उपोद्घातः
ॐ स॒ह ना॑ववतु।
स॒ह नौ॑ भुनक्तु।
स॒ह वी॒र्यं॑ करवावहै।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ॐ॥ नमो भगवते तस्मै सर्वतः परमाय ते। सर्वप्राणिहृदिस्थाय वामनाय नमो नमः॥
“अग्नौ विष्णुं सदा ध्यायंस्त्रिशोऽग्निं नाचिकेतकम्। यश्चयीत स तु प्राप्य स्वर्गं तत्र भयातिगः। उष्य मन्वन्तरं कालममृतत्वं भजेत् क्रमात्॥”
इति ब्रह्मसारे।
प्रथमोऽध्यायः
प्रथमाध्यायस्य प्रथमा वल्ली
ॐ॥ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ।
तस्य ह नचिकेता नाम पुत्र आस॥ १/१/१॥
तꣳ ह कुमारꣳ सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश।
सोऽमन्यत॥ १/१/२॥
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः। अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत्॥१/१/३॥
स होवाच पितरं तत कस्मै मां दास्यसीति।
द्वितीयं तृतीयम्।
तꣳ होवाच मृत्यवे त्वा ददानीति॥ १/१/४॥
बहूनामेमि प्रथमो बहूनामेमि मध्यमः। किꣳस्विद् यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति॥१/१/५॥
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे। सस्यमिव मर्त्यः पच्यते सस्यमिव जायते पुनः॥१/१/६॥
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्। तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम्॥१/१/७॥
आशाप्रतीक्षे सङ्गतꣳ सूनृतां चेष्टापूर्ते पुत्रपशूꣳश्च सर्वान्। एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे॥१/१/८॥
तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः। नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व॥ १/१/९॥
“इच्छन् वाजश्रवोनप्ता ददौ सर्वस्वदक्षिणाम्। उद्दालकः स्वर्गलोकं ददौ गाश्च निरिन्द्रियाः। मां दत्वाऽपि न ते गावो दातव्या ईदृशा इति। उवाच पुत्रस्तं बालस्तं शशाप पिता स्वयम्। स जगाम यमं बालो ब्रह्मचारी यमस्य तु। पत्न्या सम्पूज्यमानोऽपि जग्राहार्घ्यादिकं नतु। आगते तु यमे प्राह यमं सोदकमाहर। इत्युक्तः स यमस्तं तु सम्पूज्यादाद् वरत्रयम्। सौमनस्यं पितुश्चैव नाचिकेताग्निगं हरिम्। मुक्ते स्थितं च तं विष्णुमिति प्रादाद् वरत्रयम्॥”
इति गतिसारे।
शान्तसङ्कल्पः सुमना यथा स्याद् वीतमन्युर्गौतमो माऽभि मृत्यो। त्वत्प्रसृष्टं माऽभि वदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे॥ १/१/१०॥
यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः। सुखं रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तम्॥१/१/११॥
स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके॥ १/१/१२॥
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्। स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण॥ १/१/१३॥
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्। अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम्॥ १/१/१४॥
लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्या यथा वा। स चापि तत् प्रत्यवदद् यथोक्तमथास्य मृत्युः पुनराह तुष्टः॥१/१/१५॥
“अग्र्यत्वादग्निनामाऽसौ नाचिकेताग्निगो हरिः। लोको विष्णोरनन्तस्य तज्ज्ञानान्नित्य आप्यते। प्रतिष्ठा सर्वलोकस्य स विष्णुः सर्वहृद्गतः। स एव सर्वलोकादिस्तं ज्ञात्वा मुच्यते ध्रुवम्॥”
इति च।
या इष्टकाः
या इष्टकादेवताः।
“इष्टकादेवतां विष्णुं षष्ठ्युत्तरशतत्रिकम्। यथावदेव विज्ञाय मुच्यते कर्मबन्धनात्॥”
इति।
तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः। तवैव नाम्ना भविताऽयमग्निः शृङ्कां चेमामनेकरूपां गृहाण॥ १/१/१६॥
त्रिनाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू। ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमाꣳ शान्तिमत्यन्तमेति॥ १/१/१७॥
त्रिभिरेत्य सन्धिं
वेदैरविरुद्धः।
वेदोक्तप्रकारेण भगवत्तत्वादिकं जानन्नित्यर्थः।
त्रिकर्मकृत्
यज्ञदानतपःकर्ता।
त्रिनाचिकेतस्त्रयमेतद् विदित्वा य एवं विद्वाꣳश्चिनुते नाचिकेतम्। स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके॥१/१/१८॥
त्रयमेतत्
“या इष्टकाः” इत्यादि।
“ब्रह्मेति वेद उद्दिष्टस्तस्माद् व्यक्तो यतो हरिः। ब्रह्मजस्तेन कथितः स एव ज्ञोऽखिलज्ञतः॥”
इति नामनिरुक्ते।
अनेकरूपां
सुवर्णमयीम्।
“बहुरूपं च पुरटं कार्तस्वरमितीर्यते”
इत्यभिधानात्।
“यमोऽनुवादसन्तुष्टो वह्नेस्तन्नामतामपि। शृङ्कां स्वर्णमयीं चैव कण्ठमालामदाद् विभुः॥”
इति पाद्मे।
लोकादिः प्रतिष्ठा ब्रह्मजज्ञोऽनन्तलोकाप्तिरित्यादिविशेषणैश्च भगवानेव।
“स्तोममहदुरुगायं प्रतिष्ठाम्”
इति परामर्शाच्च।
भगवतो ह्युरुगायनाम प्रसिद्धम्।
गुहानिहितत्वं च तस्यैव विशेषतः प्रसिद्धम्।
नचाग्निपरिज्ञानमात्रेणानन्तलोकाप्तिर्भगवज्ज्ञानं विना।
“तद् वा एतदक्षरं गार्ग्यविदित्वाऽस्मिल्ँलोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद् भवति”बृहदारण्यकोपनिषत् ५/८/११
इत्यादिश्रुतेः।
नच मुख्ये
सत्यमुख्यार्थो
युज्यते।
एष तेऽग्निर्नाचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण। एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व॥ १/१/१९॥
येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके। एतद् विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः॥ १/१/२०॥
प्रेते
मुक्ते मनुष्ये नियामकत्वेन भगवान्
अस्तीति
ज्ञानिनो वदन्ति।
नास्तीति
अज्ञाः।
तस्य नियामकस्य
स्वरूपं
यथावत्
अहं विद्याम्।
“अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः। देहाद् विमुच्यमानस्य किमत्र परिशिष्यते, एतद् वै तत्”
इति परिहाराच्च मुक्ते स्थितो भगवान् पृच्छ्यते इति सिद्धम्।
देहाद् विशेषेण मोचनं नाम मुक्तिरेव।
मुक्तेरपि मरणात्मकत्वान्मरणमित्यपि भवति।
स्थूलदेहपरित्यागस्तु
विस्रंसमानस्य
इत्यनेनैवोक्तो भवति।
“अग्निस्थं परमात्मानं सामान्याज्जानतोऽपितु। अजानतस्तु मुक्तौ च जीवान्तःस्थितमीश्वरम्। नियामकं च जीवानां मुक्तानामपि सर्वदा। गुणान् सर्वोत्तमत्वादीनविज्ञाय हरेस्तथा। नैव मुक्तिर्भवेत् तस्मात् कृच्छ्रात् तदवदद् यमः। तस्य गोप्यत्वविज्ञप्त्यै तथाऽप्यग्निस्थवेदनात्। सुखाधिक्यं भवेन्मुक्तौ तस्मात् तत् पृथगीरितम्॥”
इति तत्त्वसारे।
“स्थाणुमन्येऽनुसँयन्ति यथाकर्म यथाश्रुतम्”
इत्युक्त्वा
“य
एषु
सुप्तेषु जागर्ति कामङ्कामं पुुरुषो निर्ममाणः”
इति वचनाच्च जीवेषु स्थितो भगवान् पृच्छ्यत इति सिद्धम्।
मृतजीवे स्थितो मुक्तजीवे स्थितश्चोभयात्मको भगवान् विवक्षित इत्येतस्माच्चाविरोधः।
“गुह्यं तत् परमं ब्रह्म शीर्यमाणं शरीरिणम्। सम्प्राप्तमपि जीवेषु जागर्ति स्वपितेष्वपि॥”
इति ब्रह्माण्डे।
देवैरत्रापि विचिकित्सितं पुरा नहि सुज्ञेयोऽणुरेष धर्मः। अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैवम्॥ १/१/२१॥
धारकत्वात्
धर्मो
भगवान्।
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ। वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्॥ १/१/२२॥
शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान्। भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि॥ १/१/२३॥
एतत् तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च। महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि॥ १/१/२४॥
येये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश्छन्दतः प्रार्थयस्व। इमा रामाः सरथाः सतूर्या नहीदृशा लम्भनीया मनुष्यैः॥ आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनु प्राक्षीः॥ १/१/२५॥
मरणे
स्थितं भगवन्तं
माऽनु प्राक्षीः।
श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः। अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्तगीतम्॥ १/१/२६॥
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत् त्वाम्। जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव॥ १/१/२७॥
अजीर्यताममृतानामुपेत्य जीर्यन् मर्त्यः क्वाधस्थः प्रजानन्। अभिध्यायन् वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत॥ १/१/२८॥
यस्मिन्निदं विचिकित्सन्ति मृत्यो साम्पराये महति ब्रूहि नस्तत्। योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते॥ १/१/२९॥
महति साम्पराये
मुक्तौ।
इति प्रथमाध्यायस्य प्रथमा वल्ली॥
प्रथमाध्यायस्य द्वितीया वल्ली
अन्यच्छ्रेयोऽन्यदुतेव प्रेयस्ते उभे नानार्थे पुरुषꣳ सिनीतः। तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद् य उ प्रेयो वृणीते॥१/२/१॥
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः। श्रेयो धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमान् वृणीते॥१/२/२॥
स त्वं प्रियान् प्रियरूपाꣳश्च कामान्नभिध्यायन् नचिकेतोऽत्यस्राक्षीः। नैतां शृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः॥१/२/३॥
शृङ्कां
शृङ्खलाम्।
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता। विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्तः॥१/२/४॥
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितम्मन्यमानाः। दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः॥१/२/५॥
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्। अयं लोको नास्ति पर इति मानी पुनःपुनर्वशमापद्यते मे॥ १/२/६॥
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः। आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः॥१/२/७॥
न नरेणावरः प्रोक्त एष सुज्ञेयो बहुधा चिन्त्यमानः। अनन्यप्रोक्ते गतिरस्य नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात्॥१/२/८॥
नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ। यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा॥१/२/९॥
अन्यो भगवानन्योऽहमित्यजानन्ननन्यः।
तेन प्रोक्ते
गतिः
ज्ञानं नास्ति।
“प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ”
इति वाक्यशेषात्।
“जीवानां चैव विष्णोश्च यो न वेत्ति भिदां पुमान्। तदनुव्रताश्च ये केचित् तेषां ज्ञानं न जायते॥”
इति ब्रह्मवैवर्ते।
जानाम्यहꣳ शेवधिरित्यनित्यं नह्यध्रुवैः प्राप्यते हि ध्रुवं तत्। ततो मया नचिकेतश्चितोऽग्निरनित्यद्रव्यैः प्राप्तवानस्मि नित्यम्॥ १/२/१०॥
आख्यं विष्ण्वाख्यं नित्यं
शेवधिरिति जानामि।
नित्यमाख्यविष्णुविषयैर्द्रव्यैर्मनआदिभिः,
आख्यनित्यविषयैर्विष्ण्वाख्यनित्यविषयैर्द्रव्यैर्नित्यं भगवन्तं प्राप्तवानस्मि।
ध्रुवो भगवान्।
अध्रुवैः
तद्भक्तिवर्जितैः
न प्राप्यते।
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम्। स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः॥१/२/११॥
क्रतोरानन्त्यहेतुम्, स्तोमैरपि सर्वात्मना प्राप्तुमशक्यम्, स्तोमेभ्योऽपि महान्तम्, उरुगायमित्युक्तत्वाच्च न जीवविषयोऽयं प्रश्नः।
“शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते”🔗आथर्वणोपनिषत् २/२/५
“शरवत् तन्मयो भवेत्”🔗आथर्वणोपनिषत् २/२/५
“अभयं तितीर्षतां पारम्”🔗काठकोपनिषत् १/३/२
“तादृगेव भवति”🔗काठकोपनिषत् २/१/१५
इत्यादौ सर्वत्र भेदस्यैवोक्तेश्च न जीवाभेदः।
“नाचिकेतं शकेमासि”
इत्युक्तत्वाच्च नाचिकेताग्निस्थो
भगवानेवोच्यत
इति सिद्धम्।
उरुगायं दृष्ट्वा कामस्याप्तिमत्यस्राक्षीः।
नच मृत्वा यमं प्राप्तस्य नचिकेतसो मृतोऽस्ति
न वेति संशयो युज्यते।
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति॥ १/२/१२॥
गह्वरे मुक्तजीवे स्थितम्।
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य। स मोदते मोदनीयꣳ हि लब्ध्वा विवृतꣳ सद्म नचिकेतसं मन्ये॥१/२/१३॥
प्रवृह्य
जीवात् पृथक्कृत्य।
“मुक्तजीवे स्थितं विष्णुं विदित्वा जीवतः पृथक्। मोदते मोदनीयं तं प्राप्य मुक्तः सदैव च॥”
इति महावाराहे।
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत् तत् पश्यसि तद् वद॥ १/२/१४॥
सर्वे वेदा यत्पदमामनन्ति तपाꣳसि सर्वाणि च यद् वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदꣳ सङ्ग्रहेण ब्रवीम्योमित्येतत्॥१/२/१५॥
एतद्ध्येवाक्षरं ब्रह्मैतद्ध्येवाक्षरं परम्। एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्॥१/२/१६॥
एतदालम्बनꣳ श्रेष्ठमेतदालम्बनं परम्। एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते॥ १/२/१७॥
“एतद्ध्येवाक्षरं ब्रह्म विष्ण्वाख्यं परमव्ययम्। सर्वस्यालम्बनं ज्ञात्वा मुच्यते नात्र संशयः॥”
इति च।
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमानेऽपि देहे॥ १/२/१८॥
“देहोत्पत्तिविनाशाख्यौ ज्ञानिनोऽप्युद्भवाभवौ। न कुतश्चिद् यतो विष्णुर्जायतेऽतस्तदीक्षणात्। भावाभावौ न विदुषो यस्माज्जीवो न कश्चन। जायते म्रियते वाऽपि स्वरूपेण कथञ्चन। अजो नित्योऽविकारश्च जीव पुरमणन्नपि॥”
इति च।
अयं
भगवान् कुतोऽपि
न बभूव
यस्मात्, अतस्तद्वेत्ताऽपि
विपश्चिन्न जायते न म्रियते च।
यतः कश्चिज्जीवः स्वतो
न बभूव।
देहसम्बन्धाद्धि जायते।
विपश्चितस्तु देहसम्बन्धाभावात्
न जायते न म्रियते च।
हन्ता चेन्मन्यते हन्तुꣳ हतश्चेन्मन्यते हतम्। उभौ तै न विजानीतो नायꣳ हन्ति न हन्यते॥ १/२/१९॥
जीवस्यापि स्वतो मरणाभावात्
उभौ तौ न विजानीतः।
अणोरणीयान् महतो महीयानात्माऽस्य जन्तोर्निहितो गुहायाम्। तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः॥१/२/२०॥
एवं नित्यस्य
जन्तोर्गुहायां निहितः।
ए विष्णौ
क्रतुर्यस्य सः
अक्रतुः।
तन्निश्चयः।
आत्मनः
सकाशात्
महिमानं
महामानम्।
“जीवाद् गुणपरिमाणं यस्माद् विष्णोर्महत्तरम्। तस्माज्जीवात् स महिमा विष्णुरित्युच्यते श्रुतौ॥”
इति च।
आसीनो दूरं व्रजति शयानो याति सर्वतः। कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति॥१/२/२१॥
ऐश्वर्यादेव
आसीनो दूरं व्रजति
इत्यादि।
“आसीनो दूरं व्रजति शयानो याति सर्वतः। ऐश्वर्याद् भगवान् विष्णुर्विरुद्धं घटयत्यसौ॥”
इति च।
अशरीरꣳ शरीरेष्वनवस्थेष्वस्थितम्। महान्तं विभुमात्मानं मत्वा धीरो न शोचति॥१/२/२२॥
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूꣳ स्वाम्॥ १/२/२३॥
नाविरतो दुश्चरितात् नाशान्तो नासमाहितः। नाशान्तमनसो वाऽपि प्रज्ञानेनैवमाप्नुयात्॥ १/२/२४॥
यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः॥ १/२/२५॥
॥ इति प्रथमाध्यायस्य द्वितीया वल्ली॥
प्रथमाध्यायस्य तृतीया वल्ली
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धे। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः॥१/३/१॥
यः सेतुरीजानानामक्षरं ब्रह्म यत् परम्। अभयं तितीर्षतां पारं नाचिकेतं शकेमसि ॥१/३/२॥
आत्मानꣳ रथिनं विद्धि शरीरꣳ रथमेव च। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च॥ १/३/३॥
इन्द्रियाणि हयानाहुर्विषयाꣳस्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः॥ १/३/४॥
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा। तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः॥ १/३/५॥
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा। तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः॥ १/३/६॥
यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः। न स तत् पदमाप्नोति सꣳसारं चाधिगच्छति॥१/३/७॥
यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः। स तु तत् पदमाप्नोति यस्माद् भूयो न जायते॥ १/३/८॥
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान् नरः। सोऽध्वनः पारमाप्नोति तद् विष्णोः परमं पदम्॥१/३/९॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः॥१/३/१०॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परः किञ्चित् सा काष्ठा सा परा गतिः॥ १/३/११॥
एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः॥१/३/१२॥
यच्छेद् वाङ् मनसी प्राज्ञस्तद् यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि॥१/३/१३॥
“आत्माऽन्तरात्मेति विभुरेक एव द्विधा स्थितः। स विष्णुः परमे वायौ परेभ्योऽप्यृद्धरूपके। शुभान् पिबति भोगान् स च्छायेव विदुषां प्रभुः। आतपः पापिनां नित्यं मर्यादा विष्णुयाजिनाम्। संसारस्य च पारस्थः स विष्णुर्द्विस्वरूपकः॥ *॥
देवेभ्य इन्द्रियात्मभ्यो ज्यायांसोऽर्थाभिमानिनः। सोमवित्तपसूर्याप्पा अश्व्यग्नीन्द्रेन्द्रसूनवः। यमो दक्षश्चेन्द्रियेशाः सुपर्णी वारुणी तथा। उमेति चार्थमानिन्यस्तिस्रो द्विद्व्येकदेवताः। मनोभिमानिनो रुद्रवीन्द्रशेषास्त्रयोऽपितु। ते श्रेष्ठा अर्थमानिभ्यस्तेभ्यो बुद्धिः सरस्वती। तस्या ब्रह्मा महानात्मा ततोऽव्यक्ताभिधा रमा। तस्यास्तु पुरुषो विष्णुः पूर्णत्वान्नैव तत्समः। कश्चित् कुतश्चिच्छ्रेष्ठस्तु नास्तीति किमु सा कथा॥ *॥
तस्माद् वागात्मिका देवीरुमाद्यास्तु शिवादिषु। शिवादीन् ब्रह्मवाय्वोस्तु नियच्छेन्महदात्मनोः। तौ रमायां परानन्दे तां विष्णौ परमात्मनि। तद्वशत्वेन तद्ध्यानं नियमो नाम नापरः। कुतस्तु मानुषो देवान् नियच्छेद् विनियामकान्॥”
इति च।
उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत। क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत् कवयो वदन्ति॥१/३/१४॥
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते॥ १/३/१५॥
स्वभार्यायाः परत्वं सिद्धमिति
महतः परम्
इत्येवोक्तम्।
नाचिकेतमुपाख्यानं मृत्युप्रोक्तꣳ सनातनम्।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते॥१/३/१६॥
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसꣳसदि।
प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति॥ १/३/१७॥
॥ इति प्रथमाध्यायस्य तृतीया वल्ली॥ ॥ इति प्रथमोऽध्यायः॥
Loading…