आथर्वणोपनिषद्भाष्यम्‌

अथर्वणोपनिषद्भाष्यम्
उपोद्घातः
ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ॐ॥ आनन्दमजरं नित्यमजमक्षयमच्युतम्। अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम्॥ *॥
प्रथममुण्डके प्रथमः खण्डः
ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता। स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह॥ १/१/१॥
“मनोर्वैवस्वतस्यादावथर्वा ब्रह्मणोऽजनि। मित्रश्च वरुणश्चाथो प्रहेतिर्हेतिरेव च। ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजः स्मृतः। सनकाद्यास्तु वाराहे ब्रह्मा विष्णोः सुतोऽग्रजः॥” इति ब्रह्माण्डे॥ *॥
अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम्। स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङ्गिरसे परावराम्॥ १/१/२॥
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ। कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति॥१/१/३॥
तस्मै स होवाच। द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति। परा चैवापरा च॥ १/१/४॥
तत्रापरा। ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरमधिगम्यते॥१/१/५॥
“ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः। ता एव परमा विद्या यदा विष्णोस्तु वाचकाः॥” इति परमसंहितायाम्।
“ऋग्भिर्हौत्रेण शंसन्ति तथौद्गात्रैः स्तुवन्ति ये। विष्णुमेव तथा तस्मै यजुर्भिरपि जुह्वति। स्तुवन्त्याथर्वणैश्चैनं सेतिहासपुराणकैः। न विष्णोः सदृशं किञ्चित् परमं चापि मन्वते। सर्वोत्तमं तं जानन्तस्ते हि भागवतोत्तमाः॥” “वेदे रामायणे चैव पुराणे भारते तथा। आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते॥”भारतम् १८/६/९३ (पाठभेदाः सन्ति) “एतदन्ते च मध्ये च ब्रह्मैवोक्त्वा विजानताम्। ऋगादि पञ्चधा संस्थं शब्दब्रह्म प्रशाम्यति॥” “यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च। स्तुवन्ति सत्यकर्माणं सत्यं सत्येषु सामसु॥”भारतम् १२/४७/१६ “सर्वे वेदा यत् पदमामनन्ति तपांसि सर्वाणि च यद् वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये॥”🔗काठकोपनिषत् १/२/१५ “वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेदविदेव चाहम्”🔗भगवद्गीता १५/१५ इत्यादि च भारते।
“चतुर्दश महाविद्यास्थानानि वेदितव्यानि भवन्ति” इति च मूलश्रुतिः।
“पञ्चरात्रमृगाद्याश्च सर्वमेकं पुराऽभवत्। मूलवेद इति ह्याख्या काले कृतयुगे तदा। नैवर्क्सामादिनामानि तदा वेदस्य चाभवन्। नैव चेन्द्रादिनामानि विष्णोरन्यत्र कुत्रचित्। ब्रह्मरुद्रेन्द्रपूर्वैस्तु नामभिः प्रोच्यते हरिः। देवतात्वेन चेज्यः स ब्रह्माद्या मनुनामकाः। वक्तृत्वेन पितृत्वेन कारित्वेनैव चादरात्। इज्यन्ते देवताः सर्वा नतु देवतया क्वचित्। अनन्ययाजिनस्ते तु तस्मात् कार्तयुगा जनाः। प्राप्नुवन्ति हरिं तं च तस्माद् वेदे न किञ्चन। पारावर्यं हरेर्यस्मादुत्थितास्तुरगाननात्। ऋगाद्या अनुव्याख्यान्तास्तस्मात् सर्वैर्हरिं यजेत्। तस्माद् ब्रह्मादयः सर्वे मनवो मानवास्तथा। यजन्ति सर्ववेदैस्तं जानन्ति च विनिश्चयात्। अशक्तः पञ्चरात्रेण ऋगाद्यैर्वाऽथ तं यजेत्। ऋगाद्यैरेव स त्रैतैर्भिन्नैरिष्टो जनैर्हरिः। द्वापरीयैर्जनैर्विष्णुः पञ्चरात्रैस्तु केवलैः। कलौ तु नाममात्रेण पूज्यते भगवान् हरिः॥” “एको वेदः कृते ह्यासीत् त्रेतायां स त्रिधाऽभवत्। स एव पञ्चधा जातो द्वापरं प्राप्यं वै युगम्। उत्सन्नः स कलिं प्राप्य वेदः प्रायेण सर्वशः। मुख्यो धर्मः कार्तयुगो वर्तितव्यः कलावपि। त्रेतादौ तदशक्त्या हि धर्मोऽन्यः सम्प्रकीर्तितः। कृते भागवताः सर्वे वेदाश्च पुरुषास्तथा। त्रेतायां भिन्नविषयास्ततस्त्रैविद्यतां गताः। तस्मादेकः सर्ववेदैर्ज्ञेयो विष्णुः सनातनः। पूज्यो यज्ञैः सोपचारैर्ध्येयो वन्द्यश्च सर्वदा॥” इत्यादि नारायणसंहितायाम्।
“वेदवादाश्चानुयुगं ह्रसन्तीति च नः श्रुतिः”भारतम् १२/२३१/२५ (पाठान्तराणि सन्ति) इति भारते।
“वेदैश्च पञ्चरात्रैश्च भक्त्या यज्ञैस्तथैव च। दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि॥”वाराहम् ६६/१८ इत्यादि वाराहे।
अत्रापि “तदेतत् सत्यम्- मन्त्रेषु कर्माणि कवयो यान्यपश्यन्”🔗आथर्वणोपनिषत् १/२/१ इत्यादिना कर्मविषयामपरविद्यामुक्त्वा, “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्”🔗आथर्वणोपनिषत् १/२/१३ इत्यारभ्याथर्वणानेव मन्त्रान् परविद्यात्वेनाह। चतुर्वेदसंस्कारवतामेव च विद्यायामधिकार उक्तः “तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम्”🔗आथर्वणोपनिषत् ३/२/१० इति। शिरोव्रतमित्युपलक्षणत्वेन।
“स्ववेदव्रतयुक्तस्य सर्ववेदगतास्वपि। अधिकारोऽस्ति विद्यासु नावेदव्रतिनः क्वचित्॥” इति व्यासस्मृतौ।
यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्। नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः॥ १/१/६॥
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति। यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्॥ १/१/७॥
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम्॥१/१/८॥
यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः। उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1उद्धृतम्–1 तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते॥ १/१/९॥
एतद् ब्रह्म चतुर्मुखः॥
॥ इति प्रथममुण्डके प्रथमः खण्डः॥
Loading…