उपाधिखण्डनम्

नित्यागण्यगुणालयस्य प्रसादाशंसनम्
ॐ॥ नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः। अशेषदोषरहितः प्रीयतां कमलालयः ॥ १॥
मायावाद-भास्करमतयोः क्रमेण निराकरणम्
अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन। उपाधिभेदाद् घटत इति चेत् स स्वभावतः॥ २॥
अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत्। अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता॥ ३॥
चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः। विद्यमानस्य भेदस्य ज्ञापको नैव कारकः॥ ४॥
उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः। ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया॥ ५॥
न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः। एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः॥ ६॥
सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः। दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा॥ ७॥
नानादेहगभोगानुसन्धानं योगिनो यथा। न चेद् भोगानुसन्धानं तदिच्छा योगिनः कुतः॥ ८॥
अनुसन्धानरहितदेहबाहुल्यमन्यथा। सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः॥ ९॥
सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता। तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः॥ १०॥
उभयोरपि साधारणदोषेण दूषणम्
आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः। प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा॥ ११॥
चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते। अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते॥ १२॥
अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता। सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः॥ १३॥
सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः। ‘सत्यः सो अस्य महिमा’ऋग्वेदसंहिताया ८/३/४ इत्यादिवाक्यान्मृषा नच॥ १४॥
नच वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न।
अद्वैतमतेऽधिकार्याद्यभावसमर्थनम्
अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम्॥ १५॥
अतो नाज्ञातमिति च विषयो विषयान्तरे। अज्ञाभावात् फलं कस्य योगः शशनृशृङ्गयोः॥ १६॥
अज्ञानदौर्घट्यस्य भूषणत्वदूषणम्
दुर्घटत्वं भूषणं चेत् स्यादविद्यात्वमात्मनः। अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः॥ १७॥
भेदमते विषयादिसद्भावप्रतिपादनम्
अतः “परो मात्रया”ऋग्वेदसंहिता ७/९९/१ इतिपूर्वश्रुतिनिदर्शितः। “अन्यमीशम्”🔗आथर्वणोपनिषत् ३/१/२ इति श्रुत्या भिन्नजीवदृशं गतः। भिन्नत्वेनात्मसादृश्यदो “यदा”🔗आथर्वणोपनिषत् ३/१/३ इति श्रुतेः सदा॥ १८॥
उपसंहारः
मायावादतमोव्याप्तमिति तत्त्वदृशा जगत्। भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेः सदा॥ १९॥
नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये। इन्दिरापतये नित्यानन्दभोजनदायिने॥ २०॥
[-] [-]
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितमुपाधिखण्डनं [तत्त्वप्रकाशिकापरनामकं] सम्पूर्णम्॥