मङ्गलाचरणम्
ध्यायेत् परमानन्दं
यन्माता पतिमयदपरमानन्दम्।
उज्झितपरमानं दम्पत्याद्याद्याश्रमैः सदैव-परमानन्दम्॥ १॥
उपोद्घातः
यस्य करालोलं चक्रं कालः परः स हि करालोऽलम्।
यस्य गदा पवमानः सन् यो व्या-सोऽभवत् सदा-पवमानः॥ २॥
यस्य रमा न मनोगं जगृहे विश्वम्भराऽपि न-मनोऽगम्।
यस्य पुमानानन्दं भुङ्क्ते यद्धाम कपतिमानानन्दम्॥ ३॥
परमेषु यदा तेजः परमेषु चकार वासुदेवोऽजः।
मानधि बिभ्रत्सु मनो माऽनधिमाऽऽसीन्नवासुदेवो(ऽ)-जः॥ ४॥
श्रीकृष्णकथा प्रद्युम्नादिप्रादुर्भावपर्यन्ता [हरिवंशनिर्णयः]
सोऽजनि देवक्यन्ते यस्मादनु-कम्पनावदेव क्यन्ते।
अवदन् देव क्यं ते भुवनं हि सुराः सदैवदेऽव क्यन्ते॥ ५॥
नीतो वसुदेवेन स्वततेन स
गोकुलं
सुवसुदेऽवे न।
तत्र यशोदा तनयं मेने कृष्णं स्वकीयमवदातनयम्॥ ६॥
ववृधे गोकुलमध्याद्यो देवो विश्वमद्भुताकुलमध्यात्।
तत्र च पूतनिकाया वधमकरोद् यन्निजाः सुपूतनिकायाः॥ ७॥
अधुनोच्छकटं लो ली पादाङ्गुष्ठेन वातपेशशकटं लोली।
अतनोद् रक्षामस्य स्वाज्ञानाद् गोपिका सदेरक्षामस्य॥ ८॥
मुखलालनलोला तन्मुखगं जगदचष्ट सालनलोलातत्।
नाध्यैन्मायामस्य जगत्प्रभोः स्वधिकतततमायामस्य॥ ९॥
तस्य सुशर्माण्यकरो दरिणो गर्गः सदुक्तिकर्माण्यकरोत्।
अवदन्नामानमयं जगदादिं वासुदेवनामानमयम्॥ १०॥
तस्य सखा बलनामा ज्येष्ठो भ्राताऽथ यन्निजाबलना मा।
यस्य च पर्यङ्कोऽयं पूर्वतनो विष्णुमजसपर्यं कोऽयम्॥ ११॥
तेन हतो वातरयस्तृणचक्रो नाम दितिसुतोऽवातरयः।
हरमाणो बालतमं स्वात्मानं कण्ठरोधिनाऽबालतमम्॥ १२॥
सोऽवनिमध्ये रङ्गन्नरिदरयुग् बालरूपमध्येरं गन्।
अमुषन्नवनीतमदः स्वगोकुले गोपिकासु नवनीतमदः॥ १३॥
तन्माता कोपमिता तमनुससारात्मवादवाकोपमिता।
जगृहे सा नमनं तं देवं तच्चिन्तयैव सानमनन्तम्॥ १४॥
अथ साऽन्तरिताऽमानं विष्णुं विश्वोद्भवं
सदाऽन्तरितामानम्।
अनयद् दामोदरतां योऽरमयत् सुन्दरीं निजामोदरताम्॥ १५॥
चक्रे सोऽर्जुननाशं
प्राप्नोति यत्स्मृतिः
सदाऽर्जुनना शम्।
तौ च गतौ निजमोकस्तेनैव नुतेन
यन्निजानिजमोकः
॥ १६॥
अथ वृन्दावनवासं गोपाश्चक्रुर्जगत्क्षिताऽवनवासम्।
तत्र बकासुरमारः शौरिरभून्नित्यसंश्रितासुरमारः॥ १७॥
अहनद् वत्सतनूकं योऽपाल्लोकं स्वयत्नवत्सतनूकम्।
सोऽपाद् वत्सानमरः सहाग्रजो गोपवत्सवत्सानमरः॥ १८॥
स विभुः श्रीमानहिके ननर्त यस्य श्रमानमा मा न हिके।
अकरोन्नद्युदकान्तं कान्तं नीत्वोरगं स नाऽद्युदकान्तम्॥ १९॥
हत्वा धेनुकमूढं बलात् प्रलम्बं च खेट् सधेनुकमूढम्।
व्रजमावीदमृताशः पीत्वा वह्निं चरस्थिरादमृताशः॥ २०॥
गिरिणा रक्षाऽपि कृता व्रजस्य तेन स्वरक्षरक्षाऽपि कृता।
शक्राय व्यञ्जयता स्वां शक्तिं विश्वमात्मनाऽव्यं जयता॥ २१॥
रेमे गोपीष्वरिहा स मन्मथाक्रान्तसुन्दरीपीष्वरिहा।
पूर्णानन्दैकतनुः स
विश्वरुक्पावनोऽप्यनन्दैकतनुः
॥ २२॥
अथ हतयोर्गलिकेश्योः श्वफल्कजप्रापितः पुरीं गलिकेश्योः।
भङ्क्त्वा धनुराजवरं जघान तेनैव च स्वयं राजवरम्॥ २३॥
मृद्गन् गजमुग्रबलं सबलो रङ्गं विवेश सृतिमुग् रबलम्।
हत्वा मल्लौ बलिनौ कंसं च विमोक्षितौ
ततौ लौ
बलिनौ॥ २४॥
प्रादात् सान्दीपनये मृतपुत्रं
ज्ञानदीपसान्दीपनये।
गुर्वर्थेऽज्ञानतमःप्रभेदिता नित्यसम्भृताज्ञानतमः॥ २५॥
जित्वा मागधराजं तोषितमकरोत् सदात्मयोगधराजम्।
अनुकुर्वन् निजसदनं चक्रे रम्यां पुरं
सुबोधनिजसदनम्
॥ २६॥
प्रसभं सगजबलस्य क्षत्रस्योच्चैः समगधराजबलस्य।
मानं शिशुपालवरं हत्वा भैष्मीमवाप शिशुपालवरम्॥ २७॥
हंसो डिभिकश्चपलावमुना
संसूदितौ यवनकश्च पला।
कीर्तिर्विमला विरता प्रतता विश्वाधिपावनीलाविरता॥ २८॥
सत्याजाम्बवतीर्या भार्या विन्दाद्या भानुसाम्बवतीर्याः।
प्रद्युम्नं मोदरतः प्राप ज्येष्ठं हरिः सुतं मोदरतः॥ २९॥
भारतकथानिर्णयः
कृष्णाश्रितानां पाण्डवानां कथा
यत्परिवारतयेशा जाता देवा नृपात्मना रतयेशाः।
यद्भरितं विषसर्पप्रभृति ध्वान्तं न मारुतिं विषसर्प॥ ३०॥
येन हिडिम्बबकाद्या रक्षोधीशा निपातिता बबकाद्याः।
भीमे प्रीतिममेयां व्यञ्जयता
तेनैव
शेषपाति ममे याम्॥ ३१॥
अथ कृष्णावरणे तान् प्राप्तान् राज्ञोऽशृणोत् सदावरणेतान्।
द्रष्टुं यातः सबलस्तां चैनैषीत् पृथासुतांस्ततः सबलः॥ ३२॥
तानिन्द्रस्थलवासांश्चक्रे कृष्णः परो निजस्थलवासान्।
स्वबलोद्रेचितमानैर्जुगोप धर्मं च तैः पराचितमानैः॥ ३३॥
वालिवधानुनयाय प्रणयी सख्यं सुसन्दधे नु नयाय।
वासवजेन विशेषात् तेनैव पुनर्नृजन्मजेन विशेषात्॥ ३४॥
पुनश्च कृष्णकथा पाण्डवकथा च
मातुः परिभवहान्यै राज्ञा द्युसदामितश्च
परिभवहाऽन्यैः।
अभवन्नरकमुरारिर्योऽवासीदत् समस्तनरकमुरारिः॥ ३५॥
नीतो दिवि देववरै रेमे सत्यासमन्वितोऽदेववरैः।
सर्वर्तुवने शशिना निशि सत्यां वासरे वनेऽशशिना॥ ३६॥
सुरतरुमापालिमतात् प्रकाशयञ्छक्तिमात्मनः पालिमतात्।
सुरवरवीरेषु दरी प्रधानजीवेश्वरः परेषुदरी॥ ३७॥
पुरमभियायारिदरी दत्वा भद्रां पृथासुतायारिदरी।
शक्रपुरीमभियातः प्रादाद् वह्नेर्वनं सतामभियाऽतः॥ ३८॥
शिवभक्तप्रवराद्यं पुमान् न सेहे गिरीशविप्रवराद्यम्।
तं स्वात्मेन्द्रवरेण व्यधुनोद् भीमेन धूतरुद्रवरेण॥ ३९॥
यस्याज्ञाबलसारैः पार्थैर्दिग्भ्यो हृतं धनं बलसारैः।
जित्वा क्ष्मामविशेषां प्रसह्य भूपान् समस्तकामविशेषाम्॥ ४०॥
अथ पार्थान् क्रतुराजं प्रापयदमरेट् सरुद्रशक्रतुराजम्।
पूजा तेनावापि च्छिन्नश्चैद्यः सृतिं गते नावाऽपि॥ ४१॥
निहतौ सौभकरूशौ शीतो भातश्च येन तौ भकरूशौ।
अजयद् रुद्रं च रणे
बाणार्थेऽवनतिपतितकचन्द्रं
चरणे॥ ४२॥
असृजज्ज्वरमुग्रतमःक्षयप्रदो लीलयाऽधिवरमुग् रतमः।
क्रीडामात्रं विश्वं प्रकाशयन्नात्मनः सविहरकमात्रं विश्वम्॥ ४३॥
श्रीकृष्णभक्तानां कथाः
अर्जुनकथा
यस्यावेशोरुबलान्न्यहनत् पार्थोऽसुरान्
प्रजेशोरुबलान्।
वरदानादस्यैव जगत्प्रभोरीरणात् समनुगतनादस्यैव॥ ४४॥
बलरामकथा
यस्यावेशात् स बलः प्रचकर्ष पुरं प्रसह्य
चेशात्
सबलः।
कुरुपतिनाम नु
यमुनाऽऽकृष्टा
येनाहुरर्ह्यमतनु यमुना॥ ४५॥
भीमकथा
यद्बलवान् क्रोधवशान् निनाय नाशं वृकोदरः क्रोधवशान्।
लेभेऽचान्या गम्यं स्थानं पुष्पाणि धाम चान्यागम्यम्॥ ४६॥
यद्बलभारवहत्त्वान्नाचलदुरगादिभिः सुभारवहत्त्वात्।
धर्मादरिहाऽपि पदं भीमो येनैव साहसं
रिहाऽपि
पदम्॥ ४७॥
नहि नहुषोऽलं नहितुं धर्मो
द्रौणिस्तथेतरोऽलं
न हितुम्।
नो राट्कर्णौ ब्रह्मवरी येन ध्वस्तोऽस्त्रमग्रहीत्
सब्रह्म-वरी
॥ ४८॥
क्षात्रं धर्मं स्ववता गुरुवृत्त्यै
केशवाज्ञया च मं
स्ववता।
सर्वं सेहेऽमनसा भीमेनेशैकमानिना हेमनसा॥ ४९॥
यद्भक्तप्रवरेण प्रोतः स्वस्मिन् स कीचकः प्रवरेण।
पतितास्तस्य सहायाः कृष्णार्थे मानिनः समस्य सहायाः॥ ५०॥
यद्भक्त्याऽनुगृहीतौ पार्थो भीमश्च गोनृपौ नु गृहीतौ।
ऋणमुक्त्यै सुव्यत्यस्त्यै क्रमशो वीरावमुञ्चतां सुव्यत्यस्त्यै॥ ५१॥
द्रौपदीकथा
यद्भक्त्याऽमितयाऽलं कृष्णा कार्ये विवेश कृष्णाकार्ये।
यामीरार्द्धतनुत्वान्नापाद् भीमादृतेऽपि नाऽपाद् भीमात्॥ ५२॥
यां स्प्रष्टुमिच्छन्तमजातशत्रुं न्यवारयत् स्वस्थमजातशत्रुम्।
शंरूपाने नित्यरतेरियं श्रीरिति स्म देवेड् यदितेरियं-श्रीः॥ ५३॥
मनसामनसाऽमनसा मनसा यमनन्तमजस्रमवेदनुया।
विलयं विलयं विलयं विलयन्निखिलं त्वशुभं प्रचकार च यः॥ ५४॥
शिष्टाः कृष्णकथाः
दुष्टशिक्षणम्
सोऽगाद् दूतमुखेन प्रभुणेदं वर्तते यदूतमुखेन।
पार्थार्थे बहुतनुतां यत्र
प्राकाशयत्
स्वयं
सबहुतनुताम्
॥ ५५॥
गुरुकर्णनदीजादीनवधीच्चक्षुर्बलेन जनदीजादीन्।
शक्त्या निजया परवान् स्वजनानुद्रेचयन्ननन्तयाऽपरवान्॥ ५६॥
यस्य सुनीतिसहायान्न रिपून् मेनेऽर्जुनः समेतसहा यान्।
अकरोच्चासु परासुप्रततिं सेनासु धावनासुपरासु॥ ५७॥
येन जयद्रथमारः पार्थः शत्रूनवापतद् रथमारः।
यद्विरहादपि देहे स रथः शश्वत् स्थितेः सदादपि देहे॥ ५८॥
यद्भरितो भरताभः प्रभुरम्भाभावितोऽभिभरताभः।
भीमो रभसाऽभिभवी प्रसभं
भाभाभिभूर्भासा
भिभवी॥ ५९॥
यदनुग्रहिपूर्णत्वाद् भीमः सर्वानरीननहिपूर्णत्वाऽत्।
अदहद् बाहुबलेन क्रोधाग्नावाहितान् निजाहुबलेन॥ ६०॥
कृष्णाभीमाप्ततमः शीर्णं येन स्वकीयहृदयमाप्ततमः।
धृतराष्ट्रसुतानवधीद् भीमेन स्थापितो मनसि सुसुतानवधीत्॥ ६१॥
भीमविपाटितदेहानदर्शयत् स्वानरीन् विपाटितदेहान्।
कृष्णाया हितकारी
सम्यगीरप्रियः
सदाऽहितकारी॥ ६२॥
शिष्टरक्षणम्
अथ हरिणा पीतबलं द्रौणेरस्त्रं महारिणाऽपीतबलम्।
दधता वासोमरणं नीतं चक्रेऽभिमन्युजं सोमरणम्॥ ६३॥
तस्य च रक्षा सुकृता जनार्दनेनेशशेषकेक्षासुकृता।
पार्थेषु प्रेमवता नित्यं भर्त्राऽसुतासुविप्रेमवता॥ ६४॥
ज्ञानं परमं प्रादाद् भीष्मगतः सृतिविमोक्षचरमं प्रादात्।
पाण्डुसुतानामधिकं चक्रे वेदं गुणोत्तरं स्वनामधिकम्॥ ६५॥
तेनावापि
सुजातैर्हरिमेधस्तुरगवर्तनेऽपि
सुजातैः।
पाण्डुसुतैः
सवसूकैः प्राप्तैर्व्यासात्मना
सुसवसूकैः॥ ६६॥
तदनु
सुपाण्डुतनूजै
रेमे क्ष्मां पालयन् सुपाण्डुतनुजैः।
अनुपमसुखरूपोऽजः परमः श्रीवल्लभः सति खरूपो जः॥ ६७॥
कृष्णावतारोपसंहारः
सुगतिं चरमामददान्निजयोग्यां
ज्ञानिसुततिं परमामददात्।
पार्थानां सयदूनां स पितृप्रेष्यादिनामिनां सयदूनाम्॥ ६८॥
रेमे तत्रापिसुखी परमोऽनन्तो ननन्द तत्रापि सुखी।
प्राणेनेन्दिरया च प्रयुतो नित्यं महागुणेन्दिरया च॥ ६९॥
मत्स्यादीन्यपि भारतप्रतिपद्यानि
एवं सर्वाणि हरे रूपाणि श्रीपतेः सुपर्वाणिहरेः।
पूर्णसुखानि सुभान्ति प्रततानि निरन्तराणि
सुभान्ति
॥ ७०॥
राम राम महाबाहो माया ते सुदुरासदा।
वादसादद को लोके पादावेव तवासजेत्॥ ७१॥
जेत् सवातव वेदापाके लोकोदद सादवा।
दासरादुसुतेयामाहोबाहा मम राम रा॥ ७२॥
देवानां पतयो नित्यं
मतं यस्य न जानते।
तस्मै देव नमस्येऽहं भवतेऽसुरमारये॥ ७३॥
समस्तदेवजनकवासुदेवपरामृत।
वासुदेव परामृत ज्ञानमूर्ते नमोऽस्तु ते॥ ७४॥
देवादे देवलोकप पूर्णानन्दमहोदधे।
सर्वज्ञेश रमानाथ देवाऽदेऽदेऽव लोकप॥ ७५॥
यो निर्ममेऽशेषपुराणविद्द्यां यो निर्ममेशे षपुराणविद्द्याम्।
योनिर्ममेशेषपुराऽणविद् यां योऽनिर्ममेऽशेषपुराणविद् द्याम्॥ ७६॥
अनन्तपारामितविक्रमेश प्रभो रमापारमनन्तपार।
महागुणाढ्यापरिमेयसत्त्व रमालयाशेषमहा-गुणाढ्य॥ ७७॥
भा भा भा भा भा भा भा भा भा भा भा भा भा भा।
भा भा भा भा भा भा भा भा भा भा भा भा भा भा॥ ७८॥
उपसंहारः
नैव परः केशवतः परमादस्मात् समश्च
सुकेशवतः।
सोऽयं शपथवरो नः शश्वत् सन्धारितः सुशपथवरोऽनः॥ ७९॥
कृष्णकथेयं यमिता
सुखतीर्थेनोदिताऽनने
यं-यमिता।
भक्तिमता परमेशे
सर्वोद्रेकात्
सदानुताऽऽप रमेशे॥ ८०॥
इति नारायणनामा सुखतीर्थसुपूजितः
सुरायणना मा।
पूर्ण गुणैरधिक ज्ञानेच्छाभक्तिभिः
स्वधिकपूर्ण॥ ८१॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं यमकभारतं सम्पूर्णम्॥
Leave a Reply