात् केशान्ते वर्तते तु यः।
सङ्कर्षणः सुपर्णात्मा वासुदेवो व्यपः स्मृतः।
यस्माद् व्यपगते स्थाता जगति प्रलये विभुः।
अशीर्षककपालोऽसौ कपालादुपरि स्थितः।
अनिरुद्धस्तु भूर्नामा हुताशे संव्यवस्थितः।
प्रद्युम्नो भगवान् वायौ भुव इत्येव कीर्तितः।
सङ्कर्षणः सुवर्नामा सूर्ये तिष्ठति केशवः।
महोनामा वासुदेवो ब्रह्मणि स्थश्चतुर्मुखे।
स वासुदेवः स्वाराज्यं व्याप्यास्मिन् मनसस्पतौ।
अनिरुद्धे च संव्याप्तस्ततो वागादिनां पतिः।
वागादिषु स्थितो नित्यं भवत्येव जनार्दनः।
स्वव्यापी च जगद्व्यापी नित्यैश्वर्यात् स ईश्वरः।
आकाशवद् व्याप्तदेहः सत्यात्मा गुणपूर्तितः।
वायोर्विशेषरमको बलानन्दस्वरूपवान्।
ज्ञानानन्दस्वरूपोऽसौ शान्तिनामा सुखोन्नतेः।
अन्तगत्वात् स्वतः पूर्तेः समृद्धं तत् प्रकीर्तितम्।
इत्युपास्व प्राथमिको योग्यस्त्वं मदुपासने॥
प्राधान्यादिति पूर्वं हि प्राह विष्णुश्चतुर्मुखम्॥”
मृग्यम्
इति ब्रह्मसारे।
“पृथिव्याद्यं पाङ्क्तषट्कं पाङ्क्तेनैव स्वयं हरिः।
नारायणादिरूपेण बलयत्यञ्जसा प्रभुः।
इत्युवाच स्वयं विष्णुर्वेदद्रष्टा गुणाधिकः॥”
मृग्यम्
इति तत्त्वसंहितायाम्।
आत्मा अहङ्कारतत्त्वम्॥
ओमिति॒ ब्रह्म॑।
ओमिती॒दꣳ सर्वम्᳚।
ओमित्ये॒तद॑नुकृति ह स्म॒ वा अ॒प्योश्रा॑व॒येत्याश्रा॑वयन्ति।
ओमिति॒ सामा॑नि गायन्ति।
ओꣳशोमिति॑ श॒स्त्राणि॑ शꣳसन्ति।
ओमित्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति।
ओमिति॒ ब्रह्मा॒ प्रसौ॑ति।
ओमित्य॑ग्निहो॒त्रमनु॑जानाति।
ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑।
ब्रह्मै॒वोपा᳚प्नोति॥ १/१६॥
“ॐनामा भगवान् विष्णुरधिकोच्चगुणत्वतः।
यद्यद् रूपं भगवतस्तदिदं सर्वमेव च।
ओमेवाधिकपूर्णत्वात् तस्माद् यज्ञेषु चर्त्विजः।
ओमित्येव स्वकर्माणि कुर्वन्त्युद्दिश्य केशवम्।
अधिकोच्च शृणुष्वेति हरिमध्वर्युराह हि।
अधिकोच्च महाधाम सूच्च देेवेति चादरात्।
प्रतिप्रति गृणात्येनं शंरूपात्युच्चशावन।
इत्याह होता शस्त्रेषु तथैवान्येऽपि चर्त्विजः।
एवं स्वाध्यायकृच्चाह ब्रह्मप्राप्त्यर्थमञ्जसा।
एवं जानन्त एते तु प्राप्नुवन्त्येव तत् परम्॥”
मृग्यम्
इति च।
ऋतं च स्वाध्यायप्रव॑चने॒ च।
सत्यं च स्वाध्यायप्रव॑चने॒ च।
तपश्च स्वाध्यायप्रव॑चने॒ च।
दमश्च स्वाध्यायप्रव॑चने॒ च।
शमश्च स्वाध्यायप्रव॑चने॒ च।
अग्नयश्च स्वाध्यायप्रव॑चने॒ च।
अग्निहोत्रं च स्वाध्यायप्रव॑चने॒ च।
अतिथयश्च स्वाध्यायप्रव॑चने॒ च।
मानुषं च स्वाध्यायप्रव॑चने॒ च।
प्रजा च स्वाध्यायप्रव॑चने॒ च।
प्रजनश्च स्वाध्यायप्रव॑चने॒ च।
प्रजातिश्च स्वाध्यायप्रव॑चने॒ च।
सत्यमिति सत्यवचा॑ राथी॒तरः।
तप इति तपोनित्यः पौ॑रुशि॒ष्टिः।
स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः।
तद्धि तप॑स्तद्धि॒ तपः॥ १/१७॥
ऋतं च स्वाध्यायप्रवचने च
कर्तव्यानि।
प्रवचनं व्याख्यानम्।
यथार्थज्ञानम्
ऋतम्।
तत्पूर्वकं यथार्थवचनं करणं च
सत्यम्।
“ऋतं यथार्थविज्ञानं सत्यं तत्पूर्विका कृतिः।
ध्यानसत्ये पूज्यपूजा तप इत्यभिधीयते॥”
मृग्यम्
इति शब्दनिर्णये।
सर्वकर्मकृतिकालेष्वपि स्वाध्यायप्रवचनयोः कर्तव्यत्वात् तयोः सर्वत्रानुषङ्गः।
“मन्त्रो मन्त्रार्थवचनमन्यस्य स्वात्मनोऽपिवा।
सर्वकर्मसु कर्तव्यौ सर्वकर्मात्मकौ यतः॥”
मृग्यम्
इति कर्मतत्त्वे।
आत्मनश्चेन्मनसैवार्थवचनम्।
“मानुषं मानुषो धर्मो देवा अपि हि मानुषे।
मनुष्यवत् प्रवर्तन्ते नैवैश्वर्यप्रकाशिनः॥”
मृग्यम्
इति च।
“प्रजाया रक्षणं चैव पुनः प्रजननं तथा।
प्रकृष्टजातिकरणं कर्मभिस्तनये पितुः॥”
मृग्यम्
इति च।
“सत्ये तपसि वा चीर्णे सर्वकर्म कृतं भवेत्।
स्वाध्याये च प्रवचने ह्यन्तर्भावो विशेषतः॥”
मृग्यम्
इति च।
“यंयं क्रतुमधीते तेनतेनास्येष्टं भवति”
तैत्तिरीयारण्यके २/१५
इति च श्रुतिः।
“जप्येनैव तु संसिद्ध्येद् ब्राह्मणो नात्र संशयः।
कुर्यादन्यन्नवा कुर्यान्मैत्रो ब्राह्मण उच्यते॥”
भारते १२/६०/१२, मनुस्मृतौ २/८७, विष्णुस्मृतौ ५५/२१, विष्णुधर्मोत्तरे ३/२७८/२
इति भारते।
“सम्यज्ज्ञात्वा तु यो विष्णुं व्याख्यायीत जपेत च।
न तस्य किञ्चिदकृतं कर्तव्यं मुच्यते च सः॥”
मृग्यम्
इति कर्मतत्त्वे।
अ॒हं वृ॒क्षस्य॒ रेरि॑वा।
की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व।
ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि।
द्रवि॑ण॒ꣳ॒ सव॑र्चसम्।
सुमेधा अ॑मृतो॒क्षितः।
इति त्रिशङ्कोर्वेदा॑नुव॒चनम्॥१/१८॥
“संसारवृक्षच्छेत्ताऽहं मत्कीर्तिः पर्वतोपमा।
अत्युत्कृष्टेन हरिणा पावितोऽस्मि यतः स्फुटम्।
वाजिरूपश्च नेता च वाजिनीः सूर्य उच्यते।
तत्रस्थो भगवान् विष्णुः सम्प्रोक्तो वाजिनीवसुः।
तेनामृतोऽस्मि द्रविणं नित्यानन्दस्वरूपतः।
तेनामृतेन सिक्तोऽहं तेन व्याप्तो यतः सदा।
इत्याह मन्त्रदृक् पूर्वं त्रिशङ्कुर्मानवो नृपः॥”
मृग्यम्
इति यजुर्विवेके।
वेदमनूच्याचार्योऽन्तेवासिनम॑नुशा॒स्ति।
सत्यं॒ वद।
धर्मं॒ चर।
स्वाध्याया᳚न्मा प्र॒मदः।
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य॑वच्छे॒त्सीः।
सत्यान्न प्रम॑दित॒व्यम्।
धर्मान्न प्रम॑दित॒व्यम्।
कुशलान्न प्रम॑दित॒व्यम्।
भूत्यै न प्रम॑दित॒व्यम्।
स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम्॥ १/१९॥
देवपितृकार्याभ्यां न प्रम॑दित॒व्यम्।
मातृ॑देवो॒ भव।
पितृ॑देवो॒ भव।
आचार्य॑देवो॒ भव।
अतिथि॑देवो॒ भव।
यान्यनवद्यानि॑ कर्मा॒णि।
तानि सेवि॑तव्या॒नि।
नो इ॑तरा॒णि।
यान्यस्माकꣳ सुच॑रिता॒नि।
तानि त्वयो॑पास्या॒नि॥ १/२०॥
नो इ॑तरा॒णि।
ये के चास्मच्छ्रेयाꣳ॑सो ब्रा॒ह्मणाः।
तेषां त्वयाऽऽसनेन प्रश्व॑सित॒व्यम्।
श्रद्ध॑या दे॒यम्।
अश्रद्ध॑याऽदे॒यम्।
श्रि॑या दे॒यम्।
ह्रि॑या दे॒यम्।
भि॑या दे॒यम्।
संवि॑दा दे॒यम्।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकि॑त्सा वा॒ स्यात्॥ १/२१॥
ये तत्र ब्राह्मणाः᳚ सम्म॒र्॒शिनः।
युक्ता॑ आयु॒क्ताः।
अलूक्षा॑ धर्म॑कामाः॒ स्युः।
यथा ते॑ तत्र॑ वर्ते॒रन्।
तथा तत्र॑ वर्ते॒थाः।
अथाभ्या᳚ख्याते॒षु।
ये तत्र ब्राह्मणाः᳚ सम्म॒र्॒शिनः।
युक्ता॑ आयु॒क्ताः।
अलूक्षा॑ धर्म॑कामाः॒ स्युः।
यथा ते॑ तेषु॑ वर्ते॒रन्।
तथा तेषु॑ वर्ते॒थाः।
एष॑ आदे॒शः।
एष उ॑पदे॒शः।
एषा वे॑दोप॒निषत्।
एतद॑नुशा॒सनम्।
एवमुपा॑सित॒व्यम्।
एवमु चैत॑दुपा॒स्यम्॥ १/२२॥
शं नो॑ मि॒त्रः शं वरु॑णः।
शं नो॑ भवत्वर्य॒मा।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॑।
शं नो॒ विष्णु॑रुरुक्र॒मः।
नमो॒ ब्रह्म॑णे।
नम॑स्ते वायो।
त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि।
त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम्।
ऋ॒तम॑वादिषम्।
स॒त्यम॑वादिषम्।
तन्मामा॑वीत्।
तद्व॒क्तार॑मावीत्।
आवी॒न्माम्।
आवी᳚द् व॒क्तारम्᳚।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ १/२३॥
संहितायाः पञ्चाधिकरणाभिमानित्वं प्राणादिरूपस्य वायोरपि भवति।
पृथिव्यन्तरिक्षमित्युक्तपाङ्क्तत्वं च।
अत उपक्रमोपसंहारयोः
“त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि”
तैत्तिरीयोपनिषदि १/२३
“त्वामेव प्रत्यक्षं ब्रह्मावादिषम्”
तैत्तिरीयोपनिषदि १/२३
इति युज्यते।
॥ इति शिक्षावल्ली॥
ब्रह्मवल्ली
ॐ स॒ह ना॑ववतु।
स॒ह नौ॑ भुनक्तु।
स॒ह वी॒र्यं॑ करवावहै।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ब्र॒ह्म॒विदा᳚प्नोति॒ परम्᳚।
तदे॒षाऽभ्यु॑क्ता।
स॒त्यं ज्ञा॒नम॑न॒न्तं ब्रह्म॑।
यो वेद॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन्।
सो᳚ऽश्नुते॒ सर्वा॒न्कामा᳚न्त्स॒ह।
ब्रह्म॑णा विप॒श्चितेति॑।
तस्मा॒द् वा ए॒तस्मा॑दा॒त्मन॑ आका॒शः सम्भू॑तः।
आ॒का॒शाद् वा॒युः।
वा॒योर॒ग्निः।
अ॒ग्नेरापः॑।
अ॒द्भ्यः पृ॑थि॒वी।
पृ॒थि॒व्या ओष॑धयः।
ओष॑धी॒भ्योऽन्नम्᳚।
अन्ना॒त् पुरु॑षः।
स वा एष पुरुषोऽन्न॑रस॒मयः।
तस्येद॑मेव॒ शिरः।
अयं दक्षि॑णः प॒क्षः।
अयमुत्त॑रः प॒क्षः।
अयमात्मा᳚।
इदं पुच्छं॑ प्रति॒ष्ठा॥ २/१॥
तदप्येष श्लो॑को भ॒वति
अन्ना॒द् वै प्र॒जाः प्र॒जाय॑न्ते।
याः काश्च॑ पृथि॒वीꣴ श्रि॒ताः।
अथो॒ अन्ने॑नै॒व जी॑वन्ति।
अथै॑न॒दपि॑ यन्त्यन्त॒तः।
अन्न॒ꣳ॒ हि भू॒तानां॒ ज्येष्ठम्᳚।
तस्मा᳚त् सर्वौष॒धमु॑च्यते।
सर्वं॒ वै तेऽन्न॑माप्नुवन्ति।
येऽन्नं॒ ब्रह्मो॒पास॑ते।
अन्न॒ꣳ॒ हि भू॒तानां॒ ज्येष्ठम्᳚।
तस्मा᳚त् सर्वौष॒धमु॑च्यते।
अन्ना᳚द् भू॒तानि॒ जाय॑न्ते।
जाता॒न्यन्ने॑न वर्धन्ते।
अद्यतेऽत्ति च॑ भूता॒नि।
तस्मादन्नं तदुच्य॑त इ॒ति।
तस्माद् वा एतस्मादन्न॑रस॒मयात्।
अन्योऽन्तर आत्मा᳚ प्राण॒मयः।
तेनै॑ष पू॒र्णः।
स वा एष पुरुषवि॑ध ए॒व।
तस्य पुरु॑षवि॒धताम्।
अन्वयं॑ पुरुष॒विधः।
तस्य प्राण॑ एव॒ शिरः।
व्यानो दक्षि॑णः प॒क्षः।
अपान उत्त॑रः प॒क्षः।
आका॑श आ॒त्मा।
पृथिवी पुच्छं॑ प्रति॒ष्ठा।
तदप्येष श्लो॑को भ॒वति॥ २/२॥
प्रा॒णं दे॒वा अनु॒ प्राण॑न्ति।
म॒नु॒ष्याः᳚ प॒शव॑श्च॒ ये।
प्रा॒णो हि भू॒ताना॒मायुः॑।
तस्मा᳚त् सर्वायु॒षमु॑च्यते।
सर्व॑मे॒व त॒ आयु॑र्यन्ति।
ये प्रा॒णं ब्रह्मो॒पास॑ते।
प्राणो हि भूता॑नामा॒युः।
तस्मात् सर्वायुषमुच्य॑त इ॒ति।
तस्यैष एव शारी॑र आ॒त्मा।
यः॑ पूर्व॒स्य।
तस्माद् वा एतस्मा᳚त् प्राण॒मयात्।
अन्योऽन्तर आत्मा॑ मनो॒मयः।
तेनै॑ष पू॒र्णः।
स वा एष पुरुषवि॑ध ए॒व।
तस्य पुरु॑षवि॒धताम्।
अन्वयं॑ पुरुष॒विधः।
तस्य यजु॑रेव॒ शिरः।
ऋग् दक्षि॑णः प॒क्षः।
सामोत्त॑रः प॒क्षः।
आदे॑श आ॒त्मा।
अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा।
तदप्येष श्लो॑को भ॒वति॥ २/३॥
यतो॒ वाचो॒ निव॑र्तन्ते।
अप्रा᳚प्य॒ मन॑सा स॒ह।
आनन्दं ब्रह्म॑णो वि॒द्वान्।
न बिभेति कदा॑चने॒ति।
तस्यैष एव शारी॑र आ॒त्मा।
यः॑ पूर्व॒स्य।
तस्माद् वा एतस्मा᳚न्मनो॒मयात्।
अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः।
तेनै॑ष पू॒र्णः।
स वा एष पुरुषवि॑ध ए॒व।
तस्य पुरु॑षवि॒धताम्।
अन्वयं॑ पुरुष॒विधः।
तस्य श्र॑द्धैव॒ शिरः।
ऋतं दक्षि॑णः प॒क्षः।
सत्यमुत्त॑रः प॒क्षः।
यो॑ग आ॒त्मा।
महः पुच्छं॑ प्रति॒ष्ठा।
तदप्येष श्लो॑को भ॒वति॥ २/४॥
वि॒ज्ञानं॑ य॒ज्ञं त॑नुते।
कर्मा॑णि तनु॒तेऽपि॑ च।
वि॒ज्ञानं॑ दे॒वाः सर्वे᳚।
ब्रह्म॒ ज्येष्ठ॒मुपा॑सते।
वि॒ज्ञानं॒ ब्रह्म॒ चेद् वेद॑।
तस्मा॒च्चेन्न प्र॒माद्य॑ति।
शरीरे॑ पाप्म॑नो हि॒त्वा।
सर्वान् कामान् समश्नु॑त इ॒ति।
तस्यैष एव शारी॑र आ॒त्मा।
यः॑ पूर्व॒स्य।
तस्माद् वा एतस्माद् वि॑ज्ञान॒मयात्।
अन्योऽन्तर आत्मा॑ऽऽनन्द॒मयः।
तेनै॑ष पू॒र्णः।
स वा एष पुरुषवि॑ध ए॒व।
तस्य पुरु॑षवि॒धताम्।
अन्वयं॑ पुरुष॒विधः।
तस्य प्रिय॑मेव॒ शिरः।
मोदो दक्षि॑णः प॒क्षः।
प्रमोद उत्त॑रः प॒क्षः।
आन॑न्द आ॒त्मा।
ब्रह्म पुच्छं॑ प्रति॒ष्ठा।
तदप्येष श्लो॑को भ॒वति॥ २/५॥
अस॑न्ने॒व स॑ भवति।
अस॒द् ब्रह्मेति॒ वेद॒ चेत्।
अस्ति ब्रह्मेति॑ चेद् वे॒द।
सन्तमेनं ततो वि॑दुरि॒ति।
तस्यैष एव शारी॑र आ॒त्मा।
यः॑ पूर्व॒स्य।
अथातो॑ऽनुप्र॒श्नाः।
उ॒ता वि॒द्वान॒मुं लो॒कं प्रेत्य॑।
कश्च॒न ग॑च्छ॒ती(३)॥
आहो॑ वि॒द्वान॒मुँल्लो॒कं प्रेत्य॑।
कश्चि॒त् सम॑श्नु॒ता(३) उ॒।
सो॑ऽकामयत।
ब॒हु स्यां॒ प्रजा॑ये॒येति॑।
स तपो॑ऽतप्यत।
स तप॑स्त॒प्त्वा।
इ॒दꣳ सर्व॑मसृजत।
यदि॒दं किं च॑।
तत् सृ॒ष्ट्वा।
तदे॒वानु॒ प्रावि॑शत्।
तद॑नुप्र॒विश्य॑।
सच्च॒ त्यच्चा॑भवत्।
नि॒रुक्तं॒ चानि॑रुक्तं च।
नि॒लय॑नं॒ चानि॑लयनं च।
वि॒ज्ञानं॒ चावि॑ज्ञानं च।
सत्यं चानृतं च स॑त्यम॒भवत्।
यदि॑दं किं॒ च।
तत् सत्यमि॑त्याच॒क्षते।
तदप्येष श्लो॑को भ॒वति॥ २/६॥
अस॒द् वा इ॒दमग्र॑ आसीत्।
ततो॒ वै सद॑जायत।
तदात्मानꣴ स्वय॑मकु॒रुत।
तस्मात् तत् सुकृतमुच्य॑त इ॒ति।
यद् वै॑ तत् सु॒कृतम्।
र॑सो वै॒ सः।
रसꣴ ह्येवायं लब्ध्वाऽऽन॑न्दी भ॒वति।
को ह्येवान्या᳚त् कः प्रा॒ण्यात्।
यदेष आकाश आन॑न्दो न॒ स्यात्।
एष ह्येवान॑न्दया॒ति।
य॒दा ह्ये॑वैष॒ एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रति॑ष्ठां वि॒न्दते।
अथ सोऽभयं ग॑तो भ॒वति।
य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑रं कु॒रुते।
अथ तस्य भ॑यं भ॒वति।
तत्त्वेव भयं विदुषोऽम॑न्वान॒स्य।
तदप्येष श्लो॑को भ॒वति॥ २/७॥
भी॒षाऽस्मा॒द् वातः॑ पवते।
भी॒षोदे॑ति॒ सूर्यः॑।
भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च।
मृत्युर्धावति पञ्च॑म इ॒ति।
सैषाऽऽनन्दस्य मीमाꣳ॑सा भ॒वति।
युवा स्यात् साधु यु॑वाऽध्या॒यकः।
आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः।
तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात्।
स एको मानुष॑ आन॒न्दः।
ते ये शतं मानुषा॑ आन॒न्दाः।
स एको मनुष्यगन्धर्वाणा॑मान॒न्दः।
श्रोत्रियस्य चाकाम॑हत॒स्य।
ते ये शतं मनुष्यगन्धर्वाणा॑मान॒न्दाः।
स एको देवगन्धर्वाणा॑मान॒न्दः।
श्रोत्रियस्य चाकाम॑हत॒स्य।
ते ये शतं देवगन्धर्वाणा॑मान॒न्दाः।
स एकः पितृणां चिरलोकलोकाना॑मान॒न्दः।
श्रोत्रियस्य चाकाम॑हत॒स्य।
ते ये शतं पितृणां चिरलोकलोकाना॑मान॒न्दाः।
स एक आजानजानां देवाना॑मान॒न्दः।
श्रोत्रियस्य चाकाम॑हत॒स्य।
ते ये शतमाजानजानां देवाना॑मान॒न्दाः।
स एकः कर्मदेवानां देवाना॑मान॒न्दः।
ये कर्मणा देवान॑पिय॒न्ति।
श्रोत्रियस्य चाकाम॑हत॒स्य।
ते ये शतं कर्मदेवानां देवाना॑मान॒न्दाः।
स एको देवाना॑मान॒न्दः।
श्रोत्रियस्य चाकाम॑हत॒स्य।
ते ये शतं देवाना॑मान॒न्दाः।
स एक इन्द्र॑स्यान॒न्दः।
श्रोत्रियस्य चाकाम॑हत॒स्य।
ते ये शतमिन्द्र॑स्याऽऽन॒न्दाः।
स एको बृहस्पते॑रान॒न्दः।
श्रोत्रियस्य चाकाम॑हत॒स्य।
ते ये शतं बृहस्पते॑रान॒न्दाः।
स एकः प्रजापते॑रान॒न्दः।
श्रोत्रियस्य चाकाम॑हत॒स्य।
ते ये शतं प्रजापते॑रान॒न्दाः।
स एको ब्रह्मण॑ आन॒न्दः।
श्रोत्रियस्य चाकाम॑हत॒स्य।
स यश्चा॑यं पु॒रुषे।
यश्चासा॑वादि॒त्ये।
स एकः॑।
स य॑ एवं॒वित्।
अस्माल्लो॑कात् प्रे॒त्य।
एतमन्नमयमात्मानमुप॑सङ्क्रा॒मति।
एतं प्राणमयमात्मानमुप॑सङ्क्रा॒मति।
एतं मनोमयमात्मानमुप॑सङ्क्रा॒मति।
एतं विज्ञानमयमात्मानमुप॑सङ्क्रा॒मति।
एतमानन्दमयमात्मानमुप॑सङ्क्रा॒मति।
तदप्येष श्लो॑को भ॒वति॥ २/८॥
यतो॒ वाचो॒ निव॑र्तन्ते।
अप्रा᳚प्य॒ मन॑सा स॒ह।
आनन्दं ब्रह्म॑णो वि॒द्वान्।
न बिभेति कुत॑श्चने॒ति।
एतꣳ ह वाव॑ न त॒पति।
किमहꣳ साधु॑ नाक॒रवम्।
किमहं पापमकर॑वमि॒ति।
स य एवं विद्वानेते आत्मा॑नꣴ स्पृ॒णुते।
उ॒भे ह्ये॑वैष॒ एते आत्मा॑नꣴ स्पृ॒णुते।
य ए॒वं वेद॑।
इत्यु॑प॒निष॑त्॥ २/९॥
“स्वयोग्यं ब्रह्मविद् भुङ्क्ते विरिञ्चेन परेण च।
ब्रह्मणा सह तद्वश्यः सुखमेव न दुष्कृतम्॥”
मृग्यम्
इति च।
“य एष भगवान् विष्णुर्भूतस्रष्टा गुणाधिकः।
स एवान्नात् पुनर्जातो ह्यजातोऽपि यतो विभुः।
अन्नात्मनि शरीरेऽसौ व्यज्यते सुविवेकिभिः।
अन्नस्य सारभूतोऽयं शरीरस्य च केशवः।
अन्ननामा चान्नसंस्थः शरीरेषु च संस्थितः।
अत्तृत्वात् सर्वलोकानामन्नमित्युच्यते हरिः।
उपजीव्यश्च भूतानामिति चान्नं जनार्दनः।
स ज्यायान् सर्वभूतेभ्यस्तस्मात् सर्वौषधं स्मृतः।
संसारे दह्यमानानामाश्रयत्वात् स औषधम्।
प्रचुरं मय इत्युक्तं प्रचुरात्ता यतो हरिः।
प्रचुरैः सेव्यते नित्यमतोऽन्नमय ईरितः।
देहस्यैव शिरस्यस्य शिरो विष्णोः प्रतिष्ठितम्।
बाह्वोः पक्षौ तथा मध्ये मध्यं पश्चात्तनौ तथा।
पुच्छमित्येष भगवाननिरुद्धः स्वयं हरिः।
तस्यान्तरं परं रूपमभिन्नमपि भिन्नवत्।
प्रद्युम्नाख्यं प्राणमयं प्रणेतृत्वात् प्रकीर्तितम्।
शिरस्तस्य प्राणगतं प्राण इत्येव नामतः।
व्यानाख्यो दक्षिणः पक्षो व्यानगश्चोत्तरस्तथा।
अपानाख्योऽपानगत आकाशस्थं च मध्यमम्।
आकाशाख्यं तथा पुच्छं पृथ्व्यां पृथिविनामकम्।
उदान आकाशनामा समानः पृथिवीति च।
प्रणेतृत्वात् प्राणनाम शिरो विष्णोः प्रकीर्तितम्।
विशेषाच्चेष्टयेद् यस्माद् व्यानाख्यो दक्षिणः करः।
यस्मादपनयेद् दोषानपानः सव्य उच्यते।
आकाशस्त्ववकाशत्वान्मध्यदेहो महात्मनः।
पृथिवी पुच्छमस्योक्तं सर्वस्यापि प्रधारणात्।
स एष जगतामायुस्तस्मिन् सङ्कर्षणः स्थितः।
शिरस्तस्य यजुर्नाम यज्ञानां हरणात् स्मृतम्।
यजुःसंस्थं च बाहू तु ऋक्सामान्तस्थितौ सदा।
ऋगर्चनायाः स्वीकारात् साम दोषात् समीकृतेः।
पञ्चरात्रगतं मध्यमादेशाख्यं सुविस्तृतेः।
अथर्वाख्यं तथा पुच्छमधरं चाङ्गिनां रसः।
मनोवाचामगम्यं तं ज्ञात्वाऽऽनन्दस्वरूपिणम्।
कुतश्चिन्न बिभेत्येव वासुदेवोऽन्तरस्ततः।
श्रद्धाख्यं श्रुतिधर्तृत्वाच्छ्रद्धायां तच्छिरः स्मृतम्।
ऋतं ज्ञानततेर्दाता चर्तस्थो दक्षिणः करः।
वामः सत्यस्थितः सत्यं सतां यस्मान्नियामकः।
योगाख्यं सर्वलोकस्य योगादत्रैव योगगम्।
मध्यं पुच्छं महोनाम महनीयत्वतः सदा।
तस्मिन्नानन्दरूपोऽसौ स्थितो नारायणः सदा।
शिरः प्रिये स्थितं तस्य परेयं प्रियनामकम्।
मोदप्रमोदयोर्बाहू मोदनाच्च प्रमोदनात्।
मोदप्रमोदनामानावानन्दस्त्वाततत्वतः।
मध्यमानन्दसंस्थं च ब्रह्म सृष्ट्या तु बृंहयेत्।
पुच्छं प्रधानवायौ च ब्रह्माख्ये संस्थितं सदा।
अभेदोऽप्यविशेषोऽपि परमैश्वर्ययोगतः।
देहदेहिवदेवासौ पञ्चधाऽवस्थितो हरिः।
बहिस्थो देहवद् विष्णुरन्तस्थो देहिवत् स्मृतः।
अन्तर्व्याप्तिविशेषेण नत्वशक्तत्वतो बहिः।
सर्वेऽपि पुरुषाकारा उत्तरात् पूर्वसम्भवाः।
उत्तरैः पूरिताः पूर्वे निश्छिद्रत्वेन सर्वशः।
अत्तृत्वं च प्रणेतृत्वं बोधो विविधवेत्तृता।
आनन्दश्च यतः पूर्णस्ततोऽन्नादिमयाः स्मृताः।
अत्त्यादिदास्ते प्रत्येकं सर्वे सर्वगुणा अपि।
नामभेदस्ततस्तूक्तः सर्वनामवतामपि।
पञ्चरूपं च तद् ब्रह्म जीवादन्यन्न विद्यते।
इति ये तु विजानन्ति तेऽसन्तस्तमआलयाः।
जीवादन्यत् परं ब्रह्म पञ्चरूपं च ये विदुः।
सन्तस्त इति विज्ञेया मोक्षयोग्या हि ते ध्रुवम्।
इत्युक्ते ब्रह्मणा पूर्वं पप्रच्छ वरुणो विभुम्।
अविद्वानपि यः कश्चिद् ब्रह्माप्नोति कथञ्चन।
विद्वानेवोत तत्रापि सर्वे वाथैव केचन।
यदि सर्वेऽथ तत्रापि सर्वे सम्यक् समाप्नुयुः।
केचिदेवोत सम्यक् तदसम्यगपरे जनाः।
ज्ञानिनोऽपीति पृष्टः सन् ब्रह्मा प्राह चतुर्मुखः।
अज्ञा न प्राप्नुयुर्ब्रह्म प्राप्नुयुर्ज्ञानिनोऽखिलाः।
तत्रापि सम्यक् प्राप्तिस्तु विरिञ्चस्यैव सर्वदा।
अन्येषां तारतम्येन प्राप्तिः सुखविशेषतः।
इत्यभिप्रायवान् ब्रह्मा ह्युकारेण समासतः।
उक्त्वा प्रश्नोत्तरं पश्चाद् विस्तरेण जगाद ह।
कश्चिदेवोत सम्यक् तदाप्नुयादिति वाक्यतः।
अनन्तरं तथैवेति ब्रह्मोकारमुवाच ह।
अज्ञो नैव तदाप्नोति ज्ञान्येवैतदवाप्नुते।
इति ज्ञापयितुं विष्णोः स्वातन्त्र्यज्ञापनाय तु।
आह सृष्टिं प्रवेशं च माहात्म्यज्ञानतो यतः।
प्रीतिं यान्ति महान्तस्तु तद्वशा एव चेश्वराः।
अग्न्यादयोऽपि किमुत तदन्ये मुक्तिदस्ततः।
स एवैकः स विज्ञेयः पूर्णैश्वर्यादिरूपवान्।
इति तस्य महैश्वर्यमुच्यते स त्वकामयत्।
सृष्ट्वा जगदिदं सर्वं नियामकतयाऽस्य तु।
बहुरूपो भवानीति स्याज्जगच्चेत्यचिन्तयत्।
स्यादित्यालोचनान्नान्यत् तपो विष्णोः कदाचन।
अवतारेष्वनुकृतिर्बाह्यवृत्त्या तपस्विनाम्।
सृष्टिर्नाम स्वरूपात् तु बहिर्निष्क्रमणं स्मृतम्।
यद्यपीदं जगत् सर्वं स्वोदरस्थं महात्मनः।
तथाऽप्येष द्वितीयेन रूपेण बहिराक्षिपेत्।
रूपान्तरेणाविशच्च जगत् सर्वं जनार्दनः।
त्यच्चानिरुक्तं विज्ञानं तथा निलयनं महान्।
सत्यं प्राणस्तथा श्रीश्च सन्निरुक्तं तथाऽनृतम्।
अविज्ञानं चानिलयनं प्रकृतिप्राणयोः परम्।
तद्गविष्णोस्तु सम्बन्धात् स्वतस्तन्नामको हरिः।
ततो नियामकश्चेति त्यदानन्त्यादवाच्यतः।
अनिरुक्तं निलयनं सर्वाधारत्वतो हरिः।
विज्ञानं सर्वविज्ञानात् सत्यं साधुस्वरूपतः।
अवसादसुवाच्यत्वदौर्बल्याज्ञप्त्यसाधुताः।
प्रकृतिप्राणतोऽन्यत्र कुर्वंस्तन्नामको हरिः।
अतः साधुस्वरूपः सन् सत्यनामाऽनृतादिकम्।
नामानेन गतत्वादेर्यदिदं किञ्च भाषितम्।
सन्निरुक्तादिशब्देन तत् सर्वं साधुतैव हि।
अवसादनादिहेतुत्वं साधुतैव हि सर्वशः।
असाधुताऽवसादादिस्तत्कर्तृत्वं हि भाषितम्।
अनासाद्यस्त्वसन्नामा पूर्वं नारायणाभिधः।
स आसाद्यश्च सन्नामा वासुदेवोऽभवत् प्रभुः।
स वासुदेवः स्वात्मानं चक्रे सङ्कर्षणादिकम्।
तस्मात् तत् सुकृतं नाम स आनन्दो रसस्ततः।
आनन्दमेनं सम्प्राप्य मुक्तो मोदेन्नचान्यथा।
आदीप्तस्त्वेष भगवान् यद्यानन्दो भवेन्नच।
सामान्यचेष्टा धर्म्याश्च कस्य स्युस्तमृते प्रभुम्।
सुखं लब्ध्वा हि कुरुते लोकचेष्टां जनार्दनः।
अल्पात् सुखादल्पकर्मा पूर्णानन्दाद्धि सर्वकृत्।
नह्यार्ताः कर्म कुर्वन्ति मुग्धाश्चैव विशेषतः।
तस्माद् यादृक् सुखं तादृक् कर्म पूर्णसुखस्ततः।
सर्वकृत्त्वात् परो विष्णुराह तस्मात् सनातनी।
सुखं लब्ध्वा करोतीति च्छन्दोगानां श्रुतिः परा।
अलब्ध्वा तु सुखं नैव करोतीत्यपि सादरम्।
तत् पूर्णानन्ददेवेन कारितः प्राणिति स्फुटम्।
सर्वलोकः स एवैक आनन्दयति चाखिलम्।
तस्माददृश्ये जैवानां गुणानामप्यसङ्गतेः।
अनात्म्येऽथ गुणानन्त्यादनिरुक्ते निराश्रयात्।
अनिलयनेऽभयत्वेन यदा ज्ञानेन तिष्ठति।
तदाऽभयं हरिं गच्छेन्नैवाज्ञानी कथञ्चन।
यदैतस्मिन् परे विष्णावुदरं जीवगत्वतः।
भेदं करोति तेनैव भयमस्य महद् भवेत्।
अ इत्युक्तः परो विष्णुरेभ्य उच्च स एव तु।
त उदा जीवसङ्घाः स्युरुदरं तद्गतान्तरम्।
तदेव ब्रह्म भयकृद् विदुषोऽविदुषस्तथा।
विदुषोऽल्पभयं कुर्याद् यावन्मुक्तिं व्रजत्यसौ।
अथाभयं भवेद् ब्रह्म तस्य मुक्तस्य सर्वदा।
तस्माद् वाय्वादयो देवा विद्वांसोऽपि विशेषतः।
भीताः स्वकर्म कुर्वन्ति विष्णोः प्रीत्यर्थमञ्जसा।
अमन्वानस्य नुर्विष्णुः कुर्यान्नित्यं महद् भयम्।
तमआख्यमनुत्थानं विदुषां नियमेन तु।
स्यादेव मोक्षस्तत्रापि ह्यानन्दस्य विचित्रता।
यस्तु साधुगुणैर्युक्तस्तस्यैवाप्यखिला मही।
त्रेतायुगे चक्रवर्ती यदा मुक्तस्तु संसृतेः।
अधीतिफलपूर्णत्वादाध्यायक इतीरितः।
स एव विष्णुना युक्तो गच्छतीति युवा स्मृतः।
एकानन्दस्वरूपोऽसौ मानुषो मुक्त इष्यते।
तस्माच्छतगुणानन्दा गन्धर्वा मानुषात्मकाः।
मुक्ताः श्रुतिफलं प्राप्तास्ततः कामाहतास्तथा।
तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः।
ये ते हि देवगन्धर्वा मुक्तेभ्यस्तेभ्य एव च।
शताधिका हि पितरस्तेभ्य आजानदेवताः।
अनाख्याता देवतास्तु जाता देवकुले च याः।
आजानदेवतास्ता हि ताभ्योऽग्र्याः कर्मदेवताः।
बल्याद्या अन्तराप्राप्तदेवताः कर्मदेवताः।
ताभ्यश्च तात्त्विका देवाः सृष्ट्यादौ देवतां गताः।
तेभ्यो दक्षश्चेन्द्रनामा स हीन्दुं रावयत् पुरा।
तस्माद् बृहस्पतिर्नाम महेन्द्रत्वात् पुरन्दरः।
तस्मात् प्रजापतिर्मुक्तो रुद्रः प्रजननेशिता।
तस्माद् ब्रह्मा शतगुणो मुक्त इत्येष निर्णयः।
यथाऽऽनन्दे तथा ज्ञाने विष्णुभक्तौ बलाधिके।
सर्वैर्गुणैः शतगुणाः क्रमेणोक्तेन तेऽखिलाः।
अथवा सहस्रगुणिता अनन्तगुणितास्तथा।
परिमाणे शतगुणेऽप्यानन्दस्फुटतावशात्।
यथा दीपाच्छतगुणाऽप्यग्निज्वाला न दीपवत्।
स्फुटीभवेद् यथैवग्निर्बहुलोऽपि न सूर्यवत्।
यथैव सूर्याद् द्विगुणश्चन्द्रो नैव स्फुटीभवेत्।
उत्तरेषामुत्तरेषां गुणा एवमतिस्फुटाः।
प्रतिबिम्बा यतः पूर्वे ब्रह्मान्तानां नरादयः।
अतोऽस्पष्टस्वरूपास्ते स्फुटरूपास्तथोत्तराः।
यत्प्रसादात् स्वरूपाप्तिर्ब्रह्मादीनां समन्ततः।
स विष्णुः सर्वजीवेषु नृषु देवेषु च स्थितः।
एक एव महायोगी निर्विशेषोऽखिलैर्गुणैः।
सर्वोत्तमः स पूर्णश्च तमेवं वेद यः पुमान्।
जीवांश्च तारतम्यस्थान् स गच्छेत् पञ्चरूपिणम्।
विष्णुं न पुण्यपापे च तस्यानिष्टे कदाचन।
प्रियाप्रियेषु तज्ज्ञानी ह्यास्तृणोति यतो नृषु।
अगोचरं वाङ्मनसोरानन्त्यात् पुरुषोत्तमम्।
ज्ञात्वा मुक्तस्य भीर्नैव कुतश्चन भविष्यति॥”
मृग्यम्
इत्यादि यजुःसंहितायाम्।
नच
“सह ब्रह्मणा”
तैत्तिरीयोपनिषदि २/१
इत्यादेरन्योऽर्थः कल्प्यः।
अप्रामाणिकत्वात्।
अनाश्वासाच्च।
नच
“ओषधीभ्योऽन्नम्”
तैत्तिरीयोपनिषदि २/१
“अन्नरसमयः”
तैत्तिरीयोपनिषदि २/१
इत्यत्रोभयार्थत्वेन विरोधः।
“अन्नस्यान्नम्”
शतपथब्राह्मणे १४/७/२/२०
“मध्यमः प्राणः”
बृहदारण्यकोपनिषदि ३/६/२८
“प्राणः स्थूणा”
बृहदारण्यकोपनिषदि ४/२/१
इत्यादिवद् विशेषितत्वादुपपत्तेः।
नचान्नमयदीनामब्रह्मत्वे किञ्चिन्मानम्।
“येऽन्नं ब्रह्मोपासते”
तैत्तिरीयोपनिषदि २/२
“ये प्राणं ब्रह्मोपासते”
तैत्तिरीयोपनिषदि २/३
“आनन्दं ब्रह्मणो विद्वान्”
तैत्तिरीयोपनिषदि २/४
“विज्ञानं ब्रह्म चेद् वेद”
तैत्तिरीयोपनिषदि २/५
“अस्ति ब्रह्मेति चेद् वेद”
“अधीहि भगवो ब्रह्मेति।
तस्मा एतत् प्रोवाच।
अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचम्”
तैत्तिरीयोपनिषदि ३/१
इत्यादिना ब्रह्मशब्देनोक्तत्वाच्च।
नच लौकिकान्नस्यात्तृत्वमस्ति।
“येऽन्यथा विदुस्तेऽन्यराजानः क्षय्यलोका भवन्ति”
छान्दोग्योपनिषदि ७/३/२
इति श्रुतेरविद्यमानोपासनाद् दोषावगतेश्च।
“नच रमन्त्यहो असदुपासनयाऽऽत्महनः”
भागवते १०/९४/२४
इति च भागवते।
“नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः।
अविद्यमानं ध्यायन्तो यान्ति सर्वेऽधरं तमः।
तस्मात् सत्यार्थतां ब्रूयाद् वेदानामपि सर्वशः।
य एवं वेद स ज्ञानी ज्ञानवान् नान्यथा भवेत्॥”
मृग्यम्
इति वेदार्थविवेके।
“स यश्चायं पुरुषे यश्चासावादित्ये”
तैत्तिरीयोपनिषदि २/८
इत्यधिकरणत्वेन भेद एव जीवस्य परमादुक्तः।
“एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते”
तैत्तिरीयोपनिषदि २/७
“एतमानन्दमयमात्मानमुपसङ्क्रामति”
तैत्तिरीयोपनिषदि २/८
“सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता”
तैत्तिरीयोपनिषदि २/१
“एतमानन्दमयमात्मानमुसङ्क्रम्य।
इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्”
तैत्तिरीयोपनिषदि ३/१०/५
इत्यादिना मुक्तस्यापि भेद एवाभ्यस्यते।
“अथ सोऽभयं गतो भवति”
तैत्तिरीयोपनिषदि २/७
इति मुक्तिप्रस्तावात्।
“सैषाऽऽनन्दस्य मीमांसा”
तैत्तिरीयोपनिषदि २/८
इति मुक्तानन्दो मीमांस्यते।
“श्रोत्रियस्य चाकामाहतस्य”
तैत्तिरीयोपनिषदि २/८
इति सर्वत्र विशेषणाच्च।
नह्यमुक्तस्याकामहतत्वं मुख्यं भवति।
नच मुख्या श्रोत्रियता।
“यस्य श्रुतिफलं पूर्णं स श्रोत्रिय उदाहृतः।
स हि मुक्तोऽकामहतः स हि कामैर्न हन्यते।
यस्य कामास्तु सत्याः स्युः स हि कामैर्न हन्यते।
नह्यकामः क्वचित् कश्चित् दृश्यते श्रूयतेऽपिच॥”
मृग्यम्
इति ब्रह्माण्डे।
नच देवपदाकामस्य सकाशादिन्द्रपदाकामस्य शतगुणानन्दो दृश्यते, सति च प्राजापत्यादिकामे।
नच मानुषाः प्रायस्तदिच्छवः।
चक्रवर्तिनस्तु युवशब्देनैव मुक्तत्वमुक्तम्।
तस्मान्मुक्तविषयेयं मीमांसा।
“यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः”
काठकोपनिषतदि २/३/१४
इत्यत्राप्यन्तःकरणस्थानामेव कामानां विमोक्ष उक्तः।
नतु स्वरूपभूतानाम्।
“यंयमन्तमभिकामो भवति सोऽस्य सङ्कल्पादेव भवति”
छान्दोग्योपनिषदि ८/१/६
इति मुक्तानामपि स्वरूपभूतः कामः प्रतीयते।
“कामः सङ्कल्प आनन्दो मुक्तानां तारतम्यतः।
स्वरूपभूतास्ते सर्वे निर्दोषा गुणरूपकाः॥”
मृग्यम्
इति पाद्मे।
“सङ्कल्पादेव च तच्छ्रुतेः”
ब्रह्मसूत्रे ४/४/८
इति सूत्रम्।
“भेदव्यपदेशात्”
ब्रह्मसूत्रे १/३/५
इति जीवेशयोर्भेदश्चोक्तो भगवता।
नच भेददर्शनमसुकरम्।
स्वरूपत्वाद् भेदस्य।
सर्वव्यावृत्तं हि सर्वस्य स्वरूपं सर्वैरनुभूयते।
अन्यथा ‘अहं वा दृष्टोऽन्यो वा दृष्टः’ इत्यपि संशयः स्यात्।
नच पश्चाद् भेदो ज्ञायत इत्यत्र किञ्चिन्मानम्।
नहि दृष्टवस्तुनः पुरुषस्य तस्य वस्त्वन्तराद् भेदे संशयः क्वचिद् दृष्टः।
नच सर्वतो व्यावृत्त्यनुभवे सर्वज्ञताऽपेक्षितेति दोषः।
सामान्यतः सर्वस्य सर्वैरपि ज्ञातत्वात्।
यावत्तु सर्वतो भेदो विशेषतो न ज्ञायते तावत् स्वरूपमेव विशेषतो न ज्ञातम्।
नहि ज्ञाताद् वस्तुनोऽव्यावृत्तिः केनचित् शङ्क्यते।
यदा तु संशीयते तदाऽपि कुतश्चिद् व्यावृत्तमेव ज्ञायते।
नहि ‘सर्वमिदं भवति वा न वा’ इति कस्यचित् संशयः।
अतो व्यावृत्तिरेव स्वरूपम्।
‘अस्य भेदः’ इति विशेष्यत्वम् ‘अस्य स्वरूपम्’ इतिवत्।
यथा ‘अस्ति’ इति वर्तमानः कालो वस्तुना सहैवानुभूयते, एवम् ‘अन्यस्माद् व्यावृत्तम्’ इत्यत्रान्यदपि सामान्यतः सहैवानुभूयते।
नहि ‘अस्ति’ इति वर्तमानकालापेक्षयाऽनुभूयत इत्येतावता विद्यमानता नाम वस्तुतोऽन्या।
‘सत्’ इत्यपि शत्रन्तत्वात् कालसम्बन्ध्येवानुभूयते ‘तिष्ठन्’ इतिवत्।
एवम् ‘अन्यस्माद् व्यावृत्तम्’ इत्यन्येन सह प्रतीयमानमपि न स्वरूपादन्यत्।
‘अस्माद् व्यावृत्तिरन्यस्य स्वरूपम्’ ‘अन्यस्माद् व्यावृत्तिरस्य स्वरूपम्’ इति नैकस्वरूपता।
ज्ञानानन्दादिवत् स्वरूपत्वेऽपि व्यवहारविशेषो भवति।
नच स्वरूपत्वेन भेदस्याभावो भवति, ज्ञानानन्दादिवदेव।
अन्यप्रतियोगिकत्वाद् भेदस्य न स्वस्मादपि भवति।
“भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्ययम्।
नष्टानामपि वस्तूनां भेदो नैव विनश्यति।
अवस्तुनोऽपि रूपं स्वं भेद एव नचान्यथा।
विशेषरूपनाशेन भेदमात्रावसायिता।
नाश इत्युच्यते सद्भिर्भेदो नहि विनश्यति।
इत्याहुः केचिदज्ञानात् तत्राहुः सूक्ष्मदर्शिनः।
सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः।
तस्माद् वस्तुविनाशे तु तद्भेदो नास्ति कुत्रचित्।
अविनष्टस्य तस्मात् तु भेदोऽस्त्येव स्वरूपतः।
एवम्भावादभावस्य न भेदो भावरूपवान्।
अभावाद् भावरूपस्य स्वरूपं भाव इष्यते।
नष्टभेदोऽप्यभावात्मा विद्यते च विनाशतः।
स्वरूपत्वात् तु भेदस्य भेदे शङ्का न कस्यचित्।
सर्वं सामान्यतो यस्मात् सर्वैरप्यनुभूयते।
तस्माद् व्यावृत्तता सर्वैः सर्वस्मादनुभूयते।
प्रतियोगिता त्वभावस्याप्यस्त्यभावतया स्फुटम्।
नह्यभावोऽप्यधर्मा स्यान्नतु स्याद् भावधर्मयुक्।
अभावस्यास्तिता नाम स्यादेवाभावरूपिणी।
अभावताऽपि सैव स्यान्नतु स्याद् भावरूपिणी।
अतः स सर्वव्यावृत्तस्वरूपो भगवान् परः।
येन ज्ञातः स तु ज्ञानी मुच्यते नात्र संशयः॥”
मृग्यम्
इति तत्त्वनिर्णये।
स॒ह ना॑ववतु।
स॒ह नौ॑ भुनक्तु।
स॒ह वी॒र्यं॑ करवावहै।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
॥ इति शिक्षावल्ली॥
भृगुवल्ली
ॐ स॒ह ना॑ववतु।
स॒ह नौ॑ भुनक्तु।
स॒ह वी॒र्यं॑ करवावहै।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
भृगु॒र्वै वा॑रु॒णिः।
वरु॑णं॒ पित॑र॒मुप॑ससार।
अधी॑हि भगवो॒ ब्रह्मेति॑।
तस्मा॑ ए॒तत् प्रो॑वाच।
अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑।
तꣳ हो॑वाच।
यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते।
येन॒ जाता॑नि॒ जीव॑न्ति।
यत् प्रय॑न्त्य॒भि संवि॑शन्ति।
तद् विजि॑ज्ञासस्व।
तद् ब्रह्मेति॑।
स तपो॑ऽतप्यत।
स तप॑स्त॒प्त्वा॥ ३/१॥
अन्नं॒ ब्रह्मेति॒ व्य॑जानात्।
अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते।
अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति।
अन्नं॒ प्रय॑न्त्य॒भि संवि॑श॒न्तीति॑।
तद् वि॒ज्ञाय॑।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार।
अधी॑हि भगवो॒ ब्रह्मेति॑।
तꣳ हो॑वाच।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व।
तपो॒ ब्रह्मेति॑।
स तपो॑ऽतप्यत।
स तप॑स्त॒प्त्वा॥ ३/२॥
प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात्।
प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते।
प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति।
प्रा॒णं प्रय॑न्त्य॒भि संवि॑श॒न्तीति॑।
तद् वि॒ज्ञाय॑।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार।
अधी॑हि भगवो॒ ब्रह्मेति॑।
तꣳ हो॑वाच।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व।
तपो॒ ब्रह्मेति॑।
स तपो॑ऽतप्यत।
स तप॑स्त॒प्त्वा॥ ३/३॥
मनो॒ ब्रह्मेति॒ व्य॑जानात्।
मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते।
मन॑सा॒ जाता॑नि॒ जीव॑न्ति।
मनः॒ प्रय॑न्त्य॒भि संवि॑श॒न्तीति॑।
तद् वि॒ज्ञाय॑।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार।
अधी॑हि भगवो॒ ब्रह्मेति॑।
तꣳ हो॑वाच।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व।
तपो॒ ब्रह्मेति॑।
स तपो॑ऽतप्यत।
स तप॑स्त॒प्त्वा॥ ३/४॥
वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात्।
वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते।
वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति।
वि॒ज्ञानं॒ प्रय॑न्त्य॒भि संवि॑श॒न्तीति॑।
तद् वि॒ज्ञाय॑।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार।
अधी॑हि भगवो॒ ब्रह्मेति॑।
तꣳ हो॑वाच।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व।
तपो॒ ब्रह्मेति॑।
स तपो॑ऽतप्यत।
स तप॑स्त॒प्त्वा॥ ३/५॥
आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात्।
आ॒नन्दा॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते।
आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति।
आ॒न॒न्दं प्रय॑न्त्य॒भि संवि॑श॒न्तीति॑।
सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या।
प॒र॒मे व्यो॑म॒न् प्रति॑ष्ठिता।
य ए॒वं वेद॒ प्रति॑तिष्ठति।
अन्न॑वानन्ना॒दो भ॑वति।
म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑।
म॒हान् की॒र्त्या॥ ३/६॥
अन्नं॒ न नि॑न्द्यात्।
तद् व्र॒तम्।
प्रा॒णो वा अन्नम्᳚।
शरी॑रमन्ना॒दम्।
प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम्।
शरी॑रे प्रा॒णः प्रति॑ष्ठितः।
तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम्।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति।
अन्न॑वानन्ना॒दो भ॑वति।
म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑।
म॒हान् की॒र्त्या॥ ३/७॥
अन्नं॒ न परि॑चक्षीत।
तद् व्र॒तम्।
आपो॒ वा अन्नम्᳚।
ज्योति॑रन्ना॒दम्।
अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम्।
ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः।
तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम्।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति।
अन्न॑वानन्ना॒दो भ॑वति।
म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑।
म॒हान् की॒र्त्या॥ ३/८॥
अन्नं॑ ब॒हु कु॑र्वीत।
तद् व्र॒तम्।
पृ॒थि॒वी वा अन्नम्᳚।
आ॒का॒शो᳚ऽन्ना॒दः।
पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः।
आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता।
तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम्।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति।
अन्न॑वानन्ना॒दो भ॑वति।
म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑।
म॒हान् की॒र्त्या॥ ३/९॥
न कञ्चन वसतौ प्रत्या॑चक्षी॒त।
तद् व्र॒तम्।
तस्माद् यया कया च विधया बह्व॑न्नं प्रा॒प्नुयात्।
अराध्यस्मा अन्नमि॑त्याच॒क्षते।
एतद् वै मुखतो᳚ऽन्नꣳ रा॒द्धम्।
मुखतोऽस्मा अ॑न्नꣳ रा॒ध्यते।
एतद् वै मध्यतो᳚ऽन्नꣳ रा॒द्धम्।
मध्यतोऽस्मा अ॑न्नꣳ रा॒ध्यते।
एतद् वा अन्ततो᳚ऽन्नꣳ रा॒द्धम्।
अन्ततोऽस्मा अ॑न्नꣳ रा॒ध्यते।
य ए॑वं वे॒द॥ ३/(१०-१)॥
क्षेम इ॑ति वा॒चि।
योगक्षेम इति प्रा॑णापा॒नयोः।
कर्मे॑ति ह॒स्तयोः।
गतिरि॑ति पा॒दयोः।
विमुक्तिरि॑ति पा॒यौ।
इति मानुषीः᳚ समा॒ज्ञाः।
अथ दै॒वीः।
तृप्तिरि॑ति वृ॒ष्टौ।
बलमि॑ति वि॒द्युति॥ ३/(१०-२)॥
यश इ॑ति प॒शुषु।
ज्योतिरिति न॑क्षत्रे॒षु।
प्रजातिरमृतमानन्द इ॑त्युप॒स्थे।
सर्वमि॑त्याका॒शे।
तत्प्रतिष्ठेत्यु॑पासी॒त।
प्रतिष्ठा॑वान् भ॒वति।
तन् मह इत्यु॑पासी॒त।
म॑हान् भ॒वति।
तन्मन इत्यु॑पासी॒त।
मान॑वान् भ॒वति॥ ३/(१०-३)॥
तन्नम इत्यु॑पासी॒त।
नम्यन्ते᳚ऽस्मै का॒माः।
तद् ब्रह्मेत्यु॑पासी॒त।
ब्रह्म॑वान् भ॒वति।
तद् ब्रह्मणः परिमर इत्यु॑पासी॒त।
पर्येणं म्रियन्ते द्विषन्तः॑ सप॒त्नाः।
परि ये᳚ऽप्रिया᳚ भ्रातृ॒व्याः।
स यश्चा॑यं पु॒रुषे।
यश्चासा॑वादि॒त्ये।
स एकः॑॥ ३/(१०-४)॥
स य॑ एवं॒वित्।
अस्माल्लो॑कात् प्रे॒त्य।
एतमन्नमयमात्मानमुप॑सङ्क्र॒म्य।
एतं प्राणमयमात्मानमुप॑सङ्क्र॒म्य।
एतं मनोमयमात्मानमुप॑सङ्क्र॒म्य।
एतं विज्ञानमयमात्मानमुप॑सङ्क्र॒म्य।
एतमानन्दमयमात्मानमुप॑सङ्क्र॒म्य।
इमाँल्लोकान् कामान्नी कामरूप्य॑नुस॒ञ्चरन्।
एतत् साम गा॑यन्ना॒स्ते।
हा(३) वु॒ हा(३) वु॒ हा(३) वु॑॥ ३/(१०-५)॥
अ॒हमन्नम॒हमन्नम॒हमन्नम्।
अ॒हमन्ना॒दो(२)ऽ॒हमन्ना॒दो(२)ऽ॒हमन्ना॒दः।
अ॒हꣴ श्लोक॒कृद॒हꣴ श्लोक॒कृद॒हꣴ श्लोक॒कृत्।
अहमस्मि प्रथमजा ऋता(३)स्य॒।
पूर्वं देवेभ्यो अमृतस्य ना(३)भा॒इ॒।
यो मा ददाति स इदेव मा(३)वाः॒।
अ॒हमन्न॒मन्न॑म॒दन्त॒मा(३)द्मि॒।
अ॒हं विश्वं॒ भुव॑न॒मभ्य॑भ॒वाम्।
सुव॒र्णज्योतीः᳚।
य ए॒वं वेद॑।
इत्यु॑प॒निष॑त्॥ ३/१० (१०-६)॥॥
“चक्षुः स चष्टे यद् विष्णुः श्रोत्रं श्रोतृत्वतो विभुः।
वाक् च वक्तृत्वतो नित्यं मनो मन्तृत्वतस्तथा।
तपो ज्ञानस्वरूपत्वाद् विज्ञानं तु विवेचनात्।
ज्ञानानुसन्धानरूपतपसा तं जनार्दनम्।
क्रमाद् भृगुर्व्यजानात् तमन्नादिबहुरूपिणम्।
एवं विजानंस्तं विष्णुं तस्मिंस्तु प्रतितिष्ठति।
मुक्तो भूत्वाऽन्नवांश्च स्यादन्नादश्च सदैव तु।
अन्ननामा तु भगवान् विद्वांस्तमुपजीवति।
तद्वांश्च तेन गुप्तत्वाद् विद्यार्थे वसतीच्छया।
आगतं नेति न ब्रूयात् तदेतद् विदुषो व्रतम्।
स विष्णुः पृथिवीनामा पृथुत्वात् प्राणनामकः।
प्रकृष्टानन्दबलत आकाशः सर्ववेत्तृतः।
शराख्यदेहिनश्चैव शरीरं प्रेरणात् स्मृतः।
एतैश्चतुर्भिर्भगवान् रूपैश्च चतुरात्मभिः।
भोग्यभोक्तृस्वरूपेण तिष्ठति क्रीडया स्वयम्।
नच भोग्यत्वमात्रेण हीनत्वं तस्य कुत्रचित्।
नहि भार्योपभोग्यस्तु भर्ता हीनत्वमाप्नुयात्।
एवं स भगवान् विष्णुरविशेषोऽखिलेष्वपि।
रूपेषु क्रीडते नित्यं भोक्ता भोग्य इतीच्छया।
अन्नाख्यं तं नैव निन्द्याद् बहु मन्येत तं सदा।
इति व्रतद्वयं ह्येतद् भाव्यं यदि सुखे स्पृहा।
येनकेनापि विधिना बह्वित्येव जनार्दनम्।
मत्वैव प्राप्नुयान्नित्यं मनोवाक्कायवृत्तिभिः।
य एवं समुपासीत तस्यान्नाख्यो हरिः स्वयम्।
सिद्ध इत्येव हि प्राहुर्विद्वांसः परिनिष्ठिताः।
यस्य तद् ब्रह्म संसिद्धं पूर्वं तेनाप्यतेऽग्रतः।
मध्ये वयसि चेत् सिद्धं मुक्तो मध्यं प्रपश्यति।
वार्धके चेद् विजानाति मुक्तः पादौ प्रपश्यति।
तेजोमण्डलमेवान्यदङ्गं विष्णोः प्रपश्यति।
पूर्वे वयसि बोद्धव्यमामुखात् सर्वदृष्टये।
क्षेमकृत्त्वात् क्षेमनामा वाचिस्थः स परो हरिः।
योगनामा तथा प्राणे सर्वकामनियोजनात्।
क्षेमनामा क्षेमकृत्त्वादपाने हि हरिः स्वयम्।
कर्मनामा हस्तगतः कर्मकृत्त्वाज्जनार्दनः।
गतिदत्वाद् गतिर्नाम पादस्थः पुरुषोत्तमः।
विसर्गकृद् विमुक्त्याख्यः पायुस्थः परमो विभुः।
अध्यात्मस्थ इति प्रोक्तोऽथाधिदैवगतं शृणु।
पर्जन्ये तृप्तिनामाऽसौ तृप्तिदत्वाज्जनार्दनः।
वायौ तु बलनामा च बलदत्वात् सदैव हि।
यशःप्रदत्वाद् दक्षे तु यशः पश्वभिमानिनि।
नक्षत्रेषु ज्योतिराख्यो ज्योतिर्दातृत्वतो हरिः।
उपस्थमानिनि शिवे प्रजात्यानन्दसन्ततेः।
दातृत्वात् तत्तदाख्योऽसौ सन्ततिस्त्वमृतं स्मृतम्।
सर्वं सर्वप्रदत्वात् तु प्रकृतौ पुरुषोत्तमः।
स प्रतिष्ठा स्थापकत्वान्मनो मान्यत्वतो हरिः।
नमो नम्यत्वतो नित्यं महश्चापि महत्त्वतः।
विरिञ्चमारकश्चासौ ब्रह्म पूर्णगुणत्वतः।
वेदैनं तत्त्वतो ब्रह्मा स एनं पञ्चरूपिणम्।
प्राप्य गायति मुक्तः सन्नन्ननामाऽस्मि भोग्यतः।
यथेष्टमन्नभोक्ता च कीर्तिकर्ता हरेस्तथा।
ऋतरूपस्य विष्णोस्तु पुत्रः प्रथमजो ह्यहम्।
देवेभ्यः पूर्वजश्चाहं मुक्तानामाश्रयः सदा।
यो ददाति च मां सम्यग् विष्णुतत्त्वप्रदर्शकः।
स इत्थमेव मां याति विष्णोरन्नमहं सदा।
ममान्नं सर्वजीवास्तु भोग्या मम यतः सदा।
सर्वमभ्यभवं चाहं गुणैः सर्वैश्च नित्यकैः।
सुवर्णो भगवान् विष्णुर्ज्योतिः स मम रेचकः।
योऽहमेवंविदभवं तस्य मे माधवः पतिः।
इति ब्रह्मा गायमानो मुक्तश्चरति सर्वदा॥”
मृग्यम्
इति यजुःसंहितायाम्।
अन्नं
भगवन्तं
न परिचक्षीत
न निराकुर्यात्।
तद्गुणांस्तत्कर्माणि वा कुत्रापि
बहु कुर्वीत,
बहुगुणत्वेन प्रतिपादयेद् भगवन्तम्।
यया कया च विधया बह्वन्नं प्राप्नुयात्
अतिप्रयत्नेनापि विहितप्रकारेण बहुतरां भगवद्विद्यां प्राप्नुयात्।
“प्रजापतिः प्रथमजा ऋतस्यात्मनाऽऽत्मानमभिसम्बभूव”
महानारायणोपनिषदि १/१८
“प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव”
महानारायणोपनिषदि ५४/१
इत्यादिना विरिञ्चस्यैवैतज्ज्ञानम्।
“अन्यो न परि बभूव” इति निषेधात्।
“विद्युद्वन्मानुषा विद्युः सूर्यमण्डलवत् सुराः।
प्रतिबिम्बवच्च गिरिशो ब्रह्मैनं पश्यति स्फुटम्।
ब्रह्मा हि स्थिरचिद्रूपो बहुलात्मा विशेषतः।
अन्ये क्रमादबहुलास्तथा चञ्चलचेतसः।
तस्मात् सम्यङ् न पश्यन्ति हरिं ब्रह्मा तु पश्यति॥”
मृग्यम्
इति हरिवंशवचनाच्च ब्रह्मैवैनं सम्यग् वेद।
स॒ह ना॑ववतु।
स॒ह नौ॑ भुनक्तु।
स॒ह वी॒र्यं॑ करवावहै।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚।
ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥
॥ इति तैत्तिरीयोपनिषत् सम्पूर्णा॥
यस्योच्चोऽथ समो वा कश्चिन्नैवास्त्यनन्तसच्छक्तेः।
तं वन्दे परमेशं प्रेयांसं प्रेयसश्च मे विष्णुम्॥ *॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत्।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु-
र्मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ॥ *॥
“हनशब्दो ज्ञानवाची हनूमान् मतिशब्दितः।
रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि।
भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः।
ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम्।
प्रोक्ताः सप्त शिवास्तत्र शयो भीमस्ततः स्मृतः।
(दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते।
प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः।)
मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम्।
मध्व आनन्दतीर्थः स्यात् तृतीया मारुती तनुः।
इति सूक्तगतं रूपत्रयमेतन्महात्मनः।
यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः॥”
मृग्यम्
इति च।
“साधको रामवाक्यानां तत्समीपगतः सदा।
हनूमान् प्रथमो ज्ञेयो भीमस्तु बहुभुक् पितोः।
पृतनाक्षयकारी च द्वितीयस्तु तृतीयकः।
पूर्णप्रज्ञस्तथाऽऽनन्दतीर्थनामा प्रकीर्तितः।
दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते।
प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः।
आ समन्तात् पतित्वे तु गूढं कलियुगे हरिम्।
असत्यमप्रतिष्ठं च जगदेतदनीश्वरम्।
वदद्भिर्गूहितं सन्तं तृतीयोऽसुर्मथायति।
येन विष्णोस्तु वर्पाख्यान् गुणानाज्ञासिषुः परान्।
ईशानासः सूरयश्च निगूढान् निर्गुणोक्तिभिः।
त्रेतायां द्वापरे चैव कलौ चैते क्रमात् त्रयः।
एतेषां परमो विष्णुर्नेता सर्वेश्वरेश्वरः।
स्वयम्भुब्रह्मसञ्ज्ञोऽसौ परस्मै ब्रह्मणे नमः॥”
मृग्यम्
इति च।
पूर्णागण्यगुणोदारधाम्ने नित्याय वेधसे।
अमन्दानन्दसान्द्राय प्रेयसे विष्णवे नमः॥ *॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं तैत्तिरीयोपनिषद्भाष्यं सम्पूर्णम्॥