तत्त्वोद्योतः

मङ्गलाचरणम्
ॐ॥ सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः। नित्यातादृशचिच्चेत्ययन्तेष्टो नो रमापतिः॥
मुक्तभेदेऽनुमानम्
विमतो भिन्नः, मुक्तत्वात्, यदित्थं तत् तथा, यथा सम्प्रतिपन्नः।
तत्र साध्यविकल्पनिराकरणम्
नच भेदे विकल्पो युज्यते। अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादेव। शशविषाणं गोविषाणं वोच्यत इतिवत्।
अनिर्वचनीये प्रमाणाभावोपपादनम्
नचानिर्वचनीये किञ्चिन्मानम्।
तत्र प्रत्यक्षनिरासः
मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च।
अनुमाननिरासः
अनुमानस्य चाप्रसिद्धविशेषणः पक्षः। नच धूमत्ववन्मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति। नच बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति।
आगमनिरासः
नच भावाभावविलक्षणं क्वचिदागमो वक्ति।
नासदासीदिति श्रुत्यर्थविचारः
“नासदासीन्नो सदासीत् तदानीं नासीद् रजो नो व्योमापरो यत्” ऋग्वेदसंहितायां १०/१२९/१ इत्यत्र च। पारिशेष्येणानिर्वचनीयत्वाङ्गीकारे “आनीदवातं स्वधया तदेकम्” ऋग्वेदसंहितायां १०/१२९/२ इति तदानीं परिशिष्टत्वाद् ब्रह्मण एवानिर्वचनीयत्वं स्यात्।
“मूर्तं सदिति सम्प्रोक्तममूर्तमसदुच्यते। मूर्तामूर्तेतरद् ब्रह्म न सत् तन्नासदुच्यते॥” इति पैङ्गिश्रुतिः।
“यदन्यद् वायोश्चान्तरिक्षाच्चैतत् सत्” इति माध्यन्दिनश्रुतिः।
श्रुतिपुराणादिगतानिर्वाच्यत्वादिशब्दानामर्थविवरणम्
“अद्भुतत्वादनिर्वाच्यं ब्रह्म चिच्चेत्यमेव च। अचिन्त्यं तत एवैतदतर्क्याज्ञेयमेव च। ऋ गताविति धातोस्तु पूर्वावगतवत् सदा। स्थितेर्ब्रह्मर्तमित्युक्तमनृतं परिणामतः। प्रकृतिप्राकृतं प्रोक्तमसत् तदशुभत्वतः। असतां बुद्धिगम्यत्वादसत्यमिति चोच्यते। नियमेन बहिश्चित्तास्ते(ऽ)सन्तो ब्रह्मणि स्थिताः। विश्वं सत्यं वशे विष्णोर्नित्यमेव प्रवाहतः। न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारतः। असत्यमप्रतिष्ठं ये जगदाहुरनीश्वरम्। त आसुरा स्वयं नष्टा जगतः क्षयकारिणः॥’ इत्यादि व्यासस्मृतौ।
विश्वसत्यत्वसमर्थकवचनानि
“असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।🔗 अपरस्परसम्भूतं किमन्यत् कामहैतुकम्॥🔗 एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः।🔗 प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥”🔗 गीतायां १६/८-९ इत्यादि च गीतासु।
“विश्वं सत्यं मघवाना युवोरिदापश्च न प्रमिनन्ति व्रतं वाम्” ऋग्वेदसंहितायाम् २/२४/१२ “प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्” ऋग्वेदसंहितायाम् २/१५/१ “सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये” ऋग्वेदसंहितायाम् ८/३/४ “कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः”🔗 ईशावास्योपनिषदि ८ इत्यादिश्रुतिभ्यश्च।
अर्थापत्तिनिरासः
नचार्थापत्त्याऽनिर्वचनीयसिद्धिः।
असतः प्रतीतिसमर्थनम्
असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः।
जगतो बाध्यत्वनिरासः
नच बाध्यं जगदित्यत्र किञ्चिन्मानम्। बाध्यत्वमपि हि तेषां मिथ्या। तस्य च मिथ्यात्वेऽबाध्यत्वमेव सत्यं स्यात्। सद्विलक्षणत्वं च सज्जातिविलक्षणत्वं सन्मात्रविलक्षणत्वं वा। जात्यङ्गीकारे सद्बहुत्वम्। सन्मात्रविलक्षणत्वं चेत् सिद्धसाधनता। ब्रह्मवैलक्षण्याङ्गीकारात्। नच कयाऽपि युक्त्या मानेन वा भेदनिराकरणं भवति। अङ्गीक्रियमाणत्वात्। अनिर्वचनीयासिद्धेश्च। सद्विलक्षणत्वमसद्विलक्षणत्वं च मिथ्येत्यविलक्षणत्वमेव सत्यं स्यात्।
तत्र हेत्वादिविकल्पनिराकरणम्
एवमेव हेत्वादिष्वपि विकल्पो निराकरणीयः।
दृश्यत्वाद्यनुमाननिराकरणम् – प्रत्येकशः
दृश्यत्वाद्यनुमानेष्वपि एत एव दोषाः।
दृश्यत्वहेतुनिराकरणम्
आत्मनोऽपि दृश्यत्वादनैकान्तिकता च। नचात्मनो दृक्कर्मत्वं विना तज्ज्ञानत्वम्। तदज्ञाननिवृत्तिश्च तेन भवति। नच तदाकारम्। अतद्विषयत्वादेव। तद्विषयत्वमेव हि तदाकारत्वम्। नहि ज्ञानज्ञेययोरेकाकारता। नह्यज्ञानस्य घटाश्रयत्वं ब्रह्माश्रयत्वं वाऽस्ति। पुङ्गतमेव हि तमः। ज्ञानेन निवर्तते। विषयाश्रयं चेदज्ञानं निवर्तते तर्ह्येकेन ज्ञातस्य घटस्यान्यैरज्ञातत्वं न स्यात्। अतद्विषयज्ञानेन तदज्ञाननिवृत्तौ घटज्ञानेनापि निवर्तेत। अविषयत्वादेव तस्य ज्ञानत्वं न स्याद् घटवत्।
जडत्वहेतुनिराकरणम्
जडत्वं चाप्रमातृत्वमेव। नच प्रमातृत्वमात्मनस्तैरङ्गीक्रियते। अतस्तदप्यनैकान्तिकम्। मिथ्याप्रमातृत्वं चानिर्वचनीयनिरासादेव निरस्तम्। यदि जडत्वं नामाप्रकाशत्वं तदप्यात्मनः स्वविषयप्रकाशत्वाभावात् परविषयप्रकाशत्वाभावाच्चानैकान्तिकमेव। स्वविषयत्वं हि कर्तृकर्मविरोधात् तैर्नाङ्गीक्रियते। मिथ्याभूतपरविषयत्वं चानिर्वचनीयनिरासादेव निरस्तम्। विषयवर्जितः प्रकाश एव न भवति घटवत्। तत्प्रमाणाभावात्।
परिच्छिन्नत्वहेतुनिराकरणम्
देशतः कालतः परिच्छिन्नत्वं प्रकृतिकालादिष्वभावाद् भागासिद्धम्। वस्तुतः परिच्छिन्नत्वमात्मनोऽपि भेदाङ्गीकारादनैकान्तिकम्।
दृश्यत्वाद्यनुमानानां साधारणतो निराकरणम्
कालातीतता
प्रत्यक्षबाधितं च जगन्मिथ्यात्वम्। सदिति प्रतीयमानत्वात्। नच प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टम्। चन्द्रप्रादेशत्वादिविषयं तु दूरस्थत्वादिदोषयुक्तत्वादपटु। नच जगत्प्रत्यक्षस्यापटुत्वे किञ्चिन्मानम्।
जगतोऽज्ञानजन्यत्वनिरासः
जगतोऽज्ञानजन्यत्वे मानाभावः
नच जगतोऽज्ञानजन्यत्वे किञ्चिन्मानम्।
जगतो दुःखादेश्चाज्ञानजन्यत्व आगमोक्तानुमानाभ्यां विरोधः
“नच मायाविना माया दृश्यते विश्वमीश्वरः। सदा पश्यति तेनेदं न मायेत्यवधार्यताम्। अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद् भवेत्। सर्वापरोक्षविद् विष्णुर्विश्वदृक् तन्न तन्मृषा॥” इति ब्रह्माण्डे।
तत्र स्पष्टागमविरोधश्च
“ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि। एक आत्मा परब्रह्मभावो मुक्तिरिति ह्यपि। एवमादि विरुद्धानि वचनान्यथ युक्तयः। प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः। वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना। इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि॥’ इति व्यासस्मृतिः।
तत्रैव विशेषतो आगमविरोधः
“नासतोऽदृष्टत्वात्”🔗 ब्रह्मसूत्रे २/२/२६ “नाभाव उपलब्धेः”🔗 ब्रह्मसूत्रे २/२/२८ “वैधर्म्याच्च न स्वप्नादिवत्”🔗 ब्रह्मसूत्रे २/२/२९ इत्यादिभगवद्वचनेनापि निरस्ताः।
मायावादिशून्यवादिमतयोः साम्यसमर्थनम्
नच शून्यवादिनः सकाशाद् वैलक्षण्यं मायावादिनः। व्यावहारिकसत्त्वस्य तेनाप्यङ्गीक्रियमाणत्वात्- “सत्यं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम्। सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम्। विचार्यमाणे नो सत्त्वं सत्त्वं चापि प्रतीयते। यस्य तत् सांवृतं ज्ञेयं व्यवहारपदं च यत्॥” इत्यादिना।
नच निर्विशेषब्रह्मवादिनः शून्यात् कश्चिद् विशेषस्तस्य- “निविशेषं स्वयं भातं निर्लेपमजरामरम्। शून्यं तत्त्वमविज्ञेयं मनोवाचामगोचरम्। जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यत्। नित्यभावनया भातं तद्भावं योगिनं नयेत्। भावार्थप्रतियोगित्वं भावत्वं वा न तत्त्वतः। विश्वाकारं च संवृत्या यस्य तत् पदमक्षयम्॥” इत्यादि तद्वचः।
“अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्” सर्वज्ञात्मनः सङ्क्षेपशारीरकम् १/१ इति च मायावादी।
“नास्य सत्त्वमसत्त्वं वा न दोषो गुण एव वा। हेयोपादेयरहितं तच्छून्यं पदमक्षयम्॥” इति च शून्यवादी।
सत्त्वादयो धर्माः परमार्थतो मायावादिनाऽपि नाङ्गीक्रियन्ते। सर्वविशेषविनिर्मुक्तत्वाङ्गीकारात्।
“अवाच्यं सर्वशब्दैस्तल्लक्ष्यते चाखिलैः पदैः। अज्ञेयं ज्ञानलक्ष्यं च तच्छून्यं पदमक्षयम्॥” इति च शून्यवादी।
नचाखण्डत्वेन कश्चिद् विशेषः- “यदखण्डं पदं लक्ष्यं सर्वैरपि विशेषणैः। सर्वैर्विशेषणैर्मुक्तं तच्छून्यं पदमक्षयम्॥” इति च शून्यवादी।
एवमेव मायावादिराद्धान्तः।
नच मायावादिनो भावत्वं नाम धर्मः। नच शून्यवादिनः शून्यत्वं नाम धर्मः।
ब्रह्मणोऽनन्तगुणविशिष्टत्ववसमर्थनम्
सगुणमेव ब्रह्मेति व्यासमतानुवादः
“मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे। यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः॥” भागवते ६/४/४८ “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।🔗 यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥”🔗 गीतायां १५/१७ इति भगवद्राद्धान्तः।
तदर्थे स्पष्टश्रुत्युदाहरणं च
“पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” श्वेताश्वतरोपनिषदि ६/८ इत्यादिश्रुतिः।
ब्रह्मणोऽखण्डत्वनिरासः
‘प्रकृष्टप्रकाशश्चन्द्रः’ इत्यादिषु प्रकृष्टत्वादिविशेषणानि सन्त्येवेति न तत्साम्यम्। अनित्यदेशकालसम्बन्धित्वस्य सत्त्वान्न ‘सोऽयं देवदत्तः’ इत्याद्युपमा च। देवदत्तादिस्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्नः। नक्षत्रादिव्यतिरेकमात्रस्यापि सिद्धत्वान्न व्यतिरेकमात्रे। अन्यथा प्रश्नस्यैवासम्भवात्। अतः ‘कैर्विशेषणैर्विशिष्टः’ इति प्रश्ने प्रकृष्टप्रकाशतद्देशकालादिविशिष्ट एव वाक्यार्थः। अङ्गीक्रियमाणत्वाद् विशिष्टादेः, अनिर्वचनीयाभावाच्च सत्यत्वं च सिद्धम्।
विशिष्टस्यानिर्वचनीयतानिरासः
दृष्टस्य वस्तुनो बलवद्दृष्टिं विना नान्यद् बाधकमिति दुर्घटत्वे सुघटत्वे वा नानिर्वचनीयसिद्धिः। सर्ववैलक्षण्याङ्गीकाराद् दुर्घटमपि ब्रह्म प्रमाणादङ्गीक्रियत एव। जगतो भिन्नमभिन्नं भिन्नाभिन्नं वेत्यादिविकल्पस्तत्रापि युज्यते। भिन्नं चेद् भेदादिविशिष्टाच्छुद्धं भिन्नमभिन्नं वेत्याद्यनवस्था। अभिन्नं चेन्मिथ्यारूपेण जगता ब्रह्मापि मिथ्यैव स्यात्। भिन्नाभिन्नं चेद् दोषद्वयमपि। उभयविलक्षणं चेदनिर्वचनीयत्वं ब्रह्मण एवापतितम्। यद्येवमपि नानिर्वचनीयत्वं ब्रह्मणस्तर्हि जगतोऽपि न स्यात्। “विश्वं सत्यम्” ऋग्वेदसंहितायां २/२४/१२ इत्यादिवचनमत्राप्युक्तम्। “न सत्तन्नासदुच्यते”,🔗 गीतायां १३/१२ “असद्वा इदमग्र आसीत्”,🔗 तैत्तिरीयोपनिषदि २/७ “नासदासीन्नो सदासीत्” ऋग्वेदसंहितायां १०/१२९/१ इत्यादि ब्रह्मणोऽपि मिथ्यात्वे प्रमाणमस्ति। नहि दृष्टेर्बलवत् किञ्चित् प्रमाणम्। नहि युक्तिपराजितोऽपि क्षुधितो नान्नमत्ति। बलवद्दृष्ट्यबाधे। नचान्नत्वे दुर्घटे तस्यानन्नत्वं भवति। दृष्ट्यबाधितदृष्टस्य। नचान्नानन्नवैलक्षण्यमनुभूयते। नच तथा व्यवहारः। नच तत्र किञ्चिन्मानम्। अतो विशिष्टादिनिराकरणयुक्तीनामपि विशिष्टाद्यपेक्षत्वाज्जात्युत्तरमिति न युक्तिबाधाऽपि।
ब्रह्मणो गुणपूर्णत्वप्रतिपादनोपसंहारः
अतो निखिलगुणगणाढ्यमेव ब्रह्म श्रुत्यभिप्रेतम्।
असिद्धिः
अनिर्वचनीयासिद्धेरेवानुमानस्याप्यसिद्धिः। यदि जगन्मिथ्या स्यात् तदा दृश्यत्वाद्यनुमानस्यापि जगदन्तःपातित्वेन मिथ्यात्वादसिद्धिः स्यात्।
वाचारम्भणश्रुतेरद्वैतप्रतिपादकत्वनिराकरणम्
वाचारम्भणं विविधप्रकारः, नामधेयं नित्यं धार्यं नाम मृत्तिकेत्यादि वैदिकमेवेत्येतद् वचनं सत्यमिति श्रुतेरर्थः। अनित्यत्वात् साङ्केतिकं नामाप्रधानम्, नित्यत्वान्मृत्तिकादिनामैव प्रधानम्। प्रधानज्ञानादप्रधानं ज्ञातार्थमिव भवति। एवं प्रधानस्य परमात्मनो ज्ञानादप्रधानं ज्ञातमिव भवति। प्राधान्यज्ञापनार्थमेव सृष्ट्यादिकथनम्। “यथा सोम्य” छान्दोग्योपनिषदि ६/१/२,३,४ इत्याद्यपि सादृश्यकथनम्। नचैकनखनिकृन्तनविकारः सर्वं कार्ष्णायसम्। प्रधानपुरुषज्ञानाद् ग्रामो ज्ञात इति व्यपदेशोऽस्ति। नहि सत्यज्ञानेन मिथ्याज्ञानं भवति।
मुक्तत्वहेतोरप्रयोजकतानिरासाय विपक्षे बाधकोक्तिः
मुक्तामुक्तयोर्भेदाभावे मुक्तस्य संसारः संसारिणो वा मुक्तत्वं स्यात्। यद्यज्ञानकृतो भेदः, तर्हीश्वरस्याज्ञानाभावात् संसारिणैक्यं तेनानुभूयेत। ततश्च दुःखित्वं स्यात्।
भगवद्वचनैरेव भेदसमर्थनेनापि बाधकसूचनम्
“तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप”🔗 गीतायां ४/५ “सुखं दुःखं भवो(ऽ)भावो भयं चाभयमेव च।🔗 अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः॥🔗 भवन्ति भावा भूतानां मत्त एव पृथग्विधाः॥”🔗 गीतायां १०/४-५ “यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः।🔗 अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥”🔗 गीतायां १५/१८ इत्यादिनेश्वरेणापि भेदस्यैवानुभूयमानत्वाच्च।
ईश्वरप्रत्यक्षमूलानुमानान्तरेणापि मुक्तभेदसमर्थनम्
तत एवाभ्रान्तत्वान्न मुक्तस्यापि भेदनिवृत्तिः।
औपाधिकभेदनिरासः
नचोपाधिभेदमात्रेणेश्वरस्य दुःखाभावः। हस्तपादाद्युपाधिभेदेऽपि भोक्तुरेकत्वानुभवात्।
“उद्यतायुधदोर्दण्डाः पतितस्वशिरोक्षिभिः। पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन् युधि॥” इति भारतवचनान्न विश्लेषाद् विशेषः।
अतोऽनौपाधिकत्वादेव भेदस्य न मुक्तस्येश्वरैक्यम्।
आगमैर्मुक्तभेदसमर्थनम्
“इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।🔗 सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥”🔗 गीतायां १४/२ “यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्।🔗 तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति॥”🔗 आथर्वणोपनिषदि ३/१/३ इत्यादि मुक्तभेदवचनेभ्यश्च।
मुक्ताभेदवचनानामन्यार्थनिरूपणम्
एवं प्रत्यक्षानुमानागमविरुद्धत्वादभेदविषयवत् प्रतीयमानान्यपि वाक्यानि सादृश्याद्यर्थान्येव योजनीयानि।
“विरुद्धवत्‌ प्रतीयन्त आगमा यत्र वै मिथः। तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते॥” इति ब्राह्मवचनाच्च।
भेदज्ञानस्य भ्रान्तित्वनिरासः
भेदाद्यनुभवस्य भ्रान्तित्वाङ्गीकारे तदपलापयुक्तेर्नितरां भ्रान्तित्वाद् भेदाद्यनुभवस्याभ्रान्तित्वमेव भवति। परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वात्।
एकजीववादिनोऽपि विपक्षे बाधकनिरूपणम्
एकजीववादपक्षे तन्निष्ठानां मृत्यनन्तरमपि विश्वस्यानिवृत्तत्वाद् भेदनिष्ठ एवैकजीव इत्यापतति। तस्य च तत्रैवाग्रहान्न कदाचिद् भेदनिवृत्तिरित्यनिवृत्तिरेव भवति। नचैकजीवाज्ञानपरिकल्पिताः समस्ता इत्यत्र किञ्चिन्मानम्।
मुक्तभेदसमर्थनोपसंहारः
अतो मुक्तेभ्योऽप्यन्य एव समस्तगुणपरिपूर्णो भगवान् विष्णुरिति सिद्धम्।
मुक्तस्येश्वरनियन्तृत्वसमर्थनम्
“ब्रह्मेशानादिभिर्देवैर्यत् प्राप्तुं नैव शक्यते। तद् यत्स्वभावः कैवल्यं स भवान् केवलो हरे॥”
“परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति” ऋग्वेदसंहितायां ७/९९/१
अन्तिममङ्गलाचरणम्
सत्यचिच्चेत्यपतये मुक्तामुक्तोत्तमाय ते। नमो नारायणायार्यवृन्दवन्दितपद्द्वय॥
“आनन्दतीर्थपुंसिहो मायावादिदितेः सुतान्। विदार्य युक्तिनखरैरप्रतीपो विभासते॥”
“पलायध्वम्पलायध्वं त्वरया मायिदानवाः। सर्वज्ञहरिरायाति तर्कागमदरारिभृत्॥”
“द्रवतद्रवताशु मायिनः प्रविशध्वमतन्द्रिता गुहाः। कमलारमणाम्बराश्रयः समुदेत्यखिलज्ञभास्करः॥”
“नृहरिः सकलज्ञनामकः समुपैति हि मायिदानवान्। प्रपलायनमत्र तत् क्षमं त्वरया वो वसतिर्गुहासु च॥”
“जयत्यानन्दतीर्थेष्टदेवता नरकेसरी। विपाटिताज्ञानतमःकपाटात्युरुहुङ्कृतः॥”
“जयत्यमितपौरुषः स्वजनतेष्टचिन्तामणिः। अजेशमुखवन्दितो गुणगणार्णवः श्रीपतिः॥”
“सर्वज्ञसन्मुनीन्द्रोच्चसन्मनःपङ्कजालयः। अजितो जयति श्रीशो रमाबाहुलताश्रयः॥”
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्तत्त्वोद्योतः (वादः) सम्पूर्णः॥

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *