Author: admin
-
तत्त्वोद्योतः
☰ − मङ्गलाचरणम् ॐ॥ सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः। नित्यातादृशचिच्चेत्ययन्तेष्टो नो रमापतिः॥ मुक्तभेदेऽनुमानम् विमतो भिन्नः, मुक्तत्वात्, यदित्थं तत् तथा, यथा सम्प्रतिपन्नः। तत्र साध्यविकल्पनिराकरणम् नच भेदे विकल्पो युज्यते। अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादेव। शशविषाणं गोविषाणं वोच्यत इतिवत्। अनिर्वचनीये प्रमाणाभावोपपादनम् नचानिर्वचनीये किञ्चिन्मानम्। तत्र प्रत्यक्षनिरासः मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च। अनुमाननिरासः अनुमानस्य चाप्रसिद्धविशेषणः पक्षः। नच धूमत्ववन्मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति। नच बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति। आगमनिरासः नच भावाभावविलक्षणं क्वचिदागमो वक्ति।…
-
तत्त्वविवेकः
☰ − प्रमेयविवेकः तत्त्वस्य सामान्यविभागोद्देशौ ॐ॥ स्वतन्त्रं परतन्त्रं च प्रमेयं द्विविधं मतम्। स्वतन्त्रप्रमेयोद्धेशः, तदुपपादनं च स्वतन्त्रो भगवान् विष्णुर्निर्दोषाखिलसद्गुणः॥ १॥ परतन्त्रप्रभेदाः द्विविधं परतन्त्रं च भावोऽभाव इतीरितः। अभावप्रभेदाः पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते॥ २ ॥ भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक्। भावविभागः चेतनोऽचेतनश्चेति भावश्च द्विविधः स्मृतः॥ ३॥ चेतनविभागादि नित्यमुक्तश्च सृतियुक् परतन्त्रोऽपि चेतनः। द्विधैव श्रीर्नित्यमुक्ता सृतियुक् च द्विधा मतः॥ ४॥ मुक्तोऽमुक्त इति ह्यत्र ब्रह्मान्ता…
-
उपाधिखण्डनम्
☰ − नित्यागण्यगुणालयस्य प्रसादाशंसनम् ॐ॥ नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः। अशेषदोषरहितः प्रीयतां कमलालयः॥ १॥ मायावाद-भास्करमतयोः क्रमेण निराकरणम् अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन। उपाधिभेदाद् घटत इति चेत् स स्वभावतः॥ २॥ अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत्। अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता॥ ३॥ चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः। विद्यमानस्य भेदस्य ज्ञापको नैव कारकः॥ ४॥ उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः। ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया॥ ५॥ न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः।…
-
यमकभारतम्
☰ − मङ्गलाचरणम् ध्यायेत् परमानन्दं यन्माता पतिमयदपरमानन्दम्। उज्झितपरमानं दम्पत्याद्याद्याश्रमैः सदैव-परमानन्दम्॥ १॥ उपोद्घातः यस्य करालोलं चक्रं कालः परः स हि करालोऽलम्। यस्य गदा पवमानः सन् यो व्या-सोऽभवत् सदा-पवमानः॥ २॥ यस्य रमा न मनोगं जगृहे विश्वम्भराऽपि न-मनोऽगम्। यस्य पुमानानन्दं भुङ्क्ते यद्धाम कपतिमानानन्दम्॥ ३॥ परमेषु यदा तेजः परमेषु चकार वासुदेवोऽजः। मानधि बिभ्रत्सु मनो माऽनधिमाऽऽसीन्नवासुदेवो(ऽ)-जः॥ ४॥ श्रीकृष्णकथा प्रद्युम्नादिप्रादुर्भावपर्यन्ता [हरिवंशनिर्णयः]…
-
यतिप्रणवकल्पः
☰ − विरक्तस्य गुरुस्वीकारः समिच्चर्वाज्यकान् हुत्वा सम्यक् पुरुषसूक्ततः। सर्वेषामभयं दत्वा विरक्तः प्रव्रजेद्धरिम्॥ स्मृत्वा भागवतं शुद्धमाचार्यं शरणं व्रजेत्। अधीहि भगवो ब्रह्मेत्यस्मै ब्रूयाद् गुरुः परम्॥ गुरुणा प्रणवाद्युपदेशः उच्चारयेत् त्रिशस्तारं दक्षिणे श्रवणे तथा। ऋषिच्छन्दोदैवतानि ब्रूयात् तस्य क्रमात् सुधीः॥ अन्तर्यामीति गायत्री परमात्मेत्यनुक्रमात्। विश्वश्च तैजसः प्राज्ञस्तुर्यश्चाक्षरदेवताः॥ कृष्णो रामो नृसिंहश्च वराहो विष्णुरेव च। परञ्ज्योतिः परम्ब्रह्म वासुदेव इति क्रमात्॥ अकारादेस्तथा शान्तातिशान्तान्तस्य देवताः।…