प्रथमोऽध्यायः
वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम्। इन्दिरापतिमाद्यादिवरदेशवरप्रदम्॥ १ ॥
नमामि निखिलाधीशकिरीटाघृष्टपीठवत्। हृत्तमःशमनेऽर्काभं श्रीपतेः पादपङ्कजम्॥ २ ॥
जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः। स्वर्णमञ्जीरसंवीतमारूढं जगदम्बया॥ ३ ॥
उदरं चिन्त्यमीशस्य तनुत्वेऽप्यखिलम्भरम्। वलित्रयाङ्कितं नित्यमुपगूढं श्रियैकया॥ ४ ॥
स्मरणीयमुरो विष्णोरिन्दिरावासमीशितुः। अनन्तमन्तवदिव भुजयोरन्तरं गतम्॥ ५ ॥
शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः। पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोऽनिशम्॥ ६ ॥
सन्ततं चिन्तयेत् कण्ठं भास्वत्कौस्तुभभासकम्। वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः॥ ७ ॥
स्मरेत यामिनीनाथसहस्रामितकान्तिमत्। भवतापापनोदीड्यं श्रीपतेर्मुखपङ्कजम्॥ ८ ॥
पूर्णानन्यसुखोद्भासि मन्दस्मितमधीशितुः। गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम्॥ ९ ॥
स्मरामि भवसन्तापहानिदामृतसागरम्। पूर्णानन्दस्य रामस्य सानुरागावलोकनम्॥ १० ॥
ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम्। भ्रूभङ्गं पारमेष्ठ्यादिपददायि विमुक्तिदम्॥ ११ ॥
सन्ततं चिन्तयेऽनन्तमन्तकाले विशेषतः। नैवोदापुर्गृणन्तोऽन्तं यद्गुणानामजादयः॥ १२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे प्रथमोऽध्यायः॥
Loading…