Category: दशप्रकरणानि
-
विष्णुतत्त्वनिर्णयः
☰ − उपोद्घातः मङ्गलाचरणम् सदागमैकविज्ञेयं समतीतक्षराक्षरम्। नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम्॥ आरम्भणीयत्वसमर्थनम् विशेषणानि यानीह कथितानि सदुक्तिभिः। साधयिष्यामि तान्येव क्रमात् सज्जनसंविदे॥ सदागमैकविज्ञेयत्वपरिच्छेदः नारायणस्य सदागमैकवेद्यत्वप्रतिपादकवचनानि “ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम्। मूलरामायणं चैव पुराणं चैतदात्मकम्। ये चानुयायिनस्त्वेषां सर्वे ते च सदागमाः। दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः। ज्ञेय एतैः सदायुक्तैर्भक्तिमद्भिः सुनिष्ठितैः। नच केवलतर्केण नाक्षजेन न केनचित्। केवलागमविज्ञेयो भक्तैरेव नचान्यथा॥” इति ब्रह्माण्डे।…
-
कथालक्षणम्
☰ − देवतानमस्कारपूर्वकं विवक्षितनिर्देशः ॐ॥ नृसिंहमखिलाज्ञानतिमिराशिशिराद्युतिम्। सम्प्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जसा॥ १॥ कथासामान्यलक्षणम्, तद्विभागश्च वादो जल्पो वितण्डेति त्रिविधा विदुषां कथा। वादादीनां लक्षणम् तत्त्वनिर्णयमुद्दिश्य केवलं गुरुशिष्ययोः॥ २॥ कथाऽन्येषामपि सतां वादो वा समितेः शुभा। ख्यात्याद्यर्थं स्पर्धया वा सतां जल्प इतीर्यते॥ ३॥ वितण्डा तु सतामन्यैस्तत्त्वमेषु निगूहितम्। [-] [-] [-] [-] [-] [-] [-] [-] [-] [-] [-] [-] [-] [-]…
-
कर्मनिर्णयः
☰ − मङ्गलाचारणम् ॐ॥ य इज्यते विधीशानशक्रपूर्वैः सदा मखैः। रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः॥ महानाम्नीनामुपसर्गानामुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयाऽसौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यस्सन्निर्मितो यत् षोळषी तद्यन्महानाम्नीनामुपसर्गानुपसृजति सर्वेभ्य एवैनं तल्लोकेभ्यस्सन्निर्मिमीते सर्वेभ्यो लोकेभ्यस्सन्निर्मितेन षोळशिना राध्नोति य एवं वेद। (ऐतरेयब्राह्मणम् ४/१/४/१) उपोद्घातः महानाम्नीशब्दार्थः महानाम्नीनाम् ऋचाम् उपसर्गाः= ये उपसर्जनभूताः, तान् उपसृजति संयोजयति। महन्नाम यास्वृक्षु विद्यते ता महानाम्न्यः। परस्य…
-
मायावादखण्डनम्
☰ − मङ्गलाचरणम् ॐ॥ नरसिंहोऽखिलाज्ञानमतध्वान्तदिवाकरः। जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः॥ मायावादस्यानारम्भणीयत्वानुमानम् विमतमनारम्भणीयम्, अन्यथाप्रतिपादकत्वात्, यदित्थं तत् तथा, यथा सम्प्रतिपन्नम्। अयथार्थप्रतिपादकत्वेनान्यथाप्रतिपादकत्वसमर्थनम् नहि ब्रह्मात्मैक्यस्य याथार्थ्यं तत्पक्षे। अद्वैतहानेः स्वरूपातिरेके। अनतिरेके स्वप्रकाशत्वादात्मनः सिद्धसाधनता। निर्विशेषत्वाच्चात्मनो नानधिगतो विशेषः। सिद्धत्वात् स्वरूपस्य विशेषाभावाच्च नाज्ञानं कस्यचिदावरकम्। अनधिगतार्थगन्तृ प्रमाणमिति च तन्मतम्। विषयादिरहितत्वेनान्यथाप्रतिपादकत्वसमर्थनम् अज्ञानासम्भवादेव तन्मतमखिलमपाकृतम्। मिथ्यात्वे चैक्यस्यातत्त्वावेदकत्वमागमस्य स्यात्। सत्यता च भेदस्य। एवमेव प्रयोजनमपि निरस्तम्। स्वरूपत्वान्मोक्षस्य पूर्वमेव सिद्धत्वात्। अज्ञानासम्भवेन चतुर्थप्रकाराभावात् पञ्चमप्रकारताऽपि निरस्ता।…
-
प्रमाणलक्षणम्
☰ − देवतानमस्कारपूर्वकं विषयनिर्देशः ॐ॥ अशेषगुरुमीशेशं नारायणमनामयम्। सम्प्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम्॥ प्रायः प्रमाणविचारः यथार्थं प्रमाणम्। तद् द्विविधम्। केवलमनुप्रमाणं च। यथार्थज्ञानं केवलम्। तत्साधनमनुप्रमाणम्। केवलं चतुर्विधम्। ईशलक्ष्मीयोग्ययोगिभेदेन। पूर्वद्वयमनादिनित्यम्। स्वातन्त्र्यपारतन्त्र्याभ्यां तद्विशेषः। पूर्वं स्वपरगताखिलविशेषविषयम्। द्वितीयमीशेऽन्येभ्योऽधिकम्। असार्वत्रिकम्। अन्यत्र सर्वविषयम्। स्पष्टत्वे भेदः। योगिज्ञानमृजूनामनादिनित्यम्। ईशे जीवेभ्योऽधिकम्। अन्यत्रालोचने सर्वविषयम्। क्रमेण वर्धमानम्। आमुक्तेः। ततोऽव्ययम्। ततोऽर्वाक् क्रमेण ह्रसितम्। सादि च तात्त्विकेभ्योऽन्यत्र। अयोगिज्ञानमुत्पत्तिविनाशवत्। अल्पम्। अनुप्रमाणं त्रिविधम्।…
-
प्रपञ्चमिथ्यात्वानुमानखण्डनम्
☰ − मायावाद्युदितप्रपञ्चमिथ्यात्वानुमानानुवादः ॐ॥ ‘विमतं मिथ्या, दृश्यत्वात्, यदित्थं तत् तथा, यथा सम्प्रतिपन्नम्’ तत्र प्रतिज्ञादोषाः – इत्युक्ते जगतो(ऽ)भावादाश्रयासिद्धः पक्षः। अनिर्वचनीयासिद्धेरप्रसिद्धविशेषणः। सदसद्वैलक्षण्ये मिथ्यात्वे सिद्धसाधनता। हेतुदोषाः दृश्यत्वाभावादसिद्धो हेतुः। अनिर्वचनीयासिद्धेरेव। अनिर्वचनीयासिद्धेरेव सपक्षाभावाद् विरुद्धः। आत्मनोऽपि दृश्यत्वादनैकान्तिकः। जगतोऽभावेऽनुमानस्याप्यभाव इति तर्कबाधितत्वेनानध्यवसितः। प्रत्यक्षादिविरुद्धत्वात्, “विश्वं सत्यम्” ऋग्वेददसंहितायां २/२४/१२ इत्यादिवाक्यविरुद्धत्वाच्च कालात्ययापदिष्टः। ‘रजतं दृष्टम्’ इति भ्रममात्रत्वात् ‘विमतं सत्यं दृश्यत्वात्, आत्मवत्’ इत्यपि प्रयोज्यत्वात् प्रकरणसमः। ‘विमतं सत्यम्, प्रमाणदृष्टत्वात्,…
-
तत्त्वसङ्ख्यानम्
☰ − [-] [-] तत्त्वस्य सामान्यविभागोद्देशौ ॐ॥ स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते। स्वतन्त्रतत्त्वनिर्देशः स्वतन्त्रो भगवान् विष्णुः … … … अस्वतन्त्रतत्त्वविभागनिर्देशौ … … …भावाभावौ द्विधेतरत्॥ १॥ अभावविभागनिर्देशौ प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते। भावविभागनिर्देशौ चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः॥ २॥ चेतनविभागादि दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम्। नित्यादुःखा रमाऽन्ये तु स्पृष्टदुःखाः समस्तशः॥ ३॥ स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा। दुःखसंस्था मुक्तियोग्या अयोग्या इति च…
-
तत्त्वोद्योतः
☰ − मङ्गलाचरणम् ॐ॥ सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः। नित्यातादृशचिच्चेत्ययन्तेष्टो नो रमापतिः॥ मुक्तभेदेऽनुमानम् विमतो भिन्नः, मुक्तत्वात्, यदित्थं तत् तथा, यथा सम्प्रतिपन्नः। तत्र साध्यविकल्पनिराकरणम् नच भेदे विकल्पो युज्यते। अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादेव। शशविषाणं गोविषाणं वोच्यत इतिवत्। अनिर्वचनीये प्रमाणाभावोपपादनम् नचानिर्वचनीये किञ्चिन्मानम्। तत्र प्रत्यक्षनिरासः मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च। अनुमाननिरासः अनुमानस्य चाप्रसिद्धविशेषणः पक्षः। नच धूमत्ववन्मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति। नच बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति। आगमनिरासः नच भावाभावविलक्षणं क्वचिदागमो वक्ति।…
-
तत्त्वविवेकः
☰ − प्रमेयविवेकः तत्त्वस्य सामान्यविभागोद्देशौ ॐ॥ स्वतन्त्रं परतन्त्रं च प्रमेयं द्विविधं मतम्। स्वतन्त्रप्रमेयोद्धेशः, तदुपपादनं च स्वतन्त्रो भगवान् विष्णुर्निर्दोषाखिलसद्गुणः॥ १॥ परतन्त्रप्रभेदाः द्विविधं परतन्त्रं च भावोऽभाव इतीरितः। अभावप्रभेदाः पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते॥ २ ॥ भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक्। भावविभागः चेतनोऽचेतनश्चेति भावश्च द्विविधः स्मृतः॥ ३॥ चेतनविभागादि नित्यमुक्तश्च सृतियुक् परतन्त्रोऽपि चेतनः। द्विधैव श्रीर्नित्यमुक्ता सृतियुक् च द्विधा मतः॥ ४॥ मुक्तोऽमुक्त इति ह्यत्र ब्रह्मान्ता…
-
उपाधिखण्डनम्
☰ − नित्यागण्यगुणालयस्य प्रसादाशंसनम् ॐ॥ नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः। अशेषदोषरहितः प्रीयतां कमलालयः॥ १॥ मायावाद-भास्करमतयोः क्रमेण निराकरणम् अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन। उपाधिभेदाद् घटत इति चेत् स स्वभावतः॥ २॥ अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत्। अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता॥ ३॥ चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः। विद्यमानस्य भेदस्य ज्ञापको नैव कारकः॥ ४॥ उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः। ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया॥ ५॥ न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः।…