विषयानुक्रमणिका
- 1. अग्निमीळ इति नवर्चम्॥ १॥
- 2. वायवायाहीति नवर्चम्॥ २॥
- 3. अश्विनायज्वरीरिति द्वादशर्चम्॥ ३॥
- 4. सुरूपकृत्नुमिति दशर्चम्॥ ४॥
- 5. आत्वेतेति दशर्चम्॥ ५॥
- 6. युञ्जन्तीति दशर्चम्॥ ६॥
- 7. इन्द्रमिदिति दशर्चम्॥ ७॥
- 8. ऐन्द्रेति दशर्चम्॥ ८॥
- 9. इन्द्रेहेति दशर्चम्॥ ९॥
- 10. गायन्तीति द्वादशर्चम्॥ १०॥
- 11. इन्द्रं विश्वा इत्यष्टर्चम्॥ ११॥
- 12. अग्निन्दूतमिति द्वादशर्चम्॥ १२॥
- 13. सुसमिद्ध इति द्वादशर्चम्॥ १३॥
- 14. एभिरग्न इति द्वादशर्चम्॥ १४॥
- 15. इन्द्रसोममिति द्वादशर्चम्॥ १५॥
- 16. आत्वावहन्त्विति नवर्चम्॥ १६॥
- 17. इन्द्रावरुणयोरिति नवर्चम्॥ १७॥
- 18. सोमानमिति नवर्चम्॥ १८॥
- 19. प्रतित्यमिति नवर्चम्॥ १९॥
- 20. अयन्देवायेत्यष्टर्चम्॥ २० (२/१)॥
- 21. इहेन्द्राग्नी इति षळृचम् ॥ २१ (२/२)॥
- 22. प्रातर्युजेत्येकविंशत्यृचम्॥ २२ (२/३)॥
- 23. तीव्रासोमास इति चतुर्विंशत्यृचम्॥ २३ (२/४)॥
- 24. कस्यनूनमिति पञ्चदशर्चम्॥ २४ (२/५)॥
- 25. यच्चिद्धीत्येकदशर्चम्॥ २५ (२/६)॥
- 26. वसिष्वेति दशर्चम्॥ २६ (२/७)॥
- 27. अश्वन्नत्वेति त्रयोदशर्चम्॥ २७ (२/८)॥
- 28. यत्रग्रावेति नवर्चम्॥ २८ (२/९)॥
- 29. यच्चिद्धीति सप्तर्चम्॥ २९ (२/१०)॥
- 30. आवइन्द्रमिति द्वाविंशत्यृचम्॥ ३० (२/११)॥
- 31. त्वमग्न इत्यष्टादशर्चम्॥ ३१ (२/१२)॥
- 32. इन्द्रस्य न्विति पञ्चदशर्चम्॥ ३२ (२/१३)॥
- 33. एतायामेति पञ्चदशर्चम्॥ ३३ (३/१)॥
- 34. त्रिश्चिन्न इति द्वादशर्चम्॥ ३४ (३/२)॥
- 35. ह्वयाम्यग्निमित्येकादशर्चम्॥ ३५ (३/३)॥
- 36. प्रवोयह्वमिति विंशत्यृचम्॥ ३६ (३/४)॥
- 37. क्रीळंव इति पञ्चदशर्चम्॥ ३७ (३/५)॥
- 38. कद्धनूनमिति पञ्चदशर्चम्॥ ३८ (३/६)॥
- 39. प्रयदित्थेति दशर्चम्॥ ३९ (३/७)॥
- 40. उत्तिष्ठेत्यष्टर्चम्॥ ४० (३/८)॥
उपोद्घातः
मङ्गलाचरणम्
नारायणं निखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम्। सर्वेश्वरं गुरुमजेशनुतं प्रणम्य वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य॥
प्रणव-व्याहृति-गायत्री-पुरुषसूक्त-वेदार्थः
ओमशेषगुणाधार इति नारायणोऽप्यसौ। पूर्णो भूतिवरोऽनन्तसुखो यद् व्याहृतीरितः॥
गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः। भारतिज्ञानरूपत्वाद् भर्गो ध्येयोऽखिलैर्जनैः।
प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः॥ *॥ स पूर्णत्वात् पुमान् नाम पौरुषे सूक्त ईरितः।
स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च॥ स एव सर्वशब्दार्थ इत्याहोपनिषत् परा।
“ता वा एता ऋचः”छान्दोग्योपनिषत् ३/१/१
इति विशेषेणाप्यृगर्थताम्॥
“यो देवानाम्”ऋग्वेदसंहिता १०/८२/३
इति श्रुत्या देवनाम्नां विशेषतः। स्पष्टत्वात् तद्गतत्वेन — — — —
अग्निमीळ इति नवर्चम्॥ १॥
मधुच्छन्दा वैश्वामित्रः। अग्निः। गायत्री॥
अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म्। होता॑रं रत्न॒धात॑मम्॥ १/१॥
आद्यसूक्ततात्पर्यम्
— — — — — तत्राहाग्रेऽग्निनामकम्। अग्रणीत्वं यदग्नित्वमित्यग्रे नाम तद् भवेत्॥ एवमेवाह भगवान् निरुक्तिं बादरायणः॥
“यथैवाग्न्यादयः शब्दाः प्रवर्तन्ते जनार्दने। तथा निरुक्तिं वक्ष्यामो ज्ञानिनां ज्ञानसिद्धये॥”
इति तेन —- —- —- —- —- —- —- —-
आद्यसूक्तार्थः
—- अग्निशब्दोऽयमग्र एवाभिपूज्यताम्। अग्र्यत्वमग्रनेतृत्वमत्तिमङ्गागनेतृताम्॥
आह तं स्तौम्यशेषस्य पूर्वमेव हितं प्रभुम्। ऋत्विङ्नियामकत्वेन यज्ञानामृत्विजं सदा॥
द्योतनाद् विजयात् कान्त्या स्तुत्या व्यवहृतेरपि। गत्या रत्या च देवाख्यं होतृसंस्थं विशेषतः॥
अग्निसंस्थेन रूपेण यतोऽग्निर्होतृदेवता। इन्द्रियाग्निषु चार्थानां यद्धोता होतृनामकः॥ रतिधारकोत्तमत्वात् स रत्नधातम ईरितः॥ १/१॥
अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त। स दे॒वाँ एह व॑क्षति॥ १/२॥
स पूर्वैर्नूतनैरेष्यैर्विज्ञानादृषिनामकैः। ईड्यो देवादिभिः सर्वैः स च देवानिहानयेत्॥ १/२॥
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे। य॒शसं॑ वी॒रव॑त्तमम्॥ १/३॥
तेनैव रयिमाप्नोति वित्तं विद्याधनात्मकम्। दिवसेदिवसे नित्यं पुष्टिमेव न हीनताम्॥ यशश्च पुत्रसंयुक्तं वीर्यवत्तममेव वा॥ १/३॥
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑। स इद्दे॒वेषु॑ गच्छति॥ १/४॥
यं यज्ञं परितो भूत्वा रक्षसि त्वं सदैव च। विधिमार्गस्थितं देवान् स एवाप्नोत्यसंशयम्॥ १/४॥
अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः। दे॒वो दे॒वेभि॒रा ग॑मत्॥ १/५॥
सोऽखिलग्रहणप्रज्ञः सद्गुणैः सन्ततोऽखिलम्। यमयत्यग्र्यकीर्तीनामुत्तमो विबुधैः सह॥ आगन्ताऽखिलभक्तानां पूजास्वीकारतत्परः॥ १/५॥ (१)
यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑। तवेत्तत्स॒त्यम॑ङ्गिरः॥ १/६॥
यजमानाय यद् भद्रं कर्तुमिच्छसि सत्प्रिय। त्वच्चेष्टयैव कर्माणि वर्तयित्वा तदीहनम्॥
तवैव सत्यमङ्गानां रस यद् वह्निगो हरिः। अङ्गिरा अङ्गिरःपुत्रो यतोऽग्निरभवत् क्वचित्॥ १/६॥
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम्। नः॑ नमो॒ भर॑न्त॒ एम॑सि॥ १/७॥
वस्तर्दिनमहोरात्रमभीष्ट प्राणिनां सदा। अल्पा अपि वयं बुद्ध्या त्वामुच्चगुणमीश्वरम्॥ उपयाम मनःकर्मवाग्भिस्त्वन्नमसम्भराः॥ १/७॥
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम्। वर्ध॑मानं॒ स्वे दमे॑॥ १/८॥
देदीप्यमानं स्वे सद्मन्यध्वरेशं सदावृधम्। यथार्थज्ञानगोपं त्वामुपेमसि —–॥ १/८॥
स न॑ः पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व। सच॑स्वा नः स्व॒स्तये॑॥ १/९॥
—– —– —– —– पितेव नः। सूपाश्रयो भव त्वं च यद्वदौरससूनवे। रक्ष सन्ततसौख्याय सम्यक् सत्वाय वा सदा॥ १/९॥ (२)
ऋषिच्छन्दोदैवतादिविचारः
ऋषिविचारः
मुनिस्तु सर्वविद्यानां भगवान् पुरुषोत्तमः। विशेषतश्च वेदानां
“यो ब्रह्माणम्”🔗श्वेताश्वतरोपनिषत् ६/१८
इति श्रुतिः॥
‘ऋग्वेदादिकमस्यैव श्वसितं’ बृहदारण्यकोपनिषत् ४/४/१०
प्राह चापरा।
‘वाचो बभूवुरुशतीर्हयग्रीवात्’ भागवतम् २/७/११
इति स्फुटम्॥ वचो भागवतेऽप्यस्ति ब्रह्माण्डेऽपि तथा परम्॥
“हयग्रीवादिमा विद्याः श्वसितत्वेन निःसृताः। ब्रह्मणा स्वीकृतास्ताश्च रुद्रशेषविपा अपि॥ दक्षाद्याः सनकाद्याश्च शक्राद्या मनवस्तथा। जगृहुस्ते च विश्वस्मिंश्चक्रुर्व्याप्तास्ततोऽखिलाः॥”
उक्तं पद्मपुराणे च
“कपिलो भगवानजः। प्रोवाच ब्रह्मणे विद्याः”
“हृदिस्थो बादरायणः॥ ओङ्कारपूर्विका विद्याः प्रेरयत्यखिलेष्वपि। सदैव ब्रह्मणे पूर्वम्”
इति सात्त्वतसंहिता॥
सकृन्निगदमात्रेण गृहीतं ब्रह्मणाऽखिलम्। अन्तर्गतस्य व्यासस्य प्रसादान्नित्यशक्तितः॥
तेन चानन्तशक्तित्वाद् युगपत् समुदीरितम्। प्रथमप्रतिपत्तृत्वान्मुनिर्ब्रह्माऽखिलस्य च॥
सुपर्णोऽखिलवेदानां पञ्चरात्रस्य नागराट्। द्वितीयप्रतिपत्तृत्वान्मुनित्वे सम्प्रकीर्तितौ॥
यः पश्यति स्वयं वाक्यं स ऋषिस्तस्य कीर्तितः। अर्वाक् तु द्वादशावृत्तेरधीत्याप्यृषिरेव सः॥
यत् स्वयं प्रतिभातस्य संशयार्थं गुरोर्वचः। सुपर्णादेर्विरिञ्चस्य केवलं धर्मकारणम्॥
ऋचामृषिस्ततः शक्रो यजुषां सूर्य एव च। सोमः साम्नां तृतीयास्ते प्रतिपत्तार ईरिताः॥
अथर्वाङ्गिरसामग्निरेकर्षिश्चाप्यथर्वणाम्। इत्युक्ताः समुदायस्य सन्त्यन्ये च पृथक्पृथक्॥
एतज्ज्ञानाददृष्टस्य फलस्याप्तिः स्फुटं भवेत्। द्रष्टॄणां तु चतुर्थानां ज्ञानादप्यैहिकं भवेत्॥
ते चैकस्यापि बहवः स्युः सूक्तस्यार्च एव वा। तस्यान्तस्यामवस्थायां तत्तत्प्राप्तिविशेषतः॥
तेषां वाक्यस्वरूपेण प्रार्थनादिषु पश्यति। विष्णुर्ब्रह्मा सुपर्णो वा तत्तद्योग्यार्थभेदतः॥
सर्ववेदाभिमानित्वाच्छ्रीर्ब्रह्माणी च भारती। द्रष्ट्र्यश्च सर्वविद्यानां व्याख्यातो ब्रह्मणा मरुत्॥
स्वभर्त्रनन्तरं द्रष्ट्र्यस्तेभ्यस्तन्नोदिता हिरुक्। ताः स्तुवन्ति हरिं नित्यं विद्याभिस्ते च सर्वशः॥
छन्दस्त्वेन मुनित्वेन तासां स्मृतिरुदीरिता। स्मर्तव्यास्ते च सर्वेऽपि मुनित्वेन पृथक्पृथक्॥
छन्दोविचारः
गायत्री बृहती चैव ताः सर्वा गरुडस्तथा। ब्रह्माण्यनुष्टुबिन्द्राणी त्रिष्टुप् स्वाहेति चोच्यते॥
गायत्री जगती चैव वारुणी रोहिणी तथा। अनुष्टुब् बृहती चैव तारा पङ्क्तिः शची तथा॥
उष्णिक् सौरी जगत्यश्च सर्वदेवस्त्रियो मताः। विराण्मित्रावरुणयोर्भार्ये इति च कीर्तिते॥
अतिच्छन्दांसि सर्वाणि सर्वदेव्यः प्रकीर्तिताः। विराडिति च नामासां तास्ता ऊनाधिकेष्वपि ॥ निचृद्भुरिग्विराट्सञ्ज्ञाः प्रस्तारेत्यादि नाम च॥
बह्वीनामेकमानेन त्वेकं नाम च युज्यते। सर्वाभिमानिता चैव तिसृणां तु यथाक्रमम्॥
देवताविचारः
देवता सर्वविद्यानां स्वयं नारायणः प्रभुः। ऋते तत्र प्रसिद्धाश्च देवता श्रीस्तथाऽत्र च॥
ऋते प्रसिद्धा ब्रह्मैव ततस्तेन क्रमेण च। पूर्वप्रसिद्धवर्जं तु शक्रान्ता देवता मताः॥
ब्रह्मवायू गिरौ वीन्द्रशेषरुद्राश्च तत्स्त्रियः। शक्रकामौ कामपुत्रमनुदक्षाङ्गिरःसुताः॥
तद्वच्छची रतिः सूर्यसोमधर्मादितत्स्त्रियः। प्रधानमरुतो वारिपतिरग्निश्च मारुताः॥
निरृतिः स्त्रियश्च सूर्यादेरश्विनावितरे तथा। अनन्तकोटिशतकदशार्धद्यंशतः क्रमात्॥
ज्ञानभक्तिबलैश्वर्यपूर्वाखिलगुणैरपि। मुक्तावपि क्रमो ह्येष देवता उदिता इमाः॥
इन्द्रावरा विशेषेण लिङ्गेनैव पृथक्पृथक्। देवतास्तत्रतत्र स्युरेष एव परो विधिः॥
वेदादिवर्णपर्यन्तैर्मूर्तयः केशवस्य तु। समासव्यासयोगेन वाच्यास्तात्पर्यतः पृथक्॥ यथायोगं यथान्यायमन्यासामपि मूर्तयः॥
अत्र प्रमाणानि
ऋक्संहितायां स्वाध्याये निरुक्ते व्यासनिर्मिते। प्रवृत्ते चैतदखिलमुक्तं हि प्रभुणा स्वयम्॥
‘सर्वे वेदाश्च’ 🔗काठकोपनिषत् १/२/१५
“नामानि”
‘ता वा एता ऋचः’ ऐतरेयारण्यकम् २/२/२
तथा।
“इन्द्रं मित्रं वरुणम्”ऋग्वेदसंहिता १/१६४/४६
इत्याद्यत्र प्रमा परा॥
विष्णोरेव सर्वोत्कृष्टत्वे प्रमाणानि
“देवतातारतम्यं च सर्वोत्कृष्टं च केशवम्। ज्ञात्वैव मुच्यते ह्यस्मान्नान्यथा तु कथञ्चन॥”
इति पैङ्गिश्रुतिश्चाह दृश्यतेऽत्र च सर्वशः॥
“न ते महित्वम्”ऋग्वेदसंहिता ७/९९/१
इत्यादिनैश्वरानेव केवलान्। गुणान् विष्णोः श्रुतिर्ह्याह नैव दोषान् कथञ्चन॥
‘जाता परि बभूव’ ऋग्वेदसंहिता १०/१२१/१०
इति मर्यादा ब्रह्मणोऽपि हि।
‘नैव रेमेऽबिभेद्’ बृहदारण्यकोपनिषत् ३/४/२-३
‘ब्रह्मा नासीत्’
इत्यादिकानपि॥
दोषान् रुद्रे च तानेव
“न मिनन्ति”ऋग्वेदसंहिता २/३८/९
इतिपूर्वकान्।
“यं कामये तन्तमुग्रम्”ऋग्वेदसंहिता १०/१२५/५
“रुद्राय धनुः”ऋग्वेदसंहिता १०/१२५/५
इत्यपि॥
“अस्य देवस्य”ऋग्वेदसंहिता ७/४०/५
“मा शिश्नदेवा अपि गुः”ऋग्वेदसंहिता ७/२१/५
इत्यपि।
“घ्नञ्छिश्नदेवान्”ऋग्वेदसंहिता १०/९९/३
इत्याद्या दोषा बहव ईरिताः॥
“ततो वि तिष्ठे”ऋग्वेदसंहिता १०/१२५/७
‘योनिः सः’ ऋग्वेदसंहिता १०/१२५/७
‘एतावत्यहम्’ ऋग्वेदसंहिता १०/१२५/८
इत्यपि। अन्याश्रयत्वं देव्याश्च कथितं बहुशोऽपि हि॥
तदाश्रयत्वमन्येषामपि तत्रैव निश्चयात्॥
‘ब्रह्मैवाग्रे’ ऋग्वेदसंहिता १०/१२१/१
इति ह्युक्त्वा रुद्रादीनां ततो जनिः।
उक्ता
‘जातानि विश्वानि स पर्यभवत्’ ऋग्वेदसंहिता १०/१२१/१०
इत्यपि॥
‘यस्य च्छायामृतं मृत्युः’ ऋग्वेदसंहिता १०/१२१/२
इति चादरतोऽब्रवीत्॥
“अनन्तादवरेशाना तस्याः प्राणस्ततश्च वाक्। तस्या रुद्र उमा तस्मादिन्द्रस्तस्यास्ततोऽपरे॥”
सौपर्णश्रुतिरित्याह
“सप्ताक्षितयः”बृहदारण्यकोपनिषत् ४/२/२
इत्यपि॥
“वायुरस्मा उपामन्थत्”ऋग्वेदसंहिता १०/१३६/७
“विश्वदेवाय वायवे।”ऋग्वेदसंहिता १/१४२/१२
विश्वैर्देवैः स इत्याद्याः प्रमा अत्रापरा अपि॥
“नारायणोऽदितिर्वायुर्वाणी रुद्र उमा विभुः। इतरे च क्रमाद्धीनाः शतांशाद् वायुतोऽवराः॥”
इति बर्कश्रुतिश्चाह शक्रात्
सप्ताक्षितिश्रुतिः। बृहदारण्यकोपनिषत् ४/२/२
“अयं त एमि तन्वा”ऋग्वेदसंहिता ८/१००/१
इतिपूर्वा अन्या अपि स्फुटम्॥ वायोराधिक्यमप्याहुः
“इन्द्रं सोमं हुताशनम्॥ सूर्यं रुद्रमिमान् पञ्च देवानेको महात्मनः। सृजत्यत्ति महान् प्राणः”
इति चाह तुरश्रुतिः॥
“वि हि सोतोरसृक्षत नेन्द्रं देवममंसत। यत्रामदद् वृषाकपिरर्यः पुष्टेषु मत्सखा॥”ऋग्वेदसंहिता १०/८६/१
“न यस्येन्द्रः”ऋग्वेदसंहिता २/३८/९
इति ह्याह विष्णोरिन्द्रस्य हीनताम्॥
“वेधा अजिन्वत्”ऋग्वेदसंहिता १/१५६/५
इत्यादिवचनं विष्णुनामतः।
आनन्दश्रुतिः 🔗तैत्तिरीयोपनिषत् २/८
अप्यस्य जीवतामेव दर्शयेत्॥
आह सूर्यादपीन्द्रस्य वायोर्विष्णोरपीशताम्।
“यः सूर्यं य उषसम्”ऋग्वेदसंहिता २/१२/७
‘म्रियन्ते पञ्च देवताः’॥ ऐतरेयब्राह्मणम् ८/५/२८
‘चक्षुषा द्यौश्चादित्यश्च’ ऐतरेेयारण्यकम् २/१/७
“चक्षोः सूर्यो अजायत”।ऋग्वेदसंंहिता १०/९०/१३
“यमादित्यो न वेद”बृहदारण्यकोपनिषत् ५/७/९
इतिपूर्वा श्रुतिरथापराः॥
“विष्णोर्वातो अजनिष्ट वातादिन्द्रस्ततो रविः। सोमश्चेति लयोऽप्येवं पूर्वेपूर्वे गुणाधिकाः॥”
“विष्णोः प्राणो अजनिष्ट प्राणादिन्द्रो रविर्विधुः। लयोऽप्येतादृशस्तेषां पूर्वःपूर्वो गुणाधिकः॥”
तुरश्रुतिश्च सौपर्णी पिङ्गश्रुतिरपीदृशी॥
अतः सर्वाधिको विष्णुर्निणीतः श्रुतिसञ्चयात्। अतो दोषवचो यत्र तद् वाक्यमवरं वदेत्।
निर्दोषतैव विष्णोस्तु क्रमान्मध्यगतेष्वपि॥
“त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते। विष्णोः सहस्रनामापि निरन्तरशतार्थकम्॥”
इति स्कान्दवचो यस्मादर्थभेदव्यपेक्षया।
निर्दोषत्वं हरेर्वक्ति दोषमन्येष्वपि क्रमात्॥ तारतम्यस्य विज्ञप्त्यै वचो दोषस्य चार्थवत्।
“गुणा श्रुताः”
इति ह्याह गुणैकनियतिं हरौ॥
“निर्दोषगुणपूर्णश्च विष्णुरेको नचापरः। अपूर्णा दोषरहिता मायैका तद्वशैव च॥ अदोषः प्रायशो ब्रह्मा दोषवन्तः क्रमात् परे।”
इति मान्यश्रुतिश्चाह भेदोऽर्थानां ततो मतः॥
“रूढिमेव समाश्रित्य विभज्यर्थान् यथाक्रमम्। विदोषगुणपूर्त्यर्थं विष्णौ योगार्थमानयेत्॥ पश्चादेव यथायोगमितरेष्वपि सन्नयेत्।”
ऋग्वेदसंहितायां च प्रभुणैवं समीरितम्॥
पृथग् रूपाणि विष्णोस्तु देवतान्तरगाणि च।
अग्न्यादिसूक्तवाच्यानि नाम्ना सूक्तभिदा भवेत्॥
व्याख्यानप्रकारशिक्षणम्
“नकिः”ऋग्वेदसंहिता ४/३०/१
“माकिः”ऋग्वेदसंहिता ६/५४/७
“स्मसि”ऋग्वेदसंहिता ८/४६/१
इत्यादि प्रोक्ताधिक्यविवक्षया।
“आधिक्येऽधिकम्”
इत्येव हरिणा सूत्रमीरितम्॥
“कृत्वी”ऋग्वेदसंहिता १०/१०९/७
“हत्वी”ऋग्वेदसंहिता २/२०/८
इतिपूर्वाश्च
“तृतीयोऽतिशये”
यतः।
विश्लिष्टार्थे च विश्लिष्टमूनार्थे चोनमिष्यते॥ व्यत्ययोऽभेदकरणस्वातन्त्र्येषु समीरितः॥
अभेदो हरिरूपाणां गुणानां च क्रियासु च। तस्यैवावयवानां च भेदः श्रीब्रह्मपूर्वकैः॥
मुक्तैरपि जडैर्भेदः कैमुत्यादेव दृश्यते। ऋग्वेदसंहितायां च प्रोक्तमेतत् समस्तशः॥
अभेदः स्वगुणाद्यैश्च मुक्तानामपि सर्वशः। भेदाभेदस्त्वभेदश्च गुणैः संसारिणामपि॥
जडानामंशतोऽभेदः समुदायेन चोभयम्॥
“मनुष्यगन्धर्वपितृगणकार्मिकतात्विकाः। देवाः शक्रः शिवो ब्रह्मा मुक्तौ सौख्यादिभिर्गुणैः॥ शतायुतोत्तरा नित्यमन्योन्यप्रीतिसंयुताः।”
इति सिद्धान्तगं वाक्यं स्वयं भगवतेरितम्॥
ऋष्यादिविचारोपसंहारः, इत्थम्भावान्तरं च
“स्वाध्यायस्तत्त्वविज्ञानं विष्णुभक्तिर्विरागता। निषिद्धकर्मसन्त्यागो विहितस्य सदा क्रिया। सदा विष्णुस्मृतिश्चैव केवलं मोक्षसाधनम्। एतैर्विना न मोक्षः स्याद् भवेदेतैरपि ध्रुवम्॥”
“ऋषिच्छन्दोदैवतानि ज्ञात्वाऽर्थं चैव भक्तितः। स्वाध्यायेनैव मोक्षः स्याद् विरक्तस्य हरिस्मृतेः॥”
“जप्येनैव तु संसिद्ध्येद् ब्राह्मणो नात्र संशयः। कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते॥”मनुस्मृतिः २/८७
“तस्मान्नित्यं हरिं ध्यायन् कुर्यात् स्वाध्यायमञ्जसा। ऐहिकामुष्मिका भोगा रक्तस्यान्यस्तु मुच्यते॥”
इति स्वाध्यायवचनं स्वयं भगवतोदितम्॥
“स्वाध्यायात् तु प्रवचने सहस्रगुणितं फलम्। अर्थद्रष्टुः कोटिगुणं ततोऽनन्तं नियामके॥ तर्कागमाभ्यां नियतिं यः करोत्यधिकं ततः। पूर्णं वेदाखिलद्रष्टुर्ब्रह्मणः फलमुच्यते॥ दार्ढ्यमेवानुदात्तार्थ उदात्तस्योच्चतार्थता। नीचता स्वरितस्यार्थः प्रचयस्य यथास्थितिः॥ समाहारेऽखिला अर्थाः स्वरार्थानामियं स्थितिः॥ स्तुत्यधर्मस्य भेदेन पदाद्यादिस्वरे भिदा। साधारणो विधिस्त्वेष विशेषो यत्रयत्र च॥ क्रमादेव तदन्येषामृष्यादीनां स्वयोग्यतः। विपर्ययार्थकथने विपरीतं तथा तमः॥ यावत् प्रयोजको ज्ञाने तावत्तावच्छुभाधिकः। तथैव विपरीतेऽपि स्मृतौ ज्ञाने च तत् समम्॥ तमोनिरयमानुष्यस्वर्गमोक्षातिरेकतः। योग्यतातारतम्येन फलं सर्वेषु चोच्यते॥”
इति प्रवृत्तवचनं विवेकेऽप्येतदीरितम्॥
“यादृशो योग्यतां यायात् स ज्ञेयोऽर्थस्तथा स्फुटम्। अनन्तनियमैर्युक्ता अनन्तार्थविशेषिणः॥ वेदा इति समासेन नियमोऽयं समीरितः॥”
ऋक्संहितागतं वाक्यमिति चान्यन्नियामकम्॥
तस्माद् वन्द्याश्च पूज्याश्च ब्रह्माद्या ज्ञानयोजकाः। गुरुत्वेन क्रमादेेव विशेषेणैव केशवः॥
आरभ्य स्वगुरुं यावद् विष्णुरेवोत्तरोत्तराः। क्रमान्निष्फलतान्यत्र गुरुतत्त्वे समीरिता॥
आद्यर्क्शतस्य देवता, अवान्तरर्षिश्च
एवं स्थितेऽग्निगं विष्णुमग्निनामानमेव च। मधुच्छन्दा ऋक्शतेन वाय्वादिगतमेव च॥ साग्न्यादिं स्तौति सद्भक्त्या तत्तन्नामानमेव च॥
Loading…