ईशावास्योपनिषद्भाष्यम्

उपोद्घातः
ॐ पू॒र्णम॒दः पूर्णमि॒दं पू॒र्णात् पू॒र्णमु॑दच्यते। पू॒र्णस्य॑ पू॒र्णमा॒दाय॑ पू॒र्णमे॒वाव॑ शिष्यते॥ ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ०॥
ॐ॥ नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये। पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः॥ *॥ यस्माद् ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च। ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः॥ *॥
उपनिषत्
ॐ॥ ई॒शावा॒स्य॑मि॒दꣳ सर्वं॒ यत्किञ्च॒ जग॑त्यां॒ जग॑त्। तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म्॥ १॥
स्वायम्भुवो मनुरेतैर्मन्त्रैर्भगवन्तमाकूतिसूनुं यज्ञनामानं विष्णुं तुष्टाव।
“स्वायम्भुवः स्वदौहित्रं विष्णुं यज्ञाभिधं मनुः। ईशावास्यादिभिर्मन्त्रैस्तुष्टावावहितात्मना। मृग्यम् रक्षोभिरुग्रैः सम्प्राप्तः खादितुं मोचितस्तदा। स्तोत्रं श्रुत्वैव यज्ञेन तान् हत्वाऽवध्यतां गतान्। प्रादाद्धि भगवांस्तेषामवध्यत्वं हरः प्रभुः। तैर्वध्यत्वं तथाऽन्येषामतः कोऽन्यो हरेः प्रभुः॥” इति ब्रह्माण्डे।
भागवते चायमेवार्थ उक्तः।
ईशस्यावासयोग्यम्‌ ईशावास्यम्। जगत्यां प्रकृतौ तेन ईशेन त्यक्तेन दत्तेन भुञ्जीथाः।
“स्वतः प्रवृत्त्यशक्तत्वादीशावास्यमिदं जगत्। प्रवृत्तये प्रकृतिगं यस्मात् स प्रकृतीश्वरः। मृग्यम् तदधीनप्रवृत्तित्वात् तदीयं सर्वमेव यत्। तद्दत्तेनैव भुञ्जीथा अतो नान्यं प्रयाचयेत्॥” इति ब्राह्मे।
कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तꣳ समाः॑। ए॒वं त्वयि॒ नान्यथे॒तो॑ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑॥ २॥
अकुर्वतः कर्म न लिप्यते इति नास्ति।
“अज्ञस्य कर्म लिप्येत कृष्णोपास्तिमकुर्वतः। ज्ञानिनोऽपि यतो ह्रास आनन्दस्य भवेद् ध्रुवम्। अतोऽलेपेऽपि लेपः स्यादतः कार्यैव सा सदा॥” मृग्यम् इति नारदीये।
अ॒सु॒र्या॒ नाम॑ ते लो॒का अ॒न्धेन॒ तम॒साऽऽवृ॑ताः। ताꣳस्ते प्रेत्या॒भि ग॑च्छन्ति॒ ये के चा॑त्म॒हनो॒ जनाः॑॥ ३॥
सुष्ठु रमणविरुद्धत्वादसुराणां प्राप्यत्वाच्चासुर्याः। “न च रमन्त्यहो असदुपासनयाऽऽत्महनः” भागवते १०/९४/२४ इत्युक्तत्वात्।
“महादुःखैकहेतुत्वात् प्राप्यत्वादसुरैस्तथा। असुर्या नाम ते लोकास्तान् यान्ति विमुखा हरौ॥” मृग्यम् इति वामने।
ये के च इति नियम उक्तः। “नियमेन तमो यान्ति सर्वेऽपि विमुखा हरौ” मृग्यम् इति च।
अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो॒ नैन॑द् दे॒वा आ॑प्नुव॒न् पूर्व॒मर्ष॑त्। तद् धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त् तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति॥ ४॥
“अनेजन्निर्भयत्वात् तदेकं प्राधान्यतस्तथा। सम्यग्ज्ञातुमशक्यत्वादगम्यं तत् सुरैरपि। स्वयं तु सर्वानगमत् पूर्वमेव स्वभावतः। अचिन्त्यशक्तितश्चैव सर्वगत्वाच्च तत् परम्। द्रवतोऽत्येति सन्तिष्ठत् तस्मिन् कर्माण्यधान्मरुत्। मारुत्येव यतश्चेष्टा सर्वा तां हरयेऽर्पयेत्॥” मृग्यम् इति ब्रह्माण्डे।
“ऋष ज्ञाने”। मृग्यम्
तदे॑जति॒ तन्नै॑जति॒ तद् दू॒रे तद्व॑न्ति॒के। तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः॥ ५॥
तदेजति तत एव एजत्यन्यत्। तत् स्वयं नेजति।
“ततो बिभेति सर्वोऽपि न बिभेति हरिः स्वयम्। सर्वगत्वात् स दूरे च बाह्येऽन्तश्च समीपगः॥” मृग्यम् इति तत्त्वसंहितायाम्।
यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति। स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि जु॑गुप्सते॥ ६॥
“सर्वगं परमात्मानं सर्वं च परमात्मनि। यः पश्येत् स भयाभावान्नात्मानं गोप्तुमिच्छति॥” मृग्यम् इति सौकरायणश्रुतिः।
यस्मि॒न् सर्वा॑णि भू॒तान्या॒त्मैवाभू॑द् विजान॒तः। तत्र॒ को मोहः॒ कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः॥ ७॥
यस्मिन् परमात्मनि सर्वभूतानि स परमात्मैव तत्र सर्वभूतेष्वभूत्। एवं सर्वभूतेष्वेकत्वेन परमात्मानं विजानतः को मोहः?
“यस्मिन् सर्वाणि भूतानि स आत्मा सर्वभूतगः। एवं सर्वत्र यो विष्णुं पश्येत् तस्य विजानतः। को मोहः कोऽथवा शोकः स विष्णुं पर्यगाद् यतः॥” मृग्यम् इति पिप्पलादशाखायाम्।
पूर्वोक्तानुवादेन शोकमोहाभावोऽपि विजानतश्चात्रोच्यते। अभ्यासश्च सर्वगतत्वस्य तात्पर्यद्योतनार्थः।
स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रꣳ शु॒द्धमपा॑पविद्धम्। क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒म्भूर्या॑थातथ्य॒तोऽर्था॒न् व्य॑दधाच्छाश्व॒तीभ्यः॒ समा॑भ्यः॥ ८॥
“शुक्रं तच्छोकराहित्यादव्रणं नित्यपूर्णतः। पावनत्वात् सदा शुद्धमकायं लिङ्गवर्जनात्। स्थूलदेहस्य राहित्यादस्नाविरमुदाहृतम्। एवम्भूतोऽपि सार्वज्ञात् कविरित्येव शब्द्यते। ब्रह्मादिसर्वमनसां प्रकृतेर्मनसोऽपिच। ईशितृत्वान्मनीषी स परिभूः सर्वतो वरः। सदाऽनन्याश्रयत्वाच्च स्वयम्भूः परिकीर्तितः। स सत्यं जगदेतादृङ् नित्यमेव प्रवाहतः। अनाद्यनन्तकालेषु प्रवाहैकप्रकारतः। नियमेनैव ससृजे भगवान् पुरुषोत्तमः। सज्ज्ञानानन्दशीर्षोऽसौ सज्ज्ञानानन्दबाहुकः। सज्ज्ञानानन्ददेहश्च सज्ज्ञानानन्दपादवान्। एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम्। अनाद्यनन्तकालीनं ससर्जात्मेच्छया प्रभुः॥” मृग्यम् इति वाराहे।
अ॒न्धं तमः॒ प्र वि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते। ततो॒ भूय॑इव॒ ते तमो॒ य उ॑ वि॒द्याया॑ꣳ र॒ताः॥ ९॥ अ॒न्यदे॒वाहुर्वि॒द्यया॒ऽन्यदा॑हु॒रवि॑द्याया। इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद् व्या॑चचक्षि॒रे॥ १०॥ वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ꣳ स॒ह। अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒ऽमृत॑मश्नुते॥ ११॥ अ॒न्धं तमः॒ प्रवि॑शन्ति॒ येऽस॑म्भूतिमु॒पास॑ते। ततो॒ भूय॑इव॒ ते तमो॒ य उ॒ सम्भू॑त्याꣳ र॒ताः॥ १२॥ अ॒न्यदे॒वाहुः स॑म्भ॒वाद॒न्यदा॑हु॒रस॑म्भवात्। इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद् व्या॑चचक्षि॒रे॥ १३॥ संभू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ꣳ स॒ह। वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू॑त्या॒ऽमृत॑मश्नुते॥ १४॥
“अन्यथोपासका ये तु तमोऽन्धं यान्त्यसंशयम्। ततोऽधिकमिव व्यक्तं यान्ति तेषामनिन्दकाः। तस्माद्‌ यथास्वरूपं तु नारायणमनामयम्। अयथार्थस्य निन्दां च ये विदुः सह सज्जनाः। ते[ऽ]निन्दयाऽयथार्थस्य दुःखाज्ञानादिरूपिणः। दुःखाज्ञानादिसन्तीर्णाः सुखज्ञानादिरूपिणः। यथार्थस्य परिज्ञानात् सुखज्ञानादिरूपताम्। यान्त्येवं सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः। तेऽपि यान्ति तमो घोरं तथा संहारकर्तृताम्। नाङ्गीकुर्वन्ति तेऽप्येवं तस्मात् सर्वगुणात्मकम्। सर्वकर्तारमीशेशं सर्वसंहारकारणम्। यो वेद संहृतिज्ञानाद् देहबन्धाद्‌ विमुच्यते। सुखज्ञानादिकर्तृत्वज्ञानात् तद्व्यक्तिमाव्रजेत्। सर्वदोषविनिर्मुक्तं गुणरूपं जनार्दनम्। जानीयान्न गुणानां च भागहानिं प्रकल्पयेत्। न मुक्तानामपि हरेः साम्यं विष्णोरभिन्नताम्। नैव प्रचिन्तयेत् तस्माद् ब्रह्मादेः साम्यमेव वा। मानुषादिविरिञ्चान्तं तारतम्यं विमुक्तिगम्। ततो विष्णोः परोत्कर्षं सम्यग् ज्ञात्वा विमुच्यते॥” मृग्यम् इति कौर्मे।
हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म्। तत्त्वं पू॑ष॒न्नपा वृ॑णु स॒त्यध॑र्माय दृ॒ष्टये॑॥ १५॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्त्समू॑ह॒ तेजो॒ यत्ते॑ रू॒पं कल्या॑णतमं॒ तत्ते॑ पश्यामि। यो॒ऽसाव॒सौ पुरु॑षः॒ सो॒ऽहम॑स्मि॥ १६॥
“पात्रं हिरण्मयं सूर्यमण्डलं समुदाहृतम्। विष्णोः सत्यस्य तेनैव सर्वदाऽपिहितं मुखम्। तत् तु पूर्णत्वतः पूषा विष्णुर्दर्शयति स्वयम्। सत्यधर्माय भक्ताय प्रधानज्ञानरूपतः। विष्णुरेकऋषिर्ज्ञेयो यमो नियमनाद्धरिः। सूर्यः स सूरिगम्यत्वात् प्राजापत्यः प्रजापतेः। विशेषेणैव गम्यत्वादहं चासावहेयतः। अस्मि नित्यास्तितामानात् सर्वजीवेषु संस्थितः। स्वयं तु सर्वजीवेभ्यो व्यतिरिक्तः परो हरिः। स क्रतुर्ज्ञनरूपत्वादग्निरङ्गप्रणेतृतः॥” मृग्यम् इति ब्रह्माण्डे।
सत्यं ब्रह्म हृदये धारयतीति सत्यधर्मा। एकोऽसौशब्दः प्राणे स्थित इति।
वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ꣳ शरी॑रम्। ओ३म् क्रतो॒ स्मर॑ कृ॒तꣳ स्म॑र॒ क्रतो॒ स्मर॑ कृ॒तꣳ स्म॑र॥ १७॥
यस्मिन्नयं स्थितः सोऽप्यमृतः, किमु परः? अः ब्रह्मैव निलयनं यस्य वायोः सः अनिलम्।
“अतिरोहितविज्ञानाद् वायुरप्यमृतः स्मृतः। मुख्यामृतः स्वयं रामः परमात्मा सनातनः॥” मृग्यम् इति रामसंहितायाम्।
“भक्तानां स्मरणं विष्णोर्नित्यज्ञप्तिस्वरूपतः। अनुग्रहोन्मुखत्वं तु नैवान्यत् क्वचिदिष्यते॥” मृग्यम् इति ब्रह्मतर्के।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उ॒क्तिं विधेम॥ १८॥
वयुनं ज्ञानम्। “त्वद्दत्तया वयुनयेदमचष्ट विश्वम्” भागवते ४/१०/८ इति वचनात्। जुहुराणम्‌ अस्मानल्पीकुर्वत्। युयोधि वियोजय।
“यदस्मान् कुरुतेऽत्यल्पांस्तदेनोऽस्मद् वियोजय। नय नो मोक्षवित्तायेत्यस्तौद् यज्ञं मनुः स्वराट्॥” मृग्यम् इति स्कान्दे।
“युयु वियोगे” मृग्यम् इति धातुः।
भक्तिज्ञानाभ्यां भूयिष्ठां नमउक्तिं विधेम।
पू॒र्णम॒दः पूर्णमि॒दं पू॒र्णात् पू॒र्णमु॑दच्यते। पू॒र्णस्य॑ पू॒र्णमा॒दाय॑ पू॒र्णमे॒वाव॑ शिष्यते॥ ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ००॥
॥ इतीशावास्योपनिषत् सम्पूर्णा‌ ॥
पूर्णशक्तिचिदानन्दश्रीतेजःस्पष्टमूर्तये। ममाभ्यधिकमित्राय नमो नारायणाय ते॥ *॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितमीशावास्योपनिषद्भाष्यं सम्पूर्णम्॥

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *