प्रथमोऽध्यायः
[नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्। ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते॥]
विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽऽगमोदितः। समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरः खवत्॥ १॥
प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु। उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः॥ २॥
सर्वगोऽत्ता नियन्ता च दृश्यत्वाद्युज्झितः सदा।| विश्वजीवान्तरत्वाद्यैर्लिङ्गैः सर्वैर्युतः स हि॥ ३॥
सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः। सूर्यादिभासकः प्राणप्रेरको दैवतैरपि॥ ४॥
ज्ञेयो न वेदैः शूद्राद्यैः कम्पकोऽन्यश्च जीवतः। पतित्वादिगुणैर्युक्तस्तदन्यत्र च वाचकैः॥ ५॥
मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः। अव्यक्तः कर्मवाक्यैश्च वाच्य एकोऽमितात्मकः॥ ६॥
अवान्तरं कारणं च प्रकृतिः शून्यमेव च। इत्याद्यन्यत्र नियतैरपि मुख्यतयोदितः। शब्दैरतोऽनन्तगुणो यच्छब्दा योगवृत्तयः॥ ७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रसङ्ग्रहभाष्ये प्रथमोऽध्यायः॥
Loading…
Leave a Reply