विषयानुक्रमणिका
उपोद्घातः
ॐ॥ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥ ओ३म् शान्तिः शान्तिः शान्तिः॥ ०॥
1.
उपनिषत्
ॐ॥ ईशावास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत्। उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1 तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्॥ १॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः। उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1 एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ २॥
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः। उद्धृतम्–2उद्धृतम्–2उद्धृतम्–2उद्धृतम्–2उद्धृतम्–2 तांस्ते प्रेत्याभि गच्छन्ति ये के चात्महनो जनाः॥ ३॥
अनेजदेकं मनसो जवीयो नैनद् देवा आप्नुवन् पूर्वमर्षत्। तद् धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति॥ ४॥
तदेजति तन्नैजति तद् दूरे तद्वन्तिके। तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥ ५॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति।[1] उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1 सर्वभूतेषु चात्मानं ततो न वि जुगुप्सते॥ ६॥
यस्मिन् सर्वाणि भूतान्यात्मैवाभूद् विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः॥ ७॥
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्। कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः॥ ८॥ उद्धृतम्–5उद्धृतम्–5उद्धृतम्–5उद्धृतम्–5उद्धृतम्–5
अन्धं तमः प्र विशन्ति येऽविद्यामुपासते। उद्धृतम्–4उद्धृतम्–4उद्धृतम्–4उद्धृतम्–4उद्धृतम्–4 ततो भूय इव ते तमो य उ विद्यायां रताः॥ ९॥
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया। इति शुश्रुम धीराणां ये नस्तद् व्याचचक्षिरे॥ १०॥
विद्यां चाविद्यां च यस्तद्वेदोभयं सह। उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1 अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते॥ ११॥
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते। ततो भूय इव ते तमो य उ सम्भूत्यां रताः॥ १२॥
अन्यदेवाहुः सम्भवादन्यादाहुरसम्भवात्। इति शुश्रुम धीराणां ये नस्तद् व्याचचक्षिरे॥ १३॥
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह। विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते॥ १४॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्। तत् त्वं पूषन्नपा वृणु सत्यधर्माय दृष्टये॥ १५॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजो
यत् ते रूपं कल्याणतमं तत् ते पश्यामि।
योऽसावसौ पुरुषः सोऽहमस्मि॥ १६॥ उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1
वायुरनिलममृतमथेदं भस्मान्तꣳ शरीरम्। ओ३म् क्रतो स्मर कृतꣳ स्मर क्रतो स्मर कृतꣳ स्मर॥ १७॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम॥ १८॥
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥ ओ३म् शान्तिः शान्तिः शान्तिः॥ ००॥
॥ इतीशावास्योपनिषत् सम्पूर्णा ॥
पाठान्तरविषयकटिप्पण्यः
- ‘भूतान्यात्मन्नेवानुपश्यति’ इति क्वचित् पाठः ↩