उपोद्घातः
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥
ॐ शान्तिः शान्तिः शान्तिः॥
ॐ॥ पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम्। चतुर्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम्॥ *॥
मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते।
“ध्यायन् नारायणं देवं प्रणवेन समाहितः। मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम्॥”
इति पाद्मे।
प्रथमः खण्डः
ओमित्येदक्षरमिदं सर्वम्।
तस्योपव्याख्यानं भूतं भवद् भविष्यदिति॥ १/१॥
सर्वमोङ्कार एव।
यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव।
सर्वं ह्येतद् ब्रह्म।
अयमात्मा ब्रह्म॥ १/२॥
“ओमित्युक्तं तु यद् ब्रह्म तदक्षरमुदाहृतम्। ओतमत्र जगद् यस्मादों तस्माद् भगवान् हरिः। तदिदं गुणपूर्त्यैव सर्वमित्येव शब्दितम्। भाविभूतभवत्कालेष्वेकरूपतया हरिः। सर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्तिता॥”
इति बृहत्संहितायाम्॥*॥
“ओमित्याक्रियते यस्मादोङ्कारोऽसावतः परः। सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित्॥”
इति नैर्गुण्ये।
सर्वमोङ्कार एव
इत्यन्यस्य पूर्णत्वनिवारणम्।
त्रिकालातीतत्वं च तस्यैव।
प्रकृतेरपि त्रिकालातीतत्वं विद्यत इति
अन्यत्
इति विशेषणम्।
“परमं यो महद् ब्रह्म”भारतम् १३/१४९/९
“तदेव ब्रह्म परमं कवीनाम्”महानारायणोपनिषत् १/६
“पूर्णमदः पूर्णमिदम्”बृहदारण्यकोपनिषत् ५/१/१
इत्यादिषु प्रसिद्धं च ब्रह्मणः
पूर्णत्वमित्याह-
सर्वं ह्येतद् ब्रह्मेति॥
श्रीब्रह्मादिसकलदेहेषु स्थित्वाऽऽदानादिकर्ता योऽयं कश्चित् प्रतीयते, जीवानामस्वातन्त्र्यदर्शनात्, सोऽपि स एवेति दर्शयति-
अयमात्मा ब्रह्मेति॥
“पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन। विना च प्रकृतिं नान्यत् कालातीतं परात्मनः। कालश्चैव दिशो वेदाः प्रकृत्यात्मान ईरिताः। अभिमानात् तु जीवानां न कालातीतता भवेत्। मुक्तानामपि पूर्वत्र कालसम्बन्ध ईरितः। पूर्णत्वं च सदा विष्णोः प्रसिद्धं सर्ववेदतः। सोऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा। आदानादनकर्तृत्वादात्मा तेषामगोचरः। इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम्॥”
इति हरिवंशेषु॥*॥
सोऽयमात्मा चतुष्पात्।
जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः॥ १/३॥
“चतुर्धाऽवस्थितो देहे परमात्मा सनातनः। वैश्वानरो जागरितस्थानगो गजवक्त्रकः। निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः। अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः। मध्यमं तु गजाकारं चतुर्बाहुः परः पुमान्। पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः। स्थूलान् भोगानिन्द्रियैः स शुभान् भुङ्क्ते नचाशुभान्। विश्वं स्थूलं समुद्दिष्टं सर्वगम्यत्वहेतुतः। तत्सम्बन्धी नरोऽनाशाद् वैश्वानर उदाहृतः। विनायकस्तु विश्वस्य ध्यानादैद् गजवक्त्रताम्। तथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम्। चतुर्ध्यानाच्च रुद्रत्वं रुद्र आप जनार्दनात्। एवम्भूतगुणो विष्णुश्चतुरात्मा परात् परः॥”
इति महायोगे॥*॥
स्वप्नस्थानोऽन्तप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः॥१/४॥
“जाग्रद्दर्शनसंस्काररूपत्वात् स्वप्नगं तु यत्। प्रविविक्तं तु तज्ज्ञानकारणोऽन्तर्ज्ञ उच्यते॥”
इति वाराहे॥*॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम्।
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः॥१/५॥
“सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः। न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना। कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम्। चित्तस्थो दर्शयेत् तस्मात् तैजसः स्वप्नकृद्धरिः। न बाह्यं ज्ञापयेद् यस्माद् प्राज्ञस्तेन जनार्दनः। एकीभावं व्रजेतां च तेन विश्वश्च तैजसः। एकीभूतस्तदा प्राज्ञो घनो जीवस्तमोवृतः। तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात्॥”
इति प्रकाशिकायाम्।
आनन्दमयः
पूर्णानन्दः।
चेतोमुखः
ज्ञानस्वरूपमुखः।
प्रज्ञानघनः
इति विपरीतसमासः।
“घनप्रज्ञः”
इति वक्ष्यमाणत्वात्।
विषयभोगं विनाऽऽनन्दमात्रभुक्त्वात्
आनन्दभुक्
इति विशेषः।
आनन्दमयचेतोमुखसर्वज्ञत्वसर्वेश्वरत्वादि
चतुष्टयेऽपि समम्।
अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं चेतोमुखत्वं चोक्तम्॥*॥
एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्यामी। एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्॥ १/६॥
एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिलक्षणः।
“परमात्मा चतूरूपः सर्वप्राणिशरीरगः। विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते। तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु। चेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः। मुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षणः। तथाऽपि मुखशब्दोऽयं पूर्णत्वं सूचयेद् विभोः। ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः॥”
इति मार्कण्डेये।
“पूर्णानन्दस्वरूपस्य क्रीडा भोगो नचान्यथा। यथाऽऽदित्यस्य दीपेन न विशेषोऽस्ति कश्चन॥”
इति ब्रह्मतर्के॥*॥
अत्रैते श्लोका भवन्ति- बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः। घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः॥ १/७॥
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः। आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः॥१/८॥
विश्वो हि स्थूलभुक् नित्यं तैजसः प्रविविक्तभुक्। आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत॥ १/९॥
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम्। आनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ॥१/१०॥
त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः। वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते॥ १/११॥
प्रभवः सर्वभावानां सतामिति विनिश्चयः। सर्वं जनयति प्राणश्चेतोऽंशून् पुरुषः पृथक्॥ १/१२॥
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः। स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता॥१/१३॥
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः। कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः॥ १/१४॥
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे। देवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहेति॥ १/१५॥
“प्रमाणस्य प्रमाणं च बलवद् विद्यते मुने। ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः। अत्र श्लोका भवन्तीति चकारैव पृथक्पृथक्॥”
इति गारुडे।
खण्डचतुष्टयेऽपि पृथक्पृथक्।
“प्रभवः सर्वभावानां विष्णुरेव न संशयः। इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत्॥*॥ सर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः। तां सृष्टिं बहुधा प्राहुर्ज्ञानिनोऽज्ञानिनस्तथा॥*॥ विष्णुर्विकृतिमायाति महदादिस्वरूपिणीम्। तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः। स्वप्नमायासरूपां च केचिदज्ञा जना विदुः॥*॥ अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत्। उत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः। पूर्णशक्तेः कुतो माया सार्वज्ञात् स्वप्नवत् कुतः। सर्वदोषव्यतीतस्य विकारः कुत इष्यते। तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम्। यथार्थमेव सम्भूतमिति वेदवचोऽखिलम्। केचित् कालत एवैतां सृष्टिमाहुरकोविदाः। केचिद् रुद्राद् ब्रह्मणश्च प्रधानादिति चापरे। विमूढाः सर्व एवैते यतो नारायणः परः। सर्वकर्ता सर्वशक्तिरेक एव च नापरः। प्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः॥*॥ तस्यापि विष्णोः सृष्टिं तु केचिदाहुरनैपुणाः। अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः। सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्त्या स्पृहा विभोः॥”
इति हरिवंशेषु॥*॥
॥ इति प्रथमः खण्डः॥
Loading…