Author: admin

  • तलवकारोपनिषत्

    ☰ − उपोद्घातः ओ३म्॥ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि। सर्वं ब्रह्मौपनिषदम्। माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकारोत्। अनिराकरणमस्त्वनिराकरणं मेऽस्तु। तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः शान्तिः शान्तिः॥ प्रथमः खण्डः ओ३म्॥ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः। केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क…

  • ईशवास्योपनिषत्

    ☰ − उपोद्घातः ॐ॥ पू॒र्णम॒दः पूर्णमि॒दं पू॒र्णात् पू॒र्णमु॑दच्यते। पू॒र्णस्य॑ पू॒र्णमा॒दाय॑ पू॒र्णमे॒वाव॑ शिष्यते॥ ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ०॥ उपनिषत् ॐ॥ ई॒शावा॒स्य॑मि॒दꣳ सर्वं॒ यत्किञ्च॒ जग॑त्यां॒ जग॑त्। तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म्॥ १॥ कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तꣳ समाः॑। ए॒वं त्वयि॒ नान्यथे॒तो॑ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑॥ २॥ अ॒सु॒र्या॒ नाम॑ ते लो॒का अ॒न्धेन॒ तम॒साऽऽवृ॑ताः। ताꣳस्ते प्रेत्या॒भि ग॑च्छन्ति॒ ये के…

  • ब्रह्मसूत्राणि

    ☰ − समन्वयाध्यायः उपोद्घातः, अध्यायपादपीठम्, अन्यत्रप्रसिद्धनामात्मकशब्दसमन्वयश्च ॥ [ॐ] ॐ अथातो ब्रह्मजिज्ञासा [ॐ]॥ १/१/१॥ जिज्ञासाधिकरणम् जन्माधिकरणम् ॥ [ॐ] जन्माद्यस्य यतः [ॐ]॥ १/१/२॥ शास्त्रयोनित्वाधिकरणम् ॥ [ॐ] शास्त्रयोनित्वात् [ॐ]॥ १/१/३॥ समन्वयाधिकरणम् ॥ [ॐ] तत्तु समन्वयात् [ॐ]॥ १/१/४॥ ईक्षत्यधिकरणम् ॥ [ॐ] ईक्षतेर्नाशब्दम् [ॐ]॥ १/१/५॥ ॥ [ॐ] गौणश्चेन्नात्मशब्दात् [ॐ]॥ १/१/६॥ ॥ [ॐ] तन्निष्ठस्य मोक्षोपदेशात् [ॐ]॥ १/१/७॥ ॥ [ॐ] हेयत्वावचनाच्च [ॐ]॥…

  • ब्रह्मसूत्रानुव्याख्यान-न्यायविवरणम्

    ☰ − मङ्गलाचरणम् चेतनाचेतनजगन्नियन्त्रेऽशेषसंविदे। नमो नारायणायाजशर्वशक्रादिवन्दित॥ *॥ कृत्वा भाष्यानुभाष्येऽहमपि वेदार्थसत्पतेः। कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृतिं स्फुटम्॥ **॥ करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम्। प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः॥ ***॥ समन्वयाध्यायः प्रथमः पादः जीवव्यतिरिक्तेश्वरस्याभावात्, तस्य च स्वप्रकाशत्वात्, न जिज्ञास्यतेति प्राप्ते ‘अथातो ब्रह्मजिज्ञासा’ इत्याह। “तद् विजिज्ञासस्व तद् ब्रह्म” तैत्तिरीयोपनिषदि २/१ इति ब्रह्मशब्देन पूर्णगुणत्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेदः। “अथ कस्मादुच्यते ब्रह्मेति। बृहन्तो ह्यस्मिन् गुणाः” इति श्रुतेः॥ १॥ न…

  • ब्रह्मसूत्रभाष्यम्

    ☰ − समन्वयाध्यायः उपोद्घातः, अध्यायपादपीठम्, अन्यत्रप्रसिद्धनामात्मकशब्दसमन्वयश्च ॥ [ॐ] ॐ अथातो ब्रह्मजिज्ञासा [ॐ]॥ १/१/१॥ ॐ॥ नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्। ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते॥ द्वापरे सर्वत्र ज्ञान आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार। अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां तद्योगमविजानतां तज्ज्ञापनार्थं वेदमुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत्। चतुर्विंशतिधैकशतधा सहस्रधा द्वादशधा च। तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार। तच्चोक्तं स्कान्दे- “नारायणाद् विनिष्पन्नं ज्ञानं कृतयुगे स्थितम्। किञ्चित् तदन्यथा…

  • ब्रह्मसूत्राणुभाष्यम्

    ☰ − प्रथमोऽध्यायः [नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्। ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते॥ *॥] विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽऽगमोदितः। समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरः खवत्॥ १॥ प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु। उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः॥ २॥ सर्वगोऽत्ता नियन्ता च दृश्यत्वाद्युज्झितः सदा।| विश्वजीवान्तरत्वाद्यैर्लिङ्गैः सर्वैर्युतः स हि॥ ३॥ सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः। सूर्यादिभासकः प्राणप्रेरको दैवतैरपि॥ ४॥ ज्ञेयो न वेदैः शूद्राद्यैः कम्पकोऽन्यश्च जीवतः। पतित्वादिगुणैर्युक्तस्तदन्यत्र…

  • द्वादशस्तोत्रम्

    ☰ − प्रथमोऽध्यायः वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम्। इन्दिरापतिमाद्यादिवरदेशवरप्रदम्॥ १ ॥ नमामि निखिलाधीशकिरीटाघृष्टपीठवत्। हृत्तमःशमनेऽर्काभं श्रीपतेः पादपङ्कजम्॥ २ ॥ जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः। स्वर्णमञ्जीरसंवीतमारूढं जगदम्बया॥ ३ ॥ उदरं चिन्त्यमीशस्य तनुत्वेऽप्यखिलम्भरम्। वलित्रयाङ्कितं नित्यमुपगूढं श्रियैकया॥ ४ ॥ स्मरणीयमुरो विष्णोरिन्दिरावासमीशितुः। अनन्तमन्तवदिव भुजयोरन्तरं गतम्॥ ५ ॥ शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः। पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोऽनिशम्॥ ६ ॥ सन्ततं चिन्तयेत् कण्ठं भास्वत्कौस्तुभभासकम्। वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः॥ ७…

  • ईशावास्योपनिषद्भाष्यम्

    ☰ − उपोद्घातः ॐ पू॒र्णम॒दः पूर्णमि॒दं पू॒र्णात् पू॒र्णमु॑दच्यते। पू॒र्णस्य॑ पू॒र्णमा॒दाय॑ पू॒र्णमे॒वाव॑ शिष्यते॥ ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ०॥ ॐ॥ नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये। पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः॥ *॥ यस्माद् ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च। ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः॥ *॥ उपनिषत् ॐ॥ ई॒शावा॒स्य॑मि॒दꣳ सर्वं॒ यत्किञ्च॒ जग॑त्यां॒ जग॑त्। तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म्॥ १॥ स्वायम्भुवो मनुरेतैर्मन्त्रैर्भगवन्तमाकूतिसूनुं यज्ञनामानं…

  • जयन्तीकल्पः

    ☰ − रोहिण्यामर्धरात्रे तु यदा कालाष्टमी भवेत्। जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशनी॥ १॥ यस्यां जातो हरिः साक्षान्निशीथे भगवानजः। तस्मात् तद्दिनमत्यन्तं पुण्यं पापहरं परम्॥ २॥ तस्मात् सर्वैरुपोष्या सा जयन्ती नाम वै सदा। द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः॥ ३॥ यो भुङ्क्ते तद्दिने मोहात् पूयशोणितमत्ति सः। तस्मादुपवसेत् पुण्यं तद्दिनं श्रद्धयाऽन्वितः॥ ४॥ कृत्वा शौचं यथान्यायं स्नानं कुर्यादतन्द्रितः। प्रभातकाले मेधावी योगायेति यथाविधि॥…

  • कथालक्षणम्

    ☰ − देवतानमस्कारपूर्वकं विवक्षितनिर्देशः ॐ॥ नृसिंहमखिलाज्ञानतिमिराशिशिराद्युतिम्। सम्प्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जसा॥ १॥ कथासामान्यलक्षणम्, तद्विभागश्च वादो जल्पो वितण्डेति त्रिविधा विदुषां कथा। वादादीनां लक्षणम् तत्त्वनिर्णयमुद्दिश्य केवलं गुरुशिष्ययोः॥ २॥ कथाऽन्येषामपि सतां वादो वा समितेः शुभा। ख्यात्याद्यर्थं स्पर्धया वा सतां जल्प इतीर्यते॥ ३॥ वितण्डा तु सतामन्यैस्तत्त्वमेषु निगूहितम्। [-] [-] [-] [-] [-] [-] [-] [-] [-] [-] [-] [-] [-] [-]…