उपोद्घातः
मङ्गलाचरणम्
नारायणं निखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम्। सर्वेश्वरं
गुरुमजेशनुतं
प्रणम्य वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य॥
प्रणव-व्याहृति-गायत्री-पुरुषसूक्त-वेदार्थः
ओमशेषगुणाधार इति नारायणोऽप्यसौ। पूर्णो भूतिवरोऽनन्तसुखो यद् व्याहृतीरितः॥ गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः। भारतिज्ञानरूपत्वाद् भर्गो ध्येयोऽखिलैर्जनैः। प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः॥ *॥ स पूर्णत्वात् पुमान् नाम पौरुषे सूक्त ईरितः। स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च॥ स एव सर्वशब्दार्थ इत्याहोपनिषत् परा। “ता वा एता ऋचः” छान्दोग्योपनिषत् ३/१/१ इति विशेषेणाप्यृगर्थताम्॥ “यो देवानाम्” ऋग्वेदसंहिता १०/८२/३ इति श्रुत्या देवनाम्नां विशेषतः। स्पष्टत्वात् तद्गतत्वेन … … … …
अग्निमीळ इति नवर्चम्॥ १॥
मधुच्छन्दा वैश्वामित्रः। अग्निः। गायत्री॥
अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म्। होता॑रं रत्न॒धात॑मम्॥ १/१॥
आद्यसूक्ततात्पर्यम्
… … … … … तत्राहाग्रेऽग्निनामकम्। अग्रणीत्वं यदग्नित्वमित्यग्रे नाम तद् भवेत्॥ एवमेवाह भगवान् निरुक्तिं बादरायणः॥ “यथैवाग्न्यादयः शब्दाः प्रवर्तन्ते जनार्दने। तथा निरुक्तिं वक्ष्यामो ज्ञानिनां ज्ञानसिद्धये॥” इति तेन …. …. …. …. …. …. …. ….
आद्यसूक्तार्थः
…. अग्निशब्दोऽयमग्र एवाभिपूज्यताम्। अग्र्यत्वमग्रनेतृत्वमत्तिमङ्गागनेतृताम्॥ आह तं स्तौम्यशेषस्य पूर्वमेव हितं प्रभुम्। ऋत्विङ्नियामकत्वेन यज्ञानामृत्विजं सदा॥ द्योतनाद् विजयात् कान्त्या स्तुत्या व्यवहृतेरपि। गत्या रत्या च देवाख्यं होतृसंस्थं विशेषतः॥ अग्निसंस्थेन रूपेण यतोऽग्निर्होतृदेवता। इन्द्रियाग्निषु चार्थानां यद्धोता होतृनामकः॥ रतिधारकोत्तमत्वात् स रत्नधातम ईरितः॥ १/१॥
अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त। स दे॒वाँ एह व॑क्षति॥ १/२॥
स पूर्वैर्नूतनैरेष्यैर्विज्ञानादृषिनामकैः। ईड्यो देवादिभिः सर्वैः स च देवानिहानयेत्॥ १/२॥
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे। य॒शसं॑ वी॒रव॑त्तमम्॥ १/३॥
तेनैव रयिमाप्नोति वित्तं विद्याधनात्मकम्। दिवसेदिवसे नित्यं पुष्टिमेव न हीनताम्॥ यशश्च पुत्रसंयुक्तं वीर्यवत्तममेव वा॥ १/३॥
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑। स इद्दे॒वेषु॑ गच्छति॥ १/४॥
यं यज्ञं परितो भूत्वा रक्षसि त्वं सदैव च। विधिमार्गस्थितं देवान् स एवाप्नोत्यसंशयम्॥ १/४॥
अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः। दे॒वो दे॒वेभि॒रा ग॑मत्॥ १/५॥
सोऽखिलग्रहणप्रज्ञः सद्गुणैः सन्ततोऽखिलम्। यमयत्यग्र्यकीर्तीनामुत्तमो विबुधैः सह॥ आगन्ताऽखिलभक्तानां पूजास्वीकारतत्परः॥ १/५॥ (१)
यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑। तवेत्तत्स॒त्यम॑ङ्गिरः॥ १/६॥
यजमानाय यद् भद्रं कर्तुमिच्छसि सत्प्रिय। त्वच्चेष्टयैव कर्माणि वर्तयित्वा तदीहनम्॥ तवैव सत्यमङ्गानां रस यद् वह्निगो हरिः। अङ्गिरा अङ्गिरःपुत्रो यतोऽग्निरभवत् क्वचित्॥ १/६॥
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम्। नमो॒ भर॑न्त॒ एम॑सि॥ १/७॥
वस्तर्दिनमहोरात्रमभीष्ट प्राणिनां सदा। अल्पा अपि वयं बुद्ध्या त्वामुच्चगुणमीश्वरम्॥ उपयाम मनःकर्मवाग्भिस्त्वन्नमसम्भराः॥ १/७॥
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम्। वर्ध॑मानं॒ स्वे दमे॑॥ १/८॥
देदीप्यमानं स्वे सद्मन्यध्वरेशं सदावृधम्। यथार्थज्ञानगोपं त्वामुपेमसि …..॥ १/८॥
स न॑ः पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व। सच॑स्वा नः स्व॒स्तये॑॥ १/९॥
….. ….. ….. ….. पितेव नः। सूपाश्रयो भव त्वं च यद्वदौरससूनवे। रक्ष सन्ततसौख्याय सम्यक् सत्वाय वा सदा॥ १/९॥ (२)
ऋषिच्छन्दोदैवतादिविचारः
ऋषिविचारः
मुनिस्तु सर्वविद्यानां भगवान् पुरुषोत्तमः। विशेषतश्च वेदानां “यो ब्रह्माणम्” श्वेताश्वतरोपनिषत् ६/१८ इति श्रुतिः॥ ‘ऋग्वेदादिकमस्यैव श्वसितं’ काण्वोपनिषत् ४/४/१० प्राह चापरा। ‘वाचो बभूवुरुशतीर्हयग्रीवात्’ भागवतम् २/७/११ इति स्फुटम्॥ वचो भागवतेऽप्यस्ति ब्रह्माण्डेऽपि तथा परम्॥ “हयग्रीवादिमा विद्याः श्वसितत्वेन निःसृताः। ब्रह्मणा स्वीकृतास्ताश्च रुद्रशेषविपा अपि॥ दक्षाद्याः सनकाद्याश्च शक्राद्या मनवस्तथा। जगृहुस्ते च विश्वस्मिंश्चक्रुर्व्याप्तास्ततोऽखिलाः॥”
उक्तं पद्मपुराणे च “कपिलो भगवानजः। प्रोवाच ब्रह्मणे विद्याः” “हृदिस्थो बादरायणः॥ ओङ्कारपूर्विका विद्याः प्रेरयत्यखिलेष्वपि। सदैव ब्रह्मणे पूर्वम्” इति सात्त्वतसंहिता॥
सकृन्निगदमात्रेण गृहीतं ब्रह्मणाऽखिलम्। अन्तर्गतस्य व्यासस्य प्रसादान्नित्यशक्तितः॥ तेन चानन्तशक्तित्वाद् युगपत् समुदीरितम्। प्रथमप्रतिपत्तृत्वान्मुनिर्ब्रह्माऽखिलस्य च॥ सुपर्णोऽखिलवेदानां पञ्चरात्रस्य नागराट्। द्वितीयप्रतिपत्तृत्वान्मुनित्वे सम्प्रकीर्तितौ॥ यः पश्यति स्वयं वाक्यं स ऋषिस्तस्य कीर्तितः। अर्वाक् तु द्वादशावृत्तेरधीत्याप्यृषिरेव सः॥ यत् स्वयं प्रतिभातस्य संशयार्थं गुरोर्वचः। सुपर्णादेर्विरिञ्चस्य केवलं धर्मकारणम्॥
ऋचामृषिस्ततः शक्रो यजुषां सूर्य एव च। सोमः साम्नां तृतीयास्ते प्रतिपत्तार ईरिताः॥ अथर्वाङ्गिरसामग्निरेकर्षिश्चाप्यथर्वणाम्। इत्युक्ताः समुदायस्य सन्त्यन्ये च पृथक्पृथक्॥
एतज्ज्ञानाददृष्टस्य फलस्याप्तिः स्फुटं भवेत्। द्रष्टॄणां तु चतुर्थानां ज्ञानादप्यैहिकं भवेत्॥ ते चैकस्यापि बहवः स्युः सूक्तस्यार्च एव वा। तस्यान्तस्यामवस्थायां तत्तत्प्राप्तिविशेषतः॥ तेषां वाक्यस्वरूपेण प्रार्थनादिषु पश्यति। विष्णुर्ब्रह्मा सुपर्णो वा तत्तद्योग्यार्थभेदतः॥
सर्ववेदाभिमानित्वाच्छ्रीर्ब्रह्माणी च भारती। द्रष्ट्र्यश्च सर्वविद्यानां व्याख्यातो ब्रह्मणा मरुत्॥ स्वभर्त्रनन्तरं द्रष्ट्र्यस्तेभ्यस्तन्नोदिता हिरुक्। ताः स्तुवन्ति हरिं नित्यं विद्याभिस्ते च सर्वशः॥ छन्दस्त्वेन मुनित्वेन तासां स्मृतिरुदीरिता। स्मर्तव्यास्ते च सर्वेऽपि मुनित्वेन पृथक्पृथक्॥
छन्दोविचारः
गायत्री बृहती चैव ताः सर्वा गरुडस्तथा। ब्रह्माण्यनुष्टुबिन्द्राणी त्रिष्टुप् स्वाहेति चोच्यते॥ गायत्री जगती चैव वारुणी रोहिणी तथा। अनुष्टुब् बृहती चैव तारा पङ्क्तिः शची तथा॥ उष्णिक् सौरी जगत्यश्च सर्वदेवस्त्रियो मताः। विराण्मित्रावरुणयोर्भार्ये इति च कीर्तिते॥ अतिच्छन्दांसि सर्वाणि सर्वदेव्यः प्रकीर्तिताः। विराडिति च नामासां तास्ता ऊनाधिकेष्वपि निचृद्भुरिग्विराट्सञ्ज्ञाः प्रस्तारेत्यादि नाम च॥ बह्वीनामेकमानेन त्वेकं नाम च युज्यते। सर्वाभिमानिता चैव तिसृणां तु यथाक्रमम्॥
देवताविचारः
देवता सर्वविद्यानां स्वयं नारायणः प्रभुः। ऋते तत्र प्रसिद्धाश्च देवता श्रीस्तथाऽत्र च॥ ऋते प्रसिद्धा ब्रह्मैव ततस्तेन क्रमेण च। पूर्वप्रसिद्धवर्जं तु शक्रान्ता देवता मताः॥ ब्रह्मवायू गिरौ वीन्द्रशेषरुद्राश्च तत्स्त्रियः। शक्रकामौ कामपुत्रमनुदक्षाङ्गिरःसुताः॥ तद्वच्छची रतिः सूर्यसोमधर्मादितत्स्त्रियः। प्रधानमरुतो वारिपतिरग्निश्च मारुताः॥ निरृतिः स्त्रियश्च सूर्यादेरश्विनावितरे तथा। अनन्तकोटिशतकदशार्धद्यंशतः क्रमात्॥ ज्ञानभक्तिबलैश्वर्यपूर्वाखिलगुणैरपि। मुक्तावपि क्रमो ह्येष देवता उदिता इमाः॥ इन्द्रावरा विशेषेण लिङ्गेनैव पृथक्पृथक्। देवतास्तत्रतत्र स्युरेष एव परो विधिः॥ वेदादिवर्णपर्यन्तैर्मूर्तयः केशवस्य तु। समासव्यासयोगेन वाच्यास्तात्पर्यतः पृथक्॥ यथायोगं यथान्यायमन्यासामपि मूर्तयः॥
अत्र प्रमाणानि
ऋक्संहितायां स्वाध्याये निरुक्ते व्यासनिर्मिते। प्रवृत्ते चैतदखिलमुक्तं हि प्रभुणा स्वयम्॥ ‘सर्वे वेदाश्च’ ‘नामानि’ ‘ता वा एता ऋचः’ तथा। ‘इन्द्रं मित्रं वरुणम्’ इत्याद्यत्र प्रमा परा॥
विष्णोरेव सर्वोत्कृष्टत्वे प्रमाणानि
“देवतातारतम्यं च सर्वोत्कृष्टं च केशवम्। ज्ञात्वैव मुच्यते ह्यस्मान्नान्यथा तु कथञ्चन॥” इति पैङ्गिश्रुतिश्चाह दृश्यतेऽत्र च सर्वशः॥ “न ते महित्वम्” इत्यादिनैश्वरानेव केवलान्। गुणान् विष्णोः श्रुतिर्ह्याह नैव दोषान् कथञ्चन॥
‘जाता परि बभूव’ इति मर्यादा ब्रह्मणोऽपि हि। ‘नैव रेमेऽबिभेद्’ ‘ब्रह्मा नासीत्’ इत्यादिकानपि॥
दोषान् रुद्रे च तानेव ‘न मिनन्ति’ इतिपूर्वकान्। “यं कामये तन्तमुग्रम्” “रुद्राय धनुः” इत्यपि॥ “अस्य देवस्य” “मा शिश्नदेवा अपि गुः” इत्यपि। “घ्नञ्छिश्नदेवान्” इत्याद्या दोषा बहव ईरिताः॥
“ततो वितिष्ठे” ‘योनिः सः’ ‘एतावत्यहम्’ इत्यपि। अन्याश्रयत्वं देव्याश्च कथितं बहुशोऽपि हि॥ तदाश्रयत्वमन्येषामपि तत्रैव निश्चयात्॥
‘ब्रह्मैवाग्रे’ इति ह्युक्त्वा रुद्रादीनां ततो जनिः। उक्ता ‘जातानि विश्वानि स पर्यभवत्’ इत्यपि॥ ‘यस्य च्छायामृतं मृत्युः’ इति चादरतोऽब्रवीत्॥
“अनन्तादवरेशाना तस्याः प्राणस्ततश्च वाक्। तस्या रुद्र उमा तस्मादिन्द्रस्तस्यास्ततोऽपरे॥” सौपर्णश्रुतिरित्याह “सप्ताक्षितयः” इत्यपि॥
“वायुरस्मा उपामन्थत्” “विश्वदेवाय वायवे।” विश्वैर्देवैः स इत्याद्याः प्रमा अत्रापरा अपि॥
“नारायणोऽदितिर्वायुर्वाणी रुद्र उमा विभुः। इतरे च क्रमाद्धीनाः शतांशाद् वायुतोऽवराः॥” इति बर्कश्रुतिश्चाह शक्रात् सप्ताक्षितिश्रुतिः। “अयं त एमि तन्वा” इतिपूर्वा अन्या अपि स्फुटम्॥ वायोराधिक्यमप्याहुः “इन्द्रं सोमं हुताशनम्॥ सूर्यं रुद्रमिमान् पञ्च देवानेको महात्मनः। सृजत्यत्ति महान् प्राणः” इति चाह तुरश्रुतिः॥
“वि हि सोतोरसृक्षत नेन्द्रं देवममंसत। यत्रामदद् वृषाकपिरर्यः पुष्टेषु मत्सखा॥” “न यस्येन्द्रः” इति ह्याह विष्णोरिन्द्रस्य हीनताम्॥ “वेधा अजिन्वत्” इत्यादिवचनं विष्णुनामतः। आनन्दश्रुतिः अप्यस्य जीवतामेव दर्शयेत्॥
आह सूर्यादपीन्द्रस्य वायोर्विष्णोरपीशताम्। “यः सूर्यं य उषसम्” ‘म्रियन्ते पञ्च देवताः’॥ ‘चक्षुषा द्यौश्चादित्यश्च’ “चक्षोः सूर्यो अजायत”। “यमादित्यो न वेद” इतिपूर्वा श्रुतिरथापराः॥
“विष्णोर्वातो अजनिष्ट वातादिन्द्रस्ततो रविः। सोमश्चेति लयोऽप्येवं पूर्वेपूर्वे गुणाधिकाः॥ “विष्णोः प्राणो अजनिष्ट प्राणादिन्द्रो रविर्विधुः। लयोऽप्येतादृशस्तेषां पूर्वःपूर्वो गुणाधिकः॥” तुरश्रुतिश्च सौपर्णी पिङ्गश्रुतिरपीदृशी॥
अतः सर्वाधिको विष्णुर्निणीतः श्रुतिसञ्चयात्। अतो दोषवचो यत्र तद् वाक्यमवरं वदेत्। निर्दोषतैव विष्णोस्तु क्रमान्मध्यगतेष्वपि॥
“त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते। विष्णोः सहस्रनामापि निरन्तरशतार्थकम्॥” इति स्कान्दवचो यस्मादर्थभेदव्यपेक्षया। निर्दोषत्वं हरेर्वक्ति दोषमन्येष्वपि क्रमात्॥ तारतम्यस्य विज्ञप्त्यै वचो दोषस्य चार्थवत्। “गुणा श्रुताः” इति ह्याह गुणैकनियतिं हरौ॥
“निर्दोषगुणपूर्णश्च विष्णुरेको नचापरः। अपूर्णा दोषरहिता मायैका तद्वशैव च॥ अदोषः प्रायशो ब्रह्मा दोषवन्तः क्रमात् परे।” इति मान्यश्रुतिश्चाह भेदोऽर्थानां ततो मतः॥
“रूढिमेव समाश्रित्य विभज्यर्थान् यथाक्रमम्। विदोषगुणपूर्त्यर्थं विष्णौ योगार्थमानयेत्॥ पश्चादेव यथायोगमितरेष्वपि सन्नयेत्।” ऋग्वेदसंहितायां च प्रभुणैवं समीरितम्॥
पृथग् रूपाणि विष्णोस्तु देवतान्तरगाणि च। अग्न्यादिसूक्तवाच्यानि नाम्ना सूक्तभिदा भवेत्॥
व्याख्यानप्रकारशिक्षणम् नकिर्माकिः स्मसीत्यादि प्रोक्ताधिक्यविवक्षया। “आधिक्येऽधिकम्” इत्येव हरिणा सूत्रमीरितम्॥ कृत्वी हत्वीतिपूर्वाश्च तृतीयोऽतिशये यतः। विश्लिष्टार्थे च विश्लिष्टमूनार्थे चोनमिष्यते॥ व्यत्ययोऽभेदकरणस्वातन्त्र्येषु समीरितः॥ अभेदो हरिरूपाणां गुणानां च क्रियासु च। तस्यैवावयवानां च भेदः श्रीब्रह्मपूर्वकैः॥ मुक्तैरपि जडैर्भेदः कैमुत्यादेव दृश्यते। ऋग्वेदसंहितायां च प्रोक्तमेतत् समस्तशः॥
अभेदः स्वगुणाद्यैश्च मुक्तानामपि सर्वशः। भेदाभेदस्त्वभेदश्च गुणैः संसारिणामपि॥ जडानामंशतोऽभेदः समुदायेन चोभयम्॥
“मनुष्यगन्धर्वपितृगणकार्मिकतात्विकाः। देवाः शक्रः शिवो ब्रह्मा मुक्तौ सौख्यादिभिर्गुणैः॥ शतायुतोत्तरा नित्यमन्योन्यप्रीतिसंयुताः।” इति सिद्धान्तगं वाक्यं स्वयं भगवतेरितम्॥
ऋष्यादिविचारोपसंहारः, इत्थम्भावान्तरं च
“स्वाध्यायस्तत्त्वविज्ञानं विष्णुभक्तिर्विरागता। निषिद्धकर्मसन्त्यागो विहितस्य सदा क्रिया। सदा विष्णुस्मृतिश्चैव केवलं मोक्षसाधनम्। एतैर्विना न मोक्षः स्याद् भवेदेतैरपि ध्रुवम्॥” “ऋषिच्छन्दोदैवतानि ज्ञात्वाऽर्थं चैव भक्तितः। स्वाध्यायेनैव मोक्षः स्याद् विरक्तस्य हरिस्मृतेः॥” “जप्येनैव तु संसिद्ध्येद् ब्राह्मणो नात्र संशयः। कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते॥” “तस्मान्नित्यं हरिं ध्यायन् कुर्यात् स्वाध्यायमञ्जसा। ऐहिकामुष्मिका भोगा रक्तस्यान्यस्तु मुच्यते॥” इति स्वाध्यायवचनं स्वयं भगवतोदितम्॥
“स्वाध्यायात् तु प्रवचने सहस्रगुणितं फलम्। अर्थद्रष्टुः कोटिगुणं ततोऽनन्तं नियामके॥ तर्कागमाभ्यां नियतिं यः करोत्यधिकं ततः। पूर्णं वेदाखिलद्रष्टुर्ब्रह्मणः फलमुच्यते॥ दार्ढ्यमेवानुदात्तार्थ उदात्तस्योच्चतार्थता। नीचता स्वरितस्यार्थः प्रचयस्य यथास्थितिः॥ समाहारेऽखिला अर्थाः स्वरार्थानामियं स्थितिः॥ स्तुत्यधर्मस्य भेदेन पदाद्यादिस्वरे भिदा। साधारणो विधिस्त्वेष विशेषो यत्रयत्र च॥ क्रमादेव तदन्येषामृष्यादीनां स्वयोग्यतः। विपर्ययार्थकथने विपरीतं तथा तमः॥ यावत् प्रयोजको ज्ञाने तावत्तावच्छुभाधिकः। तथैव विपरीतेऽपि स्मृतौ ज्ञाने च तत् समम्॥ तमोनिरयमानुष्यस्वर्गमोक्षातिरेकतः। योग्यतातारतम्येन फलं सर्वेषु चोच्यते॥” इति प्रवृत्तवचनं विवेकेऽप्येतदीरितम्॥ “यादृशो योग्यतां यायात् स ज्ञेयोऽर्थस्तथा स्फुटम्। अनन्तनियमैर्युक्ता अनन्तार्थविशेषिणः॥ वेदा इति समासेन नियमोऽयं समीरितः॥” ऋक्संहितागतं वाक्यमिति चान्यन्नियामकम्॥
तस्माद् वन्द्याश्च पूज्याश्च ब्रह्माद्या ज्ञानयोजकाः। गुरुत्वेन क्रमादेेव विशेषेणैव केशवः॥ आरभ्य स्वगुरुं यावद् विष्णुरेवोत्तरोत्तराः। क्रमान्निष्फलतान्यत्र गुरुतत्त्वे समीरिता॥
आद्यर्क्शतस्य देवता, अवान्तरर्षिश्च
एवं स्थितेऽग्निगं विष्णुमग्निनामानमेव च। मधुच्छन्दा ऋक्शतेन वाय्वादिगतमेव च॥ साग्न्यादिं स्तौति सद्भक्त्या तत्तन्नामानमेव च॥
वायवायाहीति नवर्चम्॥ २॥
मधुच्छन्दा वैश्वामित्रः। आद्यतृचस्य वायुः, द्वितीयतृचस्येन्द्रवायू, तृतीयतृचस्य मित्रावरुणौ। गायत्री॥
वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः। तेषां॑ पाहि श्रु॒धी हव॑म्॥ २/१॥
बलत्वादयनाच्चैव वायुरित्यभिधीयते। वात्यायुरिति वा ज्ञानाद् वरणादाश्रयत्वतः॥ वय बन्धन इत्यस्मात् संसारादेर्व्ययादपि। व्येत्यस्मिन्निति वा वायुर्वय श्रेष्ठत्व इत्यपि॥ मुख्यतो वासुदेवे ते गुणाः सन्त्येव सर्वशः। अनिषिद्धास्तदन्येषु यथायोग्यतया मताः॥ दर्शतस्ततदृष्टित्वात् सर्वज्ञोऽसौ यतो विभुः। भक्त्या ह्यलङ्कृताः सोमा मनांस्यन्ये हिरण्यतः॥ हिरण्यालङ्कृता यस्माद्धूयन्ते वायवे सुताः॥ तान् पाहि श्रुधि चाह्वानं स्वातन्त्र्ये व्यत्ययोऽप्ययम्। मनोऽपि भोग्यमीशस्य प्रीतिमात्रेण केवलम्॥ गुणाधिक्यं येन भवेद् वेदस्यार्थः स एव हि। प्रयोजकत्वान्नान्यस्य फलाभावात् तदर्थता॥ उपक्रमादयो यत्र तात्पर्यार्थः स एव हि॥ २/१॥
वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तार॑ः। सु॒तसो॑मा अह॒र्विद॑ः॥ २/२॥
स्तुवन्ति शस्त्रैः स्तोतारो यथावद् यज्ञवेदिनः॥ २/२॥
वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑। उ॒रू॒ची सोम॑पीतये॥ २/३॥
वाक् त्वत्सम्पर्किणी यज्ञकृते प्रापयतीप्सितम्। सोमपायातिमहती महार्थत्वात् त्वदर्थतः॥ २/३॥
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम्। इन्द॑वो वामु॒शन्ति॒ हि॥ २/४॥
इन्द्रः स परमैश्वर्यादिदमुद्दिश्य च द्रुतेः। ददर्शेदं दीप्तिमत्वादिदं रातीति वा भवेत्॥ सोमाभिमानिनो देवा वामिच्छन्ति हि सोमगाः। प्रियैरुपागतं तेनोपेन्द्रः सङ्कर्षणो हरिः॥ द्विरूपत्वाद् बहुत्वं च विशेषादेव केवलम्। एकस्यैव हरेर्नात्र भेदः शङ्क्यः कथञ्चन॥ ‘एकमेवाद्वितीयं तत्’ “नेह नानास्ति किञ्चन”। “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति॥” “यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति। एवं धर्मान् पृथक् पश्यंस्तानेवानु विधावति॥” उक्त्वा धर्मान् पृथक्त्वस्य निषेधादेवमेव हि। विशेषो ज्ञायते श्रुत्या भेदादन्यश्च साक्षितः॥ २/४॥
वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू। तावा या॑त॒मुप॑ द्र॒वत्॥ २/५॥
विजानतः सुतानन्नपतौ सूर्ये सदा स्थितौ। द्रवद् द्रुतं सुतात्पर्यद्योतकोऽभ्यास इष्यते॥ २/५॥ (३) वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम्। म॒क्ष्वि१॒॑त्था धि॒या न॑रा॥ २/६॥
यजन् सुन्वन् कृतस्यानुसारि कर्मैव निष्कृतम्। तदर्थं क्षिप्रमायातं धियेत्थम्भूतयाचलौ॥ नरौ तावविनाशित्वादुपचारः क्वचिद् भवेत्। अमरत्ववद् यतो मोक्षो देवतानां सुनिश्चितः॥ २/६॥
मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम्। धियं॑ घृ॒ताचीं॒ साध॑न्ता॥ २/७॥
मित्वा त्रातीति मित्रोऽयं मितमह्ना करोति वा। मितं रातीति वा नित्यं मितं रमयतीति वा॥ आवृणोतीति वरुणस्तमसाऽज्ञानतोऽपि वा। वरमुन्नयनीत्यस्माद् वरानन्दत्वतोऽपि वा॥ पूता दक्षा अनेनेति पूतदक्ष इतीरितः। तमाह्वयामि सुखिनं शमदन् रमते यतः॥ अनूनसुखभोक्तृत्वाद् रिशादा इति कीर्तितः॥ हरिर्घृतः सुशुद्धत्वाद् घृताची च तदञ्चनात्। स्वधीतिसाधको विष्णुर्भक्तानां च यथार्थतः॥ २/७॥
ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा। क्रतुं॑ बृ॒हन्त॑माशाथे॥ २/८॥
नित्यवृद्धः स भगवानृतेनानुपचारतः। ऋतस्पृग् वेदवाच्यत्वादन्यौ चेद् भगवानृतः॥ ऋ गतावित्यतः सर्ववस्तुष्वनुगतत्वतः। तेन वृद्धौ तत्स्पृशौ च सर्वदा मित्रवारिपौ॥ संहितायां तु दैर्घ्यादिरुक्ताधिक्ये पदेऽन्यथा। अनन्यार्थत्वविज्ञप्त्या ईशाथे च महाक्रतुम्॥ महत् सुखं वा …… …… …… ……॥ २/८॥
क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑। दक्षं॑ दधाते अ॒पस॑म्॥ २/९॥
….. …… …… तुविजौ ब्रह्मजातौ तथाविधौ। हरिस्तथैव भूतत्वात् स्थानं क्षय इहोच्यते॥ कर्मापसं च कर्तारं दक्षं कर्तारमेव वा। अस्मदर्थे दधाते तौ नित्यं बुद्धौ गतागतौ॥ २/९॥ (४)
अश्विनायज्वरीरिति द्वादशर्चम्॥ ३॥
मधुच्छन्दा वैश्वामित्रः। आद्यतृचस्याश्विनौ, द्वितीयतृचस्येन्द्रः, तृतीयतृचस्य विश्वेदेवाः, चतुर्थतृचस्य सरस्वती। गायत्री॥
अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती। पुरु॑भुजा चन॒स्यत॑म्॥ ३/१॥
अन्नानि यज्ञयोग्यानि क्षिप्रहस्तौ शुभाधिपौ। बहुगोपौ बहुभुजौ नो योजयतमश्विनौ॥ यज्ञे वृतान् स्वभागान् वा संयोजयतमाशु वै॥ आशु वानाद् गतेरश्वी क्षिप्रावगतितोऽथवा। अश्नुतेऽखिलमित्येवाप्यश्वजत्वात् तथाऽश्विनौ॥ ३/१॥
अश्वि॑ना॒ पुरु॑दंससा॒ नरा॒ शवी॑रया धि॒या। धिष्ण्या॒ वन॑तं॒ गिर॑ः॥ ३/२॥
बहुकर्मकृतौ सौख्यवीर्यात्मिक्या धिया गिरः। अस्मदीयाः सम्भजतं धिष्ण्यौ सर्वाश्रयौ सदा॥ ३/२॥
दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः। आ या॑तं रुद्रवर्तनी॥ ३/३॥
भेदकौ सर्वशत्रूणां दस्रौ सम्बन्धिनौ हि वाम्। सुता युवाकवः सोमा यज्वनः स्तृतबर्हिषः॥ नासत्यौ नासिकासंस्थौ नैव चासद्गुणौ क्वचित्। रुजां द्रावणतो रुद्रो वायुस्तदनुवर्तनात्॥ स्नेहतोऽनुवशत्वाद् वा तन्मार्गगतितोऽथवा। कस्मिन् न्वहमिति श्रुत्या वासुदेवोऽश्विनावपि॥ रुद्रवर्तनिशब्दोक्ताः ….. …… ……॥ ३/३॥
इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यव॑ः। अण्वी॑भि॒स्तना॑ पू॒तास॑ः॥ ३/४॥
….. …… …… …… चित्रं भद्रं रतं चितौ। चिद्रतेश्चायनीयत्वाददनाद् वा चितोऽभिदा॥ तादृशा रश्मयो ज्ञानमस्येति भगवान् परः॥ चित्रभानुरिति प्रोक्तस्तेजो वा तादृशं प्रभोः। त्वदिच्छव इमे सोमाः पटीभिः सूक्ष्मतन्तुभिः॥ विस्तृत्य शोधिताः सूक्ष्मप्रमाभिर्वा मनांसि च॥ सोमानां मनसां चैव देवताः सोमरश्मिगाः। सोमभृत्याः समस्तस्य सोम एवाधिपो हरिः॥ ३/४॥
इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः। उप॒ ब्रह्मा॑णि वा॒घत॑ः॥ ३/५॥
अस्मद्बुद्ध्या प्रार्थितो वा स्वबुद्ध्या प्रेरितोऽपि वा। ब्राह्मणैः प्रेरितो भक्त्या वदतो होतुरञ्जसा॥ ब्रह्माणि सोमयुक्तानि यजमानस्य वेच्छतः॥ उपायाह्यपि यःकोऽपि साधको यज्ञकृन्मतः। मानसो वाचिको वा स्याद् यज्ञो होता ह्वयन् स च॥ ३/५॥
इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः। सु॒ते द॑धिष्व न॒श्चन॑ः॥ ३/६॥
वेगवांस्तूतुजानः स्यात् संसारमुपसंहरन्। वर्तते येन हरिवा हरिभिर्वर्ततेऽथवा॥ हरणाद् विषयाणां च प्राणा हरय ईरिताः। तेषु वर्तत इत्यस्मात् तान् वाऽथ गमयेदसौ॥ हरिवा हरिवान् वाऽपि विष्णुना वर्ततेऽथवा। चनो मन इह प्रोक्तं सुखं च क्वचिदीर्यते॥ ३/६॥ (५)
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त। दा॒श्वांसो॑ दा॒शुष॑ः सु॒तम्॥ ३/७॥
आ समन्तात् स्वीकृता मा ओमा इति च शब्दिताः। ओनामा भगवान् विष्णुस्तेन वा निर्मिताः सुराः॥ ओता मानेषु मा वैषु प्रोता ओमा इतीरिताः। प्रजाश्चर्षणयः प्रोक्ता विश्वे ते च प्रवेशनात्॥ सर्वे वाऽथ विशां वानाच्छब्दः कस्मै यथा भवेत्। दातारो यजमाना वाऽपि ….. …… ……॥ ३/७॥
विश्वे॑ दे॒वासो॑ अ॒प्तुर॑ः सु॒तमा ग॑न्त॒ तूर्ण॑यः। उ॒स्रा इ॑व॒ स्वस॑राणि॥ ३/८॥
…… …… …… ….. अप्तुरः कर्मवेगिनः। उस्रास्तु रश्मयश्चैव स्वसराणि दिनानि च॥ ३/८॥
विश्वे॑ दे॒वासो॑ अ॒स्रिध॒ एहि॑मायासो अ॒द्रुह॑ः। मेधं॑ जुषन्त॒ वह्न॑यः॥ ३/९॥
असंसारादस्रिधस्ते देवाश्चेन्मोक्षनिश्चयात्। यथेष्टनिश्चितज्ञाना एहिमायाः समन्ततः॥ अदुःखत्वादद्रुहस्ते मेधं यज्ञं जुषन्तु नः। वह्नयो वहनादस्य …… …… ……॥ ३/९॥
पा॒व॒का न॒ः सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती। य॒ज्ञं व॑ष्टु धि॒याव॑सुः॥ ३/१०॥
…… …… …… शोधकत्वात् तु पावका॥ सरणात् सर्वगतत्वेन सर्वज्ञो वा सरो हरिः। सरसः सरतित्वाद् वा तद्वत्येव सरस्वती॥ हरौ गुणाः सरःशब्दा देवी तु हरिवाचिनी॥ हरिप्रियत्वतो वायुः सरस्वांस्तत्प्रियाऽथवा। गुणस्वेन ततत्वाद् वा भगवांस्तु सरस्वती॥ स्त्रीरूपश्चैव पुंरूपो भगवान् न नपुंसकः। स्त्रीपुंदोषविहीनत्वादपि तच्छब्दगोचरः॥ अन्नेनो वाजिनामीशो वाजिनी सूर्य उच्यते। वाजीनच्छब्दसां वाऽपि स्वामी प्रोक्तः स वाजिनी॥ छन्दांस्यश्वा यतस्तस्य ते चेना अन्यवाजिनाम्। अन्नवत्वाद् वाजिनी वाग् ज्ञानयुद्धत्वतोऽपिवा॥ स पुत्रो वागुमा तस्याः पुत्री तद् वाजिनीवती। सरस्वती हरिर्वाऽपि यज्ञं वहतु शोभनैः॥ अन्नदा हि सदा देवी धिया सह वसेद् यतः। धियावसुर्नित्यबोधा …… …… ……॥ ३/१०॥
चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम्। य॒ज्ञं द॑धे॒ सर॑स्वती॥ ३/११॥
…… …… …… सुवाचां प्रेरका सदा॥ सुबुद्धिज्ञापिका सैव स्वातन्त्र्याल्लुप्तयो भवेत्। अनेनैव प्रकारेण सैव यज्ञादिधारिणी॥ ३/११॥
म॒हो अर्ण॒ः सर॑स्वती॒ प्र चे॑तयति के॒तुना॑। धियो॒ विश्वा॒ वि रा॑जति॥ ३/१२॥
महो अर्णः परं ब्रह्म तेजस्त्वाच्च महत्वतः। अरमानन्दरूपत्वाण्णो हि निर्वृतिवाचकः॥ तज्ज्ञापयति सा देवी ज्ञानं दत्वा महत्तरम्॥ महो अर्णः स्वयं देवः स्वमात्मानं प्रकाशयेत्। विराजयति विश्वाश्च धियः सुज्ञानदानतः॥ ३/१२॥ (६) १
सूक्तादिस्वरूपम्
सूक्तं त्वनारतं प्रोक्तमनुवागेककालिका। अन्यथात्वं च तत्र स्यादावापोद्वापतस्त्वृचाम्॥ वेदानन्तत्वविज्ञप्त्यै तौ चक्रे बादरायणः॥ “ऋचः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः। यजूंषि निगदाच्चैव तथा सामानि सामतः॥” एवं पुरामवचनादुद्धृता हि ततस्ततः। ऋचः शाखात्वमापन्नाः शिष्यतच्छिष्यकैरिमाः॥ मानःस्तेनेतिपूर्वासु ऋग्वेदसंहिता २/२३/१६ ह्यूनता दृश्यतेऽर्थतः। शुनःशेपोदिताभ्यश्च पठ्यन्तेऽन्यत्र काश्चन॥ अत्राप्यक्रमतो दृष्टिरिति नैकक्रमो भवेत्। अनन्तत्वात् तु वेदानां प्रायः कर्मानुसारतः॥ सङ्क्षेपं कृतवान् देवः शिष्याश्च तदनुज्ञया। अष्टकाध्यायवर्गादिभेदं च कृतवान् स्वयम्॥ स्वाध्यायविश्रमार्थाय तस्मात् क्रमविपर्ययः। तत्रतत्रैवान्तरिता दृश्यन्ते च खिला अपि॥ यत्रार्थे न विशेषोऽस्ति पदान्तरितताऽत्र च। यत्राल्पोऽपि विशेषोऽस्ति पदं नान्तरितं भवेत्॥
सुरूपकृत्नुमिति दशर्चम्॥ ४॥
मधुच्छन्दा वैश्वामित्रः। इन्द्रः। गायत्री॥
सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑। जु॒हू॒मसि॒ द्यवि॑द्यवि॥ ४/१॥
विष्णुं सुरूपकर्तारमभिप्रेतार्थसिद्धये। त्राणाय वा कामधेनुमिव दोहाय तत्स्थितेः॥ दिनेदिने स्वाह्वयामः ….. …… ……॥ ४/१॥
उप॑ न॒ः सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब। गो॒दा इद्रे॒वतो॒ मद॑ः॥ ४/२॥
…… …… …… ज्ञानदोऽस्यैव चाधिकम्। ज्ञानाख्यरयियुक्तस्य हिरण्यादिमतोऽपि वा॥ सुखकारी भवान् ….. …… ……॥ ४/२॥
अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम्। मा नो॒ अति॑ ख्य॒ आ ग॑हि॥ ४/३॥
…. …… …… तस्माल्लभेम सुमतीस्तव। अन्ते मितास्त्वद्विषया मतयो ह्युत्तमोत्तमाः॥ अस्मानतीत्य मा पश्य करुणार्द्रदृशा सदा॥ ४/३॥
परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म्। यस्ते॒ सखि॑भ्य॒ आ वर॑म्॥ ४/४॥
मन्मनो वाऽथ शक्रो वा दूरेऽपि परमेश्वरम्। गच्छाग्राह्यमनष्टं च व्याप्तचित्तं य एव च॥ सखिभ्य उत्तमो नित्यम् …. …… ……॥ ४/४॥
उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत। दधा॑ना॒ इन्द्र॒ इद्दुव॑ः॥ ४/५॥
…. …… …… …… निदस्तस्य समीपगाः। तेऽपि ब्रुवन्तु नो देवं प्रापुर्ये चान्यतोऽपि तम्॥ निर्गत्याज्ञानतस्त्वस्माद् दधाना ईश एव च। दुवः प्राणान् ब्रुवन्त्वेव तेऽपि नः परमेश्वरम्॥ ४/५॥
उ॒त न॑ः सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टय॑ः। स्यामेदिन्द्र॑स्य॒ शर्म॑णि॥ ४/६॥
अरयोपि प्रजा अस्मान् वोचेयुः सुभगान् सदा। शत्रुभेदिस्तवेन्द्रस्य स्यामैवानुग्रहे सुखे॥ ४/६॥
एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम्। प॒त॒यन्म॑न्द॒यत्स॑खम्॥ ४/७॥
आशुवीर्य तवैवाशुं सोमं क्षिप्रं मनोऽपि वा। आभर स्वोदरे तुष्ट्या हृदि वा यज्ञभूषणम्॥ ईमेव पुम्मदकरं मदादुत्पनादिके। हेतुं मन्दत्वहेतुं च तत्सखीनां पुरोगतेः॥ ४/७॥
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः। प्रावो॒ वाजे॑षु वा॒जिन॑म्॥ ४/८॥
एनं पीत्वा बहुज्ञानाभूस्तमोभिरनावृतः। प्रसादादेव मुक्तेषु तमोसह्यतया घनः॥ आवृतेरेव वृत्राणि ह्यज्ञानान्यन्नदं नरम्। प्रावो युद्धेषु योद्धारं भक्तं ज्ञानिनमेव च॥ ४/८॥
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो। धना॑नामिन्द्र सा॒तये॑॥ ४/९॥
योधयामो वयं तं त्वां ज्ञानादिधनलब्धये। अज्ञानाद्यस्मदरिभिः ….. …… ……॥ ४/९॥
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑। तस्मा॒ इन्द्रा॑य गायत॥ ४/१०॥
….. …… …… योऽशेषद्रविणावनिः। सुखदः संसृतेः पारस्तस्मा इन्द्राय गायत॥ “कम्पोऽशेषग्रहे क्वापि लज्जायां वा पुरातने। पृथक्त्वेऽधृष्यतायां वा” हरिणर्क्संहितोदितः॥ ४/१०॥ (८)
आत्वेतेति दशर्चम्॥ ५॥
मधुच्छन्दा वैश्वामित्रः। इन्द्रः। गायत्री॥
आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत। सखा॑य॒ः स्तोम॑वाहसः॥ ५/१॥
पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम्। इन्द्रं॒ सोमे॒ सचा॑ सु॒ते॥ ५/२॥
सुपूर्णानां पूर्णतमं वरेण्यानामधीश्वरम्। सुते सोमे सुखेनैव सचा गायत तं प्रभुम्॥ ५/१-२॥
स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्याम्। गम॒द्वाजे॑भि॒रा स न॑ः॥ ५/३॥
मुक्तौ योगाया समन्ताद् भवेन्नो घोऽवधारणे। स एव भगवान् ज्ञानवित्ताय स च बुद्धिगः॥ बुद्धिः पुराश्रयत्वेन पुरन्धिः पत्न्यथापि वा। पत्न्यर्थत्वे तु तादर्थ्यं सोऽन्नैः सह न आव्रजेत्॥ ५/३॥
यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः। तस्मा॒ इन्द्रा॑य गायत॥ ५/४॥
यस्य स्थितौ न वृणते हर्यग्रमपि शत्रवः। मनः पुरो वा विषयहरणान्मन एव च॥ बुद्धिश्च हरिशब्दोक्ते तमआदीनि शत्रवः॥ ५/४॥
सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑। सोमा॑सो॒ दध्या॑शिरः॥ ५/५॥
सोमपे शुचयः सोमाः प्राप्त्यै दधिविमिश्रिताः। मनांसि ध्यानयुक्तानि वाऽऽयान्ति हरये सदा॥ ५/५॥ (९)
त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः। इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो॥ ५/६॥
सदा पूर्णः शुभज्ञानज्यैष्ठ्यव्यक्त्यै सुताप्तये। न क्षुदादेरभिव्यक्तोऽभवः ….. …… ……॥ ५/६॥
आ त्वा॑ विशन्त्वा॒शव॒ः सोमा॑स इन्द्र गिर्वणः। शं ते॑ सन्तु॒ प्रचे॑तसे॥ ५/७॥
…. …… …… …… …… गीर्भिवृत प्रभो। प्रकृष्टचेतास्त्वद्भृत्यो योऽस्मै स्युः शङ्कराः सुताः॥ ५/७॥
त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो। त्वां व॑र्धन्तु नो॒ गिर॑ः॥ ५/८॥
व्यञ्जयन्त्यधिकं स्तोमा साम्युक्थान्यृक्षु चैव हि। महागुणैर्व्यञ्जयन्तु गिरोऽस्माकमपि प्रभो॥ आकाशवृद्धिवद् वृद्धिर्विष्णौ स्यान्नैव चान्यथा। “न वर्द्धते नो कनीयान्” काण्वोपनिषत् ६/४/२३ इति ह्येनं श्रुतिर्जगौ॥ महातात्पर्यरोधाच्च श्रुत्यर्थो नापरो भवेत्। यद्यन्यापेक्षया वृद्धिरीशत्वं स्यात् कुतोऽस्य च॥ अक्षितोतिरिति ह्यस्मात् पूर्णाभिप्रायतोदिता॥ ५/८॥
अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्र॑ः सह॒स्रिण॑म्। यस्मि॒न्विश्वा॑नि॒ पौंस्या॑॥ ५/९॥
अनन्तफलदं वाजमस्मत्तो लभतां स च। ददातु वा पौरुषाणि शक्तयो यत्र चाखिलाः॥ अतश्चानन्तशक्तित्वान्न वृद्ध्याद्याः कथञ्चन। “सर्वोपेता” ब्रह्मसूत्रम् २/१/३१ इत्येतमर्थमभिप्रेत्याह वेदराट्॥ ५/९॥
मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः। ईशा॑नो यवया व॒धम्॥ ५/१०॥
मा मर्ता नस्तनूनां तु द्रोग्धारः स्युः कथञ्चन। ईशोऽस्यपाकुरु वधं तेन नो मुक्तिदानतः॥ मनुष्येभ्यस्तनूनां च नैव नः स्युर्विपत्तयः। कालेन दैवतः प्राप्तो स्याददेहत्वतो वधः॥ ५/१०॥ (१०)
युञ्जन्तीति दशर्चम्॥ ६॥
मधुच्छन्दा वैश्वामित्रः। आद्यानां तिसृणामिन्द्रः, ततः षण्णां मरुतः, वीरुचिदितीन्द्रेणेति च द्वयोरिन्द्रश्च वा, दशम्या इन्द्रः। गायत्री॥
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुष॑ः। रोच॑न्ते रोच॒ना दि॒वि॥ ६/१॥
पौंस्यानि वासुदेवस्य ब्रध्नं वृद्धं दिवाकरम्। अरुणं चरन्तं परितो गिरीन् युञ्जन्ति सर्वदा॥ तैरेवान्यानि चन्द्रादिरोचनानि त्रिविष्टपे। रोचयन्ति ….. ……. …… ……॥ ६/१॥
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑। शोणा॑ धृ॒ष्णू नृ॒वाह॑सा॥ ६/२॥
…. …… हरी चास्य मनोबुद्धी स्वशक्तयः। युञ्जन्त्यधिगुणत्वेन काम्यावश्वावथापि वा॥ विशिष्टपक्षसंयुक्ताविव क्षिप्रतरी सदा। रथे देहेऽपि वा देवाः स्वमनो बुद्धिमेव च॥ अस्य देहे प्रयुञ्जन्ति सूर्यादीन् स्थापयन्ति च। सूर्यादिस्थापकत्वं च ब्रह्मादीनां भवेत् सदा॥ शोणौ च शमणौ प्रोक्तौ सुखप्राप्तौ यतः सदा। श्यामौ मूर्द्धनि शोणौ च शक्राश्वावग्रगौ स्मृतौ॥ दृष्टौ नॄन् प्रति तं वेशं वहन्तौ तावुभावपि॥ ६/२॥
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑। समु॒षद्भि॑रजायथाः॥ ६/३॥
अज्ञाय कुर्वन् सज्ज्ञानं हेमाहेमाय चेश्वर। उषद्भिः सम्प्रकाशद्भिः शक्तिभिर्व्यक्ततामगाः॥ मर्या मरणवन्तोऽपि देवा एवम् … ……॥ ६/३॥
आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे। दधा॑ना॒ नाम॑ य॒ज्ञिय॑म्॥ ६/४॥
…. …… …… …… …… हरेर्वशात्। तदैव सुखमन्वेव पुनर्गूढत्वमापिरे॥ स्वेच्छयैव परेशस्य शक्तयो देवता अपि। यज्ञे वाच्यं दधानाश्च नाम …… ……॥ ६/४॥
वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः। अवि॑न्द उ॒स्रिया॒ अनु॑॥ ६/५॥
…. …… …… …… …… वीळु दृढं ह्यपि। आरुजद्भिः स्वसामर्थ्यैर्गुहायां संस्थितोऽपि सन्॥ वहद्भिरखिलं लोकं प्रकाशत्वानि लब्धवान्। देवैर्वैतादृशैः साकमानुकूल्येन लब्धवान्॥ ६/५॥ (११)
दे॒व॒यन्तो॒ यथा॑ म॒तिमच्छा॑ वि॒दद्व॑सुं॒ गिर॑ः। म॒हाम॑नूषत श्रु॒तम्॥ ६/६॥
सम्यक् प्रद्योतयन्तोऽमुं मतिरूपं यथास्थितम्। विदद्वित्तं महान्तं च विश्रुतं सुगिरोऽस्तुवन्॥ ६/६॥
इन्द्रे॑ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्युषा। म॒न्दू स॑मा॒नव॑र्चसा॥ ६/७॥
तस्य सन्दर्शनायैव सङ्गतस्तेन शङ्करः। मखात्मा पुरुहूतो वा श्रीभूमी च सुखात्मिके॥ ६/७॥
अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति। ग॒णैरिन्द्र॑स्य॒ काम्यै॑ः॥ ६/८॥
अनवद्यैर्महाज्ञानैः प्रियैर्देवगणैः सह। वायुना च सहार्चन्ति सुधीत्वात् परमेश्वरम्॥ ६/८॥
अत॑ः परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑। सम॑स्मिन्नृञ्जते॒ गिर॑ः॥ ६/९॥
अतो हेतोरिहायाहि दिवो वा सूर्यमण्डलात्। परिज्मन् सर्वगास्माकमधिकृत्य समर्हणम्॥ अस्मिन् गिरः प्राप्नुवन्ति सम्यक् परममुख्यतः। युञ्जन्तीत्यत्र बाहुल्याद् देवयन्तोऽत इत्यपि॥ बाहुल्यादृष्टितो गीर्भिर्विनाऽर्थो नान्य इष्यते॥ ६/९॥
इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑। इन्द्रं॑ म॒हो वा॒ रज॑सः॥ ६/१०॥
इतो दिवो वा पातालात् सातिं लाभस्वरूपिणम्। महतो रञ्जकाद् विष्णोर्लोकाद् वा तमधीमहे॥ ६/१०॥ (१२)
इन्द्रमिदिति दशर्चम्॥ ७॥
मधुच्छन्दा वैश्वामित्रः। इन्द्रः। गायत्री॥
इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किण॑ः। इन्द्रं॒ वाणी॑रनूषत॥ ७/१॥
तमेव गाथिनः साम्ना स्तुवन्त्यृग्भिश्च बहृचाः। बृहन्तमन्यवाणीभिरपि …. …… ……॥ ७/१॥
इन्द्र॒ इद्धर्यो॒ः सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा॑। इन्द्रो॑ व॒ज्री हि॑र॒ण्यय॑ः॥ ७/२॥
…. …… …… …… हर्योर्विमिश्रितः। रथेऽथवा मनोबुद्ध्योर्वाङ्मात्रेणैव योगिनोः। सचा सुखेन वज्री च ज्ञानानन्दो हि धातुतः॥ हितश्च रमणीयश्च हिरण्यय इतीरितः॥ ७/२॥
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि। वि गोभि॒रद्रि॑मैरयत्॥ ७/३॥
दीर्घकालं दर्शनाय सूर्यमारोहयद् दिवि। ज्ञानैरादरयोग्यं च प्राणात्मानं समैरयत्॥ ७/३॥
इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च। उ॒ग्र उ॒ग्राभि॑रू॒तिभि॑ः॥ ७/४॥
बहुभिर्युद्ध्यमानेषु युद्धेष्वपि सदाऽव नः। दुष्टोग्रैः सदभिप्रायैः ……॥ ७/४॥
इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे। युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म्॥ ७/५॥
…… …… …… महदल्पधनार्थिनः। हवामहेऽरिवर्ज्यं तं तमसां प्रतियोगिनम्॥ ७/५॥ (१३)
स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि। अ॒स्मभ्य॒मप्र॑तिष्कुतः॥ ७/६॥
अस्मदीयं चरुं भोज्यमानन्दं तमपावृणु। मोक्षगं सर्वदातस्त्वमप्रतिद्वन्द्व नो वृषन्॥ ७/६॥
तु॒ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिण॑ः। न वि॑न्धे अस्य सुष्टु॒तिम्॥ ७/७॥
त्वयैव प्रेरणे जाते तत्रतत्र य उत्तराः। तेऽपि स्तोमाः सुष्टुतित्वमस्यानन्त्यन्नचाप्नुयुः॥ ७/७॥
वृषा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा। ईशा॑नो॒ अप्र॑तिष्कुतः॥ ७/८॥
प्रतिवीरो वृषा वंसस्तद्गन्ता वंसगो विभीः। यूथान्याकर्षति यथा प्रजाः प्रेरयति प्रभुः॥ अल्पस्यापि प्रसिद्ध्यैव दृष्टान्तत्वं तु युज्यते॥ ७/८॥
य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑। इन्द्र॒ः पञ्च॑ क्षिती॒नाम्॥ ७/९॥
राजा भवति वित्तानां प्रजानां चैक एव यः। देवगन्धर्वदैतेयपितृमानुषभेदतः॥ प्रजानामपि पञ्चानां सामान्याच्च विशेषतः॥ ७/९॥
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः। अ॒स्माक॑मस्तु॒ केव॑लः॥ ७/१०॥
सम्यग्घवामहे सर्वगतं च व्यक्तरूपतः। स्थातुमेकत्र वोऽर्थाय जना नोऽस्तु स केवलः॥ ७/१०॥ (१४) (२)
ऐन्द्रेति दशर्चम्॥ ८॥
मधुच्छन्दा वैश्वामित्रः। इन्द्रः। गायत्री॥
एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सह॑म्। वर्षि॑ष्ठमू॒तये॑ भर॥ ८/१॥
जनिता सहितं लाभयुक्तं वित्तं सदाबलम्। वर्षिष्ठं सुमहद् रक्षानिमित्तं नित्यदा भर॥ ८/१॥
नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा॑महै। त्वोता॑सो॒ न्यर्व॑ता॥ ८/२॥
येनारीन् मुष्टियुद्धेन तमांसि ज्ञानयुद्धतः। त्वत्प्रेरिता निरुन्धामः कांश्चिद् वा तुरगादिभिः॥ आवृत्त्यैवोपसर्गस्य क्रियावृत्तिर्भविष्यति॥ ८/२॥
इन्द्र॒ त्वोता॑स॒ आ व॒यं वज्रं॑ घ॒ना द॑दीमहि। जये॑म॒ सं यु॒धि स्पृध॑ः॥ ८/३॥
त्वत्प्रेरिता ज्ञानरतिं दृढत्वेनाददीमहि॥ ८/३॥
व॒यं शूरे॑भि॒रस्तृ॑भि॒रिन्द्र॒ त्वया॑ यु॒जा व॒यम्। सा॒स॒ह्याम॑ पृतन्य॒तः॥ ८/४॥
त्वया पृतन्यतः शत्रूनभिष्याम सुयोद्धृभिः॥ ८/४॥
म॒हाँ इन्द्र॑ः प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑। द्यौर्न प्र॑थि॒ना शव॑ः॥ ८/५॥
यस्मान्महाननादिश्च विष्णुर्जीवोऽवरस्तथा। तस्यैवास्तु महत्त्वं तन्न जीवब्रह्मतां स्मरेत्॥ आकाशवत् प्रथिम्नाऽसौ शवः सुखबले तथा॥ ८/५॥ (१५)
स॒मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ। विप्रा॑सो वा धिया॒यव॑ः॥ ८/६॥
अन्यसंवहनेनापि ये तं प्राप्ता जनार्दनम्। ज्ञानलाभेन तु नरस्त एव पशवोऽपरे॥ विप्राश्चैव धिया युक्ता मूर्खाः शूद्रसमा मताः॥ ८/६॥
यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते। उ॒र्वीरापो॒ न का॒कुद॑ः॥ ८/७॥
यः कुक्षिस्तस्य देवस्य समुद्र इव सोऽखिलान्। कामान् क्षरति भक्ताय महाप इव तर्पकाः॥ काकुदस्तस्य जिह्वास्तु बह्व्यो बहुमुखेषु याः॥ ८/७॥
ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही। प॒क्वा शाखा॒ न दा॒शुषे॑॥ ८/८॥
एवमेवास्य वाणी च वेदेता महती तथा। पक्वा शाखेव यजते वरदात्री विरप्शिनः॥ बलिष्ठस्य हि ते …… …… ……॥ ८/८॥
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते। स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑॥ ८/९॥
…. …… …… सन्ति सद्योऽपि यजते हि ते। मावते ज्ञानिने नित्यमूतयश्च विभूतयः॥ ८/९॥
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑। इन्द्रा॑य॒ सोम॑पीतये॥ ८/१०॥
स्तोमा उक्थानि चैवास्य तस्मै काम्यानि सर्वदा। गेयाः शंस्यानि सोमस्य पीतये नान्यथा पिबेत्॥ ८/१०॥ (१६)
इन्द्रेहेति दशर्चम्॥ ९॥
मधुच्छन्दा वैश्वामित्रः। इन्द्रः। गायत्री॥
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः। म॒हाँ अ॑भि॒ष्टिरोज॑सा॥ ९/१॥
सोमपाः सोमपर्वाणः सर्वं यस्मात् तदिच्छया। अभिष्टिरोजसा नित्यं मदं सुखमवाप्स्यसि॥ ९/१॥
एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑। चक्रिं॒ विश्वा॑नि॒ चक्र॑ये॥ ९/२॥
एनमासृजतेन्दौ च विष्णुं तं मदकारिणम्। मन्दिने विष्णवे सम्यक् कर्मिणं सर्वकर्मिणे॥ ९/२॥
मत्स्वा॑ सुशिप्र म॒न्दिभि॒ः स्तोमे॑भिर्विश्वचर्षणे। सचै॒षु सव॑ने॒ष्वा॥ ९/३॥
स्वानन्द विश्वजीवेश मत्स्वास्मद्रक्षया सह॥ ९/३॥
असृ॑ग्रमिन्द्र ते॒ गिर॒ः प्रति॒ त्वामुद॑हासत। अजो॑षा वृष॒भं पति॑म्॥ ९/४॥
त्वन्निःसृता वेदवाचस्त्वां प्रत्येवाप्यनारतम्। उच्चौर्मुख्यतया सम्यग् विसृष्टाः स्वपतिं प्रति॥ अजोषाः स्तुत्यरूपेण त्वत्सेव्यास्त्वदृते क्वचित्॥ ९/४॥
सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम्। अस॒दित्ते॑ वि॒भु प्र॒भु॥ ९/५॥
अर्वाङ् नीचान् प्रति त्वस्मान् भद्रं राधः प्रचोदय। अस्त्येव ते विशेषेण प्रकृष्टं शुभमच्युतम्॥ ९/५॥ (१७)
अ॒स्मान्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः। तुवि॑द्युम्न॒ यश॑स्वतः॥ ९/६॥
रभस्वनः शब्दवतः स्तोतॄनस्मान् यशस्वतः। तत्र त्वयि महाराये महाकीर्ते सुचोदय॥ ९/६॥
सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत्। वि॒श्वायु॑र्धे॒ह्यक्षि॑तम्॥ ९/७॥
अस्मास्वतिबृहज्ज्ञानं नित्यं सन्धेहि चाक्षयम्॥ ९/ ७॥
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम्। इन्द्र॒ ता र॒थिनी॒रिष॑ः॥ ९/८॥
विद्यां कीर्तिं सदेहान्नं बहुलाभयुतं बृहत्। प्रार्थने पौनरुक्त्यं न चोदयेति ततः पुनः॥ ९/८॥
वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म्। होम॒ गन्ता॑रमू॒तये॑॥ ९/९॥
वसोर्वसूनां च पतिं देवदेवेश्वरं प्रभुम्। ऋङ्मेयमाह्वयामोऽत्र गृणन्तोऽभीष्टसिद्धये॥ ९/९॥
सु॒तेसु॑ते॒ न्यो॑कसे बृ॒हद्बृ॑ह॒त एद॒रिः। इन्द्रा॑य शू॒षम॑र्चति॥ ९/१०॥
अविनाश्यरिरुद्दिष्टो बृहच्छूषं सुखं प्रति। सुतेसुते सद्गृहाय देवाय बृहतेऽर्चति॥ ९/१०॥ (१८)
गायन्तीति द्वादशर्चम्॥ १०॥
मधुच्छन्दा वैश्वामित्रः। इन्द्रः। अनुष्टुप्॥
गाय॑न्ति त्वा गाय॒त्रिणोऽर्च॑न्त्य॒र्कम॒र्किण॑ः। ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे॥ १०/१॥
गायन्ति सामगास्त्वृग्भिः शंसन्त्यृग्वेदिनोऽतिकम्। विरिञ्चास्त्वां बहुज्ञान शक्रकेतुमिवोच्छ्रितम्॥ व्यजानन् ……॥ १०/१॥
यत्सानो॒ः सानु॒मारु॑ह॒द्भूर्यस्प॑ष्ट॒ कर्त्व॑म्। तदिन्द्रो॒ अर्थं॑ चेतति यू॒थेन॑ वृ॒ष्णिरे॑जति॥ १०/२॥
…. उच्चतोऽप्युच्चं सामर्थ्यं करणे तव। ततोऽपि भूरि यत् तेन चेतत्यर्थमतो भवान्॥ मुक्तामुक्तसमूहेन शोभते गूढशक्तिमान्। उच्चादुच्चं विरिञ्चादिगतं कर्तृत्वमेव यत्॥ भूरि स्पष्टमभूत् तेन परेशस्य ततश्च सः। चेतत्यर्थानशेषांश्च महायूथेन चेष्टते॥ १०/२॥
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा। अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर॥ १०/३॥
कक्ष्याभिपूरकौ पुष्ट्या युङ्क्ष्व त्वं केशिनौ हरी। अथोपगम्य शृणु नो गिरः …..॥ १०/३॥
एहि॒ स्तोमाँ॑ अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व। ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय॥ १०/४॥
…. ….. …. ….. अभिस्वर च स्तुतिम्। प्रशंसां कुरु शब्दं च पुनर्हर्षान्महत्तरम्। ब्रह्म यज्ञं च नोऽन्तस्थो बहिष्ठश्चैव वर्धय॥ १०/४॥
उ॒क्थमिन्द्रा॑य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे॑। श॒क्रो यथा॑ सु॒तेषु॑ णो रा॒रण॑त्स॒ख्येषु॑ च॥ १०/५॥
नित्यवृद्धत्वतो विष्णोर्वर्धनं तु प्रकाशनम्। बहुशत्रून् निष्पदसौ हरिर्दनुजघातकः॥ अस्मत्सख्याय शब्दं च चकारास्मासु संस्थितः। यथा सुतेषु सोमेषु करोत्यृत्विक्षु च स्थितः॥ १०/५॥
तमित्स॑खि॒त्व ई॑महे॒ तं रा॒ये तं सु॒वीर्ये॑। स श॒क्र उ॒त न॑ः शक॒दिन्द्रो॒ वसु॒ दय॑मानः॥ १०/६॥
तमेव शरणं नित्यं सखित्वाद्यर्थमीमहे। शक्त्यानन्दस्वरूपत्वाच्छक्रः सर्वत्र चाशकत्॥ अस्माकं च सदा वित्तं दददेव प्रवर्तते॥ १०/६॥
सु॒वि॒वृतं॑ सुनि॒रज॒मिन्द्र॒ त्वादा॑त॒मिद्यश॑ः। गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः॥ १०/७॥
विस्पष्टं सुष्ठ्वकाल्यं च यशस्त्वद्दत्तमेव हि। गूढं ज्ञानसमूहं त्वं विवृण्वृद्धिं च नः कुरु॥ अद्रिरादरणीयत्वात् प्राणस्तद्वर्तकोऽद्रिवाः। हरिः शक्रस्तथाऽद्रीणां छेदनाद् वारणादपि॥ १०/७॥
न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑घा॒यमा॑ण॒मिन्व॑तः। जेष॒ः स्व॑र्वतीर॒पः सं गा अ॒स्मभ्यं॑ धूनुहि॥ १०/८॥
न त्वामृघायमाणं हि वर्धमानं तु रोदसी। सम्प्राप्नुतः श्रीभूमी च सहिते वाऽप्रसादतः॥ अपः प्रजाः सुखवतीरजयस्त्वद्वशत्वतः। ज्ञानानि सन्धूनु हि च प्रापयोच्चा अपि स्वयम्॥ १०/८॥
आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिर॑ः। इन्द्र॒ स्तोम॑मि॒मं मम॑ कृ॒ष्वा यु॒जश्चि॒दन्त॑रम्॥ १०/९॥
बहुश्रवणकर्णास्मदाह्वानं शृणु चादरात्। अद्यैव च गिरो धेहि मयि स्तोमं च मत्कृतम्॥ प्रियं योगादपि कुरु ….. …… ……॥ १०/९॥
वि॒द्मा हि त्वा॒ वृष॑न्तमं॒ वाजे॑षु हवन॒श्रुत॑म्। वृष॑न्तमस्य हूमह ऊ॒तिं स॑हस्र॒सात॑माम्॥ १०/१०॥
…… …… …… विद्म त्वां शक्तिमत्तमम्। श्रोतारं युत्सु चाह्वानमाह्वयामस्तवावनम्॥ बहुलाभोत्तममिति … … … … … ॥ १०/१०॥
… … … … … स्थानान्तरगते ऋचौ। दृष्ट्वेन्द्रं यज्ञगं याभ्यां मधुच्छन्दास्तमस्तुवन्॥ आतून इति तेनैव न विरुद्धा शतर्चिता॥ छ॥
आ तू न॑ इन्द्र कौशिक मन्दसा॒नः सु॒तं पि॑ब। नव्य॒मायु॒ः प्र सू ति॑र कृ॒धी स॑हस्र॒सामृषि॑म्॥ १०/११॥
मात्रा कुशैर्गृहीतत्वाज्जन्मन्यासीत् स कौशिकः। गाधित्वाद् वा हिरण्याण्डकोशस्थत्वाद्धरिस्तथा॥ मन्दसानो नित्यसुखी स्तुत्यमायुश्च नस्तिर॥ ऋषिं सहस्रलाभं मां कुरु च ….. ……॥ १०/११॥
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वत॑ः। वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः॥ १०/१२॥
….. …… …… …… …… त्वा इमा गिरः। सर्वदा परितः सन्तु मदीयाः सर्वलाभिनम्॥ वृद्धिरूपा गिरो जुष्टाः सेवारूपाश्च सन्तु नः॥ १०/१२॥
इन्द्रं विश्वा इत्यष्टर्चम्॥ ११॥
जेता माधुच्छन्दसः। इन्द्रः। अनुष्टुप्॥
अष्टावृचः पुनस्तेन दृष्टा अन्यत्रगास्तपः। कुर्वता …. …… …… …… …… ॥ छ॥
इन्द्रं॒ विश्वा॑ अवीवृधन्समु॒द्रव्य॑चसं॒ गिर॑ः। र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म्॥ ११/१॥
….. सम्यगुद्रिक्तगुणव्यक्तिस्तथाभिधः॥ ११/१॥
स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते। त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितम्॥ ११/२॥
पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तय॑ः। यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम्॥ ११/३॥
प्रथमानि महत्वेन ते दानान्यवनानि च। न भिद्यन्ते न नश्यन्ति गोमदन्नं यशस्तथा॥ यदि मंहते ददातीशः …. …… ……॥ ११/२-३॥
पु॒रां भि॒न्दुर्युवा॑ क॒विरमि॑तौजा अजायत। इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः॥ ११/४॥
त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म्। त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः॥ ११/५॥
….. …… …… …… वलस्तिर्यग्गतिर्धियः। वाचामन्यार्थबुद्धेस्तु बिलं मूलं तमो हि यत्॥ तदपावृतवांस्त्वं च प्रदर्श्य विनिवार्य च। त्वां हि देवा भयापेताः प्रेर्यमाणास्त्वयैव च॥ छाद्यमानं गिरादैत्यैररक्षन्निव सद्गिरा॥ * ॥ इन्द्रस्य गोसवार्थे च समुत्सृष्टा जगत्यपि॥ चर्तुं गावो हृता दैत्यैः सरमारक्षिताः पुरा। तस्याः स्वसृत्वमुक्त्वैव तयोच्छिष्टं च गोपयः॥ तदर्थं पणयो नाम ते दैत्या बलपूर्वकाः। इन्द्रेण निहताः पश्चाज्ज्ञात्वा च सरमाकृतम्॥ ताडयित्वा पदा वक्त्रात् सृते पयसि तां भयात्। शरणागतां प्रेषयित्वा दूत्येन पणिनां पुनः॥ भित्वा गिरिव्रजं तं च गावो यत्र प्रतिष्ठिताः। निःसारिताः पुनस्ताश्च गोसवेनेष्टमेव च॥ तदा देवा अभीत्यैव परितो जुगुुपुः पतिम्॥११/४-५॥
तवा॒हं शू॑र रा॒तिभि॒ः प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न्। उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रव॑ः॥ ११/६॥
तव दानैरहं सिन्धुं नदीं प्रत्यागमं पुनः। त्वामावदन् स्तुतिपदैर्यज्ञदीक्षार्थमुद्यतः॥ उपातिष्ठन्त कर्तारो विदुस्त्वां ये गिरोदित॥ ११/६॥
मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः। वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र॥ ११/७॥
शक्तिभिः शक्तिमन्तं त्वं शोषकं वृत्रमातिरः। तमो वा त्वां विदुर्मेधारतास्तेषां श्रवांसि च॥ विद्या उच्चैस्तरां देहि …….॥ ११/७॥
इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत। स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः॥ ११/८॥
… … … … स्तुवन्ति त्वां सहौजसा॥ ११/८॥ (२१) (३)
ऋक्संहितायाः स्वाध्यायात् प्रबन्धाद् व्यासनिर्मितात्। ब्राह्मणेभ्यस्तथा मानात् प्रोक्ताः स्युर्मुनयोऽत्र ये॥ श्रुत्यभावादलिङ्गाच्च मुनिर्नान्यः प्रतीयते। श्रुतिलिङ्गान्यता यावत् तावत् पूर्वा प्रमा भवेत्॥ छ॥ शतर्ग्भिरुत्तराभिस्तु वह्निनामानमच्युतम्। अस्तौन्मेधातिथिस्ताभ्य उत्तरा अपि तद्दृशः॥ अन्यत्रगास्तपस्यन् स ता ददर्श कदाचन। कालस्थानान्तरत्वं चेत् सङ्ख्यातोऽभ्यधिकं भवेत्॥ अन्यस्थानगता अन्यदृष्टा अप्यत्रगा यदि। सङ्ख्यान्तर्भावमेष्यन्ति ता इतोऽपगता यतः॥
अग्निन्दूतमिति द्वादशर्चम्॥ १२॥
मेधातिथिः काण्वः। अग्निः, अग्निनाऽग्निरिति प्रथमपादस्य निर्मथ्याहवनीयौ अग्नी। गायत्री॥
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम्। अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म्॥ १२/१॥
यज्ञभागार्थमत्रस्थो देवैः सम्प्रेषितो यतः। दूतोऽग्निर्वासुदेवश्च तत्तत्प्रार्थितकृद् यतः॥ विश्ववेदाः स सर्वज्ञो यज्ञज्ञो यज्ञसुक्रतुः॥ १२/१॥
अ॒ग्निम॑ग्निं॒ हवी॑मभि॒ः सदा॑ हवन्त वि॒श्पति॑म्। ह॒व्य॒वाहं॑ पुरुप्रि॒यम्॥ १२/२॥
अग्निनामा जामदग्न्यो भगवान् सम्प्रकीर्तितः। तस्य रूपबहुत्वेन वीप्सा चैवोपपद्यते॥ हवीमभिरृगाह्वानैराह्वयन्त प्रजापतिम्॥ १२/२॥
अग्ने॑ दे॒वाँ इ॒हा व॑ह जज्ञा॒नो वृ॒क्तब॑र्हिषे। असि॒ होता॑ न॒ ईड्य॑ः॥ १२/३॥
जज्ञानो व्यज्यमानस्तु वृक्तं प्रस्तृतमुच्यते। यजमानो वृक्तबर्हिः ….. ….. …..॥ १२/३॥
ताँ उ॑श॒तो वि बो॑धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य॑म्। दे॒वैरा स॑त्सि ब॒र्हिषि॑॥ १२/४॥
…. ….. ….. बोधयेशेच्छतः सुरान्। देवैः सहोपविशसि ….. ….. …..॥ १२/४॥
घृता॑हवन दीदिव॒ः प्रति॑ ष्म॒ रिष॑तो दह। अग्ने॒ त्वं र॑क्ष॒स्विन॑ः॥ १२/५॥
….. ….. ….. यस्य ते सुघृतं हविः। रिषतो नाशकान् रक्षोजनान् प्रतिदहैव च॥१२/५॥
अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑। ह॒व्य॒वाड्जु॒ह्वा॑स्यः॥ १२/६॥
यस्यास्ये हूयते सोऽग्निः परेशेन समिध्यते। अथवाऽऽहवनीयोऽग्निर्मथितेन समिध्यते॥ १२/६॥ (२२)
क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध॑र्माणमध्व॒रे। दे॒वम॑मीव॒चात॑नम्॥ १२/७॥
सत्यधर्मा सद्गुणभृत् दुःखघ्नोऽमीवचातनः। चातनं कालनं वा स्यात् …… ……॥ १२/७॥
यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे॑व सप॒र्यति॑। तस्य॑ स्म प्रावि॒ता भ॑व॥ १२/८॥
यो अ॒ग्निं दे॒ववी॑तये ह॒विष्माँ॑ आ॒विवा॑सति। तस्मै॑ पावक मृळय॥ १२/९॥
…… …… …… …. देववीतिस्तु तद्गतिः। आवासयति यस्त्वां च तं त्वं मृळय सर्वदा॥ १२/८-९॥
स न॑ः पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह। उप॑ य॒ज्ञं ह॒विश्च॑ नः॥ १२/१०॥
त्वत्पूजाविषये देवानावहेन्द्रियमानिनः॥ १२/१०॥
स न॒ः स्तवा॑न॒ आ भ॑र गाय॒त्रेण॒ नवी॑यसा। र॒यिं वी॒रव॑ती॒मिष॑म्॥ १२/११॥
गायत्रेण स्तूयमानो दृश्यमानेन नो रयिम्। पुत्रयुक्तामिषं चैव वीर्ययुक्तामथावह॥ १२/११॥
अग्ने॑ शु॒क्रेण॑ शो॒चिषा॒ विश्वा॑भिर्दे॒वहू॑तिभिः। इ॒मं स्तोमं॑ जुषस्व नः॥ १२/१२॥
ज्वलता तेजसा विश्वदेवाह्वानैर्वृणु स्तुतिम्॥ १२/१२॥ (२३)
सुसमिद्ध इति द्वादशर्चम्॥ १३॥
मेधातिथिः काण्वः। (आप्रीसूक्तम्, अग्निरूपा देवताः प्रत्यृचं भिन्नाः) प्रथमाया इध्मः समिद्धोऽग्निर्वा, द्वितीयायास्तनूनपात्, तृतीयाया नराशंसः, चतुर्थ्या इळः, पञ्चम्या बर्हिः, षष्ठ्याः देव्यो द्वारः, सप्तम्या उषासानक्ता, अष्टम्या देव्या होतारौ प्रचेतसौ, नवम्या सरस्वतीळाभारत्यः, दशम्यास्त्वष्टा, एकादश्या वनस्पतिः, द्वादश्या स्वाहाकृतयः। गायत्री॥
सुस॑मिद्धो न॒ आ व॑ह दे॒वाँ अ॑ग्ने ह॒विष्म॑ते। होत॑ः पावक॒ यक्षि॑ च॥ १३/१॥
अस्मद्धविष्मते देवानाहूय यज चादरात्॥ १३/१॥
मधु॑मन्तं तनूनपाद्य॒ज्ञं दे॒वेषु॑ नः कवे। अ॒द्या कृ॑णुहि वी॒तये॑॥ १३/२॥
तनूभ्यो वाक् ततो देवो व्यक्तस्तेन तनूनपात्॥ १३/२॥
नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन्य॒ज्ञ उप॑ ह्वये। मधु॑जिह्वं हवि॒ष्कृत॑म्॥ १३/३॥
नरैः स्तुत्यो नराशंसो वह्नेरन्याऽथवा तनूः॥ १३/३॥
अग्ने॑ सु॒खत॑मे॒ रथे॑ दे॒वाँ ई॑ळि॒त आ व॑ह। असि॒ होता॒ मनु॑र्हितः॥ १३/४॥
मनूनां च हितत्वेन मनुर्हित इतीरितः॥ १३/४॥
स्तृ॒णी॒त ब॒र्हिरा॑नु॒षग्घृ॒तपृ॑ष्ठं मनीषिणः। यत्रा॒मृत॑स्य॒ चक्ष॑णम्॥ १३/५॥
आनुषक् सर्वतो देवस्थानं बर्हिः स्तृणीत च। शुद्धस्य विष्णोर्यत् स्थानं घृतपृष्ठं हि तन्मनः॥ यत्र स्याद् दर्शनं विष्णोर्नित्यामरणधर्मिणः॥ १३/५॥
वि श्र॑यन्तामृता॒वृधो॒ द्वारो॑ दे॒वीर॑स॒श्चत॑ः। अ॒द्या नू॒नं च॒ यष्ट॑वे॥ १३/६॥
ऋतरूपेण हरिणा समृद्धा या ऋतावृधः। द्वारो देव्यः श्रियो दास्यः श्रयन्तामिह नो मखे॥ मानसे बाह्ययज्ञे वा ह्यसङ्गत्वादसश्चतः। अद्याहनि तथा नूनमद्यैव यजनार्थतः॥ द्वारभूतः स भगवानपि साक्षान्मुमुक्षतः। स्त्रीरूपश्च सः ….. …… ……॥ १३/६॥
नक्तो॒षासा॑ सु॒पेश॑सा॒स्मिन्य॒ज्ञ उप॑ ह्वये। इ॒दं नो॑ ब॒र्हिरा॒सदे॑॥ १३/७॥
…… नक्ता स्यान्नाक्तो यस्मात् स सर्वतः। उषाः प्रकाशरूपत्वात् सुभद्रे ते उपह्वये॥ अस्मिन् बर्हिषि संस्थित्यै ….. ……॥ १३/७॥
ता सु॑जि॒ह्वा उप॑ ह्वये॒ होता॑रा॒ दैव्या॑ क॒वी। य॒ज्ञं नो॑ यक्षतामि॒मम्॥ १३/८॥
….. …… …… होतारौ देवगावपि। मथ्यमानोऽपरश्चैव वह्वी तद्गोऽथवा हरिः। आत्मान्तरात्मरूपेण द्विरूपो वा व्यवस्थितः। देवेषु यजतां यज्ञमस्मदीयमिमं सदा॥ १३/८॥
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुव॑ः। ब॒र्हिः सी॑दन्त्व॒स्रिध॑ः॥ १३/९॥
इळेड्यत्वाद्धरिः श्रीर्वा भूरूपा सैव चापरा। मही तु भारती नाम वायव्या ब्रह्मणोऽपरा॥ तद्गतस्तादृशै रूपैः पृथक्स्थो वा हरिस्तथा॥ १३/९॥
इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये। अ॒स्माक॑मस्तु॒ केव॑लः॥ १३/१०॥
त्वष्टा तेजस्त्वतो विष्णुर्बलत्वाद् वा समीरितः। विश्वरूपकरत्वाच्च विश्वरूपोऽथ पूर्तितः॥ १३/१०॥
अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो॑ ह॒विः। प्र दा॒तुर॑स्तु॒ चेत॑नम्॥ १३/११॥
वननीयपतित्वेन वनस्पतिरितीरितः। ज्ञानं तु चेतनम् …. ….. ….॥ १३/११॥
स्वाहा॑ य॒ज्ञं कृ॑णोत॒नेन्द्रा॑य॒ यज्व॑नो गृ॒हे। तत्र॑ दे॒वाँ उप॑ ह्वये॥ १३/१२॥
….. …. स्वाहा स्वभागगतिमान् स्मृतः। अव्ययत्वादमोषश्च …… …. ….॥ १३/१२॥ (२५)
एभिरग्न इति द्वादशार्चम्॥ १४॥
मेधातिथिः काण्वः। विश्वे देवाः। गायत्री॥
ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे॑भि॒ः सोम॑पीतये। दे॒वेभि॑र्याहि॒ यक्षि॑ च॥ १४/१॥
……. ……. कामदोहा दुवः स्मृताः॥ १४/१॥
आ त्वा॒ कण्वा॑ अहूषत गृ॒णन्ति॑ विप्र ते॒ धिय॑ः। दे॒वेभि॑रग्न॒ आ ग॑हि॥ १४/२॥
इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म्। आ॒दि॒त्यान्मारु॑तं ग॒णम्॥ १४/३॥
बृहन् पतिर्बृहत्या वा वाच एव बृहस्पतिः। मित्रेति मित्रावरुणौ पूषा नाम स पोषणात्॥ पूर्णत्वाद् वा भगः प्रोक्तः पूर्णैश्वर्यादिकत्वतः। आदिस्थत्वात् स आदित्य आददानः प्रयाति वा॥ बहुरूपत्वतश्चैव मानोक्तत्वात् तु मारुतः॥ १४/२-३॥
प्र वो॑ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा॑दयि॒ष्णव॑ः। द्र॒प्सा मध्व॑श्चमू॒षद॑ः॥ १४/४॥
मत्सरा मदकारित्वात् ताच्छील्यादुत्तरं पदम्। द्रप्सास्ते द्रवणाच्चैव चमसस्थाश्चमूषदः॥ शिरश्च चमसं प्रोक्तमिष्टदानात् तथेन्दवः॥ १४/४॥
ईळ॑ते॒ त्वाम॑व॒स्यव॒ः कण्वा॑सो वृ॒क्तब॑र्हिषः। ह॒विष्म॑न्तो अरं॒कृत॑ः॥ १४/५॥
अवस्युर्यजमानः स्यादवनार्थप्रवृत्तितः। आत्मस्थं वा बहुवचो बहवो मुनयोऽत्र वा॥ उत्तराणां वचस्त्वेन स्वयं वदति चेश्वरः। अरङ्कृतोऽतिकर्तारस्त्वलङ्कर्तार एव वा॥ १४/५॥
घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह॑न्ति॒ वह्न॑यः। आ दे॒वान्सोम॑पीतये॥ १४/६॥
स्निग्धपृष्ठाः समारूढा हरिणा वा विदोषिणा। मनोमात्रेण योज्याश्च त्वां देवांश्च वहन्ति ये॥ १४/६॥ (२६)
तान्यज॑त्राँ ऋता॒वृधोऽग्ने॒ पत्नी॑वतस्कृधि। मध्व॑ः सुजिह्व पायय॥ १४/७॥
तैर्देवान् यजतः स्तोतॄन् ज्ञातेन ब्रह्मणैधितान्। पत्नीभिर्योजयागन्तुं सह मध्वश्च पायय॥ १४/७॥
ये यज॑त्रा॒ य ईड्या॒स्ते ते॑ पिबन्तु जि॒ह्वया॑। मधो॑रग्ने॒ वष॑ट्कृति॥ १४/८॥
ते षष्ठ्यतोऽनुदात्तः स्यादुदात्तो बहुवाचकः। आवृत्तस्तु भवेदर्थस्ते पिबन्तु वषट्कृतौ॥ १४/८॥
आकीं॒ सूर्य॑स्य रोच॒नाद्विश्वा॑न्दे॒वाँ उ॑ष॒र्बुध॑ः। विप्रो॒ होते॒ह व॑क्षति॥ १४/९॥
सूर्यस्य रोचनात् स्वर्गादावक्षत्यग्निरिन्दुपान्। उषः प्रकाशनाद् ब्रह्म तद्विदस्त उषर्बुधः॥ १४/९॥
विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑। पिबा॑ मि॒त्रस्य॒ धाम॑भिः॥ १४/१०॥
देवास्ते विष्णुधामत्वान्मित्रधामान ईरिताः॥ १४/१०॥
त्वं होता॒ मनु॑र्हि॒तोऽग्ने॑ य॒ज्ञेषु॑ सीदसि। सेमं नो॑ अध्व॒रं य॑ज॥ १४/११॥
यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ देव रो॒हित॑ः। ताभि॑र्दे॒वाँ इ॒हा व॑ह॥ १४/१२॥
अग्निवाहा अश्वतर्यो दूर्वापद्माग्निसप्रभाः। लोहिताः क्वचिदश्वाश्च रोहिन्मृग्योऽपि कुत्रचित्॥ १४/११-१२॥ (२७)
इन्द्रसोममिति द्वादशार्चम्॥ १५॥
मेधातिथिः काण्वः। ऋतवः। अपिच, आद्यानां षण्णामिन्द्रः, मरुतः, विष्णुरिन्द्रोऽग्निस्त्वष्टा च, अग्निः, इन्द्रः, मित्रावरुणौ, ततश्चसृणां द्रविणोदाः, एकादश्या अश्विनौ, द्वादश्या अग्निः। गायत्री॥
इन्द्र॒ सोमं॒ पिब॑ ऋ॒तुना त्वा॑ विश॒न्त्विन्द॑वः। म॒त्स॒रास॒स्तदो॑कसः॥ १५/१॥
मरु॑त॒ः पिब॑त ऋ॒तुना॑ पो॒त्राद्य॒ज्ञं पु॑नीतन। यू॒यं हि ष्ठा सु॑दानवः॥ १५/२॥
अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्ट॒ः पिब॑ ऋ॒तुना॑। त्वं हि र॑त्न॒धा असि॑॥ १५/३॥
ऋतुर्मार्गस्तु नेतृत्वान्नेष्टाग्निर्हरिरेव वा। ईष्टे न कश्चिदस्येति ग्ना नद्यश्च समीरिताः॥ गतिशीलत्वतो ग्नास्ता ज्ञातृनेतृत्वतो हरिः। गमनान्नयनाद् वा ग्ना ऋतुपात्रमृतुस्तथा॥ सोमास्तदोकसः प्रोक्ता ऋतुपात्रस्थिता यतः। पत्नीनेतृत्वतो नेष्टा नेष्टर्त्विक् सम्प्रकीर्तितः॥ ज्ञापयन्ति स्वलिङ्गानीत्यृतवः षट् प्रकीर्तिताः। पावनाच्चैव पोतारो मरुतः पोतृदेवताः॥ अग्निस्तु देवता नेष्टुस्त्वष्टेन्द्रो विष्णुरेव वा॥ १५/१-३॥
अग्ने॑ दे॒वाँ इ॒हा व॑ह सा॒दया॒ योनि॑षु त्रि॒षु। परि॑ भूष॒ पिब॑ ऋ॒तुना॑॥ १५/४॥
वेद्युत्तरा सदश्चैव प्राग्वंशो योनयः स्मृताः। भूष भूषय नो यज्ञम् …..॥ १५/४॥
ब्राह्म॑णादिन्द्र॒ राध॑स॒ः पिबा॒ सोम॑मृ॒तूँरनु॑। तवेद्धि स॒ख्यमस्तृ॑तम्॥१५/५॥
…… …… …… ब्राह्मणाच्छंसिपात्रतः। पिबेन्द्र नो राधसोऽर्थे त्वामनु त्वृतुदेवताः॥ स्तृतं छिन्नमिति प्रोक्तम् …… ……॥ १५/५॥
यु॒वं दक्षं॑ धृतव्रत॒ मित्रा॑वरुण दू॒ळभ॑म्। ऋ॒तुना॑ य॒ज्ञमा॑शाथे॥ १५/६॥
….. ….. ….. अस्तभ्यं दुर्दभं स्मृतम्। दक्षाख्यं यजमानं चापीशाथे यज्ञमेव च॥ सोमं पीत्वर्तृपात्रेण सह वा तेन चर्तुना॥ १५/६॥ (२८)
द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे। य॒ज्ञेषु॑ दे॒वमी॑ळते॥ १५/७॥
होता च होतृकाश्चैव द्रविणोदा द्रवीणसः। अग्निश्चैवाग्नयस्तेषां देवता विष्णुमीळते॥ १५/७॥
द्र॒वि॒णो॒दा द॑दातु नो॒ वसू॑नि॒ यानि॑ शृण्वि॒रे। दे॒वेषु॒ ता व॑नामहे॥ १५/८॥
द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत। ने॒ष्ट्रादृ॒तुभि॑रिष्यत॥ १५/९॥
पातुमिच्छति सोमं स सोमास्तस्मै प्रतिष्ठिताः। ऋतुपात्रैर्देवताभिः सहैवैनमभीप्सत॥ १५/८-९॥
यत्त्वा॑ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा॑महे। अध॑ स्मा नो द॒दिर्भ॑व॥ १५/१०॥
चतुर्थवारमपि यत् त्वां यजामो ददिर्भव॥ १५/१०॥
अश्वि॑ना॒ पिब॑तं॒ मधु॒ दीद्य॑ग्नी शुचिव्रता। ऋ॒तुना॑ यज्ञवाहसा॥ १५/११॥
दीद्यग्नी इति दीप्ताग्नी …. …. ….॥ १५/११॥
गार्ह॑पत्येन सन्त्य ऋ॒तुना॑ यज्ञ॒नीर॑सि। दे॒वान्दे॑वय॒ते य॑ज॥ १५/१२॥
…. …. …. …. सन्त्योऽग्निः सन्ततत्वतः। विष्णुर्वर्त्वधिपो विष्णुः केशवादिस्वरूपतः॥ ग्रहान् सोमस्य मिमत इति तस्यैव कथ्यते। गार्हपत्येन पात्रेण यजमानस्तु देवयन्॥ देवान् यातीति …… …… ……॥ १५/१२॥ (२९)
आत्वावहन्त्विति नवर्चम्॥ १६॥
मेधातिथिः काण्वः। अग्निः। गायत्री॥
आ त्वा॑ वहन्तु॒ हर॑यो॒ वृष॑णं॒ सोम॑पीतये। इन्द्र॑ त्वा॒ सूर॑चक्षसः॥ १६/१॥
….. ….. सुष्ठूरीकुर्वन्ति विषयान् यतः। चक्षूंषीन्द्रस्य हरयस्तेनोक्ताः सूरचक्षसः॥ १६/१॥
इ॒मा धा॒ना घृ॑त॒स्नुवो॒ हरी॑ इ॒होप॑ वक्षतः। इन्द्रं॑ सु॒खत॑मे॒ रथे॑॥ १६/२॥
भक्तिस्नुतानि धानानि बुद्धेर्धाना इति ह्यपि॥ १६/२॥
इन्द्रं॑ प्रा॒तर्ह॑वामह॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे। इन्द्रं॒ सोम॑स्य पी॒तये॑॥ १६/३॥
प्रातरित्यादिवाक्येन सवनत्रयमीरितम्। समाप्तत्वात् सोमपीतिस्तृतीयं सवनं स्मृतम्॥ सदा …… ….. ….. ….. …..॥ १६/३॥
उप॑ नः सु॒तमा ग॑हि॒ हरि॑भिरिन्द्र के॒शिभि॑ः। सु॒ते हि त्वा॒ हवा॑महे॥ १६/४॥
सेमं न॒ः स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तम्। गौ॒रो न तृ॑षि॒तः पि॑ब॥ १६/५॥
इ॒मे सोमा॑स॒ इन्द॑वः सु॒तासो॒ अधि॑ ब॒र्हिषि॑। ताँ इ॑न्द्र॒ सह॑से पिब॥ १६/६॥
…… विष्णुविवक्षायां यजमानबलं सहः। तदिष्टस्यैव दानाय तद्गुणव्यक्तिरेव वा॥ “पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।” “हेयोपादेयरहितगुणपूर्णो हरिः सदा। अनुग्रहव्यक्तिरेव तद्गुणानां च नान्यथा॥” इत्यादिवेदवाक्येभ्यो नैव वृद्धिर्हरेः क्वचित्॥ १६/४-६॥
अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः। अथा॒ सोमं॑ सु॒तं पि॑ब॥ १६/७॥
विश्व॒मित्सव॑नं सु॒तमिन्द्रो॒ मदा॑य गच्छति। वृ॒त्र॒हा सोम॑पीतये॥ १६/८॥
सेमं न॒ः काम॒मा पृ॑ण॒ गोभि॒रश्वै॑ः शतक्रतो। स्तवा॑म त्वा स्वा॒ध्य॑ः॥ १६/९॥
पृण सम्पूरय स्वाध्यः सुधीतय इतीरिताः॥ १६/७-९॥ (३१)
इन्द्रावरुणयोरिति नवर्चम्॥ १७॥
मेधातिथिः काण्वः। इन्द्रावरुणौ। गायत्री, युवाकुहीति द्वृचौ पादनिचृतौ (इन्द्रःसहस्रेति ह्रसीयसी वा)॥
इन्द्रा॒वरु॑णयोर॒हं स॒म्राजो॒रव॒ आ वृ॑णे। ता नो॑ मृळात ई॒दृशे॑॥ १७/१॥
अविकारेण संस्थानमीदृक्त्वं नाम कीर्तितम्॥ १७/१॥
गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः। ध॒र्तारा॑ चर्षणी॒नाम्॥ १७/२॥
मावतो ज्ञानयुक्तस्य प्रजाश्चर्षणीयः स्मृताः॥ १७/२॥
अ॒नु॒का॒मं त॑र्पयेथा॒मिन्द्रा॑वरुण रा॒य आ। ता वां॒ नेदि॑ष्ठमीमहे॥ १७/३॥
नेदिष्ठत्वं समीपत्वं क्षिप्रं शरणमीमहे॥ १७/३॥
यु॒वाकु॒ हि शची॑नां यु॒वाकु॑ सुमती॒नाम्। भू॒याम॑ वाज॒दाव्ना॑म्॥ १७/४॥
युवयोरेव वाक्यानां सुमतीनां च सर्वशः। भवेमान्नप्रदातॄणां सर्वदा विषया वयम्॥ १७/४॥
इन्द्र॑ः सहस्र॒दाव्नां॒ वरु॑ण॒ः शंस्या॑नाम्। क्रतु॑र्भवत्यु॒क्थ्य॑ः॥ १७/५॥
क्रतुः प्रधान उक्थ्यश्च शस्त्रैः स्तुत्यो विशेषतः॥ १७/५॥ (३२)
तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि। स्यादु॒त प्र॒रेच॑नम्॥ १७/६॥
रक्षणेन तयोर्वित्तं ज्ञानं वा प्राप्नुमः सदा। निधीमहि च दानं च स्यादेवास्माकमर्थिने॥ १७/६॥
इन्द्रा॑वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से। अ॒स्मान्सु जि॒ग्युष॑स्कृतम्॥ १७/७॥
ह्रस्वता संहितायां तु देवतैक्यप्रदर्शिनी। स्वरूपैक्यं हरौ तत् तु मत्यैक्यं भिन्नयोरपि॥ १७/७॥
इन्द्रा॑वरुण॒ नू नु वां॒ सिषा॑सन्तीषु धी॒ष्वा। अ॒स्मभ्यं॒ शर्म॑ यच्छतम्॥ १७/८॥
अद्य वां नु नुमो लोपः स्वातन्त्र्यार्थे हि सूत्रतः। साधयन्तीषु धीष्वेव शर्मास्मभ्यं प्रयच्छतम्॥ १७/८॥
प्र वा॑मश्नोतु सुष्टु॒तिरिन्द्रा॑वरुण॒ यां हु॒वे। यामृ॒धाथे॑ स॒धस्तु॑तिम्॥ १७/९॥
यथास्थितस्तुतिं यां च वर्धयेथे सदैव मे॥ १७/९॥ (३३) (४)
सोमानमिति नवर्चम्॥ १८॥
मेधातिथिः काण्वः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते। क॒क्षीव॑न्तं॒ य औ॑शि॒जः॥ १८/१॥
सौम्यं शब्दं कृणु त्वं नो विष्णो वायो सुवाक्पते। कक्षीवन्तं प्रति हि यो दत्तो यः स उशिक्सुतः॥ विवक्षितो मुनिः सोऽपि तस्मादर्थोऽपि मां प्रति॥ १८/१॥
यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः। स न॑ः सिषक्तु॒ यस्तु॒रः॥ १८/२॥
वित्तवान् रोगहा ज्ञानवेत्ताऽस्माभिः सयुग् भवेत्। तुरो वेगाद्धरिर्वायुः ….. ….. …..॥१८/२॥
मा न॒ः शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य। रक्षा॑ णो ब्रह्मणस्पते॥ १८/३॥
….. ….. ….. … अररुद् चातिरोषणात्। तस्य धूर्तिर्वचो नास्मान् पूरयेद् रक्ष नो हरे॥ १८/३॥
स घा॑ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पति॑ः। सोमो॑ हि॒नोति॒ मर्त्य॑म्॥ १८/४॥
घेति हावधृतिश्चैव सोमः सौम्यत्वतो हरिः। उना मया च युक्तत्वादूमैर्युक्तत्वतोऽपि वा॥ अमः स इति वा ……. ……. ॥ १८/४॥
त्वं तं ब्र॑ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य॑म्। दक्षि॑णा पा॒त्वंह॑सः॥ १८/५॥
….. साक्षाच्छ्रीर्दक्षेणेति दक्षिणा। दक्षिणा चतुरत्वाद् वा स्वयमेव जनार्दनः॥ १८/५॥ (३४)
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म्। स॒निं मे॒धाम॑यासिषम्॥ १८/६॥
सदसस्पतिर्हरिः साक्षाद् वायुरग्निरथापि वा। लाभज्ञानस्वरूपोऽसौ शरणं तमयासिषम्॥ १८/६॥
यस्मा॑दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न। स धी॒नां योग॑मिन्वति॥१८/७॥
धीप्रेरकः स ध्येयश्च धीभिर्योगं तदाप्नुते॥ १८/७॥
आदृ॑ध्नोति ह॒विष्कृ॑तिं॒ प्राञ्चं॑ कृणोत्यध्व॒रम्। होत्रा॑ दे॒वेषु॑ गच्छति॥ १८/८॥
तस्माद्धविष्कृतः स्वृद्धिं करोति यजतो विभुः। करोति चोत्तमं यज्ञं देवाह्वानानि गच्छति॥ १८/८॥
नरा॒शंसं॑ सु॒धृष्ट॑म॒मप॑श्यं स॒प्रथ॑स्तमम्। दि॒वो न सद्म॑मखसम्॥ १८/९॥
नरैः स्तुत्यो नराशंसो हरिर्धृष्टतमश्च सः। गुणानां प्रथिमाधिक्यात् सप्रथस्तम ईरितः॥ यस्य स्वर्गादपि गृहं मखः प्रियमिवेयते॥ १८/९॥ (३५)
प्रतित्यमिति नवर्चम्॥ १९॥
मेधातिथिः काण्वः। अग्निर्मरुतश्च। गायत्री॥
प्रति॒ त्यं चारु॑मध्व॒रं गो॑पी॒थाय॒ प्र हू॑यसे। म॒रुद्भि॑रग्न॒ आ ग॑हि॥ १९/१॥
यज्ञं प्रति प्रति त्यं तं सम्यक् शास्त्रोक्तलक्षणम्। आहूयसे ….. ….. ….. …..॥ १९/१॥
न॒हि दे॒वो न मर्त्यो॑ म॒हस्तव॒ क्रतुं॑ प॒रः। म॒रुद्भि॑रग्न॒ आ ग॑हि॥ १९/२॥
…. …. महान् नैव त्वदन्योऽस्ति क्रतुं प्रति। विष्णौ हि मुख्यतोऽर्थोऽयमग्नौ कांश्चिदृते सुरान्॥ १९/२॥
ये म॒हो रज॑सो वि॒दुर्विश्वे॑ दे॒वासो॑ अ॒द्रुह॑ः। म॒रुद्भि॑रग्न॒ आ ग॑हि॥ १९/३॥
महतो रञ्जकात् स्वर्गादद्रोग्धारोऽखिलं विदुः॥ १९/३॥
य उ॒ग्रा अ॒र्कमा॑नृ॒चुरना॑धृष्टास॒ ओज॑सा। म॒रुद्भि॑रग्न॒ आ ग॑हि॥ १९/४॥
प्राप्ता अर्कं विशेषेण सन्निधिस्तत्र यद्धरेः॥ १९/४॥
ये शु॒भ्रा घो॒रव॑र्पसः सुक्ष॒त्रासो॑ रि॒शाद॑सः। म॒रुद्भि॑रग्न॒ आ ग॑हि॥ १९/५॥
शुद्धा घोरबलाः क्षेत्रत्रातारः क्षतितोपि वा। रम्यसत्सुखभोक्तारो मरुतो मारुतत्वतः॥ एतादृशानि रूपाणि प्राणाग्निस्थानि चेशितुः। पृथग् वा तादृशान्येव देवगान्यपि सर्वशः॥ १९/५॥ (३६)
ये नाक॒स्याधि॑ रोच॒ने दि॒वि दे॒वास॒ आस॑ते। म॒रुद्भि॑रग्न॒ आ ग॑हि॥ १९/६॥
स्वर्गोपरि प्रकाशे च सूर्यादावासते सुराः। नाको निर्दुःखरूपत्वाद् द्यौः प्रकाशस्वरूपतः॥ १९/६॥
य ई॒ङ्खय॑न्ति॒ पर्व॑तान्ति॒रः स॑मु॒द्रम॑र्ण॒वम्। म॒रुद्भि॑रग्न॒ आ ग॑हि॥ १९/७॥
आ ये त॒न्वन्ति॑ र॒श्मिभि॑स्ति॒रः स॑मु॒द्रमोज॑सा। म॒रुद्भि॑रग्न॒ आ ग॑हि॥ १९/८॥
अ॒भि त्वा॑ पू॒र्वपी॑तये सृ॒जामि॑ सो॒म्यं मधु॑। म॒रुद्भि॑रग्न॒ आ ग॑हि॥ १९/९॥
प्रतोलयन्ति च गिरींस्तिरस्कृत्य च सागरम्। पुरुषान् प्रकृतिं वाऽपि पर्ववन्तो हि जन्मना॥ पुरुषाः सुसमुद्रेकात् समुद्रः प्रकृतिर्मता। प्रकृतेः पुरुषाणां च प्रेरकः सन् सदा हरे॥ स्वरूपैर्बहुभिर्युक्त आयाहि सम सद्गुणैः॥ १९/७-९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचित ऋग्भाष्ये प्रथमोऽध्यायः सम्पूर्णः॥
अयन्देवायेत्यष्टर्चम्॥ २० (२/१)॥
मेधातिथिः काण्वः। ऋभवः। गायत्री॥
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या। अका॑रि रत्न॒धात॑मः॥ २०/१॥
सर्वजन्मकृते विष्णुदेवायेयं स्तुतिः कृता। मुखेन विप्रैः काण्वाद्यैः सैव यद् रतिधातमा॥ २०/१॥
य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑। शमी॑भिर्य॒ज्ञमा॑शत॥ २०/२॥
वाङ्मात्रेणैव योज्यौ ये चक्रुरिन्द्राय वाजिनौ। शमीभिर्विष्णुनिष्ठाभिर्यज्ञभागं च लेभिरे॥ भगवांश्चैतदखिलं कृतवानृभुषु स्थितः। पृथग् वा फलदातृत्वात् …. …..॥ २०/२॥
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म्। तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म्॥ २०/३॥
….. …… …. ….. परितो ज्मां यतश्चरेत्। परिज्माऽतो रथः काम्यं सबरित्यभिधीयते॥ ब कामन इति ह्यस्मात् ….. …..॥ २०/३॥
युवा॑ना पि॒तरा॒ पुन॑ः स॒त्यम॑न्त्रा ऋजू॒यव॑ः। ऋ॒भवो॑ वि॒ष्ट्य॑क्रत॥ २०/४॥
…… ….. ….. सुधन्वैषां पिता स्मृतः। बृहस्पतेः कामधेनुमृजुभक्ता ऋजूयवः॥ अवेतनं स्वामिबलात् कर्म विष्ट्यत्र तेऽक्रत। ऋतभूमिर्ज्ञानभूमिर्भगवानृभुरीरितः॥ येषां भूतमृतं कर्म यज्ञभागाप्तितोऽपि ते॥ २०/४॥
सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता। आ॒दि॒त्येभि॑श्च॒ राज॑भिः॥ २०/५॥
सहेन्द्रेण सहादित्यैः प्राप्ता युष्माकमिन्दवः॥ २०/५॥ (१)
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम्। अक॑र्त च॒तुर॒ः पुन॑ः॥ २०/६॥
एकं चमसं चतुरः कुरुतेत्याह तान् पुरा। त्वष्टाऽग्निश्चैव देवानां वाक्यात् तदपि तैः कृतम्॥ द्य्वादि स्वोक्तं परित्यज्य त्वष्टुः शुश्रूषणं कृतम्। तं पूर्वकृतमेवैकं चमसं चतुरोऽक्रत॥ २०/६॥
ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते। एक॑मेकं सुश॒स्तिभि॑ः॥ २०/७॥
सप्तसङ्ख्यानि रत्नानि त्रिकालेष्वपि धत्तन। पुराणपञ्चरात्रेतिहासवेदान् हरिस्तथा॥ मीमांसातर्कसहितान् पञ्चवेदानथापि वा। सप्त च्छन्दांसि वैकैकं तद्गुणैरखिलैः सह॥ २०/७॥
अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑। भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म्॥ २०/८॥
सुकर्मणा यज्ञभागमभजन्नप्यधारयन्। वह्नयो धारकत्वेन स्थिरत्वेन यथा(ऽ)गतिः॥ २० (२/१)/८॥ (२)
इहेन्द्राग्नी इति षडृचम् ॥ २१ (२/२)॥
मेधातिथिः काण्वः। इन्द्राग्नी। गायत्री॥
इ॒हेन्द्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित्स्तोम॑मुश्मसि। ता सोमं॑ सोम॒पात॑मा॥ २१/१॥
ह्वये सोमं प्रति च तौ ….. ….. …..॥ २१/१॥
ता य॒ज्ञेषु॒ प्र शं॑सतेन्द्रा॒ग्नी शु॑म्भता नरः। ता गा॑य॒त्रेषु॑ गायत॥ २१/२॥
……. ….. ….. शुम्भनं भूषणं मतम्॥ २१/२॥
ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे। सो॒म॒पा सोम॑पीतये॥ २१/३॥
तौ मित्रस्य प्रशस्त्यर्थौ हरेः ….. …..॥ २१/३॥
उ॒ग्रा सन्ता॑ हवामह॒ उपे॒दं सव॑नं सु॒तम्। इ॒न्द्रा॒ग्नी एह ग॑च्छताम्॥ २१/४॥
ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्नी॒ रक्ष॑ उब्जतम्। अप्र॑जाः सन्त्व॒त्रिण॑ः॥ २१/५॥
…. ….. ….. ….. ….. रक्षांसि चोब्जतम्। रक्षोरक्ष्याः प्रजा यस्मादत्र्यो मार्गत्रयोज्झिताः॥ पितृदेवमनुष्याणां गत्यभावदधोगतेः॥ २१/४-५॥
तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने॑ प॒दे। इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम्॥ २१/६॥
सत्येन गुणपूर्णेन विष्णुना तेन जागृतम्। स्वगुणैरेव विष्णुस्तु प्रकृष्टे चेतने हरौ॥ पदे गम्यत्वतः सम्यक् तस्मिन्नेव स्वभावतः। तथा स्थितौ तु जागृतमिति विष्णुर्विशेषतः॥ उक्तः ….. ….. ….. ….. ….. …..॥ २१ (२/२) /६॥ (३)
प्रातर्युजेत्येकविंशत्यृचम्॥ २२ (२/३)॥
मेधातिथिः काण्वः। आद्यानां चतसृणामश्विनौ, ततश्चतसृणां सविता, ततो द्वयोरग्निः, तत एकस्या देव्यः, तत एकस्या इन्द्राणी वरुणान्यग्नाय्यः, ततो द्वयोर्द्यावापृथिव्यौ, तत एकस्याः पृथिवी, ततः षण्णां विष्णुः (अतो देवा इत्यस्य देवा वा)। गायत्री॥
प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम्। अ॒स्य सोम॑स्य पी॒तये॑॥ २२/१॥
…. प्रातः स्तुतत्वेन प्रोक्तौ प्रातर्युजाविति। अश्विनौ भगवांश्चैव प्रातर्योगेन गम्यते॥ स्तुतिशब्दः स्तुतौ यस्माद् बुद्ध्यते वर्तमानकः। बोधयेत्यत उक्तं तत् परतो बुद्ध्यते कथम्॥ २२/१॥
या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑। अ॒श्विना॒ ता ह॑वामहे॥ २२/२॥
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती। तया॑ य॒ज्ञं मि॑मिक्षतम्॥ २२/३॥
कशया स्पृष्टिमात्रेण मधुरं कुरुतोऽखिलम्। अतो मिमिक्षतमिति स्पर्शो मेक्षणमुच्यते॥ वेदवाक्यस्तुतत्वेन कशा सा सूनृतावती। तयैव घृतसोमादि स्पृशतं याज्ञिकं वसु॥ २२/२-३॥
न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः। अश्वि॑ना सो॒मिनो॑ गृ॒हम्॥ २२/४॥
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये। स चेत्ता॑ दे॒वता॑ प॒दम्॥ २२/५॥
हितत्वाद् रमणीयत्वाद्धिरण्यं वर्णतोऽपिच। रूपं नारायणस्यैव पाणिशब्दोपलक्षितम्॥ स्रष्टृत्वात् सविता विष्णुः स ज्ञाता स्वपदादिकम्। स एव देवता मुख्या तद्गुणैक्येन देवता॥ २२/४-५॥ (४)
अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि। तस्य॑ व्र॒तान्यु॑श्मसि॥ २२/६॥
व्यक्तत्वात् पार्थिवे देहे सोऽपां नप्ता जनार्दनः॥ २२/६॥
वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः। स॒वि॒तारं॑ नृ॒चक्ष॑सम्॥ २२/७॥
सदा विभज्य दातारं वसोरुत्तमराधसः। अशेषपुण्यपापादिविशेषैश्चितिदर्शकम्॥ आह्व्यामः … … … … … … … … ॥ २२/७॥
सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु न॑ः। दाता॒ राधां॑सि शुम्भति॥ २२/८॥
… स राधांसि शोभयत्यञ्जसा हरिः॥ २२/८॥
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑। त्वष्टा॑रं॒ सोम॑पीतये॥ २२/९॥
आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीम्। वरू॑त्रीं धि॒षणां॑ वह॥ २२/१०॥
नदीश्च भारतीं चैव होत्रामाहुतिरूपतः। वरूत्रीं वरणीयत्वात् त्राणाद् बुद्धिस्वरूपिणीम्॥ विष्णुश्च प्राणसम्बन्धाद् भारतीत्येव चोदितः। प्राणस्तु भरतो भारततत्वाद् भर्तृरूपतः॥ होत्रा हुतत्वतो विष्णुः श्रीर्वाऽपि धिषणा मता॥ २२/९-१०॥ (५)
अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नी॑ः। अच्छि॑न्नपत्राः सचन्ताम्॥ २२/११॥
शर्म दत्वैव महतो विष्णो रक्षन्तु नोऽभितः। प्राणेनैवावसा साकं यस्मादविधवाः सदा॥ अतो ह्यच्छिन्नपत्रास्ताः सदायुक्कर्णभूषणाः॥ २२/११॥
इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑। अ॒ग्नायीं॒ सोम॑पीतये॥ २२/१२॥
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम्। पि॒पृ॒तां नो॒ भरी॑मभिः॥ २२/१३॥
भरणैर्नः पारयेतां दुःखेभ्यः श्रीश्च भूश्च ते। स्वयं वा भगवानन्ये रोदसी लोकदेवते॥ २२/१२-१३॥
तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा॑ रिहन्ति धी॒तिभि॑ः। ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे॥ २२/१४॥
तयोः पयस्तु विज्ञानं घृतवत् सापरोक्षकम्। यल्लोकदेवताऽपि स्याद् भारती ज्ञानदेवता॥ विष्णोर्नित्यपदस्थं यज्ज्ञानं यद् घृतवत् पयः। लिहन्ति विप्रास्तज्ज्ञानं बुद्धिभिस्तत्प्रसादतः॥ गां धारयन् वर्तते यद् गन्धर्वस्तेन केशवः॥ २२/१४॥
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी। यच्छा॑ न॒ः शर्म॑ स॒प्रथ॑ः॥ २२/१५॥
स्योना सुखकरी स्यान्नो यतो नश्यसि नो नृवत्। निवेशनी साधारत्वाच्छर्म यच्छ महत्तरम्॥ २२/१५॥ (६)
अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे। पृ॒थि॒व्याः स॒प्त धाम॑भिः॥ २२/१६॥
असुरेभ्यो जगद्धृत्वा यतो विष्णुस्त्रिभिः क्रमैः। आरभ्य पृथिवीं सप्तलोकैः साकं जगत्पतिः॥ चक्रे सुरान् पदस्थानप्यतो देवा अवन्तु नः। विशिष्टबलचेष्टत्वाद् विष्णुरित्यभिधा हरेः॥ प्राणं बलं षकारं च णकारं चाह हि श्रुतिः॥ २२/१६॥
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम्। समू॑ळ्हमस्य पांसु॒रे॥ २२/१७॥
रमन्ति पांसवो यत्र पांसुरं पदमीरितम्। समूढं तत्र विश्वं हि पांसुवज्जगतः पतेः॥ २२/१७॥
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः। अतो॒ धर्मा॑णि धा॒रय॑न्॥ २२/१८॥
वेदान् कालान् गुणाँल्लोकान् देवमानुषदानवान्। चेतनाचेतनान् मिश्रांस्त्रीणि पदा विचक्रमे॥ रक्षकत्वेन सर्वाणि स्रष्टृभर्तृत्वतस्तथा। मोक्षदत्वेन च विभुः स्तम्भनीयो न केनचित्॥ धारकांश्चैव वाय्वादीन् धारयन् वर्तते ततः॥ २२/१८॥
विष्णो॒ः कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे। इन्द्र॑स्य॒ युज्य॒ः सखा॑॥ २२/१९॥
जानीथ विष्णुकर्माणि प्राणिकर्माण्यशेषतः। यतो जातान्यविज्ञातो भगवान् सर्वदैव च॥ स्पशाज्ञातदृशौ यस्मादिन्द्रस्य सहितः सखा। प्राणस्यैवेन्द्रनाम्नश्च “कस्मिन् न्वहम्” षट्प्रश्नोपनिषत् ६/३ इति श्रुतेः॥ “त्वयेदिन्द्र” ऋग्वेदसंहिता ८/९२/३२ इतिवचनात् प्राण इन्द्राभिधो मतः॥ २२/१९॥
तद्विष्णो॑ः पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रय॑ः। दि॒वी॑व॒ चक्षु॒रात॑तम्॥ २२/२०॥
रमाब्रह्मशिवादिभ्यो यद् विष्णोः परमं पदम्। रूपं पश्यन्ति निर्मुक्ताः संसारात् सूरयः सदा॥ चक्षुर्दिवीव व्याप्तं यददृश्यं फलदर्शितम्॥ २२/२०॥
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वांस॒ः समि॑न्धते। विष्णो॒र्यत्प॑र॒मं प॒दम्॥ २२/२१॥
सन्दीपयन्ति विज्ञानैः संसारात् प्राप्तजागराः। विपन्यवो ज्ञानितमा विष्णोर्यत् परमं पदम्॥ तात्पर्याधिक्यविज्ञप्त्या अर्थमेतं पुनर्जगौ॥ २२ (२/३)/२१॥ (७)
तीव्रासोमास इति चतुर्विंशत्यृचम्॥ २३ (२/४)॥
मेधातिथिः काण्वः। आद्याया वायुः, ततो द्वयोरिन्द्रवायू, ततस्तिसृणां मित्रावरुणौ, ततस्तिसृणां मरुतः (मरुत्वानिन्द्रो वा), ततस्तिसृणां विश्वेदेवाः, ततस्तिसृणां पूषा, ततः सप्तानामापः, तत एकस्या अग्न्यापः, तत एकास्या अग्निः। अप्स्वन्तरिति पुरउष्णिक्, अप्सु म इत्यनुष्टुप्, इदमाप इत्याद्यास्तिस्रोऽनुष्टुभः, आपः पृणीतेति प्रतिष्ठा, शेषा गायत्र्यः॥
ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्व॑न्तः सु॒ता इ॒मे। वायो॒ तान्प्रस्थि॑तान्पिब॥ २३/१॥
वीर्यवन्तश्च ये सोमा यजमानेष्टसाधकाः। पिब तान् …. …. …. …. …. ….॥ २३/१॥
उ॒भा दे॒वा दि॑वि॒स्पृशे॑न्द्रवा॒यू ह॑वामहे। अ॒स्य सोम॑स्य पी॒तये॑॥ २३/२॥
…. सर्वदेवानां ज्ञानाधिक्यौ दिविस्पृशौ॥ २३/२॥
इ॒न्द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा॑ हवन्त ऊ॒तये॑। स॒ह॒स्रा॒क्षा धि॒यस्पती॑॥ २३/३॥
मनसः प्रेरकौ चैव बहुज्ञानौ धियस्पती॥ २३/३॥
मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये। ज॒ज्ञा॒ना पू॒तद॑क्षसा॥ २३/४॥
जज्ञानौ व्यज्यमानौ तु यजमानस्य शोधकौ॥ २३/४॥
ऋ॒तेन॒ यावृ॑ता॒वृधा॑वृ॒तस्य॒ ज्योति॑ष॒स्पती॑। ता मि॒त्रावरु॑णा हुवे॥ २३/५॥
परेण ब्रह्मणा तस्मिन् वृद्धौ सत्यपती सदा। सत्यं ज्योतिः प्रकाशत्वात् तौ मित्रावरुणौ हुवे॥ २३/५॥ (८)
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभि॑ः। कर॑तां नः सु॒राध॑सः॥ २३/६॥
संसिद्धान् कुरुतां नस्तौ …… ….. ॥ २३/६॥
म॒रुत्व॑न्तं हवामह॒ इन्द्र॒मा सोम॑पीतये। स॒जूर्ग॒णेन॑ तृम्पतु॥ २३/७॥
…….. ….. ….. सगणस्तृप्यतां हरिः॥ २३/७॥
इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑स॒ः पूष॑रातयः। विश्वे॒ मम॑ श्रुता॒ हव॑म्॥ २३/८॥
पूषा पूर्णत्वतो विष्णुस्तन्मित्राः पूषरातयः॥ २३/८॥
ह॒त वृ॒त्रं सु॑दानव॒ इन्द्रे॑ण॒ सह॑सा यु॒जा। मा नो॑ दु॒ःशंस॑ ईशत॥ २३/९॥
सहसा बलरूपेण शक्रेण सहिताः सुराः। मदज्ञानं हतातीव दानशीला न शक्नुयात्॥ दुर्वाक् तद्वान् पुमान् वा नः ….. ….. ॥ २३/९॥
विश्वा॑न्दे॒वान्ह॑वामहे म॒रुत॒ः सोम॑पीतये। उ॒ग्रा हि पृश्नि॑मातरः॥ २३/१०॥
…… ….. ….. ….. ….. भारती पृश्निरुच्यते। गोरूपा च क्वचित् साऽभूत् तत्सुताश्चाखिलाः सुराः॥ अन्यत्रापि सुतास्तस्याः …… ….. ….. …..॥ २३/१०॥ (९)
जय॑तामिव तन्य॒तुर्म॒रुता॑मेति धृष्णु॒या। यच्छुभं॑ या॒थना॑ नरः॥ २३/११॥
…. ….. ….. ….. ….. ….. ….. जयतामिव तद्ध्वनिः। धैर्याद् याति यदा विष्णुं वायुं वा याथनोत्तमम्॥ २३/११॥
ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो॑ जा॒ता अ॑वन्तु नः। म॒रुतो॑ मृळयन्तु नः॥ २३/१२॥
दोषत्यागाद् गुणप्राप्तेर्हस्कारो वायुरुच्यते। विद्युद् विशिष्टज्ञानत्वाद् भारती तत्सुता हि ते॥ सर्वे देवाश्च मरुतो रक्षन्त्वेतादृशो हरिः। तत्तदन्तर्गतत्वेन …… …. …. ….॥ २३/१२॥
आ पू॑षञ्चि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं॑ दि॒वः। आजा॑ न॒ष्टं यथा॑ प॒शुम्॥ २३/१३॥
….. ….. ….. ….. पूषा पूर्णत्वतश्च सः। आघृणिः पूर्णरश्मित्वादाज नश्चित्रबर्हिषम्॥ ब्रह्माणं च दिवो देव्या भर्तारं वायुमाज गाम्। यथा गतम् ….. ….. ….. ….. …..॥ २३/१३॥
पू॒षा राजा॑न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा॑ हि॒तम्। अवि॑न्दच्चि॒त्रब॑र्हिषम्॥ २३/१४॥
….. ….. …. जगद्राजमविन्दद् भगवान् सुतम्। स्वकुक्षिगूढं ब्रह्माणम् …. ….. ….. …..॥ २३/१४॥
उ॒तो स मह्य॒मिन्दु॑भि॒ः षड्यु॒क्ताँ अ॑नु॒सेषि॑धत्। गोभि॒र्यवं॒ न च॑र्कृषत्॥ २३/१५॥
…… ….. ….. ….. मह्यं सोमैश्च तर्पितः। साधयामास षड् युक्तानीन्द्रियाणि चकार च॥ साधनं शक्तिदानं तु गोभिर्वार्भिर्यथा यवम्॥ २३/१५॥ (१०)
अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम्। पृ॒ञ्च॒तीर्मधु॑ना॒ पय॑ः॥ २३/१६॥
अम्बयो मातरो ह्यापः कारणत्वात् सहोदराः। जगतो जामयो यस्मात् सह ताभिर्विवर्धते॥ अध्वरं कुर्वतां क्षीरं सोमं चापि प्रपृञ्चतीः। सम्पृक्ताः ……. ……. ……. …….॥ २३/१६॥
अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑ः स॒ह। ता नो॑ हिन्वन्त्वध्व॒रम्॥ २३/१७॥
….. याः समीपस्थाः सूर्यस्य सहिता अपि॥ २३/१७॥
अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गाव॒ः पिब॑न्ति नः। सिन्धु॑भ्य॒ः कर्त्वं॑ ह॒विः॥ २३/१८॥
ह्वयामि ता याः पिबन्ति गावो नः सर्वथा हविः। कार्यं नदीभ्यः …… ……. ……. …….॥ २३/१८॥
अ॒प्स्व१॒॑न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये। देवा॒ भव॑त वा॒जिन॑ः॥ २३/१९॥
……. ……. तास्वन्तरदृश्यममृतं स्थितम्। अपामेव प्रशंसार्थं सहायाः सन्तु नः सुराः॥ २३/१९॥
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा। अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः॥ २३/२०॥
तात्पर्यार्थं पुनर्वाक्यं सुखाधारो हुताशनः॥ २३/२०॥ (११)
आप॑ः पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑। ज्योक्च॒ सूर्यं॑ दृ॒शे॥ २३/२१॥
वरूथं गुप्तिरुद्दिष्टा ज्योतिर्विष्णुदृशे तथा। सूरिप्राप्यो यतो विष्णुः सूर्य इत्यभिधीयते॥ “पृण दाने” ……. ……. ……. …….॥ २३/२१॥
इ॒दमा॑प॒ः प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑। यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम्॥ २३/२२॥
….. अखिलं पापमापः प्रवहतापि नः। हिंसाजं शेपजं चैव तथैवानृतसम्भवम्॥ २३/२२॥
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि। पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा॥ २३/२३॥
रसेन सङ्गताश्च स्मो यस्मादनुचरा हि वः॥ २३/२३॥
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा। वि॒द्युर्मे॑ अस्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः॥ २३/२४॥
कुर्युर्मामपि विद्वांसं मदर्थं सर्वदा सुराः। एतं मामिति वाऽर्थः स्यादनुजानन्तु वोदितम्॥ २३ (२/४)/२४॥ (१२) (५)
कस्यनूनमिति पञ्चदशर्चम्॥ २४ (२/५)॥
आजीगर्तिः शुनःशेपः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑। को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च॥ २४/१॥
शुनःशेपो ददर्शाथ उत्तरं परमृक्शतम्। यूपादात्मविमोक्षाय स्तुवन् देवान् पृथक् पृथक्॥ त्र्यूनं शतमिहैवान्यच्चतुर्थे पञ्चमेऽपिच। मण्डले ब्राह्मणोक्तस्तु क्रमोऽत्रापि ह्यृचां भवेत्॥ *॥ कर्तुः परानन्दतनोरिदानीं मनामहे चारु विष्णोः सुराणाम्। नामेशश्चेदिन्दिरायै पुनर्दाद् दृशेयं तां मातरं तं च देवम्॥ स मुक्तानाममृतानामजेशमुख्यानां चाभ्यधिको यत् सुखादौ। तेनोक्तोऽसौ कतमोऽखण्डितत्वात् स चादितिर्महती तन्मही च॥ देशानन्त्यात् तन्महत्त्वं गुणैस्तु कालाच्चोक्तं तस्य चाखण्डितत्वम्। स एव माता च पिता च देवस्तस्मिन् सदा संस्थितास्तत् पुनर्दात्॥ अत्ति विश्वं तेन चैवादितिः स श्रीर्वा ब्रह्मा प्रोक्त एवं क एव। गुणाश्च तस्याभ्यधिकाः सदैव जीवेभ्यस्तत् सोऽपि तद्वाक्ययोग्यः॥ ददात्वसौ विष्णवे चेन्दिरायै प्राप्तानस्मानपि तौ सर्वगत्वात्। विशेषदेशप्राप्तितस्तस्य चाप्तिर्वैकुण्ठादिर्लोक उक्तो हरेश्च॥ २४/१॥
अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑। स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च॥ २४/२॥
तस्यैवान्यद् रूपमग्न्याख्यमुक्तं यो यज्ञेशो हूयते जामदग्यः। स देवानां प्रथमो नाम तस्य स्मृतं सार्थं सर्वकामप्रदं स्यात्॥ २४/२॥
अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम्। सदा॑वन्भा॒गमी॑महे॥ २४/३॥
सवितेत्यपरं रूपं जगत्कारणमीशितुः। वित्तानामीश्वरं तं तु वार्यं हि वरणीयतः॥ वित्तं रक्षन्नवन्नित्यमात्मानं भागमेम्यहम्। त्वामैश्वर्यादिसमितिम् …. ……. …….॥ २४/३॥
यश्चि॒द्धि त॑ इ॒त्था भग॑ः शशमा॒नः पु॒रा नि॒दः। अ॒द्वे॒षो हस्त॑योर्द॒धे॥ २४/४॥
…. ……. ……… योऽपि ते परमो भगः॥ इत्थम्भूतोऽविकारित्वाच्छशमानः सुखाधिकः। नेदीयसो ब्रह्मणोऽपि पूर्वो द्वेषादिवर्जितः॥ हस्तयोस्तं दधे देव तव रूपमनामयम्। निदो दवीय इति तु विरुद्धार्थद्वयाभिधौ॥ दूरसामीप्यवचनावुभावपि महोदधौ। यदाऽन्यः सविता देवस्तव स्वामी भगो हरिः॥ अद्वेषो विष्णुरित्युक्तेस्तमहं हस्तयोर्दधे॥ २४/४॥
भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा। मू॒र्धानं॑ रा॒य आ॒रभे॑॥ २४/५॥
विष्णुभक्तस्य ते रायो मूर्द्धानं राय उत्तमम्। तवावसारभे विद्यामुच्चैरश्नामि तत्फलम्॥ ऐश्वर्यादिगुणा यस्य भगो भक्तं परात्मनः। तस्य ते वित्तमश्नामि तव रक्षाबलाद्धरे॥ २४/५॥ (१३)
न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः। नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म्॥ २४/६॥
क्षतात् त्राणं ते बलसंविदं च पूर्णं नापुर्मुक्तिगा ये विशिष्टाः। अपि स्वयं संसृतेरुत्पतन्तः पतयन्तोऽन्याञ्छिष्यभक्तानुदाराः॥ सदा शुभान्याचरन्तोऽपि देवा अब्देवता आप इति श्रुतिर्यत्। गङ्गाद्या वा वायुदेवस्य विष्णोरुत्पत्तिं ये जानते देवसङ्घाः॥ वयः सुपर्णा इति वाऽपि …. ….. ….. ….. ….. ….. ॥ २४/६॥
अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः। नी॒चीना॑ः स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तव॑ः स्युः॥ २४/७॥
… ….. ….. ….. अबुध्ने प्रकाशतः सम्भजतः स्वमुच्चैः। स्तूपं स्थानं ददते पूतदक्षो नीचस्था अप्यूर्ध्वगास्तेन तस्थुः। नीचाश्च ये मुक्तिगा मानुषाद्यास्तेषां बुध्नो नीचलोकः सुरेभ्यः॥ नीचा गुणा अप्रकाशोऽथवैषां नीचोच्चत्वं क्रमशश्चाविरिञ्चात्। अस्माकमन्तर्निहितानि नित्यं ज्ञानानि भूयासुरताोऽधिकानि॥ भवन्त्यर्हा भवितुं वा भविष्याः स्युर्द्विर्ग्रहे प्रार्थनैवाधिकार्थे॥ २४/७॥
उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑। अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित्॥ २४/८॥
उरुं राजा रञ्जनाद् राजनाद् वा सूर्याय पन्थानमसौ चकार। स्वाज्ञानुसारेण सदैव गत्यै पादावपादाय च गन्तवेऽकरोत्॥ अज्ञाय विज्ञानमकः स गन्तुमात्मानमित्यर्थ इहाञ्जसोक्तः। बुद्धेर्धातुः शङ्करस्यापि दोषान् वक्ता ज्ञानाच्छिक्षकत्वाच्च विष्णुः॥ २४/८॥
श॒तं ते॑ राजन्भि॒षज॑ः स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु। बाध॑स्व दू॒रे निरृ॑तिं परा॒चैः कृ॒तं चि॒देन॒ः प्र मु॑मुग्ध्य॒स्मत्॥ २४/९॥
जगद्रक्षासाधनान्यप्यनन्तान्यनन्तधा सन्ति पुनस्तवेश। अगाधरूपा महती शुभा च मतिर्मम त्वद्विषये सदाऽस्तु॥ ऋतज्ञानप्रतिरूपत्वहेतोर्निर्ऋत्याख्यां दुर्मतिं दूर एव। बाधस्व दुर्ज्ञानिजनं निरस्य स्वर्गात् पराकृत्य च शश्वदेव॥ कृतं च पापं प्रमुमुग्धि मत्तः …… ….. ….. ….. …..॥ २४/९॥
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः। अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति॥ २४/१०॥
….. ….. ….. ….. ….. ….. ऋक्षाण्यमी निहितानि त्वयोच्चैः। दृश्यानि रात्रौ न दिवा त्वयैवेत्यादीनि कर्माण्यनिरोधितानि॥ पश्यन् परानन्दतनोस्तवैव चन्द्रो नित्यं दृश्यमानस्त्वयैव। सम्प्रेरितो याति परे च देवा एवं त्वदाज्ञाकरणाः सदैव॥ २४/१०॥ (१४)
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑ः। अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयु॒ः प्र मो॑षीः॥ २४/११॥
एवंगुणो यत् त्वमतो व्रजामि सदा शरण्यं शरणं वेदवाचा। नमन्नन्यो यजमानो हविर्भिस्तदाशास्ते त्वद्गतिं देवदेव॥ अनिन्दन्नस्मान् नरमात्रबुद्ध्या सम्बोधयोच्चैः स्तुत माऽस्मदायुः। च्छेत्सीः …. ….. ….. ….. ….. ….. ….. ….. ॥ २४/११॥
तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे। शुन॒ःशेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु॥ २४/१२॥
….. नक्तं दिवसे चैतदेव स्तोत्रं त्वदीयं प्राहुरार्याः सुकार्यम्। मह्यं केतो ज्ञानरूपो हृदिस्थो नारायणो वक्त्ययं तेऽन्यरूपम्॥ पश्यत्यपीशो यं समह्वद् गृहीतः स नो देवो मोचयत्वग्र्यदुःखात्॥ २४/१२॥
शुन॒ःशेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः। अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न्॥ २४/१३॥
शुनःशेपो ह्यह्वद् गृहीतः स्थानत्रये विक्रयाद्यैः सुबद्धः। द्रुतं प्राप्तानि द्रुपदानि विक्रयो यूपे बन्धः सञ्ज्ञपनोद्यमश्च॥ आदित्योऽसावादिसंस्थः परेशो वारीशान्तःसंस्थितः स्तूयतेऽत्र। शुनःशेपो यमित्यादिकेन वारीशोऽपि ह्यृषिणा स्तूयमानः॥ गुणास्त्रयो द्रुपदानीति चोक्ता द्रवत्ययं जीवसङ्घो हि यत्र। करोत्वेनमवसृष्टं सृतेः स प्रसन्नोऽस्मान् कर्मपाशान्मुमोक्तु॥ २४/१३॥
अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भि॑ः। क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑॥ २४/१४॥
निन्दां च तेऽवाग्गतेर्हेतुभूतामवगच्छामः सेयमित्यप्ययोग्याम्। नमस्कारैस्त्वद्गतैस्त्वन्मखैश्च हविर्युक्तैस्त्वत्प्रसादात् स च त्वम्॥ क्षितिरस्मभ्यं प्राणरन्ताखिलज्ञो वियोजयास्मत्कृतान्याश्वघानि॥ २४/१४॥
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय। अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम॥ २४/१५॥
पुण्यं पापं मिश्रमित्येव पाशान् यथायोग्यं श्रथयान्येषु दत्वा। त्वन्निष्ठया तेन वयं त्वदीयलक्ष्म्याः पुत्राः स्याम मुक्ताः सृतेश्च॥ एषर्ग्विष्णोः केवलाऽप्येवमन्या अयोग्या या अन्यदेवेषु सम्यक्। वाक्यैर्विशिष्टैरपवादहीनैर्ज्ञेया गुणा अन्यदेवेषु चैव॥ “पतिः सोमो वरुणस्याप्यथाग्नेः पतिः सूर्यस्तावुभौ तुल्यवीर्यौ। सूर्याचन्द्रमसोः पतिरिन्द्रोऽस्य रुद्रः पतिर्ब्रह्मा पतिरस्यापि विष्णुः॥ पतिर्मुक्तेर्वासुदेवोऽथ दृष्टेर्ब्रह्मा विद्यायाः शर्व इन्द्रः क्रियायाः। क्रियांशानामधिपा अन्यदेवास्तथा फलानामपि मुक्तिमार्गे॥ यथायोग्यं स्वेन्द्रियप्रेरकाश्च ततः पूज्या देवता मुक्तिकामैः।” इति श्रुतेस्तारतम्यं गुणानां ज्ञात्वा योज्याः श्रुतयस्तत्रतत्र॥ २४ (२/५)/१५॥ (१५)
सोमानमिति नवर्चम्॥ २५ (२/६)॥
आजीगर्तिः शुनःशेपः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम्। मि॒नी॒मसि॒ द्यवि॑द्यवि॥ २५/१॥
दिवसेदिवसे देव कुर्मो यदपि ते व्रतम्। यथैव सुजनाः ….. ….. ….. ….. …..॥ २५/१॥
मा नो॑ व॒धाय॑ ह॒त्नवे॑ जिहीळा॒नस्य॑ रीरधः। मा हृ॑णा॒नस्य॑ म॒न्यवे॑॥ २५/२॥
….. ….. ….. मा नो हन्तु साधय निघ्नते। जिहीळानस्त्यजन् धर्मं हरतो मा च मन्यवे॥ २५/२॥
वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तम्। गी॒र्भिर्व॑रुण सीमहि॥ २५/३॥
मनस्त्वयि निबध्नीमो गीर्भिरश्वं वियोजितम्। बध्नाति सारथिर्यद्वन्मृळीको रक्षकोऽधिकम्॥ त्वन्मनोऽस्मासु वा गीर्भी रक्षणाय विसीमहि॥ २५/३॥
परा॒ हि मे॒ विम॑न्यव॒ः पत॑न्ति॒ वस्य॑इष्टये। वयो॒ न व॑स॒तीरुप॑॥ २५/४॥
पराक् पतन्ति प्रज्ञा मे विविधाः शुभलब्धये। पक्षिणो वसतीर्यद्वद्धा न त्वां प्राप्नुवन्ति च॥ २५/४॥
क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे। मृ॒ळी॒कायो॑रु॒चक्ष॑सम्॥ २५/५॥
अतोऽखिलक्षत्त्रपतिमाह्वयामः कदा वयम्। अविनाशिनं रक्षणाय महादर्शनमञ्जसा॥ २५/५॥ (१६)
तदित्स॑मा॒नमा॑शाते॒ वेन॑न्ता॒ न प्र यु॑च्छतः। धृ॒तव्र॑ताय दा॒शुषे॑॥ २५/६॥
तत्प्रसादाद् ब्रह्मवायू सममेवावागच्छतः। वेनन्तौ हि विजानन्तौ तौ हि ज्ञानिवरौ मतौ॥ यथाज्ञानं प्रयोगं च दाशुषे कुरुतो न तौ। अश्विनौ वरुणश्चेत् स्यात् ….. ….. …..॥ २५/६॥
वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम्। वेद॑ ना॒वः स॑मु॒द्रिय॑ः॥ २५/७॥
…. ….. ….. …..आकाशे पक्षिणां पदम्। वेत्त्यसौ सूक्ष्मविज्ञानात् तथा नावो जलेऽब्धिगः॥ मुक्तानां च स्थितिं वेद ज्ञानस्य च गतिं पराम्। क्षीराब्धिशयनो विष्णुः …. ….. ….. …..॥ २५/७॥
वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः। वेदा॒ य उ॑प॒जाय॑ते॥ २५/८॥
….. ….. ….. ….. कालं कालोद्भवैः सह। य आत्मनः समीपे च जायते तं च पद्मजम्॥ मुक्तं वा …. ….. ….. ….. ….. ….. ॥ २५/८॥
वेद॒ वात॑स्य वर्त॒निमु॒रोरृ॒ष्वस्य॑ बृह॒तः। वेदा॒ ये अ॒ध्यास॑ते॥ २५/९॥
….. ….. वर्तनां वायोर्महतोऽतिप्रकाशिनः। बृहतो ज्ञानिनश्चैव बृहतो महतोऽपि वा॥ अधिकानि पदान्येव देवा अध्यासतेऽपि तान्॥ २५/९॥
नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॒॑स्वा। साम्रा॑ज्याय सु॒क्रतु॑ः॥ २५/१०॥
साम्राज्याय स पस्त्यासु निषसाद प्रजासु च। सुज्ञानः ….. ….. ….. ….. ….. ….. ॥ २५/१०॥ (१७)
अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति। कृ॒तानि॒ या च॒ कर्त्वा॑॥ २५/११॥
…. ….. तत्र सन् विश्वान्यद्भुतानि च पश्यति। कर्ता चिकित्वान् स कृतकर्तव्यानि च पश्यति॥ २५/११॥
स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत्। प्र ण॒ आयूं॑षि तारिषत्॥ २५/१२॥
विश्वान्यहानि नो देवः सुपथानि करोत्वसौ। ददात्वायूंषि नो नित्यं मुक्तौ वा ….. …..॥ २५/१२॥
बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिज॑म्। परि॒ स्पशो॒ नि षे॑दिरे॥ २५/१३॥
…. ….. ….. ….. …… अतिद्रुतभ्रमम्। हितं च रमणीयं च चक्रं स्वर्णं च वर्णतः॥ अबिभ्रच्च सुनिर्णिक्तं शुद्धं वस्त्रमवस्त च। अविज्ञातचरा देवाः स्पशस्तस्य निषेदिरे॥ परितो वरुणः पाशमविभ्रद् द्रुतबन्धनम्॥ २५/१३॥
न यं दिप्स॑न्ति दि॒प्सवो॒ न द्रुह्वा॑णो॒ जना॑नाम्। न दे॒वम॒भिमा॑तयः॥ २५/१४॥
स्तम्भयन्ति न यं वीराः स्तम्भका अपि राक्षसाः। जनानां द्रोहिणो दैत्याः शत्रवश्चाभिमातयः॥ २५/१४॥
उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या। अ॒स्माक॑मु॒दरे॒ष्वा॥ २५/१५॥
असमं च यशश्चक्रे योऽस्माकं हृदयेषु च। आमानुषेषु चान्येषु समन्तादात्मनः सदा॥ अज्ञेष्वपि च मर्त्येषु व्यतनोदात्मनो यशः॥ २५/१५॥ (१८)
परा॑ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑। इ॒च्छन्ती॑रुरु॒चक्ष॑सम्॥ २५/१६॥
महाज्ञानं परेशानमिच्छन्त्यो मम धीतयः। सर्वतो यान्ति यद्वच्च गावः शृङ्गस्वराननु॥ २५/१६॥
सं नु वो॑चावहै॒ पुन॒र्यतो॑ मे॒ मध्वाभृ॑तम्। होते॑व॒ क्षद॑से प्रि॒यम्॥ २५/१७॥
आपूर्णं मधु मोक्षस्थं सुखं पचसि मेऽग्निवत्। तत् संवोचावहै भूयः प्रियस्त्वं मम यत् सदा॥ २५/१७॥
दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑। ए॒ता जु॑षत मे॒ गिर॑ः॥ २५/१८॥
अदर्शं तं च सर्वज्ञं तद्रथं च भुवि स्थितम्। सुगिरो मे जुषत च …. ….. ….. ॥ २५/१८॥
इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय। त्वाम॑व॒स्युरा च॑के॥ २५/१९॥
…. ….. ….. ….. त्वावनेऽप्सुरहं चके। पश्येयम् …… ….. ….. ….. ….. ॥ २५/१९॥
त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि। स याम॑नि॒ प्रति॑ श्रुधि॥ २५/२०॥
…. त्वं च विश्वस्य राजा भवसि मेधिरः। मेधावान् ग्मः पृथिव्याश्च स काले च प्रति श्रुधि॥ २५/२०॥
उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं॑ मध्य॒मं चृ॑त। अवा॑ध॒मानि॑ जी॒वसे॑॥ २५/२१॥
स त्वं त्रिगुणपाशान्नो मुमुग्धि च्छिन्धि चाञ्जसा॥ २५ (२/६) /२१॥ (१९)
सोमानमिति नवर्चम्॥ २६ (२/७)॥
आजीगर्तिः शुनःशेपः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते। सेमं नो॑ अध्व॒रं य॑ज॥ २६/१॥
अथ स्तौत्यग्निगं विष्णुमग्निमप्यग्निगोचरैः। वचनैः … … … … … … … … ॥ * ॥
… … सर्वदेवानां पूजायै प्रोद्यतो भवन्। वसिष्वोत्तमवस्त्राणि भूषणैरप्यलङ्कुरु। कुर्वन्नुत्सवमत्यन्तमस्मदीयं मखं यज॥ नित्यमेध्य हरे देव भोग्यान्नानां सदा पते। ऊर्जितानां जनानां वा स्वस्मिन् नो अध्वरं यज॥ रमयत्यध्वनि शुभे येन तेनाध्वरो मखः॥ २६/१॥
नि नो॒ होता॒ वरे॑ण्य॒ः सदा॑ यविष्ठ॒ मन्म॑भिः। अग्ने॑ दि॒वित्म॑ता॒ वच॑ः॥ २६/२॥
वचो नो निनयात्यन्तं दिवि व्याप्ततया सदा। अशेषदेवगत्वेन मन्मभिर्मतिभिः सह॥ अवमो दशदेवेषु वह्निर्विष्णुस्तु तत्स्थितः॥ २६/२॥
आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑। सखा॒ सख्ये॒ वरे॑ण्यः॥ २६/३॥
सख्ये च सूनवे मह्यमायजत्येष देवताः। आपिः प्राप्यो मम स्वामी भृत्यत्वान्मह्यमापये॥ २६/३॥
आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा। सीद॑न्तु॒ मनु॑षो यथा॥ २६/४॥
पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च। इ॒मा उ॒ षु श्रु॑धी॒ गिर॑ः॥ २६/५॥
अस्य मेऽर्थे कुरु मदं स्वातन्त्र्यान्मादयस्व वा॥ २६/४-५॥
यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे। त्वे इद्धू॑यते ह॒विः॥ २६/६॥
शश्वद् विस्तरतः सर्वान् यदा देवान् यजामहे। तदा त्वय्येव हि हविर्हूयते … ….. …..॥ २६/६॥
प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः। प्रि॒याः स्व॒ग्नयो॑ व॒यम्॥ २६/७॥
….. ….. ….. ….. ….. स प्रियो भव। मन्द्रो मदकरः ….. ….. ….. ….. …..॥ २६/७॥
स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः। स्व॒ग्नयो॑ मनामहे॥ २६/८॥
अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नाम्। मि॒थः स॑न्तु॒ प्रश॑स्तयः॥ २६/९॥
….. ….. स्त्रीणां पुंसां चोभयवर्गिणाम्॥ २६/८-९॥
विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वच॑ः। चनो॑ धाः सहसो यहो॥ २६/१०॥
चनः सुखं धा अस्मासु वायोः पुत्रोऽग्निरेव चेत्। भगवान् वायुना व्यङ्ग्यः …. ….. …..॥ २६ (२/७)/१०॥ (२१)
सोमानमिति नवर्चम्॥ २७ (२/८)॥
आजीगर्तिः शुनःशेपः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या॑ अ॒ग्निं नमो॑भिः। स॒म्राज॑न्तमध्व॒राणा॑म्॥ २७/१॥
…. ….. ….. ….. ….. वारवान् बडबामुखः। स्वदृष्टान्तो हरेर्यस्माद् विष्णुः स बडबामुखः॥ २७/१॥
स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेव॑ः। मी॒ढ्वाँ अ॒स्माकं॑ बभूयात्॥ २७/२॥
सूनुः स शवसो वायोः पृथुज्ञानः सुशेवकृत्। सुखकृन्नो भवेन्मीढ्वान् स्वामी नः सूनुरेव वा॥ व्यङ्ग्यत्वाद् वायुना सार्द्धं सुशेवः सुसुखात्मकः॥ २७/२॥
स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः। पा॒हि सद॒मिद्वि॒श्वायु॑ः॥ २७/३॥
आसात् समीपतश्चास्मानघार्थायोर्निपाहि च। प्रतिप्रति सदो नित्यो विश्वायुः …. ….. ॥ २७/३॥
इ॒ममू॒ षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सम्। अग्ने॑ दे॒वेषु॒ प्र वो॑चः॥ २७/४॥
…. ….. ….. ….. ….. त्वमिमां स्तुतिम्। सनिं दानस्वरूपां च गायत्रीछन्दआत्मिकाम्॥ नव्यांसं स्तुतिषु श्रेष्ठां वद देवेषु सादरम्॥ २७/४॥
आ नो॑ भज पर॒मेष्वा वाजे॑षु मध्य॒मेषु॑। शिक्षा॒ वस्वो॒ अन्त॑मस्य॥ २७/५॥
उत्तमाधममध्येषु भोगेष्वस्मानवाप्नुहि। रक्षकत्वेन शिक्षास्मान् ज्ञानवस्वर्थमेव च॥ अन्ते मोक्षे मितत्वेन ज्ञानमन्तममुच्यते॥ २७/५॥ (२२)
वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो॑रू॒र्मा उ॑पा॒क आ। स॒द्यो दा॒शुषे॑ क्षरसि॥ २७/६॥
क्षीराब्ध्यूर्मिसमीपस्थो मुक्तभोगविभागदः। यजमानाय सद्यश्च क्षरस्यखिलमीप्सितम्॥ नित्यमुत्तमतेजस्त्वाच्चित्रभानुर्हरिः स्मृतः॥ २७/६॥
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः। स यन्ता॒ शश्व॑ती॒रिष॑ः॥ २७/७॥
यं मर्त्यं रक्षसि विभो यं युत्सु प्रेरयस्यपि। ज्ञानाज्ञानात्मकेष्वेव स गन्ता नित्यसत्सुखम्॥ भोगान् वा मुक्तिगान् नित्यानिह चेदुपचारतः॥ २७/७॥
नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित्। वाजो॑ अस्ति श्र॒वाय्य॑ः॥ २७/८॥
परिपूर्णोऽस्य नैवास्ति त्वदीयस्य तु कस्यचित्। भोगोऽपि बहुलो यस्माद् दित्सस्येव पुनःपुनः॥ सहन्त्यः सन्ततबलः सहसः पुत्र एव वा। श्रवाय्यः श्रवणीयश्च सुप्रसिद्धतमोऽपि वा॥ २७/८॥
स वाजं॑ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता। विप्रे॑भिरस्तु॒ सनि॑ता॥ २७/९॥
वाजं तारयिताऽऽनेता सोऽर्वद्भिर्गोसमाप्तितः। त्वदीयस्तु भवेद् विप्रैर्दाता विपुलदानतः॥ युद्धस्य तारकोऽन्नस्य दाता भोगस्य वा भवेद्। इन्द्रियैस्तमसा युद्धं तरुता ज्ञानदोऽथवा॥ २७/९॥
जरा॑बोध॒ तद्वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया॑य। स्तोमं॑ रु॒द्राय॒ दृशी॑कम्॥ २७/१०॥
स्तुतिबोद्धा यतस्तां त्वमवाधारय सर्वदा। नित्यज्ञानोऽपि दत्वा तत्फलं वेत्तेति कथ्यते॥ रुजां विद्रावकेशाय प्रत्यक्षां तव वा स्तुतिम्॥ २७/१०॥ (२३)
स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्च॒न्द्रः। धि॒ये वाजा॑य हिन्वतु॥ २७/११॥
नितराममितत्वेन महान् पुरुसुखश्च सः। धूत्करोति गरुत्मान् यद्धरेश्चेद् धूमकेतुता॥ “ताच्छील्ये मः” इति ह्यस्मात् सूत्राद्धूम इतीरितः। ज्ञानायान्नाय च स नः प्रहिणोतु सुकर्मणाम्॥ २७/११॥
स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्य॑ः के॒तुः शृ॑णोतु नः। उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः॥ २७/१२॥
देवानां केतुभूतोऽसौ वित्तवान् विश्पतियथा। अस्मदीयानि चोक्थानि बृहत्तेजाः शृणोतु …॥ २७/१२॥
नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्य॑ः। यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑स॒ः शंस॒मा वृ॑क्षि देवाः॥ २७/१३॥
…. …. …. …. …. …. …. …. …. …. …. अथ। नारायणब्रह्मपुरःसरास्तु देवा महान्तः शिशवः स्कन्दपूर्वाः। वटुस्वरूपाश्च त एव कुत्रचिद् युवान इन्द्रादय एत एव॥ महत्त्वमेषां गुणतोऽपि यूनामिन्द्रादयो मध्यगुणा युवानः। आपेक्षिकाल्पैश्च गुणैस्तदीयैः समीरिता आशिना अर्भकाश्च॥ कृतं नमः शक्तिमन्तो यजाम न ज्यायसां स्तुतिमात्रं लुपामः। एकस्य विष्णोरपि रूपभेदा अणीयांसः सन्त्यथवा महान्तः॥ युवत्वसाम्येऽपि महत्त्वभेदाद् युवा महानित्यपि भेद उक्तः॥ २७ (२/८)/१३॥ (२४)
सोमानमिति नवर्चम्॥ २८ (२/९)॥
आजीगर्तिः शुनःशेपः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
यत्र॒ ग्रावा॑ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे। उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः॥ २८/१॥
विस्तीर्णाधस्तना यत्र ग्रावाणोऽभिषवोद्धृताः। धिषणाभिषुतान् सोमानव नः स्वीकृतस्तुते॥ “गुर स्वीकारे” इत्यस्माद् धातोः स्तुत्यो हि जल्गुलः॥ २८/१॥
यत्र॒ द्वावि॑व ज॒घना॑धिषव॒ण्या॑ कृ॒ता। उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः॥ २८/२॥
फलकेऽभिषवस्यैव स्त्रियो जघनसाम्यतः। प्रोक्ते …. …. …. …. …. …. ….॥ २८/२॥
यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते। उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः॥ २८/३॥
…. … उपच्यवश्चापच्यवः सङ्गतिभेदतः। जिह्वा ग्रावाऽथ वाग्युक्तिरुच्यतेऽभिषवस्तथा॥ खलश्चोरुस्तथा देहः सोमो मन इतीरितः। ज्ञानोत्पत्तौ च फलकस्थाने ओष्ठे उदीरिते॥ २८/३॥
यत्र॒ मन्थां॑ विब॒ध्नते॑ र॒श्मीन्यमि॑त॒वा इ॑व। उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः॥ २८/४॥
मन्थरश्मीनश्वरश्मीन् यथा यत्र निबध्नते। रश्मयोऽन्यत्र नाड्यश्च …. …. …. ….॥ २८/४॥
यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू॑खलक यु॒ज्यसे॑। इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः॥ २८/५॥
….. …. …. …. यस्माद् युक्तो गृहेगृहे। देहेदेहेऽथवा तेन द्युमद्दुन्दुभिवद् वद॥ पृथिवी देवता तस्य तद्गतो वा स्वयं हरिः। सोमामात्योऽपरो देवो वनस्पतिरितीरितः॥ सोमो वा तद्गविष्णुर्वा श्रुतः फलकदेवता। वृक्षाणामपि सर्वेषामतः ….. ….॥ २८/५॥ (२५)
उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित्। अथो॒ इन्द्रा॑य॒ पात॑वे सु॒नु सोम॑मुलूखल॥ २८/६॥
….. …. …. …. …. …. …. वृक्षाग्र एव तु। वायुर्वाति वनानां वा भजनीयदिवौकसाम्॥ पतिर्विष्णुस्तु तस्याग्रे वायुर्देवो हि गच्छति। पातवे स्वस्य सोमं वा मनो वा सुनु विष्णवे॥ २८/६॥
आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्यु१॒॑च्चा वि॑जर्भृ॒तः। हरी॑ इ॒वान्धां॑सि॒ बप्स॑ता॥ २८/७॥
आयाज्यावन्नलब्धॄणामुत्तमावतिभक्षकौ। “जह भक्षणे” इत्यस्माद् यथाऽश्वावन्नभक्षकौ॥ सोमस्य भक्षकावत्र ….. …. …. ….॥ २८/७॥
ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभि॑ः सो॒तृभि॑ः। इन्द्रा॑य॒ मधु॑मत्सुतम्॥ २८/८॥
…. …. …. …. …. …. …. ऋष्वावतिमहत्तरौ। महद्भिः सोतृभिः सोममिन्द्राय मधुमत् सुतम्॥ २८/८॥
उच्छि॒ष्टं च॒म्वो॑र्भर॒ सोमं॑ प॒वित्र॒ आ सृ॑ज। नि धे॑हि॒ गोरधि॑ त्व॒चि॥ २८/९॥
सोममुत्पवनायैतं द्रोणोपरि पवित्रके। भर शिष्टं चमसयोर्ऋजीषं गोरधित्वचि॥ भरेत्यात्मानमेवाह स्वान्तर्यामिणमेव वा। शिरोभेदौ तु चमसौ द्रोणं चोदरमीरितम्॥ पवित्रं बुद्धिरेवात्र मनःशुद्धिस्तया यतः। मुखचर्मैव गोचर्म मन एतेषु विष्णवि॥ धार्यम् ….. …. …. …. …. …. …. ॥ २८ (२/९)/९॥ (२६)
सोमानमिति नवर्चम्॥ २९ (२/१०)॥
आजीगर्तिः शुनःशेपः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ॥ २९/१॥
…. यत्सद्गुणाशस्ता इव स्मसि वयं ततः। शुभ्रवाङ्मनआदीनां विषयेऽस्मान् प्रशंसय॥ बहुवाच्यज्ञेययुक्तान् कृत्वाऽस्मांस्त्वं महामख॥ २९/१॥
शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ॥ २९/२॥
सुखिन्नन्नपते वाग्ज्ञ तव कर्माणि सर्वशः॥ २९/२॥
नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ॥ २९/३॥
दैत्यरक्षःप्रजे मिथ्यादृशौ सस्तां पुनर्बहु। अबुद्ध्यमाने नित्यं च यथा निष्वापयेश्वर॥ २९/३॥
स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तय॑ः। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ॥ २९/४॥
स्वपन्तु ते शत्रवस्ते सर्वदाऽज्ञानमोहिताः। बोधन्तु चैव मित्राणि तव रूपं सुनिर्भयम्॥ २९/४॥
समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ॥ २९/५॥
पापया मायया मिथ्या स्तुवन्तं त्वामपि प्रभो। मायामयास्तव गुणा न सन्ति परमार्थतः॥ इति नित्यं रुवन्तं च मायावाद्याख्यगर्दभम्। सञ्चूर्णय तमस्येव क्षिप्त्वा तप्ताश्मभिः सदा॥ २९/५॥
पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ॥ २९/६॥
दूरं च पातयत्वेतान् वायुस्तस्मिंस्तमस्यधः। वनं दृढग्रहेणैव तत्तमो वेदनोल्बणा॥ कुण्ड्ढणाचीति सम्प्रोक्ता कुण्डान्नीचत्वतोऽधिकम्। कुम्भः कुण्डाभिधः कुम्भीपाकान्नीचा हि तद्गतिः॥ रेफः स्वरव्यत्ययश्च तदाधिक्यार्थमीरितौ॥ २९/६॥
सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्व॑म्। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ॥ २९/७॥
सर्वं परिक्रोशकरं पापिनं जहि जम्भय। दंशय श्वादिभिर्नित्यं क्रकचैर्दंशनं यथा॥ २९ (२/१०)/७॥ (२७)
सोमानमिति नवर्चम्॥ ३० (२/११)॥
मेधातिथिः काण्वः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
आ व॒ इन्द्रं॒ क्रिविं॑ यथा वाज॒यन्त॑ः श॒तक्र॑तुम्। मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः॥ ३०/१॥
हे वाजयन्तो युद्ध्यन्तो देवा भोगिन एव वा। सोमैर्व इन्द्रमासिञ्चे क्रिविं यद्वन्नृपं कृतेः॥ कर्तारमीशमिव वा स्वदृष्टान्तो हरेर्भवेत्॥ ३०/१॥
श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिराम्। एदु॑ नि॒म्नं न री॑यते॥ ३०/२॥
शतेन वा सहस्रेण सोमानामाशिरावताम्। पाताल इव नैवायं निलीनो भवति क्वचित्॥ विलापयति तानेव …. ….. ….. ….. ॥ ३०/२॥
सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑। स॒मु॒द्रो न व्यचो॑ द॒धे॥ ३०/३॥
….. ….. ….. ….. बलिनेऽस्मै मदाय च। सन्दधुर्नैव विश्वानि व्यक्तीरस्योदरे क्वचित्॥ समुद्रेकात् समुद्राख्या प्रकृतिश्च महत्त्वतः॥ ३०/३॥
अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम्। वच॒स्तच्चि॑न्न ओहसे॥ ३०/४॥
तवैवायं प्रपञ्चश्च कपोतो गर्भधिं यथा। सम्यग् व्याप्नोषि विश्वं च तस्मान्नो वच ओहसे॥ ३०/४॥
स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते। विभू॑तिरस्तु सू॒नृता॑॥ ३०/५॥
गिरां वाहक ते स्तोत्रमखिलं वेदवैदिकम्। सूनृता वागियं मे च विभूतिरिति कल्प्यताम्॥ अस्त्वित्येतत् प्रसादेन फलदानादुदीर्यते॥ ३०/५॥ (२८)
ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो। सम॒न्येषु॑ ब्रवावहै॥ ३०/६॥
उत्तमः सन्नत्र युद्धे ज्ञानाज्ञानमये विभो। अभिप्रेतार्थसिद्ध्यर्थमस्माकं तिष्ठ सर्वदा॥ मत्स्थितस्त्वमहं चैव त्वामन्येषु ब्रवावहै॥ ३०/६॥
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे। सखा॑य॒ इन्द्र॑मू॒तये॑॥ ३०/७॥
तेजस्वितममिन्द्रं तं योगेयोगे हवामहे॥ ३०/७॥
आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभि॑ः। वाजे॑भि॒रुप॑ नो॒ हव॑म्॥ ३०/८॥
उक्तं चेत् स शृणोत्येव श्रुतं चेदागमिष्यति। बह्वर्थयुक्ताभिप्रायैरन्नैरप्युप नो हवम्॥ ३०/८॥
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म्। यं ते॒ पूर्वं॑ पि॒ता हु॒वे॥ ३०/९॥
पुरातनस्य विष्णोस्तदोकसोऽर्थे ह्वये हरिम्। महान् प्रतिप्रतिस्थश्च तुविप्रतिरितीरितः॥ यं त्वां पूर्वं पिता ज्ञातैवाह्वयामास विश्वकृत्। त्वद्भक्त इति वा ब्रह्मा …… …. …. …. ॥ ३०/९॥
तं त्वा॑ व॒यं वि॑श्ववा॒रा शा॑स्महे पुरुहूत। सखे॑ वसो जरि॒तृभ्य॑ः॥ ३०/१०॥
….. …. …. …. तं त्वामाशास्महे वयम्॥ ३०/१०॥ (२९)
अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्ना॑म्। सखे॑ वज्रि॒न्सखी॑नाम्॥ ३०/११॥
अस्माकं सुखिनां सोमपातॄणाम् … …. ….॥ ३०/११॥
तथा॒ तद॑स्तु सोमपा॒ः सखे॑ वज्रि॒न्तथा॑ कृणु। यथा॑ त उ॒श्मसी॒ष्टये॑॥ ३०/१२॥
… …. …. …. …. …. …. अस्तु तत् तथा। ते सकाशाद् यथेच्छामः प्राप्तुं देव तथा कृणु॥ वज्रो ज्ञानं “वज गतौ” इत्यस्मात् …. …. ….॥ ३०/१२॥
रे॒वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः। क्षु॒मन्तो॒ याभि॒र्मदे॑म॥ ३०/१३॥
…. …. …. …. …. …. …. वित्तसंयुताः। रेवतीः पशवः प्रोक्ताः सधमादे सुखस्थितौ॥ तुविवाजा महान्नानि क्षुमन्तः स्थितिसंयुताः। ज्ञानयुक्तं सुखं वा स्यात् सतीशेऽस्माकमूर्जितम्॥ ३०/१३॥
आ घ॒ त्वावा॒न्त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः। ऋ॒णोरक्षं॒ न च॒क्र्यो॑ः॥ ३०/१४॥
त्वद्वांस्त्वयैव चाप्तः स्यात् स्तोतॄणामा समन्ततः। इयानो गम्यमानस्तै रणतोश्चक्रयोर्यथा॥ अक्षमाश्रयभावेन …. …. …. …. ….॥ ३०/१४॥
आ यद्दुव॑ः शतक्रत॒वा कामं॑ जरितॄ॒णाम्। ऋ॒णोरक्षं॒ न शची॑भिः॥ ३०/१५॥
….. …. …. …. …. …. …. स्तोतॄणां काममादुहः। आ समन्तात् स्थितं काममत्याधिक्ये पृथक् पदम्॥ ३०/१५॥ (३०)
शश्व॒दिन्द्र॒ः पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भि॒ः शाश्व॑सद्भि॒र्धना॑नि। स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्स न॑ः सनि॒ता स॒नये॒ स नो॑ऽदात्॥ ३०/१६॥
क्रोधाच्छ्वसद्भिः प्रथयद्भिरात्मवीर्यं सुरैः शश्वदिन्द्रो जिगाय। धनानि नः स्वर्णरथं च दाता लब्धा प्रादाल्लाभकृते च नोऽखिलम्॥ ३०/१६॥
आश्वि॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शवी॑रया। गोम॑द्दस्रा॒ हिर॑ण्यवत्॥ ३०/१७॥
गोमद्धिरण्यवच्च स्याद् यथाऽऽयातं तथैव नः। सुखपुत्रयुजा चाश्ववत्येषा शं सुखं यतः॥ इडैश्वर्यं तथा वीरं वीर्यं खान्यश्वनामतः। गौर्वाग्घितं च रमणं परं ब्रह्म गुणोच्छ्रितम्॥ ३०/१७॥
स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः। स॒मु॒द्रे अ॑श्वि॒नेय॑ते॥ ३०/१८॥
समानयोगयुक्तोऽयं रथो देहस्त्वदात्मनाम्। चित्सुखत्वादमर्त्यश्च ज्ञायते क्षीरसागरे॥ मोक्षस्य यावता प्राप्तिः समानो योग उच्यते॥ ३०/१८॥
न्य१॒॑घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः। परि॒ द्याम॒न्यदी॑यते॥ ३०/१९॥
एकं चक्रं गिरेर्मूध्नि नियतं दिवि चापरम्। पापं चक्रं हरिघ्न्यस्य पुण्यं दिव्यस्य चोपरि॥ ३०/१९॥
कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये। कं न॑क्षसे विभावरि॥ ३०/२०॥
को मर्त्यस्तव भोगाय यतः सर्वप्रियो भवान्। किमपि प्रियमस्येति पूर्णानन्दात् कधप्रियः॥ आप्तकामत्वतः कं वा गच्छसि स्वार्थहेतुतः। विशेषाद् भावृतेर्विष्णुः कथितश्च विभावरी॥ ३०/२०॥
व॒यं हि ते॒ अम॑न्म॒ह्यान्ता॒दा प॑रा॒कात्। अश्वे॒ न चि॑त्रे अरुषि॥ ३०/२१॥
चिन्तयामस्तवैकस्य विश्वमान्तपराक योः। पराकः सुसुखैव श्रीरन्तः कलिरुदाहृतः॥ नरकस्वर्गयोरेव देव्युषा उदिता यदा। जात्यश्ववत् सदा भद्रे चारुणे ….. ॥ ३०/२१॥
त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः। अ॒स्मे र॒यिं नि धा॑रय॥ ३०/२२॥
……. ……. ……. …….. प्राणवाक्सुते। तद्व्यङ्ग्यत्वाद्धरिश्चैव दिवः पुत्र उदाहृतः॥ ३० (२/११)/२२॥ (३१) (६)
सोमानमिति नवर्चम्॥ ३१ (२/१२)॥
मेधातिथिः काण्वः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑। तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः॥ ३१/१॥
अग्नीन्द्रादिगतं पृथक् स्थितमपि स्तौत्यच्युतं भक्तितः स्वर्णस्तूप इति प्रसिद्धिमगमद् यः संस्तुवन् सूर्यगम्। विष्णुं स्वर्णसमानचारुवपुषं स्वर्णाभिधं शाश्वतं तं दृष्ट्वा परतोऽभवच्च महितः सुज्ञानमप्याप्तवान्॥ * ॥ अङ्गे रसो ज्ञानत एव चर्षिः सखा प्रियत्वेन दिवौकसां हरिः। तव व्रतेनैव सविद्यकर्मिणो महाविज्ञाना मरुतो बभूविरे॥ ३१/१॥
त्वम॑ग्ने प्रथ॒मो अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तम्। वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑॥ ३१/२॥
व्यापी च विश्वस्य सुमेधया युतो जडाजडे वेत्ति तथाऽब्धिशायी। कतिप्रकारोऽपि स हि प्रजायै स्वामी गुरुर्नित्यसखा पिता च॥ ३१/२॥
त्वम॑ग्ने प्रथ॒मो मा॑त॒रिश्व॑न आ॒विर्भ॑व सुक्रतू॒या वि॒वस्व॑ते। अरे॑जेतां॒ रोद॑सी होतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जो म॒हो व॑सो॥ ३१/३॥
त्वं विष्णो प्रथमो मातरिश्वन आविर्बभूवास्य सुबोधवत्त्वात्। वायुर्विवस्वान् विविधेषु वासादशोभेतां श्रीश्च भूः सर्वहोतुः॥ वरत्वतस्ते रदनाद् रोदसी ते सैका हि दीर्णा द्विविधा बभूव। सहन्तेमुं नैव केचिद्ध्यसघ्नुर्वायुर्विरिञ्चोऽपि महांश्च तस्मै॥ विश्वस्यभारं प्रतिदिष्टवांस्त्वं वासाच्च सर्वत्र वसुर्भवानसि॥ ३१/३॥
त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते॑ सु॒कृत्त॑रः। श्वा॒त्रेण॒ यत्पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुन॑ः॥ ३१/४॥
विशिष्टबोधान्मनवे वायवे त्वं प्रादा दिवं ज्ञानरूपां प्रियां च। यथा तदीयेति तु वाशनं स्याल्लोकस्य सर्वस्य तथैव देव॥ पुरूरवा वायुरेवोरुशब्दादन्यस्मै वा सुकृते सुकृत्तरः। श्वा वै वायुः श्वसनात् त्रणतोऽस्य नित्यं मुक्तः प्रकृतेः पूरुषाच्च॥ तेनैव त्वामानयन् पूर्वसन्तो नीतं पुनश्चाप्यपरे सुभक्त्या॥ ३१/४॥
त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्य॑ः। य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका॑यु॒रग्रे॒ विश॑ आ॒विवा॑ससि॥ ३१/५॥
श्रोतव्यस्त्वं यजमानेन नित्यं नित्यायुरग्रे जनताप्रविष्ठः। ऐश्वर्याद्याः षड्गुणा यत्र वृत्ता वषट्कारस्यार्थ इत्याह वेद॥ ३१/५॥ (३२)
त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म॑न्पिपर्षि वि॒दथे॑ विचर्षणे। यः शूर॑साता॒ परि॑तक्म्ये॒ धने॑ द॒भ्रेभि॑श्चि॒त्समृ॑ता॒ हंसि॒ भूय॑सः॥ ३१/६॥
सद्विद्याख्ये विदथे सम्प्रजाते पापाचारं पुरुषं वा पिपर्षि। सक्मन् गृहे स्वे विविधप्रजेशो विचर्षणिः शूरसातौ च युद्धे॥ सातिर्लाभे यत् परितक्म्येऽधिगम्ये दभ्रा अपि त्वां शरणं यदि स्म। ऋता गतास्तत्र हि भूयसोऽपि तैर्हंसि शक्त्या सङ्ख्यया वाऽप्रयत्नात्॥ ३१/६॥
त्वं तम॑ग्ने अमृत॒त्व उ॑त्त॒मे मर्तं॑ दधासि॒ श्रव॑से दि॒वेदि॑वे। यस्ता॑तृषा॒ण उ॒भया॑य॒ जन्म॑ने॒ मय॑ः कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये॑॥ ३१/७॥
दिनेदिने तत्स्तुतिं श्रोतुकामस्तव स्तोतारममृतत्वे दधासि। प्रीत्याधिक्यात् ततृषाणो मनुष्यदेवोभयेषां सुखमानतनोषि॥ आ समन्ताज्ज्ञानिने तत्र नित्यं प्रियं मोक्षाख्यं ततृषाणो विशेषात्॥ ३१/७॥
त्वं नो॑ अग्ने स॒नये॒ धना॑नां य॒शसं॑ का॒रुं कृ॑णुहि॒ स्तवा॑नः। ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे॑न दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः॥ ३१/८॥
प्रज्ञाधनानां लब्धये नः कृधि त्वं यशस्विनं कारिणं ज्ञानदं च। कर्ताऽऽपरोक्ष्यं यावदुपासनादीन् कारुस्तेन प्रोच्यते तत्त्वदर्शी॥ संस्तूयमानः कर्मणा नूतनेन समृद्धिं च प्राप्नुमः प्राक्तनस्य॥ ३१/८॥
त्वं नो॑ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः। त॒नू॒कृद्बो॑धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क॑ल्याण॒ वसु॒ विश्व॒मोपि॑षे॥ ३१/९॥
त्वं नः पित्रोः प्रकृतेः पूरुषस्य समीपस्थस्तन्नियन्ता सदैव। देवेषु त्वं जागृविर्नित्यवेत्ता तनूकृन्नो बोधय प्राज्ञवर्यः॥ विश्वं वसु प्रार्पयसे च कारवे …. ……. ……. …….॥ ३१/९॥
त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स्त्वं व॑य॒स्कृत्तव॑ जा॒मयो॑ व॒यम्। सं त्वा॒ राय॑ः श॒तिन॒ः सं स॑ह॒स्रिण॑ः सु॒वीरं॑ यन्ति व्रत॒पाम॑दाभ्य॥ ३१/१०॥
…. ……. ……. ……. ……. आयुष्करो भ्रातरस्ते वयं च। देहे त्वेकस्मिन् गर्भवद् वासतश्च भ्राताऽस्य जीवः परमस्य नित्यम्॥ ३१/१०॥ (३३)
त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे॑ दे॒वा अ॑कृण्व॒न्नहु॑षस्य वि॒श्पति॑म्। इळा॑मकृण्व॒न्मनु॑षस्य॒ शास॑नीं पि॒तुर्यत्पु॒त्रो मम॑कस्य॒ जाय॑ते॥ ३१/११॥
आयो राज्ञो हृदये प्रेरकत्वादायोरायुर्नहुषस्याधिपश्च। चक्रुर्देवा देहसृष्ट्यैव तस्य यन्नामान्तर्यामिणो जीवगं च॥ नामार्थभाग् वासुदेवो हि शक्त्या तेन ह्यायुः प्रथमोऽसाविहोक्तः। मनुर्नाम्ना मनुषस्तस्य चेळा पुत्री नामास्या अपि विष्णोः सदैव॥ इळेड्यत्वादुपजीव्यत्वतश्च स एवायुरयनाज्ज्ञानतश्च। तच्छास्यत्वाच्छासनी मानवीळा तच्छासकत्वाच्छासनी वासुदेवः॥ ममत्वकर्तुर्हि पितुः स पुत्रः स्वातन्त्र्यं च ममता नान्यदस्ति॥ ३१/११॥
त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वन्द्य। त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव॑ व्र॒ते॥ ३१/१२॥
त्वं नो मघोनो यजमानस्य तन्वस्तवैव रक्षाशक्तिभी रक्ष देव। चशब्देन ज्ञानभक्त्यादिकं च सदाऽस्माकं यजमानस्य चाद्धा॥ त्राता तोकस्य पुत्रस्य च त्वं सन्ततित्वात् तनयस्यास्य सूनोः। गवां च त्वं रक्षिता ज्ञानसौख्यवाचां वाद्धैवानिमेषान् सुरांश्च॥ संरक्षमाणस्त्वद्व्रते तैः प्रवृत्ते ….. ……. ……. …….॥ ३१/१२॥
त्वम॑ग्ने॒ यज्य॑वे पा॒युरन्त॑रोऽनिष॒ङ्गाय॑ चतुर॒क्ष इ॑ध्यसे। यो रा॒तह॑व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न्मन्त्रं॒ मन॑सा व॒नोषि॒ तम्॥ ३१/१३॥
….. ……. ……. ……. यज्योश्च त्वं पालको ह्यन्तरश्च। नितरां यः सङ्गहीनोऽनिषङ्गस्तस्मै भक्त्या दीप्यसे ज्ञानदृष्ट्या॥ द्विशीर्षत्वाच्चतुरक्षोऽधियज्ञो “द्वे शीर्षे” ऋग्वेदसंहिता ४/५८/३ इति वागुत्तरत्र। यो दत्तहव्यस्तेतिसौम्याय पीत्यै कर्तुर्मन्त्रं सम्भजसे हि तस्य॥ ३१/१३॥
त्वम॑ग्न उरु॒शंसा॑य वा॒घते॑ स्पा॒र्हं यद्रेक्ण॑ः पर॒मं व॒नोषि॒ तत्। आ॒ध्रस्य॑ चि॒त्प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो॑ वि॒दुष्ट॑रः॥ ३१/१४॥
महास्तोत्राय वदते स्पार्हमिष्टं रेक्णः सुखं परमं तद् ददासि। आ समन्ताद् धारकस्यापि वायोः प्रज्ञानदः प्रोच्यसे त्वं पिता च॥ प्रशास्सि त्वं परिपक्वाधिकारं प्रदेशकत्वादखिलं त्वं सुवेत्ता॥ ३१/१४॥
त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे॑व स्यू॒तं परि॑ पासि वि॒श्वत॑ः। स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो॑न॒कृज्जी॑वया॒जं यज॑ते॒ सोप॒मा दि॒वः॥ ३१/१५॥
धृतं वर्मेव परिपासि नित्यं प्रयत्नाद् यो दक्षिणादो मखेषु। स्वादुक्षद्मा सुखगेहो गृहे च स्योनं सुखं यः परेषां करोति॥ यावज्जीवं यजने सुप्रतिज्ञो भूत्वा च यो यजते तस्य सैव। द्युप्राप्तिभावे ह्युपमा देह एव क्षमेति वा वसतिर्ज्ञानमार्गे॥ ३१/१५॥ (३४)
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात्। आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नाम्॥ ३१/१६॥
या मे भवच्छरणप्राप्तिरेषा मर्षस्व तामल्प इति क्रुधो मा। त्वत्प्राप्त्यर्थं दूरमगां च यत् तत् प्राप्यः पिता ज्ञानदो देवतानाम्॥ त्वं भ्रामको मानुषाणामृषीणां कर्ता तथा ज्ञानदानेन देव॥ ३१/१६॥
म॒नु॒ष्वद॑ग्ने अङ्गिर॒स्वद॑ङ्गिरो ययाति॒वत्सद॑ने पूर्व॒वच्छु॑चे। अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा॑दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यम्॥ ३१/१७॥
यथा मनुश्चाङ्गिरा वा ययातिर्गृहे प्राप्तस्त्वां तथा मद्गृहं च। अभ्यायाह्यावह देवसङ्घमासादय बर्हिषि यक्षि च प्रियम्॥ यष्टा त्वमेवाखिलजीवगो यत् ….. ……. ……. ……. ॥ ३१/१७॥
ए॒तेना॑ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती॑ वा॒ यत्ते॑ चकृ॒मा वि॒दा वा॑। उ॒त प्र णे॑ष्य॒भि वस्यो॑ अ॒स्मान्सं न॑ः सृज सुम॒त्या वाज॑वत्या॥ ३१/१८॥
…. ……. ……. ……. ……. स्पष्टत्वं च प्राप्नुहि वेदवाचा। शक्त्या यत् ते चकृम ज्ञानतो वा वस्यो भद्रं प्रणयास्मान् सुमत्या॥ भोगेतया संसृज नित्यमेव यस्माच्छक्त्या चकृम त्वत्सुकर्म॥ ३१ (२/१२)/१८॥ (३५)
सोमानमिति नवर्चम्॥ ३२ (२/१३)॥
मेधातिथिः काण्वः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री। अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानाम्॥ ३२/१॥
इन्द्रस्य वा वासुदेवस्य वीर्याण्याचक्षेऽहं यानि मुख्यानि चक्रे। अहिं दैत्यं संशयं वा जघान जलानुसारेण चखान मार्गम्॥ ततर्द विघ्नान् कर्मणां वाऽनुसाराद् वहनात् पक्षा वक्षणा दुर्वचांसि। जीवानां चेद् वक्षणा जन्मपर्ववतां बिभेदैव सुयुक्तिभिस्ताः॥ ३२/१॥
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष। वा॒श्रा इ॑व धे॒नव॒ः स्यन्द॑माना॒ अञ्ज॑ः समु॒द्रमव॑ जग्मु॒राप॑ः॥ ३२/२॥
त्वष्टा त्वेतज्ज्ञानवज्रं विरिञ्चस्ततक्षैतद्विषयं त्विडात्मा। स्वर्यं वज्रं निशितं शब्दजं वा शिशुवत्सा गाव इवैतदीरिताः॥ अञ्जः समुद्रं जग्मुरापः क्रिया वा समुद्रिक्तं देवमेनं व्रजन्ति॥ ३२/२॥
वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑। आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम्॥ ३२/३॥
वव्रे सोमं तृषितो यद्वदेव वृषापिबत् सवनेषु त्रिषु स्म। सवनानां कद्रुकत्वं द्रुतं यत् कमत्र सोमो ध्यानयोगे मनो वा॥ सायङ्करं लयकृज्ज्ञानमेव समाददे संशयमीशवद् वा॥ ३२/३॥
यदि॒न्द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑ना॒ः प्रोत मा॒याः। आत्सूर्यं॑ ज॒नय॒न्द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से॥ ३२/४॥
अहन्नेनं प्रथमं मायिनां च व्यानाशयो व्याजरूपाश्च मायाः। ततः सूर्यद्युदिनादेश्च कर्ता त्वमेव तावद् बलतो न शत्रुम्॥ लभसे मायावादिनां वाऽथ माया व्यनाशयस्तैः स्वजनैस्तज्जयेन॥ ३२/४॥
अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं॑स॒मिन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑। स्कन्धां॑सीव॒ कुलि॑शेना॒ विवृ॒क्णाहि॑ः शयत उप॒पृक्पृ॑थि॒व्याः॥ ३२/५॥
अहन् वृत्रं व्यंसमतोऽधिकं च तमोमिथ्याप्रत्ययौ व्यंसनाद् वा। स्कन्धास्तरोर्यद्वदथो विवृक्णा अहिश्च वज्रेण कुलस्य शङ्कृतेः॥ विद्या नाम्ना कुलिशो बुद्धिरेव पृथिव्याख्या संशयस्तद्गतो यत्। अतः पृथिव्या उपपृक् ……. ……. ……. …….॥ ३२/५॥ (३६)
अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम्। नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जाना॑ः पिपिष॒ इन्द्र॑शत्रुः॥ ३२/६॥
……. ……. ……. यस्य योद्धा नायोद्धाऽसौ तद्वदेवेन्द्रशत्रुः। दर्पोद्रिक्तो ह्याह्वयामास शक्रं विष्णुं वाऽज्ञानं वीरतमं रिपूणाम्॥ महोच्चानां बाधकं दार्ढ्यहेतोर्ऋजीषाख्यं नास्य विष्णोर्वधानाम्। सम्प्राप्तिमज्ञानमथापि वृत्रः शक्रस्यातारीत् सम्पिपिषे प्रजाश्च॥ रुजा युक्ता मानुषीर्वा सृतिस्था इन्द्रः शत्रुर्यस्य स हीन्द्रशत्रुः। ‘पुंसोः पूर्वस्मिन् स्वरितान्ते समासो बहुव्रीहिर्हि’ इति सूत्रं पुराणम्॥ ३२/६॥
अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान। वृष्णो॒ वध्रि॑ः प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः॥ ३२/७॥
सञ्छिन्नपाद्बाहुरपीन्द्रमेव युयोध वज्रं व्यसृजत् स तस्य। गिरेः सानुप्रतिमे कण्ठदेशे तर्कागमाभ्यां रहितं तमो वा॥ संयुद्ध्यमानं मानवज्रेण विष्णुर्जघान वध्रिर्वधयोग्योऽथ नीचः। ईशस्य शत्रुर्भवितुं स इच्छन् व्यस्तोऽशयद् बहुधेशेन तेन॥ ३२/७॥
न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ य॒न्त्याप॑ः। याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महि॑ः पत्सुत॒ःशीर्ब॑भूव॥ ३२/८॥
अपां रोद्धारममुया स्वमात्रा सहैव शक्रेण हतं शयानम्। भिन्नं नदं यद्वदतीत्य चापो मनःपूर्वं चारुहाणाः प्रयान्ति॥ वृत्रो याः पूर्वं स्वमहिम्ना परीत्य पुराऽतिष्ठत् तत्सुतोऽहिश्च तासाम्। पत्सुतःशीः पादतोऽनन्तरं तु शेताऽभवत् तद्वदेवाभिरुन्धन्॥ तमःपुत्रः संशयो वाऽभिरुन्धन् शुभान्यास्ते निहतः सोऽपि तेन॥ ३२/८॥
नी॒चाव॑या अभवद्वृ॒त्रपु॒त्रेन्द्रो॑ अस्या॒ अव॒ वध॑र्जभार। उत्त॑रा॒ सूरध॑रः पु॒त्र आ॑सी॒द्दानु॑ः शये स॒हव॑त्सा॒ न धे॒नुः॥ ३२/९॥
नीचस्थाने बन्धनं याऽपि चापां करोति दानुर्वृत्रमाता दनुः सा। वृत्रो ह्यभूद् दनुजः कश्यपाच्च पापात्माऽसौ वैष्णवस्त्वष्टृजातः॥ वृत्रः पुत्रोऽस्या इति सा वृत्रपुत्रा वधं तस्या अहरत् पूर्वमिन्द्रः। प्रकृतिर्वा वृत्रमाता तमो हि तस्या अभूत् तां जघानेशिता वा॥ प्रातिस्विकी प्रकृतिर्यत् तमश्च दोषाश्चान्ये पुंस्वतो युक्तमेतत्। सुतावनार्थमुपरिस्था बभूव सुतस्य माता तां निहत्यामुमेव॥ जघानेन्द्रः कारणस्यापि नाशात् कार्योत्थानं वारयामास विष्णुः। स्यादेव पूर्वं कार्यनाशो ह्यथापि निःशेषनाशः कारणस्यैव नाशात्॥ एवं भक्ताननुजग्राह देवो नारायणः पारयन् संसृतेश्च। उत्तरत्वं प्रकृतेः शक्तितः स्यात् ……. ……. …….॥ ३२/९॥
अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रम्। वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः॥ ३२/१०॥
……. ……. ……. ……. अनन्तत्वान्नैव तिष्ठन्ति काष्ठाः। अतस्तासां न गृहं किञ्चिदस्ति निण्यं सुखेनैव चरन्ति चापः॥ दीर्घं तमो वृत्रसञ्ज्ञं तमो वा दीर्घमन्धं प्राप वृत्रः स एव॥ ३२/१०॥ (३७)
दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आप॑ः प॒णिने॑व॒ गाव॑ः। अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार॥ ३२/११॥
दासस्य विर्ष्णोर्वरुणस्य पत्न्यो निरुद्धा आसन्नहिना यद्वदेव। गावो बलेनेन्द्रयज्ञे सुकॢप्ता वृत्रं हत्वा तमहिं चाशु शक्रः॥ उद्धाटयामास बिलं तदापां शुभद्वारं भगवान् वा तमो घन्॥ ३२/११॥
अश्व्यो॒ वारो॑ अभव॒स्तदि॑न्द्र सृ॒के यत्त्वा॑ प्र॒त्यह॑न्दे॒व एक॑ः। अज॑यो॒ गा अज॑यः शूर॒ सोम॒मवा॑सृज॒ः सर्त॑वे स॒प्त सिन्धू॑न्॥ ३२/१२॥
सृके युद्धे प्रत्यहंस्त्वां यदि स्म देवः प्रधानोऽपि तदश्ववारः। वालीव त्वं ननु देवस्तदानीं प्रतिहन्ता ते नैव कश्चिद्धि तस्मात्॥ अजयो बलाद् गा अजयो हिरण्यं सोमं गन्तुममुचः सप्त सिन्धून्॥ ३२/१२॥
नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च। इन्द्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये॥ ३२/१३॥
अशनिं यां विद्युतं यां मिहं च नाम्ना हेतिं वेद्युपमां सुतीक्ष्णाम्। अशनिभेदं ह्रादुनिनामधेयं त्वामुद्दिश्यैवाकिरत् सोऽहिरुग्रः॥ त्वां प्रत्येतन्नैव सिद्धिं चकार पश्चात्काले त्वजयस्त्वं तमेव॥ ३२/१३॥
अहे॑र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत्। नव॑ च॒ यन्न॑व॒तिं च॒ स्रव॑न्तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि॥ ३२/१४॥
अहेर्योद्धारं कमपश्य इन्द्र यज्जघ्नुषस्तेऽपि भयं जगाम। ज्ञानानि मिथ्याबोधतोऽस्मन्मनश्च शब्दादिकादमुचः सप्तसिन्धून्॥ महत्तत्वादीन् विपरीता मतिस्तु विद्युच्छब्दास्तन्यतुर्वक्तृशक्तिः। मिहेत्युक्ता ह्रादुनिर्हुङ्कृतिश्च प्रतिवक्तॄणामनुकूले रमेशे॥ न साधयन्ति स्म तमःसमुत्था जयत्येनं संशयं वासुदेवः। स्वभक्तार्थे तद्धृदिस्थः क एव त्वदन्योऽहेरभिगन्ता भवेत॥ तवैव यस्मात् संशयं जघ्नुषस्तु त्वदीयानां भयमञ्जो व्यपैति। शतमेकोनमतरस्त्वं नदीनामहिं दैत्यं घन् यथाऽऽकाशदेशान्॥ भीतः श्येनो ह्यभिगच्छेत् तथैव नानानदीवारकत्वात् तु तस्य। ईशो देवानां तावतां तावतीश्च सृत्यापगास्तारयामास यद्वत्॥ भीतः श्येनस्तरतीत्थं तथैषां कृत्वोपमां तारयामास देवः। ‘स्वातन्त्र्ये भेदकरणे चोक्त एव व्यत्यासः’ इत्यनवद्यं तदेतत्॥ ‘वस्वादित्या मरुतश्चाश्विनौ च बृहस्पतिः शेषविपानिरुद्धाः। ब्रह्मा ब्रह्माण ऋभवश्चैव रुद्रा ऊनं शतम्’ देवतासंहितोक्तम्॥ ३२/१४॥
इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः। सेदु॒ राजा॑ क्षयति चर्षणी॒नाम॒रान्न ने॒मिः परि॒ ता ब॑भूव॥ ३२/१५॥
स एवेन्द्रो भगवांस्तत्प्रसादात् प्राप्तो भक्तैः पर्यवसानगन्तुः। मुक्तस्य राजाऽपि शमस्य मुक्तेर्ज्ञानं शृङ्गं तद्वतश्चैव नित्यम्॥ स एव राजा क्षयति प्रजानां भूतान्यराणीव च पर्यभूत् सः॥ ३२ (२/१३)/१५॥ (३८)
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचित ऋग्भाष्ये द्वितीयोऽध्यायः सम्पूर्णः॥
सोमानमिति नवर्चम्॥ ३३ (३/१)॥
मेधातिथिः काण्वः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
एताया॒मोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति। अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः॥ ३३/१॥
ये सखायस्त्वरिता एत देवा उपायाम पशुवत् तद्वशस्थाः। गव्यन्त उक्ताः ‘अतिनिश्चितेऽर्थे भूतशब्दश्च’ इत्याह सूत्रं परेशः॥ प्रकृष्टज्ञानं वर्धयत्येव सुष्ठु स नोऽभेद्योऽनामृणः क्वापि तस्य। वित्तानि तस्माद् वेदवाक्योत्थमेव केतं ज्ञानं परमावर्जते नः॥ ददाति ……. ……. ……. ……. ……. ……. …….॥ ३३/१॥
उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि। इन्द्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न्॥ ३३/२॥
……. उपैवेशमहं पतामि यथा श्येनो वसतिं पूर्वभुक्ताम्। इन्द्रं नमस्यन्ननुकूलर्ग्भिरेव यः स्तोतृभ्यो हव्य एवास्ति काले॥ ३३/२॥
नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा अ॑जति॒ यस्य॒ वष्टि॑। चो॒ष्कू॒यमा॑ण इन्द्र॒ भूरि॑ वा॒मं मा प॒णिर्भू॑र॒स्मदधि॑ प्रवृद्ध॥ ३३/३॥
अशेषसेनापतिरेष शत्रूनशेषतो हन्तुमथो तमांसि। बध्नाति तूणान् निजसज्जनान् वा संयोजयत्यात्मनि मानबाणान्॥ अर्यो गम्योऽधीश्वरो गा मतीर्वा सङ्कालयत्येव च यस्य वष्टि। भक्तस्य तत्त्वं ददमानश्च भूरि भद्रं मा भूरसुरस्त्वं कदाचित्॥ अस्मदर्थे हिंसकत्वेन नित्यप्रवृद्ध …. ……. …….॥ ३३/३॥
वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिन्द्र। धनो॒रधि॑ विषु॒णक्ते व्या॑य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः॥ ३३/४॥
….. ……. ……. ……. ……. वज्रेण घनेन दस्युम्। ज्ञानेन वाऽज्ञानगणं धनाढ्यमयज्युं चाप्येक एवान्तरे च॥ चरञ्छाकैः शक्तिभिः सर्वदेवनरादिलोकं यमयञ्जघन्थ। अधिकृत्य त्वां धनुमत्यन्तपुष्टं विष्वग् जग्मुरयजन्तः सदैव॥ मृतिं प्रापुर्दुःखबाहुल्यरूपां सनका लाभे योग्यरूपा अपि स्म॥ ३३/४॥
परा॑ चिच्छी॒र्षा व॑वृजु॒स्त इ॒न्द्राय॑ज्वानो॒ यज्व॑भि॒ः स्पर्ध॑मानाः। प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर॑व्र॒ताँ अ॑धमो॒ रोद॑स्योः॥ ३३/५॥
अयज्वानोऽन्ये वक्ष्यमाणास्तु ये ते सन्त्यासुरा यज्वभिः स्पर्धमानाः। शिरांस्यपि स्वानि सन्तत्यजुस्ते सद्भिः स्पर्धामात्रसम्पूरितार्थाः॥ तानव्रतान् स्वर्गतः खात् पृथिव्या निरधमस्त्वं स्थैर्यवानिन्द्रियेशः॥ ३३/५॥ (१)
अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयन्त क्षि॒तयो॒ नव॑ग्वाः। वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा॑च्चि॒तय॑न्त आयन्॥ ३३/६॥
यदा नवग्वा ऋषयोऽसुरेन्द्रैरुपद्रुताः शरणं वासुदेवम्। प्रापुस्तमोभिस्तामसैर्वाऽघसङ्घैः सम्पीडिता अयुयुत्संस्तदा तैः॥ सेनां च विष्णोर्निरयातयंस्ते वधाय तेषां हरिभक्त्यादिकान् वा। गुणान् समर्था इव योधाः स्वशत्रुवधैकशीला अपि नष्टाः प्लवद्भिः॥ गुणैर्विष्णोः स्वैर्गुणैर्वा प्रसादादीशस्य सङ्कालयन्तो ह्यगच्छन्॥ ३३/६॥
त्वमे॒तान्रु॑द॒तो जक्ष॑त॒श्चायो॑धयो॒ रज॑स इन्द्र पा॒रे। अवा॑दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु॑न्व॒तः स्तु॑व॒तः शंस॑मावः॥ ३३/७॥
रक्षोगणान् भक्षयतो मुनींश्च सम्पीडितान् रुदतश्च त्वयैव। अयोधयो रजसोऽन्ते सुसत्त्ववृद्धिर्यदा जगतः स्यात् तदैव॥ पुन्दोषान् वा गुणभक्षान् नृसत्त्ववृद्धौ दिवो ज्ञानतोऽवादहश्च। अज्ञानदस्युं स्तुवतः संस्तुतिं च प्रावोऽरक्षः ….. …….॥ ३३/७॥
च॒क्रा॒णास॑ः परी॒णहं॑ पृथि॒व्या हिर॑ण्येन म॒णिना॒ शुम्भ॑मानाः। न हि॑न्वा॒नास॑स्तितिरु॒स्त इन्द्रं॒ परि॒ स्पशो॑ अदधा॒त्सूर्ये॑ण॥ ३३/८॥
….. ……. ……. ……. ……. ……. बन्धनं ये जनानाम्।
कुर्वन्ति हेम्ना मणिभिः शोभमाना दैत्यादयो दृढदोषा धनैर्वा॥ ते प्रेरयन्तोऽपि परस्परेण नैवातरन् वासुदेवं कथञ्चित्। सहैव सूर्येण च देवसङ्घांश्चरानज्ञातानदधाद् वासुदेवः॥ दैत्यानां वा तमसां वृत्तदृष्ट्यै ….. ……. ……. ……॥ ३३/८॥
परि॒ यदि॑न्द्र॒ रोद॑सी उ॒भे अबु॑भोजीर्महि॒ना वि॒श्वत॑ः सीम्। अम॑न्यमानाँ अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिन्द्र॥ ३३/९॥
…. ……. ……. …… पर्यभुङ्क्थाः सह यद् रोदसी च। स्वमहिम्ना विश्वतः सम्यगेव तदभक्तान् निरधमो भक्तसङ्घैः॥ ३३/९॥
न ये दि॒वः पृ॑थि॒व्या अन्त॑मा॒पुर्न मा॒याभि॑र्धन॒दां प॒र्यभू॑वन्। युजं॒ वज्रं॑ वृष॒भश्च॑क्र॒ इन्द्रो॒ निर्ज्योति॑षा॒ तम॑सो॒ गा अ॑दुक्षत्॥ ३३/१०॥
ये दस्यवो द्युपृथिव्योरशेषभोगेच्छवो धनदं चेश्वरं तम्। जिगीषवः स्वीयमायाभिरेव नैवोदापुर्द्वयमेतत् कदाचित्॥ युक्तं ज्ञानं वज्रमेवायुधं वा दस्यून् हन्तुं कृतवान् देवदेवः। निजेनैव ज्योतिषा भक्तहृद्गतमोगूढान्यदुहन्निश्चयेन॥ ज्ञानानि विष्णुर्यत् तदज्ञानमुग्रम् ….. ……. …….॥ ३३/१०॥ (२)
अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अ॒स्याव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम्। स॒ध्री॒चीने॑न॒ मन॑सा॒ तमिन्द्र॒ ओजि॑ष्ठेन॒ हन्म॑नाहन्न॒भि द्यून्॥ ३३/११॥
….. ……. ……. ……. यस्य कर्माण्यक्षरन् सौख्यमेव। यो वेदवाचां सृतिनावात्मकानां मध्येऽवर्धदयथाज्ञानरूपः॥ समीचीनज्ञानतोऽहंस्तमीश ओजिष्ठेन हतिरूपेण सम्यक्। मोक्षप्रकाशार्थमथापि नावा तरणीयानां मध्यतोऽपां वृधं तम्॥ अहिं वै ….. ……. ……. ……. ……. ……. …….॥ ३३/११॥
न्या॑विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्र॑ः। याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युम्॥ ३३/१२॥
……. इळिनो भूस्थिताः स्युस्तत्राविशन्नसुरो नाम तस्य। इळीविशस्तस्य दृढानि यानि बलादीनि न्यहनत् तानि देवः॥ तमसो वा शृङ्गिणं शोषकं च वृषरूपं दैत्यमहन्नथो वा। कामं यावच्छक्तितो विक्रमाद् वा वेगेन वा शत्रुमथो पृतन्युम्॥ जघन्थ वज्रेण सुबोधतो वा न शक्तिसामस्त्यमिहोदितं हरेः। अनन्तशक्तिर्हि हरिः सदैव कुत एव शत्रुस्तदमुष्य कोऽपि॥ अतो यथाशक्त्यभियुद्ध्यमानं शत्रुं जघन्थेति महानिहार्थः॥ ३३/१२॥
अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॒न्वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑ऽभेत्। सं वज्रे॑णासृजद्वृ॒त्रमिन्द्र॒ः प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः॥ ३३/१३॥
स सर्वतः सिद्धियुतः सदैव जिगाय जीवारिगणान् पुरश्च। संसाररूपा अभिनद् वृषेण प्राणेन तिग्मेन विरोधिनः प्रति॥ संयोजयामास वज्रेण वृत्रं ज्ञानेन वाऽज्ञानममुष्य हत्यै। मतिं च स्वामदिशत् स्वप्रजाभ्यः स शाशदानः सुसुखी सदैव॥ ३३/१३॥
आव॒ः कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्प्रावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम्। श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै॑त्रे॒यो नृ॒षाह्या॑य तस्थौ॥ ३३/१४॥
कुत्सं दशद्युं च मुनिं नृपं च यस्मिंस्थितः स्वात्मरूपं सुभक्त्या। अदर्शयस्तोषितो यः स्वतन्त्रश्चाकन्नुक्तः कर्म यतः स्वतन्त्रे॥ वृषरूपस्यास्य नृपस्य युद्ध्यतः शफच्युतो रेणुरुन्नक्षत द्याम्। श्वेता वाणी वायुभार्या सुतोऽस्याः श्वैत्रेयोऽयं युद्ध्यतो ह्युदस्थात्॥ वृषः श्वैत्रेयो धर्म एवाथ कुत्सनामाऽध्यात्मे कुत्सितोत्सारणात् स्यात्। धर्मरेणुः स्वर्गमात्राभिगामी साक्षाद् धर्मो मोक्षफलोपगः स्यात्॥ ३३/१४॥
आव॒ः शमं॑ वृष॒भं तुग्र्या॑सु क्षेत्रजे॒षे म॑घव॒ञ्छ्वित्र्यं॒ गाम्। ज्योक्चि॒दत्र॑ तस्थि॒वांसो॑ अक्रञ्छत्रूय॒तामध॑रा॒ वेद॑नाकः॥ ३३/१५॥
शमात्मकं वृषभं धर्ममेवाप्यरक्षस्त्वं तुग्रियास्वप्यधीश। तुग्र्याख्या स्यात् सन्ततिर्दीर्घकाला मुक्तिक्षेत्रविजयायैव धर्मम्॥ श्वेतासुतं रमणाद् रेफ उक्तस्तमरक्षस्त्वं त्वयि ये तस्थिवांसः। ज्योतिश्चक्रुर्निजरूपं विमुक्त्या ज्ञानान्यरीणामधराणि चाकरोः॥ ३३ (३/१)/१५॥ (३)
सोमानमिति नवर्चम्॥ ३४ (३/२)॥
मेधातिथिः काण्वः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना। यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभि॑ः॥ ३४/१॥
आरभ्य चाद्यैव दिवा निशायां तदन्तरे च त्रिरपि स्म सर्वदा। अस्माकमेव भवतं यतोऽन्यो वेत्ता न तावित्युदितौ नवेदसौ॥ गौणं तदन्यत्र हरौ तु मुख्यतो व्यापी तु मार्गो युवयोश्च दानम्। अशेषदेशेषु गतेरशेषदातृत्वतश्चैव युवोर्हि यन्त्रम्॥ वासोयन्त्रं यद्वदयत्नतः स्याद्धिम्या हिनोतेस्तन्तुविक्षेपणी हि। तद्वद् बुद्धिप्रेरकाऽयत्नतो वामायार्थसेनौ भवतं मनीषिभिः॥ सहैव देवैः ….. ……. ……. ……. ……. ……. ॥ ३४/१॥
त्रय॑ः प॒वयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः। त्रय॑ः स्क॒म्भास॑ः स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं॑ या॒थस्त्रिर्व॑श्विना॒ दिवा॑॥ ३४/२॥
…. पवयश्चायुधानि सोमस्य पानं चेतनत्वाद् विदुस्ते। वज्रः खङ्गः शर इत्यायुधानि त्रिवेणवः स्तम्भनामान एव॥ दिवा निशायां त्रिस्त्रिरेवानुयाथः कर्मारम्भार्थं लोकसिद्ध्यर्थमञ्जः। चक्रं गदा शर इत्यायुधानि वेदास्त्रयो वासुदेवस्य च स्युः॥ रथः स्वीयो ज्ञानिनां वा शरीरं प्राणादयः स्तम्भनान्यस्य चापि॥ ३४/२॥
स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम्। त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम्॥ ३४/३॥
वैषम्यहीने सुखभाजनेऽह्नि विमुक्तिकालेऽखिलदोषनाशकौ। स्वभक्तानां शोधयन्तं च यज्ञं त्रिरस्माकं युद्धजिता इषश्च॥ सुखानि वा मोक्षगतानि नोऽलमहोरात्रं क्षरतं सर्वदैव॥ ३४/३॥
त्रिर्व॒र्तिर्या॑तं॒ त्रिरनु॑व्रते ज॒ने त्रिः सु॑प्रा॒व्ये॑ त्रे॒धेव॑ शिक्षतम्। त्रिर्ना॒न्द्यं॑ वहतमश्विना यु॒वं त्रिः पृक्षो॑ अ॒स्मे अ॒क्षरे॑व पिन्वतम्॥ ३४/४॥
यद्वर्तनं सर्वलोकेषु तच्च त्रिकालगं युवयोरेव सर्वम्। भक्ते जने सुष्टु रक्ष्ये सुभक्ते त्रिधेव कालानुगते सुशिक्षतम्॥ सुखं वहेतं च युवां तु नः सदा पुष्टिं च नित्यां क्षरतं वर्णवच्च॥ ३४/४॥
त्रिर्नो॑ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता॑ता॒ त्रिरु॒ताव॑तं॒ धिय॑ः। त्रिः सौ॑भग॒त्वं त्रिरु॒त श्रवां॑सि नस्त्रि॒ष्ठं वां॒ सूरे॑ दुहि॒ता रु॑ह॒द्रथ॑म्॥ ३४/५॥
वित्तं च नित्यं देवततिं च नित्यं धियं च शुभ्रां नित्यमेवावतं नः। कीर्तिं सौभाग्यं रक्षतं नः सदैव कालत्रये युष्मदीयं रथं च॥ पुत्री सूर्यस्यारुहद् भक्तदेहे ज्ञानोदयो वा भगवत्प्रसादात्॥ ३४/५॥
त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः। ओ॒मानं॑ शं॒योर्मम॑काय सू॒नवे॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती॥ ३४/६॥ (४)
त्रिर्नो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम्। ति॒स्रो ना॑सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वात॒ः स्वस॑राणि गच्छतम्॥ ३४/७॥
त्रिर॑श्विना॒ सिन्धु॑भिः स॒प्तमा॑तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम्। ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं॑ रक्षेथे॒ द्युभि॑र॒क्तुभि॑र्हि॒तम्॥ ३४/८॥
क्व१॒॑ त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व१॒॑ त्रयो॑ व॒न्धुरो॒ ये सनी॑ळाः। क॒दा योगो॑ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना॑सत्योपया॒थः॥ ३४/९॥
आ ना॑सत्या॒ गच्छ॑तं हू॒यते॑ ह॒विर्मध्व॑ः पिबतं मधु॒पेभि॑रा॒सभि॑ः। यु॒वोर्हि पूर्वं॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव॑न्त॒मिष्य॑ति॥ ३४/१०॥
आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना। प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑॥ ३४/११॥
आ नो॑ अश्विना त्रि॒वृता॒ रथे॑ना॒र्वाञ्चं॑ र॒यिं व॑हतं सु॒वीर॑म्। शृ॒ण्वन्ता॑ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ॥ ३४/१२॥
सर्वेषु कालेष्वपि भेषजानि नः सर्वलोकप्रभवानि दत्तम्। अद्भ्यः सुखायैव सुखं ममैव स्वल्पस्य युष्मत्पुत्रकस्याथ दत्तम्॥ पती शुभस्याथ सुतस्य शंयोर्मदीयस्यैवावहतं सुखं वा॥ ३४ (३/२)/६-१२॥ (५)
सोमिति नवर्चम्मान॥ ३५ (३/३)॥
मेधातिथिः काण्वः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से। ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑॥ ३५/१॥
ह्वयामि देवानग्निपूर्वानथो वा विष्णुं तैस्तैर्नामभी राति यस्मात्। रतित्वाद् वा रतिदत्वात् स रात्री …. ……. ……. …….॥ ३५/१॥
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न्॥ ३५/२॥
….. ……. ……. ……. ……. कृष्णं रजः शार्वरं हृत्तमो वा। देवान् नृजातानथवा विमुक्तानन्यान्मर्त्यान् सृतिगान् वा लयेषु॥ निशासु वा स्वात्मनि सन्निवेशयन् प्रस्वापयन् वा रविगो जनार्दनः॥ ३५/२॥
याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम्। आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः॥ ३५/३॥
आयाति नित्यं चोच्चनीचैः प्रदेशैः शुभ्राश्वयुक्तेन रथेन याज्यः। शुभौ च तौ रमणीयौ च शुभ्रौ पुरोगाश्वौ हरिदश्वो हि सूर्यः॥ परावतो दूरतः …… ……. ……. ……. …….॥ ३५/३॥
अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म्। आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः॥ ३५/४॥
……. ……. अभीवृतश्च रथो हिरण्यैस्तस्य शम्या युगाणी। तमःप्रकाशौ यदधीनौ यतस्तौ दधान इत्युच्यते वासुदेवः॥ कृष्णं रजस्तविषी सत्त्वपूर्वा गुणास्त्रयो व्युत्क्रमात् …. ॥ ३५/४॥
वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः। शश्व॒द्विश॑ः सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः॥ ३५/५॥
……. ……. ……. ……. ……. ……. …. तत्तुरङ्गाः। श्यावाः श्यामत्वान्नीलपादो जगत् ते पश्यन्ति सन्धिः प्रउगं रथस्य॥ देवप्रियत्वाद् दैव्यनाम्नो हरेस्तु समीपस्थं सर्वगत्वाज्जगद्धि॥ ३५/५॥
ति॒स्रो द्याव॑ः सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट्। आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत्॥ ३५/६॥
तिस्रो द्यावो मात्रयं द्वावुपस्थौ जडाजडे श्रीर्विराषाडधीशा। विश्वस्य साक्षाद् भगवान् नियन्ता यमोऽस्य सर्वं गदितं सदैव॥ जडाजडत्वान्मानमुक्तं पृथग्धि सर्वस्वाम्यं वक्तुमेवोदिता श्रीः। अन्योन्यसम्बन्धविवक्षयैव ह्युपस्थत्वं मुक्तभूतानि यानि॥ अशेषतस्तानि रथस्य यद्वदाणिं रथ्यं संश्रितं सर्वदैव। एवं हरिं संश्रिततान्यब्जजेशपूर्वाण्यपीत्येष वेदार्थसारः॥ इह ब्रवीत्वन्यथा योऽभिपश्येत् कुर्याद् वा तद् यो यथावच्च पश्येत्। शेषं ज्ञानं स ब्रवीत्वस्मदर्थे चकार यो विष्णुरेतत् स वा नः॥ ३५/६॥
वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः। क्वे॒३॒॑दानीं॒ सूर्य॒ः कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान॥ ३५/७॥
गम्भीरवेगो भगवान् वा सुपर्णः परानन्दादन्तरिक्ष्याण्यपश्यत्। असौ रतिः शुभनीतिश्च विष्णुरित्यपश्यद् दुर्लभत्वात् क एव॥ पश्यन् रवे रश्मिगणानपीह सर्वव्याप्तानपि विष्णोर्न रश्मीन्। लोकः पश्येदिति कुत्राततानेत्याक्षिप्यते व्यक्तिमपेक्ष्य रश्मेः॥ ३५/७॥
अ॒ष्टौ व्य॑ख्यत्क॒कुभ॑ः पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न्। हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि॥ ३५/८॥
ऊर्ध्वं मध्यमधरं चेति धन्वत्रयं तमः सुखलीनं यतस्तत्। युक्तं भवेत् तद्गतैः सर्वदैव दृढश्लेषाद् योजनं स्यात् तमो हि॥ अष्टौ दिशः प्रकृतेर्वा पृथिव्या महदाद्याः सिन्धवस्तान्यपश्यत्। हिरण्याक्षो नरसिंहात्मना स वार्याणि यद् वरणीयं सुवित्तम्॥ ३५/८॥
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते। अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति॥ ३५/९॥
चर्षणिभ्यो यत् प्रजाभ्यो विशिष्टो विचर्षणिः केशवः सूर्यमेति। ऋणोति सम्पूरयति ….. ……. ……. ……. ……. ॥ ३५/९॥
हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ्। अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः॥ ३५/१०॥
…. ……. स्ववान् स स्वतन्त्रत्वात् स्वर्णपात्रं सुपूर्णम्। दधानोऽसौ स्वर्णवर्णश्च तेन स्वर्णपाणिः स्वर्णहस्तश्च देवः॥ पृथक्पृथक् पाणिपूर्वाङ्गवित्त्यै स्वर्णवर्णः स्वर्णपाणिः स उक्तः। एतैर्लिङ्गैर्वेत्ति सूर्यं यतश्च सूर्यादन्यः सविता वासुदेवः॥ उक्तो गायत्र्या चारणैस्तत्रतत्र कप्यास पद्माक्ष इति ह्युदाख्यः॥ ३५/१०॥
ये ते॒ पन्था॑ः सवितः पू॒र्व्यासो॑ऽरे॒णव॒ः सुकृ॑ता अ॒न्तरि॑क्षे। तेभि॑र्नो अ॒द्य प॒थिभि॑ः सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव॥ ३५/११॥
ये पन्थानो देवयाना अमुत्र साध्या ये तेऽरेणवोऽरागतो वा। रजो हानादथवा तान् प्रदाय रक्षाधिकान् ब्रूहि नोऽथो समेभ्यः॥ ३५ (३/३)/११॥ (७) (७)
सोमानमिति नवर्चम्॥ ३६ (३/४)॥
मेधातिथिः काण्वः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
प्र वो॑ य॒ह्वं पु॑रू॒णां वि॒शां दे॑वय॒तीना॑म्। अ॒ग्निं सू॒क्तेभि॒र्वचो॑भिरीमहे॒ यं सी॒मिद॒न्य ईळ॑ते॥ ३६/१॥
कण्वस्त्वध्यापयन् विष्णोरनुग्रहमथाप्नुवन्। इच्छंश्च ज्ञानविततिं देवांस्तुष्टाव भक्तितः॥ ऋक्शतेनाविशिष्टं च जप्यस्यान्ते तु कालतः। शृण्वन्तु स्तोममित्यन्ता ददर्शैकाग्रमानसः॥ *॥ बह्वाधेयत्वतः पुत्रं बहूनां वो हुताशनम्। बहुज्ञेयत्वतो विष्णुं वेमहे हे प्रजाः सदा॥ देवज्ञानाद् वा यजनाद् देवयत्यः समीळते। यमन्ये च जनाः सन्तः ……. ……. ॥ ३६/१॥
जना॑सो अ॒ग्निं द॑धिरे सहो॒वृधं॑ ह॒विष्म॑न्तो विधेम ते। स त्वं नो॑ अ॒द्य सु॒मना॑ इ॒हावि॒ता भवा॒ वाजे॑षु सन्त्य॥ ३६/२॥
…. ……. ……. सहसा वायुनैधितम्। धारयन्ति जनास्तस्य कर्म कुर्मो वयं च ते॥ सन्त्यः सम्यक् ततो विष्णुर्वायोरपि विवृद्धिकृत्॥ ३६/२॥
प्र त्वा॑ दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम्। म॒हस्ते॑ स॒तो वि च॑रन्त्य॒र्चयो॑ दि॒वि स्पृ॑शन्ति भा॒नव॑ः॥ ३६/३॥
दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा सं दू॒तं प्र॒त्नमि॑न्धते। विश्वं॒ सो अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते॑ द॒दाश॒ मर्त्य॑ः॥ ३६/४॥
प्रततेः पुरातनत्वाद् वा प्रत्नः ……. ……. ॥ ३६/३-४॥
म॒न्द्रो होता॑ गृ॒हप॑ति॒रग्ने॑ दू॒तो वि॒शाम॑सि। त्वे विश्वा॒ संग॑तानि व्र॒ता ध्रु॒वा यानि॑ दे॒वा अकृ॑ण्वत॥ ३६/५॥
……. ……. ……. ……. मन्द्रो महामखः॥ ३६/५॥
त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒मा हू॑यते ह॒विः। स त्वं नो॑ अ॒द्य सु॒मना॑ उ॒ताप॒रं यक्षि॑ दे॒वान्सु॒वीर्या॑॥ ३६/६॥
देवान् सुवीर्याद् यजसि ……. ……. …….॥ ३६/६॥
तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते। होत्रा॑भिर॒ग्निं मनु॑ष॒ः समि॑न्धते तिति॒र्वांसो॒ अति॒ स्रिध॑ः॥ ३६/७॥
……. ……. ……. तं हि त्वामेव सर्वदा। उपासते नमस्यन्तः सन्तस्तीर्णास्तु संसृतेः॥ स्रिधो ह्यति तितिर्वांसस्तीर्णदुःखा इहैव वा। त्वत्प्रसादेन विद्वांसः प्राप्य ब्राह्मण्यमुत्तमम्॥ ३६/७॥
घ्नन्तो॑ वृ॒त्रम॑तर॒न्रोद॑सी अ॒प उ॒रु क्षया॑य चक्रिरे। भुव॒त्कण्वे॒ वृषा॑ द्यु॒म्न्याहु॑त॒ः क्रन्द॒दश्वो॒ गवि॑ष्टिषु॥ ३६/८॥
तमो घ्नन्तोऽतरँल्लोकानपः कर्माणि चोत्तमाः। उरु ब्रह्म क्षितित्वेन चक्रुस्तत्रैव संस्थितेः॥ वृषा स भगवान् विष्णुर्मुनौ कण्वेऽभवत् स्थितः। क्रन्ददश्वस्वरूपश्च ज्ञानस्यान्वेषणे कृते॥ ततः कण्वान्निःसरन्ति शुद्धा वेदानुगा गिरः। द्युतिमत्वात् स तु द्युम्नी …. ……. ॥ ३६/८॥
सं सी॑दस्व म॒हाँ अ॑सि॒ शोच॑स्व देव॒वीत॑मः। वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम्॥ ३६/९॥
……. ……. ……. देवेषु ज्ञानवत्तमः। स त्वं शोचस्व दीप्यस्व धूमः संसारधूत्कृतेः॥ अरुषो रोषहीनत्वाद् धूमश्चेच्छुभगन्धनात्॥ ३६/९॥
यं त्वा॑ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन। यं कण्वो॒ मेध्या॑तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः॥ ३६/१०॥
यम॒ग्निं मेध्या॑तिथि॒ः कण्व॑ ई॒ध ऋ॒तादधि॑। तस्य॒ प्रेषो॑ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व॑र्धयामसि॥ ३६/११॥
यं सुतो मे समीधेऽग्निं मेध्यातिथि ऋतादधि। उक्त्वा सत्यां वेदवाचं देयान्यन्नानि तस्य हि॥ तं प्रतीमा ऋचः सर्वाः प्रकाशाद् वर्धयाम तम्। इन्धनं तु हरेर्नान्यत् क्वचिदस्ति प्रकाशनात्॥ ३६/१०-११॥
रा॒यस्पू॑र्धि स्वधा॒वोऽस्ति॒ हि तेऽग्ने॑ दे॒वेष्वाप्य॑म्। त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो॑ मृळ म॒हाँ अ॑सि॥ ३६/१२॥
वित्तानि पूरयास्माकं देवेष्वप्याप्यमस्ति ते। यज्ञभागादिपूज्यत्वात् स्वधावः सुखवर्धकः। श्रुत्यवाजो यज्ञभागो राजा भवसि तस्य हि॥ ३६/१२॥
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता। ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे॥ ३६/१३॥
अस्मद्रक्षाकृते नित्यं सूद्यतो भव विष्णुवत्। विष्णुश्चेत् स्वात्मदृष्टान्तो नोऽन्नदाता तथोद्यमी॥ यत् स्तुवद्भिर्द्विजैर्युक्ताः स्नेहैस्त्वां विह्वयामहे॥ ३६/१३॥
ऊ॒र्ध्वो न॑ः पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं॑ दह। कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒रथा॑य जी॒वसे॑ वि॒दा दे॒वेषु॑ नो॒ दुव॑ः॥ ३६/१४॥
ज्ञानेन पाहि नितरामुद्यम्युच्चगुणोऽपि नः। असुरा अत्रयः प्रोक्ता मार्गत्रयविवर्जिताः॥ स्वर्गापवर्गमानुष्यं त्यक्त्वा यान्ति तमो हि ते। अदन्तीत्यथ रक्षांसि वाऽत्रयोऽधिकभक्षणात्॥ भोगाय जीवनायापि स्वलोकचरणाय च। उत्तमान् कुरु नो नित्यं दोहनानि च लम्भय॥ देवेभ्योऽखिलकाम्यानि सदा नोऽतिमहान्ति च॥ ३६/१४॥
पा॒हि नो॑ अग्ने र॒क्षस॑ः पा॒हि धू॒र्तेररा॑व्णः। पा॒हि रीष॑त उ॒त वा॒ जिघां॑सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य॥ ३६/१५॥
अरं छिद्रं प्रापयतीत्यरावा पापपूरुषः। धूत्कृतेस्तस्य नो रक्ष नश्यतोऽस्मद्वधाय च॥ यवीयस्सु स्थितत्वेन यविष्ठ्यो हरिरुच्यते। ब्रह्माद्यपेक्षया नित्यं यविष्ठतम एव यत्॥ अग्निर्यविष्ठ्य इत्युक्तो यदाधिक्यार्थतोऽधिकम्॥ ३६/१५॥
घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा॑व्ण॒स्तपु॑र्जम्भ॒ यो अ॑स्म॒ध्रुक्। यो मर्त्य॒ः शिशी॑ते॒ अत्य॒क्तुभि॒र्मा न॒ः स रि॒पुरी॑शत॥ ३६/१६॥
वायुर्मेघानिव जहि सर्वतः पापपूरुषान्। अस्मद्द्रोही च यस्तं च तापेनैवात्ति यत् ततः॥ तपुर्जम्भः शिशीते यस्तीक्ष्णो भवति सर्वदा। नेशो भवतु सोऽस्माकं दुरात्मा पापपूरुषः॥ ३६/१६॥
अ॒ग्निर्व॑व्ने सु॒वीर्य॑म॒ग्निः कण्वा॑य॒ सौभ॑गम्। अ॒ग्निः प्राव॑न्मि॒त्रोत मेध्या॑तिथिम॒ग्निः सा॒ता उ॑पस्तु॒तम्॥ ३६/१७॥
सुवीर्यं सौभगं चैव ममेशः समभाजयत्। मेध्यातिथिं सुतं चैव मित्राणि च ररक्ष मे॥ उपस्तुतं चैव मुनिं सातौ लाभे ररक्ष ह॥ ३६/१७॥
अ॒ग्निना॑ तु॒र्वशं॒ यदुं॑ परा॒वत॑ उ॒ग्रादे॑वं हवामहे। अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सह॑ः॥ ३६/१८॥
तुर्वशादींस्तथा राज्ञो वयं तेन हवामहे। तुरोऽपि यद्वशो विष्णुः स च तुर्वशनामवान्॥ यदस्ति तत उच्चत्वाद् यदुरुग्रोऽसुरान् प्रति। तमेव तत्प्रसादेन ह्वयामोऽनयदेव सः॥ नववास्त्वादिकान् राज्ञो बलं दस्युविनिग्रहे॥ ३६/१८॥
नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते। दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टय॑ः॥ ३६/१९॥
मनुष्यः सन्नहं त्वां तु ज्योतिर्मुक्तजनाय च। निदधे हृदि स त्वं च दीप्यसे मयि सर्वदा॥ ब्रह्मजोऽग्निर्ऋताद् वेदवाचोऽभिव्यज्यते हरिः। उक्षितः स्वगुणैः सर्वैयुक्तः ……. …….॥ ३६/१९॥
त्वे॒षासो॑ अ॒ग्नेरम॑वन्तो अ॒र्चयो॑ भी॒मासो॒ न प्रती॑तये। र॒क्ष॒स्विन॒ः सद॒मिद्या॑तु॒माव॑तो॒ विश्वं॒ सम॒त्रिणं॑ दह॥ ३६/२०॥
……. ……. ….. अमेयाश्च शक्तयः। त्वेषा इत्युदितास्तस्य हरे रश्मय एव च। भीमा न प्रतिगन्तुं च शक्या राक्षसपक्षिणः। यातवो जङ्गमास्तेषां हिंसनावांस्तु राक्षसः॥ यातुमावानिति प्रोक्तो यातनानुभवात् क्वचित्। यातुरित्येव च प्रोक्तः सन्तं प्रत्यनुकूलतः॥ स्थितास्ताः शक्तयो विष्णोः ……. …….॥ ३६ (३/४)/२०॥ (११)
सोमानमिति नवर्चम्॥ ३७ (३/५)॥
मेधातिथिः काण्वः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
क्री॒ळं व॒ः शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभ॑म्। कण्वा॑ अ॒भि प्र गा॑यत॥ ३७/१॥
……. ……. …. क्रीडाशीलं च मारुतम्। शर्धः सुखबलाढ्यं वाऽप्यनर्वाणमनिन्द्रियम्॥ न वायोरिन्द्रियाणां हि देवाः सन्त्यभिमानिनः। अतोऽनिन्द्रियता तस्य रथे देहे शुभश्च सः॥ कण्वास्तं गायताभीक्ष्णं विष्णुं वा तादृशैर्गुणैः॥३७/१॥
ये पृष॑तीभिरृ॒ष्टिभि॑ः सा॒कं वाशी॑भिर॒ञ्जिभि॑ः। अजा॑यन्त॒ स्वभा॑नवः॥ ३७/२॥
पृषत्यो वाहनान्येषामन्यदायुधमुच्यते। स्वप्रकाशोऽथवा विष्णुस्तल्लिङ्गैर्व्यज्यते सह॥ तत्तद्देवगतस्यापि विष्णोर्लिङ्गं च तद् भवेत्॥ ३७/२॥
इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते॑षु॒ यद्वदा॑न्। नि याम॑ञ्चि॒त्रमृ॑ञ्जते॥ ३७/३॥
यत् ते वदन्ति वचनं मेघनादात्मकं हि तत्। इहापि श्रूयत इव वर्णाव्यक्तेरिवेति च॥ हस्तेष्वेषां कशाः सन्ति चित्रं मार्गेऽधिगम्यते। रेण्वादिसर्ववस्तूनां गमनान्मार्गचित्रता॥ विष्णोः सर्वं जगच्चित्रं मार्गे सम्प्रेर्यतेऽमुना॥ ३७/३॥
प्र व॒ः शर्धा॑य॒ घृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑। दे॒वत्तं॒ ब्रह्म॑ गायत॥ ३७/४॥
शोधकाय प्रधानाय वो बलाय च वायवे। शुद्धाय वा सुप्रकाशज्ञानायातिबलाय च॥ गायत ब्रह्म देवत्तं देवेषु ततमीश्वरम्। प्रीतिर्वायोर्विष्णुगानाद् वेदाख्यं ब्रह्म विष्णवे॥ देवैरधीयमानत्वाद् देवत्तं ब्रह्म वैष्णवम्॥ ३७/४॥
प्र शं॑सा॒ गोष्वघ्न्यं॑ क्री॒ळं यच्छर्धो॒ मारु॑तम्। जम्भे॒ रस॑स्य वावृधे॥ ३७/५॥
अहन्तव्यत्वतस्त्वघ्न्यं वायुं वृषभरूपिणम्। क्रीडन्तं वेदरूपासु गोषु तं स्तुहि मारुतम्॥ माभिर्वेदैः स्तुतत्वेन मारुतो विष्णुरेव वा। भक्षणार्थं रसस्यासौ ववृधे मरुतां पिता॥ ३७/५॥ (१२)
को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः। यत्सी॒मन्तं॒ न धू॑नु॒थ॥ ३७/६॥
आ समन्तादुत्तमः कः प्रधानो वायुरेव वः। विष्णोराक्षेप एव स्यात् को नामास्ति परस्त्विति॥ त्वत्पर्यन्तं च वर्षिष्ठः को भवेदिति वा भवेत्। आ धूतयो दिवो ग्मश्च भूम्या इत्यन्वयो भवेत्॥ तस्मादन्तं प्रतीवैतज्जगत् सन्धूनुथाखिलम्॥ ३७/६॥
नि वो॒ यामा॑य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे॑। जिही॑त॒ पर्व॑तो गि॒रिः॥ ३७/७॥
नीचैर्धृतो मानुषो वो मार्गायोग्राय मन्यवे। न पूर्यते च कोपाय स्वल्पत्वान्मानुषः क्वचित्॥ बहुवर्षयुतोऽत्युच्चगिरिर्मार्गे हि वोऽत्यजत्। मूलम् …. ……. ……. ……. …….॥ ३७/७॥
येषा॒मज्मे॑षु पृथि॒वी जु॑जु॒र्वाँ इ॑व वि॒श्पति॑ः। भि॒या यामे॑षु॒ रेज॑ते॥ ३७/८॥
…. येषां तथाऽज्मेषु मागेष्वतिभिया धरा। कम्पते जीर्णराजेव …. ……. ……. ॥ ३७/८॥
स्थि॒रं हि जान॑मेषां॒ वयो॑ मा॒तुर्निरे॑तवे। यत्सी॒मनु॑ द्वि॒ता शव॑ः॥ ३७/९॥
……. ……. ….. स्थिरं वो जननं यतः। जाता वायोर्दिवि वयो मातुः प्राप्तानि रेतवे॥ निर्गन्तुं तत्क्षणेनैव सर्वलोकाटनाय हि। यौवनं ते युवानो हि निसर्गान्मातुरा जनेः॥ मातुरेव प्रसादेन सम्यक् तद् द्विविधं बलम्। प्रज्ञाबाहुबलं यस्मात् तस्मात् ….. …….॥ ३७/९॥
उदु॒ त्ये सू॒नवो॒ गिर॒ः काष्ठा॒ अज्मे॑ष्वत्नत। वा॒श्रा अ॑भि॒ज्ञु यात॑वे॥ ३७/१०॥
……. ……. ……. ….. दिश उदापिरे। ते गिरः सूनवो देव्या वाश्रा वचनशीलिनः॥ अभिजन्मानुसारेण गुणान् यातुमुदापिरे॥ ३७/१०॥ (१३)
त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रम्। प्र च्या॑वयन्ति॒ याम॑भिः॥ ३७/११॥
“पद्भ्यां भूमिः” ऋग्वेदसंहिता १०/९०/१४ इति श्रुत्या सुता विष्णोर्वसुन्धरा। तज्जत्वात् पर्वता विष्णोर्नप्तारः सेचनाद्धि मिट्॥ हरिस्तमपि मेर्वादिं मरुतश्च्यावयन्ति हि। अमृध्रमप्रधृष्यत्वात् ……. ……. …….॥ ३७/११॥
मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ॑ अचुच्यवीतन। गि॒रीँर॑चुच्यवीतन॥ ३७/१२॥
…… ……. ……. ……. बलं यदपि वोऽखिलम्। जनांश्च्यावयितुं स्थानाच्छक्ताः सम्यग् गिरीनपि॥ ३७/१२॥
यद्ध॒ यान्ति॑ म॒रुत॒ः सं ह॑ ब्रुव॒तेऽध्व॒न्ना। शृ॒णोति॒ कश्चि॑देषाम्॥ ३७/१३॥
कुर्वन्ति शास्त्रसंवादं मार्गे शृण्वन्ति केचन। तेषां मध्ये हि मरुताम् ……. ……. ……. ॥ ३७/१३॥
प्र या॑त॒ शीभ॑मा॒शुभि॒ः सन्ति॒ कण्वे॑षु वो॒ दुव॑ः। तत्रो॒ षु मा॑दयाध्वै॥ ३७/१४॥
……. ……. …. शीभं क्षिप्रं प्रयात नः। मदं कुरुत तत्रैव दोहनान्यत्र सन्ति हि॥ ३७/१४॥
अस्ति॒ हि ष्मा॒ मदा॑य व॒ः स्मसि॑ ष्मा व॒यमे॑षाम्। विश्वं॑ चि॒दायु॑र्जी॒वसे॑॥ ३७/१५॥
सर्वमायुर्जीवसेऽस्ति प्रसादान्मरुतां हि नः॥ ३७ (३/५)/१५॥ (१४)
सोमानमिति नवर्चम्॥ ३८ (३/६)॥
मेधातिथिः काण्वः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः। द॒धि॒ध्वे वृ॑क्तबर्हिषः॥ ३८/१॥
कदाऽनयोर्हस्तयोर्देवा दधिध्वे प्रियतातवत्। कदाऽपि यत् प्रियस्तातः कधप्रिय इतीरितः॥ स्तृतं बर्हिर्यद्विषये ते प्रोक्ता वृक्तबर्हिषः॥ ३८/१॥
क्व॑ नू॒नं कद्वो॒ अर्थं॒ गन्ता॑ दि॒वो न पृ॑थि॒व्याः। क्व॑ वो॒ गावो॒ न र॑ण्यन्ति॥ ३८/२॥
दिवः पृथिव्याश्चेदानीं क्व गच्छथ च किं फलम्। न गच्छथ क्व वाऽप्येतज्ज्ञातव्यं तत्प्रसादतः॥ आह्वयन्ति क्व वा गावो यथैव यवसार्थिनः। फलार्थिनः स्तुवन्तो वः क्वाह्वयन्ति तथैव च॥ ३८/२॥
क्व॑ वः सु॒म्ना नव्यां॑सि॒ मरु॑त॒ः क्व॑ सुवि॒ता। क्वो॒३॒॑ विश्वा॑नि॒ सौभ॑गा॥ ३८/३॥
स्तुत्यानि वः सुखानि च कथं ज्ञेयानि नः सदा। इत्यभिप्रायतः प्रश्नः कस्मिन् नो ज्ञापकस्त्विति॥ सुवितानि सुभद्राणि सौभगं लक्षणं परम्॥ ३८/३॥
यद्यू॒यं पृ॑श्निमातरो॒ मर्ता॑स॒ः स्यात॑न। स्तो॒ता वो॑ अ॒मृत॑ः स्यात्॥ ३८/४॥
पृश्निर्वेदः प्रश्नयोग्यः पृश्निमाता हरिस्ततः। ज्ञेयस्तस्यापि विज्ञाता मरुतश्चेत् सुता गिरः॥ मानुषा यदि यूयं वः स्तोता देवो भवेदपि॥ ३८/४॥
मा वो॑ मृ॒गो न यव॑से जरि॒ता भू॒दजो॑ष्यः। प॒था य॒मस्य॑ गा॒दुप॑॥ ३८/५॥
न स्यादसेव्यः स्तोताऽत्र यथा यवसगोचरे। गोप्राप्ये तु मृगोऽसेव्यो यममार्गं नच व्रजेत्॥ याच्ञारीतिविशेषोऽयं निन्दा स्तुत्येकदेशयुक्॥ ३८/५॥ (१५)
मो षु ण॒ः परा॑परा॒ निरृ॑तिर्दु॒र्हणा॑ वधीत्। प॒दी॒ष्ट तृष्ण॑या स॒ह॥ ३८/६॥
मा वधीन्नः क्वचिन्मृत्युः परतःपरतोऽपि च। दुर्हणा दुःखदा हन्त्री यातु सा तृष्णया सह॥ ३८/६॥
स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व॑ञ्चि॒दा रु॒द्रिया॑सः। मिहं॑ कृण्वन्त्यवा॒ताम्॥ ३८/७॥
अप्रमेया यथा सत्यं धन्वन्नपि हि सेचनम्। रुजां विद्रावकस्यैव वायोः पुत्रा हि रुद्रियाः॥ विनाऽप्यचेतनं वातं वृष्टिं कृण्वन्ति हीच्छया॥ ३८/७॥
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति। यदे॑षां वृ॒ष्टिरस॑र्जि॥ ३८/८॥
एषां सकाशाद् वृष्टिश्च विद्युद् भूमिं प्रकाशयेत्। गौर्वत्समिव भूम्यां च …. ……. ……. ॥ ३८/८॥
दिवा॑ चि॒त्तम॑ः कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑। यत्पृ॑थि॒वीं व्यु॒न्दन्ति॑॥ ३८/९॥
……. ….. लोकं सिञ्चन्ति मातृवत्॥ ३८/९॥
अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वम्। अरे॑जन्त॒ प्र मानु॑षाः॥ ३८/१०॥
मानुषादित्वमन्यच्च बिभेदेषां स्वनादपि। गृहमानिनो गृहाद्यं वा चचालैषां स्वनादपि॥ ३८/१०॥ (१६)
मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑। या॒तेमखि॑द्रयामभिः॥ ३८/११॥
अखिन्नैर्गमनैश्चैव दृढस्वीयैश्च पाणिभिः। अनुयात नदीश्चित्राः …… ……. …….॥ ३८/११॥
स्थि॒रा व॑ः सन्तु ने॒मयो॒ रथा॒ अश्वा॑स एषाम्। सुसं॑स्कृता अ॒भीश॑वः॥ ३८/१२॥
……. ……. ….. स्थिराः सन्ति रथादयः॥ ३८/१२॥
अच्छा॑ वदा॒ तना॑ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पति॑म्। अ॒ग्निं मि॒त्रं न द॑र्श॒तम्॥ ३८/१३॥
ब्रह्मणश्च पतिं विष्णुं यथावद् व्याप्तया गिरा। जरायै संस्तुतित्वेन तृतीया भावरूपिणी॥ ‘सर्वा विभक्तयश्चेत्थम्भाववाचिन्य एव च।’ महाव्याकरणे सूत्रमिति संस्तुतिरूपतः॥ वद विष्णुं स्वप्रकाशमग्निवत् सूर्यवत् तथा। आह चात्मानमेवात्र ‘दार्ढ्ये स्वप्रतियोगिता’ इति सूत्रात् ….. ……. ……. ……. ॥ ३८/१३॥
मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑ इव ततनः। गाय॑ गाय॒त्रमु॒क्थ्य॑म्॥ ३८/१४॥
……. कीर्तिमस्य विष्णोः कुरु मुखे सदा। विस्तारयति पर्जन्यो यद्वद् वृष्टिं तथैव च॥ विस्तृणीहि तथेशस्य तथा कीर्तिं जगत्यपि॥ ३८/१४॥
वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण॑म्। अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह॥ ३८/१५॥
पनस्युं ज्ञानशीलं च विज्ञेयं गणमर्किणम्। अभवन् ज्ञापका वृद्धा अस्माकं तदनुग्रहात्॥ ३८ (३/६)/१५॥ (१७)
सोमानमिति नवर्चम्॥ ३९ (३/७)॥
मेधातिथिः काण्वः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
प्र यदि॒त्था प॑रा॒वत॑ः शो॒चिर्न मान॒मस्य॑थ। कस्य॒ क्रत्वा॑ मरुत॒ः कस्य॒ वर्प॑सा॒ कं या॑थ॒ कं ह॑ धूतयः॥ ३९/१॥
परावतो हरेः स्थानान्मानं शोचिरिवास्यथ। सूर्यादयो यथा शोचिर्दूरादस्यन्ति जन्तुषु॥ एवं ज्ञानं सम्प्रदायान्मरुतो विष्णुरेव वा। इत्थं यथा सर्वदृश्यं तत् तथा भवतां कृतम्॥ एवं यत्र क्व वा ज्ञानाद् बलाद् वा गच्छत क्वचित्। स्वतन्त्रत्वात् परापेक्षा नहि वः क्वचिदिष्यते॥ किञ्चिद् याथ बलात् किञ्चिद् धूनुथ स्वबलाद्धि तत्॥ ३९/१॥
स्थि॒रा व॑ः स॒न्त्वायु॑धा परा॒णुदे॑ वी॒ळू उ॒त प्र॑ति॒ष्कभे॑। यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी॑यसी॒ मा मर्त्य॑स्य मा॒यिन॑ः॥ ३९/२॥
शत्रूणामपनोदाय सन्ति वस्त्विह हेतयः। स्तम्भनाय च शत्रूणां सुदृढान्येव ताः सदा॥ स्थिरत्वं दीर्घकालत्वं वीळुत्वं दृढता तथा। युष्माकं तविषी तेजो बलमस्त्युत्तमं सदा॥ मायिनो नहि मर्त्यस्य बलं तेजोऽथवोत्तमम्॥ ३९/२॥
परा॑ ह॒ यत्स्थि॒रं ह॒थ नरो॑ व॒र्तय॑था गु॒रु। वि या॑थन व॒निन॑ः पृथि॒व्या व्याशा॒ः पर्व॑तानाम्॥ ३९/३॥
स्थिरं चाज्ञानपापादि तद्भक्ताय पराहथ। गुरूनपि नरान् नित्यं गुणैर्वर्तयथाञ्जसा॥ पर्वतानां पृथिव्याश्च दिशो नित्यं वियाथन। वनिनश्च तरून् सम्यग् भजनीयान् सुरान् हरिः॥ ३९/३॥
न॒हि व॒ः शत्रु॑र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां॑ रिशादसः। यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना॑ यु॒जा रुद्रा॑सो॒ नू चि॑दा॒धृषे॑॥ ३९/४॥
भूमौ दिवि च वः शत्रुः क्वचिन्नैव हि लभ्यते। रिशादसः सुसुखिनः सुखेन शमदन्ति यत्॥ बलं तेजोऽपि वो ह्यस्ति व्याप्ता नित्यतया युजा। अद्याप्याधर्षणायैव निखिलाशुभसन्ततेः॥ ३९/४॥
प्र वे॑पयन्ति॒ पर्व॑ता॒न्वि वि॑ञ्चन्ति॒ वन॒स्पती॑न्। प्रो आ॑रत मरुतो दु॒र्मदा॑ इव॒ देवा॑स॒ः सर्व॑या वि॒शा॥ ३९/५॥
प्रवेपयन्ति पर्वतान् विविञ्चन्ति वनस्पतीन्। जनिपर्ववतो जीवान् सम्प्रेरयति केशवः॥ भजनीयपतीन् ब्रह्मपूर्वांश्च फलदानतः। तारतम्येन सम्यक् च विवेचयति सर्वदा॥ सर्वप्रजास्वतिष्ठन्त प्राप्तास्ताभिः सहैव च। मत्ता इव प्रेरयन्ति शुभाशुभकृतौ नरान्॥ ३९/५॥ (१८)
उपो॒ रथे॑षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः। आ वो॒ यामा॑य पृथि॒वी चि॑दश्रो॒दबी॑भयन्त॒ मानु॑षाः॥ ३९/६॥
अयुङ्ग्ध्वं पृषतीश्चैव रोहितं पृष्ठतो रथे। वो यामं प्रति दार्ढ्याय शेषमश्रेत् पुनर्धरा॥ भीतिमापुर्मानुषाश्च …. ……. ……. ॥ ३९/६॥
आ वो॑ म॒क्षू तना॑य॒ कं रुद्रा॒ अवो॑ वृणीमहे। गन्ता॑ नू॒नं नोऽव॑सा॒ यथा॑ पु॒रेत्था कण्वा॑य बि॒भ्युषे॑॥ ३९/७॥
…. ……. ……. क्षिप्रं वः प्राप्तये सुखम्। रक्षां वृणीमहे युष्मद् गन्ताद्यापि च नोऽवसा॥ भीतियुक्ताय कण्वाय मह्यम् …… ……. ॥ ३९/७॥
यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये॑षित॒ आ यो नो॒ अभ्व॒ ईष॑ते। वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका॑भिरू॒तिभि॑ः॥ ३९/८॥
……. ……. ……. ….. युष्माभिरेव च। प्रेरितोऽथ नियन्तृत्वाद् युष्माकं मानुषेण वा॥ बाह्यदृष्ट्या त्वभूतीर्नो य इच्छति तमोजसा। बलेन च द्रावयत युष्मदीयोतिभिस्तथा॥ ३९/८॥
असा॑मि॒ हि प्र॑यज्यव॒ः कण्वं॑ द॒द प्र॑चेतसः। असा॑मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता॑ वृ॒ष्टिं न वि॒द्युत॑ः॥ ३९/९॥
असा॒म्योजो॑ बिभृथा सुदान॒वोऽसा॑मि धूतय॒ः शव॑ः। ऋ॒षि॒द्विषे॑ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विष॑म्॥ ३९/१०॥
ओजोऽसमं बिभृथ च मखेज्याः सममुत्तमम्। सुदानशीलाः कण्वाय दत्तासममभीप्सितम्॥ असमैर्नोऽप्यभिप्रायैर्गन्त वृष्टिं न विद्युतः॥ ३९ (३/७)/९-१०॥ (१९)
सोमानमिति नवर्चम्॥ ४० (३/८)॥
मेधातिथिः काण्वः। अग्निः। आद्यानां तिसृणां ब्रह्मणस्पतिः, चतुर्थ्या इन्द्रसोमब्रह्मणस्पतयः, पञ्चम्या इन्द्रसोमब्रह्मणस्पतयो दक्षिणा च, ततश्चसृणां सदसस्पतिः (अन्त्याया नराशंसो वा)। गायत्री॥
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे। उप॒ प्र य॑न्तु म॒रुत॑ः सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑॥ ४०/१॥
देवयन्तः पूजयन्तः स्तुवन्तोऽतिकृताशनः। प्राशूः ….. ……. ……. ……. ॥ ४०/१॥
त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते। सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के॥ ४०/२॥
….. वायोः सुतेत्येव सहसस्पुत्र इत्यथ। तद्व्यङ्ग्यत्वाद्धरिः प्रोक्तः शक्रस्तत्सुत एव च॥ युद्धं हितधनं प्रोक्तं निहितं धनमेव वा। स्वश्व्यं तु स्विन्द्रियफलमाचकेऽपश्यदित्यपि॥ ४०/२॥
प्रैतु॒ ब्रह्म॑ण॒स्पति॒ः प्र दे॒व्ये॑तु सू॒नृता॑। अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः॥ ४०/३॥
पतिस्तु ब्रह्मणो विष्णुर्वागीशत्वात् समीरणः। अग्रतो यात्वसावस्मात्कार्येष्वेवं सरस्वती॥ ३॥ सूनृता वैष्णवी वाग् वा यज्ञं वीरं नरं प्रति। नयन्तु देवाः सर्वेऽपि यत् पञ्चजनवर्धनः॥ पङ्क्तिराधा हरिस्तेन वीरो नर्यः स एव च। देवगन्धर्वनृपितृदैत्याः पञ्चजनाभिधाः॥ ४०/३॥
यो वा॒घते॒ ददा॑ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रव॑ः। तस्मा॒ इळां॑ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हस॑म्॥ ४०/४॥
वाधते स्तुवते विष्णुर्ददाति सूनरं वसु। सुष्ठु येन नरो भूयात् सूनरं ज्ञानमुच्यते॥ स धत्ते चाक्षयां कीर्तिमिळामन्नं यजामहे। सुवीर्यत्वात् सुवीरं तत् सुप्रतूर्तिः सुपेशकृत्॥ प्राणचेष्टानिमित्तत्वात् तदनेह इतीरितम्॥ ४०/४॥
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॑म्। यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां॑सि चक्रि॒रे॥ ४०/५॥
स एव भगवान् विष्णुर्मन्त्रं तद्विषयं वदेत्। उक्थमुत्थापकत्वेन स एव भगवान् हरिः॥ तन्मन्त्रवाच्या देवाश्च … … … …॥ ४०/५॥ (२०)
तमिद्वो॑चेमा वि॒दथे॑षु श॒म्भुवं॒ मन्त्रं॑ देवा अने॒हस॑म्। इ॒मां च॒ वाचं॑ प्रति॒हर्य॑था नरो॒ विश्वेद्वा॒मा वो॑ अश्नवत्॥ ४०/६॥
… … … … … यद्वाच्या देवतास्तु ताः। तमेव मन्त्रं वोचेम ज्ञानार्थं सुखकारणम्॥ इमां वाचं स्वीकुरुत सकाशाद् वोऽखिलं शुभम्। अश्नवानि ……. ……. ……. ……. … ॥ ४०/६॥
को दे॑व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम्। प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितान्त॒र्वाव॒त्क्षयं॑ दधे॥ ४०/७॥
…. अतिदौर्लभ्याद् देवभक्तं क आप्नुयात्। यजमानं वाऽनुगच्छेत् कः सम्यक् स्तृतबर्हिषम्॥ तत्रतत्र प्रस्थितोऽसौ यजमानः सुखैः स्वयम्। स्वेष्टस्थानेषु चान्तर्वा विष्णुरन्तर्गतो यतः॥ तद्वत्त्वेन क्षयं स्थानं प्राप्नोति ज्ञानतो यजन्॥ ४०/७॥
उप॑ क्ष॒त्रं पृ॑ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे। नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे॑ अस्ति व॒ज्रिण॑ः॥ ४०/८॥
उपपृक्तः क्षत्रियैः स आवेशेन जनार्दनः। हन्ति शत्रूंश्च तैर्देवो भये च स्वाश्रयं ददौ॥ वर्ताऽभिगन्ता तरुता जेता चास्य नहि क्वचित्। युद्धं महाधनं त्वर्भं प्रसिद्धं धनमेव हि॥४० (३/८)/८॥ (२१)
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितमृग्भाष्यं सम्पूर्णम्॥