षट्प्रश्नोपनिषद्भाष्यम्‌

षट्प्रश्नोपनिषद्भाष्यम्
उपोद्घातः
ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ॐ॥ नमो भगवते तस्मै प्राणादिप्रभविष्णवे। अमन्दानन्दसान्द्राय वासुदेवाय वेधसे॥ *॥
प्रथमः प्रश्नः
सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः। ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः। एष ह वै तत् सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः॥ १/१॥
तान् ह स ऋषिरुवाच। भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ। यथाकामं प्रश्नान् पृच्छत।
यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति॥ १/२॥ अथ कबन्धी कात्यायन उपेत्य पप्रच्छ। भगवन् कुतो ह वा इमाः प्रजा प्रजायन्त इति॥ १/३॥
तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः स तपोऽतप्यत स मिथुनमुत्पादयते। रयिं च प्राणं चेति।
एतौ मे बहुधा प्रजाः करिष्यत इति॥ १/४॥ आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः। रयिर्वा एतत् सर्वं यन्मूर्तं चामूर्तं च।
तस्मान्मूर्तिरेव रयिः॥ १/५॥ अथादित्य उदयन् यत् प्राची दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते। यद् दक्षिणां यत्प् रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते॥ १/६॥
स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते॥ १/७॥
तदेतदृचाऽभ्युक्तम्- विश्वरूपं करिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम्। सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः॥ १/८॥
संवत्सरो वै प्रजापतिः। तस्यायने दक्षिणं चोत्तरं च। तद् ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते। त एव पुनरावर्तन्ते। तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते। एष वै रयिर्यः पितृयाणः॥ १/९॥
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानं अन्विष्यादित्यमभिजयन्ते। एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् परायणम्। एतस्मान्न पुनरावर्तन्त इत्येष निरोधः॥ १/१०॥
तदेष श्लोकः- पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम्। अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षळर आहुरर्पितमिति॥ १/११॥
मासौ वै प्रजापतिः। तस्य कृष्णपक्ष एव रयिः। शुक्लः प्राणः। तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति। इतर इतरस्मिन्॥१/१२॥
अहोरात्रे वै प्रजापतिः। तस्याहरेव प्राणो रात्रिरेव रयिः। प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते। ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यन्ते॥ १/१३॥
अन्नं वै प्रजापतिः ततो ह वै तद् रेतः। तस्मादिमाः प्रजाः प्रजायन्त इति॥ १/१४॥
तद् ये ह वै तत् प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते। तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम्॥ १/१४॥
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति॥१/१५॥
“प्रजानां पालनाद् विष्णुः प्रजापतिरितीरितः। स वायुं सूर्यनामानं चन्द्रनाम्नीं सरस्वतीम्। सूर्याचन्द्रगतौ देवः ससर्ज पुरुषोत्तमः। तावाविश्य स्वयं विष्णुः सर्वसृष्टीः करोत्यजः। अमूर्तस्थः स वायुस्तु मूर्तसंस्था सरस्वती। आदित्यस्थः स वायुस्तु प्राणानात्मनि सन्नयेत्। प्राच्याः प्राणास्तथेन्द्राद्या दक्षिणाश्च यमादयः। प्रतीच्या वरुणाद्यास्तु सोमाद्या उत्तराः स्मृताः। शेषमित्राववाचीनौ वीन्द्रकामावुदक्तनौ। सभार्याः कोणपैः सार्धं चत्वारो दिशिदिश्यपि। संवत्सरस्थो भगवान् वागीरावयनस्थितौ। मासस्थितः स भगवान् पक्षयोर्वाक् च मारुतः। अहोरात्रे तु भगवान् प्राणोऽह्न्यथ च वाङ् निशि। दम्पत्योर्भगवान् विष्णुर्भार्यास्था तु सरस्वती। भर्तृस्थः स स्वयं वायुरेवं जानन् विमुच्यते॥” इति प्रजापतिसंहितायाम्।
इति प्रथमः प्रश्नः॥
Loading…