ब्रह्मसूत्रानुव्याख्यानम्

अनुव्याख्यानम्
विषयानुक्रमणिका
समन्वयाध्यायः
प्रथमः पादः
मङ्गलाचरणम्
ॐ॥ नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः। अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि॥ १॥ तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव। विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव॥ २॥
उपोद्घातः
प्रादुर्भूतो हरिर्व्यासो विरिञ्चिभवपूर्वकैः। अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम्॥ ३॥ गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः। यतस्तदुदितं मानमजादिभ्यस्तदर्थतः॥ ४॥ वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता। आप्तवाक्यतया तेन श्रुतिमूलतया तथा॥ ५॥ युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत्। दृश्यते ब्रह्मसूत्राणामेकधाऽन्यत्र सर्वशः॥ ६॥ अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते। स्वयङ्कृताऽपि तद्व्याख्या क्रियते स्पष्टतार्थतः॥ ७॥
जिज्ञासाधिकरणम्
तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते। सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः॥ ८॥
॥ ॐ अथातो ब्रह्मजिज्ञासा ॐ॥
ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम्। स एव ब्रह्मशब्दार्थो नारायणपदोदितः॥ ९॥ स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः। भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि॥ १०॥ स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते। “ज्ञानी प्रियतमोऽतो मे”भागवतम् ११/१९/३ ‘तं विद्वानेव चामृतः’॥ ११॥ तैत्तिरीयारण्यके ३/१२/७ ‘वृणुते यं तेन लभ्यः’ काठकोपनिषत् १/२/२३ इत्याद्युक्तिबलेन हि। जिज्ञासोत्थज्ञानजात् तत्प्रसादादेव मुच्यते॥ १२॥ “द्रव्यं कर्म च कालश्च स्वभावो जीव एव च। यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया॥” १३॥भागवतम् २/१०/१२ ‘नर्ते त्वत् क्रियते किञ्चित्’ ऋग्वेदसंहिता १०/११२/९ इत्यादेर्न हरिं विना। ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्यापि हि क्वचित्॥ १४॥
अद्वैतनिरासः
“अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः। आनन्ददश्च मुक्तानां स एवैको जनार्दनः॥” १५॥ इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते। मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः॥ १६॥ मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेत्। मिथ्या-याः साधकत्वं च न सिद्धं प्रतिवादिनः॥ १७॥ तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया। सता चेद् द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम्॥ १८॥ साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता। स्वीकृतं ह्यविशेषस्य साध्यासाधकता पुनः॥ १९॥ तच्चाविशेषमानेन साध्यमित्यनवस्थितिः। अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता॥ २०॥ तस्माद् व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता। व्यावहारिकमेतस्मात् सत्यमित्येव चागतम्॥ २१॥ व्यवहारसतश्चापि साधकत्वं तु पूर्ववत्। सत्त्रैविध्यं च मानेन सिद्ध्येत् केनेति पृच्छ्यते॥ २२॥ तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन। वैलक्षण्यं सदसतोरप्येतेन निषिध्यते॥ २३॥ वैलक्षण्यं सतश्चापि स्वयं सद्-भेदवादिनः। असतश्चापि विश्वस्य ते-नानिष्टं कथं भवेत्॥ २४॥ यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः। सन्मात्रत्वं ब्रह्मणोऽपि तस्मात् तदपि नो भवेत्॥ २५॥ ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः। विज्ञातस्यान्यथा सम्यग् विज्ञानं ह्येव तन्मतम्॥ २६॥ असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि। तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते॥ २७॥ अन्यथात्वमसत् तस्माद् भ्रान्तावेव प्रतीयते। सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता॥ २८॥ तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः। निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेत्॥ २९॥ मिथ्याविशेषोऽप्यज्ञानसिद्धिमेव ह्यपेक्षते। नचावरणमज्ञानमसत्ये तेन चेष्यते॥ ३०॥ अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते। अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति॥ ३१॥ अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने। अनवस्थितिस्तथाच स्यादन्योन्याश्रयताऽथवा॥ ३२॥ स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद् भवेत्। अविद्यादुर्घटत्वं चेत् स्यादात्माऽपि हि तादृशः॥ ३३॥ अतोऽधिकारिविषयफलयोगादिवर्जितम्। अनन्तदोषदुष्टं च हेयं मायामतं शुभैः॥ ३४॥ सत्यत्वात् तेन दुःखादेः प्रत्यक्षेण विरोधतः। न ब्रह्मतां वदेद् वेदो जीवस्य हि कथञ्चन॥ ३५॥ यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत्। ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः॥ ३६॥ सार्वज्ञादिगुणं जीवाद् भिन्नं ज्ञापयति श्रुतिः। ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी॥ ३७॥ उपजीव्यविरोधेन नास्यास्तन्मानता भवेत्। स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि॥ ३८॥ सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः। अवकाशोज्झिता भेदश्रुतिर्नातिबला कथम्॥ ३९॥ अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः। अतो यथार्थबन्धस्य विना विष्णुप्रसादतः॥ ४०॥ अनिवृत्तेस्तदर्थं हि जिज्ञासाऽत्र विधीयते। यथा दृष्ट्या प्रसन्नः सन् राजा बन्धापनोदकृत्॥ ४१॥ एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनम्।
कार्यतावादः
कार्यता च न काचित् स्यादिष्टसाधनतां विना॥ ४२॥ कार्यं नहि क्रियाव्याप्यं निषिद्धस्य समत्वतः। न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि॥ ४३॥ कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते। साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा॥ ४४॥ कार्यं साधनमिष्टस्य भगवानिष्टदेवता। मुख्येष्टं वा सुमनसां ‘प्रेयस्तत्’ बृहदारण्यकोपनिषत् ३/५/२ इति च श्रुतिः॥ ४५॥ “प्राणबुद्धिमनःखात्मदेहापत्यधनादयः। यत्सम्पर्कात् प्रिया आसंस्ततः को न्वपरः प्रियः॥” ४६॥भागवतम् १०/२१/२७ इत्यादिवाक्यैराकाङ्क्षा सन्निधिर्योग्यता यतः। तस्मिन्नेव समस्तस्येतीष्टे व्युत्पत्तिरिष्यते॥ ४७॥ अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपिच। उद्वापाद् वर्तमानत्वादाकाङ्क्षादिबलादपि॥ ४८॥ बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः। आनीयमानदृष्ट्यैव व्युत्पत्तेः सम्भवे सति॥ ४९॥ एष्यदानयनायायं कुत एव प्रतीक्षते। व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति॥ ५०॥ पुनर्दृष्ट्यैव शब्दश्रुत् पश्चाद् व्युत्पत्तिमेष्यति। वर्तमानमतीतं च भविष्यदिति च क्रमात्॥ ५१॥ आकाङ्क्षादियुतं यस्माद् विधेर्व्युत्पादनं कुतः। दृष्ट्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा भविष्यति॥ ५२॥ व्युत्पत्तिः प्रथमा तस्माद् वर्तमानेऽगते ततः। इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते॥ ५३॥ अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम्। क्वापि चेष्टा तदर्था स्यादत्तिर्हि रसवित्तये॥ ५४॥ वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि। नच स्रुक्स्रुववह्न्यादावतात्पर्यं श्रुतेर्भवेत्॥ ५५॥ यत्किञ्चित्करणस्यापि यज्ञतैवान्यथा भवेत्। तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद् भवेत्॥ ५६॥ इतिशब्दोन्नयेऽग्नावित्यप्युन्नीते स्मृतिर्भवेत्। इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम्॥ ५७॥ आत्मानमेवेत्यादीनि योगेऽग्नावपि तत् समम्। एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः॥ ५८॥ वाक्यभेदो न युक्तः स्याद् योगश्च स्यान्महाफले। इति ब्रूयादिति वचो गतमग्नौ समीपगम्॥ ५९॥ कल्पनागौरवं चेत् स्यात् पृथक् तात्पर्यकल्पने। कल्पनागौरवादेव पदार्था न स्युरेव हि॥ ६०॥ प्रमाणावगतत्वं चेत् तात्पर्याणां तथैव हि। तस्मात् पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च॥ ६१॥ पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत्। अवान्तरत्वाद् वाक्यानां वाक्यभेदो न दूषणम्॥ ६२॥ अङ्गीकृतत्वादपि तैः पदानां तु पृथक्पृथक्। क्रियापदेनान्वयस्य वाक्यभेदो हि दूषणम्॥ ६३॥ प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवात्। अतात्पर्यं पदार्थेऽपि न कल्प्यमविरोधतः॥ ६४॥ अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि। मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद् भवेत्॥ ६५॥ कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः।
श्रुतिप्रामाण्यसमर्थनम्
प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि॥ ६६॥ अनवस्थाऽन्यथा हि स्यादप्रामाण्यं तथाऽन्यतः। मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत्॥ ६७॥ न मानमपि वेदानामङ्गीकार्या हि नित्यता। नहि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित्॥ ६८॥ अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपिच। कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत्॥ ६९॥ प्रत्यक्षः कस्यचिद् धर्मो वस्तुत्वादिति चोदिते। न बुद्धो धर्मदर्शी स्यात् पुंस्त्वादित्यनुमाहतिः॥ ७०॥ अधर्मवादिनो वाक्यमप्रयोजनमेव हि। धर्माभावेऽपि नो तेन प्रत्यक्षावगतो भवेत्॥ ७१॥ अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत् प्रमा।
अन्विताभिधानवादः
शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते॥ ७२॥ अतोऽन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा। नचाशक्याभिधायित्वं प्रवृत्तिश्च द्विधाऽन्यथा॥ ७३॥
अतःशब्दार्थः
एतत् सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात्। उक्तं विद्यापृथक्त्वात् तु सङ्क्षेपेणात्र सूचितम्॥ ७४॥ प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः। मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम्॥ ७५॥ ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः। पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात्॥ ७६॥ उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः। अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत्॥ ७७॥ यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपिच। देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम्॥ ७८॥ चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः। प्रत्यक्षेक्षाक्षमः पक्षं कमेवात्राभिवीक्षते॥ ७९॥ तस्मादक्षमपक्षत्वान्मोक्षशास्त्रेऽभ्युपेक्षितः।
ब्रह्मशब्दार्थः
स्वयं भगवता विष्णुर्ब्रह्मेत्येतत् पुरोदितम्॥ ८०॥ “स विष्णुराह हि” इत्यन्ते देवशास्त्रस्य तेन हि। आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम्॥ ८१॥ मध्यं तदाज्ञया शेषपैलाभ्यां कृतमञ्जसा। अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत्॥ ८२॥ दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः। गुणा नारा इति ज्ञेयास्तद्वान् नारायणः स्मृतः॥ ८३॥ ब्रह्मशब्दोऽपि हि गुणपूर्तिमेव वदत्ययम्। अतो नारायणस्यैव जिज्ञासाऽत्र विधीयते॥ ८४॥ सिद्धत्वाद् ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ। “अम्भस्यपारे”महानारायणोपनिषत् १/१ इत्युक्तो नारायणपदोदितः ॥ ८५॥ “आपो नाराः”मनुस्मृतिः १/१० इति ह्याह स एवाप्स्वन्तरीरितः। कामतो विधिरुद्रादिपददात्र्या स्वयं श्रिया॥ ८६॥ योनित्वेनात्मनो “विष्णोस्तिष्ठन्ति”ऋग्वेदसंहिता १/१६४/३६ इत्युदितस्य च। “यस्मिन् देवा अधि”महानारायणोपनिषत् १/२ इत्युक्त्वा समुद्रं स्थानमेव च॥ ८७॥ महानारायणोपनिषत् १/३ नाम चाक्षरमित्येव “ऋचः”ऋग्वेदसंहिता १/१६४/३९ इत्युदितं तु यत्। “यतः प्रसूता”महानारायणोपनिषत् १/४ इत्युक्त्वा च “तदेव ब्रह्म”महानारायणोपनिषत् १/४ चाब्रवीत्॥ ८८॥
जन्माधिकरणम्
॥ ॐ जन्माद्यस्य यतः ॐ॥
अन्तःसमुद्रगं विश्वप्रसूतेः कारणं तु यत्। सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते॥ ८९॥ सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः। बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा॥ ९०॥
विष्णोरेव सर्वनामता
‘यं नामानि विशन्त्यद्धा’ “यो देवानाम्”ऋग्वेदसंहिता १०/८२/३ इति ह्यपि। श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः॥ ९१॥ अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित्। “गुणाः श्रुताः” इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत्॥ ९२॥ प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे। सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि॥ ९३॥ तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः। न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत्॥ ९४॥ दर्शनान्तरमूलत्वान्मोहार्थं चाज्ञया हरेः। न सर्वनामताऽन्येषां श्रुतावुक्ता हि कुत्रचित्॥ ९५॥ अदोषवचनाच्चैव नियमेन हरेः श्रुतौ। अज्ञानं पारतन्त्र्यं च प्रलयेऽभाव एव च॥ ९६॥ अशक्तिश्चोदिताऽन्येषां सर्वेषामपि च श्रुतौ। जन्माद्यस्येति तेनैतद् विष्णोरेव स्वलक्षणम्॥ ९७॥ अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम्। कृष्णध्यानच्छलेनैव स्वयं भागवतेऽब्रवीत्॥ ९८॥
अद्वैतनिरासः
अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः। नहि जन्मादिहेतुत्वं जीवस्य जगतो भवेत्॥ ९९॥ हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः। निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम्॥ १००॥ भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः। कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः॥ १०१॥ सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा। नच मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात्॥ १०२॥ निर्गुणत्वं तदा च स्यादासुरत्वं नचान्यथा। लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम्॥ १०३॥ इति पृष्टे तदैक्यस्य गतिरेव न विद्यते। ऐक्याभेदे न शास्त्रेण ज्ञेयं तत् स्वप्रकाशतः॥ १०४॥ भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद् बलादपि। भेदाभेदौ यदि तदा स्यादेव ह्यनवस्थितिः॥ १०५॥ स्वनिर्वाहकता चेत् स्याद् वाह्यं वाहकमित्यपि। पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च॥ १०६॥ सत्यज्ञानादिकेऽप्येवं न व्यावृत्त्या प्रयोजनम्। व्यावृत्तस्याविशेषत्वे तदखण्डं च खण्डितम्॥ १०७॥ निर्विशेषत्वमेतेन मूकोऽहमितिवद् भवेत्।
विशेषः
अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः॥ १०८॥ विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत्। भेदहीने त्वपर्यायशब्दान्तरनियामकः॥ १०९॥ विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः। विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः॥ ११०॥ स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः। अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते॥ १११॥ “एवं धर्मान्”🔗काठकोपनिषत् २/१/१४ इति श्रुत्या तदभेदोऽप्युदीर्यते।
शास्त्रयोनित्वाधिकरणम्
॥ ॐ शास्त्रयोनित्वात् ॐ॥
शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु॥ ११२॥ तद्वाक्योपमयाऽन्यच्च प्रमाणत्वेऽनुमीयते। ईशवाक्यत्वत इति चेत् तद्गव्यभिचारिणा॥ ११३॥ अप्रामाण्यानुमा च स्यान्न पृथक् चानुमेश्वरे। पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना॥ ११४॥ शास्त्रयोनित्वमेतेन कारणस्य बलाद् भवेत्। “नावेदवित्”तैत्तिरीयारण्यकम् ३/१२/९/१७ ‘न तर्केण मतिः’ 🔗काठकोपनिषत् १/२/९ इत्यादिवाक्यतः॥ ११५॥ तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन। वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः॥ ११६॥ किञ्चिज्ज्ञत्वं हि पुंस्त्वेन शक्यं साधयितुं सुखम्। वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत्॥ ११७॥ इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः। शक्तं विज्ञापने चातिप्रसङ्गोऽनुमयेदृशा॥ ११८॥ वस्तुत्वात् तुरगः शृङ्गी पुष्पवत् खं सुतैर्युता। चित्रिणी च रसः षष्ठो रसत्वात् सोत्तरो भवेत्॥ ११९॥ उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः।
समन्वयाधिकरणम्
॥ ॐ तत् तु समन्वयात् ॐ॥
त एवान्वयनामानः तैः सम्यक् प्रविचारिते॥ १२०॥ मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः।
ईक्षत्यधिकरणम्
अद्वैतनिरासश्च
॥ ॐ ईक्षतेर्नाशब्दम् ॐ॥
ईक्षणीयत्वतो विष्णुर्वाच्य एव नचान्यथा॥ १२१॥ लक्ष्यत्वं क्वापि दृष्टं हि किं तदित्यनवस्थितिः। माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा॥ १२२॥ वाक्यार्थोऽपि हि वाक्यार्थशब्देनैवोदितो भवेत्। नावाच्यं तेन किञ्चित् स्याद् यत इत्यादिकैर्वदन्॥ १२३॥ अवाच्यत्वं कथं ब्रूयान्मूकोऽहमितिवत् सुधीः। येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदत्॥ १२४॥ एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम्। महती जायते लज्जा यत्र तत्राखिला रवाः॥ १२५॥ अमुख्यार्था इति वदन् यस्तन्मार्गानुवर्तिनाम्। कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः॥ १२६॥
॥ ॐ गौणश्चेन्नात्मशब्दात् ॐ॥ ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ॥
आत्मब्रह्मादयः शब्दाः साक्षात् पूर्णाभिधायिनः। जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा॥ १२७॥ वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि। कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः॥ १२८॥ आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम्। आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पना॥ १२९॥ स्यात् सर्वत्र च यत्रैकमपि लोको जुगुप्सते। नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते॥ १३०॥ अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः। अन्धन्तमो नित्यदुःखं तस्य स्याद् वसनद्वयम्॥ १३१॥ “अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः। तांस्ते प्रेत्याभिगच्छन्ति येऽविद्वांसो बुधो जनाः॥” १३२॥बृहदारण्यकोपनिषत् ६/४/११ “असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः। तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥” १३३॥🔗ईशावास्योपनिषत् ३ इत्यादिश्रुतयो मानं शतशोऽत्र समन्ततः।
॥ ॐ हेयत्वावचनाच्च ॐ॥
हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः॥ १३४॥ ‘तमेवैकं जानथान्या वाचो मुञ्चथ च’ 🔗आथर्वणोपनिषत् २/२/६ इति ह। उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः॥ १३५॥ परिवारतया ग्राह्या अपि हेयाः प्रधानतः।
॥ ॐ स्वाप्ययात् ॐ॥
“पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते”॥ १३६॥बृहदारण्यकोपनिषत् ७/१/१ इति स्वस्यैव पूर्णस्य पूर्णेऽप्यय उदाहृतः। कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत्॥ १३७॥
॥ ॐ श्रुतत्वाच्च ॐ॥
पदं च निर्गुण इति कथं गौणं वदिष्यति। गुणाभावोपलक्ष्यं चेत् पदं तदपि वाचकम्॥ १३८॥ अतोऽनवस्थितिमुखसर्वदोषमहास्पदम्। कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः॥ १३९॥ नच साङ्ख्यनिराकृत्यै सूत्राण्येतान्यचीकॢपत्। भगवान् नह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ॥ १४०॥ समन्वये प्रतिज्ञाते शब्दगोचरतैव हि। प्रथमप्रतिपाद्या स्यात् तदभावे कुतोऽन्वयः॥ १४१॥ कथं च लक्षणावादी ब्रूयाद् ब्रह्मसमन्वयम्। योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात् समन्वयः॥ १४२॥ जन्मादिकारणे साक्षादाह देवः समन्वयम्। उक्तं तदेव जिज्ञास्यं क्वावकाशोऽत्र निर्गुणे॥ १४३॥ कथं चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ। मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम्॥ १४४॥ अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन। तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम्॥ १४५॥ वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखिलोत्तमम्। विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः॥ १४६॥ निर्गतं मनसो वाचो यदि तत् स्यादगोचरम्। अस्तु तन्मा वदेद् वादी नचास्मच्छास्त्रगं तु तत्॥ १४७॥ अवाच्यं वाच्यमित्युक्त्वा किमित्युन्मत्तवन्मृषा। अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः॥ १४८॥ जन्मादिकारणं यत् तत् साक्षान्नारायणाभिधम्। वदन्ति श्रुतयो ब्रह्म शास्त्रं चैतत् तदर्थतः॥ १४९॥ प्रवृत्तमस्त्ववाच्यं ते नैवं ब्रूयाः कथञ्चन। सर्वशब्दैरवाच्यं तदुक्त्वा तद्विषयं पुनः॥ १५०॥ शास्त्रं वदन्तमुन्मत्तं कथं लोको न वारयेत्। मा वदो मा विजानीहि त्यजास्मच्छास्त्रचोरताम्॥ १५१॥ वयं त्वां श्रुतियुक्तिभ्यां बद्ध्वाऽस्मच्छास्त्रमञ्जसा। विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम्॥ १५२॥ “अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च। अनन्तगुणपूर्णत्वात्” इत्यूदे पैङ्गिनां श्रुतिः॥ १५३॥ अवाच्यमिति लोकोऽपि वक्त्याश्चर्यतमं भुवि।
अध्यायार्थः, पादार्थश्च
॥ ॐ आनन्दमयोऽभ्यासात् ॐ॥
एवं शास्त्रावगम्यत्वे विभागेन समन्वयम्॥ १५४॥ आनन्दमय इत्यादिनाऽध्यायेन वदत्यजः। तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम्॥ १५५॥ शब्दानां प्रथमे पादे — — —
आनन्दमयाधिकरणम्
— — — गुणिसामान्यवाचिनाम्। गुणवाचिनां च प्रथममाह देवः समन्वयम्॥ १५६॥ समुद्रशायिनं सर्वप्रसूतिप्रभवं श्रुतिः। “तदेव ब्रह्म परमम्”महानारायणोपनिषत् १/६ इति सावधृतिर्जगौ॥ १५७॥ यतोऽतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः। “येऽन्नं ब्रह्म”🔗तैत्तिरीयोपनिषत् २/२ इत्यादिरूपादभ्यासात् तैत्तिरीयके॥ १५८॥ अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः। आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम्॥ १५९॥ उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम्। सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये॥ १६०॥ पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम्। ‘सर्वे वेदा आमनन्ति यत् पदं तु’ 🔗काठकोपनिषत् १/२/१५ इति हि श्रुतिः॥ १६१॥ आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः। समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि॥ १६२॥ ब्रह्मशब्दस्य चाभ्यासात् पञ्चरूपादिषु स्फुटम्। ब्रह्मताऽवयवेऽपि स्यात् तथाऽवयविनि स्वतः॥ १६३॥ यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताऽखिला। दर्शिता चैव पार्थाय निःसीमाः शक्तयोऽस्य हि॥ १६४॥
तापनीयश्रुत्यर्थः
“ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्”।तापनीयश्रुतौ १/१३ विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत् प्रति॥ १६५॥ विरूपाक्षाख्यमपरं ब्रह्मोक्तं तद्व्रते स्थितम्। समानाधिकृतत्वं चेदुत्तरं नीललोहितम्॥ १६६॥ कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति। ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ पुरः॥ १६७॥ स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति। “स्वाहेन्द्रशत्रुर्वर्धस्व”मैत्रायणीसंहिता २/४/३ यद् बहुव्रीहितामगात् ॥ १६८॥ तस्मादस्येन्द्र एवाभूच्छत्रुरित्युत्तरश्रुतेः। “पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति” ॥ १६९॥ महाव्याकरणे सूत्रमिति स्वरविनिर्णये। ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका॥ १७०॥ विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा। तस्माद् विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः॥ १७१॥ ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोऽवसितो भवेत्। “ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः॥ १७२॥ ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः।” इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा॥ १७३॥ आथर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ। “तदेवर्तम्”महानारायणोपनिषत् १/६ इति प्राह कथमेवान्यथा श्रुतिः॥ १७४॥ अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा। “एको नारायण आसीन्न ब्रह्मा नच शङ्करः”॥ १७५॥ ‘वासुदेवोऽग्र एवासीन्न ब्रह्मा नच शङ्करः। नेन्द्रसूर्यौ नच गुहो न सोमो न विनायकः॥’ १७६॥ इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा। मुख्यं ब्रह्म हरिस्तस्मात् प्रस्तावः परमित्यपि॥ १७७॥ मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित्। असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत्॥ १७८॥
इतरसूत्रार्थः – अधिकरणश्रुत्यर्थश्च
॥ ॐ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॐ॥
प्राचुर्यार्थाश्च मयटः सर्वेऽत्र प्रतिपादिताः। भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः॥ १७९॥ महाभोक्ता महाभोग्य इत्यर्थोऽन्नमये भवेत्। महाप्राणो महाबोधो महाविज्ञानवानपि॥ १८०॥ विशेषसामान्यतया विज्ञानं मन इत्यपि। एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः॥ १८१॥ अभेदेऽपि विशेषेणैवान्य इत्युदितो हरिः। “भेदशब्दा विशेषं तु हरावन्यत्र भिन्नताम्॥ १८२॥ ब्रूयुर्हरेर्जीवजडैरपि भेदं हि मुख्यतः।” ब्रह्मतर्कवचोऽप्येवं अत एकः स पञ्चधा॥ १८३॥ उक्तोऽन्नमय इत्यादि भृगोश्चैतद् वदिष्यति। प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते॥ १८४॥ प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि। उच्यते ह्यविशेषेण नान्यत् किञ्चिदिहोच्यते॥ १८५॥
॥ ॐ तद्धेतुव्यपदेशाच्च ॐ॥
महानन्दत्व एवास्य हेतुः ‘कोऽन्यात्’ 🔗तैत्तिरीयोपनिषत् २/७ इति स्फुटम्। उक्तः श्रुत्यन्तरे यस्मात् ‘सुखं लब्ध्वा करोत्ययम्॥ १८६॥ करोति नासुखी’ छान्दोग्योपनिषत् ७/२/७ ‘भूमा सुखं नाल्पे सुखं भवेत्।’ छान्दोग्योपनिषत् ७/२/८ इत्युक्तं यत्प्रवृत्तिश्च नृत्तगानादिका सुखात्॥ १८७॥ दुखाद् रोदादिका चैव सर्वकर्तृत्वतोऽस्य च। सर्वशक्तेर्न दुःखं स्यादतः केवललीलया॥ १८८॥ प्रवर्तको न चेदेष प्राण्यादन्याच्च कः पुमान्।
॥ ॐ मान्त्रवर्णिकमेव च गीयते ॐ॥
‘ब्रह्मवित् परमाप्नोति’ 🔗तैत्तिरीयोपनिषत् २/१ इति यत् प्रथमसूचितम्॥ १८९॥ तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत्। लक्षितं तत्र सत्यत्वं सृष्ट्याऽन्नप्राणयोरपि॥ १९०॥ उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम्। अनन्तत्वं तथाऽऽनन्दमयवाचाऽप्युदाहृतम्॥ १९१॥ सद्भावं यापयेद् यस्मात् सत्यं तत् तेन कथ्यते। इति सृष्टिरिह प्रोक्ता जगत्सद्भावयापकम्॥ १९२॥ ब्रह्मेति स्थापनायैव सत्त्वं जीवनमेव च। विशीर्णता च सत्त्वं स्यात् सन्नमित्याहुरेव यत्॥ १९३॥ अतोऽद्यतात्तृतान्नत्वं सत्यशब्दार्थ एव हि। प्राणं देवा अनुप्राणन्ति मनुष्या पशवश्च ये॥ १९४॥ आयुः प्राणो हि भूतानामिति यद् गतिजीवने। उक्ते सदिति धात्वर्थो गतिश्चातो हि सत्यता॥ १९५॥ प्राणत्वमवबोधार्थो मनुधातुः प्रकीर्तितः। नाल्पे सुखमिति प्रोक्त्यैवानन्दमयतोक्तितः॥ १९६॥ अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके। अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया॥ १९७॥ क्रियते परया यस्मात् — — — — — —
॥ ॐ नेतरोऽनुपपत्तेः ॐ॥
— — — — — — इतरोऽत्र न कथ्यते। ‘पुरुषं वेत्ति यो मुच्येन्नान्यः पन्था हि विद्यते’॥ १९८॥ तैत्तिरीयारण्यके ३/१२/७ इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति। “पुरुषः पर आत्माऽजो ब्रह्म नारायणः प्रभुः॥ १९९॥ महानानन्द उद् विष्णुर्भग ओम इतीर्यते। स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित्॥ २००॥ तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते। सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः॥” २०१॥ इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद् विमुच्यते। ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च॥ २०२॥ तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुर्विधाम्। भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः॥ २०३॥ हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च। आ समन्तात् काशते यदाकाशो मुख्यतो हरिः॥ २०४॥ बलज्ञानस्वरूपत्वाद् वायुरग्निरगं नयन्। आप आपालनाच्चैव पृथिवी प्रथितो यतः॥ २०५॥ उष्टानामाश्रयत्वेन स एवौषधिनामकः। ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत्॥ २०६॥ पुरि शेते यतः सोऽथ पुरुषश्चेति गीयते। क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः॥ २०७॥ आकाशादिषु नान्याऽस्ति ह्यभिमानोऽभिमानिनः। अभिमानिशरीरस्य साक्षाद् भूतस्य चोद्भवः॥ २०८॥ एवं देहादिपर्यन्तमागतं हरिमेव तु। परामृशति तस्यैव पञ्चरूपत्ववित्तये॥ २०९॥ त्यक्त्वा भूतादिकं सर्वं “स वा एषः”🔗तैत्तिरीयोपनिषत् २/२ इति श्रुतिः। स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः॥ २१०॥ सारान्नमय एवायं न लोकान्नमयः प्रभुः। इति तं रसशब्देन विशिनष्टि शरीरगम्॥ २११॥ इदमित्येव निर्देशो वस्त्रप्रावृतवद् विभोः। शिरआदेर्भवेज्जीवशिरआदौ व्यवस्थितेः॥ २१२॥ तं विदित्वाऽस्य मुक्तिः स्यान्नान्यज्ञानात् कथञ्चन।
॥ ॐ भेदव्यपदेशाच्च ॐ॥
आदित्ये पुरुषे चायमिति भेदोपदेशतः॥ २१३॥ नास्याभेदोऽस्ति जीवेन — — — — — — —
॥ ॐ कामाच्च नानुमानापेक्षा ॐ॥
— — — — — — — नानुमा कामचारिणी। विमतानि शरीराणि मद्भोगायतानानि यत्॥ २१४॥ शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्षते। प्रत्यक्षादिविरुद्धत्वादक्षागमभयोज्झिता॥ २१५॥ अनुमा कामवृत्ता हि कुत्र नावसरं व्रजेत्। जड आत्मैव वस्तुत्वात् प्रमेयत्वाज्जडं चितिः॥ २१६॥ घन आकाश इत्याद्या वार्यन्ते केन हेतुना। न जीवभेदसूत्राणां शङ्क्याऽत्र पुनरुक्तता॥ २१७॥ वाक्यान्तरद्योतकत्वात् पृथगित्यत्र पूर्णता।
॥ ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ॥
योगमन्नमयाद्यैर्यत् फलत्वेनास्य शंसति॥ २१८॥ स्थानद्वयेऽप्यतः कोशा एत इत्यतिसाहसम्।
अद्वैतादिवादिभिरुक्तार्थनिरासः
उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति॥ २१९॥ अतिक्रमं वदन्तं तमुपशब्दो निवारयेत्। अश्रुतस्यातिशब्दस्य स्थानं दद्यात् कथं पुनः॥ २२०॥ श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम्। मृतावेव परित्यागः कृतो ह्यन्नमयस्य च॥ २२१॥ “येऽन्नं ब्रह्म”🔗तैत्तिरीयोपनिषत् २/२ इत्याद्युपासां सामानाधिकरण्यतः। उक्त्वा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी॥ २२२॥ स्थानद्वयगता वेदवाणी तदपलापिनाम्। तमसोऽन्यत्र संस्थानं कथमेव सहेत सा॥ २२३॥ “अधीहि भगवो ब्रह्म”🔗तैत्तिरीयोपनिषत् ३/१ इत्युक्तोऽन्नप्राणपूर्वकम्। आह ब्रह्म कथं तन्न द्वारं तदिति वादिनः॥ २२४॥ उपसत्तिं कथं विद्युरुपसन्नाय हि त्रिशः। वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा॥ २२५॥ सकृद् वेत्यागमा ब्रूयुः सम्प्रदायविदोऽपिच। तद् यत्किञ्चित् कथं ब्रूयादुपसन्नाय दिक्पतिः॥ २२६॥ न वदेद् ब्रह्म च कथं मायावी नहि वारिराट्। चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते॥ २२७॥ वचनादेव वाग् ब्रह्म सृष्टिस्थित्यादिकारणम्। तच्च वाधूलशाखायामष्टरूपमुदाहृतम्॥ २२८॥ विज्ञानानन्दसहितं पृथक् सृष्ट्यादिलक्षणैः। आवापोद्वापतः शाखा यत आहुः परं पदम्॥ २२९॥ ‘यतो भूतानि जायन्ते’ 🔗तैत्तिरीयोपनिषत् ३/१ इत्याद्यैर्लक्षणैः स्वयम्। लक्षितं गुरुणा पश्चात् तपसैवापरोक्षितम् ॥ २३०॥ दृष्ट्वैकैकस्वरूपं तु समस्तोक्तानुदर्शनम्। इच्छताऽऽज्ञां गुरोः प्राप्य तपसैवापरोक्षितम्॥ २३१॥ अब्रह्मेत्येव वदतां श्रुताहान्यश्रुतग्रहौ। साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु॥ २३२॥ समीपे सहभोगस्य मुक्तित्वेनोक्तितोऽसकृत्। भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत्॥ २३३॥ एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात्। तदन्येषां मतमपि सत्संसत्सु न भासते॥ २३४॥
अधिकरणोपसंहारः
अतो नारायणो देवो निःशेषगुणवाचकैः। गुणिसामान्यवचनैरपि मुख्यतयोदितः॥ २३५॥ अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः। अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः॥ २३६॥
पूर्वाधिकरणसङ्गतिः
जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये। ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः॥ २३७॥ अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः। शब्दप्रवृत्तिहेतूनां तस्मिन् मुख्यसमन्वयात्॥ २३८॥ अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा। तद्वाचकत्वं शब्दानां बहुलातिप्रयोगतः ॥ २३९॥ रूढमित्येव साध्यं स्याद् रूढिर्हि द्विविधा मता। अविद्वद्विद्वदाप्त्यैव मुख्या हि विदुषां तु सा॥ २४०॥ विद्वद्रूढिर्वैदिका स्यात् सा योगादेव लभ्यते। तस्मान्मुख्यार्थता विष्णोरिति कृत्वा हृदि प्रभुः॥ २४१॥ समन्वयं साधयति — —-
अन्तस्थत्वाधिकरणम्
॥ ॐ अन्तस्तद्धर्मोपदेशात् ॐ॥
— — — देवानां तत्र शक्तताम्। आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम्॥ २४२॥ समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम्। साधयित्वाऽभिदां तैश्च पुनरेव न्यवारयत्॥ २४३॥
आकाशाधिकरणम्
॥ ॐ आकाशस्तल्लिङ्गात् ॐ॥
चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादतः। अचेतनस्वभावस्तु विवरादिः कथं ततः॥ २४४॥ इति शङ्कानिवृत्यर्थमाकाश इति नाम च। परतोऽपिवरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत्॥ २४५॥ नभो ददाति श्वसतां मार्गं यन्नियमाददः। इत्यादिवाक्यैः — — —
प्राणाधिकरणम्
॥ ॐ अत एव प्राणः ॐ॥
— — अध्यात्ममन्वयव्यतिरेकतः॥ २४६॥ प्राणादिहेतुतादृष्टेरतिदेशो हि तादृशः। लिङ्गं बलवदेव स्यात् प्रेरकोऽस्यापि यद्धरिः॥ २४७॥
गायत्र्यधिकरणम्
॥ ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथाहि दर्शनम् ॐ॥
नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः। कथं प्रसिद्धबहुलशब्दानामन्यथार्थता॥ २४८॥ इति चेत् तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः। तादृशत्वाच्च तच्छक्तेः —- —
अन्तिमप्राणाधिकरणम्
॥ ॐ प्राणस्तथाऽनुगमात् ॐ॥
— — बाहुल्ये श्रुतिलिङ्गयोः॥ २४९॥ अन्यस्य मुख्यवाच्यत्वमिति तन्नात्रगस्य हि। विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः॥ २५०॥ प्राणसंवादपूर्वाणि मुख्यतो जीवगानि च। अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि॥ २५१॥
पादोपसंहारः
तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः। एको नारायणो देवो भण्यते नात्र संशयः॥ २५२॥ वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः। अथवा पञ्चमूर्तिः स प्रोक्तोऽधिकरणं प्रति॥ २५३॥ प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा। तैस्तैर्युक्तिश्रुतिन्यायविशेषैर्योग्यता यथा॥ २५४॥ बृहत्तन्त्रप्रमाणेन बह्वर्थमपि सङ्ग्रहात्। उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः॥ २५५॥ ग्रन्थोऽयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम्। बहुज्ञा एव जानन्ति विशेषेणार्थमेतयोः। तस्मान्महागुणो विष्णुर्नाम्नामपुनरुक्तितः॥ २५६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः॥
द्वितीयः पादः
पादार्थः
ॐ॥ लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे। चिन्त्यते — — — — — — — — —
सर्वगतत्वाधिकरणम्
॥ ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ॥
— सर्वगत्वं तु प्रथमं प्रविचार्यते॥ १॥ तत्रतत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः। दूरतोऽप्यतिशक्तः स लीलया केवलं प्रभुः॥ २॥ इति ज्ञापयितुम् — — — — — —
॥ ॐ कर्मकर्तृव्यपदेशाच्च ॐ॥
— — — कर्मकर्त्रोरुत्सर्गतो भिदा। अभेदोऽपि विशेषे स्याद् बली सोऽप्यनपोदितः॥ ३॥
विषयमाला
एतद् भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम्। अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते॥ ४॥ अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा।
अत्तृत्वाधिकरणम्
क्रियानित्यत्वसमर्थनम्
॥ ॐ अत्ता चराचरग्रहणात् ॐ॥
अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता॥ ५॥ इति चेत् स विशेषोऽपि क्रिया-शक्त्यात्मना स्थिरः। शक्तिता व्यक्तिता चेति विशेषोऽपि विशेषवान्॥ ६॥ अभिन्नोऽपि ‘क्रियादिश्च स्वभावः’ 🔗श्वेताश्वतरोपनिषत् ६/८ इति हि श्रुतिः। “ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः॥ ७॥ नित्यानन्दोऽव्ययः पूर्णो भगवान् विष्णुरच्युतः।” इति पैङ्गिश्रुतिश्चाह “शक्तिसद्भाव एव तु॥ ८॥ क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता।” इति सत्तत्त्ववचनम् — —
गुहाधिकरणम्
॥ ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ॥
— — — — द्वित्वं चैकस्य युज्यते॥ १०॥
॥ ॐ विशेषणाच्च ॐ॥
यः सेतुरिति चैकत्ववचनेन विशेषणात्।
अन्तरधिकरणम्
॥ ॐ अन्तर उपपत्तेः ॐ॥
अन्तःस्थित्वा रमणकृदन्तरः स उदाहृतः ॥ ११॥ रमणं चात्मशब्देनादेयं मातीति चोच्यते।
॥ ॐ सुखविशिष्टाभिधानादेव च ॐ॥
विशिष्टसुखवत्वाच्च ब्रह्मत्वं च विशिष्टता॥ १२॥
॥ ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ॥
अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत्। चेतनानां विशेषो यः स्वभावोऽपीश्वरार्पितः॥ १३॥ अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ। ईश्वरश्चेन्नियन्ता स्यात् स एव प्रथमागतः॥ १४॥ किमित्यपोद्यते कस्माद् वृथाऽवस्थितिकल्पना। दोषवत्येव तस्मात् सा नैैव कार्या कथञ्चन॥ १५॥
अन्तर्याम्यधिकरणम्
॥ ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ॥
रमणं नातियत्नस्य विक्षेपादेव युज्यते। इति चेत् सर्वनियमो यस्य कस्मान्न शक्यते॥ १६॥ स्वात्मनाऽनियतं वस्तु प्रतीपं ह्यात्मनो भवेत्। स्वाधीनसत्ताशक्त्यादि कथमात्मप्रतीपकम्॥ १७॥
अदृश्यत्वाधिकरणम्
अभावविचारः
॥ ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ॥
गुणक्रियादयो भावा यदि वा स्युरभेदिनः। अभेदोऽभावधर्माणां ब्रह्मणा युज्यते कथम्॥ १८॥ नाभावो भाव इति च विशेषः प्रायशो भवेत्। अतद्भावोऽन्यता चेति न विशेषोऽस्ति कश्चन॥ १९॥ दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि। अदृश्यत्वादिकांस्तस्माद् गुणानाह स्वयं प्रभुः॥ २०॥ भावाभावविरोधोऽपि नतु सर्वत्र विद्यते। तदभावो हि तद्भावविरोधी न ततोऽपरः॥ २१॥ पृथक्त्वाभावतद्रूपान् भेदांस्त्रीन् कल्पयन्ति चेत्। कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः॥ २२॥ पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः। व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः॥ २३॥ दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम्। यदा तदधिको दोषो विद्यते को नु वादिनाम्॥ २४॥ भावाभावस्वरूपास्तु विशेषा एव वस्तुनः। अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये॥ २५॥ यथैकः समवायोऽपि भेदाभेदौ च वस्तुनि। अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः॥ २६॥ अखण्डवादिनोऽपि स्याद् विशेषोऽनिच्छतोऽप्यसौ। व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः॥ २७॥
पादद्वयार्थोपसंहारः
॥ ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ॥
बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः। प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः॥ २८॥
वैश्वानराधिकरणम्
वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः।
॥ ॐ शब्दादिभ्योऽन्तःप्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषविधमपि चैनमधीयते ॐ॥
तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः। बहुलाऽप्यज्ञरूढिस्तत् प्राज्ञरूढिं न बाधते॥ २९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः॥
तृतीयः पादः
पादार्थः
ॐ॥ तत्रान्यत्र प्रसिद्धानां लिङ्गनाम्नां पुनर्हरिः। विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः॥ १॥
द्युभ्वाद्यधिकरणम्
॥ ॐ नानुमानमतच्छब्दात् ॐ॥
विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान्। श्रुतिर्वक्ति — — — — — — — —
भूमाधिकरणम्
॥ ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ॥
— — अखिलेशत्वाद् भूमा विष्णुः सुखाधिकः॥ २॥
अक्षराधिकरणम्
॥ ॐ अन्यभावव्यावृत्तेश्च ॐ॥
अतो विरुद्धवद् भातमपि व्याख्याय तत्त्वतः। योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम्॥ ३॥ ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि। अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च॥ ४॥ अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम्। नारायणे श्रुतिर्वक्ति नतु तस्यास्वभावताम्॥ ५॥ ‘सर्वधर्मा सर्वनामा सर्वकर्मा’ ‘गुणाः श्रुताः। दोषाः श्रुताश्च न’ इत्याद्याः प्रमाणं श्रुतिरत्र च॥ ६॥
विषय-न्यायमालादि
विषयमाला
लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः। पुनः शब्दा लिङ्गशब्दौ विचार्या द्विःस्थिता इह॥ ७॥
न्यायमाला (सूत्रसूचितन्यायाः)
बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता। अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः॥ ८॥ लिङ्गावकाशराहित्यभ्रमस्तादृग् द्वयं तथा। बहुतादृक्त्वमुक्तस्य विरोधोऽर्थात् तथा गतिः॥ ९॥ समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः। ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः॥ १०॥ सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः।
सूत्रप्रदर्शितन्यायाः
मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा॥ ११॥ वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा। अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा॥ १२॥ वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता। अनामरूपता भेदस्योपजीव्यप्रमाणता॥ १३॥ सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः। अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ॥ १४॥
देवताधिकरणम्
॥ ॐ भावं तु बादरायणोऽस्ति हि ॐ॥
तत्फलाय विधिः सिद्धे चोपासाया निराकृतः। यतो जैमिनिनाऽन्यार्थमसिद्धेऽर्थे विधिस्तथा॥ १५॥ विद्याधिराजस्य मतमविरोधस्तयोस्ततः। मोक्षे फलविशेषोऽस्ति नच सर्वं प्रकाशते॥ १६॥ सर्वदा तेन देवानामपि युक्ता ह्युपासना। नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम्॥ १७॥ स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम्। अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा॥ १८॥ इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि। जैमिन्याद्यास्तु सामान्यवेत्तृत्वात् तत् तथाऽवदन्। विद्येशमतमेतस्मान्नैव सद्भिर्विरुध्यते॥ १९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः॥
चतुर्थः पादः
आनुमानिकाधिकरणम्
विष्णौ सर्वशब्दसमन्वयः
॥ ॐ तदधीनत्वादर्थवत् ॐ॥
ॐ॥ दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः। शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत् पराजयः॥ १॥ स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम्। स्वातन्त्र्यं तत्र मुख्यं स्यात् कुतो राज्ञि जयोऽन्यथा। नहि भृत्यस्य विजयिशब्दस्तावत् प्रयुज्यते। यावद् राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः॥ ३॥ भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः। कारणं संशयस्य स्यादिति नैव प्रयुज्यते॥ ४॥ अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले। अप्रियत्वात् तु शब्दस्य स्यात् प्रयोगनिवर्तनम्॥ ५॥ गुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि। पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम्॥ ६॥ अतो दोषातिदूरत्वात् संशयस्याप्यसम्भवात्। दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया॥ ७॥ स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि। वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम्॥ ८॥ मङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत्। स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः॥ ९॥ बहुभुक्त्वं यथा दोषो नृषु नैव हरौ क्वचित्। एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः॥ १०॥ नैव दोषा हरौ तद्गबुद्ध्योक्ता दोषकारिणः। तस्मात् ते दोषशब्दाश्च तत्रैव गुणवाचकाः॥ ११॥
ज्योतिरुपक्रमाधिकरणम्
॥ ॐ ज्योतिरुपक्रमात् तु तथा ह्यधीयत एके ॐ॥
जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः। आयजेतश्चायजेतो वसन्तिश्च वसंस्ततः॥ १२॥ विगतच्छादनत्वात् तु गच्छ भूतक्षयङ्करः। भुङ्क्ष्वेत्युक्तो हरिर्हुं च हुतमस्मिन् जगद् यतः॥ १३॥ स्फुटत्वात् फडिति प्रोक्तः कव रक्षण इत्यतः। कवचं वर्तते यस्मात् षड्गुणत्वेन सर्वदा॥ १४॥ वषट् तद्गत्वतस्तेषां वौषडित्येव कथ्यते। स्वीयं स्वीकुरुते यस्मात् स्वाहेत्युक्तो जनार्दनः॥ १५॥ नमन्त्यस्मिन् गुणा यस्मान्नम इत्येव कथ्यते। इत्यशेषक्रियानामशब्दैरेको जनार्दनः॥ १६॥ उच्यते मुख्यतो यस्मात् पदवर्णस्वरात्मभिः। तस्मादनन्तगुणता श्रुतितात्पर्यतोऽस्य हि॥ १७॥ विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम्। अङ्गीकृतेऽपि नैवास्ति दोषो वाक्यसमन्वये॥ १८॥ तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये। “कश्छन्दसां योगम्”ऋग्वेदसंहिता १०/११४/९ इति श्रुतेर्योगार्थतत्त्ववित्॥ १९॥ ब्रह्मैको नैव चान्योऽस्ति क इत्यस्योभयार्थतः। तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात्॥ २०॥ नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिध्यते।
प्रकृत्यधिकरणम्, सर्वव्याख्यानाधिकरणं च
॥ ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ॥ ॐ एतेन सर्वे व्याख्याता व्याख्याताः ॐ॥
स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः॥ २१॥
विषयमाला
विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम्। पृथक् समन्वयार्थानि स्थानान्येतानि सर्वशः॥ २२॥
न्यायमाला
पूर्वपक्षयुक्तयः
सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता। परस्परविरोधश्च विरोधः कार्यतद्वतोः॥ २३॥ स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु युक्तयः।
सिद्धान्तयुक्तयः
दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा॥ २४॥ बहुरूपत्वमीशस्य व्यक्त्यव्यक्तिविशेषिता। उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा॥ २५॥ इत्यादियुक्तयः साक्षात् सिद्धान्तस्थापिका इह।
समाकर्षाधिकरणम्, ज्योतिरधिकरणं च
॥ ॐ समाकर्षात् ॐ॥
अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा॥ २६॥ इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन्। विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः॥ २७॥ स्वशिष्याणां प्रसिद्ध्यर्थं मतमात्मीयमंशतः। विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन्॥ २८॥
॥ ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॐ॥
तेषुतेषु पदार्थेषु रूढिरङ्गीकृता यतः। प्रयोजनबहुत्वेन तस्यतस्याविरोधतः॥ २९॥ उपदेशादिसामर्थ्याद् विष्णौ शक्तिश्च गृह्यते। तथाऽप्येतद्विरोधे तु तद्वाचित्वमपोद्यते॥ ३०॥ अविरोधे तु बह्वर्था एतन्मूलतया मताः। इतो हि रूढताऽन्येषामुपजीव्यत्वमत्र हि॥ ३१॥ तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया।
शब्दवृत्तिविचारः
तस्मात् परममुख्यत्वं विष्णावन्यत्र मुख्यता॥ ३२॥ उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः। प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता॥ ३३॥ तत्र प्रयोगबाहुल्यं यदि तत्परता किमु। उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः॥ ३४॥ प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते। प्रयोगयुक्तसादृश्यं सम्बन्धो वाऽप्यमुख्यतः॥ ३५॥ वृत्तिहेतुरिति ज्ञेयः पूर्वायोगेऽपरग्रहः। ‘एतमेव तथा सन्तं शतर्चीत्यादिनामभिः॥ ३६॥ आचक्षते’ ऐतरेयारण्यकम् २/२/१ इति ह्यत्र सन्तमित्यवधारणात्। योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम्॥ ३७॥ बहुशो दर्शयत्यञ्जस्तात्पर्यात् सनिरुक्तिकम्। अ इति ब्रह्म कथितं तद्व्याख्यानात्मता तथा॥ ३८॥ शब्दानामपि सर्वेषां नामवित् कृतकृत्यता। विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत्॥ ३९॥ णकारं च षकारं च बलचेष्टात्मकं वदन्। तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा॥ ४०॥ उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा। णकारश्च षकारश्च नामरूपतया मतौ॥ ४१॥ तस्मात् समन्वयो विष्णौ स्वरवर्णपदात्मनः। अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः॥ ४२॥ ‘घोषाः सर्वेऽपि वेदाश्च’ ऐतरेयारण्यकम् २/२/२ ‘सर्वे वेदाश्च यत्पदम्’। 🔗काठकोपनिषत् १/२/१५ ‘इन्द्रं मित्रम्’ ऋग्वेदसंहिता १/१६४/४६ ‘यमिन्द्रं च’ तैत्तिरीयब्राह्मणम् ३/७/९/३ ‘प्रथमः सङ्कृतिस्तथा’॥ ४३॥ तैत्तिरीयब्राह्मणम् १/१/१/५ ‘नामधाः सर्वदेवानामेकः’ ऋग्वेदसंहिता १०/८२/३ इत्यादिका श्रुतिः। प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात्॥ ४४॥ इति स्वयं भगवता ब्रुवताऽशेषमन्वयम्।
परव्याख्याननिराकरणम्
पादार्थशोधः, आनुमानिकाधिकरणशोधश्च
न शब्दवाच्यतैवात्र प्रधानस्य निषिद्ध्यते॥ ४५॥ सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात्। “सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः॥ ४६॥ निबध्नन्ति महाबाहो देहे देहिनमव्ययम्।”🔗भगवद्गीता १४/५ इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते॥ ४७॥ तेजोबन्नात्मकं वाऽपि यद्युपादानमिष्यते। अनाद्येवापराधः कः प्रधानमिति चोदिते॥ ४८॥
ज्योतिरुपक्रमाधिकरणशोधः
“अजामेकाम्”🔗श्वेताश्वतरोपनिषत् ४/५ इति प्राह श्रुतिरेतां यदा तदा। को दोषः सर्वथैवास्ति परिणामि जडं यदि॥ ४९॥ अस्माकं परमुख्यार्थो भगवानेक एव तु। मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते॥ ५०॥ सर्वेषामपि शब्दानां गौणाद्यं तदयोगतः। अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान्॥ ५१॥ “कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम्। योगानां परमां सिद्धिं परमं ते पदं विदुः॥ ५२॥”जितन्तेस्तोत्रम् १/७ इति बुद्धौ समारोहादुभयोर्योगरूढयोः। त्यागे च कारणाभावादुभयार्थत्वमिष्यते॥ ५३॥ विपरीतप्रमाभावे पूर्वारोहस्तु कारणम्। सा भवेद् यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा॥ ५४॥ अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः।
पञ्चजनाधिकरणशोधः
“यत् तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्॥ ५५॥ प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्। पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा॥ ५६॥ एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः।”भागवतम् ३/२७/११-१२ इति भागवते प्राह विद्याधीशः स्वयं प्रभुः॥ ५७॥
प्रकृत्यधिकरणशोधः
नच प्रकृतिशब्देन ब्रह्मोपादानमुच्यते। “अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः॥ ५८॥ सदैकरूपविज्ञानबल आनन्दरूपकः।” “निर्विकारोऽक्षरः शुद्धो निरातङ्कोऽजरोऽमरः॥ ५९॥ अविश्वो विश्वकर्ताऽजो यः परः सोऽभिधीयते।” “निर्विकारमनौपम्यं सदैकरसमक्षयम्॥ ६०॥ ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः”। इति श्रुतिपुराणोक्त्या न विकारी जनार्दनः॥ ६१॥ पराधीनविशेषाप्तिरनिवर्त्योऽन्यथाभवः। क्षीरादिवद् विकारः स्यान्नैव स स्याद्धरेः क्वचित्॥ ६२॥ अपादानत्वमेवास्य यद्युपादानतेष्यते। अङ्गीकृतं तत् पितृवन्नतु विश्वात्मना भवः॥ ६३॥ नचोर्णनाभिजनितृमातॄणां च विकारिता। चेतनत्वात् तदन्नं हि कार्यरूपतया भवेत्॥ ६४॥ अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम्। उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम्॥ ६५॥ “इच्छामात्रात् प्रभोः सृष्टिरविकारस्य सर्वदा। स्वभावोऽयमनन्तस्य रजो येनाभवज्जगत्॥ ६६॥” “स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः। ससर्ज मातापितृवदूर्णनाभिवदेव वा॥ ६७॥ प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा।” न चेतनविकारः स्याद् यत्र क्वापि ह्यचेतनम्॥ ६८॥ नाचेतनविकारोऽपि चेतनः स्यात् कदाचन। नचान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते॥ ६९॥ न क्षीरादन्यता दध्नः केनचिद् दृश्यते क्वचित्। सर्वज्ञाद् ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते॥ ७०॥ अभेदः सत्त्वमात्रेण स्यात् खर्वस्वर्णयोरपि। भागेन परिणामश्चेद् भागयोर्भेद एव हि॥ ७१॥ यो भागो न विकारी स्यात् स एवास्माकमीश्वरः। भिन्नानां समुदायस्य नाम ब्रह्मेति चेद् भवेत्॥ ७२॥ ब्रह्मोपादानता न स्यात् तदा विश्वस्य हि क्वचित्। शृङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा॥ ७३॥ वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते। उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते॥ ७४॥ अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत्। नह्युपादानतैवात्र बाह्यावयवगौरवात्॥ ७५॥ नचाचेतनतस्तत्र चेतनस्य समुद्भवः। उपादानतया किं तर्ह्यपादानं ह्यचेतनम्॥ ७६॥ कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते।
सच्च त्यच्चेति श्रुत्यर्थः
“सच्च त्यच्चाभवत्”🔗तैत्तिरीयोपनिषत् २/६ इति नास्य विश्वत्वमुच्यते॥ ७७॥ “तत् सृष्ट्वा”🔗तैत्तिरीयोपनिषत् २/६ इति गिरैवास्य पूर्वं विश्वस्य सिद्धितः। सत्त्वात् ततेर्वैदिकत्वात् सम्यग् वक्तुमशक्यतः॥ ७८॥ आश्रयत्वात् स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः। सत्ततेर्यातनाच्चैव ह्यप्राप्यत्वाच्च दुर्जनैः॥ ७९॥ नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सदा। जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते॥ ८०॥ व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम्। भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते॥ ८१॥ तस्मादशेषकर्तैको निर्विकारो रमापतिः। शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते॥ ८२॥ “बहु स्याम्”🔗तैत्तिरीयोपनिषत् २/६ इति तस्यैव ह्युक्तमार्गेण युज्यते। तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत्॥ ८३॥
मायावादनिरासः
यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा। दृश्यते मन्ददृष्ट्यैव स सर्ग इति कथ्यते॥ ८४॥ सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा। ब्रह्मणश्चेत् क्व सार्वज्ञमन्यगा चेत् स्वतोऽन्यता॥ ८५॥ नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः। देहिनः कारणयुता देहाश्च यदि न भ्रमात्॥ ८६॥ किं भ्रान्तिकल्पितं तत्र भेदोऽपि भ्रमजो यदि। भ्रान्तेरज्ञानमूलत्वात् तस्य भेदव्यपेक्षया॥ ८७॥ नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः। भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्नहि॥ ८८॥ व्यावहारिकता चास्य स्यादबाध्यत्व एव हि। बाध्यं नार्थक्रियाकारि नच स्वप्नोऽपि नो मृषा॥ ८९॥ वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः। “स हि कर्ता”बृहदारण्यकोपनिषत् ६/३/१० इति वाक्याच्च जाग्रत्त्वमिति हि भ्रमः॥ ९०॥ सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम्। तदेवार्थक्रियाकारि तत् सदेवार्थकारकम्॥ ९१॥ ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा। अङ्गीकृतं हि तेनैव परतस्त्वे नच प्रमा॥ ९२॥ अमुख्यसत्यमानस्य साधकत्वे सदाऽऽवयोः। नहि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा॥ ९३॥ नहि विप्रतिपन्नेन शक्यं साधयितुं क्वचित्। साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः॥ ९४॥ सम्यक् सम्प्रतिपन्नं तन्न विवर्तमतं भवेत्। यदि नाङ्गीकृतं किञ्चिदनङ्गीकृतताऽपि हि॥ ९५॥ नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता। “विश्वं सत्यं”ऋग्वेदसंहिता २/२४/१२ “यच्चिकेत”ऋग्वेदसंहिता १०/५५/६ “प्र घा न्वस्य”ऋग्वेदसंहिता २/१५/१ ‘यथार्थतः’॥ ९६॥ 🔗ईशावास्योपनिषत् ८ इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचिकाः।
साक्षिविचारः
सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम्॥ ९८॥ साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः। सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते॥ ९९॥ कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः। अतीतानागतौ कालावपि नासाक्षिगोचरौ॥ १००॥ पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते। तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम्॥ १०१॥ साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते। तस्मान्न तं विना किञ्चित् स्मर्तुं द्रष्टुमथापि वा॥ १०२॥ शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत्। अतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम्॥ १०३॥ परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत्। अन्यथा श्रुतियुक्त्यादिप्रमाणैश्च सहैव तु॥ १०४॥ अकस्माद् विनिवृत्तिश्च किं विश्वस्य न शङ्क्यते। इतः पूर्वं तथाऽभावाद् यदि नो संसृतेर्गतिः॥ १०५॥ वाक्यानुमादितश्चेत् स्यात् तत्प्रामाण्यं च साक्षितः। तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि॥ १०६॥ सर्वकालेष्वपि स्थैर्याद् व्यभिचारमपोह्य च। एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम्॥ १०७॥ किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः।
एकजीववादनिरासः
एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा॥ १०८॥ बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत्। परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः॥ १०९॥ परो नास्तीति वदति किमित्युन्मत्तवद् वदेत्। पराभावेऽपि वाग् व्यर्था यदि नैवोच्यते तदा। कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत्॥ ११०॥
प्रपञ्चो यदि विद्येत इति श्रुत्यर्थः
“प्रपञ्चो यदि विद्येत निवर्तेत न संशयः। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः॥ १११॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित्। उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते॥ ११२॥”🔗माण्डूकोपनिषत् २/९-१० इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम्। विश्वस्य सत्यतामाहुर्विद्येतोत्पत्तिमेव च॥ ११३॥ विदोत्पत्ताविति ह्यस्माद्धातोरुत्पत्तिरेव हि। निवृत्तिव्याप्तियुक् प्रायः प्रपञ्चो भेदपञ्चकः॥ ११४॥ “जीवेश्वरभिदा चैव जडेश्वरभिदा तथा। जीवभेदो मिथश्चैव जडजीवभिदा तथा॥ ११५॥ मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः। सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात्॥ ११६॥ द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम्।” इति श्रुतेर्मितं त्रातं मायाख्यहरिविद्यया॥ ११७॥ उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाधमम्।
वाचारम्भणश्रुत्यर्थः
वाचाऽऽरब्धं तु साङ्केत्यनाम स्याद् विकृतं बहु॥ ११८॥ नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम्। प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञोऽपि पूरुषः॥ ११९॥ विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित्। सदातनं सत्यमिति नित्यमेवोच्यते बुधैः॥ १२०॥ प्रयोगश्चोत्तरत्रास्ति जरा यद्येनमाप्नुयात्। देहः प्रध्वंसते चायं किं ततोऽस्यातिशिष्यते॥ १२१॥ हन्यते न वधेनायं जरया च न जीर्यते। एतत् सत्यं ब्रह्मपुरमिति नित्यत्व एव हि॥ १२२॥ वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम्। पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता॥ १२३॥ एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च। विकारित्वविवक्षायां नचैकनखकृन्तनम्॥ १२४॥ सर्वं कार्ष्णायसं च स्यादतः सादृश्य एव च। विवक्षाऽत्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना॥ १२५॥ प्राधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैष विस्तरः। तस्मात् केनापि मार्गेण न विवर्तमतं भवेत्॥ १२६॥ तदसङ्ख्यातदोषेतं हेयमेव शुभार्थिभिः। असङ्ख्यत्वेन दोषाणां ग्रन्थाधिक्यभयादपि॥ १२७॥ उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः। करोति पितृवद् विश्वं पूर्णाशेषगुणात्मकः॥१२८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थः पादः॥
॥ समाप्तश्चायमध्यायः॥
Loading…