Author: admin

  • कर्मनिर्णयः

    ☰ − मङ्गलाचारणम् ॐ॥ य इज्यते विधीशानशक्रपूर्वैः सदा मखैः। रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः॥ महानाम्नीनामुपसर्गानामुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयाऽसौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यस्सन्निर्मितो यत् षोळषी तद्यन्महानाम्नीनामुपसर्गानुपसृजति सर्वेभ्य एवैनं तल्लोकेभ्यस्सन्निर्मिमीते सर्वेभ्यो लोकेभ्यस्सन्निर्मितेन षोळशिना राध्नोति य एवं वेद। (ऐतरेयब्राह्मणम् ४/१/४/१) उपोद्घातः महानाम्नीशब्दार्थः महानाम्नीनाम् ऋचाम् उपसर्गाः= ये उपसर्जनभूताः, तान् उपसृजति संयोजयति। महन्नाम यास्वृक्षु विद्यते ता महानाम्न्यः। परस्य…

  • माण्डूकोपनिषद्भाष्यम्‌

    ☰ − उपोद्घातः ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ॥ पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम्। चतुर्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम्॥ *॥ मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते। “ध्यायन् नारायणं देवं प्रणवेन समाहितः। मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम्॥” मृग्यम्…

  • मायावादखण्डनम्

    ☰ − मङ्गलाचरणम् ॐ॥ नरसिंहोऽखिलाज्ञानमतध्वान्तदिवाकरः। जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः॥ मायावादस्यानारम्भणीयत्वानुमानम् विमतमनारम्भणीयम्‌, अन्यथाप्रतिपादकत्वात्, यदित्थं तत् तथा, यथा सम्प्रतिपन्नम्। अयथार्थप्रतिपादकत्वेनान्यथाप्रतिपादकत्वसमर्थनम् नहि ब्रह्मात्मैक्यस्य याथार्थ्यं तत्पक्षे। अद्वैतहानेः स्वरूपातिरेके। अनतिरेके स्वप्रकाशत्वादात्मनः सिद्धसाधनता। निर्विशेषत्वाच्चात्मनो नानधिगतो विशेषः। सिद्धत्वात्‌ स्वरूपस्य विशेषाभावाच्च नाज्ञानं कस्यचिदावरकम्। अनधिगतार्थगन्तृ प्रमाणमिति च तन्मतम्। विषयादिरहितत्वेनान्यथाप्रतिपादकत्वसमर्थनम् अज्ञानासम्भवादेव तन्मतमखिलमपाकृतम्। मिथ्यात्वे चैक्यस्यातत्त्वावेदकत्वमागमस्य स्यात्। सत्यता च भेदस्य। एवमेव प्रयोजनमपि निरस्तम्। स्वरूपत्वान्मोक्षस्य पूर्वमेव सिद्धत्वात्। अज्ञानासम्भवेन चतुर्थप्रकाराभावात् पञ्चमप्रकारताऽपि निरस्ता।…

  • प्रमाणलक्षणम्

    ☰ − देवतानमस्कारपूर्वकं विषयनिर्देशः ॐ॥ अशेषगुरुमीशेशं नारायणमनामयम्। सम्प्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम्॥ प्रायः प्रमाणविचारः यथार्थं प्रमाणम्। तद् द्विविधम्। केवलमनुप्रमाणं च। यथार्थज्ञानं केवलम्। तत्साधनमनुप्रमाणम्। केवलं चतुर्विधम्। ईशलक्ष्मीयोग्ययोगिभेदेन। पूर्वद्वयमनादिनित्यम्। स्वातन्त्र्यपारतन्त्र्याभ्यां तद्विशेषः। पूर्वं स्वपरगताखिलविशेषविषयम्। द्वितीयमीशेऽन्येभ्योऽधिकम्। असार्वत्रिकम्। अन्यत्र सर्वविषयम्। स्पष्टत्वे भेदः। योगिज्ञानमृजूनामनादिनित्यम्। ईशे जीवेभ्योऽधिकम्। अन्यत्रालोचने सर्वविषयम्। क्रमेण वर्धमानम्। आमुक्तेः। ततोऽव्ययम्। ततोऽर्वाक् क्रमेण ह्रसितम्। सादि च तात्त्विकेभ्योऽन्यत्र। अयोगिज्ञानमुत्पत्तिविनाशवत्। अल्पम्। अनुप्रमाणं त्रिविधम्।…

  • प्रपञ्चमिथ्यात्वानुमानखण्डनम्

    ☰ − मायावाद्युदितप्रपञ्चमिथ्यात्वानुमानानुवादः ॐ॥ ‘विमतं मिथ्या, दृश्यत्वात्, यदित्थं तत् तथा, यथा सम्प्रतिपन्नम्’ तत्र प्रतिज्ञादोषाः – इत्युक्ते जगतो(ऽ)भावादाश्रयासिद्धः पक्षः। अनिर्वचनीयासिद्धेरप्रसिद्धविशेषणः। सदसद्वैलक्षण्ये मिथ्यात्वे सिद्धसाधनता। हेतुदोषाः दृश्यत्वाभावादसिद्धो हेतुः। अनिर्वचनीयासिद्धेरेव। अनिर्वचनीयासिद्धेरेव सपक्षाभावाद्‌ विरुद्धः। आत्मनोऽपि दृश्यत्वादनैकान्तिकः। जगतोऽभावेऽनुमानस्याप्यभाव इति तर्कबाधितत्वेनानध्यवसितः। प्रत्यक्षादिविरुद्धत्वात्, “विश्वं सत्यम्” ऋग्वेददसंहितायां २/२४/१२ इत्यादिवाक्यविरुद्धत्वाच्च कालात्ययापदिष्टः। ‘रजतं दृष्टम्’ इति भ्रममात्रत्वात् ‘विमतं सत्यं दृश्यत्वात्, आत्मवत्‌’ इत्यपि प्रयोज्यत्वात् प्रकरणसमः। ‘विमतं सत्यम्, प्रमाणदृष्टत्वात्,…

  • नखस्तुतिः, कन्दुकस्तुतिः, न्यासपद्धतिः, तिथिनिर्णयः, इत्यादयः

    ☰ − नरसिंहनखस्तोत्रम् पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटा- कुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः। श्रीमत्कण्ठीरवास्यप्रततसुनखरादारितारातिदूर- प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः॥ *॥ लक्ष्मीकान्त समन्ततो विकलयन् नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टमः। यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्निस्फुर- त्खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः॥ *॥ कन्दुकस्तुतिः अम्बरगङ्गाचुम्बितपादः पदतलविदलितगुरुतरशकटः कालियनागक्ष्वेलनिहन्ता सरसिजनवदलविकसितनयनः। कालघनालीकर्बुरकायः शरशतशकलितसुररिपुनिवहः सन्ततमस्मान् पातु मुरारिः सततगसमजवखगपतिनिरतः॥ *॥ न्यासपद्धतिः नरनारायणं नत्वा पूर्णं ब्रह्माक्षरोदितम्। यतेराचरणं वक्ष्ये पूर्णं शास्त्रानुसारतः॥ १॥ अरुणोदयवेळायामुत्थाय हरिमानसः। शौचादिकं यथान्यायं कृत्वा दन्तान् विशोधयेत्॥ २॥ कटिशौचं…

  • षट्प्रश्नोपनिषद्भाष्यम्‌

    ☰ − उपोद्घातः ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ॥ नमो भगवते तस्मै प्राणादिप्रभविष्णवे। अमन्दानन्दसान्द्राय वासुदेवाय वेधसे॥ *॥ प्रथमः प्रश्नः सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः।…

  • सदाचारस्मृतिः

    ☰ − आदिमङ्गलम् यस्मिन् सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा। निराशीर्निर्ममो याति परं जयति सोऽच्युतः॥ नित्याचारसङ्ग्रहः स्मृत्वा विष्णुं समुत्थाय कृतशौचो यथाविधि। धौतदन्तः समाचम्य स्नानं कुर्याद् विधानतः॥ “उद्धृता” महानारायणोपनिषत् इति मृदाऽऽलिप्य द्विषडष्टषडक्षरैः। त्रिर्निमज्याप्यसूक्तेन प्रोक्षयित्वा पुनस्तथा॥ मृदाऽऽलिप्य निमज्य त्रिस्त्रिर्जपेदघमर्षणम्। स्रष्टारं सर्वलोकानां स्मृत्वा नारायणं परम्॥ यतश्वासो निमग्नोऽप्सु प्रणवेनोत्थितस्ततः। सिञ्चेत् पुरुषसूक्तेन स्वदेहस्थं हरिं स्मरन्॥ वसित्वा वास आचम्य प्रोक्ष्याचम्य च मन्त्रतः। गायत्र्या चाञ्जलिं…

  • तलवकारोपनिषद्भाष्यम्‌

    ☰ − उपोद्घातः ओ३म्॥ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि। सर्वं ब्रह्मौपनिषदम्। माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकारोत्। अनिराकरणमस्त्वनिराकरणं मेऽस्तु। तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः शान्तिः शान्तिः॥ ॐ॥ अनन्तगुणपूर्णत्वादगम्याय सुरैरपि। सर्वेष्टदात्रे देवानां नमो नारायणाय ते॥ *॥ प्रथमः खण्डः ओ३म्॥ केनेषितं पतति प्रेषितं मनः केन प्राणः…

  • तत्त्वसङ्ख्यानम्

    ☰ − [-] [-] तत्त्वस्य सामान्यविभागोद्देशौ ॐ॥ स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते। स्वतन्त्रतत्त्वनिर्देशः स्वतन्त्रो भगवान् विष्णुः … … … अस्वतन्त्रतत्त्वविभागनिर्देशौ … … …भावाभावौ द्विधेतरत्‌॥ १॥ अभावविभागनिर्देशौ प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते। भावविभागनिर्देशौ चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः॥ २॥ चेतनविभागादि दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम्। नित्यादुःखा रमाऽन्ये तु स्पृष्टदुःखाः समस्तशः॥ ३॥ स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा। दुःखसंस्था मुक्तियोग्या अयोग्या इति च…