उपोद्घातः
ॐ॥ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणी स्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्।
ॐ शान्तिः शान्तिः शान्तिः॥ ०॥
नारायणं निखिलपूर्णगुणैकदेहं सर्वज्ञमच्युतमपेतसमस्तदोषम्। प्राणस्य सर्वचिदचित्परमेश्वरस्य साक्षादधीश्वरमियां शरणं रमेशम्॥ *॥
प्रादुबर्भूव भगवांस्तपसेतराया नारायणोऽब्जजसुतस्य विशालनाम्नः। तस्मिन् गतेऽध्वरमभूत् सुरविप्रसङ्घो निश्चेतनस्तदनु पद्मभवोऽमुमस्तौत्॥ *॥
तेन स्तुतः स भगवान् गिरिशेन्द्रमुख्यान् सर्वानबोधयदजेन सहैव तेऽथ। दासत्वमापुरत एव महत्सुराणां दासत्वतः स महिदास इति प्रसिद्धः॥ *॥
शृण्वत्सु तेषु भगवानवदद् रमायै दिव्यां श्रुतिं स परमोऽतिमुदैतरेयीम्। सा बह्वृचैः प्रपठिता चतुराननास्याद् यस्यां रहस्यमुदितं परमं हि विष्णोः॥ *॥
“महाभूतिश्रुतिः सैषा महाभूतिर्यतो हरिः। विशेषेणात्र कथितः सर्वज्ञः शाश्वतः प्रभुः॥”
इत्यृक्संहितायाम्।
द्वितीयारण्यकम्
प्रथमोऽध्यायः
प्रथमः खण्डः
एष पन्था एतत् कर्मैतद् ब्रह्मैतत् सत्यम्।
तस्मान्न प्रमाद्येत् तं नातीयात्।
नह्यत्यायन् पूर्वे येऽत्यायंस्ते पराबभूवुः॥
तदुक्तमृषिणा- प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे। बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेशेति॥
प्रजा ह तिस्रो अत्यायमीयुरिति।
या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानीमानि वयांसि वङ्गा वगधाश्चेरपादाः।
न्यन्या अर्कमभितो विविश्र इति।
ता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निम्।
बृहद्ध तस्थौ भुवनेष्वन्तरिति।
अद उ एव बृहद् भुवनेष्वन्तरसावादित्यः।
पवमानो हरित आ विवेशेति।
वायुरेव पवमानो दिशो हरित आविष्टः॥ १॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमेऽध्याये प्रथमः खण्डः॥ (१)
द्वितीयः खण्डः
उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थमियमेव पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च।
तस्याग्निरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते।
अन्तरिक्षमेवोक्थमन्तरिक्षं वा अनु पतन्त्यन्तरिक्षमनु धावयन्ति।
तस्य वायुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते।
असावेव द्यौरुक्थममुतः प्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किञ्च।
तस्यासावादित्योऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुत इत्यधिदैवतम्।
अथाध्यात्मम्।
पुरुष एवोक्थमयमेव महान् प्रजापतिरहमुक्थमस्मीति विद्यात्।
तस्य मुखमेवोक्थं यथा पृथिवी तथा।
तस्य वागर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते।
नासिके एवोक्थं यथाऽन्तरिक्षं तथा।
तस्य प्राणोऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते।
तदेतद् ब्रध्नस्य विष्टपं यदेतन्नासिकायै विनतमिव।
ललाटमेवोक्थं यथा द्यौस्तथा।
तस्य चक्षुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते।
समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेव।
अन्नेन हीमानि सर्वाणि भूतानि समनन्ती३।
अन्नेनेमं लोकं जयत्यन्नेनामुम्।
तस्मात् समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेव।
तदिदमन्नमन्नादमियमेव पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च।
यद्ध किञ्चेदं प्रेर्ता३इ।
तदसौ सर्वमत्ति यदु किञ्चातः प्रैती३ तदियं सर्वमत्ति सेयमित्याद्याऽत्त्री।
अत्ता ह वा आद्यो भवति।
न तस्येशेऽयं नाद्याद् यद् वैनं नाद्युः॥ २॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमेऽध्याये द्वितीयः खण्डः॥ (२)
तृतीयः खण्डः
अथातो रेतसः सृष्टिः।
प्रजापते रेतो देवा देवानां रेतो वर्षं वर्षस्य रेत ओषधय ओषधीनां रेतोऽन्नमन्नस्य रेतो रेतो रेतसो रेतः प्रजाः प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसो रेतो वाग् वाचो रेतः कर्म तदिदं कर्म कृतमयं पुरुषो ब्रह्मणो लोकः।
स इरामयो यद्धीरामयस्तस्माद्धिरण्मयः।
हिरण्मयो ह वा अमुष्मिल्ँलोके सम्भवति।
हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद॥ ३॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमेऽध्याये तृतीयः खण्डः॥ (३)
चतुर्थः खण्डः
तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम्।
यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात् प्रपदे तस्मात् प्रपदे इत्याचक्षते।
शफाः खुरा इत्यन्येषां पशूनाम्।
तदूर्ध्वमुदसर्पत् ता ऊरू अभवताम्।
उरु गृणीहीत्यब्रवीत् तदुदरमभवत्।
उर्वेव मे कुर्वित्यब्रवीत् तदुरोऽभवत्।
उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयो ब्रह्मा हैव ता३इ।
ऊर्ध्वं त्वेवोदसर्पत् तच्छिरोऽश्रयत यच्छिरोऽश्रयत तच्छिरोऽभवत् तच्छिरसः शिरस्त्वम्।
ता एताः शीर्षञ्छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक् प्राणः।
श्रयन्तेऽस्मिञ्छ्रियो य एवमेतच्छिरसः शिरस्त्वं वेद।
ता अहिंसन्ताहमुक्थमस्म्यहमुक्थमस्मीति ता अब्रुवन्हन्तास्माच्छरीरादुत्क्रामाम तद्यस्मिन्न उत्क्रान्त इदं शरीरं पत्स्पति तदुक्थं भविष्यतीति।
वागुदक्रामदवदन्नश्नन्पिबन्नास्तैव चक्षुरुदक्रामदपश्यन्नश्नन्पिबन्नास्तैव श्रोत्रमुदक्रामदशृण्वन्नश्नन्पिबन्नास्तैव मन उत्क्रामन्मीलित इवाश्नन्पिबन्नास्तैव प्राण उदक्रामत्तत्प्राण उत्क्रान्तेऽपद्यत।
तदशीर्यताशारीतीं३ तच्छरीरमभवत्तच्छरीरस्य शरीरत्वम्।
शीर्यते ह वा अस्य द्विषन्पाप्मा भ्रातव्यः पराऽस्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद।
ता अहिंसन्तैवाहमुक्थमस्म्यहमुक्थमस्मीति ता अब्रुवन्हन्तेदं पुनः शरीरं प्रविशाम तद्यस्मिन्नः प्रपन्न इदं शरीरमुत्थास्यति तदुक्थं भविष्यतीति।
वाक्प्राविशदशयदेव चक्षुः प्राविशदशयदेव श्रोत्रं प्राविशदशयदेव मनः प्राविशदशयदेव प्राणः प्राविशत्तत्प्राणे प्रपन्न उदतिष्ठत्तदुक्थमभवत्।
तदेतदुक्थं प्राण एव प्राण उक्थमित्येव विद्यात्।
तं देवा अब्रुवन् त्वमुक्थमसि त्वमिदं सर्वमसि तव वयं स्मस्त्वमस्माकमसीति।
तदप्येतदृषिणोक्तं त्वमस्माकं तव स्मसीति॥ ४॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमेऽध्याये चतुर्थः खण्डः॥ (४)
पञ्चमः खण्डः
तं देवाः प्राणयन्त स प्रणीतः प्रातायत प्रातायीतीं३ तत्प्रातरभवत्समागादितीं२ तत्सायमभवदहरेव प्राणो रात्रिरपानः।
वागग्निश्चक्षुरसावादित्यश्चन्द्रमा मनो दिशः श्रोत्रं स एष प्रहितां संयोगोऽध्यात्ममिमा देवता अद उ आविरधिदैवतमित्येतत्तदुक्तं भवति।
एतद्ध स्म वै तद्विद्वानाह हिरण्यदन्बैदो न तस्येशे यं मह्यं न दद्युरिति प्रहितां वा अहमध्यात्मं संयोगं निविष्टं वेदैतद्ध तत्।
अनीशानानि ह वा अस्मै भूतानि बलिं हरन्ति य एवं वेद।
तत्सत्त्यं सदिति प्राणस्तीत्यन्नं यमित्यसावादित्यस्तदेतत्त्रिवृत्त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिकेति।
स यदि ह वा अपि मृषा वदति सत्त्यं हैवास्योदितं भवति य एवमेतत्सत्त्यस्य सत्त्यत्वं वेद इति॥ ५॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमेऽध्याये पञ्चमः खण्डः॥ (५)
षष्ठः खण्डः
तस्य वाक् तन्तिर्नामानि दामानि तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितं सर्वं हीदं नामनीँ३ सर्वं वाचाऽभिवदति।
वहन्ति ह वा एनं तन्तिसंबद्धा य एवं वेद।
तस्योष्णिग् लोमानि त्वग् गायत्री त्रिष्टुम्मांसमनुष्टुप् स्नावान्यस्थि जगती पङ्क्तिर्मज्जा प्राणो बृहती स च्छन्दोभिश्छन्नो यच्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते।
छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यांचिद्दिशि कामयते य एवमेतच्छन्दसां छन्दस्त्वं वेद।
तदुक्तमृषिणा।
अपश्यं गोपामित्येष वै गोपा एष हीदं सर्वं गोपायति।
अनिपद्यमानमिति न ह्येष कदाचन संविशति।
आ च परा च पथिभिश्चरन्तमित्या च ह्येष परा च पथिभिश्चरति।
स सध्रीचीः स विषूचीर्वसान इति सध्रीचीश्च ह्येष विषूचीश्च वस्त इमा एव दिशः।
आवरीवर्ति भुवनेष्वन्तरित्येष ह्यन्तर्भुवनेष्वावरीवर्ति।
अथो आवृतासोऽवतासो न कर्तृभिरिति।
सर्वं हीदं प्राणेनावृतम्।
सोऽयमाकाशः प्राणेन बृहत्या विष्टब्धस्तद्यथाऽयमाकाशः प्राणेन बृहत्या विष्टब्ध एवं सर्वाणि भूतान्या पिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानीत्येवं विद्यात्॥ २/१/६॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमेऽध्याये षष्ठः खण्डः॥ (६)
सप्तमः खण्डः
अथातो विभूतयोऽस्य पुरुषस्य।
तस्य वाचा सृष्टौ पृथिवी चाग्निश्चास्यामोषधयो जायन्तेऽग्निरेनाः स्वदयतीदमाहरतेदमाहरतेत्येवमेतौ वाचं पितरं परिचरतः पृथिवी चाग्निश्च।
यावदनु पृथिवी यावदन्वग्निस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्याश्चाग्नेश्च य एवमेतां वाचो विभूतिं वेद।
प्राणेन सृष्टावन्तरिक्षं च वायुश्चान्तरिक्षं वा अनु चरन्त्यन्तरिक्षमनु शृण्वन्ति वायुरस्मै पुण्यं गन्धमावहत्येवमेतौ प्राणं पितरं परिचरतोऽन्तरिक्षं च वायुश्च यावदन्वन्तरिक्षं यावदनु वायुस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यन्तेऽन्तरिक्षस्य च वायोश्च य एवमेतां प्राणस्य विभूतिं वेद।
चक्षुषा सृष्टौ द्यौश्चादित्यश्च द्यौर्हास्मै वृष्टिम न्नाद्यं संप्रयच्छत्यादित्योऽस्य ज्योतिः प्रकाशं करोत्येवमेतौ चक्षुः पितरं परिचरतो द्यौश्चाऽऽदित्यश्च यावदनु द्यौर्यावदन्वादित्यस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते दिवश्चाऽऽदित्यस्य च य एवमेतां चक्षुषो विभूतिं वेद।
श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च दिग्भ्यो हैनमायतीँ३ दिग्भ्यो विशृणोति चन्द्रमा अस्मै पूर्वपक्षापरपक्षान् विचिनोति पुण्याय कर्मण एवमेते श्रोत्रं पितरं परिचरन्ति दिशश्च चन्द्रमाश्च यावदनु दिशो यावदनु चन्द्रमास्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यते दिशां च चन्द्रमसश्च य एवमेतां श्रोत्रस्य विभूतिं वेद।
मनसा सृष्टा आपश्च वरुणश्चाऽऽपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे वरुणोऽस्य प्रजां धर्मेण दाधारैवमेते मनः पितरं परिचरन्त्यापश्च वरुणश्च यावदन्वापो यावदनु वरुणस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतेषां न जीर्यतेऽपां च वरुणस्य च य एवमेतां मनसो विभूतिं वेद॥७॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमेऽध्याये सप्तमः खण्डः॥ (७)
अष्टमः खण्डः
आपा३ इत्याप इति तदिदमाप एवेदं वै मूलमदस्तूलमयं पितैते पुत्रा यत्र ह क्व च पुत्रस्य तत्पितुर्यत्र वा पितुस्तद्वा पुत्रस्येत्येतत्तदुक्तं भवति।
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेय आऽहं मां देवेभ्यो वेद ओ मद्देवान्वेदेतःप्रदाना ह्येत इतःसंभृता इति।
स एष गिरिश्चक्षुः श्रोत्रं मनो वाक्प्राणस्तं ब्रह्मगिरिरित्याचक्षते।
गिरति ह वै द्विषन्तं पाप्मानं भ्रातृव्यं पराऽस्य द्विषन्पाप्मा भ्रातृव्यो -भवति य एव वेद।
स एषोऽसुः स एष प्राणः स एष भूतिश्चाभूतिश्च।
तं भूतिरिति देवा उपासांचक्रिरे ते बभूवुऽस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसिति।
अभूतिरित्यसुरास्ते पराबभूवुः।
भवत्यात्मना पराऽस्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद।
स एष मृत्युश्चैवामृतं च।
तदुक्तमृषिणा।
अपाङ्प्राङेति स्वधया गृभीत इत्यपानेन ह्ययं यतः प्राणो न पराङ्भवति।
अमर्त्यो मर्त्येना सयोनिरित्येतेन हीदं सर्वं सयोनि मर्त्यानि हीमानि शरीराणीँ३ अमृतैषा देवता।
ता शश्वन्ता विषूचीना वियन्ता न्य१न्यं चिक्युर्न निचिक्युरन्यमिति निचिन्वन्ति हैवेमानि शरीराणीँ३ अमृतैवैषा देवता।
अमृतो ह वा अमुष्मिल्ँलोके संभवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद य एवं वेद॥ ८॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमेऽध्यायेऽष्टमः खण्डः॥ (८)
॥ समाप्तश्चायमध्यायः॥
“एष एव सदा पन्था भगवान् पुरुषोत्तमः। नित्यं स्वप्राप्तिहेतुत्वात् कर्तृत्वात् कर्म मातृतः। ब्रह्मैष गुणपूर्णत्वात् सत्यं साधुस्वरूपतः। क्वापि तं विस्मरेन्नैव त्यक्त्वा तं नेतरं व्रजेत्। पूर्वे नैनं तत्यजुर्हि ब्रह्माद्यास्तेन संसृतेः। मुक्ताः श्रीश्च तदत्यागान्नित्यमुक्ता गुणाधिका। विहायस्ययनात् प्रोक्ता वयांसीति पिशाचकाः। वर्तितज्ञानतो वङ्गा नरास्तैरवनं सदा। अन्नरूपैर्गृध्नवो हि वङ्गावगधनामकाः। राक्षसा असुरा ईरपादा इति समीरिताः। धर्मो ज्ञानं च वैराग्यमैश्वर्यं चतुरात्मकः। वायुर्देवोऽत्रासुराणामैश्वर्यं गुण एव हि। ईरपादास्ततः प्रोक्तास्ते त्रयो विष्णुमत्यजन्। पराभूतास्ततस्ते तु तमस्यन्धे निपातिताः। देवाश्च ऋषयो मर्त्यसत्तमा इति च त्रयः। आश्रिता विष्णुमेवैकं त्रिस्थानस्थितमच्युतम्। अग्निस्थमाश्रिता मर्त्या विष्णुमर्काभिधं परम्। आजनैरर्चितत्वात् स ह्यर्क इत्युच्यते हरिः। अग्नौ कर्माणि कृत्वैव मानुषा मुक्तिभागिनः। कर्मभिः शुद्धसत्त्वानां कर्मत्यागोऽपि नान्यथा। आश्रिताः सूर्यगं विष्णुमृषयो बृहदित्यसौ। तेजसा बृंहणादुक्तो विष्णुरादित्य इत्यपि। आदानात् सर्ववस्तूनां स्वाध्यायेनामुमाश्रिताः। मुच्यन्त ऋषयो नित्यं नान्यथा तु कथञ्चन। वायुस्थमाश्रिता देवाः पवमानाभिधं हरिम्। संसारात् पावयित्वा यन्महानन्दे मिनोत्ययम्। पवमानस्ततो विष्णुर्व्याप्तः सर्वासु दिक्षु च। आश्रितो भगवान् सर्वैः सर्वत्रापि विशेषतः। आश्रयात् पृथगुक्तोऽयं नित्यानन्दो रमापतिः॥ १॥ उत्थापनादुक्थनामा स एव पृथिवीस्थितः। प्रथितः पृथिवीनामा सोऽन्तरिक्षाभिधोऽत्रगः। अन्तरीक्ष्यो यतो द्युस्थो द्युनामाऽतिप्रकाशनात्। अध्यात्मे च निविष्टोऽसौ पुरुषाख्यो जनार्दनः। पूर्षु स्थितत्वात् स महान् प्रजानां पतिरेव च। अहमुक्थमिति ह्येतां विद्यामनुभवत्यसौ। पृथक्पृथक् च तस्याङ्गान्युक्थानि जगदीशितुः। अग्निवातदिनेशानामुत्थानानि पृथक्पृथक्। वदनं नासिका नेत्रमित्येतानि परात्मनः। तृचाशीतिविभिन्नस्य शस्त्रस्यान्नत्वहेतुतः। विष्णोस्तृचाशीतिवत् स्यात् प्रसिद्धान्नमिति स्फुटम्। अन्नाभिमानिदेवश्च तृचाशीत्याश्च देवताः। सोम एव ततश्चान्नमशीतय इतीरितम्। अदनाघ्राणदृष्ट्याख्यभोगत्रयविभागतः। मुखनासाचक्षुषां तद्भोग्यमन्नं हरेः श्रुतम्। अरणं गमनं यस्मादर्कः शीघ्रगतित्वतः। श्येन एव तदाकारा चितिरर्कपदोदिता। सुपर्णप्रतिमा सा यत् तदारूढो जनार्दनः। तस्मात् तस्यार्क इति सा प्रोच्यते वैदिकैः पदैः। योऽसौ चितिगतो वीन्द्रः सोऽग्निवातरविष्वपि। तथा वाक्प्राणचक्षुष्षु तस्मात् तेऽर्काः प्रकीर्तिताः। तेषु स्थिते सुपर्णे च रूपभेदैः पृथक्पृथक्। स्थितो विष्णुस्तदर्कास्ते तस्मादेव प्रकीर्तिताः। व्याप्तत्वाज्जीवदेहेषु मुखे विष्णोर्मुखं स्मृतम्। नासयोर्नासिके विष्णोरक्ष्णोरेव तदक्षिणी। जीववाक्प्राणचक्षुष्षु तद्वागाद्यास्ततः स्थिताः। विष्णोर्वाग् भार्गवो रामः प्राणोऽस्य नरकेसरी। चक्षुस्तु कपिलो विष्णुरग्न्यादीनां च कारणम्। जीववागादिसंस्थं च सुपर्णमधिसंस्थिताः। अविशेषोऽपि भगवान् पूर्णैश्वर्यस्वरूपतः। अङ्गाङ्गित्वेनैक एव स्वानन्दानुभवे स्थितः। स एव व्यूह्य चात्मानं पृथग्रूप इव स्थितः। सुपर्णनामा भगवान् सुपर्णे च व्यवस्थितः। अग्न्यादिषु च तन्नामा वासुदेवः स संस्थितः। अन्ननामा स एवान्ने चेष्टयन् सर्वमास्थितः। अन्ने स्थितः स एवेशो ह्यन्नदातृगतिप्रदः। तस्यान्तरिक्षगस्यैव नियमादनुपक्षिणः। पतन्ति धावयन्त्यश्वान् नरादींश्च नरादयः। परस्य विष्णोर्धामत्वात् सूर्यो ब्रध्न इतीरितः। निहितश्चैव तल्लोको नासिकायां नतस्थले। पृथिव्यां संस्थितो विष्णुः स्त्रीरूपेण द्युलोकतः। पतितं सर्वमेवात्ति तथा दिवि च संस्थितः। इतो गतं सर्वमत्ति द्युनामा भगवान् परः। भोग्यत्वादाद्य इत्युक्त एवमाद्यात्तृरूपवान्। एक एव परो विष्णुरत्ताऽन्यैरुपजीव्यतः। आद्यो भवति चान्येषां नोपजीव्यो भवेद् यथा। हरिः स सर्वजीवानां न भुज्यन्ते यथाऽमुना। सर्वे लोकास्तथा कर्तुं नैवेष्टे कश्चन क्वचित्॥ २॥ स एव भगवान् विष्णुः प्रजापतिरितीरितः। तस्माज्जाताः सर्वदेवा ब्रह्माद्यास्तेभ्य एव च। वृष्टिः सञ्जायते तस्याः सर्वा ओषधयोऽभवन्। ओषधीभ्योऽन्नमन्नाच्च रेतो रेतस एव च। सर्वाः प्रजाः प्रजायन्ते सङ्कल्पो हृदयाभिधः। प्रजाभ्यो जायते तस्माद् विकल्पाख्यं मनस्तथा। विकल्पाद् वाक्प्रचारश्च वाचा नामादिवेदनात्। कर्म सञ्जायते तस्मात् कर्मणश्च जगत् पुनः। कर्माभिमान्ययं जीवः परस्य ब्रह्मणो हरेः। आवासस्थानमुद्दिष्टो विशेषात् स इरामयः। इच्छानुरूपं तु सुखमिरेत्येव प्रकीर्तितम्। इच्छानन्दप्रभूतत्वात् स एव च हिरण्मयः। हिरुक् सुखं हिरण्यं स्याद् बाह्यानन्दात् पृथग् यतः। आधिक्यार्थे मयड् यस्मादधिकानन्दरूपकः। उत्सृज्य कर्मजं रूपं निजानन्दैकरूपकः। एवं नारायणं जानन् सर्वलोकैककारणम्। तल्लोके दृश्यते भूतैर्मुक्तैरानन्दरूपकः॥ ३॥ तमिमं प्रथमज्ञानिपुरुषं चतुराननम्। वासुदेवाभिधं ब्रह्म प्राप प्रपदयोः पुरा। यस्मात् प्रपेदे भगवान् प्रपदाच्चतुराननम्। तस्मात् प्रपदनादेव प्रपदं नाम कीर्तितम्। चतुर्मुखाकारवतां नृणां पादतलोपरि। प्रपदाख्या वर्ततेऽतो नतु पश्वादिनां क्वचित्। अयादूर्ध्वं ततो विष्णुः प्रपदादूरुमत्र च। स्थित ऊरू च तावास्तामूरूर्ध्वगमनाद्धरेः। किञ्चिदूर्ध्वं ततो गत्वा वायुना सह केशवः। वायुमाहोरुगरणं कुर्वत्र स्थित इत्यपि। उर्वेव गरणं चक्रे वायुर्यत्र स्थितः सदा। तत्स्थानमुदरं नाम पुनराह जनार्दनः। उरु स्थानं निवासं मे कुरु विस्तारसंयुतम्। तथाऽकरोत् स वायुश्च तदुरोऽभूदुरुत्वतः। उरोमध्ये च हृदयं तत्रावासो हरेः सदा। सूक्ष्मदृष्टियुता ये तु मुनयः शार्कराक्ष्यकाः। उदरे ते परं ब्रह्म वासुदेवमुपासते। हृत्स्थमेव परं विष्णुं ध्यायन्त्यारुणयः सदा। उदरस्थं च हृद्गं च ते उभे ब्रह्म तत् परम्। एकमेव यतस्तस्मादुभये ह्यपि तद्विदः। तत ऊर्ध्वं गतो विष्णुर्वायुना सह दैवतैः। स्थितो मूर्धनि देवेशः श्रितोऽसाविति तच्छिरः। तत्र प्राणात्मना वायुर्मनोरूपेण शङ्करः। शेषः सुपर्ण इन्द्रश्च मनांस्येव पृथक्पृथक्। अहम्भावमनो रुद्रः शेषोऽसौ पाञ्चरात्रकम्। वैदिकं गरुडश्चेन्द्रो यज्ञादिविषयं मनः। श्रोत्रं चन्द्रो रविश्चक्षुर्वागग्निः परिकीर्तितः। एते देवास्तदन्ये च सर्वप्राणिषु संस्थिताः। उपासते महाविष्णुं परमात्मानमच्युतम्। वाचा हिंसामकुर्वंस्ते विनिन्दन्तः परस्परम्। ते विष्णोराज्ञयाऽवोचन्नुत्क्रमाम पृथक्पृथक्। देहादब्जभवस्यास्माद् यस्मिन्नुत्क्रान्त एव हि। शरीरं पद्यते श्रेयान् स न इत्यवधार्यताम्। ततः क्रमेण चाग्न्याद्या निष्क्रान्तास्तेषु सर्वशः। निष्क्रान्तेषु न वै पातः शरीरस्याभवत् क्वचित्। वायावुत्क्रान्त एवैतच्छरीरमपतत् क्षितौ। उदासीनवदास्तां तौ केशवश्चाब्जसम्भवः। तेषां बलपरीक्षार्थं वाय्वादीनां च सर्वशः। पुनस्ते प्राविशन् सर्वे वह्निसूर्यो शशी शिवः। नोत्थानमभवत् तेषु प्रविष्टेष्वपि सर्वशः। वायौ प्रविष्टे तूत्थानं कायस्यासीत् तदैव च। उच्चैः स्थितत्वादुक्थोऽभूद् वायुरेव ततः प्रभुः। उच्चत्वं च गुणाधिक्यं त्वमुच्चोऽसीति तेऽब्रुवन्। भृत्या वयं तवैव स्म त्वमस्माकं पतिः सदा। स्पर्धामहे त्वद्बलेन त्वया नान्येन केनचित्। इत्यूचुर्वीन्द्रशेषेशशक्रचन्द्रादिकाः पृथक्। वायुः स संस्तुतस्तैश्च प्रसन्नोऽभूद् दिवौकसाम्॥ ४॥ तस्माच्छ्रुत्वा परं ब्रह्म देवा नारायणाभिधम्। शिष्यप्रशिष्यादिषु च तेऽनयन् वायुनोदितम्। वायुमप्यनयन् सर्वे यशसा तद्गुणोक्तितः। येये गुणान् विजानन्ति वायोस्तानाविशन्मरुत्। तत्रतत्र प्रविष्टत्वात् प्रततोऽसौ बभूव ह। प्रततत्वात् प्रातरिति तस्य नामाभवद् विभोः। सङ्गतश्चाभवज्जीवचिता रूपान्तरेण सः। सङ्गतत्वात् सायमिति तद् रूपं नामतोऽभवत्। वायोस्तत् पुनरध्यात्मं प्राणापानाभिधं द्वयम्। अध्यात्ममग्निर्वागाख्यश्चक्षुः सूर्यः प्रकीर्तितः। यज्ञादिसाधने यत् तु मनश्चन्द्रः प्रकीर्तितः। मित्रो यमश्च वरुणः कुबेरश्च दिगीश्वराः। श्रोत्राभिमानिनः सर्वे वैदिकश्रवणोचितम्। श्रोत्रं चन्द्रस्तथा स्मार्ततान्त्रिकश्रवणोचितम्। यम एव षडङ्गानां विषयश्रवणोचितम्। श्रोत्रं तु वरुणः काम्यशास्त्रार्थं मित्र एव च। श्रोत्रं यन्नीतिशास्त्रार्थं कुबेरश्च प्रकीर्तितः। विष्णुना प्रहितानां हि संयोगोऽध्यात्ममेष हि। शिवादीनां च सर्वेषां मनस्त्वं कथितं पुरा। एताः सर्वा देवता हि ब्रह्मवायुसुपर्णकाः। शेषशङ्करशक्राश्च चन्द्रसूर्ययमा अपि। अग्निश्च मित्रावरुणौ कुबेराद्याश्च सर्वशः। अधिदैवं स एवैक आधिक्यात् पुरुषोत्तमः। देवमात्रास्तदन्ये तु स आविः पुरुषोत्तमः। पूर्णज्ञानस्वरूपत्वादेतावत् कथितं भवेत्। तात्पर्यात् सर्ववेदैश्च तज्जानन्नवदन् मुनिः। हिरण्यदन्नाम बैदो भूतेषु हि सुरानृते। मदभीष्टं ममादातुं नैवेष्टे कश्चनाञ्जसा। विष्णुना प्रहितानां हि देवानामहमुत्तमम्। वेद संयोगमध्यात्मं ततो मुक्तौ यथेष्टभुक्। स्यान्नैवात्रास्ति सन्देहः स्वेच्छाविहृतिरेव च। मन्निषेधे न शक्तोऽस्ति प्रीता देवा हि मे सदा। अधिदैवेन सहिता विष्णुना प्रभविष्णुना। एतद्धि तेन कथितं मुनिना तत्त्ववेदिना। विष्णुप्रहितदेवानां योगमध्यात्ममञ्जसा। वेद तं च नियोक्तारमुपास्ते विष्णुमव्ययम्। एतादृशोपासनाया योग्यः सन् सततं सुधीः। स्वस्वाम्यन्यानि भूतानि हरेयुर्बलिमस्य हि। मुक्तस्य वैष्णवे लोके मुक्तानि च न संशयः। इत्येतद्ध्यानयोग्याश्च मुनयो देवतास्तथा। मानुषा ज्ञानमात्रेण स्वावरैः पूज्यतामियुः। मुक्तामुक्तैर्मुक्तियोग्या इति शास्त्रस्य निर्णयः। स एष भगवान् विष्णुः सत्यमित्यभिधीयते। सर्वोत्तमत्वात् पूर्णत्वात् सर्वज्ञत्वात् तथैव च। देवतात्रयमन्यच्च पृथक् सत्यमितीर्यते। शेषवीन्द्रशिवादिभ्य उत्तमत्वात् सदैव हि। वायुः सदिति सम्प्रोक्तो जीवेषु तु सुपूर्णतः। तीति ब्रह्मा समुद्धिष्टः स एवान्नाभिमानवान्। अन्नं प्रजापतिरिति श्रुतिरन्या ह्यभाषत। अतिनादात् सदा वेदैरप्यन्नं स चतुर्मुखः। यमित्यादित्य उद्दिष्टो यमयेद् यत् प्रकाशनात्। देवतात्रयमेतत् तु सहितं सत्यमुच्यते। शुक्लकृष्णकनीनासु चक्षुषोऽप्येत आस्थिताः। एवं सत्यपदार्थं हि विज्ञायोपास्त आदरात्। योग्यस्तस्या उपासाया नैवासत्येन दुष्यति। देवता मुनयश्चैव योग्या अस्या अपि स्फुटम्। मनुष्याणां ज्ञानमात्राद् दोषो नातितरां भवेत्॥ ५॥ तस्य नारायणस्यैव सर्ववेदात्मिका हि वाक्। तन्तिरूपा जगद्बन्धे नाम ब्रह्मादिकं च यत्। विप्रक्षत्रियवैश्यादिरूपं चाखिलमेव तु। दाम तेनैव बध्नाति सकलं जगदच्युतः। सर्वे हि नामवन्तोऽत्र सर्वे वेदोदिता अपि। वेदात्मिक्या यतो वाचा विष्णुर्वदति सोऽखिलम्। य एतद् विष्णुवाचैव बद्धं नामाख्यदामभिः। ज्ञात्वा जगदुपास्ते तु योग्यः संस्तदुपासने। तं प्रत्येवाखिलान्येव भूतानि सह दैवतैः। बलिं हरन्ति पञ्चाथ भूतान्येनं वहन्ति च। योग्यश्चास्या उपासाया योग्यो ब्रह्मपदस्य यः। भूतयुक्ते रथे तस्मात् स तिष्ठति सुरार्चितः। मुक्तः संश्च तदन्येषां ज्ञानमात्राद् विमुक्तिगैः। स्वावरैः सेव्यतैव स्यात् कैश्चिदेव क्वचित्क्वचित्। तथैव वायुना बद्धं जगदेतत् ततोऽवरम्। सुपर्णशेषगिरिशशक्रसूर्याद्यमञ्जसा। विष्णोर्वायोश्च लोमादौ छन्दांस्येवाश्रितानि च। विष्णोर्विमुक्तवायोश्च लोमाद्यं तु चिदात्मकम्। लोमप्राणादिभेदश्च नैव कश्चिच्चिदात्मनि। छन्नश्छन्दोभिरेवं स केशवस्तेन चाभिधा। छन्दांसीत्येव तेषां हि य एवंविदुपासकः। निवारयन्ति पापेभ्यश्छन्दांसि किमु केशवः। योग्या अस्याश्च विद्याया भृग्वाद्या देवतास्तथा। छन्दस्सु संस्थितो विष्णुर्गोपायत्येव तद्विदः। मन्त्रोऽप्यर्थमिमं प्राहापश्यं गोपामिति स्म ह। एष गोप्ता हि सर्वस्य वायुस्थः पुरुषोत्तमः। छन्दस्सु संस्थितो वायुर्वायौ च स जनार्दनः। वायुश्च वायुसंस्थश्च कदाचिन्नैव तिष्ठतः। वायुर्हि नित्यसञ्चारी सदा सर्वप्रवृत्तिमान्। चोदितः केशवेनैव तत्स्थेनामितशक्तिना। आ समन्तात् पराक् चापि पञ्चभूतेभ्य ईश्वरः। वायुस्तत्स्थो हरिश्चैव चरत्यमितपौरुषः। सध्रीचीनासु पूर्वादिदिक्ष्वेतौ चतसृष्वपि। नित्यदा वसतः कोणदिक्ष्वथासु विषूचिषु। अन्तश्च सर्वलोकेषु चरतो लोकसाक्षिणौ। हस्तयोरेतयोरेव नित्याक्षीणं वसु स्थितम्। तद्ध्यसह्यं बलं वायोरनन्तं किमु तद्धरेः। वायोराधारभूतस्य ताभ्यां हि क्रतुनामकाः। आवृताः सर्वजीवा हि यथैव कनकावटाः। आच्छाद्यन्ते वित्तवद्भिस्ताभ्यामेवं च चेतनाः। आवृता महदाद्यास्तु देहे तिष्ठन्ति चैतयोः। विष्टब्धाश्चैव सर्वेऽपि जीवा आकाश एव च। स वायुः प्रकृतिश्चैव विष्टब्धौ केशवेन हि। बृहत्त्वात् बृहतीत्येव तयोर्नाम प्रकीर्तितम्। वायुकेशवयोः प्राणनाम सर्वप्रणायनात्। विशेषतो बृहत्प्राणो भगवांस्तत्र केशवः। इति विद्यात् ॥ ६॥ तस्य विष्णोरङ्गानामथ वैभवम्। उच्यते तस्य वाचा हि सृष्टावग्निः क्षितिस्तथा। शुश्रूषार्थं तस्य पृथ्वी जनयत्योषधीः प्रभोः। ताः पचत्यग्निरुद्युक्त आहृताआहृताः पुनः। आहरेति वचोऽस्यापि शृण्वन्त्येव महर्षयः। मुखजत्वात् तयोर्विष्णोर्मुखं जनकमिष्यते। आस्यभोग्यं ततो विष्णोरन्नं तौ कुरुतः सदा। सर्वैर्यद् भुज्यते चान्नं तत्रतत्र स्थितो हरिः। तद् भुङ्क्तेऽतस्तदर्थं हि तावन्नं कुरुतः सदा। विष्णोर्वाग्विभवं वेद य उपास्ते च सर्वदा। योग्यः संस्तदुपासायाः स भूम्यग्निसमन्वितः। समं तयोर्व्याप्तिमांश्च तद्वन्मुक्तश्च नित्यदा। अनष्टलोको वसति समीपे केशवस्य च। योग्या अस्या उपासायाः पृथिव्यग्निपदस्य ये। योग्यास्ते वै मुख्यतया तदन्ये यत्र तौ स्थितौ। तत्र चर्तुं समर्था स्युर्मुक्तिं प्राप्य यदृच्छया। कादाचित्कोपासने तु तावत्येषां च योग्यता। वेदनं ह्यापरोक्ष्येण मुख्यं भवति नान्यथा। एकदेशविदो यस्मात् परोक्षज्ञानिनोऽखिलाः। आपरोक्ष्यं भवेद् यस्मान्नैवोपासामृते क्वचित्। तस्मादुपासापूर्वं तु योऽपरोक्षं प्रपश्यति। स एव वेद नान्यस्तु योग्यस्यैवापरोक्षदृक्। तस्माद् योग्यस्योक्तफलमन्येषां किञ्चिदेव हि। प्राणादिभ्यश्च वाय्वाद्या एवं विष्णोः प्रजज्ञिरे। ब्रह्मशेषसुपर्णेन्द्रशिवाद्या आप ईरिताः। ते विष्णोर्मनसा जाताः सर्वे चाबभिमानिनः। वैश्वदेव्यस्ततो ह्यापो वरुणश्च मनोभवः। प्राणिनां पूर्तपुण्येषु श्रद्धारूपमनोधिपः। एवं हि सर्वदेवा हि विष्ण्वङ्गेभ्यः प्रजज्ञिरे। स्वोत्पत्त्यङ्गं च ते विष्णोः शुश्रूषन्ते पृथक्पृथक्। विष्णोर्विषयधर्मेषु ज्ञानादिषु चतुर्मुखः। श्रद्धां ददाति भूतानां वैदिकश्रवणे विपः। तान्त्रिके शेषरुद्रौ च शक्रो यज्ञादिकर्मणि। वायुर्गन्धवहश्चास्य भक्तिज्ञानप्रदस्तथा। भूतानां तस्य विषये त्वन्तरिक्षं च कर्मणः। तदीयस्यैव भोगार्थं जीवानां श्रुतिचारदम्। अन्तरिक्षं च विघ्नेशः सूर्यस्तत्कर्मसिद्धये। भूतानां ज्योतिषो दाता द्यौरप्यन्नाद्यदायिनी॥ ७॥ आप इत्येव देवानां ब्रह्मादीनां कथं भवेत्। नामेत्यपृच्छल्लक्ष्मीस्तं महिदासं जनार्दनम्। आप इत्येव नामैषां भवतीत्याह स प्रभुः। इदं मदाख्यं यद् ब्रह्म ह्याप इत्यभिधीयते। आ पूर्णत्वाद् गुणैः सर्वैस्तन्मूलमखिलस्य च। तूलभूतं तदन्यत् तु पिता ह्येष जनार्दनः। पुत्रा ब्रह्मादयः सर्वे नैवायं वृक्षमूलवत्। स्वतन्त्रत्वाज्जगन्नाथः पितृत्वात् परमेशितुः। तन्नामाप इति ह्येतद् ब्रह्मरुद्रादिनां भवेत्। यथा यदव इत्येव रघवः कुरवस्तथा। पुत्रनाम पितुश्च स्यात् तत्तन्त्रत्वात् सुतस्य हि। यथा पितामहाद्याश्च पितरो नाम कीर्तिताः। तथाऽपि मुख्यया वृत्त्या व्यवहारव्यवस्थितिः। आप इत्येव देवानां सर्वेषां प्रददौ हरिः। स्वकीयमेवमन्यानि पृथक्पृथगदात् प्रभुः। नारायणादिनामानि ददौ नान्यस्य केशवः। एवं स भगवान् विष्णुर्महिदासाभिधः प्रभुः। जानन् नित्योदितज्ञानादाह देवीमिदं वचः। देवपर्यन्तमा व्याप्तिं वेदाहं मम सर्वदा। मत्पर्यन्तं तथा व्याप्तिं देवानामपि सर्वशः। मयि देवास्तेषु चाहमिति विद्धि वरानने। मयैतानि प्रदत्तानि पदानि ब्रह्मपूर्वकाः। अधितिष्ठन्ति सत्ताद्या अप्येतेषां मदाज्ञया। ज्ञानकर्मबलेहाद्या मद्दता इति किं वदे। सम्भृता मत्त एवैते स एष भगवान् गिरिः। गिरणात् सर्वभूतानां चक्षुर्नामास्य दर्शनात्। सर्वश्रोतृत्वतः श्रोत्रं मनो मन्तृत्वहेतुतः। प्राणनामा प्रणेतृत्वात् तमेनं गुणपूर्तितः। गिरणाच्चाखिलस्यास्य प्राहुर्ब्रह्मगिरिं प्रभुम्। य एवं वेद तं विष्णुमापरोक्ष्येण शाश्वतम्। गिरत्येवाखिलं पापं भ्रातृवत् सह संस्थितम्। पराभवति पाप्माऽस्य द्वेष्टा निरयगः सदा। असनाद् भगवान् सोऽसुः सर्वस्यापि जनार्दनः। प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते। स एष भूतिनामाऽपि ज्ञानैश्वर्यादिभूतिदः। अज्ञानादिप्रदातृत्वात् स एवाभूतिनामकः। सुखज्ञानादिगुणदं पूर्णं सर्वगुणैः प्रभुम्। उपासते तं वाय्वाद्या देवास्तस्माच्च तेऽखिलाः। बभूवुः सुखसज्ज्ञानपूर्वैः सर्वगुणैर्युताः। देवानामपि सर्वेषां प्रधानोऽद्यापि मारुतः। स्थित्वा सुप्तेषु विष्णुं तं भूर्भूरित्येव शंसति। भूःशब्दार्थो भूतिरिति वैपरीत्येन चासुराः। अभूतिकारकोऽस्माकमैश्वर्यादिगुणोज्झितः। इत्येवोपासते तस्मात् पराभूताश्च सर्वशः। ज्ञानैश्वर्यादिभिर्हीनाः पेतुरन्धे तमस्यथ। य एवं वेद तं विष्णुं भूतिदं भूतिरूपिणम्। भावाभावं च देवानां दैत्यानां चैवमेव तु। ज्ञानैश्वर्यादिभिः सोऽपि भवेत् तस्य परात्मनः। प्रसादात् तस्य पाप्मा च पराभवति सर्वशः। स एष भगवान् विष्णुर्मृत्युदो मोक्षदस्तथा। स एव जीवनकरो यदाऽपानेन संयुतम्। प्राणं नियमयत्यस्मिन् शरीरे पुरुषोत्तमः। शरीराद् बहिरेतौ तु यदा निःसारयत्यजः। तदा मृत्युप्रदश्चायं मुक्तानामपि जीवनम्। प्राणादेव हि तत्रापि प्राणाधारो जनार्दनः। अवाक् प्राक् च सदा गच्छेद् वायुरानन्दरूपिणा। अनेनैव गृहीतो हि प्राणोऽपानेन संयुतः। अनेन हरिणा यस्मान्नियतो न पराग् भवेत्। अमर्त्यस्तत्प्रसादेन वायुर्देहैः सह स्थितः। अनित्या अपि देहास्ते शश्वत् सन्त्या विमोक्षतः। स्थूलसूक्ष्मविभागेन किमु वायुर्जगत्प्रभुः। नानागती तु तावेतौ वायुः प्राप्नोति केशवम्। शरीरं तु विनष्टं स्यात् पञ्चत्वमुपगच्छति। जडं तज्जडतामेति चेतना वायुदेवता। चेतनेशं हरिं याति विरुद्धगमनौ च तौ। ऊर्ध्वं गच्छति देवः स देहोऽधः पतति क्षितौ। दृश्यमेतच्छरीरं चाप्यदृश्या वायुदेवता। य एवं वेद तं वायुममृतं सर्वनायकम्। पूर्णानन्देन हरिणा गृहीतं तद्वशं सदा। स मुक्तो लोकमाप्नोति विष्णोर्मुक्तैश्च दृश्यते॥”
इति च।
ब्रह्म पन्थाः सत्यं कर्म
इति तस्य नारायणस्य वासुदेवाद्याः क्रमेण चतस्रो मूर्तयः।
नासिकायां यन्नेत्रयोर्मध्ये।
विनतमिव किञ्चिन्नतस्थानं तत् सूर्यलोकस्थानीयं विद्यात्।
तथा
इति निर्णयः।
इरामया इति दैर्घ्यमवधारणार्थम्।
“दैर्घ्यं प्लुतं च हिङ्कारो बिन्दुरप्यवधारणे”
इति शब्दनिर्णये।
ब्रह्मा हैव ता३इ ते।
“देशतः कालतोऽर्थाच्च बलतो गुणतस्तथा। स्वरूपतोऽपि नैव स्याद् भेदोऽत्यल्पोऽपि यत्र हि। केवलैश्वर्ययोगेन यत्र सङ्ख्या द्विवद् भवेत्। स्वरस्पर्शविभागेन तत्रोक्तिः स्याद् विभक्तिषु। अचिन्त्यात् तु तथैश्वर्यादेकोऽपि बहुरूपवान्। प्रकाशयेद् यतो विष्णुः सर्वत्राप्यविशेषवान्। न विशेषो हि रूपाणां मत्स्यादीनां कथञ्चन। नैश्वर्ये न बले चैव नानन्दादिगुणेष्वपि॥”
इत्यादिशब्दनिर्णयवचनाद् द्विवचनमत्र
व्यवहारमात्रमिति दर्शयितुं
ता
ता
“संहितायां यत्र दैर्घ्यं पदे यत्र न विद्यते। उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम्॥”
इत्यतो ब्रह्मा ह इति दैर्घ्यमपि परब्रह्मत्वविवक्षया। अद उ एव नारायणाख्यमधिदैवतमन्यानि दैवतमात्राणि। स्थानान्तरेऽन्येषामप्यधिदैवतत्वकथनं कर्मजदेवाद्यपेक्षया। मुख्याधिदैवतं नारायण एव।
“तस्योष्णिग् लोमानि”
इत्यादि
‘लोमसूष्णिक्’ इत्याद्यर्थे।
“सप्तसु प्रथमा”
इति सूत्रात्।
“स च्छन्दोभिश्छन्नः”
इति वाक्यशेषात्।
“ब्राह्मणोऽस्य मुखमासीत्”ऋग्वेदसंहिता १०/९०/१२
इत्यादिवच्च।
“अङ्गेषु यस्य च्छन्दांसि देवा लोका मखा अपि। तद्वशा नियता नित्यं नमस्तस्मै परात्मने॥”
इति च स्कान्दे।
अस्मै पुण्याय कर्मण इति।
एतमुद्दिश्य जीवानां पुण्यकर्म कर्तुम्।
तैर्हि स्तुत्यादिकर्माणि कृतानि श्रोत्रेण शृणोति भगवान्।
दिग्भ्योऽप्यन्य एव विशृणोति जीवः।
अन्येषां जीवानां श्रवणजं भोगं स्वश्रोत्रेण दिग्भिरननुगृहीतेनैव भगवान् भुङ्क्ते।
नच जीववागादिना पृथिव्यग्न्यादिकं सृष्टमित्यत्र किञ्चिन्मानमस्ति।
“मुखादिन्द्रश्चाग्निश्च”ऋग्वेदसंहिता १०/९०/१३
इत्यादिना भगवतः सकाशाद्धि सर्वेषां सृष्टिः प्रसिद्धा।
सृष्टिभेदादन्यथावचनम्।
नच मुख्यकारणाङ्गीकारेऽविरोध औपचारिकं कारणमङ्गीकर्तुं युक्तम्।
अतिप्रसङ्गात्।
नहि यत्किञ्चित् कारणत्वमस्तीत्येतावता ब्राह्मणस्य चण्डालः पितेत्युच्यते।
पितृत्वं चात्रोक्तम्-
“वाचं पितरम्”
इत्यादिना।
“मनुष्याणां तु यत् कर्म न देवोत्पत्तिकारणम्। दैवतैरुपकारस्तु क्रियते नरकर्मणाम्। देवानां कर्मणैवैते जायन्ते सर्वमानुषाः। प्रधानत्वान्न देवानां नृकर्मोत्पत्तिकारणम्॥”
इति च ब्रह्माण्डे।
“आह महिदास ऐतरेयः”ऐतरेयारण्यकम् २/३/७
इति तु सर्वस्य वचनस्य तदीयत्वज्ञापनार्थम्, नतु सन्निहितस्यैव।
यथा-
“इन्द्रं कुत्सः”ऋग्वेदसंहिता १/१०६/६
इत्यादि।
यथा च-
“पूर्वं तु बादरायणो हेतुव्यपदेशात्”🔗ब्रह्मसूत्रम् ३/२/४२
इति॥ ८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ऐतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके प्रथमोऽध्यायः॥
द्वितीयोऽध्यायः
प्रथमः खण्डः
ॐ॥ एष इमं लोकमभ्यार्चत् पुरुषरूपेण य एष तपति प्राणो वाव तदभ्यार्चत् प्राणो ह्येष य एष तपति तं शतं वर्षाण्यभ्यार्चत् तस्माच्छतं वर्षाणि पुरुषायुषो भवन्ति तं यच्छतं वर्षाण्यभ्यार्चत् तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तम्।
स इदं सर्वं मध्यतो दधे यदिदं किञ्च स यदिदं सर्वं मध्यतो दधे यदिदं किञ्च तस्मान्माध्यमास्तस्मान्माध्यमा इत्याचक्षत एतमेव सन्तम्।
प्राणो वै गृत्सोऽपानो मदः स यत्प्राणो गृत्सोऽपानो मदस्तस्माद्गृत्समदस्तस्माद्गृत्समद इत्याचक्षत एतमेव सन्तम्।
तस्येदं विश्वं मित्रमासीद्यदिदं किञ्च तद्यदस्येदं विश्वं मित्रमासीद्यदिदं किञ्च तस्माद्विश्वामित्रस्तस्माद्विश्वामित्र इत्याचक्षत एतमेव सन्तम्।
तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तं यद्देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वामदेवस्तस्माद्वामदेव इत्याचक्षत एतमेव सन्तम्।
स इदं सर्वं पाप्मनोऽत्रायत यदिदं किञ्च स यदिदं सर्वं पाप्मनोऽत्रायत यदिदं किञ्च तस्मादत्रयस्तस्मादत्रय इत्याचक्षत एतमेव सन्तम्॥ १॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयेऽध्याये प्रथमः खण्डः॥ (९)
ॐ॥ एष नारायणो देवो
वायुना
सहैवेमं
लोकमभ्यार्चत् ब्रह्मादिशरीरेषु प्रविवेश।
पुरुष इत्यन्तर्यामिरूपस्याख्या, पुरि शेत इति।
प्रसिद्धत्वाच्च पञ्चरात्रेषु।
य एष सूर्यमण्डले स्थित्वा तपति
भगवान् स
नारायणः।
“य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद”बृहदारण्यकोपनिषत् ५/७/९
इत्यादिश्रुतिभ्यः।
“य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते”छान्दोग्योपनिषत् १/३/७
इत्युक्त्वा,
“तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी”छान्दोग्योपनिषत् १/३/७
इत्युक्तत्वान्न शिवादयः।
शिवो हि विरूपाक्षः।
प्रसिद्धश्च पुण्डरीकाक्ष इति भगवान् नारायणः।
“यमादित्यो न वेद”बृहदारण्यकोपनिषत् ५/७/९
इत्युक्तत्वान्नादित्यः।
“भेदव्यपदेशाच्चान्यः”🔗ब्रह्मसूत्रम् १/१/२१
इति भगवद्वचनम्।
“वृत्रं यदिन्द्र शवसाऽवधीरहिमादित् सूर्यं दिव्यारोहयो दृशे”,ऋग्वेदसंहिता १/५१/४
“यत् सूर्यस्य हरितः पतन्तीः पुरः सतीरुपरा एतसे कः”,ऋग्वेदसंहिता ५/२९/४
“सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि”,ऋग्वेदसंहिता ९/८६/२२
“चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत”,ऋग्वेदसंहिता १०/९०/१३
“यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः”,ऋग्वेदसंहिता २/१२/७
“उद्वेति प्रसवीता जनानां महान् केतुरर्णवः सूर्यस्य”,ऋग्वेदसंहिता ७/६३/२
“येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च।महानारायणोपनिषत् १/३
यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः॥”महानारायणोपनिषत् ३
“तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद् वृष्टिश्चन्द्रमा आदित्योऽग्निः”ऐतरेयब्राह्मणम् ८/५/२८
इत्यादौ सूर्यस्य सर्वत्र पराधीनत्वावगतेश्च।
“ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः। केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः॥”नारसिंहम् ६२/१७
इति नारसिंहपुराणे।
“तापनी पाचिका चैव शोषणी च प्रकाशनी। नैव राजन् रवेः शक्तिः शक्तिर्नारायणस्य च ॥”
इति पाद्मे।
“यदादित्यगतं तेजो जगद् भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत् तेजो विद्धि मामकम्॥”🔗भगवद्गीता १५/१२
इति च।
नच विष्णोरन्याधीनत्वं श्रुतिषूक्तं कुत्रचित्।
उत्पत्तिस्तु प्रादुर्भावापेक्षया।
“एको नारायण आसीन्न ब्रह्मा नच शङ्करः”महानारायणोपनिषत् १/१
इति महाप्रलये तस्यैवावस्थानश्रुतेः।
“यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्”ऋग्वेदसंहिता १०/१२५/५
इति ब्रह्मशिवादीनां देव्यधीनपदप्राप्तिमुक्त्वा तस्या अपि भगवदधीनत्वम्-
“मम योनिरप्स्व१न्तः समुद्रे। ततो वितिष्ठे भुवना नु विश्वा”ऋग्वेदसंहिता १०/१२५/७
“परो दिवा पर एना पृथिव्या”ऋग्वेदसंहिता १०/१२५/८
इत्याह।
“अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ। अहं सुवे पितरमस्य मूर्धन्”ऋग्वेदसंहिता १०/१२५/६
इति ब्रह्मरुद्रयोर्देव्याः सकाशात् सृष्टिसंहारौ चोक्तौ।
“अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः। विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्॥”ऋग्वेदसंहिता ७/४०/५
इत्यादिना विष्णोः प्रसादादेव शिवादीनां पदप्राप्तिकथनाच्च।
“तमेताः सप्ताक्षितय उपतिष्ठन्ते तद् या इमा अक्षल्ँलोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः”बृहदारण्यकोपनिषत् ४/२/२
इत्यादिना शिवादिसर्वदेवोपास्यस्य वायोः
“अयं वाव शिशुर्योऽयं मध्यमः प्राणः”ऋग्वेदसंहिता ९/११२/२६
इति मध्यमप्राणशब्दोक्तस्य
“प्राणः स्थूणा”बृहदारण्यकोपनिषत् ४/२/१
इति प्राणशब्दोदितो नारायण आश्रय उक्तः।
तस्मात् सर्वोत्तमो भगवान् नारायणः प्राणशब्दोदित आदित्यमण्डलस्थस्तपतीत्यादि सिद्धम्।
“क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः। आजानजाः कर्मदेवास्तात्त्विका दक्ष एव च। शक्रश्चोमा च रुद्रश्च भारती वायुरेव च। मुक्ता उक्ताः शतगुणा बलज्ञानसुखादिभिः। विष्णुभक्त्यादिभिश्चैव गुणैः सर्वैः क्रमाधिकाः। तस्माद् रमा ततो विष्णुरनन्तगुणतोऽधिकः। नित्यमुक्तः स्वतन्त्रश्च नचान्यस्तादृशः क्वचित्। कुत एवाधिकोऽन्यः स्याद् यन्मुक्ता अपि तद्वशाः। रमाऽपि तद्वशा नित्यं स नान्यस्य वशे प्रभुः। न भेदः शेषशिवयोः सुपर्णः शेषसम्मितः। कामः शक्रसमो नित्यं प्रतिबिम्बाश्च ते क्रमात्॥”
इति च महासंहितायाम्।
स पुरुषेषु
शतं वर्षं
गत इति शतर्चिनामा।
बहुरूपत्वाद् बहुवचनम्।
एतमेव तथा सन्तं मुख्यत आचक्षते।
ऋषींस्तूपचारतः।
आत्मन उदरे धृतवान् मध्ये स्थित्वा धृतवांश्च।
“प्राणस्थः प्राणनामाऽसावपानेऽपाननामकः। नेतृत्वाच्चापनेतृत्वाद् भगवान् पुरुषोत्तमः॥”
इति च।
वामो भद्रः॥ १॥
द्वितीयः खण्डः
एष उ एव बिभ्रद्वाजः प्रजा वै वाजस्ता एष बिभर्ति यद्बिभर्ति तस्माद्भरद्वाजस्तस्माद्भरद्वाज इत्याचक्षत एतमेव सन्तम्।
तं देवा अब्रुवन्नयं वै नः सर्वेषां वसिष्ठ इति तं यद्देवा अब्रुवन्नयं वै नः सर्वेषां वसिष्ठ इति तस्माद्वसिष्ठस्तस्माद्वसिष्ठ इत्याचक्षत एतमेव सन्तम्।
स इदं सर्वमभिप्रागाद्यदिदं किञ्च स यदिदं सर्वमभिप्रागाद्यदिदं किञ्च तस्मात्प्रगाथास्तस्मात्प्रगाथा इत्याचक्षत एतमेव सन्तम्।
स इदं सर्वमभ्यपवयत यदिदं किञ्च स यदिदं सर्वमभ्यपवयत यदिदं किञ्च तस्मात्पावमान्यस्तस्मात्पावमान्य इत्याचक्षत एतमेव सन्तम्।
सोऽब्रवीदहमिदं सर्वमसानि यच्च क्षुद्रं यच्च महदिति ते क्षुद्रसूक्ताश्चाभवन्महासूक्ताश्च तस्मात् क्षुद्रसूक्तास्तस्मात् क्षुद्रसूक्ता इत्याचक्षत एतमेव सन्तम्।
सूक्तं बतावोचतेति तत्सूक्तमभवत्तस्मात्सूक्तं तस्मात्सूक्तमित्याचक्षत एतमेव सन्तम्।
एष वा ऋगेष ह्येभ्यः सर्वेभ्यो भूतेभ्योऽर्चत स यदेभ्यः सर्वेभ्यो भूतेभ्योऽर्चत तस्मादृक् तस्मादृगित्याचक्षत एतमेव सन्तम्।
एष वा अर्धर्च एष ह्येभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत स यदेभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत तस्मादर्धर्चस्तस्मादर्धर्च इत्याचक्षत एतमेव सन्तम्।
एष वै पदमेष हीमानि सर्वाणि भूतानि पादि स यदिमानि सर्वाणि भूतानि पादि तस्मात्पदं तस्मात्पदमित्याचक्षत एतमेव सन्तम्।
एष वा अक्षरमेष ह्येभ्यः सर्वेभ्यो भूतेभ्यः क्षरति न चैनमतिक्षरन्ति स यदेभ्यः सर्वेभ्यो भूतेभ्यः क्षरति न चैनमतिक्षरन्ति तस्मादक्षरं तस्मादक्षरमित्याचक्षत एतमेव सन्तम्।
ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्॥ २॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयेऽध्याये द्वितीयः खण्डः॥ (१०)
वसिष्ठो वसतामुत्तमः।
अभ्यपवयत पावयामास संसारात्।
तद् विष्ण्वाख्यं ब्रह्म सूक्तान्यवोचतेति सूक्तनामकमभवत्।
बत इत्यास्वादने।
स्वात्मनैव स्वयं सुष्टूक्तमिति वा।
इदं सर्वं परिपूर्णं सन्नहमल्पप्राणिषु प्रविश्य सूक्ष्मरूपो महाप्राणिषु महारूपश्च भवानीति स भगवानब्रवीत्।
तस्मात्
‘क्षुद्रोऽसानि’
इत्युक्तत्वात्
क्षुद्रसूक्ताः
ते क्षुद्रप्राणिषु स्थिता भगवद्रूपसङ्घाः,
‘महानसानि’
इत्युक्तत्वात्
महासूक्ता
महाप्राणिषु स्थिताः।
सूक्ष्मरूपत्वादेव क्षुद्रनाम भगवतः।
नतु सामर्थ्याल्पत्वात्।
नहि सामर्थ्यादिगुणेषु कश्चिद् विशेषो भगवद्रूपेषु।
एभ्यः प्राणिभ्यो गतवानित्यृक्।
गच्छति हि मरणकाले।
“ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते बुधैः”भारतम् १४/१८/२३
इति हि भारते।
“म्रियमाणमिमं जीवं वासुदेवादिदेवताः। त्यक्त्वा भागेन गच्छन्ति भागतोऽनुव्रजन्ति तम्। गतैर्भागैरपि पुनर्विशेयुर्भोगसिद्धये। भोग्यलोकमनुप्राप्तं तस्मात् स्वप्नवदन्तरा॥”
इति च।
“अर्च गतिपूजनयोः”
[-]
“ऋ गतौ”पाणिनीयधातुपाठः ३/१७
इति धातोः।
सर्वेभ्योऽर्धेभ्यः स्थानेभ्यः शरीरेभ्यो गतवानित्यर्धर्चः।
सर्वाणि भूतान्यपादि।
“पद गतौ”।पाणिनीयधातुपाठः ४/६४, पाणिनीयधातुपाठः १०/४४०
तस्मात् पदं नाम।
अधिकं क्षरतीत्यक्षरम्।
क्षरणं नाम सन्ततदानम्।
“क्षर विनाशसन्ततदानयोः”
इति धातोः।
एवमृषिषु शब्देषु च व्यवह्रियमाणानि सर्वाणि नामानि विष्णोरेव मुख्यतः।
किमु देवतानामानि।
“यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या”ऋग्वेदसंहिता १०/८२/३
“इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्”ऋग्वेदसंहिता १/१६४
“यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः”तैत्तिरीयब्राह्मणम् ३/७/९/३
“नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति”
इत्यादिश्रुतिभ्यः।
न केवलमृष्यादीनां नाम भगवतः सर्वे वेदा अपि तस्यैव नामानि।
किमु च वेदाः।
समुद्रमेघवृक्षपतनभेरीताडनादिसर्वघोषा
अपि तस्यैव नामानि यथायोग्यं योजनीयानि।
एकमेव व्याहरणम्
एकप्रकारमेव नाम।
निर्दोषगुणपूर्तिवाचकत्वादेकप्रकारता।
प्राणे नारायणे एव, नारायणविषय एव व्याहारः।
ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणानल्पज्ञानामपि प्रकाशयन्तीति प्राणे नारायणे एवेति विद्यात्।
उक्तं च बृहत्संहितायाम्-
“हुङ्कारेण सहैवाब्धिः सर्वाभिभवशक्तताम्। विष्णोर्वक्ति यतो हुं च पराभिभववाचकः। ओमिति स्वरते नित्यं वायुर्मेघेषु संस्थितः। बलवन्नादसंयुक्तो ह्याधिकोच्चत्वमस्य तु। ओङ्कारस्यार्थ उद्दिष्ट उक्तार्थाधिक्यमेव च। नादो बली प्रवदति तथा भेरीध्वनिः प्रभोः। अनुदात्तस्वरूपत्वादौदार्यं वदतीशितुः। तदपेक्षयाऽन्यनीचत्वं घण्टाद्याः स्वरितात्मकाः। उच्चस्थितिमुदात्तस्तु स्वर्णचञ्च्वादिकः स्वरः। विष्णोर्वक्ति तथा मन्द्रः श्वासादिः प्रचयात्मकः। एकप्रकारतां विष्णोः सदाऽचाल्यां वदत्यपि। इत्यादयः सर्वघोषा विष्णोरेव गुणोन्नतिम्। वदन्ति किमु वेदाद्या मार्जाराद्यभिधास्तथा। मारयित्वा प्रभक्ष्यैव जरयत्यखिलं जगत्। तेन मार्जार उद्दिष्टो मोषणान्मूषको हरिः। वर्षणाद् वृष उद्दिष्टो बलनाद् बलिनामकः। तारणात् तृणनामाऽसावित्याद्येकोऽभिधीयते। सर्वनामाऽपि भगवान् सर्वशक्तिश्च सर्ववित्। ब्रह्मरुद्रादिजीवेभ्यो जडेभ्यः श्रिय एव तु। व्यतिरिक्तः सदाऽनन्तसान्द्रानन्दैकरूपकः। तस्यैव मुख्यनामानि समाकृष्येतरेष्वपि। उपचारात् प्रवर्तन्ते व्यवहारप्रसिद्धये। तथैव सर्वनामानि प्रवर्तन्ते च मारुते। न तावन्मुख्यवृत्त्यैव मुख्यतोऽन्यव्यपेक्षया। मुख्यतः सर्वनामा तु विष्णुरेको नचापरः। तस्मात् प्राणादिशब्दाश्च विष्णावेव हि मुख्यतः। अन्यव्यपेक्षया वायौ मुख्यवृत्तिर्विधीयते। वायुश्च सूर्यसंस्थः संस्तपत्येतज्जगत् त्रयम्। आज्ञयैव हरेर्वायोः शक्त्या सूर्यस्तपत्ययम्॥”
इत्यादि च।
न प्रसिद्धसूर्यस्येयं तापनशक्तिरिति ज्ञापयितुं
“प्राणो ह्येष य एष तपति”
इत्युक्तम्।
“प्राणाद् वा एष उदेति प्राणेऽस्तमेति”बृहदारण्यकोपनिषत् ३/६/३०
इति च श्रुतिः।
प्राणशब्दश्च मुख्यतो विष्णौ प्रवर्तमानोऽपि वायावपि वर्तते।
अतः सर्ववेदाद्यभिधेयत्वं वायोरप्यस्ति।
“प्राणस्य प्राणम्”बृहदारण्यकोपनिषत् ६/४/१८
इति श्रुतेरुभयोऽपि प्राणशब्दः प्रसिद्ध एव।
“अयं वाव शिशुर्योऽयं मध्यमः प्राणः”बृहदारण्यकोपनिषत् २/२/१
इति वायोर्विशेषणादुत्तमप्राणो विष्णुरिति च सिद्धम्।
“द्वावात्मानौ हि वेदेषु द्वौ प्राणौ द्वौ च चेतनौ। अज्ञानाभिभवास्पृष्टौ वायुर्नारायणश्च तौ। तदन्ये चेतनाः सर्वे प्राणाश्चात्मान एव च। अज्ञानाभिभवस्पृष्टास्तस्मात् ते ह्यधमाः श्रुताः। मध्यमो वायुरेवैक उत्तमः केवलो हरिः। सर्वशब्दोदितौ तस्मादेतौ द्वावेव नापरः। अन्ये चैव मितैः शब्दैरुच्यन्ते नामितैः क्वचित्। श्रीरप्यखिलशब्दोक्ता विष्णुवन्नतु मुख्यतः। तस्मादमितनामानावपि तौ मितनामवत्। श्रीश्च वायुश्च विष्णुस्तु मुख्योक्तेरमिताभिधः। अनन्तनामकत्वाच्च सोऽनन्तगुण ईरितः। पृथङ्नामानि यस्मात् तद्गुणानेव प्रचक्षते॥”
इत्यादि ब्रह्माण्डे॥ २॥
तृतीयः खण्डः
विश्वामित्रं ह्येतदहः शंसिष्यन्तमिन्द्र उप निषसाद।
स हान्नमित्यभिव्याहृत्य बृहतीसहस्रं शशंस।
तेनेन्द्रस्य प्रियं धामोपेयाय।
तमिन्द्र उवाच।
ऋषे प्रियं वै मे धामोपागाः स वा ऋषे द्वितीयं शंसेति।
स हान्नमित्येवाभिव्याहृत्य बृहतीसहस्रं शशंस।
तेनेन्द्रस्य प्रियं धामोपेयाय।
तमिन्द्र उवाच।
ऋषे प्रियं वै ते धामोपागाः स वा ऋषे तृतीयं शंसेति।
स हान्नमित्येवाभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय।
तमिन्द्र उवाच॥ ऋषे प्रियं वै मे धामोपागा वरं ते ददामीति।
स होवाच।
त्वामेव जानीयामिति।
तमिन्द्र उवाच।
प्राणो वा अहमस्म्यृषे।
प्राणस्त्वं प्राणः सर्वाणि भूतानि।
प्राणो ह्येष य एष तपति।
स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि॥
तस्य मेऽन्नं मित्रं दक्षिणं तद् वैश्वामित्रमेष तपन्नेवास्मीति होवाच॥ ३॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयेऽध्याये तृतीयः खण्डः॥ (११)
अन्यदेवताविषयत्वेन प्रतीयमाना अप्यृचो भगवद्विषया एव मुख्यतः।
तदनन्तरं वायुविषयाश्च।
तस्माद् बृहतीसहस्रं सर्वं मुख्यतो नारायणस्यान्नम्।
तदाज्ञया वायोश्च।
तस्मात् तच्छंसनेन भगवान्
वायुश्चातिप्रीयेत
इति दर्शयति-
विश्वामित्रं ह्येतदहः शंसिष्यन्तमित्यादिना॥
“वृत्रं हत्वा पुरेन्द्रस्तु महेन्द्रत्वाभिपत्तये। महाव्रतं कर्म चक्रे हौत्रं चक्रेऽत्र कौशिकः। भृगुरध्वर्युरभवत् ब्रह्म ब्रह्माऽभवत् स्वयम्। उद्गाता वायुरभवत् स्वयं नारायणः प्रभुः। सादस्यमकरोत् तत्र तदन्येऽन्येऽपि चर्त्विजः। बृहतीसहस्रं शंसिष्यन् यदा सस्मार केशवम्। वायुना सह देवेशस्तदा वासवमाविशत्। आविष्टो विष्णुनाऽथेन्द्रो वायुना सह कौशिकम्। शंसेत्युक्त्वा निषण्णोऽभूदिदमन्नं तवेति सः। ऋक्साहस्रं शशंसाथ यज्ञाङ्गत्वेन भक्तितः। तच्छ्रुत्वा तुष्टिमगमत् केशवो वायुसंयुतः। द्वितीयवारं शंसेति प्राह तं च जनार्दनः। प्रीत्यैव शक्रमाविष्टो विश्वामित्रः शशंस तत्। अतिप्रियत्वाद् भगवान् पुनरप्याह कौशिकम्। तृतीयं च शशंसासौ विष्णोरन्नं प्रकल्प्य तत्। ततोऽतितुष्टो भगवान् ददामि वरमित्यमुम्। ऊचे स प्रथमे त्वेव निजसालोक्यमीश्वरः। प्रादाद् द्वितीये सामीप्यं तृतीये पुनरेव च। वरं ददानीत्युक्तः स मुनिः प्राह जनार्दनम्। सम्यक् त्वामेव जानीयामिति मोक्षे सुखोच्चताम्। इच्छंस्तं प्राह भगवानिन्द्रस्थो वायुसंयुतः। सर्वनामाऽहमस्म्येक इति ज्ञानं ममोत्तमम्। यस्मात् सर्वगुणत्वं स्यात् सर्वनामत्व एव तु। नहि दोषाभिधायीनि विष्णोर्नामानि कानिचित्। अदोषत्वान्महाविष्णोर्न सामान्यवचांस्यपि। सर्वोत्तमगुणात्मत्वात् सदा नारायणस्य हि। सर्वोत्तमगुणानेव नामान्याचक्षते हरेः। यावज्ज्ञानेन मोक्षः स्यात् तावज्ज्ञात्वाऽपि कौशिकः। अधिकज्ञानलब्ध्यर्थं मोक्षेऽधिकसुखाप्तये। जानीयां त्वामिति प्राह तस्मा आह स केशवः। इन्द्राविष्टः प्राणनाम तथाऽन्याश्चाभिधाः प्रभुः। प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते। अहेयत्वादहंनामाऽस्म्यसनान्मिनुतेरपि। ततो वेत्तीति च त्वं स पूर्णत्वात् सर्वनामकः। सर्वाणि बहुरूपत्वात् सर्वरूपेषु पूर्तितः। प्रभूतत्वाद् भूतनामा सर्वरूपप्रभूततः। बहुरूपः स भूतानीत्युक्तो विष्णुः सनातनः। सर्वैश्वर्यस्वरूपत्वादेष इत्यभिधीयते। स एव सूर्यसंस्थः सन् लोकं तपति केशवः। सर्वनामवतस्तस्य ममान्नं मित्रमुच्यते। अन्नाभिमानिनी साक्षाच्छ्रीरेव प्रमदोत्तमा। साऽन्नमित्युच्यते विष्णोर्भोग्यत्वान्मित्रमेव च। दक्षभागस्थितेनत्वाद् दक्षिणं नाम सोच्यते। तस्या इनो हि विष्णुः स दक्षभागे स्थितः सदा। यस्याभिमानिन्यन्नस्य लक्ष्मीः सा देवतोत्तमा। वैश्वामित्रं तदन्नं तु ऋक्सहस्रात्मकं मतम्। विश्वामित्रेण दृष्टत्वाद् वैश्वामित्रमितीर्यते। इन्द्राविष्टः कोऽयमिति शङ्कां परिहरन् हरिः। आदित्यसंस्थितो विष्णुस्तपन्नस्मीति चोचिवान्। त्वां जानीयामिति प्रश्नं विश्वामित्रस्य कुर्वतः। अभिप्रायद्वयं ह्यस्ति शक्राविष्टो नचापरः। हरेरिति तु मे तर्कस्तेजोबाहुल्यतोऽजनि। तस्य तर्कस्य सत्यत्वं ज्ञातव्यं प्रथमं मया। द्वितीयं यदि विष्णुः स्याज्ज्ञातव्यो मे विशेषतः। इत्यभिप्रायमस्यैव ज्ञात्वा विष्णुः सनातनः। अभिप्रायद्वयस्यापि परिहारं हरिर्ददौ। प्राणो वा अहमित्यादि नामसन्दर्भमुक्तवान्। विशेषज्ञानसिद्ध्यर्थं नाम्नामुक्तिः परात्मनः। इन्द्राविष्टः कोऽयमिति शङ्कानुत्त्यर्थमेव च। तपन्नेवास्मीत्यवदत् तपन्तं वेद सोऽपि हि। नारायणं सूर्यगतं गायत्र्योपासको हि सः॥”
इति ब्रह्माण्डे।
उपनिषण्णमिन्द्रं दृष्ट्वाऽपि
“त्वामेव जानीयाम्”
इति वरस्वीकारादिन्द्रादेव चेन्द्राविष्टो भगवानत्रोक्त इति ज्ञायते।
इन्द्रं तु जानात्येव हि विश्वामित्रः।
भगवन्तमपि स्वरूपत आगतं जानात्येव।
विशेषज्ञानप्रार्थने,
“प्राणो वा अहमस्म्यृषे”
इत्यादिकमेव पूर्यते।
“एष तपन्नेवास्मि”
इति व्यर्थम्।
“प्राणो ह्येष य एष तपति”
इत्युक्तत्वात्।
“स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि”
इत्यादिनाऽप्याविष्टस्य विष्णुत्वं किञ्चिज्ज्ञायते।
तथाऽपि
“एतेन”
इति तृतीयात्वात् करणत्वाशङ्का भवति।
“तस्य मे”
इति वैयधिकरण्यमिति च।
अतो भगवन्नामानि पृथगुक्त्वा, अहं विष्णुरिति
“एष तपन्नेवास्मि”
इत्युवाचेन्द्रशरीरमेव पश्यतो विश्वामित्रस्य तर्कमात्रतो भगवानिति किञ्चिज्जानत इति ज्ञायते।
नचेन्द्रस्य
प्राणशब्दः सर्वशब्दाभिधेयत्वं च
विद्यते।
“अजस्य नाभावध्येकमर्पितम्”ऋग्वेदसंहिता १०/८२/६
इत्युक्तस्य पद्मनाभस्य हि
“यो देवानां नामधा एक एव”ऋग्वेदसंहिता १०/८२/३
इति सर्वदेवाभिधानत्वमुक्तम्।
इन्द्रे हीन्द्रशब्दोऽपि न मुख्यतो वर्तते।
परमैश्वर्याभावात्।
इन्द्रशब्दोऽपि विष्णावेव वर्तते।
स हि परमेश्वरः।
“यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः”तैत्तिरीयब्राह्मणम् ३/७/९/३
इति श्रुतेश्च।
“इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्”ऋग्वेदसंहिता १/१६४/४६
इत्यादिश्रुतेश्च।
“सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि”ऋग्वेदसंहिता १/१६४/३६
इत्यादिना विष्णुरेव हि तत्र प्रस्तुतः।
“नामानि विश्वाऽभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम्। नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति॥”
इति श्रुतिः।
“यो देवानां नामधा एक एव”ऋग्वेदसंहिता १०/८२/३
इत्यवधारणान्नान्यस्य सर्वनामत्वम्।
स च विष्णोर्नान्यः।
पद्मनाभत्वादेव।
श्रियो वायोरपि न नारायणादिनामवत्वम्।
“एको वासुदेवस्तत्सदृशपरौ न स्तः”
इति हि श्रुतिः।
“एको नारायण आसीत् तत्समो वाऽधिको वा नास्ति”
इति च।
“येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च। यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः”महानारायणोपनिषत् १/२
इत्युक्तस्य समुद्रशायिन एव नारायणस्य
“तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्”महानारायणोपनिषत् १/६
इति परब्रह्मत्वावधारणाच्च विष्णोः परं सदृशं वा नास्त्येव, अतस्तदत्रोच्यत इत्यपि न वक्तव्यम्।
“परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति। न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप॥”ऋग्वेदसंहिता ७/९९/१
इत्यादेश्च।
“नकिरिन्द्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन्। नकिरेवा यथा त्वम्”ऋग्वेदसंहिता ४/३०/१
इत्याद्यपि सर्वनामकत्वात् तस्यैव।
“किमेकं दैवतं लोके किं वाऽप्येकं परायणम्”भारतम् १३/२५४/२
इत्यादिप्रश्नस्यापि,
“परमं यो महत् तेजः परमं यो महत् तपः। परमं यो महद् ब्रह्म परमं यः परायणम्। पवित्राणां पवित्रं यो मङ्गलानां मङ्गलम्। दैवतं देवतानां च भूतानां योऽव्ययः पिता। यतः सर्वाणि भूतानि भवन्त्यादियुगागमे। यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये। तस्य लोकप्रधानस्य जगन्नाथस्य भूपते। विष्णोर्नामसहस्रम्”भारतम् १३/२५४/९-११
इत्येव भारते परिहाराच्च।
“मेऽन्नं दक्षिणम्” इत्युक्तत्वाच्च विष्णुरेवेति ज्ञायते।
स हि विष्णुर्दक्षिणामित्र उक्तो हरिवंशेषु धन्याश्चर्याध्याये।
“दक्षिणाभिः सहैवैतन्मदधस्ताज्जगत् सदा। धन्याश्चर्योऽहमेवैको मित्रं मे दक्षिणा रमा। इत्यवादीद्धरिर्भूपा धन्योऽसीत्युदितो मया॥”
इति नारदवचनम्।
नच बृहतीसहस्राभिमानिनीं देवीं विना चेतनमात्रस्य मुख्यमित्रत्वं युज्यते।
“मिनोति त्रायते चेति मित्रमित्यभिधीयते। तस्माद् योऽयं विजानाति स मित्रं तस्य नान्यथा॥”
इति भारते।
उक्थायुत्वाच्च विष्णुरेवात्रोक्त इत्यवगम्यते।
बृहतीसहस्रं ह्युक्थनामकं मुख्यतः।
“महाव्रतनियुक्तं यदृक्सहस्रं हरेः प्रियम्। तदुक्थमिति सम्प्रोक्तं तेने यो विष्णुरेव हि। तस्मादुक्थायुरित्युक्त ऐश्वर्यादिन्द्र उच्यते। तस्मादुक्थायुरिन्द्रेति विष्णुर्यज्ञेषु पूज्यते॥”
इति गारुडे।
विष्णुर्ह्युक्थायुरिन्द्र इत्युच्यते।
यज्ञेष्वन्य इन्द्रः पृथक् चोच्यते।
“यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः”तैत्तिरीयब्राह्मणम् ३/७/९/३
इत्युक्त्वा
“तस्मै त्वा तेभ्यस्त्वा”तैत्तिरीयब्राह्मणम् ३/७/९/४
इति भेदवचनाच्च।
सत्य इति वायुः।
“सदिति प्राणः”ऐतरेयारण्यकम् २/१/५
इति श्रुतेः।
“सदेव सत्यमित्युक्तं सत्यो वायुरुदाहृतः। साधुत्वं सत्यता प्रोक्ता साधुर्वायुर्हि सर्वतः॥”
इति शब्दनिर्णये।
प्रियधाम्न उप = समीपे गमनं नाम तद्धामप्राप्तिकारणभगवत्प्रसादप्राप्तिः।
अन्यथोपशब्दो व्यर्थः स्यात्।
नच तदैव भगवतः प्रियं धाम विश्वामित्रेण प्राप्तम्।
“बृहतीसहस्रे प्रथमे सालोक्यं प्रददौ हरिः। द्वितीये स्वपुरप्राप्तिं तृतीयेऽन्तःपुरस्य च। तथा स्वविषयं ज्ञानं विश्वामित्रे ददौ प्रभुः॥”
इति च गारुडे।
नचेन्द्रादिभिरैक्यमत्रोच्यते।
“प्राणस्तथाऽनुगमात्”🔗ब्रह्मसूत्रम् १/१/२८
इति च विष्णोरेव प्राणशब्दाभिधेयत्वमुक्त्वा,
“न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्”🔗ब्रह्मसूत्रम् १/१/२९
इति, ‘वक्तुः = बृहतीसहस्रं शंसितुः, विश्वामित्रस्येन्द्रेण स्वात्मोपदेशः क्रियते’ इति पक्षो निराकृतो हि
भगवता सूत्रेषु।
अध्यात्मसम्बन्धशब्देनावेशो विष्णोरिन्द्रे विवक्षितो भगवता।
अन्येष्वन्तर्यामिरूपेण सम्बन्धोऽस्त्येव।
अस्मिन्निन्द्रे तु विशेषावेशस्तात्कालिकः।
अधिकात्मनः परमात्मनः सम्बन्धोऽध्यात्मसम्बन्धः।
नहि स्वात्मना स्वस्य सम्बन्धो भवति।
यद्यध्यात्ममात्रमत्रोच्यत इति विवक्षितं तर्हि ‘अध्यात्मभूमा’ इत्येव स्यात्, सम्बन्धशब्दो व्यर्थः।
तस्मादिन्द्रादिजीवेभ्यो विष्णोर्भेद एवात्र भगवतो विवक्षितः।
“शास्त्रदृष्ट्या तूपदेशो वामदेववत्”🔗ब्रह्मसूत्रम् १/१/३०
इति शास्तुरन्तर्यामिणो विष्णोः सर्वशरीरस्थितत्वात् सर्वनामाभिधेयत्वं चोक्तम्।
“अहं मनुरभवं सूर्यश्च”ऋग्वेदसंहिता ४/२६/१
इत्यादिवत्।
नहि मनुसूर्यादिर्भवति वामदेवस्तेषां पक्षेऽपि।
सर्वप्रवृत्तिहीनतां हि ते मोक्षं वदन्ति।
अत्र च
“अहं भूमिमददामार्याय”ऋग्वेदसंहिता ४/२६/२
इत्यादिना प्रवृत्तिरेवोच्यते।
नच वामदेवेन मन्वादिकर्म क्रियते कदाऽपि।
अतीतार्थश्चायं दृश्यते।
“भूमिमददाम्”
इत्यादिना।
नहि पूर्वं वामदेवेन तानि कर्माणि कृतानि।
भगवान् विष्णुर्हीन्द्राय भूमिमददात्।
स एव च सर्वेष्वन्तर्यामित्वेन स्थित्वा नामप्रवृत्तिनिमित्तानि सर्वकर्माणि कुर्वन्नवबोधसूरिनियमनादिभिर्मनुसूर्यादिसर्वनामा भवति।
यदि भेदस्य पूर्वमपि मिथ्यात्वमङ्गीक्रियते तर्हि भूमिदानादिसर्वकर्मणां मन्वादित्वस्यापि मिथ्यात्वात्,
“अहं मनुरभवम्”ऋग्वेदसंहिता ४/२६/१
इत्यादिकं सर्वमनर्थकमेव भवति।
“जीवेश्वरभिदा चैव जीवभेदः परस्परम्। जडेश्वरभिदा चैव जडभेदस्तथैव च। जडजीवभिदा चैव सत्योऽयं भेदपञ्चकः। न कदाचिन्निवर्त्योऽयं मुक्तौ संसार एव च। य एतदन्यथा ब्रूयुस्ते हि यान्त्यधरं तमः॥”
इति भविष्यत्पर्वणि।
“असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्”🔗भगवद्गीता १६/८
“ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी”🔗भगवद्गीता १६/१४
“एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः”🔗भगवद्गीता १६/९
“आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥”🔗भगवद्गीता १६/२०
इत्यादि च।
नच
“प्राणो वा अहमस्मृषे”
इत्यादावहमस्म्यादिशब्दोऽस्मच्छब्दार्थस्थः।
“एष तपन्नेवास्मि”
इत्युपरितनस्य वैयर्थ्यात्।
“प्राणो ह्येष य एष तपति”
इत्युक्तत्वात्।
अतः
‘अहम्’, ‘अस्मि’
इत्यादि च भगवन्नामैव।
नच जीवैक्यवचनमत्र प्रस्तुतम्।
“ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव”
इति सर्वनामाभिधेयत्वं भगवत उक्त्वा, तत्रैव प्रमाणत्वेन
“विश्वामित्रं ह्येतदहः”
इत्याद्याख्ययिकोक्ता।
तस्मात् सर्वान्तर्यामित्वात्
सर्वगुणत्वात्
सर्वशक्तित्वाच्च सर्वनामवत्त्वमेव विष्णोरुच्यते, नतु सर्वस्वरूपत्वम्।
उक्तं च भारते-
“स्रष्टृत्वाच्चैव पातृत्वान्नियमाच्च प्रकाशनात्। सर्वत्वमुक्तं विष्णोस्तु नतु सर्वस्वरूपतः॥”
इति।
“पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यमिति॥ पुरुषेणैवेदं सर्वं व्याप्तं यद् भूतं यच्च भव्यम्। आ तृणादाकरीषात् सर्वं भगवानिति मिथ्यादृष्टिरेव”
इति च श्रुतिः।
“हिरण्मयो ह वा अमुष्मिल्ँलोके सम्भवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद”,ऐतरेयारण्यकम् २/१/३
“अमृतोऐतरेयारण्यकम् २/१/८
ह वा
अमुष्मिल्ँलोके सम्भवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद”,
“स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्राम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत्”ऐतरेयारण्यकम् २/६/१
इत्यादिना मुक्तानामपि भेदस्यैवोक्तेश्च।
नहि भेदाभावे
“सर्वेभ्यो भूतेभ्यो ददृशे”ऐतरेयारण्यकम् २/१/३
इति युज्यते।
नचामुक्तैः सर्वभूतैर्मुक्तो दृश्यते।
एकत्वे तु
‘ददृशे’
इत्येतावता पूर्यते।
‘सर्वेभ्यो भूतेभ्यः’ इति व्यर्थम्।
नच तेषां पक्षे स्वयमपि स्वात्मानं पश्यति।
कर्तृकर्मविरोध इति हि ते वदन्ति।
अतः सर्वश्रुतिविरोध एव जीवेश्वरैक्याङ्गीकारे।
नच कर्तृकर्मविरोधो नामास्तीत्यत्र किञ्चिन्मानम्।
श्रुत्यनुभवसिद्धत्वाच्च स्वदर्शनादेः।
नच तेषां पक्षे प्रज्ञेन सर्वज्ञेन परमात्मना
सर्वकामावाप्तिर्नामाङ्गीक्रियते
शरीरादुत्क्रान्तस्य ज्ञानिनः।
तस्माद् वेदविरुद्धवादिन एव तेऽपि।
नच शून्यवादिनः कश्चिद् विशेषो दृश्यते।
नहि सर्वावाच्यं सर्वाज्ञेयं शून्यं चेति कश्चिद् विशेषः।
केनापि शब्देनावाच्यस्य लक्षणायामपि प्रमाणं नास्ति।
क्षीरमाधुर्यादयोऽपि तैरेव शब्दैरुच्यन्ते।
“विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम्। गुडस्य पनसादीनां निर्हारीत्यभिधीयते॥”
इति शब्दनिर्णये।
नच सर्वगुणदोषक्रियाविनिर्मुक्तस्यास्तित्वमपि कुत्रचिद् दृष्टम्।
अतः शून्यवादिन एव तेऽपि।
“अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति”🔗काठकोपनिषत् २/३/१३
इत्यादिना प्रसादादिगुणाश्च भगवतो दृश्यन्ते।
“यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः”🔗काठकोपनिषत् १/२/२५
इत्यादिना कर्माणि च।
“तस्मिन् देवाः श्रिताः सर्वे”
इत्यादिगुणाश्च तत्रैवोक्ताः।
“अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः। आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे॥”ऋग्वेदसंहिता १०/७१/७
इति मुक्तानामपि तारतम्यं चोक्तम्।
“श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात् कर्णसंयुताः। अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्ताश्च ये गणाः। तारतम्यं च तेषां हि श्रुतावुदितमञ्जसा। क्षीरसागरदघ्नास्तु केचित् तिष्ठन्ति मुक्तिगाः। उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम्। ऐरे ह्रदे केचिदपि देवा एव परं हरिम्। नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः। सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि॥”
इति ब्रह्मसारे।
“यत्र ब्रह्मा पवमानच्छन्दस्यां३ वाचं वदन्। ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव॥ यत्र ज्योतिरजस्रं यस्मिल्ँलोके स्वर्हितम्। तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव॥ यत्र राजा वैवस्वतो यत्रावरोधनं दिवः। यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव॥ यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः। लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव॥”ऋग्वेदसंहिता ९/११३/६-९
“यत्र तत् परमं पदं विष्णोर्लोके महीयते। देवैः सुकृतकर्मभिस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव॥”
“यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते। कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव॥”ऋग्वेदसंहिता ९/११३/११
इत्यादिना ब्रह्मसूर्ययमादीनां सर्वदेवानां दिवो देव्या अवरोधभूतानां सर्वदेवीनां गङ्गाद्यब्देवतानां च वेदव्याख्यानं सोमयागादिकं
कामचरणं
च मुक्तानां भेदेनावस्थितानामुच्यते।
मुक्ताश्चात्रोच्यन्त इति प्रतीयते।
“अमृतं कृधि” इति वचनात्।
अमुक्तानां स्वेस्वे लोकेऽवस्थानं हि तेषाम्।
मुक्तानां हि विष्णुलोकेऽवस्थानं देवानाम्।
“मुक्तः प्रतिज्ञानात्”🔗ब्रह्मसूत्रम् ४/४/२
“सङ्कल्पादेव च तच्छ्रुतेः”🔗ब्रह्मसूत्रम् ४/४/८
“जगद्व्यापारवर्जम्”🔗ब्रह्मसूत्रम् ४/४/१७
“भोगमात्रसाम्यलिङ्गाच्च”🔗ब्रह्मसूत्रम् ४/४/२२
“अनावृत्तिः शब्दादनावृत्तिः शब्दात्”🔗ब्रह्मसूत्रम् ४/४/२३
इत्यादिमुक्तसूत्रेभ्यश्च
मुक्तानां विष्णोर्भेदो भोगादिकं च सर्वं प्रतीयते।
“ग्राव्णा
सोमे महीयते”
इति ब्रह्मणोऽन्यमुक्तैः पूज्यत्वं च प्रतीयते।
नच सूत्रेषु
निश्चितार्थस्यौपचारिकत्वं
वक्तुं युज्यते।
निर्णयात्मकत्वात् तेषाम्।
अतिप्रसङ्गश्चोपचारादिकल्पने।
“ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः”🔗भगवद्गीता १३/४
इति निश्चितानि
ब्रह्मसूत्राणि।
“बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति। योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः॥”
इति चादित्यपुराणे।
नच
निर्णायकानि
भगवद्वाक्यान्यपहाय मानुषवाक्यैरेव
तेषामुपचारत्वादि
कल्प्यम्।
नच भोगरहिता मुक्तिर्नामान्याऽस्तीत्यत्र किञ्चिन्मानम्।
“भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः। तथा मुक्तावुत्तमायां विष्णुमाविश्य भुञ्जते। विष्णोर्वशाश्च ते सर्वे सर्वदा दुःखवर्जिताः। नतु विष्णुगुणान् सर्वे भुञ्जते ते कदाचन। बाह्यभोगान् भुञ्जते च तारतम्येन कांश्चन। विष्णोर्देहाद् बहिश्चापि निर्गच्छन्ति यथेष्टतः॥”
इति स्कान्दे।
“इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥”🔗भगवद्गीता १४/२
इति भगवद्वचनम्।
तस्मान्मुक्तैरपीज्यमानः सर्वस्माद् भिन्नः सर्वोत्तमः सर्वनामा सर्वशक्तिः सर्वगुणसम्पूर्णो नारायणः सर्ववेदादिषूच्यत इति सिद्धम्॥ ३
चतुर्थः खण्डः
तद्वा इदं बृहतीसहस्रं सम्पन्नम्।
तस्य यानि व्यञ्जनानि तच्छरीरं यो घोषः स आत्मा य ऊष्माणः स प्राणः।
एतद्ध स्म वै तद् विद्वान् वसिष्ठो वसिष्ठो बभूव।
तत एतन्नामधेयं लेभे।
एतदु हैवेन्द्रो विश्वामित्राय प्रोवाचैतदु हैवेन्द्रो भरद्वाजाय प्रोवाच।
तस्मात् स तेन बन्धुना यज्ञेषु हूयते।
तद्वा इदं वृहतीसहस्रं सम्पन्नम्।
तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति।
तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति।
व्यञ्जनैरेव रात्रीराप्नुवन्ति स्वरैरहानि।
तद्वा इदं बृहतीसहस्रं सम्पन्नम्।
तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्य परस्तात् प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः सम्भूय देवता अप्येति य एवं वेद।
तद्योऽहं सोऽसौ योऽसौ सोऽहम्।
तदुक्तमृषिणा सूर्य आत्मा जगतस्तस्थुषश्चेति।
एतदु हैवोपेक्षेतोपेक्षेत॥ ४॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयेऽध्याये चतुर्थः खण्डः॥ (१२)
॥ समाप्तश्चायमध्यायः॥
यावतीभिरृग्भिः शंसिताभिः
षट्त्रिंशत्सहस्राण्यक्षराणि
भवन्ति,
यस्मात् कस्मादपि छन्दसस्तावत्यः शंसनीयाः,
तदा
सम्पादितं बृहतीसहस्रं
भवति।
तत्र या व्यञ्जनाभिमानिदेवता सैव सर्वप्राणिनां शरीराभिमानिदेवता स्वायम्भुवो मनुः।
घोषाभिमानिदेवता सर्वजीवाभिमानी ब्रह्मा।
ऊष्माभिमानी वायुः।
“व्यञ्जनानां शरीरस्य चाभिमानी मनुः स्मृतः। घोषाणां सर्वजीवानामभिमानी चतुर्मुखः। ऊष्माभिमानी वायुश्च प्रतिपाद्यो जनार्दनः। एतेषामधिपं विष्णुं बृहत्युक्थस्य देवताम्। उपास्यैव वसिष्ठोऽभूद् वसिष्ठः शक्र एव च। एतां विद्यां कौशिकाय भरद्वाजाय चादरात्। एतद्विद्याबलेनैव विद्याधीशेन बन्धुना। यज्ञेष्वाहूयते नित्यमिन्द्रो विष्णुप्रसादतः। षट्त्रिंशद्रूपवान् विष्णुर्व्यञ्जनेषु च संस्थितः। तान्येव विष्णुरूपाणि रात्रीणामपि देवताः। एकैकं च सहस्रं तद् व्यञ्जनेषु च रात्रिषु। रूपं विष्णोः स्थितं व्यूह्य षट्त्रिंशतिसहस्रधा। षट्त्रिंशतिसहस्राणि स्वरगाणि हरेरपि। तान्येवाह्नां दैवतानि रूपाणि परमात्मनः। द्वासप्ततिसहस्राणि रूपाण्येवं रमापतेः। शताब्दानामहोरात्रदैवतान्युत्तमानि च। बृहतीसहस्रवर्णानामपि ध्यात्वाऽखिलान्यपि। शतवर्षहरिध्यानफलमाप्नोति पूरूषः। एवं ज्ञात्वाऽपि सम्पाद्य बृहतीनां सहस्रकम्। ज्ञानान्नारायणस्यैव प्रकृष्टज्ञानसन्ततेः। स एव मे मयो विष्णुः प्रकृष्टज्ञानरूपकः। प्राधान्यं मयशब्दोऽयं वक्ति विष्णोः सदैव हि। प्रधानोऽस्य हरिर्यस्मात् प्रज्ञारूपोऽधिदेवता। ब्रह्मामृतं च तेनायं ब्रह्मादिमय उच्यते। सर्वोत्तमस्वरूपत्वाद् विष्णुरुक्तः स देवता। ब्रह्म पूर्णगुणत्वाच्च नित्यत्वादमृतं तथा। एतादृशं तु यो विष्णुं प्रधानं वेत्ति सर्वदा। प्रज्ञादिभिर्गुणैः स्वस्मात् परेभ्यश्च सदाऽधिकम्। प्रज्ञादेवब्रह्मामृतमयः स परिकीर्तितः। प्रज्ञादिमय एवं स भूत्वा देवान् क्रमेण च। एति मारुतपर्यन्तान् मारुतेन च केशवम्। सम्पादनाच्च विद्याया अस्याः परत एव च। द्वासप्ततिसहस्राणि रूपाणि हि रमापतेः। बृहतीसहस्रसंस्थानि स्वरव्यञ्जनभेदतः। तान्येव पुरुषस्थानि यस्मात् पुरुषसंस्थितम्। बृहतीसहस्रं तच्छंस्यं व्यज्यते न ह्यृते नरम्। द्वासप्ततिसहस्राणि तान्येवाहर्निशासु च। विष्णुरूपाणि सूर्येऽपि त्वहोरात्रं हि सूर्यगम्। तस्माद् योऽयमहंनामा सदाऽहेयत्वहेतुतः। स एवासौ सूर्यसंस्थः साक्षान्नारायणः प्रभुः। योऽसौ सूर्यगतो विष्णुः सोऽहेयो भास्करादिभिः। एवं मनुष्यजीवेषु सूर्यादिषु च संस्थितः। एक एव परो विष्णुरिति जीवसमीपगम्। ईक्षेन्नारायणं देवं सर्वजीवेश्वरेश्वरम्॥”
इत्यैतरेयसंहितायाम्।
सम्पन्नस्य परस्तादेवानन्तरमेव।
न पुनः कर्मान्तरेण शरीरारम्भ एवंविदो भवति।
प्रज्ञामयो देवतामय इत्यादि पृथक्पृथङ् मयशब्दोऽनिरुद्धादिचतुर्मूतीनामपि परस्परसाम्येन सर्वजीवेभ्य आधिक्यं ज्ञातव्यमिति दर्शयितुम्।
“अन्तर्यामिस्वरूपेण ज्ञापयन्ननिरुद्धकः। प्रज्ञेत्युक्तो द्योतनाच्च प्रद्युम्नो देवतोदितः। अमं करोति यच्छास्त्रमृतं स्वस्मिन् पुनःपुनः। सङ्कर्षणोऽमृतं तस्माद् वासुदेवस्तु बृंहणात्। जीवानां मुक्तिदानेन ब्रह्मेति कथितः प्रभुः। एवमेकोऽपि भगवांश्चतुर्धा समुदीरितः॥”
इत्यादि चातुरात्म्ये।
“सम्भूय” इत्यत्र समित्युपसर्गाद् बृहतीसहस्रसम्पादनानन्तरं भगवदाधिक्यं पुनराधिक्येन ज्ञायत इत्युक्तं भवति।
भगवदाधिक्यमधिकं ज्ञात्वा देवता अपि क्रमेण प्राप्नोति।
“द्वासप्ततिसहस्राणां रूपाणां पर्युपासनात्। आधिक्यं ज्ञायते विष्णोर्नितरां हि पुनःपुनः। प्राप्नोति देवताश्चैव केशवान्ताः क्रमेण तु। योग्या अस्याश्च विद्याया देवा ऋषय एव च॥”
इत्यादि सत्तत्त्वे।
बृहतीसहस्रस्थितानि विष्णुरूपाणि पुरुषे स्थितानि पुरुषैरहेयत्वादहंनामकानि
तान्येव
सूर्ये स्थितानि।
यान्येव सूर्ये स्थितानि तान्यपि सूर्यादिभिरहेयत्वादहंनामकानि।
एतदेवोक्तं
नारायणाख्यं परं ब्रह्मैव सर्वदा उप समीप ईक्षेत।
नात्र जीवेश्वराभेदो विवक्षितः।
उप समीपे ईक्षेतेति
समीपे दर्शनवचनात्।
नच निरर्थकत्वमुपसर्गस्याङ्गीकर्तुं युक्तम्।
नह्यार्षेषु
वेदादिषु व्याकरणनिरुक्तादिषु चोपसर्गाणां
वैयर्थ्यमङ्गीकृतं कुत्रचित्।
उक्तं च भगवता व्यासेन-
“नानर्थकः स्वरो वाऽपि वर्णो वा कुत्रचिद् भवेत्। पदं वाक्यं कुतश्च स्यान्नाल्पार्थमपि कुत्रचित्। उच्चाराद्यर्थमपि वा नास्ति किञ्चित् स्वरादिकम्। महार्थमेव सर्वं हि वेदे वा वैदिकेऽपिवा॥”
इति।
सुकरं च सर्वपदानामनर्थकत्वकल्पनम्।
यैश्च वाक्यैरर्थवत्त्वं प्रतीयते तेषामप्यनर्थकत्वमेव स्याद् विशेषाभावात्।
नच मानुषवाक्येन वेदपदानामानर्थक्यं कल्प्यम्।
जीवेश्वरैक्यङ्गीकारे ‘योऽहं सोऽसौ’ इत्येव पूर्यते, पुनः ‘योऽसौ सोऽहम्’ इति व्यर्थम्।
नह्यस्य तेनैक्ये तस्यानेन भेदशङ्का भवति।
अस्य तस्येति भेदाङ्गीकारे नाभेदो मुख्यः।
किन्तु तदधीनत्वमेवान्यस्य भवति स्नेहविशेषो वा।
‘चैत्रो मैत्रः, मैत्रश्चैत्रः’ इतिवत्।
तत्र ह्युभयस्नेहापेक्षया पुनर्वचनं युज्यते।
अभ्यासत्वे ह्येकप्रकारेण प्रयोगो दृष्टः।
अत्र हि प्रयोगद्वैविध्यं दृश्यते।
“एकप्रकारा बहुशो वागभ्यास इतीरितः। अर्थान्तरार्था द्विविधा प्रयुक्तेति हि निर्णयः॥”
इति गारुडे।
अहंशब्दस्याहेयत्वाङ्गीकारे नराहेयत्वं सुराहेयत्वं चोच्यते इति न वैयर्थ्यम्।
“अः इति ब्रह्म तत्रागतमहमिति”ऐतरेयारण्यकम् २/३/८
“न वा अहमिमं विजानाति”बृहदारण्यकोपनिषत् ६/५/१४
“तस्योपनिषदहम्”बृहदारण्यकोपनिषत् ७/७/२
इत्यादौ विष्णोरेवाहेयत्वेनहंनामकत्वप्रसिद्धेः।
अहंशब्दस्यास्मच्छब्दार्थकत्वे ‘अहमिमं न जानाति’ इति न युज्यते।
“तस्य भूरिति शिरः — भुव इति बाहू”बृहदारण्यकोपनिषत् ७/७/१
इत्यादिनाऽक्षिसंस्थो भगवानेव ह्यहंशब्दोदितः।
नहि जीवस्याक्षिणि पृथक् शिरोबाह्वादिकं विद्यते।
हृदि स्थितमेव हि
तस्य स्वरूपम्।
जागरितेऽप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवत्।
“अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि”🔗ब्रह्मसूत्रम् २/३/२५
“गुणाद् वाऽऽलोकवत्”🔗ब्रह्मसूत्रम् २/३/२६
इति च सूत्रात्।
“आदित्ये हिरण्मयः पुरुष — तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी”छान्दोग्योपनिषत् १/६/७
इत्यादि सूर्ये स्थितस्य विष्णो रूपमुक्त्वा, अक्षिस्थितस्यापि
“तस्यैतस्य तदेव रूपम्”छान्दोग्योपनिषत् १/७/५
इति कथनाच्च।
“स एष एवैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे”छान्दोग्योपनिषत् १/६/८
इत्यादि लोकाधिपत्यकथनाच्च।
नहि कश्चिद् भिक्षुकः
पातालाद्यधिपतिरित्यत्र
किञ्चिन्मानम्।
तस्माद् भगवानेवाहेयत्वादहंनामा।
“चक्षुर्मित्रस्य वरुणस्याग्नेः”ऋग्वेदसंहिता १/११५/१
‘जगतस्तस्थुषश्चात्मा’ ऋग्वेदसंहिता १/११५/१
इत्यादि जीवेभ्यो भेददर्शनाच्च।
“यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते॥”
इति भारते।
देवता अपि एति प्राप्नोतीत्येव चार्थः।
लयश्चेद् ‘देवतास्वप्येति’ इति स्यात्।
नच विनाशः पुरुषार्थः।
मयट्शब्दस्य भगवत्प्राधान्यार्थत्वानङ्गीकारे “सम्भूय देवता अप्येति” इति ल्यप् न युज्यते।
उपासनायास्तु “सम्पन्नस्य परस्तात्” इत्युक्तत्वात् पूर्वमेव सिद्धिः।
“सर्वस्माद् भिन्नमीशेशं जीवाभेदेन यः स्मरेत्। स यात्यन्धं तमो घोरं नित्यातिशयदुःखदम्। सर्वोत्तमं तु यो विष्णुं भिन्नं जानाति सर्वतः। नित्यानन्दमसौ याति वासुदेवप्रसादतः॥”
इति चैतरेयसंहितायाम्।
अतः सर्वव्यतिरिक्तः सर्वोत्तमः सर्वगुणसम्पूर्णो नारायण इति सिद्धम्।
“सर्वप्रमाणसिद्धत्वं वक्तुमाऽध्यायमूलतः। अध्यायान्ते द्विरुक्तिः स्यात् पूर्वोक्तस्यावधारणे॥”
इति शब्दनिर्णये॥ ४॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ऐतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके द्वितीयोध्यायः॥
तृतीयोऽध्यायः
प्रथमः खण्डः
ॐ॥ यो ह वा आत्मानं पञ्चविधमुक्थं वेद यस्मादिदं सर्वमुत्तिष्ठति स संप्रतिवित्पृथिवी वायुराकाश आपो ज्योतींषीत्येष वा आत्मोक्थं पञ्चविधमेतस्माद्धीदं सर्वमुत्तिष्ठत्येतमेवाप्येत्ययनं ह वै समानानां भवति य एवं वेद।
तस्मिन्योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यान्नमापश्च पृथिवी चान्नमेतन्मयानि ह्यन्नानि भवन्ति ज्योतिश्च वायुश्चान्नादमेताभ्यां हीदं सर्वमन्नमत्त्यावपनमाकाश आकाशे हीदं सर्वं समोप्यत आवपनं ह वै समानानां भवति य एवं वेद।
तस्मिन्योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यान्नमोषधिवनस्पतयोऽन्नं प्राणभृतोऽन्नादमोषधिवनस्पतीन्हि प्राणभृतोऽदन्ति।
तेषां य उभयतोदन्ताः पुरुषस्यानुविधा विहितास्तेऽन्नादा अन्नमितरे पशवस्तस्मात्त इतरान्पशूनधीव चरन्त्यधीव ह्यन्नेऽन्नादो भवति।
अधीव ह समानानां जायते य एवं वेद॥ १॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयेऽध्याये प्रथमः खण्डः॥ (१३)
ॐ॥
“योऽसौ नारायणो देवः परमात्मा सनातनः। नित्याततगुणत्वात् स आत्मेत्युक्तः सदा श्रुतौ। नारायणादिरूपेण पञ्चधाऽवस्थितः सदा। सर्वस्योत्थापकत्वात् स उक्थमित्यभिधीयते। बृहतीसहस्ररूपे च स उक्थे पञ्चधा स्थितः। पञ्चभेदं हि तच्छस्त्रं तृचाशीतित्रयं च यत्। पूर्वापरं तृचाशीत्य इति पञ्चात्मकं हि तत्। प्रथमे पञ्चकाद् भागे स्थितो नारायणः स्वयम्। ऋक्त्रयाशीतिके पूर्वे गायत्रीच्छन्दआत्मके। वासुदेवः स्थितो नित्यमृगशीतित्रये तथा। द्वितीये बृहतीच्छन्दस्यसौ सङ्कर्षणः स्थितः। यस्यावेशबलेनैव जीवः सङ्कर्षणोऽपरः। पृथिवीं बिभर्ति सततं तत्प्रसादात्तवैभवः। तृतीयायां तृचाशीत्यामुष्णिक्छन्दसि केशवः। प्रद्युम्नरूपी सततं स्थितो यस्यैव सन्निधेः। कामः प्रद्युम्ननामाऽभूत् तत्प्रसादात्तवैभवः। उक्थस्यैवान्त्यभागे तु सोऽनिरुद्धो हरिः स्थितः। कामपुत्रोऽनिरुद्धाख्यां यदावेशेन लब्धवान्। एवं पञ्चात्मकं विष्णुं बृहत्युक्थस्य देवताम्। यो वेद सम्यग् वेत्ता स तानि रूपाणि वै हरेः। स्थितानि पञ्चभूतेषु पृथिव्याद्यभिधानि च। तदावेशात् पृथिव्यादिनाम भूतेषु पञ्चसु। पृथुत्वात् पृथिवीनामा भूमौ नारायणः स्थितः। बलज्ञानस्वरूपत्वाद् वायुनामा स एव च। वायौ सङ्कर्षणो नित्यं स्थित आकाशनामकः। व्याप्तत्वाद् वासुदेवस्तु सदाकाशे स्थितः प्रभुः। अनिरुद्धस्तथैवाप्सु बहुरूपो व्यवस्थितः। अम्नामा पालनान्नित्यं प्रद्युम्नो ज्योतिषि स्थितः। ज्योतिर्नामा द्योतनाच्च बहुरूपः पृथक्पृथक्। यद्यप्यस्य हरेः सर्वरूपाण्यप्यखिलैर्गुणैः। पूर्णान्यथापि चैकैकरूपेषु स पृथग्गुणैः। व्यवहारान् पृथग् देवः करोतीव हि लीलया। तस्मात् पृथगिवास्येति नाम विष्णोः परात्मनः। सर्वत्र सर्वनाम्नोऽपि व्यवहारार्थमीर्यते। एतस्माद्धि हरेर्नित्यं जगदुत्तिष्ठति प्रभोः। मुक्तौ लये च तं याति स च सर्वाश्रयः प्रभुः। य एवं वेत्ति तं विष्णुमुपास्ते चापरोक्षतः। स मुक्तः समजातीनामाश्रयश्च भविष्यति। स्वजातीनामुत्तमत्वपदयोग्या हि ये सुराः। ब्रह्मेन्द्राद्यास्ते हि योग्याः साक्षादस्मिन्नुपासने। अन्येषां ज्ञानमात्रेण योग्यमाधिक्यमाप्यते। सङ्कर्षणश्च प्रद्युम्नस्तत्र भोक्तृषु संस्थितौ। भोक्तृशक्तिप्रदौ नित्यं भोक्तारौ च विशेषतः। नारायणानिरुद्धौ तौ भोग्यवस्तुषु संस्थितौ। तर्पकौ सर्वलोकानां तस्माद् भोग्यौ न चर्व्यतः। अवकाशप्रदो नित्यं वासुदेवो नभःस्थितः। एवं पञ्चात्मकं विष्णुं य उपास्ते सदैव तु। अवकाशप्रदः सोऽपि स्वजातीनां भविष्यति। भोक्ता चाप्यायकश्चैव तस्य विष्णोः प्रसादतः। ब्रह्मेन्द्राद्याः स्वजातीशपदयोग्या अमुष्य च। योग्या उपासनस्य स्युस्तदन्ये ज्ञानमात्रके। सङ्कर्षणश्च प्रद्युम्नो जङ्गमेषु व्यवस्थितौ। नारायणानिरुद्धौ तु स्थावरान्तर्गतौ प्रभू। तत्राप्याकाशगो नित्यं वासुदेवो निरञ्जनः। प्राणानां भरणान्नित्यं प्राणभृन्नाम तद्धरेः। नह्यन्यः प्राणभर्ताऽस्ति तमृते पुरुषोत्तमम्। ओषणाच्च निधानाच्च स एवौषधिनामकः। वननीयपतित्वाच्च स एव हि वनस्पतिः। अन्ने स्थित्वा तृप्तिदत्वं तस्याद्यत्वमपीष्यते। पुरुषस्य हरेर्ये तु सदाकारेण संस्थिताः। देवगन्धर्वमर्त्याद्यास्तेषु सङ्कर्षणो हरिः। प्रद्युम्नश्च स्थितो नित्यं पुरुषाकृतिरेव तु। तौ भोक्तारौ च भोग्यानां भोजकावखिलस्य च। नारायणानिरुद्धौ तु तथाऽन्यपशुषु स्थितौ। वृषभाश्वादिरूपेण तृप्तिदावखिलस्य च। वाहनोपानहादीनामारोढारो नरादयः। यतः सङ्कर्षणश्चैव प्रद्युम्नस्तेषु संस्थितौ। ततस्तयोर्हि सञ्चार उपरीव भविष्यति। आकाशगो वासुदेवः पञ्चमोऽत्राप्युपास्यते। वाहनादियुतो मुक्तौ भवेदेतदुपासकः॥”
इत्यैतरेयसंहितायाम्।
आत्मशब्दाच्च न भूतमात्रमत्रोच्यते।
नच मुख्यार्थं परित्यज्योपचारार्थोऽङ्गीकर्तव्यो विरोधाभावे।
सर्वनामवत्वं च भगवतः श्रुत्यैवोपपादितं पूर्वत्र।
“वप नीरोमकरणावकाशप्रदानबीजवर्धनेषु”
इति च धातुः।
तस्मिन् पञ्चके योऽन्नमन्नादं च वेद सोऽस्मिन् स्वजातियूथे विशेषेणान्नाद आ जायते ह।
तस्मिन् वेद अस्मिन्ना जायत इति पृथक्पृथक् पुनःपुनर्विशेषणादुपासकस्य स्वजातिसन्निधानाच्च स्वजाताविति ज्ञायते।
“क्षीराब्धिशयनं विष्णो रूपं यत् पुरुषाभिधम्। सङ्कर्षणश्च प्रद्युम्नस्तदाकारौ नृषु स्थितौ। नारायणानिरुद्धौ तु पश्वाकारौ पशुस्थितौ॥”
इति सत्तत्त्वे।
गुणवैशेष्याभावेन वाहनादिषु चरणमात्रात्
“अधीव चरन्ति”
इत्यादाविवशब्दः
॥१॥
द्वितीयः खण्डः
तस्य य आत्मानमाविस्तरां वेदाश्नुते हाविर्भूय इति।
ओषधिवनस्पतयो यच्च किञ्च प्राणभृत्स आत्मानमाविस्तरां वेदौषधिवनस्पतिषु हि रसो दृश्यते चित्तं प्राणभृत्सु।
प्राणभृत्सु त्वेवाऽऽविस्तरामात्मा तेषु हि रसोऽपि दृश्यते न चित्तमितरेषु।
पुरुषे त्वेवाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामृतमीप्सत्येवं संपन्नः।
अथेतरेषां पशूनामशनापिपासे एवाभिविज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोकौ त एतावन्तो भवन्ति यथाप्रज्ञं हि संभवाः॥ २॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयेऽध्याये द्वितीयः खण्डः॥ (१४)
“आविर्भावं तारतम्याद् यो वेद परमात्मनः। स तस्यैव विशेषेण प्रीतियोगाद् भविष्यति। स्थावरं जङ्गमं चैव भूयस्त्वेनाश्नुते हरिः। आविर्भूतस्तेषु सदा सम्यक् स्वात्मानमेव च। तारतम्यात् सन्निहितं सर्वभूतेषु केशवः। वेत्त्येक एव विष्णोर्यद् विशेषावेशनं सदा। जङ्गमेषु च वृक्षेषु नैव तादृक् शिलादिषु। तस्माद् वृक्षादिषु रसश्चित्तं चलनवत्सु च। दृश्यते न शिलाद्येषु सन्निधिर्नहि तादृशी। शिलाद्येषु स्थितो विष्णुर्भारदार्ढ्यादिकारणम्। नैव चित्तादिकस्यातो वृक्षाद्या उत्तमास्ततः। विशेषोऽयं पदार्थानां नतु विष्णोः कथञ्चन। यत्र विष्णुर्गुणाधिक्यं दर्शयेद् वस्तु तद् वरम्। गुणपूर्णो हि सर्वत्र स्वयं विष्णुः सनातनः। वृक्षेभ्योऽप्यधिकं विष्णुर्जङ्गमेषु प्रकाशितः। तेभ्योऽपि पुरुषे विष्णुर्गुणाधिक्यप्रकाशकः॥”
इत्यादि च।
य आत्मानं परमात्मानमाविस्तराम् आविर्भावतारतम्येन वेद स तस्य विष्णोरेव।
सर्वेषां तदीयत्वेऽपि प्रियत्वात् तदीयत्वविशेषणम्।
ओषधिवनस्पतयो यच्च किञ्च प्राणभृत् तत् सर्वं शिलादिभ्यो भूयस्त्वेन तेष्वाविर्भूतोऽश्नुते भगवान्।
स एव च नारायणः सम्यक्
स्वात्मानमाविस्तरां वेद।
“अन चेष्टायाम्”
इति धातोश्चेष्टावत्त्वमेव प्राणभृत्त्वं पश्वादीनाम्।
ज्ञानानुसारेण ह्युत्पत्तयः सम्भवाः॥ २॥
तृतीयः खण्डः
स एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किञ्चाश्नुतेऽत्येनं मन्यते यद्यन्तरिक्षलोकमश्नुतेऽत्येनं मन्यते यद्यमुं लोकमश्नुवीतात्येवैनं मन्येत।
स एष पुरुषः पञ्चविधस्तस्य यदुष्णं तज्ज्योतिर्यानि खानि स आकाशोऽथ यल्लोहितं श्लेष्मा रेतस्ता आपो यच्छरीरं सा पृथिवी यः प्राणः स वायुः।
स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानस्ता एता देवताः प्राणापानयोरेव निविष्टाश्चक्षुः श्रोत्रं मनो वागिति प्राणस्य ह्यन्वपायमेता अपियन्ति।
स एष वाचश्चित्तस्योत्तरोत्तरिक्रमो यद्यज्ञः स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः स एष यज्ञानां संपन्नतमो यत्सोम एतस्मिन्ह्येताः पञ्च विधा अधिगम्यन्ते यत्प्राक्सवनेभ्यः सैका विधा त्रीणि सवनानि यदूर्ध्वं सा पञ्चमी॥३॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयेऽध्याये तृतीयः खण्डः॥ (१५)
योऽस्मिन् पुरुषे पश्वादिभ्य आधिक्येन सन्निहितो भगवान् स एष पुरुषः समुद्रः
समुद्रिक्तोऽन्येभ्यः।
[-]
[-]
स जीवो यद्यपि भगवत्प्रसादात् सर्वलोकाधिपो भवति सर्वलोकानतीत्य यत्किञ्चिदलौकिकं मोक्षाख्यमप्यश्नुते,
तथाऽपि
तमेनमात्मशब्देन प्रस्तुतं विष्णुमत्येव मन्यतेऽधिकमेव मन्यते स्वात्मनः सर्वस्माच्च मुक्तोऽपि न तेन साम्यं तद्भावं वा मन्यते।
“कृष्णो मुक्तैरिज्यते वीतमोहैः”भारतम् १३/१८/६
“मुक्तानां परमा गतिः”भारतम् १३/२५४/१७
“अमृतस्यैष सेतुः”🔗आथर्वणोपनिषत् २/२/६
इत्यादिवाक्याच्च।
यद्यपि देवलोकाधिपत्यं तद्योग्यस्य विष्णुर्ददाति तदप्यश्नुवीतैव।
बहुगणिकादिपरिवाररूपमशुचीदं पदमित्यादिबुद्ध्या नापह्नवीत।
एनं भगवन्तमतिमन्येतैव
सर्वथा स्वतः सर्वस्माच्चाधिकमेव मन्येत।
यद्यमुं लोकमश्नुते प्राप्नोति अश्नुवीत भुञ्जीत।
पृथिवीलोकाधिपत्येऽपि विष्णोराधिक्यं
सत्पुरुषो मन्यत इति प्रत्यक्षसिद्धत्वान्न पृथगुक्तम्।
अतिशब्दात् “यद्ध किञ्च” इति प्रथमोक्तो मोक्ष इति सिद्धम्।
अन्तरिक्षप्राप्तेरल्पत्वान्मोक्षे स्वतः सिद्धत्वाच्चातिमन्यत इति सिद्धवचनमेव कृतम्।
स्वर्गादिप्राप्तेरधिकैश्वर्याद् भगवत्समोऽहं भगवत्स्वरूप इति वा मन्तुं प्राप्तिरस्तीति “अत्येवैनं मन्येत” इति सावधारणविधिः।
नच मन्यत इति काममात्रम्।
“मनु अवबोधने”पाणिनीयधातुपाठः ८/९
इति धातोः।
नह्यवबोध एव कामः।
अन्यथा राज्यं जानन्नपि राज्यकाम इति स्यात्।
नच मन्यते मन्येतेति द्विविधः प्रयोगस्तस्मिन् पक्षे युज्यते।
नच सर्वलोकमतीत्याश्नतो मुक्तस्य मुक्तेरन्यत्र कामो विद्यते।
सर्वलोकाधिकं च मुक्तिं विना नान्यत्।
तस्मान्मुक्तैरमुक्तैरपि
भगवान् सर्वोत्तमत्वेन
चिन्त्य इति
सिद्धम्।
“पुरुषस्थपञ्चभूतेषु पञ्चरूपो हरिः स्थितः। प्रद्युम्नादिस्वरूपेण ज्योतिरादौ पृथक्पृथक्। स एव च पुनर्वायौ पञ्चधाऽवस्थितः प्रभुः। प्राणादिरूपे वसति ह्यनिरुद्धादिरूपवान्। अनिरुद्धः स प्रद्युम्नस्तथा सङ्कर्षणः प्रभुः। वासुदेवो नारायणः पञ्चरूप इति क्रमात्। पञ्चरूपोऽपि भगवान् यस्माद् वायौ विशेषतः। स्थितस्तेन च खादिभ्यो वायुरेव विशिष्यते। अत एव पृथिव्यादिस्वरूपा मनआदयः। देवाः प्राणाश्रिता नित्यं गच्छन्ति प्राणमन्वपि। पृथिवीमयं मनस्तत्र शेषवीन्द्रशिवेन्द्रकाः। कामानिरुद्धौ देवगुरुर्मनोदेवाः सचन्द्रकाः। श्रोत्रमाकाशरूपं च मित्रधर्मजलाधिपाः। कुबेरश्च दिशां देवाः श्रोत्रदेवा इति श्रुताः। ज्योतीरूपं तथा चक्षुश्चक्षुर्देवो रविः स्मृतः। किञ्चित् तेजोयुता वाक् च विशेषेण त्वबात्मिका। उपचीयते ततः साऽद्भिस्तदभावे च शुष्यति। तृषितस्य हि वागेव पूर्वं मन्दा प्रवर्तते। वाग्देवते ततो वह्निरुमा चापि प्रकीर्तिते। चक्षुष्ट्वमग्नेः श्रोत्रत्वं चन्द्रस्यापि सहोच्यते। स्वाहाया अपि वाक्त्वं च पर्जन्यस्य मनःस्थितिः। द्वितीयमेतदास्थानं श्रुतिवाक्यप्रमाणतः। शेषवीन्द्रशिवादीनां मनआदिस्वरूपिणाम्। आश्रयो वायुरेवैकस्तस्य नारायणः स्वयम्। तस्माद् वायुवशानां हि वाक्चित्तादिस्वरूपिणाम्। देवानां क्रमवृत्तिभ्यो जाते यज्ञेऽपि केशवः। अग्निहोत्रादिके नित्यमनिरुद्धादिरूपकः। पञ्चधाऽवस्थितः सोमे पञ्चरूपो व्यवस्थितः। सवनत्रयात् पूर्वके च सवनत्रितये परे। अनिरुद्धादिरूपेण क्रमेणैव व्यवस्थितः। तमेतं परमं विष्णुं मुक्तोऽप्यत्येव मन्यते। अधिकं ह्येव तस्मात् तं मन्येतान्योऽपि सर्वदा॥”
इत्यादि च।
पञ्चरूपभगवद्ध्यानार्थमेव चैतत् पञ्चविधत्वं सर्वत्रोक्तम्॥ ३॥
चतुर्थः खण्डः
यो ह वै यज्ञे यज्ञं वेदाहन्यहर्देवेषु देवमध्यूह्ळं स संप्रतिविदेष वै यज्ञे यज्ञोऽहन्यहर्देवेषु देवोऽध्यूह्ळो यदेतन्महदुक्थम्।
तदेतत्पञ्चविधं त्रिवृत्पञ्चदशं सप्तदशमेकविंशं पञ्चविंशमिति स्तोमतो गायत्रं रथंतरं वृहद्भद्रं राजनमिति सामतो गायत्र्युष्णिग्बृहतीत्रिष्टुब्द्विपदेति च्छन्दस्तः शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम्।
पञ्चकृत्वः प्रस्तौति पञ्चकृत्व उद्गायति पञ्चकृत्वः प्रतिहरति पञ्चकृत्व उपद्रवति पञ्चकृत्वो निधनमुपयन्ति तत्स्तोभसहस्रं भवति।
एवं ह्येताः पञ्च विधा अनुशस्यन्ते यत्प्राक्तृचाशीतिभ्यः सैका विधा तिस्रस्तृचाशीतयो यदूर्ध्वं सा पञ्चमी।
तदेतत्सहस्रं तत्सर्वं तानि दश दशेति वै सर्वमेतावती हि संख्या दश दशतस्तच्छतं दश शतानि तत्सहस्रं तत्सर्वं तानि त्रीणि च्छन्दांसि भवन्ति त्रेधा विहितं वा इदमन्नमशनं पानं खादस्तदेतैराप्नोति॥ ४॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयेऽध्याये चतुर्थः खण्डः॥ (१६)
“यज्ञेषु यज्ञनामानं याज्यत्वात् पुरुषोत्तमम्। अधिरूढं तथाऽहःसु चाहर्नामानमेव तु। अहार्यत्वाद्धि देवेषु देवं सर्वोत्तमत्वतः। एवं च सर्वनामानं सर्वेषु स्थितमच्युतम्। स्तोमादिषु च यो वेद स सम्यग्विदिति श्रुतः। य एष उक्थनामाऽसौ सर्वोत्थापनको हरिः। महांश्च परिपूर्णत्वात् सहस्रबृहतीस्थितः। अहरह्नां सयज्ञानां यज्ञो देवाधिकोऽपि सः। अनिरुद्धादिरूपेण स विष्णुः पञ्चधा स्थितः। स्तोमसामचितिच्छन्दःशास्त्रेष्वपि पृथक्पृथक्। एकैकमेव तद् रूपमनिरुद्धादिपञ्चकम्। प्रस्तावादिष्वपि विभुः पञ्चधैव व्यवस्थितः। प्रस्तावादीन् पञ्चकृत्वस्तस्मादेव प्रकुर्वते। पञ्चरूपं तमेवैकं स्तोतुमेव पृथक्पृथक्। तत्र ये स्तोमशब्दाश्च संस्थिता बहुकोटयः। पृथक्पृथक् तेऽपि विष्णोः प्रादुर्भावान् प्रचक्षते। अनन्तरूपो हि हरिः शब्दोऽप्येष ह्यनन्तधा। विष्णोः सहस्रनामस्तु यत् तद् रूपसहस्रकम्। बृहतीसहस्रमेतच्च तद् वक्ति हि पृथक्पृथक्। सहस्रशब्दोऽप्यमितं यतो वक्त्यमितान्यतः। नामानि विष्णोरुच्यन्ते सहस्रमिति चाख्यया। अनन्तनामवचने त्वशक्तत्वात् सहस्रकम्। नाम्नां पृथगिदं प्रोक्तमनन्ततनुवाचकम्। विष्णोरनन्तरूपाणामुक्त्या पञ्चशतद्वये। आसीत् सहस्रमित्याख्या सहस्रं मुख्यतोऽमितम्। ब्रह्म यावत् तावती वागिति वेदप्रमाणतः। सहैवानन्तरूपैस्तु सरणेन सहस्रकम्। नाम्ना सह सृतेरेव रूपाणां वा सहस्रता। बृहतीसहस्रं चैतस्माद् रूपानन्ताभिधायकम्। पृथक्पृथग्घिनामार्था ऋच एताः प्रकीर्तिताः। सर्वनामात्मकं तस्मादृक्सहस्रमिदं हरेः। सर्वरूपाण्यतो विष्णोः संस्तुतान्यमुनैव हि। मत्स्यकूर्मक्रोडसिंहवटुभार्गवराघवाः। कृष्णबुद्धौ च कल्कीति रूपाणां दशकं हरेः। पञ्चभेदविभिन्नेन ह्यृक्सहस्रेण शस्यते। रूपाणां पञ्चकं पूर्वमपरं पञ्चकं हरेः। प्रस्तावाद्यैरानिधनैः स्तूयते सामभक्तिभिः। तानि रूपाण्यस्य दश सर्वरूपात्मकानि च। दशनामानि चास्यैव सर्वरूपाभिधान्यपि। पञ्चकं सामभक्तीनामृक्सहस्रं च तद्द्वयम्। स्तावकं सर्वरूपाणामत एव रमापतेः। दशेति सर्वनामैतत् प्रथितं मुख्यतः श्रुतौ। शं रूपं भगवन्तं यद् दद्याद् व्यक्त्या समस्तशः। दशेत्यमितनाम्नां तदाख्या रूपेषु शंददेः। सर्वनामार्थवचनात् पञ्चकद्वितयस्य च। अभूद् दशेति वै नाम तस्मादेतद् दशाखिलम्। दशैव मूलसङ्ख्या च तद्विभेदाः शतादयः। ऋक्सहस्रमिदं तस्मादनन्तगुणमच्युतम्। अनन्तशक्तिममितरूपनामानमेव च। वक्ति छन्दस्त्रयं चात्र तृचाशीतित्रयात्मकम्। अशनादित्रिकं तच्च भूत्वा विष्णुमुपैति च। सर्वच्छन्दोभिधश्चैव सर्वदेवाभिधस्तथा। सर्वमुन्यभिधश्चैव सर्ववस्त्वभिधो हरिः। अनन्तपूर्णगुणकस्तस्माज्ज्ञेयो रमापतिः। मुख्यतोऽस्यां च विद्यायां योग्य एकश्चतुर्मुखः। एकदेशपरिज्ञाने त्वन्ये योग्याः शिवादयः॥”
इति च।
“त्रिविधो ह्यनिरुद्धोऽसावध्यात्मादिविभेदतः। अतस्त्रिवृदिति प्रोक्तस्तथा पञ्चदशात्मकः। प्रद्युम्नः पञ्चभूतेषु ह्यध्यात्मादिविभेदतः। लिङ्गसप्तदशस्थत्वात् तावान् सङ्कर्षणः श्रुतः। सप्तधातुषु संस्थः सन्नध्यात्मादिविभेदतः। एकविंशो वासुदेवो मनआदिचतुष्टये। गुणत्रये च प्रकृतावध्यात्मादिविभेदतः। मूलरूपेण च सह पञ्चविंशात्मकः प्रभुः। नारायणस्त्वचिन्त्यात्मा स एकोऽपि ह्यनन्तधा। गायकानां त्राणतोऽसौ गायत्रमनिरुद्धकः। प्रद्युम्नो हि रथारूढस्तेन चोक्तो रथन्तरम्। बृहद्रूपो बृहन्नामा तथा सङ्कर्षणः प्रभुः। भद्रं तु वासुदेवोऽसौ भद्रमोक्षप्रदो यतः। नारायणो राजनं स्याद् राजयत्येष मोक्षिणः। गायत्री त्वनिरुद्धोऽसौ त्रिकाले गीयते यतः। उष्णिगुष्णस्वरूपत्वात् प्रद्युम्नोऽग्न्यादिसंस्थितः। स्त्रीरूपो बृहतीनामा बृहत्सङ्कर्षणः प्रभुः। वासुदेवस्तथा त्रिष्टुप् त्रिवेदैः स्तूयते यतः। नारायणस्तु स्त्रीरूपो द्विधेवासौ व्यवस्थितः। द्विपदेति ततो नाम सर्वच्छन्दोभिधा इमे। वनितातनवः प्रोक्ता मध्यं नारायणः प्रभुः। वासुदेवोऽस्य पुच्छं च वामदक्षौ च पक्षकौ। सङ्कर्षणश्च प्रद्युम्नः क्रमादेवं प्रकीर्तितौ। अनिरुद्धः शिरश्चैव तथैकोऽपि हि पञ्चधा। प्रस्तावनामाऽनिरुद्धो रक्षन् संस्तूयते यतः। सृजन् जगच्च रमया प्रद्युम्नस्तत्र गीयते। उद्गीथनामा तेनासौ जगदुद्गमनेन वा। संहारात् प्रतिहाराख्यस्तथा सङ्कर्षणः प्रभुः। मोचयित्वा समीपं हि द्रावयेद् वासुदेवकः। तेनोपद्रवनामाऽसौ निधीयन्ते यतोऽखिलाः। मुक्ता नारायणे देवे तेनासौ निधनाभिधः॥”
इत्यादि च।
स्तूयमानत्वात् स्तोमः।
समत्वात् साम।
छन्द्यत्वात् छन्दः॥ ४॥
पञ्चमः खण्डः
तद्धैतदेके नानाच्छन्दसा सहस्रं प्रतिजानते किमन्यत्सदन्यद्ब्रूयामेति।
त्रिष्टुप्सहस्रमेके जगतीसहस्रमेकेऽनुष्टुप्सहस्रमेके।
तदुक्तमृषिणा।
अनुष्टुभमनु चञ्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत्तदुक्तं भवति।
स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः।
ईश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽऽहाकृत्स्नो ह्येष आत्मा यद्वागभि हि प्राणे न मनसेऽस्यमानो वाचा नानुभवति।
बृहतीमभि संपादयेदेष वै कृत्स्न आत्मा यद्बृहती।
सोऽयमात्मा सर्वतः शरीरैः परिवृतस्तद्यथाऽयमात्मा सर्वतः शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता।
मध्यं ह्येषामङ्गानामात्मा मध्य छन्दसां बृहती।
स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽऽह कृत्स्नो ह्येष आत्मा यद्बृहती तस्माद्बृहतीमेवाभि सम्पादयेत्॥ ५॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयेऽध्याये पञ्चमः खण्डः॥ (१७)
तदिदमुक्तप्रकारेणैव बृहतीसहस्रं सम्पन्नं भवति।
तदेके नानाच्छन्दसां सहस्रं शंसितव्यमेव बृहतीसहस्रसम्पादनमविवक्षितमिति प्रतिजानते।
केचित् त्रिष्टुप्सहस्रमेव शंसितव्यमिति।
अनुष्टुप्सहस्रमेवेति वदन्तोऽनुष्टुप्प्रशंशात्मिकामृचं
दर्शयन्ति।
बीभत्सूनां जगद्भर्तुमिच्छूनाम् अपां सयुजं सहैव चरन्तं चाहुः।
विष्णुं हंसस्वरूपिणम् अनुष्टुभं चर्चूर्यमाणं पुनःपुनर्वदन्तं परमेश्वरं ददृशुश्च।
“मेघसंस्थं हंसरूपं तं विष्णुं परमेश्वरम्। विरिञ्चशिवपूर्वेभ्यो नृसिंहानुष्टुभं पराम्। उच्चारयन्तमर्थांश्च व्याचक्षाणं समन्ततः। ददृशुर्मुनयो दिव्या आचार्यं ब्रह्मशर्वयोः। एवं वायुं च ददृशुस्तत्र हंसस्वरूपिणम्। शिवादिभ्यो व्याहरन्तं तामेवानुष्टुभं पराम्॥”
इत्यादि च।
वागाख्यायामनुष्टुभ्युच्चार्यमाणायां हि मुनयो विष्णुं ददृशुः।
अतो ब्रह्मादयोऽपि विष्णोः
सकाशादनुष्टुबर्थं
सर्वदा शृण्वन्तीति
ज्ञायते।
अतोऽनुष्टुबेव छन्दसां वरेति चोक्तं भवति।
“अनुष्टुभां सहस्रं तु यः शंसीतात एव तु। भवितुं चेश्वरः स स्याद् भावो मुक्तिर्नचान्यथा। यशस्वी स प्रसिद्धः स्याच्छुभकीर्तिश्च सर्वदा। स्वच्छन्दमृत्युता च स्यात् तस्येत्याहैतरेयकः। महैतरेयो भगवान् तन्नेत्याह रमापतिः। नानाच्छन्दःप्रशंसादिप्रमाणरहितत्वतः। परिहाराय चापूर्णमैतरेयमुने शृणु। त्वं तु मन्त्रमुदाहृत्य यस्मादेतदवोचथाः। तस्माद् वक्ष्याम्युत्तरं ते प्रियः शिष्योऽसि मे यतः। उमैव वागिति प्रोक्ता साऽनुष्टुबभिमानिनी। अकृत्स्ना सा ततो नैव ब्रह्मेत्युक्ता कथञ्चन। वागिन्द्रियाभिमानिन्यां नहि ब्रह्मवचः क्वचित्। वायुना प्राणरूपेण मनोरूपशिवेन च। अभ्यस्यमानोऽनुभवेत् पुमान् वाचा तु न क्वचित्। अभिमानी बृहत्यास्तु वायुरेव यतः प्रभुः। तस्मादेषा छन्दसां हि वरिष्ठा बृहती स्मृता। पूर्णो हि वायुर्देवानां तस्माद् ब्रह्मेति चोच्यते। माहात्म्याधिक्यतश्चैव बृहतीत्येव नाम तत्। अङ्गेभ्य एव सम्भूतान्यन्यच्छन्दांसि चाब्जजात्। मध्यात् तु बृहती जाता तस्मात् सा मध्यमुच्यते। पठ्यते तेन मध्ये सा छन्दसां प्रवरा सती। छन्दांस्यन्यान्यङ्गवत् स्युर्मध्यवद् बृहती परा। सप्तच्छन्दांसि चैवं हि प्रतिमा वैष्णवी मता। गायत्रीदेवतात्वं च लक्ष्म्या यत्राभिधीयते। बृहती देवता तत्र भगवान् पुरुषोत्तमः। आधिक्यं छन्दसां यत्र गायत्र्यास्तु विवक्षितम्। तत्र तत्पुत्रको वायुर्बृहतीदेवता मता। ऋचामाधिक्ययोगार्थं नाङ्गीकर्तव्यमत्र तत्। प्रधानत्वाद् बृहत्यास्तु जगत्याद्यं न युज्यते। सम्पादनाद् बृहत्यास्तु मुक्तो भवितुमीश्वरः। स्यात् प्रसिद्धः सुकीर्तिश्च छन्दोमृत्युर्गुणाधिकः। इति प्राह स्वयं विष्णुर्महिदासाभिधः प्रभुः॥”
इत्यादि च।
“इतोऽन्यत् सत् किमित्याहुर्नानाच्छन्दस्त्ववादिनः। अन्यत् सद्रूपमित्याहुस्त्रिष्टुब्वादिन एव ते॥”
ऐन्द्रं प्राणं परमेश्वरसहितं वायुम्।
प्राणेन मनसा च।
अभि इस्यमानोऽभ्यस्यमानः।
“तृतीयोऽतिशये”
इति सूत्रादकारस्येकारः।
“मथनान्मिथिलो जातः सहनात् सिंह उच्यते”
[-]
“हत्वी दस्यून्”ऋग्वेदसंहिता २/२०/८
इत्यादिवच्च।
अभ्यस्यमानः अभितः क्षिप्यमाणो विषयेषु बहुशः।
कृत्स्न आत्मा कृत्स्नप्रतिमा विष्णोः।
“एकाऽपि प्रतिमा विष्णोर्बृहती च्छन्दसां वरा। अन्यच्छन्दोभिधा यत् स्यात् प्रतिमा मध्यमेव तत्॥”
इति च।
एवं ब्रह्मादिभिः श्रूयमाणाऽनुष्टुबपि बृहत्या अङ्गमिति बृहत्या एवाधिक्यमुक्तं भवति॥ ५॥
षष्ठः खण्डः
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्यैकादशानुष्टुभां शतानि भवन्ति पञ्चविंशतिश्चानुष्टुभ आत्तं वै भूयसा कनीयः।
तदुक्तमृषिणा।
वाचमष्टापदीमहमित्यष्टौ हि चतुरक्षराणि भवन्ति।
नवस्रक्तिमिति बृहती संपद्यमाना नवस्रक्ति ।
ऋतस्पृशमिति सत्यं वै वागृचा स्पृष्टा।
इन्द्रात्परि तन्वं मम इति तद्यदेवैतद्बृहतीसहस्रमनुष्टुप्संपन्नं भवति तस्मात्तदैन्द्रात्प्राणाद्बृहत्यै वाचमनुष्टुभं तन्वं संनिर्मिमीते।
स वा एष वाचः परमो विकारो यदेतन्महदुक्थं तदेतत्पञ्चविधं मितममितं स्वरः सत्यानृते इति।
ऋग्गाथा कुम्ब्या तन्मितं यजुर्निगदो वृथा वाक्तदमितं सामाथो यः कश्च गेष्णः स स्वर ओमिति सत्यं नेत्यनृतम्।
तदेतत्पुष्पं फलं वाचो यत्सत्यं स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः पुष्पं हि फलं वाचः सत्यं वदति।
अथैतन्मूलं वाचो यदनृतं तद्यथा वृक्ष आविर्मूलः शुष्यति स उद्वर्तत एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति स शुष्यति स उद्वर्तते तस्मादनृतं न वदेद्दयेत त्वेनेन।
पराग्वा एतद्रिक्तमक्षरं यदेतदो३मिति तद्यत्किञ्चोमित्याहात्रैवास्मै तद्रिच्यते स यत्सर्वमों कुर्याद्रिञ्च्यादात्मानं स कामेभ्यो नालं स्यात्।
अथैतत्पूर्णमभ्यात्मं यन्नेति स यत्सर्वं नेति ब्रूयात्पापिकाऽस्य कीर्तिर्जायेत सैनं तत्रैव हन्यात्।
तस्मात्काल एव दद्यात्काले न दद्यात्तत्सत्यानृते मिथुनी करोति तयोर्मिथुनात्प्रजायते भूयान्भवति।
यो वै तां वाचं वेद यस्या एष विकारः स संप्रतिविदकारो वै सर्वा वाक्सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति।
तस्यै यदुपांशु स प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात्तत्तिर इव तिर इव ह्यशरीरमशरीरो हि प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात्तदाविराविर्हि शरीरम्॥६॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयेऽध्याये षष्ठः खण्डः॥ (१८)
बृहतीसम्पादनेऽनुष्टुप्शंसनामात्रात् पञ्चविंशोत्तरशतानुष्टुबाधिक्यं च भवति।
अत आधिक्यात् बृहतीसम्पादनमेव वरम्।
तस्यात्रैवान्तर्भावात्।
जगत्यादिकं त्वधिकत्वेऽपि बृहतीवन्माहात्म्याभावादेवोपेक्ष्यते।
“वाचमष्टापदीमहम्” इत्यनुष्टुभो बृहतीसम्पादनवचनाच्च।
अष्टचतुरक्षराण्यनुष्टुप्।
तस्या एव बृहतीसम्पादने नव स्रक्तयो भवन्ति।
ऋचा वाक् ऋग्रूपेण वाग् ऋतं स्पृष्टा सत्यरूपं विष्णुं स्पृष्टा भवति।
इन्द्रस्य परमेश्वरस्य विष्णोः सम्बन्धी नितरां प्रियत्वाद् यः प्राणदेवता वायुस्तस्य प्रतिमारूपमिदं बृहतीसहस्रम्।
स च वायुर्विष्णोर्मुख्यप्रतिमा।
तस्माद् विष्णोरेव प्रतिमा बृहतीसहस्रम्।
तस्मात् तस्यैव बृहतीसहस्रत्वेन सम्पन्नस्य पञ्चविंशोत्तरैकादशशतानुष्टुप्त्वेन सम्पादने बृहतीदैवतप्राणरूपाद् वायोरनुष्टुब्देवताया वाग्रूपाया उमाया उत्पत्तिः संस्मृता भवत्येवं जानतः।
ततश्चोमाया अपि भगवत्प्रतिमात्वाद् विष्णुप्रतिमास्थापक एव भवत्येतत् सर्वं सम्यग् ध्यायन्।
विष्णुरेव
बृहत्याः प्राणस्याधिष्ठातृदेवता।
प्रतिमाधिष्ठितदेवतावत्।
तस्माद् बृहत्याः सकाशादनुष्टुप्सम्पादने तस्यैव विष्णोः प्रतिमान्तरं तस्मादेव निर्मितं भवति।
अत एवेन्द्रात् परितन्वं मम इत्युक्तम्।
बृहतीस्थविष्णोर्बलादेव
तत्
सम्पद्यते।
स हि तस्याः षट्त्रिंशदक्षरादित्वमपि नियमयति तत्प्रसादाद् वायुश्च।
वायुरेव
यद् भगवन्नियतो नियामयति
तस्मात्
“इन्द्रात् परि”
इत्यस्य ‘ऐन्द्रात् प्राणात्’ इति व्याख्या कृता।
“यावत्सहस्रं बृहती तावच्छंसेदनुष्टुभाम्। छन्दसां वा तदन्येषां बृहतीत्वं स्मरेत् ततः। तेन सर्वगतो विष्णुः सर्वस्मादधिकोऽर्चितः। भवेदेवं जानतस्तु कृता च प्रतिमा भवेत्। तथा वायोरपि कृता वायुर्हि प्रतिमा हरेः। तस्माद् वायुकृतं सर्वं क्रियते विष्णुनैव हि। बृहतीसहस्रं सम्पन्नमेकादशशतं पुनः। अनुष्टुभां स्मरेत् पञ्चविंशोत्तरमुदारधीः। तेन वायोरुमोत्पत्तिः सम्यग्ज्ञानात् स्मृता भवेत्। ततो द्वितीयप्रतिमा विष्णोरेव कृता भवेत्। विष्णुनाऽनुप्रविष्टौ यदुमा वायुश्च तद्वशौ॥”
इत्यादि च।
स्रक्तयो विभागाः।
“स्रक्तिरंशो विभागश्च विदलं चेति कथ्यते”
इति शब्दनिर्णये।
स वा एष वाचः परमो विकारः।
अकाराख्यवाग् विकारेषूत्तमो बृहतीसहस्राख्यः।
“अकारः प्रथमं नाम विष्णोः सर्वगुणान् ब्रुवन्। सर्वदोषविरुद्धत्वाद् गुणनामन्यतामपि। विष्णोर्वदति जीवेभ्यो जडेभ्यश्चैव सर्वदा। अभावं चैव दोषाणां सर्वेषां केशवे वदेत्। सम्यग् वक्तृत्वतस्तस्मादकारो मुख्यनाम हि। तदर्थानेकदेशेन शब्दाः सर्वेऽपि चोचिरे। व्याख्याव्याख्येयरूपत्वं विकारत्वमिहोदितम्। विकारत्वं च नान्यत् स्यान्नित्या वेदा यतोऽखिलाः। वाचकेषु तथा विष्णोः सहस्रबृहतीमयम्। उक्थमुत्तममुद्दिष्टं व्याख्याकारस्य सा परा। अन्येऽपि शब्दाः सर्वेऽपि ह्यकारार्थाभिधायिनः। एषां परममुख्यं तत् तदेतत् पञ्चधा स्थितम्। व्याख्यानमेवाकारस्य सहैवोक्थेन सर्वशः। मितामिते स्वरः सत्यमनृतं चेति पञ्चधा। तस्मादकार एवायं सर्ववागात्मकः श्रुतः। तस्यैव व्यक्तिरूपोऽयं सर्ववेदादिविस्तरः। तस्मात् सर्वगुणान् विष्णोरकारो वक्ति यत् प्रभोः। तद्व्यक्तयोऽपि शब्दा ये सर्वे विष्णुगुणब्रुवाः। अकारस्य तथोपांशोरभिमानी तु मारुतः। देहेन्द्रियान्तःकरणनाम्नोऽस्य द्विविधस्य च। स्थूलसूक्ष्मशरीरस्य सर्वेषामभिमानिनी। भारत्युच्चोदितस्यापि ह्यकारस्याभिमानिनी। तस्मादुच्छादुपांशुर्हि जपादिषु फलाधिकः। वायुः पतिर्हि भारत्या उपांशोर्देवता मतः। अकारस्य विकारोऽयमोङ्कार इति कथ्यते। अधिकोच्चत्वमानं हि तस्यार्थः समुदीरितः। अकारेणैव तत् सर्वमुक्तमाधिक्यवक्तृतः। अधिकोच्चस्वरूपोऽसौ माता चाधिक एव हि। एकार्थत्वादकारोऽसौ नकारत्वमुपागतः। दीर्घीभूतः पुनस्तेनैवाकारेण सह स्थितः। अभाववाच्यकारस्य ह्यर्थो रेफः क्षयं वदन्। सोऽप्यकारेण सहितो दीर्घत्वं समुपागतः। अभाववाच्यकारः स एकार्थाद् गत्यभावयोः। यकारत्वं गतस्तस्मान्नो रेफस्योत्तरत्वतः। णत्वं गतो ह्यकारोऽसौ नो विरुद्धार्थवाचकः। अन्यत्वात् सर्वजीवेभ्यो जडेभ्यश्च सदैव हि। सर्वदोषोज्झितत्वाच्च सर्वतोऽप्यधिकत्वतः। निरासनाच्च दोषाणां स्वभक्तेभ्यः समन्ततः। सर्वदोषविरुद्धोरुगुणपूर्णस्वरूपतः। नारायण इति प्रोक्तो ह्यकारार्थोऽयमेव हि। तस्मादकारबीजेयं विष्णोर्नारायणाभिधा। प्रणवश्च ततोऽकारः प्रधानं नाम चक्रिणः। अकारनामा नान्योऽस्ति तमृते पुरुषोत्तमम्। ब्रह्मरुद्रादिनामानि ब्रह्मादिष्वप्यमुख्यतः। वर्तन्ते नत्वकारोऽयं वर्तते केशवं विना। नारायणादिनामानि नृणां नामक्रियास्वपि। विहितान्यकारो नैवायं विहितस्तमृते प्रभुम्। वायुर्ब्रह्माऽपि चाकारदेवते नतु नामिनौ। यथा वेदाभिधेयोऽन्यो वेदाख्या देवता परा। एवं नामाभिमानी तु वायुर्वाच्यो जनार्दनः। तस्माद इति नामैतद् विष्णोः केवलमेव हि। विशेषतोऽस्य व्याख्यानं बृहतीनां सहस्रकम्। तस्मात् प्रीतो भवेद् विष्णुः शंसनादस्य सर्वदा। तस्माद् यज्ञेऽपि वा शंसेदयज्ञेऽपि रहः पुमान्। ध्यात्वा नारायणं देवं विष्णोरन्नं हि तत् परम्॥”
इत्यादि ब्रह्मसारे।
परमविकारेण सह विकारमात्रस्यापि प्रस्तुतत्वात् तदेतत् पञ्चविधमिति परामर्शः।
“स्वराणां नियमो यत्र ह्यृचो नामैव ताः स्मृताः। अन्या मिताक्षरा यास्तु ता गाथाः परिकीर्तिताः॥ खण्डवाक्यानि कुम्ब्याः स्युरसमानि परस्परम्। यज्ञाङ्गं यजुरुद्दिष्टं निगदं वाक्यमात्रकम्॥”
इत्यादि शब्दनिर्णये।
अकारार्थत्वान्नकारस्य किञ्चिन्मूलमिव।
तस्मान्मूलत्वादकारार्थोऽपि ज्ञेय एव।
नायोग्यानां सम्यग् वाच्य इति स्वल्प एव प्रकाशितोऽस्माभिः।
वाच उद्वर्तनाशक्तेः स्वयमेवोद्वर्तते।
यद्धि देवतासु करोति तदात्मन्यापतति।
तस्माद् द्रव्यदानं ज्ञानदानं वा
काले पात्राद्यनुसारेणैव
कुर्यात्।
अकारस्योङ्कारता त्वकारलोपेनैव जातेति
सत्यमोङ्कारः।
अकारस्यादौ स्थितत्वेन च यथार्थरूपत्वात्।
उकारादिविकारसहितत्वात् पुष्पफलात्मकश्च।
अकारस्यार्थरूपः सन्नेव च
भगवांस्तमेवोङ्कारो
वक्ति।
अतश्च
सत्यमोङ्कारः।
यमर्थमकारो वक्ति तमेव वक्तीति।
नकारस्त्वच्छिरस्कत्वान्मूलभूतस्याकारस्यान्ते स्थितिरूपत्वादयथास्थितेरसत्यरूपः।
तथाऽप्यकारस्य नकारस्य चैकार्थत्वान्मूलभूतश्च।
तस्मादकारस्यैतद्
वृथा वागादिकमपि व्याख्यानम्।
तस्माद् विजानतः सर्वमपि भगवन्नामैव॥ ६॥
सप्तमः खण्डः
तद्वा इदं बृहतीसहस्रं संपन्नं तद्यशः स इन्द्रः स भूतानामधिपतिः स य एवमेतमिन्द्रं भूतानामधिपतिं वेद विस्रसा हैवास्माल्लोकात्प्रैतीति ह स्माऽऽह महिदास ऐतरेयः प्रेत्येन्द्रो भूत्वैषु लोकेषु राजति।
तदाहुर्यदनेन रूपेणामुं लोकमभिसंभवतीँ३ अथ केन रूपेणेमं लोकमाभवतीँ३।
तद्यदेतत्स्त्रियां लोहितं भवत्यग्नेस्तद्रूपं तस्मात्तस्मान्न बीभत्सेताथ यदेतत्पुरुषे रेतो भवत्यादित्यस्य तद्रूपं तस्मात्तस्मान्न बीभत्सेत सोऽयमात्मेममात्मानममुष्मा आत्मने संप्रयच्छत्यसावात्माऽमुमात्मानमिमस्मा आत्मने संप्रयच्छति तावन्योन्यमभिसंभवतोऽनेनाह रूपेणामुं लोकमभिसंभवत्यमुनो रूपेणेमं लोकमाभवति॥२/३/७॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयेऽध्याये सप्तमः खण्डः॥ (१९)
विद्यान्तरोपदेशार्थं “तद्वा इदं बृहतीसहस्रम्” इति पुनःपुनः परामर्शः।
तदिदं बृहतीसहस्रं तद्यशः तस्य नारायणस्य यशः।
यस्य नारायणस्यैतद् यशः स भगवानेवेन्द्रनामा।
स हि
यत् प्रथमत
इन्द्रो बभूव स्वेच्छया यज्ञनामा।
तस्मात् तमेव वेदा इन्द्रशब्देन वदन्ति मुख्यतः।
“इदि परमैश्वर्ये”पाणिनीयधातुपाठः १/६५
इति धातोश्च तस्यैव हि परमैश्वर्यम्।
अन्येषां तु द्वादशानां तेन दत्तमेवेन्द्रत्वं
नतु मुख्यतः।
अतो विष्णावेवेन्द्रशब्दं प्रयुङ्क्ते श्रुतिः।
“मत्सि सोमं वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम्”ऋग्वेदसंहिता ९/९०/५
इति।
नचेन्द्रं विष्णुं चेति पृथगन्वयः क्रियते।
तदा वरुणादिषु पृथक्पृथङ्
मत्सिशब्ददर्शनादत्रापि पृथङ् मत्सिशब्दो
दृश्येत।
नहि सर्वेषां पृथङ्
मत्सिशब्ददर्शन
एकस्यैवान्यथात्वं युज्यते।
नचात्र द्वित्वगमकं चकारादिकं विद्यते।
तस्मात् “प्रातर्भगं पूषणं ब्रह्मणस्पतिम्” इत्याद्यप्येकस्यैव विष्णोर्विशेषणम्।
यत्र चैवं भूतेष्वेकत्वे विरोधो दृश्यते तत्र तेनैव विरोधेन द्वित्वं भवति।
अन्यथैकत्वमेव।
“यो देवानां नामधा एक एव”ऋग्वेदसंहिता १०/८२/३
इति चोक्तम्।
बहुरूपत्वाद् बहुवचनं च
विष्णोरेव
युज्यते।
तस्मान्मुख्यतो विष्णावेवेन्द्रादिशब्दा अन्येषामुपचारतः।
“मत्सि महामिन्द्रमिन्दो मदाय”ऋग्वेदसंहिता ९/९०/५
इत्यन्येन्द्रस्य पृथगुक्तेश्च
“मत्सीन्द्रमिन्दो पवमान”ऋग्वेदसंहिता ९/९०/५
इति पूर्वोक्त इन्द्रो विष्णुरेवेति सिद्धम्।
महत्त्वं च तस्यादितिपुत्रत्वेऽग्रजत्वमात्रं नतु सामर्थ्यतः।
“मह पूजायाम्”पाणिनीयधातुपाठः १/८३१
इति धातोः।
पूज्यो ह्यग्रजो भवति।
“आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः। वेधा अजिन्वत् त्रिषधस्थ आर्यमृतस्य भागे यजमानमभजत्॥”ऋग्वेदसंहिता १/१५६/५
इतीन्द्रस्य
परमदैवं
जनको
यज्ञभागादिप्रदाता
विष्णुरेव हि श्रूयते।
इन्द्रश्च यजमानः।
तस्मात् तत्प्रसादादवताराग्रजत्वमेव तस्य महत्त्वम्।
अन्येन्द्रो हि “अहं प्रथमः पिबेयमहं प्रथमः पिबेयम्” इति वायुना विवदमान आजौ पराजितो वायुं प्रसादयित्वा चतुर्थे वायुना सह
ग्रहमाप।
विष्णुस्तु
“क्रतुं सचन्त मारुतस्य वेधसः”ऋग्वेदसंहिता १/५६/४
इति वायोरपि विधाता श्रूयते।
“डुधाञ् धारणपोषणयोः”पाणिनीयधातुपाठः ३/११
इति धातोर्विशेषेण धारणपोषणकर्ता हि वेधाः।
तस्माद् भगवत एवैतद् यशो बृहदुक्थादिकम्।
“ऋक्सहस्रात्मकं विष्णोर्यश इन्द्राभिधस्य हि। इन्द्रो हि प्रथमो विष्णुर्यज्ञनामा जगत्पतिः। तत्प्रसादादथेन्द्रत्वं द्वादशान्ये प्रपेदिरे। पुरन्दरस्त्वेक एव वासुदेवप्रसादतः। द्विवारमिन्द्रतामाप तस्माद् द्वादश ते परे। अग्रजत्वाददित्यां तु महेन्द्रो नाम चाभवत्। महाव्रतं कर्म कृत्वा चैव नाम्ना महेन्द्रकः। महत्त्वं मुख्यतो विष्णोर्नह्यन्यस्य कदाचन। एवं यो वेद तं विष्णुं विस्रस्तो बन्धतोऽखिलात्। अस्माल्लोकाद्धरेर्लोकमेति नास्त्यत्र संशयः। इत्याह भगवान् विष्णुर्महिदासस्वरूपकः। श्वेतद्वीपादिकात् प्राप्य स इन्द्राख्यो हरिः स्वयम्। महिदासाभिधो भूत्वा लोकेष्वेषु विराजति। तत्र पृच्छन्ति केचित् तु यद्येष भगवान् हरिः। महिदासादिरूपेण भूमिष्ठो रमते प्रभुः। तदा यदा स्त्रिया विष्णू रमते नित्यसत्सुखः। कया स्त्रिया रतिं कुर्यान्नह्यन्यरतिरच्युतः। स्त्रीरूपे तत् स्वयं स्वस्मिन् रमतेऽसावितीदृशम्। वाच्यं तत्र च भूमिष्ठरूपेण तु दिवि स्थितम्। स्त्रीरूपं किमसौ गच्छेदथ यद्येवमत्र च। स्त्रीरूपं पृथिवीसंस्थं केन रूपेण संव्रजेत्। नह्यन्यगम्यो भगवान् स्त्रीरूपोऽपि जनार्दनः। इति पृष्टः स्वशिष्यैः स महिदासोऽवदद्धरिः। स्त्रीषु यल्लोहितं लोके तत्राग्निस्थो जनार्दनः। स्त्रीरूपः सोऽग्निनामैव ज्वलज्ज्वालासमप्रभः। तस्माद् विष्णोः सन्निधानाद् भर्ता भार्याशरीरगात्। न बीभत्सेतैव रक्तात् तथा पुंरेतसि स्थितः। आदित्ये संस्थितो विष्णुरादेरादित्यनामकः। तस्मान्न रेतसो भार्या बीभत्सेत पतिस्थितात्। पुंरूपो भगवान् विष्णू रेतसिस्थो द्युमत्प्रभः। तस्माद् यद् भूमिगं विष्णोः स्त्रीरूपं तत् स्वयं हरिः। प्रादुर्भावगतो दद्याद् दिवि स्थितपुमात्मनः। सूर्यगस्य तथा पुंसो रेतसिस्थस्य चात्मनः। देवीषु यल्लोहितगं स्त्रीरूपं परमात्मनः। तत् स सूर्यगतो विष्णुः पुंरेतःस्थस्य चात्मनः। दद्याद् भूमिगतस्यैव रूपद्वयमिदं ततः। परस्परं सम्भवति विष्णोर्नित्यसुखात्मकम्। प्रादुर्भावस्थितं रूपं यच्च भूमौ पुमात्मकम्। विष्णोस्तदपि देवीषु स्थितः स्त्रीरूपकात्मना। एवमन्योन्यतो विष्णू रतः स्वस्मिन्नचान्यतः। रमया रममाणोऽपि तत्स्थेनैव स्त्रियात्मना। रमते नान्यतः क्वापि रतिर्विष्णोः सुखात्मनः। रमया रमणं तस्माद् रमाया रतिपात्रता। नैवास्या रतिदातृत्वं विष्णोर्नह्यन्यतो रतिः॥”
इत्यादि च।
स एव महिदास इन्द्रनामा
प्राप्येमं लोकमत्र भूत्वा प्रादुर्भूय मनुष्यदृष्टिगोचरतां प्राप्यैषु लोकेषु राजति।
नात्र प्रेत्यशब्दो मरणवाची।
किन्तु
“प्रेतां यज्ञस्य शम्भुवा”ऋग्वेदसंहिता २/४१/१९
इत्यादिवत् प्राप्तिवाच्येव।
नहि मृतः पुनरेषु लोकेष्वेव राजति।
नच यशोमात्रराजनेन स्वस्य राजनं भवति।
भिन्नपदार्थत्वात्।
“यद्वा एति च प्रेति च”शतपथब्राह्मणम् १/४/१/५
इत्यादौ प्राप्त्यर्थेऽपि वेदेषु प्रसिद्धत्वाच्च।
“लक्ष्मणः प्रेत्य सुग्रीवं बभाषे रामचोदितम्”
इति स्कान्दे।
यदनेन रूपेणामुं लोकमभिसम्भवति।
अनेन महिदासादिरूपेणामुं लोकं दिविष्ठं स्वरूपम्।
लोक्यत इति स्वरूपवाची लोकशब्दः।
“आत्मानमेव लोकमुपासीत”बृहदारण्यकोपनिषत् ३/५/९
इतिवत्।
यच्छब्दः किंशब्दार्थे।
अनेन रूपेण तद्रूपमभिसम्भवति किम्?
उभयोरपि परिहारदर्शनादस्यापि प्रश्नत्वमवगम्यते।
“यतश्चोदेति सूर्यः”🔗काठकोपनिषत् २/१/९
इत्यादिवत्।
रङ्गस्तु प्रश्नविषयस्य दुरवगमत्वं प्रकाशयति।
“दुर्गमे प्रश्नविषये प्रश्नो रङ्गयुतो भवेद्”
इति शब्दनिर्णये।
केन रूपेणेमं लोकमाभवति।
केन स्वरूपेण
भूमिष्ठेनात्मन
एव स्त्रीरूपेण विष्णुः सम्बध्यते।
सोऽयं महिदासादिप्रादुर्भावरूप
इदं भूमिष्ठस्त्रीरूपं लोहितगतं च
स्वकीयमेव रूपममुष्मै दिविष्ठाय स्वपुरुषरूपाय प्रयच्छति
देवरेतःस्थिताय च।
देवी लोहितस्थितमात्मनः स्त्रीरूपं महिदासादिरूपेभ्यो
मानुषरेतःस्थितरूपेभ्यश्च
दिविष्ठैश्च विष्ण्वादिस्वरूपैः
प्रयच्छति च।
तानि भूमिष्ठत्वेन
दिविष्ठत्वेन
द्विविधत्वात्
तावित्युच्यन्ते।
अग्नेस्तद्रूपमग्निनाम्नो विष्णोः प्रतिमा तत्सन्निधानात्।
एवमादित्यनाम्नो विष्णोः।
नह्यग्न्यादिस्वरूपमेव लोहितादि।
नच लौकिकस्त्रीपुरुषसम्बन्धमात्रमत्रोच्यते।
अप्रस्तुतत्वात् तस्य।
भगवानेव ह्यत्र प्रस्तुतः।
“असावात्मा” इत्यात्मशब्दाच्च भगवानेवेति ज्ञायते।
“आत्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते। गुणपूर्त्यभिधायी स नान्यस्य गुणपूर्णता। अमुख्यात्मान एवातो ब्रह्माद्याः सर्व एव हि॥”
इत्यादि च ब्रह्माण्डे।
यदक्षरं पञ्चविधं समेति।
सत्यस्य सत्यमनु यत्र युज्यत
इत्यादिनोक्तार्थविषयोदाहृतैः
श्लोकैरपि भगवत एव स्वरूपाणां परस्परयोगस्योक्तत्वात्।
“गायत्र्युष्णिग्बृहती” इत्यादिना भगवत एव पञ्चविधस्य स्त्रीरूपस्य
महिदासादिपञ्चपुंरूपाणां
च प्रस्तुतत्वाच्च॥ ७॥
अष्टमः खण्डः
तत्रैते श्लोकाः-
यदक्षरं पञ्चविधं समेति युजो युक्ता अभियत्संवहन्ति।
सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति।
यदक्षरादक्षरमेति युक्तं युजो युक्ता अभि यत्संवहन्ति।
सत्यस्य शृणु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति।
यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु।
तद्वियूया कवयो अन्वविन्दन्नामायत्ता समतृप्यञ्च्छृतेऽधि इति।
यस्मिन्नामा समतृप्यञ्च्छृतेऽधि तत्र देवाः सर्वयुजो भवन्ति।
तेन पाप्मानमपहत्य ब्रह्मणा स्वर्गं लोकमप्येति विद्वान्।
नैनं वाचा स्त्रियं ब्रुवन्नैनमस्त्रीपुमान्ब्रुवन्।
पुमांसं न ब्रुवन्नेनं वदन्वदति कश्चन।
अः इति ब्रह्म तत्रागतमहमिति।
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति जीवाक्षरेणैव जीवाहराप्नोति जीवाह्ना जीवाक्षरमिति।
अनकाममारोऽथ देवरथस्तस्य वागुद्धिः श्रोत्रे पक्षसी चक्षुषी युक्ते मनः संग्रहीता तदयं प्राणोऽधितिष्ठति।
तदुक्तमृषिणा।
आ तेन यातं मनसो जवीयसा निमिषश्चिज्जवीयसेति जवीयसेति॥ ८॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयेऽध्यायेऽष्टमः खण्डः॥ (२०)
॥ समाप्तश्चायमध्यायः॥
यन्नारायणादिरूपेण पञ्चविधमक्षरं परं ब्रह्म तत् स्वस्मिन्नेव स्त्रीपुंरूपेण समेति।
स्त्रीपुंरूपेण युजो देवा अश्वरूपेण रथे युक्ताः सन्तो यन्नारायणाख्यं परं ब्रह्माभिसंवहन्ति।
तदेतत्
सत्यस्य सत्यं नारायणाख्यं ब्रह्म यत्रानुयुज्यते यस्मिन् स्वरूप एव स्त्रीपुंरूपेण युज्यते।
तत्र तस्मिन्नेव
परे ब्रह्मणि नारायणाख्ये
सर्वदेवा
एकीभवन्ति मुक्ताः सन्तो
मिलिता
भवन्ति।
नायमेकीभावो नाम स्वरूपैक्यम्।
किन्त्वेकस्थाने वासोऽत्यनुकूलचित्तता च।
“एकीभूय नृपाः सर्वे ववृषुः पाण्डवं शरैः”
“एकीभूता तु सा सेना पाण्डवानभ्यवर्तत”
इत्यादिवत्।
नचैकीभावशब्दः स्वरूपैकत्वविषये प्रयुज्यमानः कुत्रचिद् दृष्टः।
एकः पुरुषोऽपि यदा द्विधा भूत्वा एकीभवतीत्युच्यते तदाऽपि स्थानैक्यमेव।
स्वरूपैक्यस्य
पूर्वमेव सिद्धत्वात्।
नचाज्ञात एकत्वे पुनर्ज्ञाते ऐक्यं प्राप्त इति प्रयोगो दृश्यते।
किन्तु ज्ञात इत्येव प्रयुज्यते।
तस्माद् भावसहित एकशब्दो न स्वरूपवाची।
नहि पूर्वं भिन्नस्य पश्चात् स्वरूपैक्यं भवति।
किन्तु संसर्ग एव भवति।
तस्मादत्रापि संसर्ग एव विवक्षितः।
“यदक्षरं पञ्चविधं समेति” इत्युक्तस्य “सत्यस्य सत्यमनु यत्र युज्यते” इति परामर्शं कृत्वा, तत्र देवाः सर्व एकं भवन्तीत्युच्यते।
तस्मान्न पुनरुक्तिः।
यस्मादक्षरान्नारायणाख्यात् स स्वयमेव भगवान् प्रादुर्भावरूपी
स्त्रीपुंरूपेण
युक्त आगच्छति।
तात्पर्यार्थं तस्यैवार्थस्य पुनरभ्यासः।
वियूय विचार्य नामायत्तान्येव नामार्थभूतान्येव विष्णोर्माहात्म्यादीन्यन्वविन्दन्।
ततश्चाधिकं समतृप्यन्।
शृते परिपक्वे सति ज्ञाने।
यस्मिन्
विष्णौ
नामानि ज्ञात्वा तस्मिन् ज्ञाने परिपक्वे समतृप्यन् तस्मिन्नेव देवाः सर्वयुजो भवन्तीत्यवधारणार्थं पुनर्वचनम्।
सर्वयुजो भवन्ति मनोवाक्कर्मभिस्तत्रैव युक्ता भवन्ति।
“अर्थतः कठिनं क्रूरमुल्बणं श्रवणाप्रियम्”
इति शब्दनिर्णये।
अस्त्री पुमान् ब्रुवन् अस्त्री पुमांसं ब्रुवन्।
“सप्तसु प्रथमा”
इति सूत्रात्।
“स्वातन्त्र्ये विभक्तिव्यत्ययः”
इति च।
स्वतन्त्रो हि भगवान् तत्प्रेरित एव तं वदतीत्यभिप्रायः।
वदन् वदति वदन्नेव वदति।
वदन्नेव न वदति।
भवत्येव हि भगवान् स्त्रीरूपः पुंरूपश्च।
तस्माद् वदत्येव।
अप्रसिद्धत्वान्न वदति च।
“स्त्रीरूपश्चैव पुंरूपो यस्मान्नारायणः स्थितः। पुमान् स्त्री चेति वाच्योऽतो वैलक्षण्यान्नचोच्यते। विष्णोर्नपुंसकाकारो नैवास्ति क्वचन प्रभोः। तथाऽप्यरागाकृष्टत्वात् तच्छब्दैरपि कथ्यते॥”
इति गारुडे।
“नारायणादिरूपेण पञ्चधैव हरिः स्थितः। तन्नामभिश्च स्त्रीरूपैः समेति स्वैः स केशवः। यत्स्यन्दनं वहन्त्येते देवा भार्यासमन्विताः। अधिदैवे तथाऽध्यात्मे जीवदेहात्मकं रथम्। स सूर्यः सूर्यभार्या च चक्षुर्द्वयसमाश्रितौ। वहतोऽश्वात्मकौ देहं नारायणरथात्मकम्। सोमश्च रोहिणी चैव दक्षवामश्रुतिस्थितौ। उभयोः पक्षयोः स्थित्वा वहतोऽश्वात्मकौ तयोः। उद्धारणार्थमेतेषामुमा वाचि समास्थिता। नागाकारैव रश्मित्वमगमद् वैष्णवे रथे। मनःस्थितः शिवश्चात्र मनोनामा महाबलः। अभवत् सारथिर्विष्णोर्विष्णुर्वायुश्च तं रथम्। प्रकृष्टानन्दरूपत्वात् प्राणाख्यावधितिष्ठतः। तावेव चाश्विनामानौ हयास्यौ जगदीश्वरौ॥”
इत्यादि गारुडे।
“तस्योपनिषत् सत्यस्य सत्यमिति॥ प्राणा वै सत्यं तेषामेष सत्यम्”बृहदारण्यकोपनिषत् ४/१/२०
इति च श्रुतिः।
“सर्वसाधुगुणत्वात् तु वायुः सत्य इतीर्यते। तस्यापि सत्यतादाता साधुपूर्णगुणो हरिः। सत्यस्य सत्य एतस्मात् स्त्रीपुंरूपः स केशवः। यस्मिन् स्वात्मनि युक्तः स रमते स्त्रीपुमात्मना। मुनिगन्धर्वपित्राद्यैर्न तत् प्राप्यं कथञ्चन। आप्नुवन्ति सुराः सर्वे तद् रूपं जाज्वलत् सदा। अर्धनारीपुमाकारं तस्य वामस्थितानि च। स्त्रीरूपाणि तु सर्वाणि विष्णोरत्यद्भुतानि च। विष्णोर्यानि तु पुंरूपाण्यास्थितान्यस्य दक्षिणे। तान्यस्यैव तु रूपाणि युज्यन्तेऽत्र परस्परम्। एष नारायणो देवो ह्यर्धनारीपुमात्मकः। सर्वे देवाः सभार्याश्च तं प्राप्य पुरुषोत्तमम्। एकीभावं स्वभार्याभिरर्धनारीपुमात्मना। प्राप्यैवोपासते विष्णुं मुक्ताः संसारसागरात्। मोदन्ते च रमन्ते च विभागं चेच्छयाऽऽप्नुयुः। बहुधा च भवन्त्येते स्त्रीपुमात्मपृथक्त्वतः। प्रसादाद् वासुदेवस्य भागः स्त्रीपुंस्वरूपिणः। तेनैव नियता नित्यं तद्वशास्तत्परायणाः। रमन्ते नान्यगम्योऽसौ देशो विष्णोः परात्मनः। स्त्रीपुंरूपेण युक्तं तद् विष्ण्वाख्यं परमक्षरम्। अक्षरादेव परमात् पुंसो नारायणाभिधात्। आगच्छन्ति तदैते च देवा भार्यासमन्विताः। वहन्त्यश्वादिरूपेण रथस्थं परमं वपुः। तत् सर्वदेवैः प्राप्यं च नान्यैः कथमपि क्वचित्। मितादिपञ्चरूपं यद् वाक्यं लोकेऽथवा श्रुतौ। नारायणस्य नामैतदिति जानन्ति देवताः। मनोवाक्कर्मभिस्तस्माद् योगमाप्स्यन्ति तत्र ते। सर्वशब्दान् हरौ नेतुं कस्य देवानृते बलम्। वाय्वन्तास्तारतम्येन विष्णुनामार्थवेदिनः। सम्यग्वेत्ता मारुतोऽत्र तस्मान्मुक्तेभ्य एव च। सुरेभ्योऽधिकमानन्दं नित्यं भुङ्क्ते हरेरनु॥”
इत्याद्यर्धनारीनारायणतन्त्रे।
एवं सर्वे शब्दा भगवद्वाचका इत्युक्त्वा, अकारो विशेषतो नारायणवाचक इत्याह-
अः इति ब्रह्मेति॥
“इतिशब्दोऽभिधानान्ते यत्र वैशेषिकं हि तत्। नाम स्यादिति मे साक्षान्निर्णयः समुदाहृतः॥”
इति शब्दनिर्णये।
तत्रागतमहमिति।
यस्माद इत्ययं शब्दः प्रस्तुतस्याभावं विरोधिनमन्यं च वदति तस्मात् प्रत्यक्षत्वाज्जीवजडात्मकस्य जगत एवानुक्तावपि प्रस्तुतरूपत्वात् तदन्यस्तद्विरोधी तत्र दृश्यमानदोषवर्जितश्चाकारशब्दार्थ इति सिद्ध्यति।
मनसि प्रस्तुतत्वादवचनेऽपि प्रस्तुतमेवेदं सर्वम्।
दृष्टसम्बन्धित्वाददृष्टं सर्वमपि प्रस्तुतं भवति।
भगवांस्त्व इति पृथग् विवक्षितत्वादेव न प्रस्तुतसमुदाये।
नच शून्यस्याशब्दार्थता।
शून्याङ्गीकारे ह्यकारस्याभावताख्य एक एवार्थ इति सिद्ध्यति।
विष्णोरङ्गीकारे त्वभावताऽन्यता विरोधितेति त्रयोऽप्यर्थाः सम्यगेव सिद्ध्यन्ति।
तस्मादकारस्य भगवानेव मुख्यार्थो न शून्यम्।
एकदेशार्थत्वात्।
तस्मादमुख्यार्थत्वादन्ययुक्तेनैवाकारेणाभाव
इति तदुच्यते।
नत्व इत्येव केनचित् क्वचित्।
नच तथा प्रयोगोऽस्ति।
तस्मात् पारतन्त्र्याल्पगुणत्वादिसर्ववस्तुस्वभावविरुद्धस्वभावं स्वतन्त्रं पूर्णगुणं सर्वजीवजडेभ्योऽन्यद्
अज्ञानदुःखाल्पत्वपारतन्त्र्योत्पत्तिनाशादिसर्वदोषविवर्जितं
ब्रह्मैवाशब्दार्थः।
पूर्णं हि ब्रह्मशब्दस्यार्थः।
नच दोषयुक्तस्य पूर्णता।
नच जीवजडाद्यपूर्णवस्त्वभिन्नस्य पूर्णत्वं भवति।
तस्मादकारशब्दार्थ एव ब्रह्मशब्दार्थः।
तदेतदुक्तम्-
अः इति ब्रह्मेति।
अः इति पृथक्त्वेन वचनं तत्सममधिकं वा किमपि नास्तीति दर्शयितुम्।
“विवृतावपि सर्गः स्यात् संहितायां च यत्र हि। समानोत्तमहीनत्वमुच्यते वस्तुनोऽञ्जसा॥”
इति शब्दनिर्णये।
अः इति ब्रह्म पूर्णं वस्तूच्यते।
तत्रागतमहमिति।
तत्राकारस्य पूर्णवाचित्वेऽहमेव सोऽकारवाच्य इत्याह महिदासरूपो भगवान् नारायणः।
अहमेक एव
परिपूर्णः।
अन्येषां सर्वेषां मदधीनत्वादल्पत्वादिति।
मुक्तेभ्यः
प्रलये लीनेभ्यश्च सर्ववस्तुभ्यः सदा
विभिन्न एव भगवानिति दर्शयितुं च अः इति पृथग् वचनम्।
तच्चोक्तं वाक्यनिर्णये-
“मुक्ता अपि न विष्णुत्वं यान्ति तत्समतामपि। आधिक्यं कुत एव स्यान्मुक्तानां मुक्तिदातृतः। कुत एव प्रलीनानां प्रलये तु तदात्मता। ब्रह्मशर्वेन्द्रपूर्वाणां मुक्तावपि न विष्णुता। यदा तदा तु संसारे क्व तद्रूपत्वमिष्यते। अन्योऽसौ सर्वतो विष्णुः स्वातन्त्र्याद् गुणपूर्तितः। सर्ववस्तुस्वभावस्य विरुद्धोरुस्वभावकः। पारतन्त्र्याल्पताज्ञानजनिनाशादिवर्जितः। अकारेण ततो विष्णुः संहितायां पदात्मना। बह्वृचोपनिषत्प्रोक्तस्तेनैव परमात्मना। महिदासावतारेण सोऽहमेवंविधस्त्विति। मत्तोऽन्यो नहि पूर्णोऽस्ति यतोऽकारश्च पूर्णताम्। वक्ति तस्मादकारोऽयं मामेव वदति स्फुटम्। नाभाववाच्यकारः स्यादर्थत्रययुतो यतः। एकार्थात्मा ह्यभावः स्यान्निषेधैकस्वरूपतः। अन्यता च निषेधश्च विरुद्धत्वमिति त्रयः। अकारार्था ह्यभावस्तु निषेधैकस्वरूपतः। एकदेशस्वरूपत्वान्नाकारेणैव भण्यते। किन्त्वभाव इति त्वेव तेनाकारोदितो हरिः॥”
इति।
नच
निषेधस्वरूपे
विरुद्धता चान्यता चास्तीत्येतावता पूर्णार्थता भवति।
तदाऽर्थत्रयकल्पनस्य
वैयर्थ्यात्।
उक्तं हि शब्दनिर्णये-
“विरुद्धतानिषेधान्यभावयुक्ते हि केवलः। अकारो वर्तते तेषामेकार्थात्मन्यभावके। वर्ततेऽभाव इत्येव नत्व इत्येव केवलः॥”
इति।
तस्मान्नारायण एवाकारवाच्य इति सिद्धम्।
“यतोऽकारः सदा विष्णोर्वाचकत्वेन संस्थितः। तस्माद् वर्णत्रयात्माऽयं प्रणवोऽपि त्रयात्मकम्। हरिमेव सदा वक्ति नैवान्यं कञ्चन क्वचित्। सृष्टिकर्ता ब्रह्मनामा योऽसृजच्चतुराननम्। अन्तर्यामी विरिञ्चस्य सोऽकारार्थो जनार्दनः। वैकुण्ठलोक आस्ते स द्वितीयवपुषा हरिः। उकारवाच्यः स विभुर्नृसिंहो रुद्रनामकः। रौद्रत्वात् स शिवस्यापि स्रष्टा संहारकारकः। अन्तर्यामी शिवस्यापि मकारार्थः प्रकीर्तितः। एवं त्रियात्मकं विष्णुं प्रणवोऽयं त्रियात्मकः। एवं पृथगिवाचष्टे बिन्दुर्वक्त्यनिरुद्धकम्। प्रद्युम्नाद्यान् नादपूर्वाः सर्वान् नारायणात्मकान्। पद्मनाभादिका एव मूर्तीर्नारायणोत्तराः। प्रणवोऽयं वदत्यष्टौ तस्मान्नान्याभिधायकः॥”
इति तत्त्वसारे।
“षट्त्रिंशतिसहस्राणि बृहत्युक्थार्णगानि तु। स्त्रीरूपाणि हरेस्तावदह्नामप्यभिमानिषु। सूर्यरूपेषु रूपाणि पुमाकाराणि सर्वशः। एतैः पुरुषगै रूपैर्बृहत्युक्थव्यवस्थितैः। कदाचिद् भगवान् विष्णुः पुमाकाराणि तानि च। कृत्वा सूर्यगतान्येव स्त्रीरूपाणि विधाय च। तान्याप्नोति च पुंरूपैस्तैरेवाक्षरगानि च। स्त्रीरूपाणि जगन्नाथः प्राप्नोत्यात्मेच्छया प्रभुः। पुंरूपप्रमदारूपस्वरूपै रमते स्वयम्। एकीकृत्य च तान्येव द्विरूपो रमते तथा। स एव रमते मायां स्थितात्मस्त्रीतनौ हरिः। प्राणस्योत्पत्तिकामः सन्ननेच्छामारनामकः॥”
इत्यर्धनारीनारायणतन्त्रे।
वायोरुत्पत्तिकामो
मायां रमायां
रमत इत्यनकाममारः।
जीवस्थितेनाक्षरगेनाक्षरनाम्ना
स्वरूपेण जीवाख्यसूर्यस्थितमहराख्यं स्वरूपमाप्नोति तेन चाक्षराख्यं स्वरूपमाप्नोति।
“यदक्षरादक्षरमेति युक्तम्” इत्यस्य व्याख्यानरूपत्वाच्चैतदवसीयते।
पुमांसं स्त्रियं च वदन्नेव न वदतीत्युक्तत्वादुभयात्मकं रूपं प्रतीयते।
अस्त्रीपुमानिति ब्रुवन्नपि न वदतीत्युक्तत्वाच्च स्त्रीत्वं पुंस्त्वं च प्रतीयते विष्णोः।
नच नपुंसकरूपं भगवतः कुत्रचिदुक्तम्।
प्रसिद्धमेव च रूपद्वयम्।
अतो नपुंसके वदन्नपि न वदतीति न
तद्वदनुषज्यते।
नपुंसकरूपे प्रमाणाभावादेव लौकिकस्त्रीपुंविलक्षणत्वादस्त्रीपुमानित्यपि वदन्निति भवति।
“स्त्रीपुंरूपद्वयं विष्णोर्न तृतीयं कथञ्चन। साक्षान्नपुंसकस्तस्मान्मुक्तिभागी नतु क्वचित्॥”
इति ब्रह्माण्डे।
नच रक्ष इति नपुंसकशब्दमात्रेण रावणादयो नपुंसका भवन्ति।
भवतीतिपदाभावादनकाममार इति भगवन्नामैवेति ज्ञायते।
“ऋष ज्ञान इति ह्यस्माद् धातोः सर्वज्ञ एव राट्। वेदद्रष्टा परमऋषिर्हयास्यः पुरुषोत्तमः। मन्त्राणां प्रथमो द्रष्टा सर्वेषां यत एव तु। ऋषिणोक्तमिति प्राहुर्मन्त्रोक्तं ब्राह्मणान्यतः। तत्प्रसादाद्धि तपसा पश्चान्मन्त्रान् प्रपेदिरे। ब्रह्माद्या ब्राह्मणं पश्चात् तैर्दृष्टमृषिभिः पृथक्। मन्त्राश्चोपनिषच्चैव नाकृत्वा सुमहत् तपः। प्रथमं तद्धयास्येन दृष्टं केनचिदीक्ष्यते। विना पृथक् तपो दृश्येद् ब्राह्मणं मुनिभिर्यतः। मन्त्राश्चोपनिषच्चैव ब्राह्मणादुत्तमास्ततः। तत्राप्युपनिषच्छ्रेष्ठा युक्तावस्थाधिगम्यतः॥”
इत्यादि प्रमाणविवेके।
तेन रथेनाध्यात्मं
शरीराख्येनाधिदैवं
रथरूपेण।
ऋभव इत्यत्र देवानां
साधारणं नाम।
“आदित्या वसवो रुद्रा विश्वे ऋभव इत्यपि। सर्वदेवसमाख्या च द्वादशाष्टादिकेष्वपि॥”
इति शब्दनिर्णये।
“निर्मितो दैवतैः सर्वैर्विष्णुना वायुना सह। अधिष्ठितो रथो दिव्यः सोऽध्यात्मं देहनामकः। सम्यग् योगो यदा तस्य मनोवाक्कर्मभिर्भवेत्। देहाख्यस्य रथस्यैव तदा नारायणात् प्रभोः। विविधं वासवत्त्वात् तु विवस्वन्नामकाच्छुभम्। संसारवारकं ज्ञानं दिवोदुहितृनामकम्। विष्णुतत्त्वापरोक्षाख्यमहनी द्वे च शोभने। ज्ञानावस्था मुक्त्यवस्थेत्युभे एवाहनी परे। जायन्ते देवतास्त्वेषां भारती वायुरेव च। जीवन्मुक्तेश्च मुक्तेश्च दाता रूपद्वयी प्रभुः। सर्वस्त्रीणामुत्तमत्वाद् द्यौर्नामा श्रीरुदाहृता। दुहिताऽस्या भारती तु नित्याहेयस्वरूपतः। अहरित्युच्यते वायुर्ज्ञानात्मत्वात् तथैव च। अधिदैवे रथेऽप्येते विष्णोर्लक्ष्म्यां प्रजज्ञिरे। रथेन तेन देवेशौ विष्णुवायू जगत्पती। आयातमिति हैवैतौ प्रार्थयेद् यज्ञकर्मणि। अन्यथाऽप्यर्थयेदेतौ ज्ञानेच्छुः पुरुषः सदा। जपेन्मन्त्रद्वयं नित्यमातेन निमिषस्तथा। रक्षणं वां समीपे स्यान्ममेत्यध्यात्ममेव च। हयास्यत्वाच्चाश्विनौ तावित्याह परमा श्रुतिः। ऐन्द्राग्नेयादिकाश्चैवं सर्वे मन्त्रा हरिं परम्। वदन्ति मुख्यतो नान्यं सर्वनामानमच्युतम्। अथवा वायुदेवस्थं पृथक्संस्थं च केशवम्। मन्त्रो द्विवचनो वक्ति तथा बहुवचस्स्वपि॥”
इत्याद्यैतरेयसंहितायाम्।
सुखं ददत इति सुदिने।
विवस्वतो विष्णोः सकाशाद् दिवोदुहिता अहनी च जायन्ते।
अहनी इति द्विवचनेन द्वित्वे सिद्धेऽप्युभे इति
वचनमध्यात्माधिदैवतयोरुभयोरपि
वचनार्थम्।
नच सूर्यरथोऽत्र वर्ण्यते।
नचाहोरात्रे ‘अहनी’ इत्युच्येते।
सूर्यस्याश्विनामाभावात्।
सप्ताश्वत्वाच्च तद्रथस्य।
चतुरश्वत्वं चात्रोच्यते।
“श्रोत्रे पक्षसी चक्षुषी युक्ते” इत्यध्यात्मसम्बन्धाच्च।
नच रात्रौ सुदिनमिति प्रयोगो दृष्टः।
असुदिनस्यापि तत एव जातत्वाद् व्यर्थविशेषणता च।
अस्मिन् पक्षे तु लौकिकाहर्व्यावृत्त्यर्थं सुदिने इति युज्यते।
जीवन्मुक्तिश्च मुक्तिश्च
हि मुख्ये सुदिने।
“स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत् सृजते”बृहदारण्यकोपनिषत् ३/५/९
इति
ज्ञानावस्थायां
मुक्तौ भोगबाहुल्यकारणत्वात् साऽपि मुक्तिवत् सुदिनम्।
नहि मुक्तावधिक्यार्जनमस्ति।
“न हीयते यत्र गत्वा यत्र गत्वा न वर्धते”भारतम् १२/२४७/१२
इति वचनात्।
अतो ज्ञानोत्पत्तिसमनन्तरमेव मुक्तौ न पुनरार्जनमस्तीति किञ्चित् कालं ज्ञानित्वेनावस्थानमपि सुदिनमेव।
ज्ञानात् पूर्वं तु पतनसंशयादेव न सुदिनम्।
नचाश्विरथो वर्ण्यते।
नह्यश्विरथयोगादहनी जायेते।
एकरासभयुक्तो हि तद्रथः।
“तद्रासभो नासत्या सहस्रम्”ऋग्वेदसंहिता १/११६/२
इति वचनात्।
नच विवस्वच्छब्दोऽश्विनोर्विद्यते।
“यो देवानां नामधा एक एव”ऋग्वेदसंहिता १०/८२/३
इति विष्णोः सर्वनामानि प्रसिद्धानि च।
“युजो युक्ता अभि यत् संवहन्ति”
इत्यादिना तस्यैव प्रस्तावाच्च।
अतो विष्णुरेव मुख्यतः सर्वनामोक्त इति सिद्धम्॥ ८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ऐतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके तृतीयोऽध्यायः॥
चतुर्थोऽध्यायः
प्रथमः खण्डः
आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्।
स ईक्षत लोकान्नु सृजा इति स इमाल्ँलोकानसृजत।
अम्भो मरीचीर्मरमापः।
अदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आपः।
स ईक्षतेमे लोका लोकपालान्नु सृजा इति।
सोऽद्य एव पुरुषं समुद्धृत्यामूर्छयत्।
तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येतामक्षीभ्यां चक्षुश्चक्षुष आदित्यः कर्णो निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ्निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः॥ १॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थेऽध्याये प्रथमः खण्डः॥ (२१)
द्वितीयः खण्डः
ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनापिपासाभ्यामन्ववार्जत्।
ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति ताभ्योऽश्वमानयत्ता अब्रुवन्न् वै नोऽयमलमिति ताभ्यः पुरुषमानयत्ता अब्रुवन्त्सुकृतं बतेति पुरुषो वाव सुकृतम्।
ता अब्रवीद्यथायतनं प्रविशतेति।
अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन्।
तमशनापिपासे अब्रूतामावाभ्यामभि प्रजानीहीति ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति तस्माद्यस्य कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनापिपासे भवतः॥ २॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थेऽध्याये द्वितीयः खण्डः॥ (२२)
तृतीयः खण्डः
स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मूर्तिरजायत या वै सा मूर्तिरजायतान्नं वै तत्।
तदेनत्सृष्टं पराङत्यजिघांसत्तद्वाचाऽजिघृक्षत्तन्नाशक्नोद्वाचा ग्रहीतुं स यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत्तत्प्राणेनाजिघृक्षत्तन्नाशक्रोत्प्राणेन ग्रहीतुं स यद्धै नत्प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यच्चक्षुषाऽजिघृक्षत्तन्नाशक्नोच्चक्षुषा ग्रहीतुं स यद्धैनच्चक्षुषाऽग्रहैष्यद्दृष्ट्वा हैवान्नमत्रप्स्यत्तच्छ्रोत्रेणाजिघृक्षत्तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुं स यद्धैनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत्तत्त्वचाऽजिघृक्षत्तन्नाशक्नोत्त्वचा ग्रहीतुं स यद्धैनत्त्वचाऽग्रहैष्यत्स्पृष्ट्वा हैवान्नमत्रप्स्यत्तन्मनसाऽजिघृक्षत्तन्नाशक्नोन्मनसा ग्रहीतुं स यद्धै नन्मनसाऽग्रहैष्यद्ध्यात्वा हैवान्नमत्रप्स्यत्तच्छिश्नेनाजिघृक्षत्तन्नाशक्नोच्छिश्नेन ग्रहीतुं स यद्धैनच्छिश्नेनाग्रहैष्यद्विसृज्य हैवान्नमत्रप्स्यत्तदपानेनाजिघृक्षत्तदावयत्।
सैषोऽन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः।
स ईक्षत कथं न्विदं मदृते स्यादिति।
स ईक्षत कतरेण प्रपद्या इति।
स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणेनाभि प्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति।
स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत।
सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनम्।
तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति।
स जातो भूतान्यभिव्यैख्यत्किमिहान्यं वावदिषदिति स एतमेव पुरुषं ब्रह्म ततममपश्यत्।
इदमदर्शमितीँ३ तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः॥ ३॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थेऽध्याये तृतीयः खण्डः॥ (२३)॥
॥ समाप्तश्चायमध्यायः॥
“एको नारायणस्त्वासीत् प्रलये रमया सह। नित्याततगुणत्वात् स आत्मेति श्रुतिषूदितः। इदं सर्वमपेक्ष्यासौ कालतो गुणतस्तथा। अग्र्य एव समस्तेशस्तद्वशत्वाद् रमाऽपि सा। विद्यमानाऽपि नाग्रस्था गुणैरूना ततो यतः। न ब्रह्मा न शिवश्चासीन्नैवान्यच्च मिषत् क्वचित्। सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः। असुप्ताः श्रीश्च मुक्ताश्च स्वतन्त्रोन्मेषवर्जनात्। अनुन्मेषा एव तेऽपि स्वतन्त्रोन्मेष एकराट्। नारायणो नचान्योऽस्ति पूर्णोन्मीलद्गुणात्मकः। पराधीनेन वित्तेन भुञ्जन्नपि हि भिक्षुकः। वित्तवानिति नैवोक्तस्तथा श्रीर्मुक्तिगा अपि। मिषन्तोऽप्यन्यतन्त्रत्वान्न मिषन्तः कथञ्चन। सर्वदाऽप्येक एवायं स्वतन्त्रो नापरः क्वचित्। कालाग्र्यत्वं वक्तुमस्य प्रलये स्थितिरुच्यते। स ऐच्छद् भगवान् विष्णुः स्रष्टुं लोकाभिमानिनः। लोकाभिधानवद्देवान् जडलोकांश्च शाश्वतः। स लोकेभ्यः पूर्वतनानबाख्यान् महदादिकान्। ब्रह्मशर्वादिकान् सृष्ट्वा जडैः सह जनार्दनः। दिवमाकाशमुर्वीं च ससृजेऽथ द्विसप्तकान्। इति सृष्ट्वा स लोकांस्तु पुनस्तानेव लोकपान्। अण्डान्तः स्रष्टुमैच्छच्च तेषां पूज्यत्वसिद्धये। अम्नामकेभ्यस्तेभ्यः स पूर्वसृष्टेभ्य एव तु। सर्वजीवाधिकत्वात् तु ब्रह्माणं पुरुषाभिधम्। अंशेनोद्धृत्य रुद्राद्यैः सह चैनमयोजयत्। तथैवाचेतनानां च भागानुद्धृत्य पिण्डवत्। चेतनाचेतनं राशिमेकस्थं विदधे प्रभुः। पुनरैच्छञ्जगन्नाथस्तस्याङ्गोत्पत्तिमच्युतः। अण्डवन्मुखमस्यासीत् प्रथमं तु शिरोभिधम्। भिन्नमास्यं पुनस्तस्य विष्णोरेवेच्छया प्रभोः। तत्र वाङ्नामकं रूपं वह्नेरासीत् पुरातनम्। तस्यैवाथ द्वितीयं च यदग्निरिति गीयते। तथैव नासिकातोऽभून्मुख्यवायोः सुतो मरुत्। प्राणो वायुरिति द्वेधा चक्षुषोऽभूत् तथा रविः। द्विरूप एव कर्णाभ्यां मित्रधर्माप्यवित्तपाः। दिग्देवता द्विरूपेण बभूवुः सर्व एव च। हृदयाद् गरुडानन्तशिवचन्द्राः पृथक्पृथक्। मनोबुद्ध्यभिमानाश्च तन्नामानश्च जज्ञिरे। त्वचश्च रोमनामानो वृक्षनामान एव च। द्विविधाः पारिजाताद्या बभूवुर्ब्रह्मदेहतः। हस्ताभ्यां द्विविधः शक्रः पद्भ्यां तत्सूनुरेव च। यज्ञस्त्वजनि पायोश्च यमो निर्ऋतिरेव च। रेतोऽम्नामा द्विरूपस्तु शिव एव च गुह्यतः। अपानो मृत्युरिति च मुख्यो नाभेस्तु मारुतः॥ १॥ एवं रूपद्वयेनापि स्तुवन्तो विष्णुमव्ययम्। दिव्याम्बराः कुण्डलिनः प्राविशन्नुदकार्णवम्। तदाशनापिपासाख्यं द्विरूपं मारुतं पुनः। तस्मिन् देवसमूहे तु विष्णुः प्रावेशयत् प्रभुः। तेऽब्रुवन् देहि नो वासं यत्र चान्नमदामहे। गोरूपमेभ्यो ब्रह्माणं ददौ नारायणः प्रभुः। तत्र प्रविश्य ते देवा नालमित्यब्रुवन् पुनः। अश्वरूपं विरिञ्चं च पुनरेवावदत् प्रभुः। तद्रूपेऽपि प्रविश्यैव नालमित्यब्रुवन् पुनः। पूर्वसृष्टं पुमाकारं ब्रह्मणोऽदात् पुनर्हरिः। तद् दृष्ट्वैवालमित्यूचुर्विशतेति स चाब्रवीत्। विविशुश्च यथोत्पन्नाः सर्वे देवाश्चतुर्मुखम्। अशनापिपासामानी तु द्विरूपो मारुतोऽवदत्। कुर्वाज्ञामावयोश्चैव यथा त्वच्छासनानुगौ। नित्यं भवावेति हरिः सर्वत्र प्रविशेत्यमुम्। आह तस्माद् देवतानां सर्वासां भागभुङ् मरुत्। एक एव प्राणनामा नाभिस्थोऽपि स एव तु। अशनापिपासाऽपानश्च मृत्युश्चेति चतुर्विधः। एक एव महान् वायुः सर्वदेवेषु संस्थितः॥ २॥ पुनरैच्छत् केशवोऽसावन्नमेभ्यः सृजा इति। अबाख्या देवताः पूर्वं सृष्टा ब्रह्मादिकाः पुनः। ददर्श सुविशालाभ्यां नेत्राभ्यां पुष्करेक्षणः। तद्दर्शनात् तदिच्छातस्तासां देहोऽभवत् पृथक्। सर्वासामपि देहैकदेशेभ्यो मिलितं शुभम्। सर्वैरधिष्ठितं चैव विरिञ्चेन विशेषतः। दिव्यावयवसम्पन्नमेकमेव सुलोचनम्। भोग्यभोक्त्रात्मना नास्ति तस्य दुःखं कथञ्चन। ते हि देवाः स्वयं भोग्याः स्वयं भोक्तार एव च। क्रीडन्ते मोदिनो नित्यं तथाऽप्यन्नात्मकस्त्वसौ। क्रीडयाऽपाक्रमत् किञ्चित् तं तदाऽसौ चतुर्मुखः। अत्तुं वागादिभिः सर्वैरैच्छन्नाप्यशकत् तदा। जानन्नपि क्रीडयैव तारतम्यं प्रकाशयन्। एवं चकार ब्रह्मा स क्वाज्ञानं लोककर्तरि। क्षुत्पिपासादयश्चैव देवानां भोगसाधकाः। नतु पीडाकरास्तेषामैश्वर्यादिगुणोन्नतेः। अन्नमूर्तिं ततो ब्रह्मा प्रधानेनैव वायुना। अपानाख्येनात्तुमैच्छत् तदैवाशकदाशु सः। तस्माद् भोक्तैक एवासौ सर्वस्यान्नस्य मारुतः। तत्प्रसादात् परेऽश्नन्ति किञ्चित्किञ्चिन्नचाखिलम्। आयूरूपोऽखिलानां च देवानां वायुरेव हि। अन्नदेवस्य चायुः स तस्माद् देवोत्तमो मरुत्। आयुःशब्दो ज्ञानवाची गतिवाची च यत् ततः। चेष्टामोक्षज्ञानदाता सुराणां मारुतस्ततः। अन्योन्यगुणदातृत्वात् समानौ ब्रह्ममारुतौ। तस्मान्मोक्षे सुखे ज्ञाने विष्णुभक्त्यादिकेष्वपि। सर्वेभ्यश्चाधिकौ तौ हि तयोर्विष्णुः परः सदा। देवतानां प्रवेशात् तु पूर्वमेव जनार्दनः। इत्थमैक्षत देवेशो ब्रह्माद्या यदि मां विना। क्रियादिषु समर्थाः स्युर्न मे विष्ण्वभिधा भवेत्। सर्वचेष्टयितृत्वाच्च विशिष्टबलतस्तथा। विष्णुरित्यभिधा मह्यं सा न युक्ता दिवौकसाम्। स्वतन्त्रत्वे ततः सर्वे मद्वशा एव नान्यथा। तस्मादेषां प्रवृत्त्यर्थं प्रवेक्ष्ये सह वायुना। इति मत्वा विरिञ्चस्य शरीरं प्रविवेश सः। मूर्धन्यनाड्या प्रथमं ब्रह्मवायुसमन्वितः। अग्न्यादयस्ततः पश्चात् प्रविष्टास्तन्नियोजिताः। प्रपदाभ्यां तथाऽन्येन रूपेण प्रविवेश सः। बिभर्ति देहं तेनैव मूर्धाविष्टेन चेष्टयन्। नारायणो वासुदेव इति द्वेधा व्यवस्थितः। मूर्धाविष्टो वासुदेवस्तस्य चावसथास्त्रयः। अक्षि कण्ठो हृदित्येव त एव स्वप्ननामकाः। आप्नोत्यत्र स्वयं विष्णुरतः स्वप्नाः प्रकीर्तिताः। अनिरुद्धादिरूपेण त्रिधा तेषु व्यवस्थितः। दाताऽवस्थात्रयस्यास्य जीवस्य क्रमशो विभुः। सुषुम्नायां वासुदेवो मूर्धन्येव व्यवस्थितः। तस्यामेव ब्रह्मनाड्यां स्थितो नारायणः प्रभुः। स एव भगवान् विष्णुः प्रादुर्भावात्मना पुनः। जातो मत्स्यादिरूपेण सर्वभूतेषु चाविशत्। असुराणां निहन्तारं ज्ञानादिगुणदं तथा। चेष्टाप्रदं च भूतेषु न मदन्यं वदत्यपि। इति मत्वा जगन्नाथो दैत्यनिग्रहणेच्छया। ज्ञानदानार्थमपि तु प्रादुर्भूतो भुवि प्रभुः। तथा जीवेषु सर्वेषु प्रविष्टः प्रेरणेच्छया। को ह्यन्यस्तमृते विष्णुमेतत् कर्म करिष्यति। स सर्वगुणसम्पूर्णं सर्वगं नित्यमव्ययम्। एतदेव स्वरूपं स त्वपश्यदवतारगम्। तस्मात् सर्वावताराश्च सर्वजीवेषु संस्थिताः। प्रादुर्भावाः सर्वगुणैः पूर्णा एव सदा स्थिताः। पश्यन्ति च तथा नित्यं निर्दोषोरुस्वसंविदा। गुणपूर्णस्वरूपस्य त्वापरोक्ष्येण दर्शनात्। सर्वदैव ह्यसौ विष्णुरिदन्द्रो नामतो मतः। ब्रह्मादीनां हि सर्वेषां तत्प्रसादेन जायते। जानन्ति न स्वतस्तेन नेदन्द्रास्ते प्रकीर्तिताः। रमाऽपि तत्प्रसादेन जानाति किमुतापरे। अल्पज्ञाना अल्पगुणा अल्पानन्दाश्च तेऽखिलाः। रमाजशङ्करेन्द्राद्यास्तेनानिन्द्राः क्रमेण ते। पापैरज्ञाततां देवा मानयन्ति सदाऽऽत्मनः। हर्षेण तेन विष्णुः स इन्द्र इत्यभिशब्द्यते। नेदन्द्रताऽसुरादीनां ज्ञायेतेति श्रुतिर्हरिम्। इन्द्र इत्येव वदति पारोक्ष्येणोरुसद्गुणम्॥”
इत्याद्यैतरेयसंहितायाम्।
आततगुणत्वादात्मा नारायणः।
ब्रह्म पन्थाः सत्यं कर्मेति तस्यैव पञ्चरात्रप्रसिद्धैरेव नामभिरारब्धत्वाच्च।
“मुख्यतः कर्मनामा तु प्रादुर्भावात्मको हरिः। अनिरुद्धतनुश्चैत तत्र ह्यमितचेष्टितः। कर्माभासा जीवसङ्घाः सत्यं प्रद्युम्ननामकः। सङ्कर्षणो हरिः पन्था ब्रह्मोक्तो वासुदेवकः॥”
इत्यादि
नामनिर्णये।
“मत्सीन्द्रमिन्दो पवमान विष्णुम्”ऋग्वेदसंहिता ९/९०/५
इत्यादिश्रुतौ तस्मिन्नेव
प्रसिद्धस्येन्द्रशब्दस्य
बहुशोऽभ्यासाच्च।
अकारस्य च विष्णावेव
प्रसिद्धस्यात्राप्यभ्यासात्।
“तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी”
इति सूर्यमण्डले पुण्डरीकाक्षत्वेन निर्दिष्टस्यात्रापि
“य एष तपति”
इत्यादिना
बहुशोऽभ्यासाच्च।
सूर्यो हि
“हिरण्याक्षः सविता देव आगात्”ऋग्वेदसंहिता १/३५/८
इति
पिङ्गलाक्षः
प्रसिद्धः।
“विरूपाक्षः शिवः सूर्यः सुराचार्यो विनायकः। पुण्डरीकेक्षणो विष्णुः सहस्राक्षः सुराधिपः॥”
इति च स्कान्दे।
“यो देवानां नामधा एक एव”ऋग्वेदसंहिता १०/८२/३
“नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति”
“यमिन्द्रमाहुर्वरुणं यमाहुः”तैत्तिरीयब्राह्मणम् ३/७/९/३
“चन्द्रसूर्यादयः शब्दा विष्णावेव हि मुख्यतः। उपचारात् तदन्येषां विष्णुनैव कृताः पुरा॥”
इत्यादिना तस्यैव सर्वनामवत्त्वाच्च।
“णकारो बलं षकारः प्राण आत्मा”ऐतरेयारण्यकम् ३/२/६
इत्यादिनाऽन्तेऽपि
विष्णुशब्दव्याख्यानेनोपसंहाराच्च।
“आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम्।
न वर्तन्ते तदन्यत्र शृङ्गिबेरेऽग्निशब्दवत्॥”
इति च पाद्मे।
“एको नारायण आसीन्न ब्रह्मा नच शङ्करः”
“एको नारायण आसीन्न ब्रह्मा नेशानः”
“वासुदेवो वा इदमग्र आसीन्न ब्रह्मा नच शङ्करः”
इत्यादिश्रुतिभ्यश्च।
अग्रशब्दो गुणाधिक्यवाची।
इदं रमाब्रह्मशिवादिकं सर्वं जगदपेक्ष्यात्मैवाग्रे विष्णुरेवाग्र्यः सर्वगुणैरित्यर्थः।
तत्र हेतुस्तदन्यत् किञ्चिन्न मिषदासीत्।
सर्वस्याप्युन्मेषणं नासीदित्यर्थः।
स्वत उन्मेषणं कस्यापि नास्ति।
अस्तिशब्दवदासीच्छब्दोऽपि सर्वकालसाधारणः।
भगवत्प्रसादादेव सर्वदा सर्वं किञ्चिदुन्मिषति।
स्वातन्त्र्येण पूर्णोन्मेषो विष्णुरेव।
“उन्मेषो गुणसम्पूर्तेरुद्रिक्तानुभवः स्मृतः। तदेव मिषणं नाम सद्रूपं मिनुते यतः। मिषच्च नान्यद् विष्णोर्हि किमुतोन्मिषदिष्यते। उच्चैर्मिषन् हि भगवान् सर्वदैव जनार्दनः॥”
इति च सत्तत्त्वे।
“नास्ति नारायणसमं न भूतं न भविष्यति”भारतम् १/१/३४
इति च भारते।
सर्वजीवानां रमायाश्च
प्रलयेऽपि
विद्यमानत्वादेव नाग्र इति कालापेक्षया तदधीनमिषत्वादन्येषामग्र्यः स एवेत्याशयः।
तदधीनत्वमेव तेषां सृष्ट्यादिना दर्शयति।
स्थूलशरीरस्य पूर्वाभावस्तत एवार्थतः सिद्ध्यति।
“प्रलयेऽप्यखिलं देवी रमा विष्णुप्रसादतः। जानाति नित्यज्ञानेन मुक्ता ध्यानस्थिता लये॥”
इति च सत्तत्त्वे।
ब्रह्मादीनां शरीरान्तरस्यापि
प्रलयेऽनुक्तेरेवाभावः
सिद्ध्यति।
“आत्मा ब्रह्माऽग्र इत्यादि गुणाग्र्यत्वं हरेर्वदेत्। कालज्यैष्ट्यं न यस्मात् तत् सृष्ट्युक्तेरेव सिद्ध्यति॥”
इति वाक्यनिर्णये।
गुणाग्र्यतायामेव कालज्यैष्ठ्यस्याप्यन्तर्भावाच्च।
अं विष्णुं बिभर्तीत्यम्भो विष्णुलोकः।
दिवः परे।
महरादयश्च।
दिव्यपि भगवान् प्रतितिष्ठतीति प्रतिष्ठा।
तेषु सर्वेषु
प्रत्यक्षतश्चरति विष्णुस्तस्मादम्भ
इत्युच्यते।
दिवः परे द्यौश्चाम्भोनामका इत्यर्थः।
सूर्यमरीचीनां तत्र विशेषेण विततत्वादन्तरिक्षं मरीचयः।
मरीचीनामयनात्।
पृथिव्यां क्षिप्रं मरन्तीति पृथिवी मरः।
“भूतेभ्योऽनन्तरं त्वण्डं सृष्ट्वा विष्णुः पुरा प्रभुः। लोकभेदांश्च चक्रेऽत्र पश्चाद् ब्रह्मा विशेषतः। सम्यक् चकार लोकांस्तान् लोककर्ता ततः स च॥”
इति ब्रह्मवैवर्ते।
या अधस्तात् पूर्वमेव सृष्टा देवतास्ता आप इत्युच्यन्ते।
“आपा इत्याप इति”
इति पूर्वं भगवदङ्गसृष्टानामेवाप्शब्देनोक्तेः।
“अयं पितैते पुत्राः”
इति च।
“आहं मां देवेभ्यो वेद ओ मद् देवान् वेद”
इति च।
“ब्रह्मवायू च तद्भार्ये वीन्द्रशेषौ च तत्स्त्रियौ। शिवस्तद्दयिता शक्रकामौ तद्दयितादयः। सर्वे सुराः क्रमेणैव विष्णोर्जाता अबाख्यकाः। ज्ञानानन्दबलाद्येषु विष्णुभक्तौ च सर्वशः। हीनाः शतगुणेनैव क्रमेणानेन ते मताः। तेभ्यश्च ऋषयो मर्त्या हीना एव क्रमेण च। विशेषतस्तु मुक्तानां सर्वसंसारबन्धनात्। क्रमोऽयं सम्यगुद्दिष्टो नित्यानन्दैकभोगिनाम्। न विशेषो ब्रह्मवाय्वोरधिकाराविभेदतः। न शेषशिवयोश्चैव तत्पत्नीनां च सर्वशः। सुपर्णशेषयोश्चैव साम्यं सर्वगुणेष्वपि। साम्यमेवैतयोः पत्न्योः साम्यं शक्रमनोजयोः। एते तु महदादीनां सर्वेऽपि ह्यभिमानिनः। पूर्वस्य प्रतिबिम्बश्च चरमस्तत्सुतस्तथा। तद्वशाश्चाखिला विष्णोर्न विष्णुः कस्यचिद् वशे। महदादिमानिनश्चैते जातास्तैः सह सर्वशः। एते लोका इति प्रोक्ता लोकानामभिमानिनः। त एव लोकपालाश्च यदा पश्चाद् प्रजज्ञिरे। पश्चाज्जातैर्हि रूपैस्तैर्लोकस्थान् पालयन्त्यलम्॥”
इत्यादि तत्त्वसारे।
अमूर्च्छयत् मूर्तमकरोत्।
“अग्निर्वाग् भूत्वा”
इत्यादिना पश्चादैक्यप्रतीतेरेकस्यैव रूपद्वयं तदिति प्रतीयते।
प्रजानीहि प्रकर्षेणानुजानीहि।
अन्नदेवता च सर्वदेवतायुक्तो विरिञ्च एव।
ग्रसनं चैतस्मिन् प्रवेश एव।
नतु पीडा तस्य।
एक एव हि ब्रह्मा भोक्तृभोज्यत्वेन स्थितो भोज्यरूपेणैकीभूयातितरां मुमोदेत्यर्थः।
देवानामुपद्रवाभावाद् भोक्तृत्वशक्तियोजनमेवाशनापिपासाभ्यामन्ववार्जनम्।
वायुरेव च भोक्तृत्वशक्तिरूपः।
यदि वागादीनामेवाभिव्याहरणादिशक्तिः स्यान्मां विना तर्हि
विष्णुत्वं न मम स्यात्।
तस्मात् कोऽहं भवानीत्याक्षेपः।
विशेषेण प्राणयति सर्वान् सर्वेभ्यो
विशिष्टश्चेति
हि विष्णुः।
“णकारो बलं षकारः प्राण आत्मा”ऐतरेयारण्यकम् ३/२/६
इति व्याख्यानात्।
तस्मान्मत्प्रेरिता एवैते अभिव्याहारादिशक्ता इत्यभिप्रायः।
पूर्णानन्दस्वरूपत्वान्नन्दनो भगवान्।
प्रादुर्भावरूपेण जातोऽपि भगवान् सर्वभूतान्यभितः सर्वकालेषु विशेषेण पश्यत्येव।
इह भूतेषु मत्तोऽन्यं प्रवर्तकं वदेत् किमित्याक्षेपः।
अहमेव स्वतन्त्रः परिपूर्णगुण इति कृष्णराघवादिसर्वावताररूपोऽपि सर्वदाऽनुभवत्येव।
“नायं दशरथाज्जातो नचापि वसुदेवतः। क्वास्याज्ञानं कुतो दुःखं प्रादुर्भावेष्वपि प्रभोः। प्रादुर्भूतश्चिदानन्दशरीरो राघवः स्वयम्। स्तम्भाद् वा नरदेहाद् वा नैवास्य प्राकृती तनुः। दैत्यानां मोहनार्थाय सोऽज्ञानाद्यं प्रकाशयेत्। पूर्णचित्सुखरूपोऽपि सदा सर्वावतारगः॥”
इत्यादि स्कान्दे।
एतमेव पुरुषं व्यासकृष्णकपिलराघवादिरूपं ततममपश्यत्।
ततमं
परिपूर्णतमं ब्रह्मापश्यत्।
इदं मे स्वरूपमदर्शमेवाहमिति।
रङ्गस्त्ववधारणे।
“रङ्गोऽवधारणे चैव संवादे च प्रयुज्यते”
इति पदविवेके।
अपश्यदित्यत्र नातीतकालत्वं विवक्षितम्।
अभिव्यैख्यदित्यभिशब्दस्यानुषङ्गात्।
अपश्यत् पश्यतीति
चैककालसम्बन्धं
विना वक्तुमशक्यत्वात् तथा प्रयोगः।
“प्रयोग एककालीनः सर्वकालेऽनुषज्यते। ददर्श विष्णुरित्यादौ नित्यचिद्रूपतो हरेः॥”
इत्यादि सत्तत्त्वे।
परोक्षप्रिया इवेत्यसुराणां
सम्यग् दर्शनेन
पतनं देवानां प्रियं तथाऽप्यपरोक्षदर्शिन्येव प्रीतिं कुर्वन्तीतीवशब्दः॥ ३॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ऐतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके चतुर्थोऽध्यायः॥
पञ्चमोऽध्यायः
प्रथमः खण्डः
ॐ॥ पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः।
तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभृतमात्मन्येवात्मानं बिभर्ति तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म।
तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा तस्मादेनां न हिनस्ति।
साऽस्यैतमात्मानमत्र गतं भावयति सा भावयित्री भावयितव्या भवति।
तं स्त्री गर्भे बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति।
स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयति।
एषां लोकानां संतत्या एवं संतता हीमे लोकाः।
तदस्य द्वितीयं जन्म।
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते।
अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति।
स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म।
तदुक्तमृषिणा।
गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा।
शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति।
गर्भ एवैतच्छयानो वामदेव एवमुवाच स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन्त्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत्॥ १॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके पञ्चमेऽध्याये प्रथमः खण्डः॥ (२४)
॥ समाप्तश्चायमध्यायः॥
ॐ॥
“अयं नारायणो देवः पुरुषे प्रथमं विशेत्। अन्नस्थोऽन्नेन सहितस्तस्मिन् रेतस्त्वमागते। तस्मिन् स्थितं स्वरूपं स पुरुषस्थो बिभर्त्यजः। तद्रूपं रेतसा साकं स्वयं पुंसि स्थितो हरिः। स्त्रियां सिञ्चति तस्यैव स्थानान्तरगतेः प्रभोः। प्रथमं जन्म विष्णोस्तु स तस्या अङ्गवत् प्रभुः। नैनां हिनस्त्यानुकूल्यात् सा पुत्रं भावयत्यथ। पुत्रस्य भावना सैव तद्गत्वाद्धरिभावना। सम्भावितव्या सा चैव भर्त्रा पुत्रश्च सादरम्। सम्भावनं कुमारस्य जानतः केशवे भवेत्। तस्येत्यर्पणमात्रेण पूजितो हि भवेद्धरिः। पुत्रस्थस्य हरेः पूजां कुर्वतः पृथिवीस्थितिः। स्वर्गस्थस्यापि भवति पुत्रपुण्यं यतोऽखिलम्। अत्यल्पपुण्यभाक् स स्यान्नार्चयेत् केशवं यदि। पृथिव्यां जन्म पुत्रस्य द्वितीयं विष्णुजन्म हि। एतद् रूपं निधायैव जीवार्थे धर्मकर्तवे। पितृस्थेन तु रूपेण गच्छत्यन्यत्र केशवः। पितुरन्यत्र जननं तृतीयं जन्म तद्धरेः। अन्तर्यामितयैवं हि सर्वजीवेषु संस्थितम्। सर्वदोषोज्झितं विष्णुं कर्तारं सर्वकर्मणाम्। नित्यानन्दं स्वतन्त्रं च सर्वज्ञं सर्वतोऽधिकम्। यो वेद देहबन्धात् स विमुक्तो नित्यमुत्तमान्। भोगान् भुङ्क्ते यथायोग्यमिति वेदानुशासनम्॥”
इत्यैतरेयसंहितायाम्।
नात्र जीवोत्पत्तिमात्रमुच्यते।
नहि जीवोत्पत्तिमात्रपरिज्ञानादमृतत्वं भवति।
ज्ञातमेव सर्वैः पितापुत्रसम्बन्धमात्रं
पश्वादिभिरपि।
“गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा”
इत्युक्तार्थ
उदाहृतमन्त्रे
देवजन्मकथनाच्च।
विष्णुर्हि परमो देवः।
तेनैव सह सर्वेऽपि देवा जीवदेहजनने जायन्त इव।
शरीरप्राप्तिरेव हि जन्मान्येषामपि।
अयमेव विशेषो देवानां दुःखाभोगः।
स्वातन्त्र्यं च विष्णोः।
“आत्मन्येवात्मानं बिभर्ति”
“आत्मानमेव तद् भावयति”
इत्याद्यात्मशब्दश्च मुख्यतो विष्णावेव युज्यते।
“णकारो बलं षकारः प्राण आत्मा”
इति विष्णुशब्दार्थैकदेशवाचित्वाच्चात्मशब्दस्य।
“एतया द्वारा प्रापद्यत”
इति तस्यैव शरीरप्रवेशस्य प्रस्तुतत्वाच्च।
जीवशरीरं परित्यज्यान्यत्रगमनमात्रं विष्णोरप्यस्तीति “प्रैति” इत्युक्तेऽप्यविरोधः।
कृष्णराघवादिस्वरूपमेव ह्यसौ न परित्यजति।
“कृष्णो ह्यत्यक्तदेहोऽपि त्यक्तदेहवदेव च। लोकानां दर्शयामास स्वरूपसदृशाकृतिम्। येन रूपेण कंसादीन् जघ्ने तद्रूपमेव हि। पूज्यतेऽद्यापि शर्वाद्यैर्निर्मिताऽन्या शवाकृतिः। स्वर्गारोहणकाले तु जनास्तेनैव मोहिताः। यत् तद् रूपं निजं विष्णोर्दृष्टं सर्वजनैर्भुवि। अद्यापि तद् देवलोके पूज्यते सर्वदैवतैः॥”
इत्यादि स्कान्दे।
“प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम्। आदायान्तरधाद् यस्तु स्वबिम्बं लोकलोचनम्॥”भागवतम् ३/२/११
इति च भागवते।
“प्रेतां यज्ञस्य शम्भुवा”ऋग्वेदसंहिता २/४१/१९
इत्यादिवत् प्रकृष्टगतिवाच्येवायं शब्दः।
प्रकृष्टगतित्वादेव च
मरणेऽपि प्रयुज्यते।
“एषामवेदमहम्”
इत्यत्रापि जीवभेद एवोक्तः।
अन्यथा ‘मम जनिमानि’ इत्येवोच्येत।
व्यर्थता च “एषाम्” इत्यादिविशेषणानाम्।
“अवेदम्” इत्यनेनैव स्वस्य सिद्धत्वात् “अहम्” इत्यप्यहेयत्वेनेति क्रियाविशेषणम्।
जन्म जानन्नपि देवानां दुःखादिहेयरहितत्वेन व्यजानामीत्यर्थः।
तस्मात्
“अहं मनुः”
इत्यादावप्यहेयगुणं
भगवन्तमेवाहंशब्दो वक्ति।
सर्वान्तरत्वात् तस्मिन्नेव “अभवम्” इत्युत्तमपुरुषशब्दोऽपि सर्वो वर्तते।
“अहेयत्वादहं विष्णुः स तु सर्वान्तरत्वतः। अस्यस्मीत्यादिभिः शब्दैरुच्यतेऽन्योऽपि जीवतः॥”
इति ब्रह्मवैवर्ते।
नच मूढव्यवहार एव वेदनिर्णयाय भवति।
किन्तु? सर्वेषामनुभवो युक्तयश्च वाक्यान्तरं च निर्णयकारणम्।
तस्मात् सर्वजीवादिभ्योऽन्यः सर्वोत्तमो विष्णुरेवात्रोक्तः।
“न वेदेषु पदं किञ्चिद् वर्णो वा व्यर्थ इष्यते। यथायोग्यं चार्थभेद ऊह्यः सर्वत्र वेदिभिः॥”
इति शब्दनिर्णये।
“शब्दा रेतोऽन्नमित्याद्या अपि तत्र गतं हरिम्। वदन्त्यविष्णुवाची हि न शब्दः क्वचिदिष्यते॥”
इति च।
भावयति सम्भावयति।
सोऽग्र एव
सोऽग्र्यो विष्णुरेव।
पुत्रसम्भावनमपि तत्रस्थं विष्णुं सम्भावयामीति तत् तस्यैव भवति।
एवं भावयतामेव
“एष पन्था उरुगायः”ऐतरेयब्राह्मणम् ७/१३
इत्याद्यपि।
तं पश्यन्ति पशव इत्याद्यपि दिव्यपश्वादीनामेव।
अन्येषां स्वभावप्रवृत्तिः।
ता एव देवताः शतं पुर आयासीर्ज्ञानिन्यो विशेषतः।
“अय पय गतौ”पाणिनीयधातुपाठः१/५४६, १/५४८
इति धातोः।
मानुषानपेक्ष्य पूर्णत्वात् पुरः।
विष्णुर्मुख्यत एव पूर्णः।
नच शरीरैर्जीवो रक्षितः।
मुख्ये युज्यमाने च नामुख्यार्थः कल्प्यः।
शमस्य विद्यत इति शी विष्णुः।
पूर्णानन्दत्वात्।
स एव ज्ञानत्वाद् यश्चेति श्यः।
सोऽस्य जीवस्येन इति श्येनः।
विष्णुं स्वामिनं ज्ञात्वेत्यर्थः।
निरदीयं निष्क्रम्यातीतोऽस्मि गर्भवासं स्वरानन्दो विष्णुरत्रग इति स्वर्गलोको विष्णुलोकः।
अमृतः सन् सर्वान् कामानाप्त्वा तानेव सर्वान् कामान् समभवदनुभवति।
अपेक्षितवस्तुस्वीकार आप्तिः।
सम्भवो भोगः।
“तां समभवत् ततो मनुष्या अजायन्त”बृहदारण्यकोपनिषत् ३/४/३
इत्यादिवत्।
मुक्त्यनन्तरमेव ह्यनुपचरितसर्वकामावाप्तिः।
मुख्य एव चार्थः स्वीकार्यः।
अमुक्तानां विष्णुलोकगानामपि न सर्वकामावाप्तिः।
जयविजयादीनामप्रियदर्शनात्।
अतोऽमृतः सन्
सर्वान् कामानाप्त्वेत्यर्थः।
“मुक्तः कामानवाप्नोति भुङ्के चैव यथेष्टतः। सर्वानपि निरातङ्क सर्वदा च हरेर्वशः॥”
इति सत्तत्त्वे॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ऐतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके पञ्चमोऽध्यायः॥
षष्ठोऽध्यायः
प्रथमः खण्डः
ॐ॥ कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा।
येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति यदेतद्धृदयं मनश्चैतत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति।
सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति।
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिजानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रम्।
प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रोऽलोकः प्रज्ञा प्रतिष्ठा।
प्रज्ञानं ब्रह्म।
स एतेन प्रज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्त्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत्॥ १॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके षष्ठेऽध्याये प्रथमः खण्डः॥ (२५)
॥ समाप्तश्चायमध्यायः॥
ॐ॥
“अयं विष्णुर्हि किंरूप उपास्योऽस्माभिरच्युतः। इत्यपृच्छद् रमादेवी महिदासं जनार्दनम्। आह तां महिदासोऽथ पूर्णानन्दतमस्त्विति। उपास्यस्तादृशो ह्यस्य स्वभावः परमात्मनः। येन जीवो दर्शनादीन् प्रेरितः कुरुते सदा। यो विष्णुर्हृदयमिति हृद्गतत्वात् प्रकीर्तितः। मन्तृत्वान्मन इत्येव यच्च ज्ञानस्वरूपतः। एतत् सन्निहितत्वाच्च पूर्णत्वादेति कीर्तितः। इतत्वाच्च ततत्वाच्च स इतन्नाम केशवः। गुणानामुच्चयो यस्मात् स च इत्येवशब्दितः। सम्यज्ज्ञानस्वरूपत्वात् सञ्ज्ञानमिति कीर्तितः। आततज्ञानरूपत्वादाज्ञानं भगवान् हरिः। विविधज्ञानरूपत्वाद् विज्ञानमिति कीर्तितः। प्रकृष्टात्मगुणज्ञानरूपः प्रज्ञानमुच्यते। अविस्मृतित्वान्मेधा स दृष्टिर्दर्शनरूपतः। धृतिर्धारणरूपत्वान्मतिर्मासु ततत्वतः। मनुनाम्नामजादीनां मनीषेशो यतो हरिः। सर्वप्रेरकरूपत्वाज्जूतिरित्यभिधीयते। सर्वदेशेषु कालेषु स्वरूपेषु च सर्वशः। समं रमत इत्येव स्मृतिर्नाम जनार्दनः। सर्वस्य कॢप्तिकर्तृत्वात् सङ्कल्प इति गीयते। क्रतुः स सर्वकर्तृत्वादसुरप्यसनाद्धरिः। अमेयानन्दरूपत्वात् काम इत्यभिधीयते। अवशः स स्वतन्त्रत्वात् त्रयोविंशतिनामकम्। यो वेदैवं हरिं सम्यङ् मुच्यतेऽखिलसंसृतेः। ब्रह्मा शिवश्च शक्रश्च देवाश्चान्ये समस्तशः। तथैव पञ्चभूतानि पुण्यपापविमिश्रिताः। क्षुद्रात्मानस्तु ये मर्त्या इतरे असुरा अपि। सर्वं जगदिदं विष्णोर्वशे तिष्ठति सर्वदा। तेनैव नीयते नित्यं तस्मिन्नेव प्रतिष्ठितम्। मुक्ता ये लोकनामानो नीयन्ते तेऽपि विष्णुना। स्वयं चानन्यनिष्ठत्वात् प्रतिष्ठेत्यभिधीयते। देशतः कालतश्चैव गुणतश्चातिपूर्तितः। विष्णोर्ब्रह्मेति नामैतन्मुख्यतोऽन्यत्र न क्वचित्। सोऽलोकनामा मुक्तस्तु चितिमात्रस्वरूपतः। प्रकृष्टज्ञानरूपस्य प्रसादात् परमात्मनः। अस्माद् देहात् समुत्क्रम्य गत्वोर्ध्वं लोकमुत्तमम्। अमृतः सन् विष्णुलोके भोगान् सम्प्राप्य पुष्कलान्। भुङ्क्ते यथेष्टतो नित्यमिति वेदानुशासनम्॥”
इत्याद्यैतरेयसंहितायाम्।
जानन्त्याऽपि देव्या लोकानुग्रहार्थं विशेषज्ञानार्थं च
“कोयमात्मा”
इति पृष्टः
स भगवानाह।
कतरः स आत्मेति।
कतरः आनन्दतमः।
“यत्रोभयोः प्रयोगो न तत्रैकार्थो तरप्तमौ”
इति शब्दनिर्णये।
यत्प्रेरणादयं जीवो दर्शनादीन्
करोति च।
रमाब्रह्मादीनामपि तत्प्रेरितत्वात्।
सर्वेषां दर्शनादिकारणत्वमेकैकमपि तस्य लक्षणं भवतीति वाशब्दः सर्वत्रानुषज्यते।
प्रजापतिः शिवः।
लिङ्गाभिमानित्वात्।
“प्रजापतिः शिवः शेषो लिङ्गमित्यभिधीयते। लिङ्गाभिमानी लोकस्य स्रष्टा गिरिश एव हि॥”
इति शैवपुराणे।
“सममस्त्वनयोर्युद्धमिति प्राह प्रजापतिः। वाक्यं शिवस्य तच्छ्रुत्वा शक्रो नेत्याह सत्वरः॥”
इति भारते।
क्षुद्रमिश्राणीव बीजानि शाल्यादिबीजवद् भिन्नस्वभावा ब्रह्मादयः सर्वजीवाः।
“ब्रह्माद्याः सर्व एवैते जीवा भिन्नस्वभावकाः। यथा शाल्यादिबीजानि भिन्नवीर्यानि सर्वशः॥”
इति सत्तत्त्वे।
प्रथमेतराणीतिशब्दो मानुषाणां द्वितीयो सुरादीनाम्।
“प्रज्ञानेत्रोऽलोक”
इत्यलोकशब्देन मुक्तसमुदाय उच्यते।
ब्रह्मादिस्थावरान्तस्य लोकस्य
“सर्वं तत् प्रज्ञानेत्रम्”
इति विष्ण्वधीनत्वस्य पूर्वमेवोक्तत्वात् पुनः “प्रज्ञानेत्रोऽलोकः” इति मुक्तविषयमेव।
मुक्तो
ह्यलोक्यत्वादलोकः।
“अण्डजानि च” इत्याद्युक्त्वा पुनः “अश्वा गावः” इत्यादि देवादीनां मनआदेरेव जातानामपि स्वीकारार्थम्।
अण्डजत्वाद्युत्पत्तिप्रकारोऽपि विष्ण्वधीन इति ज्ञापयितुं तत्कथनम्।
“तथाऽश्मानस्तृणकाष्ठाश्च सर्वे दिष्टक्षये स्वां प्रकृतिं भजन्ते”भारतम् १/८३/११
इति भारतवचनादश्मादीनामपि प्राणित्वात् तत्स्वीकारार्थं प्राणीति।
गमनपतनस्थिरत्वादयोऽपि भावा विष्ण्वधीना इति ज्ञापयितुं जङ्गममित्यादिवचनम्।
स एतेनेत्यलोकशब्दोक्तो मुक्तः परामृश्यते।
सकलकर्मबन्धमुक्त्यनन्तरं हि शरीरादुत्क्रामति।
प्रकृष्टज्ञानरूपेण विष्णुना प्रेरितः
प्रज्ञेनात्मनैवोत्क्रम्य
तेनैव सर्वान् कामानाप्त्वा तेनैव सर्वान्
कामान् स भुङ्क्त इति सर्वत्रानुषज्यते।
“प्रज्ञानेत्रोऽलोकः”
इत्युक्ते कथं प्रज्ञानेत्रो मुक्त इत्याकाङ्क्षायां तस्यैव व्याख्यानम्-
स एतेन प्रज्ञेनात्मनेत्यादि।
अनुक्तविशेषणानामपि
भगवधीनत्वज्ञापनार्थं “प्रज्ञानेत्रोऽलोकः” इति सामान्यवचनम्।
“अनारब्धफलानां च प्रारब्धानां च सर्वशः। कर्मणां दाह एवायं मुक्तिरित्यभिधीयते। स तु मुक्तस्ततो देहादुद्गच्छति परात्मना। प्रेरितो विष्णुलोकं च प्राप्य भोगानवाप्य च। भुङ्क्ते विष्णुप्रसादेन न विष्णोरवशः क्वचित्। विष्णुतन्त्रा इमे सर्वे मुक्ता अपि यतोऽखिलाः॥”
इति ब्रह्माण्डे।
ब्रह्मेन्द्रादिशब्दा विष्णावेव मुख्यत इति तद्व्यावृत्त्या जीवानां स्वीकारार्थमेष इत्यादिशब्दः।
स हि भगवान् स्वनेत्रकोऽपि नानुग्राह्यः।
अनुग्राह्यत्वं हि ब्रह्मादीनामत्र विवक्षितम्।
“नेयतानुग्राह्यताऽपि न सा विष्णोः स्वतोऽपितु”
इति शब्दतत्त्वे।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ऐतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके षष्ठोऽध्यायः॥
सप्तमोऽध्यायः
ॐ॥ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणी स्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्त्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्॥ १॥
॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके सप्तमेऽध्याये प्रथमः खण्डः॥ (२६)
॥ समाप्तश्चायमध्यायः॥
॥ समाप्तं चेदमारण्यकम्॥
ॐ॥ वाङ् मे मनसि प्रतिष्ठिता।
अवबोधरूपे विष्णौ प्रतिष्ठिता।
स च विष्णुर्मे वाचि स्थितः।
“यदेतद्धृदयं मनश्च”
इति विष्णुनामधेयेषूक्तत्वात्।
आविराविर्म एधि।
हे विष्णो ममाविराविर्भव।
आणीस्थित आण्यां स्थित
विष्णो इति
सम्बोधनम्।
“आधारः सर्ववेदानां वेदाणी प्राण उच्यते। तस्मिन् स्थितो हरिर्नित्यमाणीस्थ इति गीयते॥”
इति शब्दतत्त्वे।
आविरावीरिति दैर्घ्यमतिशयार्थे।
“आधिक्येऽधिकम्”
इति सूत्रात्।
अणशब्दस्य गतिवाचित्वाच्चलमाणमुच्यते।
तस्य धारणेन तद्वानाणी।
स्थापक इत्यर्थः।
मे श्रुतं मा प्रहासीः।
मम विद्यागोचर एव सर्वदा भव।
विस्मृतो मा भव।
हे विष्णो अनेन त्वद्विषयेणैवाधीतेनाहोरात्रान् सन्दधामि।
सर्वाहोरात्रेष्वपि त्वद्विषयाध्ययनमेव करोमीत्यर्थः।
ऋतं यथावदवगतं त्वां वदिष्यामि।
सत्यं साधुगुणैस्ततं सर्वनियन्तारं च।
तद् विष्ण्वाख्यं ब्रह्म मामवत्विति तस्यैव विष्णोः परोक्षत्वेनैव प्रार्थनम्।
“वाङ् म इत्यादिकं खण्डं विष्णुप्रार्थनरूपकम्। अविघ्नत्वमभीप्सूनां शिष्याणां दृष्टवान् हरिः॥”
इति च।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ऐतरेयोपनिषद्भाष्ये द्वितीयप्रघट्टके सप्तमोऽध्यायः॥
Loading…