भगवद्गीताभाष्यम्

गीताभाष्यम्
विषयानुक्रमणिका
उपोद्घातः
मङ्गलाचरणं ग्रन्थप्रतिज्ञा च
देवं नारायणं नत्वा सर्वदोषविवर्जितम्। परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः॥ *॥
महाभारतस्य प्रामाण्यादिसमर्थनम्
स्ववचनैस्तदुक्तिः
नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितो ज्ञानप्रदर्शनाय भगवान् व्यासोऽवततार। ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनाद् वेदार्थाज्ञानाच्च संसारे क्लिश्यमानानां वेदानधिकारिणां स्त्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदाद्यर्थोपबृंहितां तदनुक्तकेवलेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनामवगाह्यानवगाह्यरूपां केवलभगवत्स्वरूपपरां परोक्षार्थां महाभारतसंहितामचीकॢपत्।
तत्रागमसम्मतिः
तच्चोक्तम्- “लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम्। वेदार्थाज्ञमधीकारवर्जितं च स्त्रियादिकम्। अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम्। ततः प्रसन्नो भगवान् व्यासो(ऽ)भूत्वा च तेन च। अन्यावताररूपैश्च वेदानुक्तार्थभूषितम्। केवलेनात्मबोधेन दृष्टं वेदार्थसंयुतम्। वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम्। भारतं पञ्चरात्रं च मूलरामायणं तथा। पुराणं भागवतं चेति सम्भिन्नः शास्त्रपुङ्गवः॥” इति नारायणाष्टाक्षरकल्पे। “ब्रह्माऽपि तन्न जानाति ईषत् सर्वोऽपि जानति। बह्वर्थमृषयस्तत् तु भारतं प्रवदन्ति हि॥” इत्युपनारदीये। “ब्रह्माद्यैः प्रार्थितो विष्णुर्भारतं स चकार ह। यस्मिन् दशार्थाः सर्वत्र न ज्ञेयाः सर्वजन्तुभिः॥” इति नारदीये। “भारतं चापि कृतवान् पञ्चमं वेदमुत्तमम्। दशावरार्थं सर्वत्र केवलं विष्णुबोधकम्। परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं तु यत्॥” इति स्कान्दे।
तत्रैवार्थापत्त्यादि
“यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः। न चेत् पुराणं संविद्यान्नैव स स्याद् विचक्षणः॥”,भारतम् १/१/३८३ “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। बिभेत्यल्पश्रुताद् वेदो मामयं प्रचलिष्यति॥”,भारतम् १/१/२९३-४ “मन्वादि केचिद् ब्रुवते ह्यास्तिकादि तथाऽपरे। तथोपरिचराद्यन्ये भारतं परिचक्षते॥”,भारतम् १/१/६६ “भारतं सर्ववेदाश्च तुलामारोपिताः पुरा। देवैर्ब्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः। व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम्॥ महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥”,भारतम् १/१/३०० “यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित्”,भारतम् १/५/५० “विराटोद्योगसारवान्”भारतम् १/१/८९ इत्यादितद्वाक्यपर्यालोचनया, ऋषिसम्प्रदायात्, “को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्”विष्णुपुराणम् ३/४/५ इत्यादिपुराणग्रन्थान्तरगतवाक्यान्यथानुपपत्त्या, नारदाध्ययनादिलिङ्गैश्चावसीयते।
अर्थापत्तीनां लेशतः प्रदर्शनम्
कथमन्यथा भारतनिरुक्तिज्ञानमात्रेण सर्वपापक्षयः। प्रसिद्धश्च सोऽर्थः। कथं चान्यस्य न कर्तुं शक्यते। ग्रन्थान्तरगतत्वाच्च नाविद्यमानस्तुतिः। नच कर्तुरेव। इतरत्रापि साम्यात्।
गीतायाः प्रामाण्यं महत्त्वं च
तत्र च सर्वभारतार्थसङ्ग्रहां वासुदेवार्जुनसंवादरूपां भारतपारिजातमधुभूतां गीतामुपनिबबन्ध। तच्चोक्तम्- “भारतं सर्वशास्त्रेषु भारते गीतिका वरा। विष्णोः सहस्रनामापि ज्ञेयं पाठ्यं च तद् द्वयम्॥” इति महाकौर्मे।
“स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने”भारतम् १३/१६/१२ इत्यादि च।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्य उपोद्घातः समाप्तः॥
अर्जुनविषादयोगः
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः॥ ४७ श्लोकाः॥
Loading…