उपोद्घातः
ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः।
स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ॐ॥ पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम्।
चतुर्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम्॥ *॥
मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते।
“ध्यायन् नारायणं देवं प्रणवेन समाहितः।
मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम्॥”
मृग्यम्
इति पाद्मे।
प्रथमः खण्डः
ओमित्येदक्षरमिदं सर्वम्।
तस्योपव्याख्यानं भूतं भवद् भविष्यदिति॥ १/१॥
सर्वमोङ्कार एव।
यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव।
सर्वं ह्येतद् ब्रह्म।
अयमात्मा ब्रह्म॥ १/२॥
“ओमित्युक्तं तु यद् ब्रह्म तदक्षरमुदाहृतम्।
ओतमत्र जगद् यस्मादों तस्माद् भगवान् हरिः।
तदिदं गुणपूर्त्यैव सर्वमित्येव शब्दितम्।
भाविभूतभवत्कालेष्वेकरूपतया हरिः।
सर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्तिता॥”
मृग्यम्
इति बृहत्संहितायाम्॥*॥
“ओमित्याक्रियते यस्मादोङ्कारोऽसावतः परः।
सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित्॥”
मृग्यम्
इति नैर्गुण्ये।
सर्वमोङ्कार एव
इत्यन्यस्य पूर्णत्वनिवारणम्।
त्रिकालातीतत्वं च तस्यैव।
प्रकृतेरपि त्रिकालातीतत्वं विद्यत इति
अन्यत्
इति विशेषणम्।
“परमं यो महद् ब्रह्म”
भारते १३/१४९/९
“तदेव ब्रह्म परमं कवीनाम्”
महानारायणोपनिषदि १/६
“पूर्णमदः पूर्णमिदम्”
बृहदारण्यकोपनिषदि ५/१/१
इत्यादिषु प्रसिद्धं च ब्रह्मणः पूर्णत्वमित्याह-
सर्वं ह्येतद् ब्रह्मेति॥
श्रीब्रह्मादिसकलदेहेषु स्थित्वाऽऽदानादिकर्ता योऽयं कश्चित् प्रतीयते, जीवानामस्वातन्त्र्यदर्शनात्, सोऽपि स एवेति दर्शयति-
अयमात्मा ब्रह्मेति॥
“पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन।
विना च प्रकृतिं नान्यत् कालातीतं परात्मनः।
कालश्चैव दिशो वेदाः प्रकृत्यात्मान ईरिताः।
अभिमानात् तु जीवानां न कालातीतता भवेत्।
मुक्तानामपि पूर्वत्र कालसम्बन्ध ईरितः।
पूर्णत्वं च सदा विष्णोः प्रसिद्धं सर्ववेदतः।
सोऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा।
आदानादनकर्तृत्वादात्मा तेषामगोचरः।
इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम्॥”
मृग्यम्
इति हरिवंशेषु॥*॥
सोऽयमात्मा चतुष्पात्।
जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः॥ १/३॥
“चतुर्धाऽवस्थितो देहे परमात्मा सनातनः।
वैश्वानरो जागरितस्थानगो गजवक्त्रकः।
निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः।
अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः।
मध्यमं तु गजाकारं चतुर्बाहुः परः पुमान्।
पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः।
स्थूलान् भोगानिन्द्रियैः स शुभान् भुङ्क्ते नचाशुभान्।
विश्वं स्थूलं समुद्दिष्टं सर्वगम्यत्वहेतुतः।
तत्सम्बन्धी नरोऽनाशाद् वैश्वानर उदाहृतः।
विनायकस्तु विश्वस्य ध्यानादैद् गजवक्त्रताम्।
तथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम्।
चतुर्ध्यानाच्च रुद्रत्वं रुद्र आप जनार्दनात्।
एवम्भूतगुणो विष्णुश्चतुरात्मा परात् परः॥”
मृग्यम्
इति महायोगे॥*॥
स्वप्नस्थानोऽन्तप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः॥१/४॥
“जाग्रद्दर्शनसंस्काररूपत्वात् स्वप्नगं तु यत्।
प्रविविक्तं तु तज्ज्ञानकारणोऽन्तर्ज्ञ उच्यते॥”
मृग्यम्
इति वाराहे॥*॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम्।
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः॥१/५॥
“सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः।
न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना।
कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम्।
चित्तस्थो दर्शयेत् तस्मात् तैजसः स्वप्नकृद्धरिः।
न बाह्यं ज्ञापयेद् यस्माद् प्राज्ञस्तेन जनार्दनः।
एकीभावं व्रजेतां च तेन विश्वश्च तैजसः।
एकीभूतस्तदा प्राज्ञो घनो जीवस्तमोवृतः।
तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात्॥”
मृग्यम्
इति प्रकाशिकायाम्।
आनन्दमयः
पूर्णानन्दः।
चेतोमुखः
ज्ञानस्वरूपमुखः।
प्रज्ञानघनः
इति विपरीतसमासः।
“घनप्रज्ञः”
माण्डूक्योपनिषदि १/७
इति वक्ष्यमाणत्वात्।
विषयभोगं विनाऽऽनन्दमात्रभुक्त्वात्
आनन्दभुक्
इति विशेषः।
आनन्दमयचेतोमुखसर्वज्ञत्वसर्वेश्वरत्वादि चतुष्टयेऽपि समम्।
अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं चेतोमुखत्वं चोक्तम्॥*॥
एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्यामी।
एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्॥ १/६॥
एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिलक्षणः।
“परमात्मा चतूरूपः सर्वप्राणिशरीरगः।
विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते।
तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु।
चेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः।
मुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षणः।
तथाऽपि मुखशब्दोऽयं पूर्णत्वं सूचयेद् विभोः।
ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः॥”
मृग्यम्
इति मार्कण्डेये।
“पूर्णानन्दस्वरूपस्य क्रीडा भोगो नचान्यथा।
यथाऽऽदित्यस्य दीपेन न विशेषोऽस्ति कश्चन॥”
मृग्यम्
इति ब्रह्मतर्के॥*॥
अत्रैते श्लोका भवन्ति-
बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः।
घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः॥ १/७॥
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः।
आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः॥१/८॥
विश्वो हि स्थूलभुक् नित्यं तैजसः प्रविविक्तभुक्।
आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत॥ १/९॥
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम्।
आनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ॥१/१०॥
त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते॥ १/११॥
प्रभवः सर्वभावानां सतामिति विनिश्चयः।
सर्वं जनयति प्राणश्चेतोऽंशून् पुरुषः पृथक्॥ १/१२॥
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः।
स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता॥१/१३॥
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः।
कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः॥ १/१४॥
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे।
देवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहेति॥ १/१५॥
“प्रमाणस्य प्रमाणं च बलवद् विद्यते मुने।
ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः।
अत्र श्लोका भवन्तीति चकारैव पृथक्पृथक्॥”
मृग्यम्
इति गारुडे।
खण्डचतुष्टयेऽपि पृथक्पृथक्।
“प्रभवः सर्वभावानां विष्णुरेव न संशयः।
इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत्॥*॥
मृग्यम्
सर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः।
तां सृष्टिं बहुधा प्राहुर्ज्ञानिनोऽज्ञानिनस्तथा॥*॥
विष्णुर्विकृतिमायाति महदादिस्वरूपिणीम्।
तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः।
स्वप्नमायासरूपां च केचिदज्ञा जना विदुः॥*॥
अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत्।
उत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः।
पूर्णशक्तेः कुतो माया सार्वज्ञात् स्वप्नवत् कुतः।
सर्वदोषव्यतीतस्य विकारः कुत इष्यते।
तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम्।
यथार्थमेव सम्भूतमिति वेदवचोऽखिलम्।
केचित् कालत एवैतां सृष्टिमाहुरकोविदाः।
केचिद् रुद्राद् ब्रह्मणश्च प्रधानादिति चापरे।
विमूढाः सर्व एवैते यतो नारायणः परः।
सर्वकर्ता सर्वशक्तिरेक एव च नापरः।
प्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः॥*॥
तस्यापि विष्णोः सृष्टिं तु केचिदाहुरनैपुणाः।
अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः।
सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्त्या स्पृहा विभोः॥”
इति हरिवंशेषु॥*॥
॥ इति प्रथमः खण्डः॥
द्वितीयः खण्डः
नान्तःप्रज्ञं नबहिःप्रज्ञं नोभयतःप्रज्ञं नप्रज्ञानघनं नप्रज्ञं नाप्रज्ञमदृष्टमव्यवहार्यमलक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते।
स आत्मा स विज्ञेयः॥ २/१॥
“विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः।
मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते।
सम्यक् समाहितानां तु प्राप्तानां षोडशीं कलाम्।
अपरोक्षदृशां क्वापि तुरीयं दृश्यते पदम्।
अन्तर्बहिश्च सौप्तं च समाधिज्ञानमेव च।
बहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च।
यदा भवति साऽवस्था ह्युभयज्ञानशब्दिता।
एतत् सर्वं तुरीयेण रूपेण न करोत्यजः।
सर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयकः॥”
मृग्यम्
इति ब्रह्माण्डे।
“अमुक्तस्य त्वदृश्यत्वाच्छोडशीं वा कलामृते।
तुरीयोऽदृष्ट इत्युक्तो ग्रहणादेरगोचरः।
विना मुक्तिं ततस्तेनाव्यवहार्य इतीरितः।
जाग्रदादिप्रवृत्तिस्तु लक्षणं ह्यनुमापकम्।
अलक्षणस्तद्राहित्यादचिन्त्यस्तत एव च।
तत एव ह्यनिर्देश्यश्चिदानन्दैकलक्षणः।
मुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः।
एकः प्रधान उद्दिष्ट आत्मा पूर्णत्वतः श्रुतः।
तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितः।
प्रत्ययो ज्ञानरूपत्वात् सार आनन्दरूपतः।
प्रपञ्चो विस्तृतेर्विष्णुः शम आनन्दरूपतः।
उत्कृष्टानन्दरूपत्वादुपशब्दः प्रकीर्तितः।
प्रपञ्चं देहबन्धाख्यं तुरीयः शमयेद् यतः।
प्रपञ्चोपशमस्तेनाप्युक्तः स भगवान् प्रभुः।
निर्दुःखसुखरूपत्वाच्छिवशब्दः श्रुतौ श्रुतः।
अन्यथाप्रत्ययो द्वैतं शमयेत् तं यतो हरिः।
अद्वैतस्तेन चोद्दिष्टस्तुरीयः पुरुषोत्तमः॥”
मृग्यम्
इति माहात्म्ये।
“अपेक्ष्य वस्तुयाथार्थ्यं द्वित्वमन्यस्वरूपता।
इण् गताविति धातोश्च तज्ज्ञानं द्वैतमुच्यते॥”
मृग्यम्
इति सङ्कल्पे।
“स आत्मा स विज्ञेयः”
माण्डूक्योपनिषदि २/१
इति
“सोऽयमात्मा चतुष्पात्”
माण्डूक्योपनिषदि १/३
इति चतुर्धा विभक्त उच्यत उपसंहारार्थम्।
“सोयमात्माऽध्यक्षरम्”
माण्डूक्योपनिषदि ३/१
इति पृथगारम्भात्।
“विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः।
निर्विशेषोऽपि भगवांश्चतुर्धा समुदीरितः॥”
मृग्यम्
इति प्रत्यये॥*॥
अत्रैते श्लोकाः भवन्ति-
निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः।
अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः॥ २/२॥
सर्वदुःखानां निवृत्तेः
कारणभूतस्तुरीयो
देवः।
“हरिस्तुरीयरूपेण मोक्षदः सम्प्रकीर्तितः।
देवः स सर्वजीवानां गम्यत्वात् समुदीरितः।
भावा जीवाः समुद्दिष्टा भवन्त्येते यतो विभोः।
ईशानामपि मुक्तानामीशानः सोऽननाच्छ्रुतः॥”
मृग्यम्
इति प्रत्याहारे॥*॥
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ।
प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः॥ २/३॥
“कार्यकारणबन्धस्य तदधीनत्वतो विभुः।
विश्वादिरूपो भगवान् बद्ध इत्युच्यते श्रुतौ।
कुतो बन्धः परस्यास्य बन्धेशस्य चिदात्मनः॥”
मृग्यम्
इति च।
“स बद्धः स दुःखी स बन्धयति स दुःखयतीति।
स जीवः स प्रकृतिः स जीवयति स प्रकरोतीति।
सोऽवरः सोऽनित्यः सोऽवरयति सोऽनित्ययति”
मृग्यम्
इति कौषारवश्रुतिः।
“विष्णोर्गुणोक्तिपरता मम नित्यं सुरेश्वराः।
तदर्थमन्यद् वचनमतस्तस्य विरोधि यत्।
तन्ममार्थो नहि क्वापि साऽहं तत्सरणात् सदा।
सरस्वतीति सम्प्रोक्ता तस्माज्ज्ञेया हरेर्गुणाः॥”
मृग्यम्
इति महोपनिषदि॥*॥
नात्मानं न परांश्चैव न सत्यं नापि चानृतम्।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा॥ २/४॥
“नात्मानं न परांश्चैव न सत्यं चापि नानृतम्।
प्राज्ञः संवेदयेत् किञ्चिज्जीवकालतमो विना।
सुप्त्यवस्थां सुखं चापि विना नान्यत् प्रदर्शयेत्।
सर्वं तु दर्शयेन्मुक्तौ तुरीयः परमेश्वरः॥”
मृग्यम्
इति प्रत्यये।
“स्वतन्त्रे कर्तृशब्दः स्यात् प्राज्ञस्यावेदनं यथा।
सर्वप्रदर्शके चैव तुरीये सर्वदर्शनम्॥”
मृग्यम्
इति ब्रह्मतर्के॥*॥
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः।
बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते॥ २/५॥
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः॥ २/६॥
“निद्रायुतास्तु विश्वाद्यास्तदधीना यतो हि सा।
यथा भृत्ययुतः स्वामी नह्यज्ञानं परात्मनः॥”
मृग्यम्
इति च।
“अभेदमपि तद् ब्रह्म बहुरूपं विशेषतः।
करोति न करोतीति व्यवहार्यं स्वशक्तितः॥”
मृग्यम्
इति च।
न संवेदयतीत्यस्वीकारे
“तुर्यं तत् सर्वदृक् सदा”
माण्डूक्योपनिषदि २/४
“द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः”
माण्डूक्योपनिषदि २/५
इति च विरुद्धम्।
द्वैतग्रहणाकारणत्वं तुल्यमित्यर्थः।
“द्वैतं न ग्राहयेत् तुर्यो नच प्राज्ञः कथञ्चन।
द्वैतग्रहणबीजं तु निद्रा प्राज्ञं समाश्रिता॥”
मृग्यम्
इति प्रकटश्रुतिः॥*॥
अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते॥ २/७॥
विपरीतज्ञानादपि विपरीतज्ञानान्तरं जायते॥*॥
अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते।
अजमनिद्रमस्वप्नमद्वैतं बुद्ध्यते तदा॥ २/८॥
“अनादिमायया विष्णोरिच्छया स्वापितो यदा।
तया प्रबोधमायाति तदा विष्णुं प्रपश्यति॥”
मृग्यम्
इति प्रकाशिकायाम्॥*॥
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः॥ २/९॥
“तन्वा स्वस्वामिसम्बन्धः प्रपञ्चोऽस्य शरीरिणः।
वस्तुतोऽसौ नचैवास्ति परमस्य वशे यतः।
तन्वादिकस्तथाऽप्येष ह्यभिमानात् प्रदृश्यते।
अतः स विद्यत इति ह्यङ्गीकारो भवेद् यदि।
तथाऽपि भगवज्ज्ञानात् स निवर्तेदसंशयः॥”
मृग्यम्
इति ब्रह्मतर्के।
अद्वैतम्
अनन्यथा ज्ञातं परब्रह्मादिवस्तु तत्।
द्वैतं
द्विधा ज्ञातमन्यथा ज्ञातमज्ञैः।
परमार्थतः
परमेश्वरात्।
तस्यैव
मायामात्रं
तदिच्छया निर्मितम्।
तदन्यथाज्ञानं तस्मात् तदिच्छयैव निवर्तते।
“परेण ब्रह्मणा यत् तु द्विधा न ज्ञातमञ्जसा।
तदद्वैतं परं ब्रह्म तदेव ज्ञातमन्यथा।
जीवेन द्वैतमुद्दिष्टं मिथ्याज्ञानं तदेव च।
परमार्थात् पराद् विष्णोर्जातमिच्छावशादनु।
मायेतीच्छा समुद्दिष्टा मायामात्रं तदुद्भवम्।
उत्तमत्वात् परार्थोऽसौ भगवान् विष्णुरच्युतः॥”
मृग्यम्
इति च।
अनन्यथा इतम् = अवगतम्, अद्वैतम्।
द्वैतं वस्तुस्वरूपापेक्षया द्विधा ह्यन्यथा ज्ञातमित्यर्थः॥*॥
विकल्पो विनिवर्तेत कल्पितो यदि केनचित्।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते॥ २/१०॥
अतो
विकल्पः
शरीरादिसम्बन्धः
केनचित्
अज्ञानादिना कारणेन
कल्पितः
अपि
उपदेशात्
निवर्तते।
अयं
सतां
वादः –
ज्ञाते
सति परब्रह्मणि
द्वैतम्
अन्यथाज्ञानं
निवर्तते
इति।
“विकल्पो देहबन्धादिः केनचित् कारणेन तु।
कल्पितो विनिवर्तेत गुरुवाक्यादसंशयः।
एष एव सतां वादो ज्ञाते ब्रह्मणि तत्त्वतः।
निवर्ततेऽन्यथाज्ञानं तत आनन्दमेत्यसौ॥”
मृग्यम्
इति च॥*॥
॥ इति द्वितीयः खण्डः॥
तृतीयः खण्डः
सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा अकार उकारो मकार इति॥ ३/१॥
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा।
आप्तेरादिमत्त्वाद् वा।
आप्नोति ह वै सर्वान् कामानादिश्च भवति।
य एवं वेद॥ ३/२॥
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा।
उत्कर्षादुभयत्वाद् वा।
उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति।
य एवं वेद॥ ३/३॥
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा।
मितेरपीतेर्वा।
मिनोति ह वा इदं सर्वमपीतिश्च भवति।
य एवं वेद॥ ३/४॥
अधिकं सर्वतोऽविनाशि चेति
अध्यक्षरम्।
अधिका एव मात्रा अंशा यस्य तत्
अधिमात्रम्।
अ इत्यनेनाभिधानेनाक्रियत इति
अकारः।
तत्र पूर्वोक्तो वैश्वानरः।
“प्रथमा मात्रा”
इत्याद्यनुवादः।
“अकारः”
इत्यादिकं विधेयम्।
प्राज्ञस्तैजसश्चादिरस्येत्यादिमान्।
सुप्तेरुत्थाने प्राज्ञाद् विभक्तो भवति विश्वः।
स्वप्नादुत्थाने तैजसात्।
आदिश्च
अस्योपासकस्य
भवति॥ *॥
शरीराभिमानादुत्थाप्य कर्षतीत्युत्कर्षः।
निद्रा विषयानुभवश्चानेन क्रियत इत्युभयत्वम्।
समानः
सर्वेषां मध्यस्थो
भवति॥ *॥
मितेः
अन्तर्गमनात्॥ *॥
“अधिकत्वाच्च नित्यत्वादध्यक्षरमुदाहृतः।
येऽंशास्तस्य तु सर्वेऽपि पूर्णाः प्रत्येकशः प्रभोः।
अतोऽधिमात्रमुद्दिष्टो मात्रा अंशा उदाहृताः।
श्रुतः स विष्णुरोङ्कार ओमित्याक्रियते यतः।
आद्यस्तदंशो ह्याप्तिः स्याद् विषयानापयेद् यतः।
जीवस्य तु यतः प्राज्ञात् तैजसाद् वा समुत्थितः।
अविभागोऽपि भगवानादिमांस्तेन कीर्तितः।
तस्मादुत्पद्यते मुक्तः सज्ज्ञानानन्दलक्षणः।
आप्नोति विषयान् सर्वान् निद्राया विषयस्य च।
उभयोः कारणत्वेन ह्युभयस्तैजसः स्मृतः।
देहाभिमानादुद्धृत्य कर्षति स्वप्नमण्डले।
उत्कर्षत्वं ततस्तस्य तज्ज्ञानी ज्ञाननित्यताम्।
आप्नोति देहादुत्कृष्य स्वात्मानं सर्वमोक्षिणाम्।
मध्यस्थः स भवेत् स्नेहाद् दोषाभावाच्च सर्वशः॥*॥
मृग्यम्
स्वात्मन्यन्तर्गमयति मानमन्तर्गतिः स्मृता।
जीवमन्तर्गतं कृत्वा तज्ज्ञानलयकृद् यतः।
प्राज्ञो मानमपीतिश्च तज्ज्ञोऽप्येवं विमुक्तिगः।
व्याप्त्याऽन्तर्गमयेत् सर्वं दुःखाद्यं तु विलापयेत्।
अणूनामपि जीवानां प्रकाशो व्यापको भवेत्।
अण्डमात्रे बहिश्चापि देवतानां यथाक्रमम्।
अतोऽन्तर्गमनं मुक्तौ जीवेषु जगतो भवेत्॥”
इति ब्रह्मतर्के।
अत्रैते श्लोकाः भवन्ति-
विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम्।
मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च॥ ३/५॥
तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम्।
मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम्॥ ३/६॥
मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम्।
मात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च॥ ३/७॥
त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितम्।
स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः॥ ३/८॥
अकारो नयते विश्वमुकारश्चापि तैजसम्।
मकारश्च पुनः प्राज्ञं नामात्रे विद्यतेऽगतिरिति॥ ३/९॥
मात्रासम्प्रतिपत्तौ
अंशध्याने।
आदिमत्वं विश्वस्य विद्यते।
तदुपासकस्यापि भवतीति
आदिसामान्यम्॥*॥
अमात्रे
अपि
अगतिर्न विद्यते।
प्रतिदिवसं विभाग एकीभावश्च विद्यते विश्वादीनाम्।
तुरीयस्य तन्न विद्यत इत्यमात्रः।
विश्वादीनां व्यवहारकारणत्वं विद्यते।
तुरीयस्य तन्न विद्यत इत्यतो गम्यत्वमपि नास्तीत्याशङ्कां निवारयति-
अगतिर्न विद्यत इति॥
“आत्मानं संविशति”
माण्डूक्योपनिषदि ४/१
इति गतिवचनात्।
“आदिमत्त्वेन सामान्यमुपास्येन भवेदिति।
उपासकस्य सञ्जानन् सर्ववन्द्यो भवेत् पुमान्।
सामान्यत्रयमप्येतत् तुल्यं मुक्तिगतत्वतः।
अमात्रत्वं तुरीयस्य त्वविभागाद् दिनेदिने।
जाग्रदादेरकर्ताऽपि गम्योऽसौ ज्ञानिनां भवेत्॥”
मृग्यम्
इति च।
“आदिमत्त्वादिसामान्यं तुल्यं मोक्षोपभोग्यतः।
अमात्रत्वं तुरीयस्याप्यविभागाद् दिनेदिने॥”
मृग्यम्
इत्यात्मसंहितायाम्॥*॥
॥ इति तृतीयः खण्डः॥
चतुर्थः खण्डः
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत ओङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद॥ ४/१॥
अत्रैते श्लोकाः भवन्ति-
ओङ्कारं पादशो विद्यात् पादा मात्रा न संशयः।
ओङ्कारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत्॥ ४/२॥
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम्।
प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित्॥ ४/३॥
प्रणवो ह्यपरं ब्रह्म प्रणवस्य परं स्मृतः।
अपूर्वोऽनन्तरोऽबाह्यो(ऽ)न-परः प्रणवोऽव्ययः॥ ४/४॥
सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम्॥ ४/५॥
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम्।
सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति॥ ४/६॥
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः।
स मुनिर्नेतरो जन इति॥ ४/७॥
आत्मैव
भूत्वाऽन्याभिमानं त्यक्त्वा परमात्मनैव परमात्मानं प्रविशत्युपासकः।
अव्यवहार्यत्वादिकमत्र सममिति दर्शयितुं पुनरप्युक्तमव्यवहार्यत्वादिकम्।
“तुरीयं नादनामानं हरिं ज्ञात्वा परं पदम्।
तमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान्।
ज्ञानानन्दौ च शक्तिश्च तथाऽपि न समाः क्वचित्।
विमुक्तस्यापि जीवस्य पारतन्त्र्यं च नित्यदा।
चतूरूपस्यास्य विष्णोर्नाम प्रणव इत्यपि।
जाग्रदादिप्रणयनात् स एव ब्रह्म बृंहणात्॥*॥
मृग्यम्
ओमित्याक्रियमाणत्वादोङ्कारः स प्रकीर्तितः।
आदिमत्त्वादयो ह्यर्था ओमित्यस्य श्रुतौ श्रुताः।
अपूर्वः कारणाभावान्नाशाभावादनन्तरः।
पराधीनस्थित्यभावादनपर उदाहृतः।
सर्वगत्वादबाह्यश्च तं ज्ञात्वा विप्रमुच्यते॥”
इति च॥*॥
“परत्वमपरत्वं च विष्णोरेकस्य वै यदा।
श्रूयते नतु सामर्थ्यभेदस्तत्र कथञ्चन।
अवतारस्य पूर्वत्वात् पौर्वापर्यमुदाहृतम्॥”
मृग्यम्
इति ब्रह्मतर्के।
पूर्वावतारे पश्चिमावतारेऽपि पूर्ण एवेति
“प्रणवो ह्यपरं ब्रह्म”
माण्डूक्योपनिषदि ४/४
इत्यादेरर्थः॥
॥ इति चतुर्थः खण्डः॥
ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः।
स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
॥ इति माण्डूक्योपनिषत् सम्पूर्णा॥
एकोऽपि निर्विशेषोऽपि चतुर्धा व्यवहारभाक्।
यस्तं वन्दे चिदात्मानं विष्णुं विश्वादिरूपिणम्॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं माण्डूक्योपनिषद्भाष्यं सम्पूर्णम्॥
Leave a Reply