Category: गीताप्रस्थानम्
-
भगवद्गीतातात्पर्यनिर्णयः
☰ − उपोद्घातः मङ्गलाचरणं ग्रन्थारम्भप्रतिज्ञा च ॐ॥ समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम्। नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते॥ *॥ गीतातात्पर्यकथनस्य युक्ततासमर्थनम् “शास्त्रेषु भारतं सारं तत्र नामसहस्रकम्। वैष्णवं कृष्णगीता च तज्ज्ञानान्मुच्यतेऽञ्जसा। न भारतसमं शास्त्रं कुत एवानयोः समम्। भारतं सर्ववेदाश्च तुलामारोपिताः पुरा। देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्च समन्वितैः। व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम्। महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते। स्वयं नारायणो देवैर्ब्रह्मरुद्रेन्द्रपूर्वकैः। अर्थितो व्यासतां प्राप्य…
-
भगवद्गीताभाष्यम्
☰ − उपोद्घातः मङ्गलाचरणं ग्रन्थप्रतिज्ञा च देवं नारायणं नत्वा सर्वदोषविवर्जितम्। परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः॥ *॥ महाभारतस्य प्रामाण्यादिसमर्थनम् स्ववचनैस्तदुक्तिः नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितो ज्ञानप्रदर्शनाय भगवान् व्यासोऽवततार। ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनाद् वेदार्थाज्ञानाच्च संसारे क्लिश्यमानानां वेदानधिकारिणां स्त्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदाद्यर्थोपबृंहितां तदनुक्तकेवलेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनामवगाह्यानवगाह्यरूपां केवलभगवत्स्वरूपपरां परोक्षार्थां महाभारतसंहितामचीकॢपत्। तत्रागमसम्मतिः तच्चोक्तम्- “लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम्। वेदार्थाज्ञमधीकारवर्जितं च स्त्रियादिकम्। अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम्। ततः…