माण्डूकोपनिषत्

माण्डूकोपनिषत्
उपोद्घातः
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥ ॐ शान्तिः शान्तिः शान्तिः॥
प्रथमः खण्डः
ओमित्येदक्षरमिदं सर्वम्। तस्योपव्याख्यानं भूतं भवद् भविष्यदिति॥ १/१॥ सर्वमोङ्कार एव। यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव। सर्वं ह्येतद् ब्रह्म। अयमात्मा ब्रह्म॥ १/२॥ उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1
सोऽयमात्मा चतुष्पात्। उद्धृतम्–2उद्धृतम्–2उद्धृतम्–2उद्धृतम्–2उद्धृतम्–2 जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः॥ १/३॥ उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1
स्वप्नस्थानोऽन्तप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः॥१/४॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम्। सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः॥१/५॥
एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्यामी। उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1 एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्॥ १/६॥
अत्रैते श्लोका भवन्ति- बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः। घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः॥ १/७॥
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः। आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः॥१/८॥
विश्वो हि स्थूलभुक् नित्यं तैजसः प्रविविक्तभुक्। आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत॥ १/९॥
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम्। आनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ॥१/१०॥
त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः। वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते॥ १/११॥
प्रभवः सर्वभावानां सतामिति विनिश्चयः। सर्वं जनयति प्राणश्चेतोऽंशून् पुरुषः पृथक्॥ १/१२॥
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः। स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता॥१/१३॥
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः। उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1 कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः॥ १/१४॥
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे। देवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहेति॥ १/१५॥ उद्धृतम्–7उद्धृतम्–7उद्धृतम्–7उद्धृतम्–7उद्धृतम्–7
॥ इति प्रथमः खण्डः॥
Loading…