मायावादखण्डनम्

मङ्गलाचरणम्
ॐ॥ नरसिंहोऽखिलाज्ञानमतध्वान्तदिवाकरः। जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः॥
मायावादस्यानारम्भणीयत्वानुमानम्
विमतमनारम्भणीयम्‌, अन्यथाप्रतिपादकत्वात्, यदित्थं तत् तथा, यथा सम्प्रतिपन्नम्।
अयथार्थप्रतिपादकत्वेनान्यथाप्रतिपादकत्वसमर्थनम्
नहि ब्रह्मात्मैक्यस्य याथार्थ्यं तत्पक्षे। अद्वैतहानेः स्वरूपातिरेके। अनतिरेके स्वप्रकाशत्वादात्मनः सिद्धसाधनता। निर्विशेषत्वाच्चात्मनो नानधिगतो विशेषः। सिद्धत्वात्‌ स्वरूपस्य विशेषाभावाच्च नाज्ञानं कस्यचिदावरकम्। अनधिगतार्थगन्तृ प्रमाणमिति च तन्मतम्।
विषयादिरहितत्वेनान्यथाप्रतिपादकत्वसमर्थनम्
अज्ञानासम्भवादेव तन्मतमखिलमपाकृतम्। मिथ्यात्वे चैक्यस्यातत्त्वावेदकत्वमागमस्य स्यात्। सत्यता च भेदस्य। एवमेव प्रयोजनमपि निरस्तम्। स्वरूपत्वान्मोक्षस्य पूर्वमेव सिद्धत्वात्। अज्ञानासम्भवेन चतुर्थप्रकाराभावात् पञ्चमप्रकारताऽपि निरस्ता। विषयप्रयोजनाभावादेवाधिकारी च। तदभावादेव सम्बन्धोऽपि।
विष्णुसर्वोत्तमत्वस्यैव शास्त्रप्रतिपाद्यत्वसमर्थनम्
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।🔗 क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥🔗 उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।🔗 यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥🔗 यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः।🔗 अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥🔗 यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्।🔗 स सर्वविद्‌ भजति मां सर्वभावेन भारत॥🔗 इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।🔗 एतद्‌ बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥”🔗 गीतासु १५/१६-२०
“इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।🔗 मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः॥🔗 महतः परमव्यक्तमव्यक्तात् पुरुषः परः।🔗 पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः॥”🔗 काठकोपनिषदि १/३/१०-११
“भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति”🔗 ब्रह्मसूत्रे ३/३/५९ इति विष्णोः पुरुषोत्तमत्वमेव सर्वशास्त्रार्थत्वेन भगवता श्रुत्या चाभिहितम्।
उपसंहारः
इति सर्वज्ञमुनिना मायावादतमोऽखिलम्। निरस्तं तत्त्ववादेन सतां संशयनुत्तये॥
“नास्ति नारायणसमं न भूतं न भविष्यति। एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्॥” भारते १/१/२८
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं मायावादखण्डनं सम्पूर्णम्॥

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *