षट्प्रश्नोपनिषद्भाष्यम्‌

उपोद्घातः
ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ॐ॥ नमो भगवते तस्मै प्राणादिप्रभविष्णवे। अमन्दानन्दसान्द्राय वासुदेवाय वेधसे॥ *॥
प्रथमः प्रश्नः
सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः। ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः। एष ह वै तत् सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः॥ १/१॥
तान् ह स ऋषिरुवाच। भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ। यथाकामं प्रश्नान् पृच्छत।
यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति॥ १/२॥ अथ कबन्धी कात्यायन उपेत्य पप्रच्छ। भगवन् कुतो ह वा इमाः प्रजा प्रजायन्त इति॥ १/३॥
तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः स तपोऽतप्यत स मिथुनमुत्पादयते। रयिं च प्राणं चेति।
एतौ मे बहुधा प्रजाः करिष्यत इति॥ १/४॥ आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः। रयिर्वा एतत् सर्वं यन्मूर्तं चामूर्तं च।
तस्मान्मूर्तिरेव रयिः॥ १/५॥ अथादित्य उदयन् यत् प्राची दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते। यद् दक्षिणां यत्प् रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते॥ १/६॥
स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते॥ १/७॥
तदेतदृचाऽभ्युक्तम्- विश्वरूपं करिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम्। सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः॥ १/८॥
संवत्सरो वै प्रजापतिः। तस्यायने दक्षिणं चोत्तरं च। तद् ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते। त एव पुनरावर्तन्ते। तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते। एष वै रयिर्यः पितृयाणः॥ १/९॥
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानं अन्विष्यादित्यमभिजयन्ते। एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् परायणम्। एतस्मान्न पुनरावर्तन्त इत्येष निरोधः॥ १/१०॥
तदेष श्लोकः- पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम्। अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षळर आहुरर्पितमिति॥ १/११॥
मासौ वै प्रजापतिः। तस्य कृष्णपक्ष एव रयिः। शुक्लः प्राणः। तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति। इतर इतरस्मिन्॥१/१२॥
अहोरात्रे वै प्रजापतिः। तस्याहरेव प्राणो रात्रिरेव रयिः। प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते। ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यन्ते॥ १/१३॥
अन्नं वै प्रजापतिः ततो ह वै तद् रेतः। तस्मादिमाः प्रजाः प्रजायन्त इति॥ १/१४॥
तद् ये ह वै तत् प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते। तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम्॥ १/१४॥
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति॥१/१५॥
“प्रजानां पालनाद् विष्णुः प्रजापतिरितीरितः। स वायुं सूर्यनामानं चन्द्रनाम्नीं सरस्वतीम्। सूर्याचन्द्रगतौ देवः ससर्ज पुरुषोत्तमः। तावाविश्य स्वयं विष्णुः सर्वसृष्टीः करोत्यजः। अमूर्तस्थः स वायुस्तु मूर्तसंस्था सरस्वती। आदित्यस्थः स वायुस्तु प्राणानात्मनि सन्नयेत्। प्राच्याः प्राणास्तथेन्द्राद्या दक्षिणाश्च यमादयः। प्रतीच्या वरुणाद्यास्तु सोमाद्या उत्तराः स्मृताः। शेषमित्राववाचीनौ वीन्द्रकामावुदक्तनौ। सभार्याः कोणपैः सार्धं चत्वारो दिशिदिश्यपि। संवत्सरस्थो भगवान् वागीरावयनस्थितौ। मासस्थितः स भगवान् पक्षयोर्वाक् च मारुतः। अहोरात्रे तु भगवान् प्राणोऽह्न्यथ च वाङ् निशि। दम्पत्योर्भगवान् विष्णुर्भार्यास्था तु सरस्वती। भर्तृस्थः स स्वयं वायुरेवं जानन् विमुच्यते॥” मृग्यम् इति प्रजापतिसंहितायाम्।
इति प्रथमः प्रश्नः॥
द्वितीयः प्रश्नः
अथ हैनं भार्गवो वैदर्भिः पप्रच्छ। भगवन् कत्येव देवाः प्रजा विधारयन्ते। कतर एतत् प्रकाशयन्ते। कः पुनरेषां वरिष्ठ इति॥ २/१॥
तस्मै स होवाच। आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च। ते प्राकाश्या अभिवदन्ति। वयमेतद् बाणमवष्टभ्य विधारयाम इति॥ २/२॥
“वायुरग्निः” इत्यत्र भूतवायुरुच्यते।
प्राणशब्देन प्रधानवायुः।
तान् वरिष्ठः प्राण उवाच। मा मोहमापद्यथ। अहमेवैतत् पञ्चधाऽऽत्मानं विभज्यैतद् बाणमवष्टभ्य विधारयामीति। तेऽश्रद्दधाना बभूवुः॥ २/३॥
सोऽभिमानादूर्ध्वमुत्क्रमत इव। तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते। तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते। तद् यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते। तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते। एवं वाङ् मनश्चक्षुः श्रोत्रं चेति ते प्रीताः प्राणं स्तुन्वन्ति॥ २/४॥
एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः। पृथिवी रयिर्देवः सदसच्चामृतं च यत्॥ २/५॥ (१)॥
अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम्। ऋचो यजूंषि सामानि यज्ञः क्षत्रं च ब्रह्म च॥ २/६॥ (२)॥
प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे। तुभ्यं प्राण प्रजास्त्विमाः यत् प्राणैः प्रतितिष्ठसि॥ २/७॥ (३)॥
देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा। ऋषीणां चरितं सत्यमथर्वाऽङ्गिरसामपि॥ २/८॥ (४)॥
इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता। त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः॥ २/९॥ (५)॥
यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः। आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति॥ २/१०॥ (६)॥
व्रात्यस्त्वं प्राणैकऋषिरत्ता विश्वस्य सत्पतिः। वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः॥ २/११॥ (७)॥
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि। या मनसि सन्तता शिवां तां कुरु मोत्क्रमीः॥ २/१२॥ (८)॥
प्राणस्यैतद् वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम्। मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति॥ २/१३॥ (९)॥
इति द्वितीयः प्रश्नः॥
तृतीयः प्रश्नः
अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ। भगवन् कुत एष प्राणो जायते। कथमायात्यस्मिन् शरीरे। आत्मानं वा प्रविभज्य कथं प्रतिष्ठते। केनोत्क्रमते। कथं बाह्यमभिधत्ते। कथमध्यात्ममिति॥३/१॥
तस्मै स होवाच। अतिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति। तस्मात् तेऽहं ब्रवीमि॥ ३/२॥ आत्मत एष प्राणो जायते। यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्। मनोकृतेनायात्यस्मिञ्छरीरे॥ ३/३॥
आत्मतः परमात्मतः।
यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामानधितिष्ठस्वैतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते॥ ३/४॥ पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते। मध्ये तु समानः। एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति। हृदि ह्येष आत्मा॥ ३/५॥
“विष्णोर्वायुः समुत्पन्नो वायोः सर्वाश्च देवताः। प्राणाद्यास्तान् नयन् प्राण आज्ञापयति राजवत्। स्वयं च पञ्चरूपः सन् दद्यान्मोक्षादिकं प्रभुः॥” मृग्यम् इति प्रभञ्जने।
अत्रैतदेकशतं नाडीनाम्। तासां शतमेकैकस्यां द्वासप्ततिं प्रतिशाखानाडीसहस्राण्यासु व्यानश्चरति॥ ३/६॥ अथैकयोर्ध्वं उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्॥ ३/७॥
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः। पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः॥३/८॥
तेजो ह वा उदानः। तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः॥ ३/९॥
यच्चित्तस्तेनैष प्राणमायाति। प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति॥ ३/१०॥
य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति॥ ३/११॥
तदेष श्लोकः- उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा। अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति॥ ३/१२॥
इति तृतीयः प्रश्नः॥
चतुर्थः प्रश्नः
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ। भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति। कान्यस्मिन् जाग्रति। कतर एष देवः स्वप्नान् पश्यति। कस्यैतत् सुखं भवति। कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति॥ ४/१॥
तस्मै स होवाच। यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति। ताः पुनरुदयतः प्रचरन्त्येवं ह वैतत् सर्वं परे देवे मनस्येकीभवन्ति। तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते॥४/२॥
“रश्मीनामविशेषेऽपि ह्यज्ञदृष्टिव्यपेक्षया। सूर्यस्य मण्डलं यान्तीत्युच्यन्ते तददर्शनात्। एवं विष्णोस्तु सामीप्याद् देवानां सुप्तिगस्य तु। व्यवहाराकरत्वाच्च एकीभाव इतीर्यते॥” मृग्यम् इति च।
प्राणाग्नय एवैतस्मिन् पुरे जाग्रति गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते। प्रणयनादाहवनीयः प्राणः॥ ४/३॥
यदुच्छ्वासनिःश्वासवेतावाहुती समं नयति स समानो मनो ह वाव यजमान इष्टफलमेवोदानः। स एनं यजमानमहरहर्ब्रह्म गमयति॥ ४/४॥
अत्रैष देवः स्वप्ने महिमानमनुभवति। यद् दृष्टन्दृष्टमनुपश्यति श्रुतंश्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनःपुनः प्रत्यनुभवति। दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति॥ ४/५॥
स यदा तेजसाऽभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यति। अथ यदेतस्मिन् शरीरे सुखं भवति॥ ४/६॥
भगवतः शरीरवत् सादृश्ययुक्ते जीवे सुखं भवति।
“कस्यैतत् सुखं भवति” षट्प्रश्नोपनिषदि ४/१ इति पृष्टत्वात्। नह्यचेतनस्य शरीरस्य सुखं भवति। “यस्यात्मा शरीरम्” बृहदारण्यकोपनिषदि माध्यन्दिनपाठे ५/७/२३, शतपथब्राह्मणे १४/६/७/३० इति च श्रुतिः।
“सादृश्याद् देहवज्जीवो विष्णोस्तस्य सुखं भवेत्। सुप्तौ तस्य सुखार्थं हि भगवान् सुप्तिमानयेत्॥” मृग्यम् इति च।
स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते। एवं ह वै तत् सर्वं पर आत्मनि सम्प्रतिष्ठते॥ ४/७॥
पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च। चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसनं च रसयितव्यं च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ च दातव्यं च पादौ च गन्तव्यं च पायुश्च विसर्जयितव्यं चोपस्थश्चानन्दयितव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं च अहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च॥ ८॥ एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः॥४/९॥
स यो हैतमच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वं भवति॥४/१०॥
तदेष श्लोकः- विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र। तदेतदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति॥ ४/११॥
इति चतुर्थः प्रश्नः॥
पञ्चमः प्रश्नः
अथ हैनं शैब्यः सत्यकामः पप्रच्छ। स यो ह वै भगवान् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत। कतमं वाव स तेन लोकं जयतीति॥ ५/१॥
तस्मै स होवाच। एतद् वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः। तस्माद्विद्वानेतेनैवायनेनैकतरमन्वेति॥ ५/२॥
स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते। तमृचो मनुष्यलोकमुपनयन्ते। स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति॥ ५/३॥
अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम्। स सोमलोके विभूतिमनुभूय पुनरावर्तते॥ ५/४॥
यः पुनरेतं त्रिमात्रेणोमित्येतैनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम्॥ ५॥
स एतस्माज्जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते॥ ५/६॥
तदैतौ श्लोकौ भवतः- तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः। क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः॥ ५/७॥ ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत् तत् कवयो वेदयन्ते। तमोङ्कारेणैवायतनेनान्वेति विद्वान् यत् तच्छान्तमजरममृतमभयं परं चेति॥ ५/८॥
इति पञ्चमः प्रश्नः॥
षष्ठः प्रश्नः
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ। भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत। षोडशकलं भारद्वाज पुरुषं वेत्थ। तं मह्यं ब्रवीहीति। तमहं कुमारमब्रुवम्। नाहमिमं वेद। यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति। समूलो वा एष परिशुष्यति योऽनृतमभिवदति। तस्मान्नार्हाम्यनृतं वक्तुम्। स तूष्णीं रथमारुह्य प्रवव्राज। तं त्वा पृच्छामि क्वासौ पुरुष इति॥ ६/१॥
तस्मै स होवाच। इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति॥ ६/२॥
स ईक्षाञ्चक्रे। कस्मिन् न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति॥ ६/३॥
स प्राणमसृजत। प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च॥ ६/४॥
“प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च। ज्ञानं चतुर्मुखात् प्राप्य मुच्यते नात्र संशयः॥ * ॥ मृग्यम्
कर्मेति पुष्करः प्रोक्त उषा नामाभिमानिनी। लोकाभिमानी पर्जन्यः स्वाहा वै मन्त्रदेवता। तपोभिमानी वह्निश्च वरुणो वीर्यदेवता। अन्नस्य देवता सोमो मनो नामानिरुद्धकः। इन्द्रियेशाश्च सूर्याद्याश्चक्षुराद्यभिमानिनः। रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवताः। श्रद्धेति वायोः पत्नी स्यात् सर्वेषां प्रभवाप्यया। तस्याश्च कारणं प्राणः सर्वेषामुत्तमोत्तमः। तस्यापीशः कारणं च वासुदेवः परोऽव्ययः। न तस्य सदृशः कश्चित् कुत एवोत्तमो भवेत्। तं ज्ञात्वा मुच्यते जन्तुर्विदित्वैवं परात् परम्॥” इति तत्त्वविवेके।
“एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी॥” आथर्वणोपनिषदि २/१/३ इति मन्त्रोक्त एव क्रमः।
नहीन्द्रियेभ्यो मनः पश्चात्। “तत्प्राक्छ्रुतेश्च” ब्रह्मसूत्रे २/४/४ इति भगवद्वचनम्।
“विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोभिधः। तस्मादिन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता। ततश्च वरुणः सृष्टस्तस्मादग्निस्ततोऽवरः। आकाशदेवता विघ्नस्ततो वायोः सुतो मरुत्। तस्मादग्निः पावकाख्यः प्रथमोऽग्नेः सुतस्ततः। ततः पर्जन्य उद्भूतः स्वाहाऽतो मन्त्रदेवता। उदकात्मको बुधस्तस्या उषा नामात्मिका ततः। ततः शनिः पृथिव्यात्मा कर्मात्मा पुष्करस्ततः। क्रमात् प्रत्यवरा एते मुक्ताः सर्वगुणैरपि। नित्यमुक्तस्ततो विष्णुः प्राणादप्युत्तमोत्तमः॥” मृग्यम् इति च।
स यथेमाः नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते। एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते। स एषोऽकलोऽमृतो भवति॥ ६/५॥
तदेष श्लोकः- अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः। तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति॥ ६/६॥
तान् होवाच। एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति॥ ६/७॥
ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति। नमः परमऋषिभ्यो नमः परमऋषिभ्यः॥ ६/८॥
“समुद्रे इत्येवं प्रोच्यते” षट्प्रश्नोपनिषदि ६/५ “पुरुषे इत्येवं प्रोच्यते” षट्प्रश्नोपनिषदि ६/५ “भिद्येते तासां नामरूपे” षट्प्रश्नोपनिषदि ६/५ “भिद्येते चासां नामरूपे” षट्प्रश्नोपनिषदि ६/५ इत्युक्तत्वात्।
अज्ञैरनवगतान्यपि समुद्रे स्थितानां नदीनां विष्णौ स्थितानां मुक्तानां च भिन्नान्येव नामरूपाणि सन्त्येवेत्यर्थः।
नच भेदशब्दो नाशे प्रयुज्यमानः क्वापि दृष्टः। घटादावपि बहुभाव एव भेदशब्दः प्रयुज्यते। नाशस्त्वर्थत एवावगम्यते। नचात्रार्थतोऽपि नाशोऽवगम्यते। नहि नामानि रूपाणि च कपालवद् बहुधा भूतानि तिष्ठन्ति। अतो ‘भिद्येते’ इति पृथक्त्वमेवोच्यते। “अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः” षट्प्रश्नोपनिषदि ६/६ इति वाक्यशेषाच्च। अतः पुरुषे भिन्नानि नामरूपानि प्रतिष्ठितानीत्येवार्थः। अस्तगमनं त्वादित्यवदज्ञानामविज्ञेयत्वमेव।
“प्राणादयः कला यस्मिन् मुक्ता नित्यं प्रतिष्ठिताः। पृथक्पृथङ् नामरूपैर्नमस्तस्मै पराय ते॥” मृग्यम् इति सत्तत्त्वे।
“नामरूपाद् विमुक्तः” आथर्वणोपनिषदि ३/२/८ इत्यनेनापि नामरूपामुक्तत्वमुच्यते। “विप्रियः” मृग्यम् (अपाहरद् विप्रियमिति भागवते १/७/१४) इत्यादिवत्।
“नामरूपे अविहाय” आथर्वणोपनिषदि ३/२/८ इति च पूर्वत्र।
“अनन्तं वै नामानन्ता विश्वेदेवाः” बृहदारण्यकोपनिषदि ५/२/१२ इति नामरूपयोरनन्तत्वं हि श्रुतिर्वक्ति।
“यत्र पूर्वे साध्याः सन्ति देवाः” ऋग्वेदे १०/९०/१६ “स तत्र पर्येति जक्षन् क्रीडन् रममाणः” छान्दोग्योपनिषदि ८/४/३ “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” तैत्तिरीयोपनिषदि २/१ “ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु” ऋग्वेदे १०/७१/११ इत्यादेश्च।
अतः सर्वमुक्तेभ्योऽप्युत्तमोत्तमः परिपूर्णो नारायण इति सिद्धम्।
॥ इति षष्ठः प्रश्नः॥
ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
॥ इति षट्प्रश्नोपनिषत् सम्पूर्णा॥
नमोनमोऽस्तु हरये प्रेष्ठप्रेष्ठतमाय मे। परमानन्दसन्दोहसान्द्रानन्दवपुष्मते॥ *॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं षट्प्रश्नोपनिषद्भाष्यं सम्पूर्णम्॥