भगवद्गीतातात्पर्यनिर्णयः

गीतातात्पर्यम्
विषयानुक्रमणिका
  • 4. ज्ञानयोगः
  • 5. कर्मसन्न्यासयोगः
  • 6. ध्यानयोगः
  • 7. ज्ञानविज्ञानयोगः
  • 8. अक्षरब्रह्मयोगः
  • 9. राजविद्याराजगुह्ययोगः
  • 10. विभूतियोगः
  • 11. विश्वरूपदर्शनयोगः
  • 12. भक्तियोगः
  • 13. क्षेत्रक्षेत्रज्ञयोगः
  • 14. गुणत्रयविभागयोगः
  • 15. [पुराण]पुरुषोत्तमयोगः
  • 16. दैवासुरसम्पद्विभागयोगः
  • 17. श्रद्धात्रयविभागयोगः
  • 18. मोक्षसन्न्यासयोगः
  • उपोद्घातः
    मङ्गलाचरणं ग्रन्थारम्भप्रतिज्ञा च
    ॐ॥ समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम्। नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते॥ *॥
    गीतातात्पर्यकथनस्य युक्ततासमर्थनम्
    “शास्त्रेषु भारतं सारं तत्र नामसहस्रकम्। वैष्णवं कृष्णगीता च तज्ज्ञानान्मुच्यतेऽञ्जसा। न भारतसमं शास्त्रं कुत एवानयोः समम्। भारतं सर्ववेदाश्च तुलामारोपिताः पुरा। देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्च समन्वितैः। व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम्। महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते। स्वयं नारायणो देवैर्ब्रह्मरुद्रेन्द्रपूर्वकैः। अर्थितो व्यासतां प्राप्य केवलं तत्त्वनिर्णयम्। चकार पञ्चमं वेदं महाभारतसञ्ज्ञितम्॥” इति ब्रह्माण्डे।
    सङ्क्षेपतो गीतातात्पर्यनिरूपणम्
    तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतममर्जुनं क्षत्रियाणां विशेषतोऽपि परमधर्मं नारायणद्विट्तदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायं ‘स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मः, तद्विरुद्धः सर्वोऽप्यधर्मः, भगवदधीनत्वात् सर्वस्य’ इति बोधयति भगवान् नारायणः।
    विस्तरेण गीतावाक्यैरेव गीतातात्पर्यनिरूपणम्
    सर्वं चैतदत्रैवावगम्यते।
    “अथ चेत् त्वं धर्म्यमिमं सङ्ग्रामं न करिष्यसि। ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥”🔗भगवद्गीता २/३३ इत्यादिना युद्धस्य स्वधर्मत्वम्।
    “यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥”🔗भगवद्गीता १८/४६ “श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्॥”🔗भगवद्गीता १८/४७ “स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥”🔗भगवद्गीता ३/३५ “सर्वगुह्यतमं भूयः शृणु मे परमं वचः। इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥”🔗भगवद्गीता १८/६४-६५ “सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥”🔗भगवद्गीता १८/६६ इत्यादिना स्वधर्मेणैव भगवदाराधनस्यैव कर्तव्यत्वं तदन्यस्य त्याज्यत्वं च।
    “नाहं वेदैर्न तपसा न दानेन नचेज्यया। शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा। भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥”🔗भगवद्गीता ११/५३-५४ इत्यादिना विष्णुभक्तेरेव सर्वसाधनोत्तमत्वं परोक्षापरोक्षज्ञानयोः, ज्ञानिनोऽपि मोक्षस्य तदधीनत्वं च।
    “मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥”🔗भगवद्गीता ११/५५ इत्यादिना भक्तस्यापि तत्कर्म विकर्मत्यागश्च।
    “कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम्”🔗भगवद्गीता ४/१५ इत्यादिना ज्ञानिनोऽपि भगवत्कर्म।
    “सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम। देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥”🔗भगवद्गीता ११/५२ “इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्”🔗भगवद्गीता १८/६४ “दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता। मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव॥”🔗भगवद्गीता १६/५ “महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥”🔗भगवद्गीता ९/१३ “दर्शयात्मानमव्ययम्”🔗भगवद्गीता ११/४ “दर्शयामास पार्थाय परमं रूपमैश्वरम्”🔗भगवद्गीता ११/९ इत्यादिनाऽर्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वं च।
    “न मे विदुः सुरगणाः प्रभवं न महर्षयः”🔗भगवद्गीता १०/२ “अहमादिर्हि देवानां महर्षीणां च सर्वशः”🔗भगवद्गीता १०/२ “यो मामजमनादिं च वेत्ति लोकमहेश्वरम्। असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते॥”🔗भगवद्गीता १०/३ “बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः। —- —- —- महर्षयः सप्त पूर्वे”🔗भगवद्गीता १०/४-६ “एतां विभूतिं योगं च”🔗भगवद्गीता १०/७ “अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥”🔗भगवद्गीता १०/८ “तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयामि”🔗भगवद्गीता १०/११ “तेषामहं समुद्धर्ता मृत्युसंसारसागरात्”🔗भगवद्गीता १२/७ “भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्। सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति॥”🔗भगवद्गीता ५/२९ “ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥”🔗भगवद्गीता ७/२ “अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा”🔗भगवद्गीता (७/६) “मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय”🔗भगवद्गीता ७/७ “मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव”🔗भगवद्गीता ७/७ “इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥”🔗भगवद्गीता ९/१ “राजविद्या राजगुह्यम्”🔗भगवद्गीता ९/२ “मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि नचाहं तेष्ववस्थितः॥”🔗भगवद्गीता ९/४ “भूतभृन्नच भूतस्थः”🔗भगवद्गीता ९/५ “न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः”🔗भगवद्गीता ११/४३ “परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्”🔗भगवद्गीता १४/१ “मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम्। सम्भवः सर्वभूतानां ततो भवति भारत॥”🔗भगवद्गीता १४/३ “ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥”🔗भगवद्गीता १४/२७ “द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद् भजति मां सर्वभावेन भारत॥ इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ। एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥”🔗भगवद्गीता १५/१६-२० “न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यम्”🔗भगवद्गीता ३/२२ इत्यादिना सर्वस्माद् भगवतो भेदः, सर्वस्य तदधीनत्वम्, तस्यानन्याधीनत्वं सर्वोत्तमत्वं सर्वगुणपूर्णत्वम्, सर्वशास्त्राणां तत्परत्वम्, तथा तज्ज्ञानादेव मोक्ष इत्यादि।
    उक्तार्थे श्रुतयः
    “अधा ते विष्णो विदुषा चिदर्ध्यः स्तोमो यज्ञश्च राध्यो हविष्मता”ऋग्वेदसंहिता १/१५६/१ “पश्यन्नपीममात्मानं कुर्यात् कर्माविचारयन्। यदात्मनः सुनियतमानन्दोत्कर्षमाप्नुयात्॥” “भक्त्या प्रसन्नः परमो दद्याज्ज्ञानमनाकुलम्। भक्तिं च भूयसीं ताभ्यां प्रसन्नो दर्शनं व्रजेत्। ततोऽपि भूयसीं भक्तिं दद्यात् ताभ्यां विमोचयेत्। मुक्तोऽपि तद्वशो नित्यं भूयोभक्तिसमन्वितः। साध्यानन्दस्वरूपैव भक्तिर्नैवात्र साधनम्। ब्रह्मरुद्ररमादिभ्योऽप्युत्तमत्वं स्वतन्त्रताम्। सर्वस्य तदधीनत्वं सर्वसद्गुणपूर्णताम्। निर्दोषत्वं च विज्ञाय विष्णोस्तत्राखिलाधिकः। स्नेहो भक्तिरिति प्रोक्तः सर्वोपायोत्तमोत्तमः। तेनैव मोक्षो नान्येन दृष्ट्यादिस्तस्य साधनम्॥” “अधमाधिकारिणो मर्त्या मुक्तावृष्यादिकाः समाः। अधिकार्युत्तमा देवाः प्राणस्तत्रोत्तमोत्तमः। नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः। तिरोहितं तथाऽप्येते शृण्वन्ति क्रीडयाऽथवा। बहुवारतदभ्यासात् तिरोभावोऽपि नो भवेत्। यथा व्यासानुशिष्टानां देवानां क्षत्रजन्मनाम्। पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतम्॥” “अस्य देवस्य मीह्वुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः। विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्॥”ऋग्वेदसंहिता ७/४०/५ “एको नारायण आसीन्न ब्रह्मा नच शङ्करः। स मुनिर्भूत्वा समचिन्तयत्। तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्रा इति” “एको नारायण आसीन्न ब्रह्मा नेशानः” “वासुदेवो वा इदमग्र आसीन्न ब्रह्मा नच शङ्करः” “यंयं कामयते विष्णुस्तं ब्रह्माणं च शङ्करम्। शक्रं सूर्यं यमं स्कन्दं कुर्यात् कर्ताऽस्य न क्वचित्॥” “सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम्। अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोऽतः॥” [-] “परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति”ऋग्वेदसंहिता ७/९९/१ “अनन्तगुणमाहात्म्यो निर्दोषो भगवान् हरिः। न समो वाऽधिको वाऽपि विद्यते तस्य कश्चन। नासीन्नच भविष्यो वा परतः स्वत एव च॥” इत्यादिश्रुतेश्च।
    ज्ञानिनोऽपि कर्मेत्युक्तार्थेऽन्तरङ्गबाधकनिराकरणम्
    “यस्त्वात्मरतिरेव स्यात्”🔗भगवद्गीता ३/१७ इत्यादि तु मुक्तविषयम्। “यस्त्वेवात्मरतो मुक्तः कार्यं तस्यैव नास्ति हि। तस्मात् कुर्वीत कर्माणीत्याह कृष्णोऽर्जुनं स्मयन्॥” इति च स्कान्दे।
    “ज्ञानयोगेन साङ्ख्यानाम्”🔗भगवद्गीता ३/३ इत्यादि तु बाह्यकर्मसङ्कोचापेक्षया। “नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्। शरीरयात्राऽपि च ते न प्रसिद्ध्येदकर्मणः॥”🔗भगवद्गीता ३/५ “एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्॥”🔗भगवद्गीता १८/६ “ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत” “न सर्वकर्मणां त्यागः कस्यचिद् भवति क्वचित्। त्यागिनो यतयोऽपि स्युः सङ्कोचाद् बाह्यकर्मणाम्॥” इत्यादि।
    “उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः”🔗भगवद्गीता ४/३४ इत्यादि चोत्पन्नज्ञानतिरोभावनिवृत्त्यर्थम्।
    ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णय उपोद्घातः समाप्तः॥
    अर्जुनविषादयोगः
    ॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः॥ ४७ श्लोकाः॥
    Loading…