आथर्वणोपनिषद्भाष्यम्‌

उपोद्घातः
ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ॐ॥ आनन्दमजरं नित्यमजमक्षयमच्युतम्। अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम्॥ *॥
प्रथममुण्डके प्रथमः खण्डः
ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता। स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह॥ १/१/१॥
“मनोर्वैवस्वतस्यादावथर्वा ब्रह्मणोऽजनि। मित्रश्च वरुणश्चाथो प्रहेतिर्हेतिरेव च।
ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजः स्मृतः। सनकाद्यास्तु वाराहे ब्रह्मा विष्णोः सुतोऽग्रजः॥” मृग्यम् इति ब्रह्माण्डे॥ *॥
अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम्। स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङ्गिरसे परावराम्॥ १/१/२॥
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ। कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति॥१/१/३॥
तस्मै स होवाच। द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति। परा चैवापरा च॥ १/१/४॥ तत्रापरा। ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरमधिगम्यते॥१/१/५॥
“ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः। ता एव परमा विद्या यदा विष्णोस्तु वाचकाः॥” मृग्यम् इति परमसंहितायाम्।
“ऋग्भिर्हौत्रेण शंसन्ति तथौद्गात्रैः स्तुवन्ति ये। विष्णुमेव तथा तस्मै यजुर्भिरपि जुह्वति। स्तुवन्त्याथर्वणैश्चैनं सेतिहासपुराणकैः। न विष्णोः सदृशं किञ्चित् परमं चापि मन्वते। सर्वोत्तमं तं जानन्तस्ते हि भागवतोत्तमाः॥” मृग्यम् “वेदे रामायणे चैव पुराणे भारते तथा। आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते॥” भारते १८/६/९३ (पाठभेदाः सन्ति) “एतदन्ते च मध्ये च ब्रह्मैवोक्त्वा विजानताम्। ऋगादि पञ्चधा संस्थं शब्दब्रह्म प्रशाम्यति॥” मृग्यम् “यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च। स्तुवन्ति सत्यकर्माणं सत्यं सत्येषु सामसु॥” भारते १२/४७/१६ “सर्वे वेदा यत् पदमामनन्ति तपांसि सर्वाणि च यद् वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये॥” काठकोपनिषदि १/२/१५ “वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेदविदेव चाहम्” भगवद्गीतायां १५/१५ इत्यादि च भारते।
“चतुर्दश महाविद्यास्थानानि वेदितव्यानि भवन्ति” मृग्यम् इति च मूलश्रुतिः।
“पञ्चरात्रमृगाद्याश्च सर्वमेकं पुराऽभवत्। मूलवेद इति ह्याख्या काले कृतयुगे तदा। नैवर्क्सामादिनामानि तदा वेदस्य चाभवन्। नैव चेन्द्रादिनामानि विष्णोरन्यत्र कुत्रचित्। ब्रह्मरुद्रेन्द्रपूर्वैस्तु नामभिः प्रोच्यते हरिः। देवतात्वेन चेज्यः स ब्रह्माद्या मनुनामकाः। वक्तृत्वेन पितृत्वेन कारित्वेनैव चादरात्। इज्यन्ते देवताः सर्वा नतु देवतया क्वचित्। अनन्ययाजिनस्ते तु तस्मात् कार्तयुगा जनाः। प्राप्नुवन्ति हरिं तं च तस्माद् वेदे न किञ्चन। पारावर्यं हरेर्यस्मादुत्थितास्तुरगाननात्। ऋगाद्या अनुव्याख्यान्तास्तस्मात् सर्वैर्हरिं यजेत्। तस्माद् ब्रह्मादयः सर्वे मनवो मानवास्तथा। यजन्ति सर्ववेदैस्तं जानन्ति च विनिश्चयात्। अशक्तः पञ्चरात्रेण ऋगाद्यैर्वाऽथ तं यजेत्। ऋगाद्यैरेव स त्रैतैर्भिन्नैरिष्टो जनैर्हरिः। द्वापरीयैर्जनैर्विष्णुः पञ्चरात्रैस्तु केवलैः। कलौ तु नाममात्रेण पूज्यते भगवान् हरिः॥” मृग्यम् “एको वेदः कृते ह्यासीत् त्रेतायां स त्रिधाऽभवत्। स एव पञ्चधा जातो द्वापरं प्राप्यं वै युगम्। उत्सन्नः स कलिं प्राप्य वेदः प्रायेण सर्वशः। मुख्यो धर्मः कार्तयुगो वर्तितव्यः कलावपि। त्रेतादौ तदशक्त्या हि धर्मोऽन्यः सम्प्रकीर्तितः। कृते भागवताः सर्वे वेदाश्च पुरुषास्तथा। त्रेतायां भिन्नविषयास्ततस्त्रैविद्यतां गताः। तस्मादेकः सर्ववेदैर्ज्ञेयो विष्णुः सनातनः। पूज्यो यज्ञैः सोपचारैर्ध्येयो वन्द्यश्च सर्वदा॥” मृग्यम् इत्यादि नारायणसंहितायाम्।
“वेदवादाश्चानुयुगं ह्रसन्तीति च नः श्रुतिः” भारते १२/२३१/२५ (पाठान्तराणि सन्ति) इति भारते।
“वेदैश्च पञ्चरात्रैश्च भक्त्या यज्ञैस्तथैव च। दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि॥” मृग्यम् इत्यादि वाराहे।
अत्रापि “तदेतत् सत्यम्- मन्त्रेषु कर्माणि कवयो यान्यपश्यन्” आथर्वणोपनिषदि १/२/१ इत्यादिना कर्मविषयामपरविद्यामुक्त्वा, “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्” आथर्वणोपनिषदि १/२/१३ इत्यारभ्याथर्वणानेव मन्त्रान् परविद्यात्वेनाह। चतुर्वेदसंस्कारवतामेव च विद्यायामधिकार उक्तः “तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम्” आथर्वणोपनिषदि ३/२/१० इति। शिरोव्रतमित्युपलक्षणत्वेन।
“स्ववेदव्रतयुक्तस्य सर्ववेदगतास्वपि। अधिकारोऽस्ति विद्यासु नावेदव्रतिनः क्वचित्॥” मृग्यम् इति व्यासस्मृतौ।
यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्। नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः॥ १/१/६॥
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति। यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्॥ १/१/७॥
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम्॥१/१/८॥
यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते॥ १/१/९॥
एतद् ब्रह्म चतुर्मुखः॥
॥ इति प्रथममुण्डके प्रथमः खण्डः॥
प्रथममुण्डके द्वितीयः खण्डः
तदेतत् सत्यम्।
मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि। तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके॥ १/२/१॥
तदेतत् सत्यं भगवान्। तत्कामाः कर्माणि आचरथ। तदा साऽपि परविद्या। अन्यथा “प्लवा ह्येते अदृढा यज्ञरूपाः”। आथर्वणोपनिषदि १/२/७ भगवद्विषयत्वेन कृते “एष वः पुण्यः सुकृतो ब्रह्मलोकः”, आथर्वणोपनिषदि १/२/६ परब्रह्मलोकः।
“निष्कामं ज्ञानपूर्वं यन्निवृत्तमिह चोच्यते। निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्॥” मृग्यम् इति व्यासस्मृतौ।
“स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते” बृहदारण्यकोपनिषदि ३/५/९ इति च श्रुतिः।
“सहयज्ञाः प्रजाः सृष्ट्वा” भगवद्गीतायां ३/१० इत्युक्त्वा, “एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥” भगवद्गीतायां ३/१६ इति च। “यान्ति मद्याजिनोऽपि माम्” भगवद्गीतायां ९/२५ इति च।
“अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। नतु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥” भगवद्गीतायां ९/२४ इति च।
“यस्त्वात्मरतिः” भगवद्गीतायां ३/१७ इत्युक्त्वाऽपि “कुर्याद् विद्वांस्तथाऽसक्तः” भगवद्गीतायां ३/२५ इत्येवोक्तत्वाच्च।
“ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः॥” भगवद्गीतायां ३/३२ इति च।
“लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ” भगवद्गीतायां ३/३ इत्युक्तत्वाच्च नात्राश्रमान्तरविरोधः। त्रेतायां बहुधा सन्ततानि कृते त्वेकप्रकारेणैव सन्ततानि।
“अग्निष्टोमादिभिर्यज्ञैः सर्वदेवस्थितं हरिम्। यजन्ति तांश्च कारित्वाद् वसुस्तस्मात् तथाऽयजत्। पृथक्पृथक् च त्रेतायां यजन्ते देवतागणान्। यथा कृते तथा प्राज्ञास्त्रेतायां बहुधा ततः॥” मृग्यम् इति पाद्मे।
“यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः। यो देवानां देवतमो जनित्रो वायोस्तस्मै सोममेभ्यो जुहोमि॥” मृग्यम् “एवं वायोः पितरं विष्णुमेव यजन्ति देवैः सह ये कृते जनाः। एवं त्रेतायां केचिदन्ये पृथक् तानिष्ट्वा विष्णावर्पयन्ते नचान्यैः॥” मृग्यम् इति च ब्रह्माण्डे।
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने। तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत्॥ १/२/२॥
यस्याग्निहोत्रमदर्शमपौर्णमासमनाग्रयणमतिथिवर्जितं च। अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान् हिनस्ति॥ १/२/३॥
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा। स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः॥ १/२/४॥
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन्। तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः॥ १/२/५॥
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति। प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः॥ १/२/६॥
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति॥ १/२/७॥
अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितम्मन्यमानाः। जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः॥ १/२/८॥
अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः। यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणलोकाश्च्यवन्ते॥१/२/९॥
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः। नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वा इमं लोकं हीनतरं वाऽऽविशन्ति॥ १/२/१०॥
विष्णोः सर्वेभ्यः किञ्चिदुत्तमत्वं जानन्तः इमं लोकमाविशन्ति। साम्यं हीनत्वं वा जानन्तो हीनतरं तम एव विशन्ति। “देवेभ्य उत्तमं विष्णुं राजवद् यस्तु मन्यते। याजी स मानुषं याति साम्यहीनत्ववित् तमः॥” मृग्यम् इति च।
“त्रैविद्या माम्” भगवद्गीतायां ९/२० इति तु “येऽप्यन्यदेवता भक्ताः […] तेऽपि मामेव कौन्तेय यजन्ति” भगवद्गीतायां ९/२३ “अहं हि सर्वयज्ञानां भोक्ता” भगवद्गीतायां ९/२४ इत्युक्तत्वादज्ञानपूर्वयाजिनस्त्रैविद्याः।
तपःश्रद्धे येऽभ्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः। सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा॥१/२/११॥
परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्॥ १/२/१२॥
तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय। येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्॥१/२/१३॥
॥ इति प्रथममुण्डके द्वितीयः खण्डः॥
द्वितीयमुण्डके प्रथमः खण्डः
तदेतत् सत्यम्।
यथा सुदीप्तात् पावकात् विष्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः। तथाऽक्षरात् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति॥ २/१/१॥
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः। अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः॥२/१/२॥
“अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका। अक्षरं परमं श्रीस्तु परतः परमक्षरम्। वासुदेवः परानन्द इति त्रिविधमक्षरम्॥” मृग्यम् इति च।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी॥ २/१/३॥
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा॥ २/१/४॥
“विष्ण्वङ्गानां हि नामानि द्युभ्वादीनि तु सर्वशः। क्रीडादिशक्तिरूपत्वात् तज्जत्वादन्यवस्तुषु॥” मृग्यम् इति च।
तस्मादग्निः समिधो यश्च सूर्यः सोमात् पर्जन्य ओषधयः पृथिव्याम्। पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः॥ २/१/५॥
“वासुदेवः पुमान्नामा पूर्णत्वात् स स्वयोषिति। रमायां गर्भमदधात् प्रजास्तस्मात् प्रजज्ञिरे॥” मृग्यम् इति च।
तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च। संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः॥ २/१/६॥
तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि। प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च॥ २/१/७॥
सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः। इमे लोका येषु चरन्ति प्राणा गुहाशयां निहिताः सप्तसप्त॥२/१/८॥
सप्तार्चिषः वृत्तयः। होमाः सम्बन्धाः। लोकाः गोलकाः। गुहाशयां बुद्धौ। “लोपः समाने” मृग्यम् इति सूत्रादेकयकारलोपः। प्रतिपुरुषं सप्तसप्त।
अतः समुद्राः गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः। अतश्च सर्वा ओषधयो रसाश्च येनैव भूतैस्तिष्ठते ह्यन्तरात्मा॥२/१/९॥
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्। एतद् यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य॥ २/१/१०॥
भगवतः कर्म चेष्टा तपो ज्ञानं च परामृतब्रह्माख्यः पुरुषो भगवानेव।
“यैषा चेष्टा भगवतो यच्च ज्ञानं परात्मनः। तत् सर्वं भगवानेव ये च धर्मा बलादयः॥” मृग्यम् इति च।
“स्वाभाविकी ज्ञानबलक्रिया च” श्वेताश्वतरोपनिषदि ६ इति श्रुतिः।
॥ इति द्वितीयमुण्डके प्रथमः खण्डः॥
द्वितीयमुण्डके द्वितीयः खण्डः
आविः सन्निहितं गुहाचरं नाम महत् पदम्। अत्रैतत् सर्वमर्पितमेजत् प्राणन्निमिषच्च यत्॥ २/२/१॥
एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद् यद्वरिष्ठं प्रजानाम्। यदर्चिमद् यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च॥२/२/२॥
विज्ञानात् ब्रह्मणः परम्। “नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः” भागवते ३/१०/२४ इति भागवते।
तदेतक्षरं ब्रह्म स प्राणस्तदु वाङ् मनः। तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सोम्य विद्धि॥२/२/३॥
“प्राणः प्रणयनाद् विष्णुर्वक्तृत्वाद् वागुदीरितः। मनो मन्तृत्वतो विष्णुः सर्वजीवनियामकः॥” मृग्यम् इति शब्दनिर्णये।
धनुर्गृहीत्वोपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्दधीत। आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि॥ २/२/४॥
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत्॥ २/२/५॥
यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः। तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः॥ २/२/६॥
अमृतस्य मुक्तस्य सेतुः। “मुक्तोपसृप्यव्यपदेशात्” ब्रह्मसूत्रे १/३/२ “मुक्तानां परमा गतिः” भारते १३/१४९/१७ इत्यादेः।
अरा इव रथनाभौ संहता यत्र नाड्यः स एषोन्तश्चरते बहुधा जायमानः। ओमित्येवं ध्यायत आत्मानं स्वस्ति वः पराय तमसः परस्तात्॥ २/२/७॥
“हृदयस्थः सदा विष्णुर्बहुधा चैकधा भवन्। चरति स्वेच्छयैवान्तः सर्वजीवान् नियामयन्॥” मृग्यम् इति प्रवृत्ते।
यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि। दिव्ये ब्रह्मपुरे ह्येष व्योम्यात्मा प्रतिष्ठितः॥ २/२/९॥
मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय। तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद् विभाति॥२/२/१०॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे॥ २/२/११॥
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्। तच्छुभ्रं ज्योतिषां ज्योतिस्तद् यदात्मविदो विदुः॥ २/२/१२॥
“परा अप्यवरा यस्मात् स हि विष्णुः परावरः। ब्रह्माण्डमध्यगो नित्यं तपत्येष रवौ स्थितः॥” मृग्यम् इति च।
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥ २/२/१३॥
सूर्यादयस्तं न भासयन्ति।
ब्रह्मैवेदममृतं पुरस्तात् पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण। अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्॥ २/२/१४॥
इदं ब्रह्मैव विश्वं पूर्णम्। इदमेव वरिष्ठं सर्वोत्तमम्। इदंशब्दानां बहुत्वाद् ब्रह्मविषय एवेदंशब्दः।
॥ इति द्वितीयमुण्डके द्वितीयः खण्डः॥
तृतीयमुण्डके प्रथमः खण्डः
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति॥ ३/१/१॥
स्वादुवत् सर्वदाऽत्ति। नतु स्वाद्वेव। “तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद् यः पितरं न वेद” ऋग्वेदे १/१६४ इत्यज्ञानां स्वादुनिषेधात्। जीवाद्यमेव नाश्नाति भगवान्। नतु नाश्नात्येव। “तस्येदाहुः पिप्पलं स्वादु” ऋग्वेदे १/१६४ इत्युक्तत्वात्।
“स्वातन्त्र्येणैव भोक्तृत्वाद् दुःखाभोगाच्च सर्वदा। अभोक्ता चैव भोक्ता च भगवान् विष्णुरव्ययः॥” मृग्यम् इति च तत्त्वसारे।
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः॥ ३/१/२॥
“नास्तीशोऽस्या यतोऽन्यो हि ततोऽनीशा हरेर्मतिः। तया मुह्यति जीवस्तमन्यं ज्ञात्वा विमुच्यते। जीवादन्यः स्वतन्त्रोऽयं यतोऽतः पुरुषोत्तमः॥” मृग्यम् इति ब्रह्मसारे।
यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति॥ ३/१/३॥
पुण्यं चानिष्टं विधूय।
प्राणो ह्येष सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी। आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः॥३/१/४॥
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्। अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः॥ ३/१/५॥
सत्यमेव जयति नानृतं सत्येन विततो देवयानः। येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम्॥ ३/१/६॥
“सत्यो हि भगवान् विष्णुः सद्गुणत्वात् प्रकीर्तितः। असुरास्तद्विरुद्धत्वादनृताः परिकीर्तिताः। तस्य विष्णोर्निधानं तु वैकुण्ठो लोक उत्तमः॥” मृग्यम् इति च।
बृहच्च तद् दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति। दूरात् सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम्॥३/१/७॥
सर्वगत्वात् तद् दूरेऽन्तिके च।
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा। ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः॥ ३/१/८॥
“नान्यैर्देवैर्हरिं पश्येज्ज्ञानरूपेण वायुना। ब्रह्मणा परमज्ञानरूपेण हरिणा तथा। प्रसन्नेनैव तं पश्येदन्येऽनुज्ञाप्रदायिनः॥” मृग्यम् इति च।
षोडशकलाशरीरो न भवतीति निष्कलः। “यदा पश्यः पश्यते रुग्मवर्णम्” आथर्वणोपनिषदि ३/१/३ “आनन्दरूपममृतं यद् विभाति” आथर्वणोपनिषदि २/२/१० इत्युक्तत्वात्।
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश। प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा॥ ३/१/९॥
यंयं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान्। तन्तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः॥ ३/१/१०॥
॥ इति तृतीयमुण्डके प्रथमः खण्डः॥
तृतीयमुण्डके द्वितीयः खण्डः
स वेदैतत् परमं ब्रह्मधाम यत्र विश्वं निहितं भाति शुभ्रम्। उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः॥ ३/२/१॥
आत्मज्ञार्चको ब्रह्मणो धाम प्राणं वेद। यत्र विश्वं पूर्णं ब्रह्म निहितम्।
“प्रधानं धाम विष्णोस्तु प्राण एव प्रकीर्तितः। उपायैर्यो विजानीयात् प्राणस्थं परमेश्वरम्। तस्य प्राणे हरिर्नित्यमाविष्टो भवति ध्रुवम्। नित्यं प्राणे स्थितस्यैव विष्णोरावेश एव हि। प्राणद्वारेण यज्ज्ञानदीपनं ज्ञानिनः सदा। सन्निधानं यथा प्राप्ताः पिशाचाः पुरुषेष्वपि। तत्र स्थित्वाऽपि भुञ्जन्त आविशेयुः पुनश्च ते। मन्त्रादिभिस्तथा विष्णुः सदा प्राणस्थितोऽपि सन्। ज्ञानदीप्त्यादिकं कुर्याज्ज्ञानिनः पुनरेव तु॥” मृग्यम् इति च।
एतच्छुक्रं प्रत्यन्यदतिवर्तन्ते।
“सर्वं तीर्त्वा हरिं शुक्रं प्रतिवर्ती भवेत् पुनः। ज्ञानिनः सा हि मुक्तिः स्यात् तन्नैवात्येति कश्चन॥” मृग्यम् इति महावाराहे।
कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्रतत्र। पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः॥ ३/२/२॥
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्॥ ३/२/३॥
नायमात्मा बलहीनेन लभ्यो नच प्रमादात् तपसो वाऽप्यलिङ्गात्। एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम॥ ३/२/४॥
सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः। ते सर्वगं सर्वतः प्राप्य धीरा मुक्तात्मानः सर्वमेवापियन्ति॥ ३/२/५॥
सर्वतो देहादेर्मुक्ताः। सर्वगं भगवन्तं प्राप्य तम् एवापियन्ति।
“देहादेः सर्वतो मुक्ताः सर्वगं पुरुषोत्तमम्। प्राप्य तस्मिन् प्रविश्याथ मोदन्तेऽन्तर्बहिस्तथा॥” मृग्यम् इति च।
वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद् यतयः शुद्धसत्त्वाः। ते ब्रह्मलोकेषु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे॥३/२/६॥
ब्रह्मलोकेषु स्थित्वा परान्तकाले परिमुच्यन्ति।
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु। कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति॥ ३/२/७॥
“अविरोधश्च सादृश्यमेकदेशस्थितिस्तथा। एकीभावस्त्रिधा प्रोक्तो नैकीभावः स्वरूपयोः। कुतोऽभूतस्य भवनं स्वरूपस्यैक्यमेव हि। अतो नदीनां जीवानां विरुद्धानां नृणामपि। अब्धिना हरिणा चैव तथैव च नरान्तरैः। एकीभावस्तु संश्लेषो विरोधस्य च वर्जनम्। स्वरूपैक्यं कुतस्तेषां नित्यभिन्नस्वरूपिणाम्। हरेरपि स्वरूपाणामेकीभावो यदोच्यते। संश्लेष एव सिद्धत्वात् स्वरूपैक्यस्य नो भवः॥” मृग्यम् इति च।
गताः मुक्ताः प्राणादिपञ्चदशकलारूपा देवता अन्ये च देवाः सर्वे प्रतिदेवतासु देवताप्रतिबिम्बभूतासु प्रजासु प्रतिप्रति स्थिताः कर्माणि विज्ञानमयो जीवश्च परमात्मनि प्रविशन्ति।
“प्रतिबिम्बो हरेः प्राणस्तस्य चान्याः कलाः क्रमात्। कलानां देवता अन्या देवतानां नरा अपि। तस्मात् सर्वेषु मुक्तेषु नरेष्वपि नियामकाः। तिष्ठन्ति नात्र सन्देहः परमात्मनि चाखिलाः॥” मृग्यम् इति मुक्तिविवेके।
“कलाभ्यश्चान्यदेवेभ्यः कर्म प्रत्यवरं यतः। कलाभ्यः पृथगुक्तं तत् पुष्करः कर्म चोच्यते॥” मृग्यम् इति च।
अन्यथा गता भविष्यन्तीत्यध्याहारो दोषः। नच मूलरूपाणि प्रतिदेवता इत्युच्यन्ते देवानाम्। प्रतिरूपशब्दवद्धि प्रतिदेवताशब्दः। “विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र” षट्प्रश्नोपनिषदि ४/११ “इमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति” षट्प्रश्नोपनिषदि ६/५ “यथा सोम्येमाः समुद्रायणाः” षट्प्रश्नोपनिषदि ६/५ इति नदीदृष्टान्तपूर्वकं पुरुषप्राप्तिकथनाच्च मुक्ता देवता एवोच्यन्ते। “स प्राणमसृजत” षट्प्रश्नोपनिषदि ६/४ इत्यादेश्च पुरुषो भगवान्।
यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति नामरूपेऽविहाय। तथा विद्वान्नामरूपाद् विमुक्तः परात् परं पुरुषमुपैति दिव्यम्॥ ३/२/८॥
“अगम्यनामरूपत्वादमुक्तैर्मुक्तिगा नराः। विहीननामरूपास्तु नहि तद्रहितत्वतः। अशरीरो यथा वायुः सामान्यागम्यदेहतः। एवं नद्यः समुद्रस्थाः सामान्यागम्यरूपतः॥” मृग्यम् इति च।
“स्वकीयमुदकं नद्यः समुद्रे नैव जानते। वायुस्तु तत् पृथग् ज्ञात्वा मेघे कृत्वा प्रवर्षति॥” मृग्यम् इति च।
विमुक्तः इत्यमुक्त इत्यर्थः। “विप्रियः” मृग्यम् (अपाहरद् विप्रियमिति भागवते १/७/१४) इतिवत्। ‘अविहाय’ इति च। “अनन्तं वै नाम” बृहदारण्यकोपनिषदि ५/२/१२ इति श्रुतेः।
स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित् कुले भवति। तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति॥ ३/२/९॥
“परं ब्रह्म विदित्वा तु बृंहितः स्यात् स्वयोग्यतः। नायोग्यं किञ्चिदाप्नोति कुत एव हरेर्गुणान्॥” मृग्यम् इति च।
“ब्रह्मत्वं बृंहितत्वं स्याज्जीवानां न परात्मता। अस्वतन्त्रस्य जीवस्य कुतो नित्यस्वतन्त्रता॥” मृग्यम् इति स्कान्दे।
“यत्रामृतः स पुरुषो ह्यव्ययात्मा” आथर्वणोपनिषदि १/२/११ “यत्र तत् सत्यस्य परमं निधानम्” आथर्वणोपनिषदि ३/१/६ “अमृतस्यैष सेतुः” आथर्वणोपनिषदि २/२/६ “शरवत् तन्मयो भवेत्” आथर्वणोपनिषदि २/२/५ “ब्रह्म तल्लक्ष्यमुच्यते” आथर्वणोपनिषदि २/२/५ “निरञ्जनः परमं साम्यमुपैति” आथर्वणोपनिषदि ३/१/३ इत्यादिना मुक्तस्य सर्वत्र भगवत्सकाशाद् भेदस्यैवोक्तत्वाच्च। “मुक्तोपसृप्यव्यपदेशात्” ब्रह्मसूत्रे १/३/२ “जगद्व्यापारवर्जम्” ब्रह्मसूत्रे ४/४/१७ “प्रकरणादसन्निहितत्वाच्च” ब्रह्मसूत्रे ४/४/१८ इत्यादिना भगवताऽपि सर्वत्र भेदस्यैव सूचितत्वात्। “न ते महित्वमन्वश्नुवन्ति” ऋग्वेदे ७/९९ “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” तैत्तिरीयोपनिषदि २/१ “ब्रह्मेशानादिभिर्देवैर्यत् प्राप्तुं नैव शक्यते। तद् यत्स्वभावः कैवल्यं स भवान् केवलो हरे॥” मृग्यम् इत्यादेश्च। “मुक्तेभ्योऽपि मनुष्येभ्यो देवा एव गुणाधिकाः। तेभ्यो वायुस्ततो विष्णुः परिपूर्णगुणः सदा। मृग्यम् ये त्वेतदन्यथा विद्युस्ते हि यान्त्यधरं तमः। ये त्वेतदेवं जानन्ति ते यान्ति परमं हरिम्॥” इति च।
“देवानां सन्ततौ जाताः प्रायशो ज्ञानिनः कृते। बलवद्धेतुतश्चान्ये यस्माद् ब्रह्मविदः सुराः। न सन्ततौ ब्रह्मविदो नराणां ज्ञानिनामपि। प्रायशः स्युः सुराणां च नियमोऽयं कृते युगे। तस्मात् स भगवान् विष्णुर्ज्ञेयः सर्वोत्तमोत्तमः। सदा सर्वगुणैः पूर्णो योऽनन्तः पुरुषोत्तमः॥” मृग्यम् इति च।
तदेष श्लोकः। क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षीन् श्रद्धयन्तः। तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम्॥॥३/२/१०॥
तदेतत् सत्यमृषिरङ्गिराः पुरोवाच। नैतदचीर्णव्रतोऽधीते। नमः परमऋषिभ्यो नमः परमऋषिभ्यः॥ ३/२/११॥॥
॥ इति तृतीयमुण्डके द्वितीयः खण्डः॥
ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
॥ इत्याथर्वणोपनिषत् सम्पूर्णा॥
प्रीयतां भगवान् मह्यं प्रेष्ठप्रेष्ठतमः सदा। मम नित्यं नमाम्येनं परमोदारसद्गुणम्॥ *॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितमाथर्वणोपनिषद्भाष्यं सम्पूर्णम्॥