Category: सूत्रप्रस्थानम्

  • ब्रह्मसूत्रानुव्याख्यानम्

    ☰ − समन्वयाध्यायः प्रथमः पादः मङ्गलाचरणम् नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैसुवाक्यैः। अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि॥ १॥ तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव। विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव॥ २॥ उपोद्घातः प्रादुर्भूतो हरिर्व्यासो विरिञ्चिभवपूर्वकैः। अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम्॥ ३॥ गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः। यतस्तदुदितं मानमजादिभ्यस्तदर्थतः॥ ४॥ वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता। आप्तवाक्यतया तेन श्रुतिमूलतया तथा॥ ५॥ युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत्।…

  • ब्रह्मसूत्रानुव्याख्यान-न्यायविवरणम्

    ☰ − मङ्गलाचरणम् चेतनाचेतनजगन्नियन्त्रेऽशेषसंविदे। नमो नारायणायाजशर्वशक्रादिवन्दित॥ *॥ कृत्वा भाष्यानुभाष्येऽहमपि वेदार्थसत्पतेः। कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृतिं स्फुटम्॥ **॥ करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम्। प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः॥ ***॥ समन्वयाध्यायः प्रथमः पादः जीवव्यतिरिक्तेश्वरस्याभावात्, तस्य च स्वप्रकाशत्वात्, न जिज्ञास्यतेति प्राप्ते ‘अथातो ब्रह्मजिज्ञासा’ इत्याह। “तद् विजिज्ञासस्व तद् ब्रह्म” तैत्तिरीयोपनिषदि २/१ इति ब्रह्मशब्देन पूर्णगुणत्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेदः। “अथ कस्मादुच्यते ब्रह्मेति। बृहन्तो ह्यस्मिन् गुणाः” इति श्रुतेः॥ १॥ न…

  • ब्रह्मसूत्रभाष्यम्

    ☰ − समन्वयाध्यायः उपोद्घातः, अध्यायपादपीठम्, अन्यत्रप्रसिद्धनामात्मकशब्दसमन्वयश्च ॥ [ॐ] ॐ अथातो ब्रह्मजिज्ञासा [ॐ]॥ १/१/१॥ ॐ॥ नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्। ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते॥ द्वापरे सर्वत्र ज्ञान आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार। अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां तद्योगमविजानतां तज्ज्ञापनार्थं वेदमुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत्। चतुर्विंशतिधैकशतधा सहस्रधा द्वादशधा च। तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार। तच्चोक्तं स्कान्दे- “नारायणाद् विनिष्पन्नं ज्ञानं कृतयुगे स्थितम्। किञ्चित् तदन्यथा…

  • ब्रह्मसूत्राणुभाष्यम्

    ☰ − प्रथमोऽध्यायः [नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्। ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते॥ *॥] विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽऽगमोदितः। समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरः खवत्॥ १॥ प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु। उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः॥ २॥ सर्वगोऽत्ता नियन्ता च दृश्यत्वाद्युज्झितः सदा।| विश्वजीवान्तरत्वाद्यैर्लिङ्गैः सर्वैर्युतः स हि॥ ३॥ सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः। सूर्यादिभासकः प्राणप्रेरको दैवतैरपि॥ ४॥ ज्ञेयो न वेदैः शूद्राद्यैः कम्पकोऽन्यश्च जीवतः। पतित्वादिगुणैर्युक्तस्तदन्यत्र…