विषयानुक्रमणिका
- 1. अथ प्रथमस्कन्धः
- 1.1. अथ प्रथमोऽध्यायः
- 1.2. अथ द्वितीयोऽध्यायः
- 1.3. अथ तृतीयोऽध्यायः
- 1.4. अथ चतुर्थोऽध्यायः
- 1.5. अथ पञ्चमोऽध्यायः
- 1.6. अथ षष्ठोऽध्यायः
- 1.7. अथ सप्तमोऽध्यायः
- 1.8. अथ अष्टमोऽध्यायः
- 1.9. अथ नवमोऽध्यायः
- 1.10. अथ दशमोऽध्यायः
- 1.11. अथ एकादशोऽध्यायः
- 1.12. अथ द्वादशोऽध्यायः
- 1.13. अथ त्रयोदशोऽध्यायः
- 1.14. अथ चतुर्दशोऽध्यायः
- 1.15. अथ पञ्चदशोऽध्यायः
- 1.16. अथ षोडशोऽध्यायः
- 1.17. अथ सप्तदशोऽध्यायः
- 1.18. अथ अष्टादशोऽध्यायः
- 1.19. अथ एकोनविंशोऽध्यायः
- 1.20. अथ विंशोऽध्यायः
- 2. अथ द्वितीयस्कन्धः
- 3. अथ तृतीयस्कन्धः
- 3.1. अथ प्रथमोऽध्यायः
- 3.2. अथ द्वितीयोऽध्यायः
- 3.3. अथ तृतीयोऽध्यायः
- 3.4. अथ चतुर्थोऽध्यायः
- 3.5. अथ पञ्चमोऽध्यायः
- 3.6. अथ षष्ठोऽध्यायः
- 3.7. अथ सप्तमोऽध्यायः
- 3.8. अथ अष्टमोऽध्यायः
- 3.9. अथ नवमोऽध्यायः
- 3.10. अथ दशमोऽध्यायः
- 3.11. अथ एकादशोऽध्यायः
- 3.12. अथ द्वादशोऽध्यायः
- 3.13. अथ त्रयोदशोऽध्यायः
- 3.14. अथ चतुर्दशोऽध्यायः
- 3.15. अथ पञ्चदशोऽध्यायः
- 3.16. अथ षोडशोऽध्यायः
- 3.17. अथ सप्तदशोऽध्यायः
- 3.18. अथ अष्टादशोऽध्यायः
- 3.19. अथ एकोनविंशोऽध्यायः
- 3.20. अथ विंशोऽध्यायः
- 3.21. अथैकविंशोऽध्यायः
- 3.22. अथ द्वाविंशोऽध्यायः
- 3.23. अथ त्रयोविंशोऽध्यायः
- 3.24. अथ चतुर्विंशोऽध्यायः
- 3.25. अथ पञ्चविंशोऽध्यायः
- 3.26. अथ षड्विंशोऽध्यायः
- 3.27. अथ सप्तविंशोऽध्यायः
- 3.28. अथ अष्टाविंशोऽध्यायः
- 3.29. अथ एकोनत्रिंशोऽध्यायः
- 3.30. अथ त्रिंशोऽध्यायः
- 3.31. अथ एकत्रिंशोऽध्यायः
- 3.32. अथ द्वात्रिंशोऽध्यायः
- 3.33. अथ त्रयस्त्रिंशोऽध्यायः
- 3.34. अथ चतुस्त्रिंशोऽध्यायः
- 4. अथ चतुर्थस्कन्धः
- 4.1. अथ प्रथमोऽध्यायः
- 4.2. अथ द्वितीयोऽध्यायः
- 4.3. अथ तृतीयोऽध्यायः
- 4.4. अथ चतुर्थोऽध्यायः
- 4.5. अथ पञ्चमोऽध्यायः
- 4.6. अथ षष्ठोऽध्यायः
- 4.7. अथ सप्तमोऽध्यायः
- 4.8. अथाष्टमोऽध्यायः
- 4.9. अथ नवमोऽध्यायः
- 4.10. अथ दशमोऽध्यायः
- 4.11. अथ एकादशोऽध्यायः
- 4.12. अथ द्वादशोऽध्यायः
- 4.13. अथ त्रयोदशोऽध्यायः
- 4.14. अथ चतुर्दशोऽध्यायः
- 4.15. अथ पञ्चदशोऽध्यायः
- 4.16. अथ षोडशोऽध्यायः
- 4.17. अथ सप्तदशोऽध्यायः
- 4.18. अथ अष्टादशोऽध्यायः
- 4.19. अथ एकोनविंशोऽध्यायः
- 4.20. अथ विंशोऽध्यायः
- 4.21. अथ एकविंशोऽध्यायः
- 4.22. अथ द्वाविंशोऽध्यायः
- 4.23. अथ त्रयोविंशोऽध्यायः
- 4.24. अथ चतुर्विंशोऽध्यायः
- 4.25. अथ पञ्चविंशोऽध्यायः
- 4.26. अथ षड्विंशोऽध्यायः
- 4.27. अथ सप्तविंशोऽध्यायः
- 4.28. अथ अष्टाविंशोऽध्यायः
- 4.29. अथ एकोनत्रिंशोऽध्यायः
- 4.30. अथ त्रिंशोऽध्यायः
- 4.31. अथ एकत्रिंशोऽध्यायः
- 5. अथ पञ्चमस्कन्धः
- 5.1. अथ प्रथमोऽध्यायः
- 5.2. अथ द्वितीयोऽध्यायः
- 5.3. अथ तृतीयोऽध्यायः
- 5.4. अथ चतुर्थोऽध्यायः
- 5.5. अथ पञ्चमोऽध्यायः
- 5.6. अथ षष्ठोऽध्यायः
- 5.7. अथ सप्तमोऽध्यायः
- 5.8. अथ अष्टमोऽध्यायः
- 5.9. अथ नवमोऽध्यायः
- 5.10. अथ दशमोऽध्यायः
- 5.11. अथ एकादशोऽध्यायः
- 5.12. अथ द्वादशोऽध्यायः
- 5.13. अथ त्रयोदशोऽध्यायः
- 5.14. अथ चतुर्दशोऽध्यायः
- 5.15. अथ पञ्चदशोऽध्यायः
- 5.16. अथ षोडशोऽध्यायः
- 5.17. अथ सप्तदशोऽध्यायः
- 5.18. अथ अष्टादशोऽध्यायः
- 5.19. अथ एकोनविंशोऽध्यायः
- 5.20. अथ विंशोऽध्यायः
- 5.21. अथ एकविंशोऽध्यायः
- 5.22. अथ द्वाविंशोऽध्यायः
- 5.23. अथ त्रयोविंशोऽध्यायः
- 5.24. अथ चतुर्विंशोऽध्यायः
- 6. अथ षष्ठस्कन्धः
- 6.1. अथ प्रथमोऽध्यायः
- 6.2. अथ द्वितीयोऽध्यायः
- 6.3. अथ तृतीयोऽध्यायः
- 6.4. अथ चतुर्थोऽध्यायः
- 6.5. अथ पञ्चमोऽध्यायः
- 6.6. अथ षष्ठोऽध्यायः
- 6.7. अथ सप्तमोऽध्यायः
- 6.8. अथ अष्टमोऽध्यायः
- 6.9. अथ नवमोऽध्यायः
- 6.10. अथ दशमोऽध्यायः
- 6.11. अथ एकादशोऽध्यायः
- 6.12. अथ द्वादशोऽध्यायः
- 6.13. अथ त्रयोदशोऽध्यायः
- 6.14. अथ चतुर्दशोऽध्यायः
- 6.15. अथ पञ्चदशोऽध्यायः
- 6.16. अथ षोडशोऽध्यायः
- 6.17. अथ सप्तदशोऽध्यायः
- 6.18. अथ अष्टादशोऽध्यायः
- 6.19. अथ एकोनविंशोऽध्यायः
- 7. अथ सप्तमः स्कन्धः
- 7.1. अथ प्रथमोऽध्यायः
- 7.2. अथ द्वितीयोऽध्यायः
- 7.3. अथ तृतीयोऽध्यायः
- 7.4. अथ चतुर्थोऽध्यायः
- 7.5. अथ पञ्चमोऽध्यायः
- 7.6. अथ षष्टोऽध्यायः
- 7.7. अथ सप्तमोऽध्यायः
- 7.8. अथ अष्टमोऽध्यायः
- 7.9. अथ नवमोऽध्यायः
- 7.10. अथ दशमोऽध्यायः
- 7.11. अथ एकादशोऽध्यायः
- 7.12. अथ द्वादशोऽध्यायः
- 7.13. अथ त्रयोदशोऽध्यायः
- 7.14. अथ चतुर्दशोऽध्यायः
- 7.15. अथ पञ्चदशोऽध्यायः
- 7.16. अथ षोडशोऽध्यायः
- 8. अथाष्टमः स्कन्धः
- 8.1. अथ प्रथमोऽध्यायः
- 8.2. अथ द्वितीयोऽध्यायः
- 8.3. अथ तृतीयोऽध्यायः
- 8.4. अथ चतुर्थोऽध्यायः
- 8.5. अथ पञ्चमोऽध्यायः
- 8.6. अथ शष्टोऽध्यायः
- 8.7. अथ सप्तमोऽध्यायः
- 8.8. अथ अष्टमोऽध्यायः
- 8.9. अथ नवमोऽध्यायः
- 8.10. अथ दशमोऽध्यायः
- 8.11. अथ एकादशोऽध्यायः
- 8.12. अथ द्वादशोऽध्यायः
- 8.13. अथ त्रयोदशोऽध्यायः
- 8.14. अथ चतुर्दशोऽध्यायः
- 8.15. अथ पञ्चदशोऽध्यायः
- 8.16. अथ षोडशोऽध्यायः
- 8.17. अथ सप्तदशोऽध्यायः
- 8.18. अथ अष्टादशोऽध्यायः
- 8.19. अथ एकोनविंशोऽध्यायः
- 8.20. अथ विंशोऽध्यायः
- 8.21. अथ एकविंशोऽध्यायः
- 8.22. अथ द्वाविंशोऽध्यायः
- 8.23. अथ त्रयोविंशोऽध्यायः
- 9. अथ नवमः स्कन्धः
- 9.1. अथ प्रथमोऽध्यायः
- 9.2. अथ द्वितीयोऽध्यायः
- 9.3. अथ तृतीयोऽध्यायः
- 9.4. अथ चतुर्थोऽध्यायः
- 9.5. अथ पञ्चमोऽध्यायः
- 9.6. अथ षष्ठोऽध्यायः
- 9.7. अथ सप्तमोऽध्यायः
- 9.8. अथ अष्टमोऽध्यायः
- 9.9. अथ नवमोऽध्यायः
- 9.10. अथ दशमोऽध्यायः
- 9.11. अथ एकादशोऽध्यायः
- 9.12. अथ द्वादशोऽध्यायः
- 9.13. अथ त्रयोदशोऽध्यायः
- 9.14. अथ चतुर्दशोऽध्यायः
- 9.15. अथ पञ्चदशोऽध्यायः
- 9.16. अथ षोडशोऽध्यायः
- 9.17. अथ सप्तदशोऽध्यायः
- 9.18. अथ अष्टादशोऽध्यायः
- 9.19. अथ एकोनविंशोऽध्यायः
- 9.20. अथ विंशोऽध्यायः
- 9.21. अथ एकविंशोऽध्यायः
- 10. अथ दशमस्कन्धः
- 10.1. अथ प्रथमोऽध्यायः
- 10.2. अथ द्वितीयोऽध्यायः
- 10.3. अथ तृतीयोऽध्यायः
- 10.4. अथ चतुर्थोऽध्यायः
- 10.5. अथ पञ्चमोऽध्यायः
- 10.6. अथ षष्ठोऽध्यायः
- 10.7. अथ सप्तमोऽध्यायः
- 10.8. अथ अष्टमोऽध्यायः
- 10.9. अथ नवमोऽध्यायः
- 10.10. अथ दशमोऽध्यायः
- 10.11. अथ एकादशोऽध्यायः
- 10.12. अथ द्वादशोऽध्यायः
- 10.13. अथ त्रयोदशोऽध्यायः
- 10.14. अथ चतुर्दशोऽध्यायः
- 10.15. अथ पञ्चदशोऽध्यायः
- 10.16. अथ षोडशोऽध्यायः
- 10.17. अथ सप्तदशोऽध्यायः
- 10.18. अथ अष्टादशोऽध्यायः
- 10.19. अथ एकोनविंशोऽध्यायः
- 10.20. अथ विंशोऽध्यायः
- 10.21. अथ एकविंशोऽध्यायः
- 10.22. अथ द्वाविंशोऽध्यायः
- 10.23. अथ त्रयोविंशोऽध्यायः
- 10.24. अथ चतुर्विंशोऽध्यायः
- 10.25. अथ पञ्चविंशोऽध्यायः
- 10.26. अथ षड्विंशोऽध्यायः
- 10.27. अथ सप्तविंशोऽध्यायः
- 10.28. अथ अष्टाविंशोऽध्यायः
- 10.29. अथ एकोनत्रिंशोऽध्यायः
- 10.30. अथ त्रिंशोऽध्यायः
- 10.31. अथ एकत्रिंशोऽध्यायः
- 10.32. अथ द्वात्रिंशोऽध्यायः
- 10.33. अथ त्रयस्त्रिंशोऽध्यायः
- 10.34. अथ चतुस्त्रिंशोऽध्यायः
- 10.35. अथ पञ्चत्रिंशोऽध्यायः
- 10.36. अथ षट्त्रिंशोऽध्यायः
- 10.37. अथ सप्तत्रिंशोऽध्यायः
- 10.38. अथ अष्टत्रिंशोऽध्यायः
- 10.39. अथ एकोनचत्वारिंशोऽध्यायः
- 10.40. अथ चत्वारिंशोऽध्यायः
- 10.41. अथ एकचत्वारिंशोऽध्यायः
- 10.42. अथ द्विचत्वारिंशोऽध्यायः
- 10.43. अथ त्रिचत्वारिंशोऽध्यायः
- 10.44. अथ चतुश्चत्वारिंशोऽध्यायः
- 10.45. अथ पञ्चचत्वारिंशोऽध्यायः
- 10.46. अथ षट्चत्वारिंशोऽध्यायः
- 10.47. अथ सप्तचत्वारिंशोऽध्यायः
- 10.48. अथ अष्टचत्वारिंशोऽध्यायः
- 10.49. अथ एकोनपञ्चाशत्तमोऽध्यायः
- 10.50. अथ पञ्चाशत्तमोऽध्यायः
- 10.51. अथ एकपञ्चाशत्तमोऽध्यायः
- 10.52. अथ द्विपञ्चाशत्तमोऽध्यायः
- 10.53. अथ त्रिपञ्चाशत्तमोऽध्यायः
- 10.54. अथ चतुःपञ्चाशत्तमोऽध्यायः
- 10.55. अथ पञ्चपञ्चाशत्तमोऽध्यायः
- 10.56. अथ षट्पञ्चाशत्तमोऽध्यायः
- 10.57. अथ सप्तपञ्चाशत्तमोऽध्यायः
- 10.58. अथ अष्टपञ्चाशत्तमोऽध्यायः
- 10.59. अथ एकोनषष्टितमोऽध्यायः
- 10.60. अथ षष्टितमोऽध्यायः
- 10.61. अथ एकषष्टितमोऽध्यायः
- 10.62. अथ द्विषष्टितमोऽध्यायः
- 10.63. अथ त्रिषष्टितमोऽध्यायः
- 10.64. अथ चतुःषष्टितमोऽध्यायः
- 10.65. अथ पञ्चषष्टितमोऽध्यायः
- 10.66. अथ षट्षष्टितमोऽध्यायः
- 10.67. अथ सप्तषष्टितमोऽध्यायः
- 10.68. अथ अष्टषष्टितमोऽध्यायः
- 10.69. अथ एकोनसप्ततितमोऽध्यायः
- 10.70. अथ सप्ततितमोऽध्यायः
- 10.71. अथ एकसप्ततितमोऽध्यायः
- 10.72. अथ द्विसप्ततितमोऽध्यायः
- 10.73. अथ त्रिसप्ततितमोऽध्यायः
- 10.74. अथ चतुःसप्ततितमोऽध्यायः
- 10.75. अथ पञ्चसप्ततितमोऽध्यायः
- 10.76. अथ षट्सप्ततितमोऽध्यायः
- 10.77. अथ सप्तसप्ततितमोऽध्यायः
- 10.78. अथ अष्टसप्ततितमोऽध्यायः
- 10.79. अथ एकोनाशीतितमोऽध्यायः
- 10.80. अथ अशीतितमोऽध्यायः
- 10.81. अथ एकाशीतितमोऽध्यायः
- 10.82. अथ द्व्यशीतितमोऽध्यायः
- 10.83. अथ त्र्यशीतितमोऽध्यायः
- 10.84. अथ चतुरशीतितमोऽध्यायः
- 10.85. अथ पञ्चाशीतितमोऽध्यायः
- 10.86. अथ षडशीतितमोऽध्यायः
- 10.87. अथ सप्ताशीतितमोऽध्यायः
- 10.88. अथ अष्टाशीतितमोऽध्यायः
- 10.89. अथ एकोननवतितमोऽध्यायः
- 10.90. अथ नवतितमोऽध्यायः
- 10.91. अथ एकनवतितमोऽध्यायः
- 10.92. अथ द्विनवतितमोऽध्यायः
- 10.93. अथ त्रिनवतितमोऽध्यायः
- 10.94. अथ चतुर्नवतितमोऽध्यायः
- 10.95. अथ पञ्चनवतितमोऽध्यायः
- 10.96. अथ षण्णवतितमोऽध्यायः
- 10.97. अथ सप्तनवतितमोऽध्यायः
- 10.98. अथ अष्टानवतितमोऽध्यायः
- 10.99. अथ एकोनशततमोऽध्यायः
- 10.100. अथ शततमोऽध्यायः
- 10.101. अथ एकाधिकशततमोऽध्यायः
- 10.102. अथ द्व्यधिकशततमोऽध्यायः
- 10.103. अथ त्र्यधिकशततमोऽध्यायः
- 11. अथ एकादशस्कन्धः
- 11.1. अथ प्रथमोऽध्यायः
- 11.2. अथ द्वितीयोऽध्यायः
- 11.3. अथ तृतीयोऽध्यायः
- 11.4. अथ चतुर्थोऽध्यायः
- 11.5. अथ पञ्चमोऽध्यायः
- 11.6. अथ षष्ठोऽध्यायः
- 11.7. अथ सप्तमोऽध्यायः
- 11.8. अथ अष्टमोऽध्यायः
- 11.9. अथ नवमोऽध्यायः
- 11.10. अथ दशमोऽध्यायः
- 11.11. अथ एकादशोऽध्यायः
- 11.12. अथ द्वादशोऽध्यायः
- 11.13. अथ त्रयोदशोऽध्यायः
- 11.14. अथ चतुर्दशोऽध्यायः
- 11.15. अथ पञ्चदशोऽध्यायः
- 11.16. अथ षोडशोऽध्यायः
- 11.17. अथ सप्तदशोऽध्यायः
- 11.18. अथ अष्टादशोऽध्यायः
- 11.19. अथ एकोनविंशोऽध्यायः
- 11.20. अथ विंशोऽध्यायः
- 11.21. अथ एकविंशोऽध्यायः
- 11.22. अथ द्वाविंशोऽध्यायः
- 11.23. अथ त्रयोविंशोऽध्यायः
- 11.24. अथ चतुर्विंशोऽध्यायः
- 11.25. अथ पञ्चविंशोऽध्यायः
- 11.26. अथ षड्विंशोऽध्यायः
- 11.27. अथ सप्तविंशोऽध्यायः
- 11.28. अथ अष्टाविंशोऽध्यायः
- 11.29. अथ एकोनत्रिंशोऽध्यायः
- 11.30. अथ त्रिंशोऽध्यायः
- 11.31. अथ एकत्रिंशोऽध्यायः
- 12. अथ द्वादशः स्कन्धः
🔗
अथ प्रथमस्कन्धः
🔗
अथ प्रथमोऽध्यायः
🔗
सृष्टिस्थित्यप्ययेहानियतिदृशितमोबन्धमोक्षाश्च यस्मा- दस्य श्रीब्रह्मरुद्रप्रभृतिसुरनरद्व्यीशशत्र्वात्मकस्य। विष्णोर्व्यस्ताः समस्ताः सकलगुणनिधिः सर्वदोषव्यपेतः पूर्णानन्दोऽव्ययो यो गुरुरपि परमश्चिन्तये तं महान्तम्॥
🔗
जन्माद्यस्येत्यादि॥
तं परं धीमहि।
अन्वयात्।
“यतो वा इमानि भूतानि जायन्ते”तैत्तिरीयोपनिषत् ३/१
इत्यादिश्रुतिस्मृतिभ्यः।
इतरतः
तर्कतः।
चेतनाद्धि पित्रादेः पुत्रादिरुत्पद्यते।
अर्थेषु
सर्वपदार्थेषु,
अभिज्ञः
सर्वज्ञः।
अतो युज्यते।
“यं कामये तन्तमुग्रं कृणोमि”ऋग्वेदसंहिता १०/१२५/५
“मम योनिः”ऋग्वेदसंहिता १०/१२५/७
इत्यन्येषां तदपेक्षत्वात्।
नचान्यापेक्षोऽसौ।
स्वराट्।
कुतः?
तेने ब्रह्म हृदा य आदिकवये।
स हि
“विश्वा जातानि परिता बभूव”।ऋग्वेदसंहिता १०/१२१/१०
नान्यः।
हृदा
स्नेहेन।
“यो ब्रह्माणं विदधाति पूर्वम्”🔗श्वेताश्वतरोपनिषत् ६/१८
इति च।
स्वात्मत एव हि तस्य बुद्धिप्रकाशः।
नच प्रसादं विना ज्ञातुं शक्यः-
मुह्यन्ति यं सूरयः।
नच तृप्तः प्रवर्तते।
किन्तु?
मृषा
वृथैव।
“भित्वा मृषाश्रुः”भागवतम् १०/१०/६
इतिवत्।
“देवस्यैष स्वभावोऽयम्”🔗माण्डूकोपनिषत् १/१५
इति।
“यत्र”
इति विशेषणान्नान्यत्र।
स्वविषय एव वृथा।
जीवेश्वरजडानां सर्गः
त्रिसर्गः।
एकस्य तेजसो बहुत्ववदीश्वरसर्गः।
वारिनिमित्तप्रतिबिम्बवज्जीवसर्गः।
मृदो घटादिवदव्यक्ताज्जडसर्गः।
नच मायामयी सृष्टिः-
धाम्ना स्वेन सदा निरस्तकुहकम्।
तद्धाम्ना श्रियो निरस्तकुहकत्वं मुक्तानां च।
नच मुक्तवत् पूर्वं बन्धभाक्त्वम्।
सदा
निरस्तकुहकत्वात्।
सत्यं
निर्दुःखनित्यनिरतिशयानन्दानुभवरूपम्।
परं
सम्पूर्णगुणम्।
परत्वसाधकं
जन्मादीत्यादि॥
🔗
तन्त्रभागवते च-
“सृष्टिस्थित्यप्ययेहादेः श्रुतिस्मृतिसमन्वयात्। युक्तितश्चेत्तृपूर्वादेः श्रीब्रह्मभवपूर्विणः। सुरगन्धर्वमनुजपितृदैत्यात्मनः पृथक्। कर्ता विष्णुरजो नित्यः सर्वज्ञत्वान्नचापरः। अनन्याधिपतिश्चासौ गरीयान् ब्रह्मणो यतः। तत्प्रसादमृते तस्य नान्यो वेत्ताऽस्ति कश्चन। तेजसो रूपवद् रूपं बहुधा कुरुते हरिः। वारिस्थतेजःप्रतिमा जीवास्तस्माद् विनिर्गताः। कुलालेन मृदा यद्वन्निर्मीयन्ते घटादयः। विष्णुनैवं प्रकृत्यैव निर्म्यते जगदीदृशम्। एष त्रिसर्गो विष्णोस्तु वृथा लोकस्य चावृथा। इन्द्रजालविधां सृष्टिं मन्यन्ते ज्ञानदुर्बलाः। नित्यं निरस्तेन्द्रजाले स्वत एव कथं भवेत्। अक्षमाः सत्यसृष्टौ हि मायासृष्टिं वितन्वते। अनन्ताचिन्त्यविभवः कथं तामीहते हरिः। निर्दुःखपूर्णानन्दत्वाद् यमाहुः सत्यमच्युतम्। निर्दोषगुणपूर्णत्वात् परं चाहुर्जनार्दनम्। एवंविधानुभावो यः स कथं निन्दितं सृजेत्। स्वप्नादिकं परो देवः प्राणादिस्थस्तनोत्यसौ। केवलस्य परस्यास्य मायासृष्टिर्न युज्यते। तस्माद् बाधायुताः सर्वे स्वप्नाद्या ये त्वकेवलाः। इदं न बाध्यते सर्वं जगत् केवलजं यतः। मोक्षवत् केवलस्यास्य शक्त्या सम्यग् विजृम्भितम्। एतद् रहस्यं परमं ब्रह्मसूत्रपदोदितम्। ये त्वेवं न विजानन्ति ते हि यान्त्यधरं तमः। ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः। ये त्वेतदनुतिष्ठन्ति पारम्पर्यागतं मम। ते यान्ति परमं स्थानं मयैवोदितमञ्जसा॥”
इत्यादि।
🔗
“वैधर्म्याच्च न स्वप्नादिवत्”🔗ब्रह्मसूत्रम् २/२/२९
इति च।
“प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्”ऋग्वेदसंहिता २/१५/१
इत्यादि।
🔗
ब्रह्मसूत्रमहाभारतगायत्रीवेदसम्बन्धश्चायं ग्रन्थः।
उक्तं च गारुडे-
“अर्थोऽयं ब्रह्मसूत्राणां भारतार्थविनिर्णयः। गायत्रीभाष्यरूपोऽसौ वेदार्थपरिबृंहितः। पुराणानां साररूपः साक्षाद् भगवतोदितः। द्वादशस्कन्धसंयुक्तः शतविच्छेदसंयुतः। ग्रन्थोऽष्टादशसाहस्रः श्रीमद्भागवताभिधः॥”
इति॥ १॥
🔗
अधिकारिविषयफलान्युच्यन्ते-
धर्म इति॥
प्रोज्झितकैतवः
फलानपेक्षया।
ईश्वरार्पणेन
परमः।
🔗
“तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम्। अजातशत्रवः शान्ताः साधवः साधुभूषणाः। मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्॥”भागवतम् ३/२६/२१-२२
इत्यादि सतां लक्षणम्।
🔗
सतां च मात्सर्यमर्जुनस्यैकलव्य इव कुत्रचिद् दृश्यते।
तद् वर्जनीयमुत्तमेषु ज्ञानार्थिना।
महासंहितायां च-
“उत्तमेष्वात्मनो नित्यं मात्सर्यं परिवर्जयेत्। कुरुते यत्र मात्सर्यं तत्तत् तस्य विहीयते॥”
इति।
🔗
नित्यनिरस्तदोषपूर्णगुणं
वास्तवम्।
नित्यसंहितायां च-
“निरस्ताखिलदोषं यदानन्दादिमहागुणम्। सर्वदा परमं ब्रह्म तस्माद् वास्तवमीर्यते॥”
इति।
🔗
वस्तु
अप्रतिहतं नित्यम्।
स्कान्दे च-
“वसनाद् वासनाद् वस्तु नित्याप्रतिहतं यतः। वासेनेदं यतस्तुन्नमतस्तद् ब्रह्म शब्द्यते॥”
इति।
🔗
किं वा परैः
अर्थकामादिकथनैः।
गारुडे च-
“धर्मार्थकाममोक्षाणामेकमेव पदं यतः। अवरोधो हृदीशस्य पृथग् वक्ष्ये न तानहम्॥”
इति।
🔗
सद्यःशब्द आपेक्षिक इति
तत्क्षणादिति॥
नचासम्पूर्णाधिकारिणां तत्क्षणादवरुद्ध्यत इति सद्यःशब्दः।
🔗
अधिकारिविषयफलानां स्मरणात् फलाधिक्यं भवति।
वामने च-
“अधिकारं फलं चैव प्रतिपाद्यं च वस्तु यत्। स्मृत्वा प्रारभतो ग्रन्थं करोतीशो महत् फलम्॥”
इति॥ २॥
🔗
ज्ञातफलस्यापि प्रशंसाविधिभ्यां क्षिप्रप्रवृत्तिर्भवतीति प्रशस्य विधत्ते-
निगमकल्पतरोरिति॥
भगवता
गलितम्।
शुकेन द्रवीकृतम्।
उक्तं च ब्रह्माण्डे-
“धर्मपुष्पस्त्वर्थपत्रः कामपल्लवसंयुतः। महामोक्षफलो वृक्षो वेदोऽयं समुदीरितः। शातितानि फलानीह कृष्णद्वैपायनेन तु। भारतादीनि यानीह तथा भागवतं भुवि। आर्द्रीकृतानि तानीह शुकप्रभृतिभिर्जनैः। ख्यापयद्भिर्गुरुप्रोक्तान् वेदार्थान् ग्रन्थनिष्ठितान्। कानिचिद् दर्शयामास वृक्षस्याग्रे फलानि तु। व्याचक्षमाणो वेदार्थं भगवाल्ँलोकपूजितः। एतेषामथ तेषां वा रसं पिबत सज्जनाः। आ मोक्षान्महती प्रीतिरहो मे पश्यतो भवेत्॥”
इति॥ ३॥
🔗
प्रकारान्तरेण पुरुषार्थशङ्कानिवृत्त्यर्थमाख्यायिका।
पाद्मे च-
“आख्यायिकाः प्रदर्श्यन्ते सर्ववेदेषु सर्वशः। द्योतयन्त्यस्तु महतां तात्पर्यं तत्रतत्र ह। अलाभः पुरुषार्थस्य प्रोक्तमर्थमृते त्विति। द्योतनाय महाराज श्रद्धावृद्ध्यर्थमेव च॥”
इति॥
४॥
🔗
यानि
भगवज्ज्ञातान्यन्यैरप्यृषिभिर्ज्ञायन्ते तानि
वेत्थ।
उक्तं हि ब्रह्माण्डे-
“द्वैपायनेन यद् बुद्धं ब्रह्माद्यैस्तन्न बुद्ध्यते। सर्वबुद्धं स वै वेद तद्बुद्धं नान्यगोचरम्॥”
इति॥
७/८॥
🔗
विवशः
बह्वभ्यासात्।
उक्तं च ब्रह्मवैवर्ते-
“शारीराद् वाचिकाभ्यासो वाचिकान्मानसो भवेत्। मानसाद् विवशान्मुच्येन्नान्यथा मुक्तिरिष्यते॥”
इति॥
१४॥
🔗
आत्ममायया
स्वरूपभूतेच्छया।
“महामायेत्यविद्येति नियतिर्मोहिनीति च। प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते॥”
इति स्कान्दे।
विष्णुसंहितायां च-
“इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिरिति त्रिधा। शक्तिशक्तिमतोश्चापि न भेदः कश्चनेष्यते॥”
इति॥
१८॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे प्रथमोऽध्यायः॥
🔗
अथ द्वितीयोऽध्यायः
🔗
अनुपेतं
देहादिभिः, अनभिमानात्।
अकातरः कातरवददर्शयत्।
उक्तं च स्कान्दे-
“नित्यतृप्तः परानन्दो योऽव्ययः परमेश्वरः। यस्य पुत्रफलं नैव यज्जातं जगदीदृशम्॥ यदधीनश्रियोऽपाङ्गाद् ब्रह्मरुद्रादिसंस्थितिः। स पुत्रार्थं तपस्तेपे व्यासो रुद्रस्य चेश्वरः॥ कातर्यं दर्शयामास वियोगे लौकिकं हरिः। कुतः कातरता तस्य नित्यानन्दमहोदधेः॥”
इति।
“ईशन्नपि हि लोकस्य सर्वस्य जगतो हरिः। कर्माणि कुरुते विष्णुः कीनाश इव दुर्बलः॥”भारतम् ५/६८/१४
इति चोद्योगे।
“देवत्वे देववच्चेष्टा मानुषत्वे च मानुषी”
इति विष्णुधर्मे।
🔗
सर्वभूतहृदयम्
अहङ्कारात्मकत्वात्।
“अहङ्कारात्मको रुद्रः शुको द्वैपायनात्मजः”
इति स्कान्दे॥
२ ॥
🔗
स्वानुभावं
ब्रह्म॥ ३ ॥
🔗
अद्वयम्
असमाधिकम्।
तथाच भाल्लवेयश्रुतिः-
“स पुरुषः सोऽद्वय इति नह्येनमभि कश्चन नह्येनमति कश्चन”
इति।
“सोऽद्वयः पुरुषस्तस्मान्न समो नाधिको ह्यतः”
इति महासंहितायाम्।
🔗
तत्त्वशब्दार्थस्तत्रैवोक्तः-
“अतीतानागते काले यत् तादृशमुदीर्यते। कुतश्चिदन्यथा नेयात् तत् तत्त्वं तत्त्वतो विदुः॥”
इति॥ ११॥
🔗
सत्तामात्रम्
आनन्दमात्रम्।
तथाच पैङ्गिश्रुतिः-
“अथ कस्मादुच्यते सत्तेति नन्दति नन्दयति चेति”
इति।
🔗
न कार्यकारणविषयविशेषितवैषयिकज्ञानम्।
केवलमेव तज्ज्ञानम्।
स्रष्टृत्वादिभिः कार्यकारणविशेषितं च।
तन्त्रभागवते च-
“विषयापेक्षि न ज्ञानं विषयैश्च विशेषितम्। यत् तदानन्दमात्रं च तद् ब्रह्मेत्यवधार्यताम्॥”
इति।
🔗
यत्किञ्चित्
अलोकसिद्धम्॥ १२॥
🔗
यस्मात् परमात्मैव तत्त्वं तस्मात् तमेव
पश्यन्ति मुनयः॥
१३॥
🔗
आत्मनीश्वरे
इति न जीवैक्यमुच्यते।
परेषामपि ब्रह्मादीनां यतोऽवरत्वं स परावरः।
🔗
“भेददृष्ट्याऽभिमानेन”भागवतम् ३/३३/१२
इति हि कापिलेये।
“ब्रह्म प्रधानमुपयान्त्यगताभिमानाः”भागवतम् ३/३३/१०
इति च।
“विद्याऽऽत्मनि भिदाबोधः”,भागवतम् ११/१९/३९
“यत्र हि द्वैतमिव भवति”,बृहदारण्यकोपनिषत् ६/५/१५
“अन्यमीशमस्य महिमानमिति”,🔗आथर्वणोपनिषत् ३/१/२
“अनश्नन्नन्यो अभिचाकशीति”,🔗आथर्वणोपनिषत् ३/१/१
“छायातपौ ब्रह्मविदो वदन्ति”,🔗काठकोपनिषत् १/३/१
“एको बहूनां यो विदधाति कामान्”,🔗काठकोपनिषत् २/२/१३
“सत्यः सो अस्य महिमा”,ऋग्वेदसंहिता ८/३/४
“सत्यमेनमनु विश्वे मदन्ति”,ऋग्वेदसंहिता ४/१७/५
“यत्र पूर्वे साध्याः सन्ति देवाः”,ऋग्वेदसंहिता १०/९०/१६
“शृण्वे वीर उग्रमुग्रं दमायन्”ऋग्वेदसंहिता ६/४७/१६
इत्यादि च।
“मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्”भारतम् १२/३०१/८२
“बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु”भारतम् १२/३५०/१
“नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह”भारतम् १२/३५०/२
इति मोक्षधर्मे।
“भेददृष्ट्याऽभिमानेन पश्यन्तो यान्ति तत्पदम्”
इति वायुप्रोक्ते।
“अनुपपत्तेस्तु न शारीरः”,🔗ब्रह्मसूत्रम् १/२/३
“भेदव्यपेशाच्च”,🔗ब्रह्मसूत्रम् १/१/१७
“शारीरश्चोभयेऽपि हि भेदेनैनमधीयते”🔗ब्रह्मसूत्रम् १/२/२०
“पृथगुपदेशात्”🔗ब्रह्मसूत्रम् २/३/२८
इत्यादि च।
सत्यत्वं च भेदस्योक्तं भाल्लवेयश्रुतौ-
“स्थाणुर्होच्चक्राम स प्रजापतिमुवाच कोऽसि के स्मः कः स इति। स होवाच। योऽस्मि ये स्थ यः स इति। अथ हैनमुपाक्रोशत्। सत्यं भिदा सत्यं भिदा सत्यं भिदा। मैवारुवण्यो मैवारुवण्यो मैवारुवण्य इति”
इति।
“सत्यमेनम्”ऋग्वेदसंहिता ४/१७/५
“सत्यः सो अस्य महिमा”ऋग्वेदसंहिता ८/३/४
इति चोक्तम्।
🔗
महासंहितायां च-
“त्रिविधं जीवसङ्घं च परमात्मानमव्ययम्। तेषां भेदं च ये सत्यं विदुर्मोहविवर्जिताः। ते यान्ति परमं स्थानं विष्णोरेवाचलं ध्रुवम्। जीवेश्वरभिदां भ्रान्तिं केचिदाहुरपण्डिताः। अनारतं तमो यान्ति परमात्मविनिन्दनात्। पराधीनश्च बद्धश्च स्वल्पज्ञानसुखेहितः। अल्पशक्तिः सदोषश्च जीवात्माऽनीदृशः परः। वदता तु तयोरैक्यं किं तेनादुष्कृतं कृतम्। अन्तर्याम्यैक्यवाचीनि वचनानीहि यानि तु। तानि दृष्ट्वा भ्रमन्तीह दुरात्मानोऽल्पचेतसः। अस्यस्मित्वमहंस्वात्मेत्यभिधागोचरो यतः। सर्वान्तरत्वात् पुरुषस्त्वन्तर्यामी नियामयन्। अतो भ्रमन्ति वचनैरासुरा मोहतत्परैः। तन्मोहने परा प्रीतिर्देवानां परमस्य च। अतो महान्धकारेषु पतन्त्यज्ञानमोहिताः॥”
इत्यादि॥
२२॥
🔗
विष्णोरेव त्रिसञ्ज्ञाः।
वामने च-
“ब्रह्मविष्ण्वीशरूपाणि त्रीणि विष्णोर्महात्मनः। ब्रह्मणि ब्रह्मरूपः स शिवरूपी शिवे स्थितः। पृथगेव स्थितो देवो विष्णुरूपी जनार्दनः॥”
इति ।
🔗
त्रयोऽपि गुणा विष्ण्वाश्रयाः।
तथाऽपि सत्त्वतनौ जीवे श्रेयांसि स्युः॥ २४॥
🔗
मेघरूपत्वाद् धूम उत्तमः॥ २५॥
🔗
सात्त्विकानां वासुदेवे भक्तिरुत्पद्यते॥ २७॥
🔗
भूतेशप्रजेशादीन्॥ २८॥
🔗
आत्ममायया
स्वेच्छया।
सदसद्रूपया
प्रकृत्या च॥ ३१॥
🔗
तया
सदसद्रूपया।
विज्ञानेन विजृम्भितः
विज्ञानसम्पूर्णः॥ ३२॥
🔗
तद्गुणान्
एव
भुङ्क्ते
न दोषान्।
“सर्वत्र सारभुग् देवो नासारं स कदाचन”
इति वामनपुराणे।
“अनश्नन्”🔗आथर्वणोपनिषत् ३/१/१
इत्यशुभापेक्षया परवशत्वापेक्षया कॢप्त्यपेक्षया च।
“अकॢप्त्या च स्वतन्त्रत्वादशुभस्य च वर्जनात्। अभोक्ता शुभभोक्तृत्वाद् भोक्तेत्येव च तं विदुः। अन्यूनानधिकत्वाच्च पूर्णस्वानन्दभोजनात्। विरागाच्च परस्यास्य भोक्तृत्वप्रतिषेधनम्॥”
इति स्कान्दे॥
३४॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे द्वितीयोऽध्यायः॥
🔗
अथ तृतीयोऽध्यायः
🔗
व्यक्त्यपेक्षया
जगृहे
इति।
तथाहि तन्त्रभागवते-
“अहेयमनुपादेयं यद् रूपं नित्यमव्ययम्। स एवापेक्ष्य रूपाणां व्यक्तिमेव जनार्दनः। अगृह्णाद् व्यसृजच्चेति कृष्णरामादिकां तनुम्। पठ्यते भगवानीशो मूढबुद्धिव्यपेक्षया। तमसा ह्युपगूढस्य यत् तमःपानमीशितुः। एतत् पुरुषरूपस्य ग्रहणं समुदीर्यते। कृष्णरामादिरूपाणां लोकव्यक्तिव्यपेक्षया ॥”
इति।
🔗
महदादिभिः सम्भूतम्
अन्तर्गतमहदादि।
न महदादिशरीरम्।
“यस्मिन्नेताः षोडशकलाः प्रभवन्ति”🔗षट्प्रश्नोपनिषत् ६/२
इति श्रुतिः।
🔗
“यत्किञ्चिदिह लोके वै देहबद्धं विशाम्पते। सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः। ईश्वरो हि महद् भूतं प्रभुर्नारायणो विराट्। भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपिच। भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम॥”भारतम् १२/३४७/११-१२
इति मोक्षधर्मे।
🔗
“नासीदहो न रात्रिरासीन्न सदासीत् तन्महद्वपुस्तदाऽभवद् विश्वरूपं सा विश्वरूपस्य रजनी”
इति भाल्लवेयश्रुतिः।
🔗
“न तस्य प्राकृता मूर्तिर्मांसमेदोस्थिसम्भवा। न योगित्वादीश्वरत्वात् सत्यरूपोऽच्युतो विभुः॥”वाराहम् ७५/४४
इति वाराहे।
🔗
“सर्वे नित्याः शाश्वताश्च देहास्तस्य परात्मनः। हानोपादानरहिता नैव प्रकृतिजाः क्वचित्। परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वशः। सर्वे सर्वगुणैः पूर्णाः सर्वे भेदविवर्जिताः। अन्यूनानधिकाश्चैव गुणैः सर्वैश्च सर्वतः। देहिदेहभिदा चैव नेश्वरे विद्यते क्वचित्। तत्स्वीकारादिशब्दस्तु हस्तस्वीकारवत् स्मृतः। वैलक्षण्यान्नवा तत्र ज्ञानमात्रार्थमीरितम्। केवलैश्वर्यसंयोगादीश्वरः प्रकृतेः परः। जातो गतस्त्विदं रूपं तदित्यादि विवक्ष्यते ॥”
इति महावाराहे।
🔗
“एकमेवाद्वितीयम्”,छान्दोग्योपनिषत् ६/२/१
“नेह नानास्ति किञ्चन”,🔗काठकोपनिषत् २/१/११
“एवं धर्मान् पृथक् पश्यन्”🔗काठकोपनिषत् २/१/१४
इत्यादि च।
🔗
तस्यैवास्थूलत्वाद्यैश्वर्ययोगात्।
तथाच कौर्मे-
“अस्थूलश्चानणुश्चैव स्थूलोऽणुश्चैव सर्वतः। अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्तलोचनः। ऐश्वर्ययोगाद् भगवान् विरुद्धार्थोऽभिधीयते। तथाऽपि दोषाः परमे नैवाहार्याः कथञ्चन। गुणा विरुद्धा अपितु समाहार्याश्च सर्वतः॥”
इति।
🔗
विष्णुधर्मोत्तरे च-
“गुणाः सर्वेऽपि युज्यन्ते ह्यैश्वर्यात् पुरुषोत्तमे। दोषाः कथञ्चिन्नैवात्र युज्यन्ते परमो हि सः। गुणदोषौ माययैव केचिदाहुरपण्डिताः। न तत्र माया मायावी तदीयौ तौ कुतो ह्यतः। तस्मान्न मायया सर्वं सर्वमैश्वर्यसम्भवम्। अमायो हीश्वरो यस्मात् तस्मात् तं परमं विदुः॥”
इति॥
१॥
🔗
यस्यावयवसंस्थानैः
“नाभ्या आसीदन्तरिक्षम्”ऋग्वेदसंहिता १०/९०/१४
इत्यादि।
सत्त्वं
साधुगुणम्, ज्ञानबलरूपं वा।
“बलज्ञानसमाहारः सत्त्वमित्यभिधीयते”
इति मात्स्ये॥ ३॥
🔗
निधानम्
अत्रैकीभवन्त्यन्तत इति।
अंशांशेन
सामर्थ्यैकदेशेन।
ब्राह्मे च-
“यच्छक्त्यैकांशसम्भूतं जगदेतच्चराचरम्”
इति॥ ५॥
🔗
“कुमारो नाम भगवान् स्वयं स्वस्मादजायत। दिदेश ब्रह्मणे ब्रह्म ब्रह्मचर्ये स्थितो विभुः। यस्मात् सनत्कुमारश्च ब्रह्मचर्यमपालयत्। यः स्थाणोः स्थाणुतां प्रादाद् भगवानव्ययो हरिः॥”
इति ब्राह्मे॥
६॥
🔗
“अवतारस्तृतीयोऽस्य देवर्षिः प्रथितो दिवि। महिदासस्त्वैतरेयो यस्तन्त्रं नारदेऽवदत्॥”
इति च॥
८॥
🔗
धर्मकलासर्गः धर्मे स्वांशावतारः।
लोकदृष्ट्या
आत्मशमोपेतम्
॥ ९॥
🔗
तन्त्रं
साङ्ख्यं वेदानुसारि।
पाद्मे च-
“कपिलो वासुदेवाख्यस्तन्त्रं साङ्ख्यं जगाद ह। ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च। तथैवासुरये सर्ववेदार्थैरुपबृंहितम्। सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह। साङ्ख्यमासुरयेऽन्यस्मै कुतर्कपरिबृंहितम्॥”
इति॥
१० ॥
🔗
आन्वीक्षिकीं
तत्त्वविद्याम्।
“आन्वीक्षिकी कुतर्काख्या तथैवान्वीक्षिकी परा”
इति मात्स्ये॥ ११॥
🔗
पृथुशरीराविष्टं रूपम्।
“आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः”
इति पाद्मे।
“उश इच्छायाम्।”
सत्यकामः॥ १४॥
🔗
रामात् पूर्वमप्यस्ति व्यासावतारः।
“तृतीयं युगमारभ्य व्यासो बहुषु जज्ञिवान्”
इति कौर्मे॥ २१॥
🔗
आवेशो बलभद्रे।
“शङ्खचक्रभृदीशेशः श्वेतवर्णो महाभुजः। आविष्टः श्वेतकेशात्मा शेषांशं रोहिणीसुतम्॥”
इति महावाराहे॥
२३॥
🔗
“मोहनार्थं दानवानां
बालरूपी पथि स्थितः। पुत्रं तं कल्पयामास मूढबुद्धिर्जिनः स्वयम्। ततः सम्मोहयामास जिनाद्यानसुरांशकान्। भगवान् वाग्भिरुग्राभिरहिंसावाचिभिर्हरिः॥”
इति ब्रह्माण्डे॥
२४॥
🔗
विदासिनः
उन्नतात्, भिन्नाद् वा ।
“त्रिविधाः पुरुषा लोके नीचमध्यविदासिनः”
इति ब्राह्मे ।
“चतुर्धा वर्णरूपेण जगदेतद् विदासितम्”
इति च॥ २६ ॥
🔗
एते
प्रोक्ता अवताराः।
मूलरूपी
कृष्णः स्वयम्
एव।
“जीवास्तत्प्रतिबिम्बांशा वराहाद्याः स्वयं हरिः। दृश्यते बहुधा विष्णुरैश्वर्यादेक एव तु॥”
इति ब्रह्मवैवर्ते॥
२८॥
🔗
एतत्
जडरूपम्।
“नारायणवराहाद्याः परमं रूपमीशितुः। जैवं तु प्रतिबिम्बाख्यं जडमारोपितं हरेः। एवं हि त्रिविधं तस्य रूपं विष्णोर्महात्मनः॥”
इति पाद्मे॥
३०॥
🔗
दृश्यत्वं
जडरूपत्वम्।
“अविज्ञाय परं देहमानन्दात्मानमव्ययम्। आरोपयन्ति जनिमत् पञ्चभूतात्मकं जडम्॥”
इति स्कान्दे॥
३१॥
🔗
अतः परं
जडेश्वरयोः परम्।
अव्यूढगुणबृंहितम्
अनादिकाले कदाचिदप्यनपगतसत्त्वादिगुणबृंहितम्।
अदृष्टाश्रुतवस्तुत्वात् पुनर्भवः॥
३२॥
🔗
अविद्यया
जीवे
कृते
परमेश्वरे प्रतिषिद्धे
इति ब्रह्मदर्शनम्॥
३३॥
🔗
विशारदः परमेश्वरः।
तन्मतिर्माया।
यदा नैनं शोचयामीति
उपरता,
तदा
सम्पन्न एव॥
३४॥
🔗
“अप्रयत्नात् स्वतन्त्रत्वात् फलानां च विवर्जनात्। क्रियायाश्च स्वरूपत्वादकर्तेति च तं विदुः। कर्तृत्वं भ्रान्तिजं प्राहुरतत्तत्त्वविदो जनाः। ऐश्वर्यजं तु कर्तृत्वं सम्यक् तत्तत्त्ववेदिनः॥”
इति पाद्मे॥
३५॥
🔗
“धर्मः कं शरणं गतः”
इत्यस्य तमेव व्यासरूपिणमिति परिहार उच्यते
“इदं भागवतम्”
इत्यादिना॥ ४०॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे तृतीयोऽध्यायः॥
🔗
अथ चतुर्थोऽध्यायः
🔗
निर्विकल्पकः
मदीयं तदीयमिति भेदमपहाय सर्वमीश्वराधीनमिति विज्ञाय स्थितः।
“साम्यमीश्वररूपेषु सर्वत्र तदधीनताम्। पश्यति ज्ञानसम्पत्त्या विनिद्रो यः स योगवित्॥”
इति ब्राह्मे॥
४॥
🔗
तृतीये
द्वापरे युगे पर्यवसानं प्राप्ते सति॥ १३॥
🔗
नित्यज्ञानस्य
चिरदृष्टिर्लोकदृष्ट्यपेक्षया।
“सर्वज्ञोऽप्यज्ञवद् देवः सर्वशक्तिरशक्तवत्। प्रत्यापयति लोकानामज्ञानां मोहनाय च॥”
इति कौर्मे॥
१४॥
🔗
“भारतं ब्राह्मणादीनां वेदार्थपरिवित्तये। त एव वेदास्त्वन्येषां नर्ते तत् कस्यचित् सुखम्॥”
इति स्कान्दे॥
२४॥
🔗
अतोषः= अनलम्बुद्धिः।
“श्रुत्वा कथा न तुष्यामि हरेरद्भुतकर्मणः”
इति मात्स्ये॥ २५॥
🔗
अप्रसादश्च स एव।
“कः प्रसन्नो भवेद् दिव्यां कथां शृण्वन् हरेः पराम्”
इति च॥ २६॥
🔗
आचारापेक्षया धृतव्रतत्वादि परिपूर्णस्य॥ २७॥
🔗
दैह्यः
देहरूपः।
आत्मना विभुः
स्वत एव व्याप्तः।
“तस्य सर्वावतारेषु न विशेषोऽस्ति कश्चन। देहदेहिविभेदश्च न परे विद्यते क्वचित्। सर्वेऽवतारा व्याप्ताश्च सर्वे सूक्ष्माश्च तत्त्वतः। ऐश्वर्ययोगाद् भगवान् क्रीडत्येवं जनार्दनः॥”
इति महासंहितायाम्।
🔗
अवतारप्रयोजनासम्पत्त्या
असम्पन्न इव।
ब्रह्मवर्चसयुक्तानामुत्तमः॥ २९॥
🔗
पुनरपेक्षितत्वात्
न प्रायेण निरूपिताः।
“यथा तु भारते देवो न तथाऽन्येषु केषुचित्। उच्यते न तथाऽपीशं जानन्त्यज्ञा जनार्दनम्॥”
इति स्कान्दे॥
३० ॥
🔗
खेदः= अनलम्बुद्धिः।
“अतुष्टिरप्रसादश्च खेदोऽतृप्तिस्तथैव च। अनलत्वं वदन्त्येते सर्वे पर्यायवाचकाः॥”
इति ब्राह्मे।
🔗
मन्यमानस्य
स्वेच्छया॥ ३१॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे चतुर्थोऽध्यायः॥
🔗
अथ पञ्चमोऽध्यायः
🔗
शारीरमानसयोरभेदादुभयथाऽपि युज्यते।
स्वतन्त्रत्वादात्मनैव ह्यलम्बुद्धिः॥ २॥
🔗
शोचसि
प्रकाशयसि।
“अजस्रेण शोचिषा शोशुचानः”ऋग्वेदसंहिता ७/५/४
इति हि श्रुतिः॥ ४॥
🔗
“ज्ञानशक्तिस्वरूपोऽपि ह्यज्ञाशक्तं वदेद्धरिः। अज्ञानां मोहनायेशस्तेन मुह्यन्ति मोहिताः॥”
इति पाद्मे॥
५॥
🔗
धर्मादीनाल्पकथनेन पूर्तिः।
न वासुदेवमहिम्नोऽतिकथितस्यापि॥ ९॥
🔗
वायसं तीर्थं
वयोमात्रानुजीवि शास्त्रम्॥ १०॥
🔗
परोक्षज्ञानं
न शोभते।
अपरोक्षज्ञानं न भक्त्या विनोत्पद्यते।
“यस्य देवे परा भक्तिः”,🔗श्वेताश्वतरोपनिषत् ६/२३
“यमेवैष वृणुते तेन लभ्यः”,🔗काठकोपनिषत् १/२/२३
“यद् वासुदेवशरणा विदुरञ्जसैव”भागवतम् २/७/१९
इत्यादेः॥ १२॥
🔗
शुचिश्रवाः
विष्णुः।
समाधिना
समाधिभाषया।
स्मरणं ग्रन्थकृतिः।
“स्मरन्ति च”🔗ब्रह्मसूत्रम् २/३/४७
इत्यादेः॥ १३॥
🔗
प्रवृत्तिधर्मकृते॥ १५॥
🔗
अनन्तपारस्य विभोः
सकाशाद् यत्
सुखम्॥
१६॥
🔗
इतरः
अपि भगवान्
विश्वमिव।
स्वातन्त्र्यात्॥ २०॥
🔗
मयि
स्थिते
ब्रह्मणि
स्थीयतामत्रेतीश्वरेच्छया
परिकल्पितम्॥
२७॥
🔗
त्वम्
ईश्वरः
अपि॥
४०॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे पञ्चमोऽध्यायः॥
🔗
अथ षष्ठोऽध्यायः
🔗
“मृगयाजीविनां खेटो वाटी पुष्पोपजीविनाम्। ग्रामो बहुजनाकीर्णो राजराजाश्रयं पुरम्। जलस्थलायति स्फीतं पत्तनं कीर्त्यते बुधैः॥”
इति स्कान्दे॥
११॥
🔗
उभयं
द्वितीयं
नापश्यं
तमेवापश्यम्॥ २१॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे षष्ठोऽध्यायः॥
🔗
अथ सप्तमोऽध्यायः
🔗
शम्यां प्रास्य तत्र शालां कृत्वा यत्र यज्ञः क्रियते स
शम्याप्रासः॥
२॥
🔗
भक्तियोगेन सम्यक् प्रणिहिते
लोकानां
मनसि॥
४॥
🔗
स्वात्मन एव
विप्रियं
न भर्तुः।
प्रयोजनाभावाद् विप्रियमिव च तस्य।
प्रियमिति हि प्रस्वापोक्तम्॥ १४॥
🔗
स्वप्नोऽयम्।
“पार्थानुयातमात्मानं द्रौणिः स्वप्ने ददर्श ह। बन्धनं चात्मनस्तत्र द्रौपद्या चैव मोक्षणम्॥”
इति स्कान्दे।
तस्मान्नैषीकविरोधः॥ १५-५७॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे सप्तमोऽध्यायः॥
🔗
अथ अष्टमोऽध्यायः
🔗
भक्तियोगविधानविषयम्॥ २३॥
🔗
अपुनर्भवं दर्शयति॥ २८॥
🔗
तत्तद्योग्यतया समत्वम्॥ ३१॥
🔗
यर्हि भवतो दर्शनं
तदा यदूनामस्माकं नामरूपे॥ ४१॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धेऽष्टमोऽध्यायः॥
🔗
अथ नवमोऽध्यायः
🔗
“यः पदातिं हन्ति स भवति चातुर्मास्ययाजी यः सादिनं सोऽग्निष्टोमस्य यो हन्ति गजरथौ सोऽश्वमेधराजसूयाभ्याम्”
इत्यादि
शाश्वतं वचः॥
५॥
🔗
“असङ्गश्चाव्यथोऽभेद्योऽनिग्राह्योऽशोष्य एव च। विद्धोऽसृगञ्चितो बद्ध इति विष्णुः प्रदर्श्यते। असुरान् मोहयन् देवः क्रीडयैव सुरेष्वपि। मानुषान् मध्यया दृष्ट्या न मुक्तेषु कथञ्चन॥”
इति स्कान्दे॥
४५॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे नवमोऽध्यायः॥
🔗
अथ दशमोऽध्यायः
🔗
“अमात्या मन्त्रिणो दूताः श्रेणयश्च पुरोहिताः। पुरं जनपदं चेति सप्त प्रणिधयः स्मृताः॥”
इति ब्राह्मे॥
४॥
🔗
“पालनानुग्रहजयान् गौणेऽण्डे संस्थितो हरिः। करोत्यसौ बहिःसंस्थो न करोतीव निर्गुणः॥”
इति पाद्मे।
🔗
अतो
नानुरूपानुरूपाश्च
॥ २०॥
🔗
सत्त्वादिशक्तिषु॥ २२॥
🔗
“श्रीर्भूर्दुर्गेति या भिन्ना जीवमाया महात्मनः। आत्ममाया तदिच्छा सा गुणमाया जडात्मिका॥”
इति महासंहितायाम्।
“अप्रसिद्धेस्तद्गुणानामनामाऽसौ प्रकीर्तितः। अप्राकृतत्वाद् रूपस्याप्यरूपोऽसावुदीर्यते॥”
इति वासुदेवाध्यात्मे॥
२३॥
🔗
सात्त्विकानामनुग्राहकः।
“अगुणोऽपि परो देवो ह्यनुगृह्णाति सात्त्विकान्। देवांस्तु मानवान् मध्यानुपेक्ष्य क्लेश्यतेऽसुरान्॥”
इति ब्रह्मदर्शने।
“सात्त्वतः सात्त्विकस्नेहात् सत्त्वो ह्यानन्दरूपतः”
इति ब्रह्मवैवर्ते।
“धारकत्वाद् धर्मरूपो ह्यैश्वर्यादेर्भगो ह्यसौ। सत्यमानन्दरूपत्वादृतो ज्ञानस्वरूपतः। यशो ह्यलं प्रसिद्धत्वाद् दया हि करुणाकरः॥”
इति तन्त्रभागवते।
🔗
एवंविधगुणस्वरूपाणि
रूपाणि दधद् युगेयुगे
॥ २६॥
🔗
“अग्निपुत्रा महात्मानस्तपसा स्त्रीत्वमापिरे। भर्तारं च जगद्योनिं वासुदेवमजं विभुम्॥”
इति महाकौर्मे॥
३१॥
🔗
स्नेहमात्रात्॥ ३३॥
🔗
गविष्ठः
आदित्यः।
“असौ वाव गविष्ठोऽप्सूदेत्यप्स्वस्तमेति”
इति माध्यन्दिनायनश्रुतिः॥ ३७॥
🔗
कुरूणां मधूनां च
नः
॥ ४६॥
🔗
तदाश्रया बुद्धिः।
तज्ज्ञानिनामपि प्रकृतिस्थानां न तत्सङ्गः किमु तस्येति व्यत्यासदृष्टान्तः।
“व्यत्यासोऽनन्वयश्चैव प्रसिद्धो भूत एव च। सर्वसांहारकश्चेति दृष्टान्तः पञ्चधा स्मृतः॥”
इति ब्राह्मे॥
७५॥
🔗
मतयो यथा
यथामति
मेनिरे॥
७६॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे दशमोऽध्यायः॥
🔗
अथ एकादशोऽध्यायः
🔗
रामो दाशरथिर्यथा
अधिकदृष्टान्तः।
“ऊर्णनाभ्यादिको विष्णोर्विष्णुर्विष्णोस्तथैव च। विष्णुर्जीवस्य दृष्टान्ता ऊनसाम्याधिकाः क्रमात्॥”
इति ब्राह्मे॥
१९॥
🔗
“पूरयन्ति दिशः सोमं देवा गावः सरस्वती”
इति गारुडे॥ ३१॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्ध एकादशोऽध्यायः॥
🔗
अथ द्वादशोऽध्यायः
🔗
“तत् प्राणे प्रपन्न उदतिष्ठत्”ऐतरेयारण्यकम् २/१/४
इति श्रुतिः॥ ५॥
🔗
यदुकुलक्षयम्
एष्यत्।
“शापं श्रुत्वा ब्राह्मणानामुद्धवः खिन्नमानसः। उदासीनं तथा कृष्णमिव सुप्रीतमेव च। नशिष्यमाणं स्वकुलं स्वर्यियासुं च केशवम्। ज्ञात्वा पप्रच्छ भगवत्स्वरूपं तमुपह्वरे। मैत्रेयोऽपि तदैवागाज्जिज्ञासुस्तत्त्वमुत्तमम्। तयोरदात् स भगवान् ज्ञानं निर्मलमञ्जसा। षड्विंशद्वत्सरात् पूर्वं स्वर्गतेः पुरुषोत्तमः। प्रेषयामास च हरिरुद्धवं बदरीमनु। कलापग्रामिणां वक्तुमेतत् तत्त्वमशेषतः। विदुरं तीर्थयात्रास्थमन्तराले स उद्धवः। दृष्ट्वा नशिष्यमाणं च कुलं जिगमिषुं हरिम्। कथयित्वा बदर्यां च कलापग्रामवासिनाम्। प्रोच्य तत्त्वमशेषेण वासुदेवमुखोद्गतम्। षड्विंशद्वर्षगमने पुनरागतिमात्मनः। तेषामुक्त्वा पुनः कृष्णसन्निधौ विचचार ह। मैत्रेयो विदुरायैतदूचिवान् कृष्णचोदितः। विदुरः पाण्डवानां च विना यदुविनाशनम्। षट्त्रिंशद्वर्षतः पूर्वं ज्ञात्वाऽप्यप्रियमेव तत्। नावोचद् विदुरो धीमांस्तस्मान्नाप्रियमावदेत्॥”
इति पाद्मे।
🔗
“तावच्छशास क्षितिमेकचक्रामेकातपत्रामजितेन पार्थः”भागवतम् ३/१/२०
इति चोपरि।
“विदुरं चागतं पुनः”भागवतम् १०/९८/५
इति च।
भारते चैकविंशद्वर्षात् पूर्वं विदुरस्य युधिष्ठिरभाव उक्तः॥ १२॥
🔗
यः
अर्यमा दण्डमबिभ्रत्,
स
वर्षशतं यावच्छूद्रत्वं बभार।
🔗
“न देवानां न देवीनां सामस्त्येन जनिर्भुवि। अंशांशेनैव जायन्ते सर्वे त्वाजानजादयः॥”
१५॥
🔗
“संहर्ता भगवान् विष्णुः काल इत्यभिधीयते। अथवा गुणसर्वस्वं कालशब्दो व्यनक्ति हि॥”
इति स्कान्दे॥
२०॥
🔗
स्वैरज्ञातगतिः
विविक्तगतिः॥ २८॥
🔗
पितरौ
कुन्तीधृतराष्ट्रौ।
नचापश्यत्
तस्य मनसि तेषां विपद्भावो बभूव।
अन्यथा महाभारतविरोधात्।
स्कान्दे च-
“भीमसन्तर्जितो राज्ञस्त्वनुज्ञां प्राप्य यत्नतः। धृतराष्ट्रो वने वासमकरोद् वत्सरत्रयम्। विदुरस्तदिदृक्षार्थमागतेषु वनं पुरा। पाण्डवेषु तु राजानं प्रविश्यैकत्वमागतः। ततो दावाग्निना दग्धं धृतराष्ट्रं च सौबलीम्। श्रुत्वा कुन्तीं च चिन्तां ते प्रापुः पाण्डुसुतास्तदा। तांस्तदा नारदो विद्वान् शमयामास धर्मवित्। उक्त्वोत्तमां गतिं तेषां निष्ठां तात्कालिकीं तथा॥”
इत्यादि॥
३१॥
🔗
ब्रह्माण्डे च-
“धृतराष्ट्रे मृते सूतः सञ्जयः पाण्डुसूनवे। गतिं शशंस कुन्त्याश्च गान्धारीधृतराष्ट्रयोः॥”
इत्यादि।
🔗
पितृव्योऽपि धृतराष्ट्र एव।
🔗
द्विरुक्तिस्तात्यर्पार्थम्।
“यत्राधिकं तत्परता बहुवारमपि ध्रुवम्। तद् वदन्ति महाप्राज्ञा लोकवेदानुसारतः॥”
इति ब्रह्मतर्के॥
३२॥
🔗
पितृव्यौ
गान्धारीधृतराष्ट्रौ॥ ३४॥
🔗
“मुषितोऽस्मि”
इति प्रलापः॥ ३७॥
🔗
क्व गतौ
इत्यदृष्ट्यपेक्षया॥ ४०॥
🔗
अपरिहार्यत्वादशोच्याः॥ ४४॥
🔗
गमनकाले
सह भ्रात्रा॥
५१॥
🔗
आस्ते
इत्याद्यतीतार्थे।
“स एष एतत्त्वध्यास्त आसनं पार्थिवोचितम्”भागवतम् १/१७/४२
इत्यादिवत्।
“सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च। व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन॥”
इति महाव्याकरणे।
“व्यासादयो वर्तमानमतीतानागते तथा। व्यत्यस्यापि वदन्त्यद्धा मोहनार्थं दुरात्मनाम्। पौर्वापर्यं यतो नैव सदैव परिवर्तनात्। अतश्च व्यत्ययादेतद् वदन्ति ज्ञानचक्षुषः॥”
इति ब्राह्मे॥
५३॥
🔗
“विज्ञानात्मा विरिञ्चोऽयं यस्तस्मिल्ँलीयते जगत्। यादांसि सागरे यद्वत् स क्षेत्रज्ञे जनार्दने। हृदिस्थे च स च व्याप्ते स्वात्मन्येकीभवत्युत। प्रलये भेदवन्तौ तु पूर्वोक्तौ ब्रह्मकृष्णयोः। अन्तस्थस्य बहिष्ठे तु तस्य तस्मिन्नभेदतः॥”
इति ब्रह्मवैवर्ते।
🔗
काले तस्य तत्र लयो भविष्यतीति ध्यानमात्रं विलापनम्।
“अविद्यमानमपि यो ध्यायेतैवं विनिश्चितः। उच्यते तस्य कर्तेति तथैव मुनयोऽमलाः। जगद् विलापयामासुरित्युच्यन्तेऽथ तत्स्मृतेः। नच तत्स्मृतिमात्रेण लयो भवति निश्चितम्॥”
इति नारदीये।
🔗
“स्वरूपं जायमानं च आकाशं च घटे द्विधा। स्वरूपं जायमाने तु घटे निर्भेदमेव तु। भिन्नवद् व्यवहारस्य समर्थं तल्लये भवेत्। तद्वदेवावतारेषु देहस्थश्च हरिः स्वयम्। भिन्नवद् व्यवहाराय शक्तो लीने जगत्यपि। स एव पूर्ववज्ज्ञेयो निर्विशेषेण केशवः। जायमानं घटे जाते जायते तल्लये नतु। तस्माद् भिन्नं महाकाशादेवं जीवोऽपि कीर्तितः। उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति। स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पनम्। नचाभिन्नत्वमीशेन चिन्मात्रत्वं च युज्यते॥”
इति ब्रह्मतर्के॥
५५॥
🔗
“त्रिगुणात्मिका तथा ज्ञानं विष्णुशक्तिस्तथैव च। मायाशब्देन भण्यन्ते शब्दतत्त्वार्थवेदिभिः॥”
इति नाममहोदधौ।
🔗
अत्र सत्त्वादयो मायागुणाः॥५६॥
🔗
“परावरे तथैवारादुभयार्थाभिधायिनः”
इति च॥ ५७॥
🔗
एतत् सर्वं पूर्वमेव ज्ञात्वा तस्मादेव कारणाद् विदुरस्तीर्थानि ययौ॥ ६०॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे द्वादशोऽध्यायः॥
🔗
अथ त्रयोदशोऽध्यायः
🔗
मासशब्देनाहान्युच्यन्ते।
तथाहि महाभारते।
“अहस्तु मासशब्दोक्तं यत्र चिन्तायुतं व्रजेत्। एवं वत्सरभाद्यं च विपरीते विपर्ययः॥”
इति नाममहोदधौ
॥ २॥
🔗
अङ्गं
पृथिवीम्।
“यदा त्यागादिरुच्येत पृथिव्याद्यङ्गकल्पना। तदा ज्ञेया नहि स्वाङ्गं कदाचिद् विष्णुरुत्सृजेत्॥”
इति ब्रह्मतर्के॥
८॥
🔗
अग्नौ
पदं करोति।
“यदुलूको वदति मोघमेतद् यत् कपोतः पदमग्नौ कृणोति”ऋग्वेदसंहिता १०/१६५/४
इति हि श्रुतिः॥ १४॥
🔗
यथाऽन्येषां सुखं भविष्यति तथा।
नित्यसुखत्वाद्धरेः।
“अत्युत्तमानां कुशलप्रश्नो लोकसुखेच्छया। नित्यदाऽऽप्तसुखत्वात् तु न तेषां युज्यते क्वचित्॥”
इति नारदीये॥
३४॥
🔗
पूर्वं
चिरोषितः॥
३९॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे त्रयोदशोऽध्यायः॥
🔗
अथ चतुर्दशोऽध्यायः
🔗
यत्पदयोः पतिताया अश्रुप्रधानः।
यैः कबरं स्पृष्टं तत्स्त्रियः।
तत्
पदयोः पतितत्वादेव।
स विमुक्तकेश्यो न्यकृत॥ १०॥
🔗
स रथो हयास्ते
तादृशा इत्यर्थः।
“त इषवः”भागवतम् १/१४/२१
इतीव।
“सदृशे वा प्रधाने वा कारणे वा तदित्ययम्। शब्दः सङ्घटते भेदे विद्यमानेऽपि तत्त्वतः॥”
इति ब्रह्मतर्के।
तद्रथहयानां दाहोक्तेः॥ २१॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे चतुर्दशोऽध्यायः॥
🔗
अथ पञ्चदशोऽध्यायः
🔗
ज्ञानिनां प्रारब्धस्यैव विनिर्मथनं योग्यस्य।
“महता कारणेनैव प्रारब्धान्यपि कानिचित्। कर्माणि क्षयमायान्ति ब्रह्मदृष्टिमतः क्वचित्॥”
इति भविष्यत्पर्वणि।
तेषामपि काम्यकर्मफलदृष्टेश्च॥ १॥
🔗
तमआदिनिरोधश्च प्रारब्धकर्मणैव।
“ज्ञानादिव्यक्तिरव्यक्तिः सुखदुःखादिकं तथा। सुदृष्टब्रह्मतत्त्वानां भवत्यारब्धकर्मणा॥”
इति ब्रह्मवैवर्ते॥
२॥
🔗
ब्रह्मसम्पत्तिः= अवगतिः।
“भगवन्तं विनाऽन्यत्र प्रवृत्त्यादिप्रकाशनम्। प्रारब्धकर्मणैव स्यात् कदाचिज्ज्ञानिनामपि। तां द्वैतदृष्टिं मे देव च्छिन्धि ज्ञानवरासिना॥”
इति ब्राह्मे।
तदेव सञ्छिन्नद्वैतसंशयत्वम्।
लीनप्रकृतित्वं नैर्गुण्यं च लीनप्रकृतिनैर्गुण्यम् तस्मात् असूक्ष्मशरीरत्वाद् अनारब्धकर्ममूलत्वात्।
असम्भवः
पुनरुत्पत्तिवर्जितः।
ज्ञानोदयकाल एवैवंभूतः सन् पुनरध्यगच्छत्।
🔗
“प्रकृतिं स्वात्मसंश्लिष्टां गुणान् सत्वादिकानपि। कर्माणि सूक्ष्मदेहं च जायमाना हरेर्दृशिः। दहेदथापि सन्दग्धेन्धनवत् तत् पुनःपुनः। यावदारब्धकर्म स्यादाविर्वाऽपि तिरो व्रजेत्॥”
इति ब्रह्मतर्के॥
३॥
🔗
पौत्रत्वे योग्यत्वमनवमत्वम्।
“इन्द्राद्युत्तमताऽन्येषां समता वा स्वके कुले। उत्तमत्वमुपास्त्यादियोग्यता वा निगद्यते॥”
इति ब्रह्मतर्के॥
७॥
🔗
प्राणमपाने।
तं व्याने।
समानोदानौ तेषु।
तांश्च मूलप्राणे।
आत्मा= हृदिस्थो विष्णुः।
ब्रह्म= सर्वगतम्।
“उमा वागात्मिका रुद्राज्जाता सा मनआत्मनः। प्राणाह्वयात् स वायोश्च सोऽपानादात्मरूपतः। स्वरूपादेव स व्यानादुदानो व्यानतस्तथा। तस्मात् समानो व्यानाच्चाप्यपानः प्राण एव च। अपानात् तिसृभिश्चापि समानोदानयोर्जनिः। त्रयाणामथ पञ्चानामनाद् वा प्राणतो भवः। एकस्यैव स्वरूपाणि प्राणस्यैतानि पञ्च च। स च प्राणो हरेर्जातो हृदिस्थादात्मनो मतः। स आत्मा ब्रह्मणो जातो विश्वरूपाज्जनार्दनात्। एतेषां ब्रह्मपर्यन्तं विलयोत्पत्तिचिन्तनम्। ब्रह्मयज्ञ इति प्रोक्तः सर्वसंसारमोचकः॥”
इति नारायणाध्यात्मे।
“अस्यास्मिन् विलयो भावीत्येवं विज्ञानमाहुतिः। नतु तत्कालविलयस्त्वन्यो वा तस्य दर्शनात्॥”
इति ब्रह्मतर्के॥
१० – ११॥
🔗
नावर्तेत
वीरगतिम्
॥ १३॥
🔗
आत्मनः
स्वरूपम्
आत्यन्तिकं ज्ञात्वा॥
१५॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे पञ्चदशोऽध्यायः॥
🔗
अथ षोडशोऽध्यायः
🔗
“कोऽसौ”
इत्याक्षेपः।
“कलिम्”
इत्युक्तत्वात्॥ ५॥
🔗
अथ
इति पक्षान्तरे।
वा
यदि॥ ६॥
🔗
अन्यथा चेत्,
आयुषोऽसद्व्ययः
इत्यर्थः।
“यद्यर्थे च विकल्पार्थे वाशब्दः समुदीर्यते”
इति नाममहोदधौ॥
७॥
🔗
एतदर्थं हि
मृत्युः
आहूतः।
अहो नृलोके पीयेत
इति॥ ९॥
🔗
स्निग्धेषु पाण्डुषु विष्णोः
सारथ्यादिभिर्विशेषतो
भक्तिं करोति॥
१७॥
🔗
त्यागः
मिथ्याभिमानवर्जनम्।
“मिथ्याभिमानविरतिस्त्याग इत्यभिधीयते”
इति नारायणाध्यात्मे।
🔗
एकान्ततः शुभभागित्वं सौभाग्यम्।
“शुभैकभागी सुभगो दुर्भगस्तद्विपर्ययः”
इति गीताकल्पे।
🔗
“शमः प्रियादिबुद्ध्युज्झा क्षमा क्रोधाद्यनुत्थितिः। महाविरोधकर्तुश्च सहनं तु तितिक्षणम्॥”
इति पाद्मे।
🔗
“स्वयं सर्वस्य कर्तृत्वात् कुतस्तस्य प्रियाप्रिये”
इति च।
🔗
“प्रियमेव यतः सर्वमप्रियं नास्ति कुत्रचित्। स्वयमेव यतः कर्ता शान्तोऽतो हरिरीश्वरः॥”
इति ब्रह्मतर्के।
🔗
मानः
परेषाम्॥ २७-२९॥
🔗
“गुणैः स्वरूपभूतैस्तु गुण्यसौ हरिरीश्वरः। न विष्णोर्नच मुक्तानां कोऽपि भिन्नो गुणो मतः॥”
इति ब्रह्मतर्के॥
३०॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे षोडशोऽध्यायः॥
🔗
अथ सप्तदशोऽध्यायः
🔗
बिभ्यतमिव
मेहन्तम्॥
२॥
🔗
असतां सूचकस्य न दोषः, तथाऽपि सतां न सूचनीयमिति दर्शयितुम्।
ज्ञातुं शक्यत्वाच्च राज्ञः।
“यद्यधर्मः कृतः सद्भिः स न वाच्यः कथञ्चन। असत्कृतमधर्मं तु वदन् धर्ममवाप्नुयात्॥”
इति व्यासस्मृतौ॥
२१॥
🔗
तस्य गोचरत्वेऽपि भूतानामगोचरेति ज्ञापयितुं वा॥ २२॥
🔗
ब्रह्मयज्ञा वितानयज्ञाश्च॥ ३२॥
🔗
इष्टात्ममूर्तिः
इच्छातनुः॥ ३३॥
🔗
विहितातिरेकेण
न सेवेत॥
४०॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे सप्तदशोऽध्यायः॥
🔗
अथ अष्टादशोऽध्यायः
🔗
“विज्ञानमात्मयोग्यं स्याज्ज्ञानं साधारणं स्मृतम्”
इति भागवततन्त्रे॥ ३॥
🔗
“सम्यक्स्वरूपाभिव्यक्तिरभावो जननस्य च। अल्पयत्नात् ततो वृद्धिहेतोः सत्सङ्गतिर्वरा॥”
इति वायुप्रोक्ते॥
१३॥
🔗
अनन्तः
देशतः कालतश्च॥ १९॥
🔗
परमहंसाश्रमप्राप्यं
सत्यं
ब्रह्म॥ २२॥
🔗
“स्वतो मनःस्थितिर्विष्णौ ब्रह्मभाव उदाहृतः”
इति ब्रह्माण्डे॥ २६॥
🔗
“अप्रीतिर्मद्वशो नायमिति मत्सर ईरितः”
इति नाममहोदधौ॥ २९॥
🔗
कौशिकी
कुशपाणिः॥ ३६॥
🔗
“सेना पराकिणी प्रोक्ता वरूथो गुप्तिरुच्यते”
इत्यभिधानम्॥ ४३॥
🔗
“विड् राष्ट्रं पशुरुत्सेको भ्रमरश्चेति कथ्यते”
इति च॥ ४४॥
🔗
स्वकृतो गुणस्तस्यैव यतः॥ ५०॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धेऽष्टादशोऽध्यायः॥
🔗
अथ एकोनविंशोऽध्यायः
🔗
गङ्गायामुदक एव किञ्चिद्दक्षिणभागे प्रासादे।
तथाहि महाभारते॥ १७॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्ध एकोनविंशोऽध्यायः॥
🔗
अथ विंशोऽध्यायः
🔗
“कैशोरयौवनाभ्यन्तःकाल आपीच्यमुच्यते”
इत्यभिधानम्॥ ४॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धे विंशोऽध्यायः॥
🔗
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भागवततात्पर्यनिर्णये प्रथमस्कन्धः सम्पूर्णः॥
Loading…