मङ्गलाचारणम्
ॐ॥ य इज्यते विधीशानशक्रपूर्वैः सदा मखैः।
रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः॥
महानाम्नीनामुपसर्गानामुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयाऽसौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यस्सन्निर्मितो यत् षोळषी तद्यन्महानाम्नीनामुपसर्गानुपसृजति सर्वेभ्य एवैनं तल्लोकेभ्यस्सन्निर्मिमीते सर्वेभ्यो लोकेभ्यस्सन्निर्मितेन षोळशिना राध्नोति य एवं वेद। (ऐतरेयब्राह्मणम् ४/१/४/१)
उपोद्घातः
महानाम्नीशब्दार्थः
महानाम्नीनाम्
ऋचाम् उपसर्गाः= ये उपसर्जनभूताः, तान्
उपसृजति
संयोजयति।
महन्नाम यास्वृक्षु विद्यते ता महानाम्न्यः।
परस्य ब्रह्मणो यन्नामेन्द्रादिकं तन्महार्थत्वान्महत्।
महद्धि तत् परं ब्रह्म।
अशेषगुणपूर्तेः।
ब्रह्मणः सगुणत्वसमर्थनम्
तत्रैक आहुरगुणं ब्रह्मेति।
न तद् युक्तम्।
श्रुतियुक्तिविरोधात्।
तथाहि श्रुतिः-
“सत्यं ज्ञानमनन्तं ब्रह्म”🔗
तैत्तिरीयोपनिषदि २/१
“विज्ञानमानन्दं ब्रह्म”
बृहदारण्यकोपनिषदि ५/९/३४
“यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः।🔗
तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते॥”🔗
आथर्वणोपनिषदि १/१/९
“दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः।🔗
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः॥”🔗
आथर्वणोपनिषदि २/१/२
“एतावानस्य महिमा अतो ज्यायांश्च पुरुषः”
ऋग्वेदे १०/९०/२
“यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा”
ऋग्वेदे १०/८२
“पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥”
बृहदारण्यकोपनिषदि ७/१/१
“सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः।
सर्वमिदमभ्यात्तोऽवाक्यनादरः”
छान्दोग्योपनिषदि ३/२/९
“विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि”
ऋग्वेदे १/१५४/१
“परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति”
ऋग्वेदे ७/९९/१
“न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप”
ऋग्वेदे ७/९९/२
इत्यादिका।
युक्तिश्च।
बुद्धिपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो गुणा युक्ताः।
“कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम्”
भागवते ३/३३/१२
इति च भागवते।
नच,
“एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च॥”
श्वेताश्वतरोपनिषदि ६
इत्यादिविरोधः।
सत्त्वादिगुणाभावोक्तेस्तत्र।
अन्यथा
“एको देवः सर्वभूतेषु गूढः”
इत्यादीनामपि गुणत्वात् स्वोक्तिविरोधः।
निर्विशेषत्वनिरासः
नच निर्विशेषं नाम किञ्चिदस्ति।
निर्विशेषत्वोक्तेरेव
व्याहतत्वात्।
निर्विशेषत्वेन विशिष्टं न वेत्युक्ते यद्यविशिष्टं तर्हि न विशेषनिराकरणम्।
विशेषवत्त्वमेव भवति।
यदि तेन विशिष्टं स एव विशेष इति व्याहतिः।
नच निर्विशेषत्वे किञ्चिन्मानम्।
अशेषविशेषवचनानुभवयुक्तिविरोधश्च।
नच मिथ्याविशेषवत्।
व्याहतेः।
मिथ्याविशेष इत्युक्ते ह्यसद्विशेष इत्येव भवति।
तथाचाविशेषविशिष्टपक्षोक्तदोष एव।
अनिर्वचनीयत्वनिरासः
नचानिर्वचनीयविशेष इति भवति।
अनिर्वचनीयासिद्धेः।
नहि तत्र प्रत्यक्षमस्ति।
मिथ्याशब्दस्त्वभाववाच्येव।
तदन्यत्र प्रमाणाभावात्।
नचान्यत् प्रमाणम्।
प्रतिज्ञाव्याहतेः।
नहि सदन्तरादसतश्चान्यत् सदसद्विलक्षणं प्रसिद्धम्।
‘असन्न भवति’ इत्युक्ते
“द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः”
इति सदेव भवति।
असदन्तरं वा विशेषविवक्षायाम्।
किञ्चैतद्वैलक्षण्यं भेदोऽभेदो भेदाभेदो वा।
न तावद् भेदः, अनङ्गीकारात्।
व्यावहारिकभेदश्चानिर्वाच्यसिद्धौ वक्तव्यः।
नचाव्यावहारिकं किञ्चित्।
नचाशेषव्यवहारनिवृत्तौ किञ्चिन्मानम्।
नच मिथ्यातथ्ययोः सामान्यं व्यावहारिकत्वं धूमबाष्पयोर्धूमत्ववत्।
नचाभेदः, अनङ्गीकारादेव।
तथैवोभयम्।
अभेदे चानिर्वाच्यब्रह्मणोस्तच्छब्दयोः पर्यायत्वम्।
नच व्यावर्त्यविशेषेणापर्यायत्वं क्वचित्।
व्यावर्त्यविशेषस्तद्व्यावृत्ते ब्रह्मणि विशेषमापादयति चेत्, विशिष्टवाक्यार्थता।
न चेत्, न ब्रह्मज्ञानार्थिने पदान्तरं वाच्यम्।
असङ्गतत्वात्।
मिथ्याविशेषस्य चासिद्धिरुक्ता।
अतोऽन्योन्याश्रयताऽनवस्थितिश्चक्रकं वा।
भेदाभेदविलक्षणमप्युक्तरीत्यैवापाकृतम्।
किञ्च, ‘असद्विलक्षणम्’
इत्यत्राभावान्यविरोधानां
मध्ये नञः कोऽर्थः?
यद्यभावः, न।
असद्विलक्षणत्वं भावत्वमेव जगतः स्यात्।
नच सतोऽन्यस्मादसतो विलक्षणं जगत्।
असतोऽन्यत्वादिधर्मानङ्गीकारात्।
ब्रह्मणश्च।
असतोऽनिर्वचनीयत्वाङ्गीकाराच्च न वैलक्षण्यं ततोऽनिर्वाच्यस्य।
तथापि चेद्
वैलक्षण्यं नानिर्वाचनीयत्वं
जगतः।
नच विरोधः।
विरोधिनोरन्यतरनिषेधेऽन्यतरव्याप्तत्वानुभवात्।
‘अविद्यमानं न भवति’ इत्युक्ते विद्यमानमित्येव हि सर्वलोकानुभवः।
अतोऽनन्तगुणो भगवान् नारायण इति सिद्धम्।
श्रुतीनां सिद्धबोधकत्वसमर्थनम्
नच सिद्धेऽर्थे वाक्यस्य प्रामाण्याभावादीश्वराद्यसिद्धिः।
सिद्धातिरिक्तकार्याभावात्।
लिङाद्यर्थस्त्विष्टसाधनत्वमेव।
नहि कर्तव्यत्वं नामेष्टसाधनत्वादन्यत् किञ्चित्।
तन्मानाभावात्।
शब्दस्तु न तद् वक्तीत्युक्तम्।
लिङादेरिष्टसाधनार्थत्वेनैव कृतार्थत्वे तदन्यकार्यकल्पने कल्पनागौरवं च।
नच तत्कल्पकं किञ्चित्।
विप्रतिपत्तौ चान्यन्मानं वक्तव्यं तद्भावे।
नचानुमा।
अप्रसिद्धविशेषणत्वात्।
नचार्थापत्तिः।
अनुपपत्त्यभावात्।
कार्याभावादेव
कार्यान्वयिनि
व्युत्पत्तिरित्यादि दूरतो निरस्तम्।
कार्यान्विते व्युत्पत्तिरिति वदतोऽकार्यान्विते व्युत्पत्तिरित्युक्ते किमुत्तरम्?
अध्याहार इत्युक्ते लोप इत्युत्तरम्।
अशेषसिद्धपदानामर्थलोपाल्लिङाद्यर्थमात्रलोप एव
गरीयान्।
‘हससि’ ‘हसामि’ इत्यादिसिद्धार्थ एव बालानां व्युत्पत्तेः।
प्रथमप्राप्तत्वान्न तत्त्यागे कारणम्।
तथैव व्युत्पत्तिदर्शनाच्च।
अतः सिद्धार्थे प्रामाण्यसिद्धेश्च सिद्धं महागुणवत्त्वं विष्णोः।
महानाम्नीनां व्याख्यानम्
वि॒दा म॑घवन् वि॒दा गातुमनु॑शंसिषो॒ दिशः॑।
शिक्षा॑ शचीनां पते पूर्वी॒णां पु॑रूवसो॥ १॥
ताश्च
विदा मघवन्
इत्याद्याः।
हे
मघवन्
धनवन् यशस्विन् मखपत इति वा।
“तं वा एतं
मखवन्तं
सन्तं मघवानित्याचक्षते परोक्षेण।
परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः”,
“तेभिरिन्द्रं चोदय दातवे मघम्”,
ऋग्वेदसंहितायां ९/७५/५
“तन्न आयातु मघाय।
यशो वाव मघम्।
मघमनु प्रापत्सि”,
“आ मामेतु मघम्।
मघमनु प्रापत्सि।
धनं वाव मघम्”
इत्यादिश्रुतिभ्यः।
गातुं
त्वां स्तोतुम्।
विद
वेदयेति सामान्यतोऽपेक्षिताशेषवेदनमुक्त्वा तात्कालिकापेक्षितं प्रार्थयति-
गातुं विदेति॥
त्वमेव
अनुशंसिषो दिशः
मार्गान्।
आत्मनः
स्तुतिप्रकारांस्त्वमेवोपदिशेत्यर्थः।
पूर्वीणां
भगवत्सम्प्रदायागतानां परमविद्यानामर्थे
शिक्ष।
शचीनां
विद्यानां
पते
वाचां पत इति वा।
पुरूवसो
बहुवित्त बहुज्ञानेति वा।
बहुषु वसति बहूनामावास इति वा॥
आ॒भिष्ट्वम॒भिष्टि॑भिः॒ प्रचे॑तन॒ प्रचे॑तय।
इन्द्र॑ द्यु॒म्ना॑य न इ॒ष ए॒वा हि श॒क्रः॥ २॥
आभिरभिष्टिभिः
एवम्भूतैस्त्वत्पर्येषणैस्त्वत्प्रार्थनैः कञ्चिन्मदादिकं
प्रचेतय
प्रबोधय।
प्रकृष्टचेतन सर्वज्ञ परमात्मन्।
द्युम्नाय
ज्ञानाय वित्ताय यशसे वा।
इषे
अन्नाय च
नः
प्रबोधय।
एतादृशो
हि शक्रः।
शक्र एव
इति वा।
शक्तिरतिरूपत्वात्
शक्रः॥
२॥
रा॒ये वाजा॑य वज्रिवः॒ शवि॑ष्ठ वज्रिन्नृ॒ञ्जसे॑।
मंहि॑ष्ठ वज्रिन्नृ॒ञ्जस॒ आ या॑हि॒ पिब॒ मत्स्व॑॥ ३॥
राये
वित्ताय
वाजाय
अन्नाय, वज्रिणम् इन्द्रं वर्तयतीति
वज्रिवः,
नियामकत्वेन गच्छतीति वा,
शविष्ठ
बलवत्तम सुखवत्तमेति वा,
ऋञ्जसे
प्रेरयसि सर्वान्।
मंहिष्ठ वज्रिन्नृञ्जस
इत्यभ्यासस्तात्पर्यार्थः।
मत्स्व
मदं कुरु॥ ३॥
वि॒दा रा॒यः सु॒वीर्यं॒ भुवो॒ वाजा॑नां॒ पति॒र्वशाँ॒अनु॑।
मंहि॑ष्ठ वज्रिन्नृ॒ञ्जसे॒ यः शवि॑ष्ठः॒ शूरा॑णाम्॥ ४॥
विद
वेदय लम्भय
रायः सुवीर्यं
च
वाजानां प्रजानां पतिः भुवः
अभवः।
“प्रजा वै वाजः”
ऐतरेयारण्यके २/२/२
इति श्रुतेः।
वशाँअनु
यथावशम्।
“वश इच्छायाम्”
इति धातोः, यथावशं यथेच्छम्।
शूराणां
सकाशाद् बलवत्तमः॥ ४॥
यो मंहि॑ष्ठो म॒घोनां॑ चिकि॒त्वो अ॒भि नो॑ नय।
इन्द्रो॑ विदे॒ तमु॑ स्तुषे व॒शी हि श॒क्रः॥ ५॥
मघोनां
यशस्विनां महत्तमः
चिकित्वः
ज्ञातः कर्तरिति वा,
नः
अभितः सर्वतो
नय।
इन्द्रो विदे
समस्तं व्यजानात्।
तम्
एव
स्तुषे॥
५॥
तमू॒तये॑ हवाम॒हे जेता॑र॒मप॑राजितम्।
स नः॑ प॒र्षदति॒ द्विषः॒ क्रतु॑श्छ॒न्द ऋ॒तं बृ॒हत्॥ ६॥
ऊतये
रक्षायै, अभिप्रायसिद्धये वा।
स नो द्विषः
शत्रून्
अति
पारयतु पापानि तमांसि वा।
क्रतुः
ज्ञानरूपः।
छन्दः
इच्छारूपः।
छन्द्यत्वात्, छादनत्वाद् वा।
ऋतम्
अशेषशास्त्रावगतम्॥ ६॥
इन्द्रं॒ धन॑स्य सा॒तये॑ हवामहे॒ जेता॑र॒मप॑राजितम्।
स नः॑ प॒र्षदति॒ द्विषः॒ स नः॑ प॒र्षदति॒ स्रिधः॑॥ ७॥
सातये
लब्धये।
स्रिधः
विनाशान्॥ ७॥
पूर्वस्य॒ यत् ते॑ अद्रिवः सु॒म्न आ धे॑हि नो वसो।
पू॒र्तिः श॑विष्ठ श॒स्यत॒ ईशे॒ हि श॒क्रः॥ ८॥
पूर्वस्य
अनादेः सतः
ते
सकाशाद् यत् सुम्नं सुखं तस्मिन्
नः आधेहि।
तव
पूर्तिः शस्यते॥
८॥
नू॒नं तन्नव्यं॒ सन्न्य॑से॒ प्रभो॒ जन॑स्य वृत्रहन्।
सम॒न्येषु॑ ब्रवावहै॒ शूरो॒ यो गोषु॒ गच्छ॑ति॒
सखा॑ सु॒शेवो॒ अद्व॑याः॥ ९॥
तन्नव्यं
स्तुत्यं ब्रह्म तत् सम्यग्घृदि न्यसे जनस्योपदेशेन।
त्वत्स्वरूपेषु त्वं चाहं च
सं ब्रवावहै।
गोषु
ज्ञानेषु
गच्छति
ज्ञानविषयो भवति।
सुशेवः
सुसुखः
समाधिकवर्जितः
अद्वयः॥
ए॒वा ह्ये॒वैवा॑ ह्यग्ना३इ॥ १॥
ए॒वा ह्ये॒वैवा॑ ही॒न्द्रँ॥ २॥
ए॒वा ह्ये॒वैवा॑ हि वि॒ष्णा३उ॥ ३॥
ए॒वा ह्ये॒वैवा॑ हि पूषन्॥ ४॥
ए॒वा ह्ये॒वैवा॑ हि देवाः॥ ५॥
ए॒वा हि श॒क्रो व॒शी हि श॒क्रो वशाँ॒अनु॑॥ ६॥
एवा ह्येवैवा हि
इत्यग्न्यादिदेवतानां संवादरूपेणोक्तमर्थमतिशयेनावधारयति।
अभ्यासो हि तात्पर्यार्थः।
एवं हि एवमेव हीत्यर्थः।
“विनिश्चिते तु संवादे विभागो रङ्ग एव च”
इति शब्दनिर्णये।
अतः
अग्ना३इ
इत्यादि।
एवमेव
हि शक्रः।
वशाँअनु
यथावशं स्वतन्त्रो वर्तत इत्यर्थः॥
आयो॒मन्या॑य म॒न्यव॒ उपो॒मन्या॑य म॒न्यवे।
उ॒पेहि॑ वि॒श्वध॑॥ १०॥
वि॒दा म॑घवन् वि॒दो३म्॥ ७॥
“अय पय गतौ”
इति धातोः आयो इत्यायतिः।
उपो इतिवदतिशयार्थ ओकारः।
“ओ अतिशये”
इति च सूत्रम्।
आयो जानातीत्यायोमन्यः, समीपस्थमपि जानातीत्युपोमन्यः।
अन्येषामिन्द्रियाणां पराङ्मुखत्वान्नह्यान्तरं जानन्ति।
अयं त्वान्तरमप्यापरोक्ष्येण पश्यति।
अयनेन प्राप्यं
दूरस्थम् आयो इति वा।
“मनु अवबोधने”
इति धातोर्मन्युरिति ज्ञानी, बाह्यज्ञाय ज्ञानिने आन्तरज्ञाय ज्ञानिने
इत्यभ्यासो हि तात्पर्यार्थः।
एवंविधं मद्गतं त्वामुद्दिश्यैव
उपेहि।
विश्वध
विश्वधारक।
समीपतो दूरतश्च त्वां मन्यमानाय मह्यं
मन्यवे
ज्ञानाय माम्
उपेहि
इति वा।
“समीपे दूरतोऽभिज्ञं त्वामुद्दिश्यैव मद्गतम्।
एहि विष्णो न मे शक्तिस्त्वदाह्वाने हि मामुप।
इति ब्रह्माऽस्तुवद् विष्णुं तन्नाभ्युत्थितपद्मगः॥”
इति पाद्मे।
“समीपे दूरतश्चैव ध्यायन्तं त्वां सदा विभो।
मामेहि ज्ञानदानायेत्याह गाधिसुतो हरिम्॥”
इति स्कान्दे।
“ओतमस्मिन् जगद् यस्मादोमित्युक्तो हरिः सदा।
तमेव जगदाधारं
यतयः पर्युपासते॥”
इति मान्यसंहितायाम्।
महानाम्नीशब्दार्थसमर्थनम्
“इन्द्रो वा एताभिर्महानात्मानं निरमिमीते”
ऐतरेयब्राह्मणे ५/७
इत्यस्याप्युक्त एवार्थः।
निर्माणं नामात्मनस्तद्व्याख्यानेन ख्यापनम्।
नह्यन्यथा तासां करणत्वं भवति।
“यस्तद् वेद स पितुष्पिताऽसत्”
इति श्रुतिः।
“त्रीणि पदा निहिता गुहासु यस्तद् वेद स पितुष्पिताऽसत्”
महानारायणोपनिषदि २/४
“स्त्रियः सतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वान्नविचेतदन्धः।
कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात् स पितुष्पिताऽसत्॥”
तैत्तिरीयारण्यके अरुणप्रश्ने ५१-५२
इत्यादिश्रुतिभ्यो विज्ञानमेव तन्निर्माणम्।
“इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः”
ऋग्वेदसंहितायां ४/५८/४
इत्यादेर्विज्ञापनं वा।
उपसर्गार्थः
“प्रचेतन”,
“प्रचेतय”,
“आ याहि पिब मत्स्व”,
“क्रतुश्छन्द ऋतं बृहत्”,
“सुम्न आ धेहि नो वसो”
इत्युपसर्गाः।
अंशा अप्यंश्यपेक्षयोपसर्गा भवन्ति।
उपसृष्टत्वादुपसर्गाः।
“अन्तर्गतं बहिर्गतं च द्विधा स्यादुपसर्जनम्।
हस्तवद्धेतिवच्चैव पदानां चोपसर्गवत्॥”
इति शब्दनिर्णये।
“अधत्तान्यं जठरे प्रेमरिच्यत प्रचेतन”
(१)
“दाता राधः स्तुवते काम्यं वसु प्रचेतय”
(२)
“अस्माकं बोधि
चोदिताऽऽयाहि
पिब मत्स्व”
(३)
“तं त्वा परिष्वजामहे क्रतुश्छन्द ऋतं बृहत्”
(४)
“या ते रातिर्ददिर्वसु सुम्न आ धेहि नो वसो”
(५) इत्युपसृजति।
प्रशंसावाक्यार्थः
अशेषमहानाम्न्यर्थसंस्मरणपरिज्ञानपूर्वकमुपसर्गसंयोजनं
कर्तव्यमित्येतदर्थत्वेन महानाम्नीप्रशंसा क्रियते।
अन्यथा तावन्मात्रप्रशंसामृतेऽशेषमहानाम्नीप्रशंसाया व्यर्थत्वात्।
तृचविभागेन
“विदा मघवन्…”,
“तमूतये…”,
“नूनं…”
इति वा तिस्रो महानाम्न्यः।
“प्रथमा या महानाम्नी तद्वाच्यः पार्थिवो हरिः।
द्वितीयाया आन्तरिक्ष्यस्तृतीयाया द्युगः प्रभुः॥”
इत्यृक्संहितायाम्।
“तृचास्तिस्रो महानाम्न्यः पञ्चर्चा प्रथमा परा।
तृचा द्व्यृचा च निगदैस्तार्तीया सप्तभिर्युता।
इति त्रेधा विभागः स्याज्जपध्यानादिकर्मसु॥”
इति च।
“त्रिलोकगेन हरिणा निर्मितः षोळशी क्रतुः।
एवं ज्ञात्वा हरिं तं च कर्म कुर्वन् न जायते॥”
इति प्रवृत्ते।
“एवा ह्येवैवा हि”
इत्यस्यार्थोऽप्युक्तावधारणरूपत्वात्
पूर्वोक्तार्थपरिज्ञानं विना न स्मर्तुं शक्यते।
एवं निर्मितेन
षोळशिनर्द्धो
भवत्येवंवित्।
शस्त्रशेषव्याख्यानम्
प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं म॒न्दद्वी॑रा॒येन्द॑वे।
धि॒या वो॑ मे॒धसा॑तये॒ पुर॒न्ध्याऽऽवि॑वासति॥ १॥
प्रप्र वः।
हे ऋत्विजः प्रजा वा,
वस्त्रिष्टुभमिषं
त्रिष्टुभाख्यमन्नमिन्द्रः परमेश्वरः सोमाय
आविवासति।
पुरन्ध्या धिया
अशेषप्राणिदेहाश्रयया स्वबुद्ध्या
प्रप्र
प्रकर्षेणप्रकर्षेण,
अतितरां
शंस्यमाना त्रिष्टुप्
प्रीतिं करोति सोमपानार्थमित्यर्थः।
मन्दद्वीराय
तस्य वीरस्य परमेश्वरस्य
मन्दं प्रीतिं करोतीति
मन्दद्वीरः सोमः।
नत्वात्मप्रयोजनाय प्रीतिं करोति।
किन्तर्हि?
वो मेधसातये
यज्ञसिद्ध्यर्थम्।
वः
इति गुरुत्वादीश्वरं प्रत्येव वा बहुवचनम्।
तदा
वः
अन्नं
त्रिष्टुभं वो मेधसातये
भवद्दैवत्ययज्ञसिद्ध्यर्थं भवान्
प्रप्राविवासति
इत्यर्थः॥
न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम्।
पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि॥ २॥
नदं वः।
ओदतीनाम्
उन्दनकर्त्रीणां
वः
अपां भवदीयानां
पतिं वः
पुरुषं प्राणं
नदं
नदनकर्तारं प्रति
इषुध्यसि
पतिर्भवसि।
सृष्टौसृष्टौ योयः प्राणस्तन्तं प्रति पतिर्भवसीति
नदम्
इति पुनर्वचनम्।
योयुवतीनां
गमनशीलानाम् आकाशे पोप्लूयमानानाम्
अघ्न्यानां
धूमरूपेणादाह्यानां रेतोरूपेणाजराणां वा,
धेनूनां
जगत्पोषकाणाम्।
“धिनु पुष्टौ”
इति धातोः।
“ता नदेन विहरति”
ऐतरेयारण्यके १/३/५
इत्यादिश्रुतेः।
पयसा सेचकानां देशाद् देशान्तरगमनशीलानाम्
अघ्न्यानां
हन्तुमयोग्यानां
धेनूनां
गवां
पतिं
वायुं प्रति
इषुध्यसि
इति वा।
“वायुर्वाव गवां पतिः”
इति श्रुतेः।
धेनुशब्दाच्च।
ओदतीनां
भक्त्या सेचकानां
योयुवतीनाम्
अतिशयेनात्मतत्त्वावगमकानाम्
अघ्न्यानां
नित्यानां
धेनूनां
धर्मार्थकाममोक्षपोषकाणां वाचां
पतिं
वायुं प्रति पतिर्भवसीति वा।
“वाचं धेनुमुपासीत।
तस्याश्चत्वारः स्तनाः।
स्वाहाकारो वषट्कारो हन्तकारः स्वधाकार इति।
तस्या द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च।
हन्तकारं मनुष्याः।
स्वधाकारं पितरः।
तस्याः प्राण ऋषभो मनो वत्सः”
बृहदारण्यकोपनिषदि ७/१०/१
इत्यादिश्रुतिभ्यः।
ता अ॑स्य॒ सूद॑दोहसः॒ सोमं श्रीणन्ति॒ पृश्न॑यः।
जन्म॑न् दे॒वानां॒ विश॑स्त्रि॒ष्वारोच॒ने दि॒वः॥ ३॥
ताः। ताः पृश्नयः
आपो गावो वाचो वा
अस्य सूददोहसः
प्राणस्य वायुस्थस्य परमेश्वरस्य
सोमं श्रीणन्ति।
अद्भिर्हि संसृष्टो भवति सोमः, पयआदिना वा श्रुतो भवति, मन्त्रैर्वा गृह्यते।
“अथ सूददोहाः प्राणो वै सूददोहाः”
ऐतरेयारण्यके १/४/१
इति श्रुतिश्च।
शोभनम् उदं= कर्म ज्ञानं वा दोग्धीति सूददोहाः।
उदेति= उच्चो भवति अनेन पुरुष इत्युदं= ज्ञानादि।
“मनो वाव सोमः।”
तद् वाचः
श्रीणन्ति
स्वार्थैः।
प्रश्नयोग्यत्वात्
पृश्नयो
वाचः।
प्रशंसनरूपत्वात् प्रशंसनीयत्वाद् वा।
प्रशंसनीयत्वमेवापां गवां च।
देवानां
जन्मनि यज्ञे।
तत्र हि तेषामभिव्यक्तिः।
पूर्वं ज्ञाने वा।
विशः
प्रजाश्च
श्रीणन्ति।
मुख्यतस्त एव श्रीणन्तीति चशब्दवर्जनम्।
दिवस्त्रिषु
आरोचनेषु आदित्यचन्द्रविद्युत्पर्यन्तं स्थितानां
देवानां
जन्मनि।
“यज्ञो वै देवजन्म तत्र हि देवाः प्रादुर्भवन्त्या सूर्याचन्द्रमसावा विद्युतं ते वै लोकानधिश्रिताः”
इत्यादिश्रुतेः।
“द्यौर्वाव विद्युत् तत्पतिं वायुमुपगम्य तेनैव परमुपगच्छति सैषा ब्रह्मलोके विराजते”
इत्यादिश्रुतेर्द्यौरेव विद्युत्।
अर्च॑त॒ प्रार्चत॒ प्रिय॑मेधासो॒ अर्च॑त।
अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्वर्च॑त॥ ४॥
अर्चत।
अर्चनं यज्ञादि।
प्रार्चनं ज्ञानध्यानादि।
“श्रेयान् द्रव्यमयाद् यज्ञाज्ज्ञानयज्ञः परन्तप”🔗
गीतायां ४/३३
इति भगवद्वचनात्।
प्रिययज्ञाः
अर्चत,
प्रियज्ञानाः
प्रार्चत।
पुत्रकाः
अल्पज्ञाना
अप्यर्चत।
“न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।🔗
जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्॥”🔗
गीतायां ३/२६
इति च।
उतशब्दाज्ज्ञानिनामप्यर्चनं युक्तं स्वाश्रमानुसारेणेति।
“अधा ते विष्णो विदुषा चिदर्घ्यः स्तोमो यज्ञश्च राध्यो हविष्मता”
ऋग्वेदसंहितायां १/१५६/१
इति श्रुतेः।
किं तदर्चनीयम्?
धृष्णु
धृष्टं परं ब्रह्म वासुदेवाख्यम्।
पुरं
देहं
नार्चत।
“प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे।
प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने॥”
भागवते ४/३/२२
इति भागवते।
“सदेहमानिहरये प्रणमेत् केवलाय वा।
न देहाय न तन्मानपराय च कथञ्चन॥”
इति व्यासस्मृतौ।
पुनः
“अर्चत”
इति तात्पर्यार्थे।
अव॑ स्वराति॒ गर्गरो गो॒धा परि॑ सनिष्वणत्।
पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा॑य॒ ब्रह्मोद्य॑तम्॥ ५॥
गर्गरगोधापिङ्गादीनां घोषा अपि नादमात्रव्यञ्जकत्वेन भगवद्वाचका एवेत्याह-
अव स्वराति गर्गर इत्यादिना॥
एतत् समस्तम्
इन्द्राय
एवेत्यर्थः।
ब्रह्म
वेदो विशेषत इन्द्रायैवोद्यतः।
गर्गरः
इति पादभूषण-महामत्रक-दधिपात्र-हस्तिहस्तानां नाम।
पिङ्गा
चकोरी।
‘अव’, ‘परि’
इत्यल्पाधिक्यादिविशेषोऽपि तद्वाचक एवेति ज्ञापनाय।
चनिष्कदत्
इत्यनुकरणशब्दः।
सनिष्वणत्
इत्यतिशयार्थे।
“ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः
ऐतरेयारण्यके २/२/२
प्राण एव प्राण ऋच इत्येव विद्यात्”
इति श्रुतिः।
“दध्नो मथनशब्दश्चाप्यन्तर्नादस्वरूपतः।
भीषकत्वं हरेर्ब्रूयादन्तर्नादो हि भीषणे।
गजबृंहितमप्येवं धिक्कारसहितं वदेत्।
स्वरितेन समायोगाद् धिक्कृतौ स्वरितो यतः।
महामत्रं जलाद्यैश्च युक्तमेतादृशं वदेत्।
पादभूषा च धिक्कारं तत्कृतं
स्वरितं
वदेत्।
अद्भुतत्वं हरेर्वक्ति पिङ्गा कण्ठगशब्दवत्।
तामेवाद्भुततां वक्ति गृहगोधा पराऽपि च॥”
इति शब्दतत्त्वे।
आ यत् पत॑न्त्ये॒न्यः॑ सु॒दुघा॒ अनपस्फुरः।
अ॒प॒स्फुरं॑ गृभायत॒ सोम॒मिन्द्रा॑य पात॑वे॥ ६॥
यत्
च
एन्यः
नद्यः
आपतन्ति
तद्घोषश्चेन्द्रवाचकः।
“नदीसमुद्रघोषाश्च नादत्वाच्छ्रैष्ठ्यवाचकाः।
नादो हि श्रैष्ठ्यवाची स्यादेवं घोषाः परेऽपि च॥”
इति।
तदर्थं च नद्य आपतन्ति।
“भूतादिभूतोऽम्बुनिधानमध्ये भूत्वा हरिः सर्वहरोऽतिधाम्ना।
अगाधमम्भो विदधाति भस्म यो बाडवाग्निर्नृहरिर्विचिन्त्यः॥”
इति वैहायससंहितायाम्।
सुदुघाः
सुष्ट्वपां दोहनकर्त्र्यः।
स्फुरणापगमनमासां नास्तीति
अनपस्फुरः
नित्यचलनस्वभावाः।
अपगतस्फुरणत्वेन
सोमं गृभायत।
अचलत्वेन मनो वा॥
यो व्यतीँ॒रफा॑णय॒त् सुयु॑क्ताँ॒ उप दा॒शुषे।
त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत॥ ७॥
व्यतीन्
विशेषेणाधिकान् देवान्
अफाणयत्
विस्तारयामास।
दाशुषे
यजमानाय तत्समीपे।
“फण विस्तारे”
इति धातोः।
सुयुक्तान्
सुयोगरतान्।
“विशेषेणाधिकत्वेन व्यतयो देवताः स्मृताः।
नित्ययोगरताश्चैव नारायणपरायणाः।
त एव चेन्द्रियात्मानस्तान् विस्तारयतीश्वरः।
मनआदीन्द्रियाणां तु शक्तिविस्तार एव तु।
विस्तारो देवतानां स्याद् भक्तेषु हरिणा कृतः॥”
इति प्रकाशसंहितायाम्।
“चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत्”
ऋग्वेदसंहितायाम् १/१५५
इति श्रुतिः।
“स मेन्द्रो मेधया स्पृणोतु।🔗
अमृतस्य देव धारणो भूयासम्।🔗
शरीरं मे विचर्षणम्।🔗
जिह्वा मे मधुमत्तमा।🔗
कर्णाभ्यां भूरि विश्रुवम्”🔗
तैत्तिरीयोपनिषदि १/७
इति च।
“न देवा यष्टिमादाय रक्षन्ति पशुपालवत्।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम्॥”
भारते ५/३५/५१
इति भारते।
तक्वो
जगत्कर्ता।
“तक निर्माणे”
इति धातोः।
“न वर्तवे प्रसवः
सर्गतक्तः”
ऋग्वेदसंहितायाम् ३/३३/४
इत्यादिप्रयोगाच्च।
नेता
च सर्वस्य।
तत्
एव
वपुः
सः।
यत् तत् जगत्कर्तृनेतृरूपम्।
“देहदेहिविभागश्च न क्वचित् परमेश्वरे।
गुणतद्वद्विभागो वा नेह नानेति
च श्रुतेः
॥”
इति पाद्मे।
“तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद् विभाति”🔗
आथर्वणोपनिषदि २/२/१०
“सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः।
ज्ञानज्ञानः सुखसुखः स विष्णुः
परमोऽक्षरः
॥”
इत्यादिश्रुतेश्च।
“विशुद्धविज्ञानमरीचिमालया
सचित्ररत्नप्रकरप्रकाशया।
प्रकाशिताशेषजगत्स्वरूपया प्रभुः सदाऽऽह्लादतनुर्विभूषितः॥”
इति पुरुषोत्तमसंहितायाम्।
उपमा
उपमायाम् उपमाविषये
अमुच्यत
त्यक्तोऽभवत्।
निरुपम इत्यर्थः।
“अल्पाक्षरेण शक्येऽपि वक्तुं बह्वक्षरं यदि।
उक्तस्याधिक्यमेवात्र निषेधेऽशेषतो भवेत्॥”
इति शब्दनिर्णये।
अतीदु॑ श॒क्र ओ॑हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑।
भि॒नत् क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा॥ ८॥
विश्वा
विश्वान्
द्विषः
अज्ञानपापादीन् अतीत्य शक्तो विष्णुः स्वभक्तानतिवहत्येव हि।
“यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्”🔗
आथर्वणोपनिषदि ३/२/३
“तेषामहं समुद्धर्ता मृत्युसंसारसागरात्।🔗
भवामि नचिरात् पार्थ मय्यावेशितचेतसाम्॥”🔗
गीतायां १२/७
इत्यादिप्रसिद्धिमुशब्देनाह।
द्विषः
अतीत्य, अतिशयेनात्मानं
प्रत्योहत
इत्यतिशब्दद्वयार्थः।
ओदनम्
उन्दतेः कर्मबन्धनम्।
अभिनद् भगवान् कानीनो बादरायणः,
परः
परमात्मा,
गिरा
एव पच्यमानं परिपाककाले।
“संश्लेषादोदनं कर्म पच्यमानं गिरैव हि।
अभिनद् भगवान् व्यासः स्वभक्तानामशेषतः॥”
इति व्याससंहितायाम्।
अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न् नवं॒ रथ॑म्।
सप॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म्॥ ९॥
अर्भकः
इव स्थितः।
नवं रथम्
अध्यतिष्ठत्।
कुमारकः
कुत्सितमारकः।
अर्भक इव सूक्ष्मदेहः पूर्वम्पूर्वं देहं परित्यज्य नवन्नवं देहमध्यतिष्ठज्जीवमादाय।
“जीवदेहं परित्यज्य सह जीवेन चेश्वरः।
जीवस्यान्यशरीरं
च समुत्पाद्य विशत्यजः॥”
इति मान्यसंहितायाम्।
कुमारकः
इव
अर्भकः
सूक्ष्मदेह इति वा।
अर्भकः
सूक्ष्मदेहोऽपि
न कुमारकः
इति वा।
सपक्षत्
परिपक्वज्ञानादिगुणमकरोत्।
महिषं
महान्तं ब्रह्माणम्।
मृगं
मृगयन्तं स्वात्मानम्।
पित्रे
स्वस्मै
मात्रे
लक्ष्म्यै
विभुक्रतुं
पितृमातृविषये पूर्णज्ञानं पुनः पूरयामासेत्यर्थः।
“ज्ञानपूर्णं विधातारं मोक्षदानेन केशवः।
स्वपुत्रं पूरयामास महिषं महतां महान्॥”
इति प्रवृत्ते।
“प्रप्र वस्त्रिष्टुभमिषमर्चत प्रार्चत यो व्यतीँरफाणयदिति प्रज्ञाता अनुष्टुभः शंसति।
तद् यथेह चेह चापथेन चरित्वा पन्थानं पर्यवेयात् तादृक् तद् यत् प्रज्ञाता अनुष्टुभः शंसति।”
यथास्थिताः
प्रज्ञाताः।
इतस्ततः संयोजनं विना यथास्थितशंसनं पथः प्राप्तिः।
“स यो व्याप्तो गतश्रीरिव मन्येताविहृतं षोळशिनं शंसयेन्नेच्छन्दसां कृच्छ्रादवपद्या इत्यथ यः पाप्मानमपजिघांसुः स्याद् विहृतं षोळशिनं शंसयेद् व्यतिषक्त इव वै पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत् पाप्मानं शमलमप हन्त्यप पाप्मानं हते य एवं वेद।”
व्याप्तो
विशेषेणापन्नः।
अविहृतम्
असंसृष्टम्।
कृच्छ्रात्
अयथास्थितशंसननिमित्ताद् दुःखादवाग्गतिं गतश्रीकतामेव न प्राप्नुयाम्।
“विलोमः शत्रुजयकृत् संसर्गः पापनाशनः।
यथास्थितः श्रीकरः स्यात् स्वाध्यायः शंसनेऽपिच॥”
इति प्रवृत्ते।
“गतश्रियः श्रियोऽहानिं पापहानिं परस्य च।
संसर्गश्छन्दसां कुर्याच्छ्रियो वृद्धिं यथास्थितः॥”
इति स्वाध्यायतत्त्वे।
“किञ्चित्त्वे चोभयत्त्वे च संशये सदृशे तथा।
इवशब्दः प्रयुज्येत न्यक्कारेऽपिच पण्डितैः॥”
इति शब्दनिर्णये।
अतो गतश्रीत्वसंशयेऽपीत्यर्थः।
इतस्ततो विशेषेण संहृतं संयोजितं
विहृतम्।
“पापानां व्यतिषक्तत्वाद् व्यतिषक्तं विनाशकम्।
धनस्याव्यतिषङ्गेण व्यतिषङ्गोऽविनाशकः।
सदृशं सदृशस्यैव यतः स्यात् प्रविनाशकम्।
तथाऽप्यप्राप्तनाशस्य धनस्य बलवत्त्वतः।
शक्नुयान्न विनाशाय पापस्येच्छासमेधितम्।
संसृष्टं स्याद् विनाशाय नहीच्छा धनसङ्क्षये॥”
इति स्वाध्यायतत्त्वे।
अव्यतिषक्तत्वं च
मोक्षे वर्तत
इत्यत्रोभयार्थ इवशब्दः।
एवम्भूतेन शंसनेन
पाप्मानमपहन्ति।
शमलं
रागादिकं च।
पापस्य पृथगुक्तेः।
“शमलं पापमुद्दिष्टं रागद्वेषादिकं तथा।
अपराधश्च शमलं मलं च शमलं विदुः॥”
इति शब्दनिर्णये।
य एवम्
उपास्ते सोऽपि
पाप्मानमपहन्ति।
“ऋक्षु संसृज्यमानासु प्रोच्यमानं जनार्दनम्।
पुंसंसृष्टस्य पापस्य निहन्तारं विशेषतः।
तत्प्रसादेन मुक्तस्य पापासंसृष्टतामपि।
ध्यायन् कर्माणि कृत्वाऽपि मुच्यते सर्वपातकैः॥”
इति प्रवृत्ते।
मीमांसकादिमतनिरासः
नचैवमादिवाक्यानां स्वार्थे प्रामाण्याभावः।
सिद्धार्थे प्रामाण्यस्य साधितत्वात्।
अविरोधाच्च।
नच बह्वर्थेषु तात्पर्यकल्पने कल्पनागौरवम्।
वचनेनैव प्रतीयमानत्वादर्थस्य कल्पनाभावात्।
नच
वाचनिकस्तात्पर्यार्थ
इति विशेषः।
तन्मानाभावात्।
यत्र वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयते लौकिकवाक्येषु, न तत्र साक्षाद् वचनं बोधकम्।
वचनलिङ्गकानुमा हि सा।
विरोधादमुख्यवृत्तिर्वा, आप्तत्वनिश्चये।
आप्तत्वानिश्चये प्रामाण्यमेव न भवति।
वेदवाक्यस्य तु वाचनिकार्थं विना नैवान्यो युज्यते।
वाचनिकानां तु बहूनामप्यविरोधे स्वीकार्यता।
“स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि”🔗
ब्रह्मसूत्रे ४/४/१६
इति सूत्रम्।
“वानात् सूतेर्देवनाद् वासुदेवो वासाद् द्युतेश्छादनात् क्रीडया च।
बलादसुत्वाद् दातृतो वर्तनाच्च तं वासुदेवं प्रवदन्ति वेदाः॥”
इत्यादि सौकरायणश्रुतिः।
मोक्षेऽपि सुप्तिरस्तीत्याशङ्कानिवृत्त्यर्थमेवान्यतरपदम्।
“रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेत्।
तत्रापि यौगिको मुख्यः सर्वत्रास्ति स वैदिके।
अनवस्थानिवृत्त्यर्थं यौगिके
रूढकल्पना।
ज्ञाते विशेषविज्ञानं व्यवहारोऽपि रूढितः॥”
इति ब्रह्मतर्के।
वाचनिकमर्थं परित्यज्य नियोगार्थकल्पने श्रुतहानिरश्रुतकल्पनेति सर्वदोषाधिकौ तस्य व्यर्थमापद्येते।
एवञ्च वदतो विधिशब्दा निरर्थकाः सिद्धार्था वा, सिद्धशब्दा वा स्वार्थे प्रमाणभूता इत्युक्ते किमुत्तरम्?
नच कारणं किञ्चिद् वाचनिकानां बहूनामप्यर्थानां त्यागे।
प्रतीयमाने तु विरोधे तदन्योऽर्थः स्वीकार्यो वाचनिक एव।
सोऽपि वाचनिक एवेत्यपि तत एव सिद्ध्यति।
“मुख्यार्थानां च सर्वेषां
तारतम्यं च
विद्यते।
तत्रापि परमो मुख्यो वाच्योऽशेषरवैर्हरिः।
तत्तन्मुख्याविरोधेन तदन्यार्थस्य सङ्ग्रहः।
स्वतो मुख्यविरोधे तु त्याज्योऽन्योऽर्थोऽखिलेष्वपि।
इति सर्वत्र नियमः शब्दार्थज्ञानभूमिषु॥”
इति च।
नच क्रियायामेव प्रयोजनं न सिद्ध इति युक्तम्।
ज्ञानमात्रेऽपि
महाप्रयोजनदर्शनात्
पितृजीवनादिवाक्ये।
आह च स्वयं भगवान्-
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।🔗
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥🔗
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।🔗
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥🔗
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः।🔗
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥🔗
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्।🔗
स सर्वविद् भजति मां सर्वभावेन भारत॥🔗
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।🔗
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥”🔗
गीतायां १५/१६-२०
इति।
“श्रेयान् द्रव्यमयाद् यज्ञाज्ज्ञानयज्ञः परन्तप”🔗
गीतायां ४/३३
इति च।
“ध्यानं त्वखिलकर्मभ्यो ध्यानाच्च ज्ञानमुत्तमम्।
न ज्ञानसदृशं किञ्चित् पुरुषार्थप्रसिद्धये॥”
इति प्रवृत्ते।
“दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय”🔗
गीतायां २/४९
इति च।
“अशेषकर्मपूगोऽपि न विष्णुध्यानलेशभाक्।
तच्च ध्यानं हरेर्ज्ञानकोट्यंशाय न पूर्यते॥”
इति कर्मविवेके।
“तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते”
तैत्तिरीयारण्यके ३/१२/७
इति च श्रुतिः।
नच कर्ममात्रे पर्यवसितिर्वेदस्य।
सुखज्ञानस्यैव प्रयोजनत्वात्।
अतः सिद्धस्यैव
प्रयोजनत्वं वाच्यम्।
प्रशंसादीनां च तात्पर्यं वाचनिकार्थात्यागेनैव कथितं स्वयं भगवता-
“भाक्तं वाऽनात्मवित्त्वात् तथाहि दर्शयति”🔗
ब्रह्मसूत्रे ३/१/७
इति।
तस्माद् विरुद्धवत् प्रतीयमानानि प्रशंसादीनि ज्ञानसहकार्यपेक्षया योजनीयानि।
पुराणादीनां तु श्रुत्यादिविरोधे गौणोऽप्यर्थो युज्यते।
“कुहकं चेन्द्रजालं च विरुद्धाचरणानि च।
दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर॥”
वराहपुराणे ७०/३७
इत्यादि वाराहे।
शिष्टस्य ब्राह्मणस्य ऋचां च व्याख्यानम्
“उद्यद् ब्रध्नस्य विष्टपमित्युत्तमया परि दधाति स्वर्गो वै लोको ब्रध्नस्य विष्टपं स्वर्गमेव तं लोकं यजमानं गमयत्यपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्यो वा एष सवनेभ्यः सन्निर्मितो यत् षोळषी तद् यदपाः पूर्वेषां हरिवः सुतानामिति यजति पीतवद् वै प्रातःसवनं प्रातःसवनादेवैनं तत् सन्निर्मिमीतेऽथो इदं सवनं केवलं त इति माध्यन्दिनं वै सवनं केवलं माध्यन्दिनादेवैनं तत् सवनात् सन्निर्मिमीते ममद्धि सोमं मधुमन्तमिन्द्रेति मद्वद्वै तृतीयसवनं तृतीयसवनादेवैनं तत् सन्निर्मिमीते सत्रा वृषन् जठर आवृषस्वेति वृषण्वद्वै षोळषिनो रूपं सर्वेभ्यो वा एष सवनेभ्यः सन्निर्मितो यत् षोळषी तद् यदपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्य एवैनं तत् सवनेभ्यः सन्निर्मिमीते सर्वेभ्यः सवनेभ्यः सन्निर्मितेन षोळशिना राध्नोति स एवं वेद।”
उ॒द्यद् ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिन्द्र॑श्च गन्व॑हि।
मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे॥
ब्रध्नस्य
सूर्यस्य
विष्टपं
स्वर्गं
उद्गन्वहि इन्द्रो
अहं
च।
यत्
तदिन्द्रगृहं ब्रध्नविष्टपं
मध्वः पीत्वा
तत्र
सचेवहि
सुखमनुभवाव।
सख्युः
इन्द्रस्य त्रिःसप्तस्थानेषु।
“एकविंशति दिव्यानि स्थानानि दिवि चक्रिणः।
वज्रिणो वाऽपि तद्भक्तैर्भुज्यन्ते तानि याज्ञिकैः॥”
इति प्रवृत्ते।
अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒म॑थो इ॒दं सव॑नं॒ केव॑लं ते।
म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ् ज॒ठर॒ आ वृ॑षस्व॥
पूर्वान् सुतान् प्रातःसवनगान् सोमान्
अपाः।
हरीन्= इन्द्रियाणि
वर्तयतीति
हरिवः,
हरिभिर्वर्तत इति वा।
इदं
माध्यन्दिनं
सवनं केवलं ते।
अथो
इत्यर्थान्तरम्।
मधुमन्तं सोमं जठर आवृषस्व
आसिञ्च।
ममद्धि
च।
सत्रा
अस्मत्त्राणेन सह।
पीतशब्दवत्।
अपूर्वपानत्वात् तदेव पानं
मुख्यमिति
पीतशब्दः।
इन्द्रस्य केवलत्वात् केवलं माध्यन्दिनं सवनम्।
ममद्धीति तृतीयसवनम्।
तत्र हि मदो विशेषतो भवति पूर्तेः।
इति सवनत्रयरूपता षोळशिनः।
वृषण्वत्
वृष्ण इन्द्रस्य विशेषतः प्रियत्वात्।
एवं चतूरूपता षोळशिनः।
राध्नोति
ऋद्धो भवति।
“अथातश्छन्दास्येव व्यति षजत्या त्वा वहन्तु हरय उपो षु शृणुही गिर इति गायत्रीश्च पङ्क्तीश्च व्यति षजति गायत्रो वै पुरुषः पाङ्क्ताः पशवः पुरुषमेव तत् पशुभिर्व्यति षजति पशुषु प्रति ष्ठापयति यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद् वज्ररूपान्नैति यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्युष्णिहश्च बृहतीश्च व्यति षजत्यौष्णिहो वै पुरुषो बार्हताः पशवः पुरुषमेव तत् पशुभिर्व्यति षजति पशुषु प्रतिष्ठापयति यदुष्णिक् च बृहती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद् वज्ररूपान्नैत्या धूर्ष्वस्मै ब्रह्मन् वीर ब्रह्मकृतिं जुषाण इति द्विपदां च त्रिष्टुभं च व्यतिषजति द्विपाद् वै पुरुषो वीर्यं त्रिष्टुप् पुरुषमेव तद् वीर्येण व्यति षजति वीर्ये प्रति ष्ठापयति तस्मात् पुरुषो वीर्ये प्रतिष्ठितः सर्वेषां पशूनां वीर्यवत्तमो यदु द्विपदा च विंशत्यक्षरा त्रिष्टुप् च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद् वज्ररूपान्नैत्येष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यति षजति द्विपाद् वै पुरुषो जागताः पशवः पुरुषमेव तत् पशुभिर्व्यति षजति पशुषु प्रति ष्ठापयति तस्मात् पुरुषः प्रतिष्ठितोऽत्ति चैनानधि च तिष्ठति वशे चास्य यदु द्विपदा च षोळशाक्षरा जगती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद् वज्ररूपान्नैति त्रिकद्रुकेषु महिषो यवाशिरं प्रो ष्वस्मै पुरोरथमित्यतिच्छन्दसः शंसति च्छन्दसां वै यो रसोऽत्यक्षरत् सोऽतिच्छन्दसमभ्यत्यक्षरत् तदतिच्छन्दसोऽतिच्छन्दस्त्वं सर्वेभ्यो वा एष च्छन्दोभ्यः सन्निर्मितो यत् षोळशी तद् यदतिच्छन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः सन्निर्मिमीते सर्वेभ्यश्छन्दोभ्यः सन्निर्मितेन षोळशिना राध्नोति य एवं वेद।”
विहृतपक्षे तु-
“पादान् व्यवधायार्द्धर्चशः शंसेत् पूर्वासां पूर्वाणि पदानि गायत्र्यः पङ्क्तिभिः पङ्क्तीनां तु द्वेद्वे पदे शिष्येते ताभ्यां प्रणुयादुष्णिहो बृहतीभिरुष्णिहां तूत्तमान् पादान् द्वौद्वौ कुर्याच्चतुरक्षरमाद्यं द्विपदाश्चतुर्धा कृत्वा प्रथमां त्रिष्टुभोत्तरा जगतीभिरुत्तमायाश्चतुर्थमक्षरमन्त्यं पूर्वस्याद्यमुत्तरस्यानुष्टुभमतिच्छन्दस्स्ववदध्यात् द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत उपदध्यात् प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्यामुत्तरास्वितरान् पादान् षष्ठान् कृत्वाऽनुष्टुप्कारं शंसेत्।”
महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्यो वा एष च्छन्दोभ्यः सन्निर्मितो यत् षोळषी तद्यन्महानाम्नीनां पञ्चाक्षरानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः सन्निर्मिमीते सर्वेभ्यश्छन्दोभ्यः सन्निर्मितेन षोळशिना राध्नोति य एवं वेद।
महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु
– “एवाह्येवा अपाः पूर्वेषां हरिवः सुतानाम्,
एवाहीन्द्रँ
अथो इदं सवनं केवलं ते, एवाहि शक्रो ममद्धि सोमं मधुमन्तमिन्द्र, वशी हि शक्रः सत्रा वृषञ्जठर आवृषस्वेति।”
ज्ञानभक्त्यादिसहितस्यैव कर्मणः साफल्यम्
भगवद्भक्तिज्ञानवैराग्यपूर्वकं च कर्म कर्तव्यम्।
“इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः।🔗
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वा
इमं लोकं हीनतरं वा विशन्ति॥”
आथर्वणोपनिषदि १/२/१०
“नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम्।
कुतः पुनः शश्वदभद्रमीश्वरे नचार्पितं कर्म यदप्यकारणम्॥”
भागवते १/५/१२
“यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।🔗
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥”🔗
गीतायां १८/४६
“त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।🔗
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान्॥”🔗
गीतायां ९/२०
“मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा।🔗
निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः॥🔗
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः।🔗
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥🔗
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।🔗
सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः॥”🔗
गीतायां ३/३०-३२
“तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः।
क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमोनमः॥”
भागवते २/४/१६
“एष उ एव दाश्वान्
य एवं वेद”
“यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति”
छान्दोग्योपनिषदि १/१/८
“परं भावमजानन्तो मम भूतमहेश्वरम्।🔗
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः॥”🔗
गीतायां ९/११-१२
“सर्वगुह्यतमं भूयः शृणु मे परमं वचः।🔗
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥🔗
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।🔗
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥”🔗
गीतायां १८/६४-६५
“विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्।
तिष्ठमानस्य तद्विदः”
बृहदारण्यकोपनिषदि ५/९/३४
इत्यादिश्रुतिस्मृतिभ्यः।
अन्तिममङ्गलाचरणम्
नमो नारायणायाजभवशक्रोष्णरुङ्मुखैः।
सदा वन्दितपादाय श्रीपाय प्रेयसेऽधिकम्॥
[-]
[-]
[-]
[-]
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः कर्मनिर्णयः [खण्डार्थनिर्णयापरनामा] सम्पूर्णः॥
Leave a Reply