प्रमेयविवेकः
तत्त्वस्य सामान्यविभागोद्देशौ
ॐ॥
“स्वतन्त्रं परतन्त्रं च प्रमेयं द्विविधं मतम्।
स्वतन्त्रप्रमेयोद्धेशः, तदुपपादनं च
स्वतन्त्रो भगवान् विष्णुर्निर्दोषाखिलसद्गुणः॥ १॥
परतन्त्रप्रभेदाः
द्विविधं परतन्त्रं च भावोऽभाव इतीरितः।
अभावप्रभेदाः
पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते॥ २ ॥ भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक्।
भावविभागः
चेतनोऽचेतनश्चेति भावश्च द्विविधः स्मृतः॥ ३॥
चेतनविभागादि
नित्यमुक्तश्च सृतियुक् परतन्त्रोऽपि चेतनः। द्विधैव श्रीर्नित्यमुक्ता सृतियुक् च द्विधा मतः॥ ४॥ मुक्तोऽमुक्त इति ह्यत्र ब्रह्मान्ता उत्तरोत्तरम्। मुक्ताः शतगुणाः प्रोक्ता रमा तेभ्योऽखिलैर्गुणैः॥ ५॥ नित्यं बहुगुणोद्रिक्ता ततोऽनन्तगुणो हरिः। अमुक्तास्त्रिविधास्तत्र नीचमध्योच्चभेदतः॥ ६ ॥ मुक्तियोग्यास्तत्र चोच्चा नित्यवर्तास्तु मध्यमाः।
नीचा नित्यतमोयोग्याः — — — —
अचेतनविभागादि
— — — — द्विधैवाचेतनं मतम्॥ ७॥
नित्यानित्यत्वभेदेन देशः कालः श्रुतिस्तथा। भूतेन्द्रियप्राणगुणसूक्ष्मरूपं च नित्यकम्॥ ८॥
एषां विकारोऽनित्यः स्यात् — — — —
अनुक्तसङ्ग्रहसूचना
— — — — नित्या एव हि चेतनाः।
Loading…