Category: इतिहासप्रस्थानम्

  • यमकभारतम्

    ☰ − मङ्गलाचरणम् ध्यायेत् परमानन्दं यन्माता पतिमयदपरमानन्दम्। उज्झितपरमानं दम्पत्याद्याद्याश्रमैः सदैव-परमानन्दम्॥ १॥ उपोद्घातः यस्य करालोलं चक्रं कालः परः स हि करालोऽलम्। यस्य गदा पवमानः सन् यो व्या-सोऽभवत् सदा-पवमानः॥ २॥ यस्य रमा न मनोगं जगृहे विश्वम्भराऽपि न-मनोऽगम्। यस्य पुमानानन्दं भुङ्क्ते यद्धाम कपतिमानानन्दम्॥ ३॥ परमेषु यदा तेजः परमेषु चकार वासुदेवोऽजः। मानधि बिभ्रत्सु मनो माऽनधिमाऽऽसीन्नवासुदेवो(ऽ)-जः॥ ४॥ श्रीकृष्णकथा प्रद्युम्नादिप्रादुर्भावपर्यन्ता [हरिवंशनिर्णयः]…