Category: श्रुतिप्रस्थानम्

  • ऋग्भाष्यं

    ☰ − उपोद्घातः मङ्गलाचरणम् नारायणं निखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम्।सर्वेश्वरंगुरुमजेशनुतंप्रणम्य वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य॥ प्रणव-व्याहृति-गायत्री-पुरुषसूक्त-वेदार्थः ओमशेषगुणाधार इति नारायणोऽप्यसौ।पूर्णो भूतिवरोऽनन्तसुखो यद् व्याहृतीरितः॥गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः।भारतिज्ञानरूपत्वाद् भर्गो ध्येयोऽखिलैर्जनैः।प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः॥ *॥स पूर्णत्वात् पुमान् नाम पौरुषे सूक्त ईरितः।स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च॥स एव सर्वशब्दार्थइत्याहोपनिषत् परा।“ता वा एता ऋचः”छान्दोग्योपनिषत् ३/१/१इति विशेषेणाप्यृगर्थताम्॥“यो देवानाम्”ऋग्वेदसंहिता १०/८२/३इति श्रुत्या देवनाम्नां विशेषतः।स्पष्टत्वात् तद्गतत्वेन … … … … अग्निमीळ इति नवर्चम्॥…