ब्रह्मसूत्रानुव्याख्यान-न्यायविवरणम्

मङ्गलाचरणम्
ॐ॥ चेतनाचेतनजगन्नियन्त्रेऽशेषसंविदे। नमो नारायणायाजशर्वशक्रादिवन्दित॥ *॥ कृत्वा भाष्यानुभाष्येऽहमपि वेदार्थसत्पतेः। कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृतिं स्फुटम्॥ **॥ करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम्। प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः॥ ***॥
समन्वयाध्यायः
प्रथमः पादः
ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ अभेदः। भेदः ॥
जीवव्यतिरिक्तेश्वराभावात्, तस्य च स्वप्रकाशत्वात्, न जिज्ञास्यतेति प्राप्ते ‘अथातो ब्रह्मजिज्ञासा’ इत्याह। “तद् विजिज्ञासस्व तद् ब्रह्म”🔗तैत्तिरीयोपनिषत् ३/१ इति ब्रह्मशब्देन पूर्णगुणत्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेदः। “अथ कस्मादुच्यते ब्रह्मेति। बृहन्तो ह्यस्मिन् गुणाः” इति श्रुतेः॥ १॥
ॐ जन्माद्यस्य यतः ॐ॥ जीववाचित्वम्। लक्षणभेदः॥
न जीव एवायं ब्रह्मशब्दः। “यतो वा इमानि भूतानि जायन्ते”🔗तैत्तिरीयोपनिषत् ३/१ इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वोक्तेः॥ २॥
ॐ शास्त्रयोनित्वात् ॐ॥ लक्षणसाम्यम्। शास्त्रयोनित्वम्॥
नच रुद्रादौ सममेतल्लक्षणम्। शास्त्रैकसमधिगम्यत्वात् कारणत्वस्य॥ ३॥
॥ ॐ तत्तु समन्वयात् ॐ॥ शास्त्रयोनित्वम्। समन्वयः॥
नच पाशुपतशास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारणम्। किन्तु? उपक्रमादिलक्षणः समन्वय एव॥ ४॥
ॐ ईक्षतेर्नाशब्दम् ॐ॥ अवाच्यत्वाभिप्रायः। विशिष्टानुभवः॥
नच तस्यावाच्यत्वं श्रुत्यभिप्रायः। “सर्वे वेदा यत्पदमामनन्ति”🔗काठकोपनिषत् १/२/१५ इत्यादिश्रुतिसहितानुभवस्य बलवत्त्वात्॥ ५॥
ॐ आनन्दमयोऽभ्यासात् ॐ॥ अवयवत्वम्। अभेदः॥
नचावयवत्वविरोधः। “नेह नानाऽस्ति किञ्चन”🔗काठकोपनिषत् २/१/११ इति श्रुतेरवयवाद्यभेदात् ॥ ६॥
ॐ अन्तस्तद्धर्मोपदेशात् ॐ॥ अन्याविषयत्वम्। अनन्यथासिद्धलिङ्गम्॥
नच “ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम्। चतुर्होतारं प्रदिशोऽनुकॢप्तं वाचो वीर्यं तपसाऽन्वविन्दत्॥”तैत्तिरीयारण्यकम् ३/११/२ इत्यादिशब्दानामन्यविषयत्वम्। श्रुतिसन्देेहेऽनन्यथासिद्धलिङ्गेन निर्णयोपपत्तेः॥ ७॥
ॐ आकाशस्तल्लिङ्गात् ॐ॥ अचेतनत्वम्। अनन्यथासिद्धलिङ्गम्॥ ॐ अत एव प्राणः ॐ॥जीवान्वयव्यतिरेकः। अनन्यथासिद्धलिङ्गम्॥ ॐ ज्योतिश्चरणाभिधानात् ॐ, ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथाहि दर्शनम् ॐ॥ नित्यत्वम्। श्रुतिसहितानन्यथासिद्धलिङ्गानि।
अधिभूताध्यात्माधिवेदगतानामपि शब्दानाम् अचेतनत्वजीवान्वयव्यतिरेकित्वनित्यत्वेषु विद्यमानेष्वपि भगवद्विषयत्वमेव। अनन्यथासिद्धलिङ्गैः, “तावानस्य महिमा ततो ज्यायांश्च पुरुषः”छान्दोग्योपनिषत् ३/१२/६ इत्यादिशब्दसहितलिङ्गैश्च। सन्दिग्धश्रुतिलिङ्गाभ्यामुक्ताभ्यामप्यसन्दिग्धयोः केवलयोरेव बलवत्त्वम् ॥ ८-११॥
ॐ प्राणस्तथाऽनुगमात् ॐ॥ अनन्यथासिद्धत्वम्। अनन्यथासिद्धोपपत्तिश्च॥
नचानन्यथासिद्धत्वम् अन्यत्र श्रुतिलिङ्गादेः। अन्यगतलिङ्गादीनामपि तद्गतभगवदपेक्षया युक्तेः॥ १२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य प्रथमः पादः॥
द्वितीयः पादः
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ॥ बहुलिङ्गसहितश्रुतिः। निरवकाशश्रुत्यादयः॥
ॐ॥ बहुलिङ्गसहितश्रुतेरपि सावकाशाया निरवकाशश्रुत्यादीनामेव बलवत्त्वम्। बहवो ह्यत्रादित्यशब्दाः। क्षित्यादिषूक्त्वाऽऽदित्येऽनुक्तिरित्यादिलिङ्गं च। तथाऽपि निरवकाशाः “एतमेव”ऐतरेयारण्यकम् ३/२/३ इत्यवधारणादयः॥ १॥
ॐ अत्ता चराचरग्रहणात् ॐ॥ श्रुतिलिङ्गे। निश्चितबलवत्वम्॥
सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चितलिङ्गप्रकरणयोरेव बलवत्त्वम्। सन्दिग्धश्रुतिर्लिङ्गं चादितिशब्दोऽदितित्वं च॥ २॥
ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ॥ द्विवचनश्रुतिः। द्विरूपत्वम्॥
द्विवचनश्रुतेरपि बलं निरवकाशत्वं नास्ति। विष्णोरेव द्विरूपत्वात्॥ ३॥
ॐ अन्तर उपपत्तेः ॐ॥ अभ्यासार्थवादसहितबहुश्रुतयः। निरवकाशोपपत्तिः॥
“सोऽहमस्मि स एवाहमस्मि”छान्दोग्योपनिषत् ४/३/२-४ इत्याद्यभ्यासार्थवादसहितबहुश्रुतिभ्योऽपि निरवकाशोपपत्तेरेव प्राबल्यम्॥ ४॥
ॐ अन्तर्याम्याधिदैवादिषु तद्धर्मव्यपदेशात् ॐ॥ पृथिव्यादिशरीरत्वम्। यौगिकशरीरत्वोपपत्तिः॥
पृथिव्यादिशरीरत्वं च न निरवकाशम्। यौगिकशरीरत्वोपपत्तेर्विष्णोरपि ॥ ५॥
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ॥ निरवकाशत्वम्। अक्षरान्तरत्ववचनम्॥
“अक्षरात् परतः परः”🔗आथर्वणोपनिषत् २/१/२ इति श्रुतेरपि न “अक्षरात् सम्भवति”🔗आथर्वणोपनिषत् १/१/७ इत्यस्या निरवकाशत्वम्। अक्षरात् परतः परस्याप्यक्षरान्तरत्ववचनात्॥ ६॥
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ॥ श्रुतिसाधारण्यम्। विशेषश्रुत्यादि॥
श्रुतिसाधारण्ये विशेषश्रुत्यादेर्निश्चयः। उभयत्र विशेषश्रुत्यादौ पुनः सावकाशत्वनिरवकाशत्वबलान्निश्चयः॥ ७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य द्वितीयः पादः॥
तृतीयः पादः
[विषयमाला (अनुव्याख्याने १-३-७)- लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः। पुनः शब्दा लिङ्गशब्दौ विचार्या द्विःस्थिता इह॥]
ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ॥ लिङ्गं साधारणम् (विषयः)॥
ॐ॥ “प्राणानां ग्रन्थिरसि” “रुद्रो वै लोकायतनम्” “वायुना वै गोतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि भूतानि सन्दृब्धानि भवन्ति” “सर्वे वा एते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च लोकाश्च लोकिनश्चालोकाश्चालोकिनश्च विष्णावेवोताश्च प्रोताश्च भवन्ति” इत्यादेर्द्युभ्वाद्यायतनत्वमज्ञानां साधारणं लिङ्गम्॥ १॥
ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ॥ शब्दः साधारणः (विषयः)॥
“प्राणो वा आशाया भूयान्” “विष्णुर्वै देवेभ्यो भूयांस्तस्माद् भूयान् नाम” इत्यादेर्भूमशब्दोऽज्ञानां साधारणः॥ २॥
ॐ अक्षरमम्बरान्तधृतेः ॐ॥ शब्दः साधारणः (विषयः)॥
विष्णोश्चेतनप्रकृतेश्चाविनाशित्वसाम्यादक्षरशब्दः साधारणः॥ ३॥
ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ॥ स्थानं साधारणम् (विषयः)॥
कारणत्वसाम्याद् विष्णोरचेतनप्रकृतेश्च “सदेव सोम्येदमग्र आसीत्” इत्यादिसृष्टिस्थानं साधारणम्॥ ४॥
ॐ दहर उत्तरेभ्यः ॐ॥ लिङ्गं साधारणम् (विषयः)॥
लिङ्गं हृत्पद्मस्थितत्वं साधारणम्॥ ५॥
ॐ अनुकृतेस्तस्य च ॐ॥ अनुग्रहः साधारणः (विषयः)॥
“कथं नु तद् विजानीयाम्” इत्यानुकूल्येन ग्रहणं कस्येति विचार्यम् अनुग्रहः॥ ६॥
ॐ शब्दादेव प्रमितः ॐ, ॐ कम्पनात् ॐ, ॐ ज्योतिर्दर्शनात् ॐ, ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात्॥ पुनः शब्दाः साधारणाः (विषयः)॥
पुनः शब्दाः ईशानो वज्रो ज्योतिराकाश इति॥ ७, १०, ११, १२॥
ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ॥ लिङ्गं साधारणम् (विषयः)॥
लिङ्गं स्वप्नादिदर्शनं कस्येति॥ १३॥
ॐ पत्यादिशब्देभ्यः ॐ॥ शब्दः साधारणः (विषयः)॥
शब्दो ब्राह्मण इति॥ १४॥
[न्यायमाला (अनुव्याख्याने १-३-८-९) – बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता। अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः॥ लिङ्गावकाशराहित्यभ्रमस्तादृग् द्वयं तथा। बहुतादृक्त्वमुक्तस्य विरोधोऽर्थात् तथा गतिः॥ समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः॥]
ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ॥ बाहुल्यं लिङ्गशब्दानाम्॥
“यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मन ओतं प्राणा ओताः” इत्यत्रोक्तानां लिङ्गानामन्यत्र रुद्रादिविषयत्वे शब्दबाहुल्यम्। “प्राणानां ग्रन्थिरसि रुद्रो माऽऽविशान्तकः” “प्राणेश्वरः कृत्तिवासाः पिनाकी” “मनो वै रुद्र ओतं च प्रोतं च” “रुद्रो वाव लोकाधारः” इत्यादिकं शब्दबाहुल्यम्॥ १॥
ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ॥ अनुक्तिः॥
“प्राणो वा आशाया भूयान्” इत्युक्त्वा प्राणाद् भूयसोऽनुक्तिः॥ २॥
ॐ अक्षरमम्बरान्तधृतेः ॐ॥ विरुद्धता॥
“अत्ता” इत्युक्त्वा “न तदश्नाति किञ्चन” इति विरुद्धता॥ ३॥
ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ॥ अदृष्टिः॥
“बहु स्यां प्रजायेय” इत्यन्यस्यान्यभावादृष्टिः॥ ४॥
ॐ दहर उत्तरेभ्यः ॐ॥ अन्वयाभावः॥
“दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम्” इत्यनेन “यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः” इत्यस्यान्वयाभावः॥ ५॥
ॐ अनुकृतेस्तस्य च ॐ॥ विपरीतश्रुतिभ्रमः ॥
“तदेतदिति मन्यन्ते” “कथं नु तद् विजानीयाम्” इति “तेषां सुखं शाश्वतम्” इत्युक्तज्ञानिसुखग्रहणमिति विपरीतश्रुतिभ्रमः॥ ६॥
ॐ शब्दादेव प्रमितः ॐ॥ लिङ्गावकाशराहित्यभ्रमः॥
“ऊर्ध्वं प्राणमुन्नयति” इत्यादिलिङ्गानां प्राणादन्यत्रावकाशराहित्यमिति भ्रमः। “एवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेव सन्निधत्ते” इत्यादिवाक्याद् भ्रमः॥ ७॥
ॐ कम्पनात् ॐ॥ तादृग् द्वयम्॥
वज्रशब्द उद्यतत्वलिङ्गं च तादृग् द्वयम्॥ १०॥
ॐ ज्योतिर्दर्शनात् ॐ॥ बहुतादृक्त्वम्॥
आदित्यादिज्योतिष्ट्वम्, उभयलोकसञ्चरणम्, “आदित्येनैवायं ज्योतिषाऽऽस्ते” इत्यवधारणमित्यादीनां परमात्मन्यवकाशाभावो बहुतादृक्त्वम्॥ ११॥
ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ॥ उक्तस्य विरोधः॥
“वैनाम” इति प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थस्वीकारे विरोधि॥ १२॥
ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ॥ अर्थात् तथा गतिः ॥
जीवेश्वराभेद ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इत्यर्थात् तथा गतिः॥ १३॥
ॐ पत्यादिशब्देभ्यः ॐ॥ समस्तमेतत्॥
ब्राह्मणशब्दस्य पापालेपलिङ्गस्य च चतुर्मुखेन सह परमात्मनोऽभेदं विनाऽवकाशराहित्यादर्थादभेदप्राप्तिरिति समस्तमेतत्॥ १४॥
[न्यायमाला (अनुव्याख्याने १-३-१०) – ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः। सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः॥]
ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ॥ बाहुल्यं लिङ्गशब्दानाम्॥
तेषामेव लिङ्गशब्दानां “प्राणानां ग्रन्थिरसि” इत्यादीनां विष्णौ मुख्यवृत्तिरिति बलवत्त्वम्। तस्य हि रुग्द्रावणादिकर्तृत्वं मुख्यम्॥ १॥
ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ॥ अनुक्तिश्च॥
प्राणस्य विष्णोः सकाशाद् भूयस्त्वानुक्तिः। चशब्देन “एष तु वा अतिवदति यः सत्येनातिवदति” इति प्राणाद् विष्णोर्भूयस्त्वोक्तिश्च॥ २॥
ॐ अक्षरमम्बरान्तधृतेः ॐ॥ विरुद्धता॥
सर्वाधारप्रकृत्याधारत्वं विष्णोरन्यस्य विरुद्धम्। “पतिं विश्वस्यात्मेश्वरम्” “विश्वात्मानं परायणम्” इत्यादिश्रुतेः। अनशनोक्तिस्त्वनुपजीवनार्थत्वेनैव सावकाशा॥ ३॥
ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ॥ अदृष्टिः॥
अचेतनस्येक्षणादृष्टिः। बहुभावश्रुतिस्त्वन्यभावं विना तत्तन्नियामकतया स्वरूपबहुत्वार्थत्वेनैव युज्यते॥ ४॥
ॐ दहर उत्तरेभ्यः ॐ॥ अन्वयाभावः॥
आकाशपक्ष एवान्वयाभावः। विष्णुपक्षे तु – योऽन्वेष्टव्यो भगवान्, तस्यान्तर्हृदये यावान् वाऽयमाकाशस्तावानाकाशः, तस्मिन् द्यावापृथिवी अन्तरेव समाहिते, स भगवानपहतपाप्मा – इत्यन्वयः॥ ५॥
ॐ अनुकृतेस्तस्य च ॐ॥ विपरीतश्रुतिभ्रमः ॥
यज्ज्ञानाच्छाश्वतं सुखं स भगवान्। यद् ब्रह्मानिर्देश्यं सुखमिति वदन्ति तदेतत् स्वरूपमिति मन्यन्ते। अतः पूर्ववादविपरीतैव श्रुतिः। पूर्ववादोक्तयोजना तु भ्रम एव॥ ६॥
ॐ शब्दादेव प्रमितः ॐ॥ लिङ्गावकाशराहित्यभ्रमः॥
लिङ्गानां परमात्मन्यवकाशो विद्यत एवेति तद्राहित्यं भ्रम एव। वामनश्रुतेरेवानवकाश इतीशानशब्दोक्तो विष्णुरेव॥ ७॥
ॐ कम्पनात् ॐ॥ तादृग् द्वयम्॥
वज्रशब्दस्योद्यतत्वस्य च विष्णावेवावकाशः। उद्यमित्वमेवोद्यतत्वमिति॥ १०॥
ॐ ज्योतिर्दर्शनात् ॐ॥ बहुतादृक्त्वम्॥
“अयं पुरुषः” इति संसारी। आत्मशब्दोदित एव विष्णुः। अत आदित्यादिज्योतिष्ट्वं संसारिण एव। “आदित्येनैव” इत्यवधारणं बाह्यज्योतिष्षु प्राधान्यापेक्षयेत्यादि। लोकसञ्चरणं तु जीवमादाय तस्यैवादुःखेन स्वातन्त्र्यात्॥ ११॥
ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ॥ उक्तस्य विरोधः॥
“वैनाम” इति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यम्, प्रसिद्धाकाशस्योक्तमनामरूपत्वं विरुद्धम्॥ १२॥
ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ॥ अर्थात् तथा गतिः ॥
सुषुप्त्युत्क्रान्त्योर्जीवेश्वरयोर्भेदोक्तेरसङ्गत्वादि चेश्वरस्यैवेत्यर्थाद् भेद एव भवति। जीवस्य तदयुक्तेः, ईशे सावकाशत्वाच्च॥ १३॥
ॐ पत्यादिशब्देभ्यः ॐ॥ समस्तमेतत्॥
ब्रह्मणा वेदेन गम्यत इति ब्राह्मणशब्दो विष्णावेव युज्यत इत्यर्थादजशब्दोऽपि तस्मिन्नेव। चतुर्मुखस्य कर्मफलाभावायुक्तेस्तयोर्भेदोऽर्थादापद्यते। उक्तविरोधश्च तत्रैव। भेदश्रुतिबाहुल्यात्। तल्लिङ्गं स शब्दश्च चतुर्मुखेऽनवकाश इति समस्तमेतत्॥ १४॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य तृतीयः पादः॥
चतुर्थः पादः
[न्यायमाला (अनुव्याख्याने १-४-२३-२५)- सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता। परस्परविरोधश्च विरोधः कार्यतद्वतोः॥ स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु युक्तयः। दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा। बहुरूपत्वमीशस्य व्यक्त्यव्यक्तिविशेषिता॥ उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा। इत्यादियुक्तयः साक्षात् सिद्धान्तस्थापका इह॥]
ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ॥ सर्वमानैर्विरोधः। दोषात्यस्पृष्टिनियमः॥
ॐ॥ अवरत्वादिधर्मनियन्तृत्वं तत्तादात्म्यवत्त्वं चेति द्विविधं ह्यवरत्वादि। “निरनिष्टो निरवद्यः” इत्यादिश्रुतेस्तत्तद्दोषतादात्म्यात्यस्पृष्टिनियमाद् विष्णोः “नामानि सर्वाणि यमाविशन्ति” इति श्रुतिबलाच्च नियन्तृत्वमवरत्वादिकमित्यापतति। श्रुतिद्वयस्यापि निरवकाशत्वात्। मृत्युशब्दादिषु प्रसिद्धेश्च। प्रसिद्धत्वात् कर्तृव्युत्पत्तेः। “तमेव मृत्युममृतं तात दैवं सर्वात्मनाऽवैहि परं परायणम्”भागवतम् ४/११/५७ इत्यादेश्च। उपचारकल्पनायाश्च क्लिष्टत्वात्। प्रमाणाभावाच्च। नाव्यक्तादिशब्दानां परमात्मविषयत्वाङ्गीकारे सर्वमानविरोधः॥ १॥
ॐ ज्योतिरुपक्रमात् तु तथा ह्यधीयत एके ॐ॥ व्युत्पत्तेरप्यशक्यता। शब्दार्थनेकता तथा॥
रूढिः, रूढियोगः, महायोगः, महारूढियोगः, रूढोपचारः, रूढलक्षणा, उपचारः, लक्षणेति शब्दवृत्तिभेदाद् रूढिपूर्वकत्वेन महायोगवृत्त्या परमेश्वरेऽखिलशब्दव्युत्पत्त्युपपत्तेः ॥ २॥
ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ॥ परस्परविरोधः। ईशस्य बहुरूपत्वम्॥
बहुरूपत्वादधिकरणाधेयत्वादि तस्यैव युज्यते॥ ३॥
ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ॥ विरोधः कार्यतद्वतोः। व्यक्त्यव्यक्तिविशेषिता॥
व्यक्त्यपेक्षया कार्यत्वं च॥ ४॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य चतुर्थः पादः॥
॥ समाप्तश्चायमध्यायः॥
अविरोधाध्यायः
प्रथमः पादः
[न्यायमाला (अनुव्याख्याने २-१-३-४)- आप्तता समताऽदृष्टिश्रुतिसाम्यबलोद्भवाः। सर्वानुसारो लघुता विशेषादर्शनाफले॥ इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः। एता एव त्वतिबलाः सिद्धान्तस्य नियामकाः॥]
ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ॥ आप्तता॥
ॐ॥ रुद्रादीनां सकाशाद् विष्ण्वादीनामेवाप्तत्वम्। श्रुत्यनुसारित्वात्॥ १॥
ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ॥ समता॥
न श्रुते रुद्रादिस्मृतिसाम्यं किन्तु साक्षिप्रत्यक्षसाम्यमेव। निरपेक्षत्वात्॥ २॥
ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ॥ अदृष्टिः॥
न मृदादीनां वचनाद्यदृष्टिः श्रुत्यप्रामाण्यकारणम्। अपितु वचनादिशक्ताया देवताया मृदादिशब्दवाच्यत्वद्योतिकैव॥ ३॥
ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ॥ श्रुतिसाम्यम्॥
ईश्वरस्य स्रष्टृत्ववदसतोऽपि स्रष्टृत्वं श्रूयत इति नास्ति। सोऽसच्छब्दो ब्रह्मशब्दवदेव ब्रह्मवाचक इति श्रुतेः साम्यम् ॥ ४॥
ॐ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॐ॥ बलोद्भवः॥
“कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति” इति श्रुतिबलान्नैक्यम्। किन्तु भेदापादकमेवैतत् “निरञ्जनः परमं साम्यमुपैति” “परात् परं पुरुषमुपैति दिव्यम्” इति सन्निहितवाक्यबलात्। एकीभावशब्दस्तु सान्निध्येऽपि भवति। “एकीभूता तु सा सेना पाण्डवानभ्यवर्तत” इतिवत्। “यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति। एवं मुनेर्विजानत आत्मा भवति गौतम” इति वाक्यान्तराच्च॥ ५॥
ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ॥ सर्वानुसारः॥
न लौकिकसर्वकार्यानुसारेणाकर्तृतन्त्रत्वं सर्वानुसारः। किन्तर्हि? तद्वैलक्षण्येन सर्वकर्तृविलक्षणसर्वशक्तित्वमेवाशेषयुक्तिश्रुत्यनुसारि। “एष सर्वेश्वरः” इत्यादिश्रुतेः। युक्तिमात्राच्छ्रुतियुक्ता हि युक्तिर्बलवती॥ ६॥
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ॥ लघुता॥
नचेश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघवम्। श्रुतिसिद्धत्वेनाकल्पनात्। अश्रुतजीवकर्तृत्वाङ्गीकारे गौरवमेव। तदभावे सिद्धान्ते लघुता। “नान्यः कर्ता स हि स्वतन्त्रः परमात् परमो हरिः” इत्यादेश्च। अभेदपक्षस्तु निराकृतः। श्रुत्यनुभवविरोधाच्च॥ ७॥
ॐ अधिकं तु भेदनिर्देशात् ॐ (ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ) ॥ विशेषादर्शनम्॥
शब्दैकसमधिगम्यत्वसर्वशक्तित्वादीनां विशेषाणामदर्शनं जीवे। न जीवाद् विशेषादर्शनं परमेश्वरे। विशेषश्रुतेरेव॥ ८॥
ॐ न प्रयोजनवत्त्वात् ॐ॥ अफलम्॥
नच प्रयोजनाभावोऽकर्तृत्वे कारणम्। अशेषकर्तृत्वापवादकश्च। फलापेक्षिणस्त्वपूर्णत्वादेव न सर्वकर्तृत्वादिशक्तिः। इतरस्य पूर्णत्वादेवानन्तशक्तित्वाल्लीलयैव कर्तृत्वम्॥ ९॥
ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ॐ॥ इष्टासिद्धिः॥
नेशस्य पूर्णत्वासिद्धिः, कर्मसापेक्षत्वेऽनीशत्वम्, अनपेक्षत्वे श्रुतेरप्रामाण्यमिति। कर्मणोऽपि तदधीनत्वम्। तथाऽपि तदनुसारेण फलदानमित्यङ्गीकार एवेष्टश्रुतिप्रामाण्यासिद्धिः॥ १०॥
ॐ सर्वधर्मोपपत्तेश्च ॐ॥ नियमः॥
सर्वचेतना अपूर्णगुणा इति नियमो न। स्वतन्त्रस्य च पूर्णगुणत्वनियमात्। “अपूर्णोऽयं जीवसङ्घोऽस्वतन्त्रः पूर्णो हरिर्यः स्वतन्त्रः सदैव। नहि स्वतन्त्रोऽपूर्णतां कामयीत पूर्णो यदि स्यादस्वतन्त्रः कुतः सः॥” इति श्रुतेः॥ ११॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य प्रथमः पादः॥
द्वितीयः पादः
ॐ॥ उक्तविरोधिनस्तत्तत्समयसिद्धाः पूर्वपक्षन्यायाः, तद्विरोधिनोऽन्ये इति प्रसिद्धा एव॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य द्वितीयः पादः॥
तृतीयः पादः
[न्यायमाला (अनुव्याख्याने २-३-३-८)- अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम्। एतत् सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च॥ दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः। प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तिता॥ लोकदृष्टानुसारित्वं जीवसाम्यमनादिता। तत्रतत्र परिज्ञानं गुणसाम्यश्रुती तथा॥ उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने। नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः॥ व्यवस्थाऽनुपपत्तिश्च स्वातन्त्र्यमनुसारिता। मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः॥ गत्यादिरीशशक्तिश्च सर्वमानविरोधिता। अभीष्टासिद्धिसुव्यक्ती शास्त्रसिद्धिर्विपर्ययः॥ विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः॥]
ॐ न वियदश्रुतेः ॐ॥ अनुभूतियुक्तिबहुवाग्वैलोम्यम्। व्यवस्था॥
ॐ॥ नच वियत उत्पत्तिमत्वेऽनुभूतियुक्तिबहुवाग्विरोधोऽस्ति। व्यवस्थायोगात्। अवकाशमात्रस्याव्याकृतात्मकत्वाद् अनुत्पत्तिवचनानां तद्विषयत्वम्, उत्पत्तिवचनानामसितवर्णभूततदभिमानिशरीरविषयत्वं पराधीनविशेषवत्त्वमात्रविषयत्वं चेति व्यवस्था। “आकाशो नीलिमोदेति न प्रदेशः कथञ्चन। अभावो हि प्रदेशस्य नह्यत्राभाव इत्यपि॥” इति पैङ्गिश्रुतिः ॥ १॥
ॐ एतेन मातरिश्वा व्याख्यातः ॐ॥ ततोऽधिकमेतत् सर्वम्। अनुपपत्तिश्च॥
ततोऽधिकमेतत् सर्वमनुभूत्यादिविरुद्धत्वं वायूत्पत्ताविति न। वायोरेव मुख्यानुत्पत्त्यनुपपत्तेः। पराधीनविशेषमात्रं ह्युत्पत्तिः। तदभाव उभयोः स्वातन्त्र्यं विरुद्धमेव। सर्वोत्तमत्वानुपपत्तेः। उभयोरपि पराधीनत्वप्राप्तेश्चान्योन्यानुरोधे। अननुरोधे तु न सर्वैश्वर्यम्। ज्ञानाविस्मृत्या वायावपि व्यवस्थेत्यतिदेशः। अनुपपत्तिस्तु तत्प्रापिका। पराधीनविशेषवत्त्वमात्रं त्वव्याकृताकाशस्य तदभिमानिप्रकृतेश्च सममेव॥२॥
ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ॥ सतः साम्यम्। स्वातन्त्र्यम्॥
नच सतः पराधीनविशेषवत्त्वम्। स्वातन्त्र्यात्॥ ३॥
ॐ तेजोऽतस्तथा ह्याह ॐ॥ द्वारवैयर्थ्यम्। अनुसारिता॥
नच विष्णोरेव तेजस उत्पत्तौ द्वारकारणवैयर्थ्यम्। द्वारमनुसृत्यैव विष्णोः प्रवृत्तेः॥ ४॥
ॐ आपः ॐ॥ दृष्टयुक्त्यनुसारित्वम्। मुख्यता॥
नच तेजस एवापामुत्पत्त्यङ्गीकारे घर्मात् स्वेदादिदृष्ट्यनुसारित्वमिति गुणाधिक्यम्। मुख्यार्थपरित्यागप्राप्तेः॥ ५॥
ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ॥ उक्तान्यार्थाविरोधतः प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तिता। शक्तिमत्त्वं च॥
नच “अद्भ्यो वाऽन्नमुत्पद्यते” इत्याद्युक्तप्रसिद्धान्नाख्यान्यार्थाविरोधेन प्रसिद्धान्ननामस्वीकारे बहुवाक्यानुवर्तितेति गुणः। अन्नशब्दस्य प्रयोगबाहुल्यात् पृथिव्यामपि शक्तिमत्त्वात्। अधिकारादीनां निरवकाशत्वाच्च। बहुवाक्यानुरोधोऽप्यत्रैवेति ॥ ६॥
ॐ तदभिध्यानादेव तु तल्लिङ्गात् सः ॐ॥ लोकदृष्टानुसारित्वम्। वैरूप्यम्॥
नच रुद्रादीनां लयकारित्वाङ्गीकारे, पितुरन्यस्यैव मारकत्वदृष्टेः, लोकदृष्टानुसारित्वमिति गुणः। लोकपितृवैरूप्याद् विष्णोर्यथावाक्यमङ्गीकारोपपत्तेः। अन्यथा “न विष्णोरन्यो विलयकृन्न विष्णोरन्यो विमुक्तिदः” इत्यादिश्रुतिविरोधात्। रुद्रस्य तु क्वचित् संहारद्वारत्वेनैव तद्वाक्यानां सावकाशत्वात्॥ ७॥
ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ॥ लोकदृष्टानुसारित्वम्। वैरूप्यम्॥
नच लोकानुसारित्वम्। “क्रमादुत्पद्यते क्रमाद् विलीयते” “क्रमेणैवोत्पत्तिर्विलयश्च” “क्रमेणैव ह्यस्योत्पत्तिविलयौ” इत्यादिलोकानुसारिबहुवाक्यानुरोधश्च यथोत्पत्तिविलये। “द्विविधः क्रम उद्दिष्टो व्यत्क्रमोऽनुक्रमस्तथा। सृष्टावन्यो लये चान्य इति वेदविदो विदुः॥” इति श्रुतेः क्रमवाक्यस्य सावकाशत्वाद् वैरूप्यं बहुप्रकारत्वं क्रमस्य॥ ८॥
ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ॥ लोकदृष्टानुसारित्वम्। सर्वसङ्ग्रहः॥
नच केषाञ्चित् क्रमाल्लयः केषाञ्चिद् व्युत्क्रमाल्लय इत्यङ्गीकारे लोकदृष्टानुसारादन्तरा विज्ञानमनसी व्युत्क्रमः। “सर्वं वा एतत् क्रमादुत्पद्यते व्युत्क्रमाल्लीयते” इति श्रुतौ सर्वस्यापि व्युत्क्रमाल्लयसङ्ग्रहात्। तल्लिङ्गस्य तु चराचरव्यपाश्रयविज्ञानादिविषयत्वेनैव सावकाशत्वात्॥ ९॥
ॐ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ॥ जीवसाम्यम्। सर्वसङ्ग्रहः॥
नच चेतनत्वेन साम्याद् विष्णोरपि देहलयः। “सर्वे वा एते चिदात्मानो ब्रह्मल्ँलयमनुप्राप्य विष्णोरुदरे संविशन्ति” इति तस्योदरे सर्वसङ्ग्रहणादिश्रुतिभ्यो नित्यत्वावगमात् तद्देहस्य। अश्रुतत्वाच्चान्यथा॥ १०॥
ॐ ज्ञोऽत एव ॐ॥ अनादित्वम्। सर्वसङ्ग्रहः॥
नचानादित्वाज्जीवस्य पराधीनविशेषाप्राप्तिः। “इदं सर्वमसृजत” इति सर्वस्मिन् गृहीतत्वात्। पराधीनविशेषवत्वेऽप्यनादित्वस्याविरोधात्॥ ११॥
ॐ उत्क्रान्तिगत्यागतीनाम् ॐ॥ तत्रतत्र परिज्ञानम्। गत्यादिः॥
नच सर्वदेहस्पर्शज्ञानाद् रसादीनां च तत्रतत्र परिज्ञानाज्जीवस्यानणुत्वम्। उत्क्रान्तिगत्यादेः। आदिशब्देन सूक्ष्मतेजोरूपेण व्याप्त्या स्पर्शादिज्ञानोपपत्तिः। अतोऽणुत्वमनणुत्वं चेति भावः॥ १२॥
ॐ व्यतिरेको गन्धवत् तथा च दर्शयति ॐ॥ गुणसाम्यम्। ईशशक्तिः॥
नच जीवस्य बहुरूपत्वशक्तावीशेन गुणसाम्यम्। ईशशक्त्यैव बहुरूपत्वादेः॥ १३॥
ॐ पृथगुपदेशात् ॐ॥ श्रुतिः। सर्वमानविरोधिता॥
नच श्रुत्या जीवेश्वरैक्यम्। सर्वमानविरोधात्। श्रुतेः सादृश्यैक्यादिना सावकाशत्वात्। बहुमानविरोधे एकस्य दौर्बल्याच्च। धर्मिग्राहकविरोधाच्च ॥ १४॥
ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ॥ उत्पत्तिमत्वम्। अभीष्टासिद्धिः॥
नचोत्पत्तिमत्वाद् विनाशित्वं जीवस्य। अनित्यत्वे तदभीष्टमोक्षाद्यसिद्धेः। नहि पराधीनविशेषवत्त्वमात्रेण विनाशित्वम्। तादृशानामेव नित्यत्वश्रुतिविरोधात्॥ १५॥
ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ॥ स्वगुणानुभूतिः। सुव्यक्तिः॥
नच स्वगुणाननुभूत्यनुपपत्तेः पूर्वज्ञानादीनां सामस्त्येनाभावः। पूर्वमव्यक्तानां पश्चात् सुव्यक्त्युपपत्तेः॥ १६॥
ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ॥ अल्पकल्पनम्। शास्त्रसिद्धिः॥
नचेश्वरस्यैव कर्तृत्वे कल्पनालाघवम्। जीवस्याकर्तृत्वे शास्त्रवैयर्थ्यात्। तस्यापि कर्तृत्वे शास्त्रार्थसिद्धेश्च ॥ १७॥
ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ॥ नानाश्रुतिः। विपर्ययः॥
नच नानाश्रुतेरप्रामाण्यम्। दृष्टभेदानुसारेण तासामर्थोपपत्तेः। अप्रामाण्यकल्पनस्य विपरीतज्ञानमूलत्वात्॥ १८॥
ॐ अदृष्टानियमात् ॐ॥ वैचित्र्यम्। विशेषकारणम्॥
नच वैचित्र्यमनाभासत्वे कारणम्। जीवानां सामान्यत आभासत्वेऽपि विशेषादृष्टाद् वैचित्र्योपपत्तेः॥ १९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य तृतीयः पादः॥
चतुर्थः पादः
[न्यायमाला (अनुव्याख्याने २-४-२-३)- —- —- तत्र स्पष्टार्थवच्छ्रुतिः। विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः। दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता। युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः। युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः॥]
ॐ तथा प्राणाः ॐ॥ स्पष्टार्थवच्छ्रुतिः॥
ॐ॥ नच प्राणानामुत्पत्त्यङ्गीकारे “प्राणा एवानादयः” इत्यादिस्पष्टार्थवद्विशेषश्रुतिविरोधः। “आत्मैवेदमग्र आसीत् स प्राणमसृजत स प्राणान्” इत्यादिवचनादनादित्व एव स्पष्टार्थवद्विशेषश्रुतिविरोधात्। “इदं सर्वमसृजत” इति सामान्यवचनस्याधिक्यं सिद्धान्ते। विशेषमात्रश्रुतेः सावकाशाया उभयश्रुतेः प्राबल्यात्॥ १॥
ॐ तत्प्राक्छ्रुतेश्च ॐ॥ विशेषश्रुतिवैरूप्यम्॥
नच “नित्यं मनोऽनादित्वात्” इति विशेषश्रुतिविरोधः। “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च” इति विशेषश्रुतेः॥ २॥
ॐ तत्पूर्वकत्वाद् वाचः ॐ॥ विशेषश्रुतिवैरूप्यम्॥
नच “वाग् वाव नित्या” इति विशेषश्रुतिविरोधः। “मनसो वाव वागुत्पद्यते वाचो व्याहरणम्” इति विशेषश्रुतेः॥ ३॥
ॐ सप्त गतेर्विशेषितत्वाच्च ॐ॥ विशेषश्रुतिवैरूप्यम्॥
नच “दशेमे पुरुषे प्राणा आत्मैकादशः” “सप्त प्राणाः प्रभवन्ति तस्मात्” इति सङ्ख्याविशेषश्रुत्योरेव परस्परं विरोधः। “गुहाशयां निहिताः सप्त सप्त” इति सप्तभावस्य बुद्धीन्द्रियविषयत्वेन विशेषितत्वात् सङ्ख्याश्रुत्योर्विषयवैलक्षण्यात्॥ ४॥
ॐ अणवश्च ॐ॥ विशेषश्रुतिवैरूप्यम्॥
नच “दिवीव चक्षुराततम्” इति व्याप्त्याख्यविशेषवाचकश्रुतिविरोधः। “अणूनि वा इन्द्रियाणि तेषां प्रकाशो व्याततः” इति ततोऽप्यणुत्ववाचकविशेषश्रुतिविरोधात्॥ ५॥
ॐ श्रेष्ठश्च ॐ (ॐ चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः ॐ) ॥ माहात्म्यम्॥
नच “यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा। तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते॥” इत्यादिमाहात्म्यवचनान्मुख्यप्राणस्य नोत्पत्तिरिति वाच्यम्। “महत्वान्महतां विष्णुः कर्ता प्राणस्य चैकराट्। किं नाम न सृजेदेष येन शक्त्येदमावृतम्॥” इति श्रुतेस्ततोऽपि माहात्म्याद् विष्णोः॥ ६॥
ॐ पञ्चवृत्तिर्मनोवद् व्यपदिश्यते ॐ॥ व्यक्तसद्गुणः॥
नच प्राणादिपञ्चकस्य व्यक्तसद्गुणत्वान्मुख्यप्राणवृत्तित्वमेव। “अशेषगुणपूर्णानि मुख्यरूपाणि पञ्च च। तद्दासाः पञ्च चान्येऽपि प्राणाद्याः सद्गुणैर्युताः॥” इति श्रुतेर्मुख्यप्राणस्य ततोऽपि व्यक्तसद्गुणत्वात्॥ ८॥
ॐ अणुश्च ॐ॥ दृष्टायुक्तिः॥
नचाणुत्वे प्राणस्य “महान् वै मुख्यप्राणो येन व्याप्तं चराचरम्” इति दृष्टायुक्तिः। “अणुर्वै मुख्यप्राणो य उत्क्रामति नाडीभिः” इति दृष्टायुक्तिरनणुत्वे प्राणस्य॥ ९॥
ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ॥ दृष्टायुक्तिः॥
नचेन्द्रियाणां जीवाकरणत्वे दृष्टायुक्तिः। क्वचिदतद्वशत्वस्यापि दृष्टत्वात्। “यश्चक्षुषि तिष्ठन्” इत्यादिदृष्टायुक्तेरीशाधीनत्वानङ्गीकारे। लौकिकदृष्टेस्त्वीशेनैव जीवानुसारित्वकॢप्त्योपपत्तेः॥ १०॥
ॐ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ॥ समानत्वम् ॥
नचेशवशत्वसाम्यान्मुख्यप्राणस्याप्यन्यसाम्यम् “यदस्मिन्निदं सर्वमध्यार्ध्नोत्” “प्राणस्यैतद् वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम्” इत्यादिश्रुतेरीशसाम्यस्यापि भावात्। “प्राणस्यैतद् वशे सर्वं प्राणः परवशे स्थितः” इति श्रुतेर्मध्यमत्वोपपत्तेः॥ ११॥
ॐ संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॐ॥ कर्तृशक्तिः॥
नच विरिञ्चस्यापि कर्तृत्वशक्तेः स एव शरीरादिस्रष्टा। “त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया। रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः॥ अतो रूपस्य नाम्नश्च व्यवहारस्य चैकराट्। हरिरेव यतः कर्ता पिताऽतो भगवान् प्रभुः॥” इत्यादेस्तस्यैव कर्तृत्वशक्तेर्विरिञ्चस्य तु द्वारतयोपपत्तेः ॥ १२॥
ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ॥ विमिश्रता॥
नच मिश्रत्वाद् भूतानां विमिश्रतायामविशेषः। “अन्नमशितं त्रेधा विधीयते” इत्यादिना मिश्रतायामपि विशेषोक्तेः। “सर्वं च भौतिकं मिश्रं मिश्रत्वे च विशेषिता। भौमं मांसमसृग् वारि तेजो मज्जा विशेषतः॥” इत्यादेश्च॥ १३॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य चतुर्थः पादः॥
॥ समाप्तश्चायमध्यायः॥
साधनाध्यायः
प्रथमः पादः
[न्यायमाला (अनुव्याख्याने ३-१-१-३)- स्वाभाविकान्यथानामसहभावान्यथोक्तयः। अविशेषविशेषौ च सहभावो विमिश्रता॥ विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः। युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतोभवौ॥ उपपत्तिद्विरूपत्वमाधिक्यमनुरूपता। योग्यता बलवत्त्वं च विभागः कारणाभवः। कॢप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः॥]
ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ॥ स्वाभाविकम्। गुणाधिक्यम्॥
ॐ॥ “भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्” इति वचनात् स्वाभाविकमरणमेव मुक्तिरिति न मन्तव्यम्। मुक्तिसाधनत्वेन ज्ञानादिगुणाधिक्योपदेशात्। मरणे भूतवियोगस्यैवाभावात्। “भूतयुक्तः परं लोकमिमं लोकं च गच्छति” इत्यादिवचनाच्च ॥ १॥
ॐ त्र्यात्मकत्वात् तु भूयस्त्वात् ॐ॥ अन्यथानाम। अर्थतोभवः।
“इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इत्यत्र ‘भूतानि’ इति सामान्यनामानुक्त्वा ‘आपः’ इति विशेषनामकथनादपामेव सहगतिरिति न वाच्यम्। त्र्यात्मकत्वादपामर्थतः सर्वभूतानां गतिप्राप्तेः॥ २॥
ॐ प्राणगतेश्च ॐ॥ सहभावः। उपपत्तिः॥
नच भूतानि गच्छन्तीति सहैवानुक्तेस्तदभावः। प्राणगतेरुपपत्तित उक्तत्वात्॥ ३॥
ॐ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ॥ अन्यथोक्तिः। द्विरूपत्वम्॥
नच “अग्निं वागप्येति” इत्याद्यन्यथोक्तेः प्राणानां च न सहगतिः। द्विरूपत्वात् प्राणानाम्॥ ४॥
ॐ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॐ॥ अविशेषः। आधिक्यम् ॥
नच “प्रथमतो भूतानि जुह्वति” इति विशेषानुक्तेर्भूतानामसहगतिः। “भूतानि जुह्वति” इत्युपक्रमादपि “इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इत्युपसंहारस्याधिक्यात्, तदनुसारेणोपक्रमोक्तश्रद्धाशब्दस्यापि ता एवार्थ इत्यापत्तेः। उपक्रमविरोधेनोपसंहारानुपपत्तेः। उपक्रमप्रामाण्यार्थमेवोपसंहारानुसारित्वमङ्गीकर्तव्यम्। व्याख्यानस्य पश्चात्तनत्वनियमात्। उपक्रमानुसारित्वनियमेऽप्युपसंहारस्योपसंहारेणैवोपक्रमार्थो ज्ञायते॥ ५॥
ॐ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॐ॥ अविशेषः। अनुरूपता॥
नच विशेषाश्रवणनियम एव बलवान्। स्थानान्तरश्रवणस्याप्येतदनुरूपत्वात्। आर्थिकश्रवणमप्यनुक्तिं बाधत एव, किमु स्थानान्तरगतं स्पष्टश्रवणमिति कैमुत्यार्थमेव ‘नेष्टादिकारिणां प्रतीतेः’ इति परिहारान्तरमुक्तम्॥ ६॥
ॐ भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ॐ॥ विशेषः। योग्यता॥
नच “अपाम सोमममृता अभूम” इति विशेषत एव मोक्षफलस्याप्युक्तेः कर्मैव मोक्षसाधनमिति मन्तव्यम्। “नान्यः पन्था अयनाय विद्यते” “स य आत्मानमेव लोकमुपास्ते” “यावदिन्द्रो यावन्मनुः” इत्यादिश्रुतिबलादमृतशब्दस्य यथायोग्यमेवार्थकल्पनोपपत्तेः॥ ७॥
ॐ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॐ॥ सहभावः। योग्यता॥
नचानुशयस्य सहभावात् स्वर्ग एव फलदत्वम्। “भुक्तशेषानुशयवान्” इत्यादिवचनाद् यथायोग्यमेव फलदानोपपत्तेः॥ ८॥
ॐ यथेतमनेवं च ॐ॥ सहभावः। योग्यता॥
नच मार्गस्यापि सहभावाद् यथागतमेवागमनमिति नियमः। वचनबलाद् यथायोग्यमेवागमनोपपत्तेः॥ ९॥
ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॐ॥ सहभावः। योग्यता॥
नच “इष्टापूर्ते दत्तमित्युपासते” इत्युपशब्देनेष्टादिभिराचारस्य सहपाठाच्चरणफलं पुनरावृत्तिं करणफलत्वेन भ्रमाद् वदन्तीति वाच्यम्। “नान्यः पन्थाः” इत्यादिवचनादेवोभयोरपि चरणशब्देनैवोक्तेर्योग्यत्वात्॥ १०॥
ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ॥ विमिश्रता। बलवत्त्वम्॥
नच भयफलकामादिमिश्रबुद्धित्वादिष्टादिकारिणां संसारः, अनिष्टकादिकारिणां तदभावान्मुक्तिरिति वाच्यम्। तेषां प्रबलदोषश्रुतेः॥ ११॥
ॐ अपि सप्त ॐ॥ विरुद्धोक्तिः। विभागः॥
नच नरकभोगस्यानित्यत्वकथनान्नित्यनरकोक्तिर्विरुद्धा। “रौरवोऽथ महांश्चैव वह्निर्वैतरणी तथा। कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु॥ तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ॥” इति विभागात्॥ १२॥
ॐ तत्रापि च तद्व्यापारादविरोधः ॐ॥ सहस्थानम्। कारणाभावः॥
नच सहस्थानादीशस्यापि नरकदुःखप्राप्तिः। स्वातन्त्र्यात् कारणाभावात्॥ १३॥
ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ॥ सहस्थानम्। कारणाभावः॥
नच साधनेन सहश्रुतेस्तद्वत् फलेऽपि जीवस्य स्वातन्त्र्यम्। अविहितत्वेन कारणाभावात्। “अथैतयोः पथोः” इत्यस्य च साधनार्थत्वात्॥ १४॥
ॐ न तृतीये तथोपलब्धेः ॐ॥ सहस्थानम्। कारणाभावः॥
नच दुःखसहस्थायित्वादन्धे तमस्यपि सुखम्। ईशस्याप्रियत्वेनैव कारणाभावात्॥ १५॥
ॐ तत्स्वाभाव्यापत्तिरुपपत्तेः ॐ॥ सहस्थानम्। कारणाभावः॥
नच धूमादिदेवतासहावस्थानात् कर्मिणोऽपि तत्पदप्राप्तिः। तन्निमित्तविद्याख्यकारणाभावात्॥ १६॥
ॐ नातिचिरेण विशेषात् ॐ॥ सहस्थानम्। कारणाभावः॥
नच तैस्तैः सहावस्थानादतिचिरत्वम्। “वत्सरात् पूर्वमेव तु” इति कॢप्तकालादधिकावस्थाने कारणाभावात्॥ १७॥
ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ॥ सहस्थानम्। कारणाभावः॥
नच व्रीह्यादिजीवैः सहावस्थानाद् दुःखप्राप्तिः। शब्दविहितत्वेन पापाख्यकारणाभावात्॥ १८॥
ॐ रेतःसिग्योगोऽथ ॐ॥ वैयर्थ्यम्। कॢप्तिः॥
नच वैयर्थ्यं पितृशरीरागमने। “ईशकॢप्त्यैव पितरं प्रविश्यायाति मातरम्” इतीशकॢप्तत्ववचनात्॥ १९॥
ॐ योनेः शरीरम् ॐ॥ अन्यथागतिः। अन्या गतिश्च॥
नच पितुः सकाशादन्यतो वौदर्यगर्भस्थशरीरमेव प्रवेष्टुमुपपत्तेर्योनिप्रवेशाभाव इति वाच्यम्। “योनिद्वारेण देहं च प्राप्नोति प्रायशो नरः” इति वचनात् सामान्यतो गत्यन्तराभावात्। “विशेषकारणादेव विशेषाज्जनिरिष्यते। सामान्यजननं चैव नृणां सामान्यहेतुतः ॥” इति वचनाच्च॥ २०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य प्रथमः पादः॥
द्वितीयः पादः
[न्यायमाला (अनुव्याख्याने ३-२-१-४)- पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः। स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः॥ गुणसाम्यमयोगश्च तर्कबाधो विलोमता। नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः॥ अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च। अमानकॢप्तिसन्मानव्यवस्थात्यल्पताभवाः॥ विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिर्दशनम्। अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः॥]
ॐ सन्ध्ये सृष्टिराह हि ॐ॥ पश्चाददृष्टिः। अशक्यकर्तृताशक्तिः॥
ॐ॥ पश्चाददृष्टेः स्वप्नविषयस्यासत्त्वं न वाच्यम्। अशक्यकरणशक्तिमत्त्वादीश्वरस्य संस्कारेण सृष्ट्वा पुनः संस्कारमात्रतामापाद्य तस्यापि तिरोधानोपपत्तेः। जाग्रत्त्वप्रतीतिमात्रस्य भ्रान्तित्वात्॥ १॥
ॐ पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ॥ अविज्ञानम्। स्वतोऽबोधः॥
नचाविज्ञानमात्रेण स्वप्नप्रतीत्या ज्ञानशक्त्यैव स्वप्नतिरोधानं नेशेनेति वाच्यम्। बोधे जीवस्यास्वातन्त्र्यात्। ज्ञानाज्ञानयोस्तदन्यत्वे जडत्वात् कैमुत्येनास्वातन्त्र्यात्। तत्स्वरूपत्वे तेनैव व्याख्यातत्वात्। उभयात्मकत्वे दोषद्वयापातात्। अनुभयात्मकत्वे व्याहतेः। तावन्मात्रनिमित्तत्वे मानाभावात्। सर्वस्येशहेतुत्वे मानाच्च॥ २॥
ॐ देहयोगाद् वासोऽपि ॐ॥ कालः। तदेव ॥
नच कालापेक्षयैव जागरितम्। अचेतनत्वादेव कालस्य। चेतनान्तरस्याप्यस्वातन्त्र्यात्॥ ३॥
ॐ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ॐ॥ दुःखम्। अमानकॢप्तिः॥
नच परमात्मनोऽन्यत्रास्थाने दुःखित्वप्राप्तेर्नाडीषु सुप्तिर्न भवति। उभयस्वीकारोपपत्तौ मानस्य कॢप्त्यकारणम् इत्यनवस्थितिदोषादतिप्रसङ्गात्॥ ४॥
ॐ अतः प्रबोधोऽस्मात् ॐ॥ पृथग्भावः। सन्मानम्॥
नच प्रबोधस्य पृथगपि कारणदृष्टेः क्वचित् तदेव। “न ऋते त्वत् क्रियते” इति श्रुतेस्तत्रापीशकृतत्वे सम्यङ्मानात्॥ ५॥
ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ॥ पृथग्भावः। सन्मानम्॥
नच राजादीनां पृथग्दर्शनादीशान्तरकल्पना। “देशकालविशेषेऽपि स्वप्नादीनां स एव हि। तिरस्कर्ता च कर्ता च न खण्डेशः स राजवत्॥” इति श्रुतिमानात्॥ ६॥
ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ॥ पृथग्भावः। सन्मानम्॥
नच मोहे ब्रह्मप्राप्तिरेव पृथगवस्थात्वादिति वाच्यम्। परिशेषमानादर्धप्राप्तित्वावगमात्॥ ७॥
ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ॥ स्थानभेदः। व्यवस्था॥
नच स्थानभेदाद् विष्णोरपि भेदः। “अयमेव सः”, “नेह नानास्ति किञ्चन” इत्यादिश्रुतिबलात् स्थानानां भेदः, तस्याभेद इति व्यवस्थोपपत्तेः॥ ८॥
ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ॥ विरुद्धत्वम्। व्यवस्था॥
नच रूपवत्त्वारूपवत्त्ववचनयोर्विरोधादप्रामाण्यम्। अप्राकृतरूपवत्त्वमिति व्यवस्थोपपत्तेः॥ ९॥
ॐ अत एव चोपमा सूर्यकादिवत् ॐ॥ न्यायसम्यम्। अत्यल्पता॥
नच परमात्मना चेतनत्वन्यायसाम्येन जीवस्याप्यभेदः। अल्पगुणत्वादिविरोधात् ॥ १०॥
ॐ अम्बुवदग्रहणात् तु न तथात्वम् ॐ॥ स्वतो भवः। भवः॥
नच सादृश्यसत्त्वात् साधनं विनैव जीवस्य तादृक्त्वव्यक्तिः। अनादितः संसारस्यानिवृत्तत्वेन भावात्॥ ११॥
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ॥ गुणसाम्यम्। विशेषदृष्टिः॥
नच मुक्तत्वादिगुणसाम्यात् ब्रह्मादीनां भक्त्यादिगुणसाम्यम्। “यथायथाऽधिकारो विशिष्यते एवं ज्ञानं भक्तिर्बलं च विशिष्यते। मुक्तावानन्द एते च गुणा विशिष्यन्ते। अत आहुर्ब्रह्मणे मुक्ता बलिं हरन्ति” इत्यादिविशेषदृष्टेः॥ १२॥
ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ॥ अयोगः। विशेषवाक्यं च॥
नच संहारकर्तुरसंहारादन्यरक्षाया अयोगः। “स सृजति स पालयति स विनाशयति” इत्यादिविशेषवाक्यात्। अन्नदानाद्युपपत्तेश्च॥ १३॥
ॐ तदव्यक्तमाह हि ॐ॥ तर्कबाधः। पुंशक्तिः॥
नचाव्यक्तस्वभावस्य दर्शने तर्कबाधः। अनन्तशक्तित्वाद् विष्णोस्तच्छक्त्याऽव्यक्तस्यापि दर्शनोपपत्तेः॥ १४॥
ॐ उभयव्यपदेशात् त्वहिकुण्डलवत् ॐ॥ विलोमता। सुदर्शनम्॥
नच गुणानां गुणिस्वरूपत्वं विरुद्धम्। कालादिदृष्टान्तात्॥ १५॥
ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ॥ विलोमता। अलौकिकत्वम्॥
नच ब्रह्मानन्दादीनामन्यथात्वादतच्छब्दत्वं तच्छब्दत्वे लोकोपमत्वं चेति विलोमता। “अलौकिकास्तस्य शब्दास्तथाऽर्था अलौकिको ह्येष विष्णुः परत्वात्। तथाऽपि शब्दा लौकिका अप्यमुष्मिन् प्रवर्तमाना अधिकार्थान् वदन्ति॥” इत्यादिश्रुतिभ्योऽलौकिकत्वावगमात्॥ १६॥
ॐ स्थानविशेषात् प्रकाशादिवत् ॐ॥ नानाभावः। आधिक्यम्॥
नच ब्रह्माद्यानन्दवैचित्र्ये बिम्बभूतविष्ण्वानन्दवैचित्र्यम्। आदित्यादिवदाधिक्यात्। नहि सूर्यकान्तप्रतिबिम्बस्याग्निजनकत्वशक्तिर्न जलगतस्येत्येतावता सूर्ये वैचित्र्यम्। आधिक्यं हि तत्र निमित्तम्। सूर्यचन्द्रादिप्रतिबिम्बं विनाऽन्यत्र तथा विशेषादृष्टेः॥ १७॥
ॐ तथाऽन्यत् प्रतिषेधात् ॐ॥ नानाभावः। आधिक्यम्॥
नच नानाभावाद् विष्णोश्चित्तप्रतिबिम्बरूपता। आधिक्यादेव। प्रतिबिम्बे हि दोषाश्च प्रतीयन्ते। अतो हि श्रुतिः प्रतिषेधति “नेदं यदिदमुपासते” इति॥ १८॥
ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ॥ नानाभावः। स्वातन्त्र्यम्॥
नच नानावतारकौतुकदर्शनाद् विष्णोः क्वचिद् देशकालान्तरे कौतुकादेव सृष्ट्यादि कुर्वन्नन्यमेव सामस्त्येन नियोजयति। “सर्वत्र सर्वमेतस्मात्” इत्यादिश्रुत्या क्रीडायामपि स्वातन्त्र्यात्। “स्वातन्त्र्यात् क्रीडते विष्णुर्नच स्वातन्त्र्यमन्यगम्। करोति क्वापि नियता क्रीडा सृष्ट्यादिकाऽस्य च॥ नियतक्रीडनादेव कर्ता नान्योऽस्ति कस्यचित्। अस्वतन्त्रो हि चलति चलचित्तादशक्तितः॥ स्वतन्त्रः पूर्णशक्तिः सन् कुतोऽसौ नियतिं त्यजेत्॥” इति श्रुतेश्च॥ १९॥
ॐ फलमत उपपत्तेः ॐ॥ प्रलोभः। स्वातन्त्र्यम्॥
नच कर्मान्वयव्यतिरेकात् फलस्येश्वरः फलदातेति प्रलोभमात्रम्। तस्यैव स्वातन्त्र्यात्। “कर्माण्यनन्तानि यथेष्टमीशः सम्पाद्य तेषां फलमिच्छयैव। क्वचिद् ददाति क्वच नो ददाति नह्यानन्त्यात् कर्मणां भोगनाशः॥ स्वातन्त्र्यं चेत् कर्मणां सर्वभोगः स्यान्नह्येवं क्वापि तत् केनचित् स्यात्। अतो हि स स्वेच्छया किञ्चिदेव फलं कुर्याद् विफलं प्रायशश्च॥ क्वचिज्ज्ञानं जनयन् भस्म कुर्यात् स्वेच्छावृत्तिस्तस्य विष्णोः सदैव॥” इति ब्रह्माण्डे। “स्वतन्त्र ईश एवैकस्तद्वशं कर्म सर्वदा। अत ईशत्वमीशस्य न हीशोऽन्यः कथञ्चन॥” इति श्रुतेः। अतः प्रलोभकल्पने श्रुतहानिरश्रुतकल्पना चेति हरिरेव फलप्रदः॥ २०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य द्वितीयः पादः॥
तृतीयः पादः
[न्यायमाला (अनुव्याख्याने ३-३-५७-६७)- पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः। विशेषदर्शनं कार्यलोपो नानोक्तिराशुता॥ विभ्रमोऽपाकृतिर्लिङ्गमनवस्थाऽविशेषिता। अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः॥ विशिष्टकारणं चेष्टा दृष्टवैरूप्यमुन्नतिः। अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ॥ पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः। विशेषदर्शितालापो गुणसाम्यं पृथग्दृशिः॥ अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना। शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया॥ युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया। माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः॥ फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता। यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः॥ कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम्। प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता॥ संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम्। विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः॥ सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः। साधनोत्तमता नानादृष्टिः शिष्टिरनूनता॥ अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः। सिद्धान्तनिर्णया ह्येता युक्तयोऽव्याहताः सदा॥]
ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ॥ पृथग्दृष्टिः। सुज्ञेयत्वम्॥
ॐ॥ नच प्रतिशाखमुच्यमानानामर्थानां पृथक्त्वात् तत्तच्छाखिभिरेव तत्रतत्रोक्तं ज्ञेयमिति नियमः। “नानावेदैरितिहासैः पुराणैः सुज्ञेय एको भगवान् युक्तिभिश्च” इति श्रुतेः सुष्ठु ज्ञेयत्वाद् विष्णोः॥ १॥
ॐ उपसंहारोऽर्थाभेदाद् विधिशेषवत् समाने च ॐ॥ अशक्यत्वम्। विधिक्रिया॥
नचाशक्यतया कस्यापि सर्वगुणोपसंहारो नास्ति। “सर्वे गुणाः सर्वदैव ह्युपास्यास्तेनैव विद्वान् विधिकृन्नान्यथा स्यात्” इति श्रुतेर्विहितक्रियालोपप्रसङ्गात्॥ २॥
ॐ प्राप्तेश्च समञ्जसम् ॐ॥ अनिर्णीतिः। माहात्म्यम्॥
केषाञ्चित् सर्वगुणोपसंहारस्य कर्तव्यत्वे सर्वेषामपि तथा स्यात्, अनेनोपसंहर्तव्या अनेनोपसंहर्तव्या इत्यनिर्णीतेरिति न मन्तव्यम्। “यस्य यावद् गुणाः स्पष्टं प्रतिभासन्त्युपासने। युगपत् स्वभुजौ यद्वद् ध्यायेत् तावत एव सः॥ युगपद् ब्रह्मणः सर्वे भासन्ते हि गुणा हरेः। तदन्येषां यथायोग्यं स्वमाहात्म्यानुसारतः॥” इति श्रुतेर्युगपद्गुणप्रतीत्यादिमाहात्म्यान्निर्णयोपपत्तेः॥ ३॥
ॐ सर्वाभेदादन्यत्रेमे ॐ॥ अनिर्णीतिः। माहात्म्यम्॥
नच फलानिर्णीतिः। माहात्म्येनैवान्यत् फलं महतामिति निर्णयोपपत्तेः॥ ४॥
ॐ आनन्दादयः प्रधानस्य ॐ॥ समुच्चयः। अल्पशक्तित्वम्॥
आनन्दादीनां केषाञ्चित् समुच्चये प्राप्ते सर्वगुणसमुच्चयः सर्वेषां स्यादिति न मन्तव्यम्। अल्पशक्तित्वात् तेषां पुंसाम्॥ ५॥
ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ॥ विशेषदर्शनम्। यथायोग्यफलम्॥
प्रियशिरस्त्वादीनामानन्दादिविशेषत्वेनैव दर्शनात् तेषामपि सर्वोपसंहार्यत्वमिति न मन्तव्यम्। “यथायोग्यान् गुणपूगानुपास्य फलं भवेन्मुक्तिगं नान्यथा स्यात्। नित्यैकाग्र्यव्यङ्ग्यताहेतुतश्च साक्षाद्दृशिर्नो तद्विशेषैः स्मृतैश्च ॥” इति श्रुतेः स्वयोग्यगुणैरेव फलभावात् ॥ ६॥
ॐ इतरे त्वर्थसामान्यात् ॐ॥ कार्यलोपः। भवः॥
तर्हि ब्रह्मणोऽन्येषां देवादीनामपि बहुगुणोपासनया कार्यं नास्ति मध्ये नियमासिद्धेरिति न मन्तव्यम्। तेषां भाव्युत्कर्षं ज्ञात्वा तदभिज्ञस्य ब्रह्मण एव गुणनियमोपदेशोपपत्तेः। “योयो भावो देवतानां विमुक्तौ तत्तत्प्राप्तौ सुगुणानीशितुश्च। ब्रह्मा दिशत्यथ तांस्ते विचिन्त्य तत्तद्भावं प्राप्नुवन्त्यात्मशक्त्या॥” इति श्रुतेः॥ ७॥
ॐ आध्यानाय प्रयोजनाभावात् ॐ॥ नानोक्तिः। फलसाम्यम्॥
नच नानास्थानेषूक्तगुणानामनुपासनार्थत्वम्। विप्रकीर्णान् गुणान् पिण्डीकृत्योपासितुस्तत्सदृशफलप्राप्तेः, तथा ध्यानार्थमेव गुणानामुक्त्युपपत्तेः ॥ ८॥
ॐ आत्मगृहीतिरितरवदुत्तरात् ॐ॥ आशुता। विशेषः॥
नचाश्वापरोक्ष्यायानन्दादीनामपि लोपेन ‘आत्मा’ इत्येतावता पूर्यते। आत्मशब्दार्थविशेषत्वादानन्दादीनाम् ॥ ९॥
ॐ अन्वयादिति चेत् स्यादवधारणात् ॐ॥ विभ्रमः। गुणाधिक्यम्॥
नचात्मशब्दो विभ्रमकरः। गुणाधिकानामधिकारिणां भगवद्गुणानधिकान् प्रकाशयतीत्यवधारणत्वोपपत्तेः ॥ १०॥
ॐ कार्याख्यानादपूर्वम् ॐ॥ आपाकृतिः। प्रधानता॥
अलौकिकगुणानामप्रतीतेर्लौकिकगुणाध्याने तदपाकृतिरेव भवतीति न मन्तव्यम्। लौकिकविलक्षणा अत्युत्तमा इति ध्यानस्यैव प्राधान्यात्॥ ११॥
ॐ समान एवञ्चाभेदात् ॐ॥ लिङ्गम्। यथाशक्तिक्रिया॥
ब्रह्मणश्च ब्रह्माण्याश्च स्थानैक्यं गुणतारतम्यं च यथागुणोपासनं मुक्तावाधिक्यं न भवतीत्यत्र लिङ्गम्, समविषमोपासनायुक्तेरिति न मन्तव्यम्। “यथाशक्ति स्मृतान् धात्रा गुणान् विष्णोः सरस्वती। स्मरेत् त्रैविक्रमाद्यांस्तु नित्यविक्रान्तिपूर्वकैः॥ कदाचिल्लोपयेद् देवी स्थानैक्यं न गुणैस्ततः। साम्यं तयोर्यथाविष्णोर्गुणोपासा फलं भवेत्॥” इत्यध्यात्मवचनाद् यथाशक्ति क्रिया देव्याः॥ १२॥
ॐ न वा विशेषात् ॐ॥ अनवस्था। सन्धिः॥
नचात्मशब्देनास्य पुरुषस्यैतावन्तो गुणा उच्यन्त इति व्यवस्थित्यभावः। यस्य यावन्तोऽर्था युगपद् ध्यातुं शक्यन्ते तस्य तावन्त इति सन्धेः॥ १३॥
ॐ सम्भृतिद्युव्याप्त्यपि चातः ॐ॥ अविशेषिता। प्रमाणबलम्॥
नच मुमुक्षव इत्यविशेषाद् भरणस्य द्युतेश्च सर्वेषामपेक्षितत्वाच्च सम्भृतिद्युव्याप्ती अपि सामान्ये। “सत्यो ज्ञानं परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात्। नान्यत् किञ्चित् समुपासीत धीरः सर्वैर्गुणैर्देवगणा उपासते॥” “गुण्याकारस्मृतेरेव द्युतिमात्रं प्रतीयते। न व्याप्तिर्जगदस्मृत्या नानाशक्तिर्यतो मता। देवानां युगपज्ज्ञानं मनुष्याणां तथा नतु। पर्यायेणैव सत्याः स्युर्नैवान्येषां कथञ्चन॥” इत्यादिप्रमाणबलात्॥ १४॥
ॐ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॐ॥ (ॐ वेधाद्यर्थभेदात् ॐ)॥ अप्रयोजनता। आनतिः॥
क्वचिद् बहुगुणाः क्वचिदल्पगुणाः श्रुतिष्वेवोच्यन्त इत्युपसंहारस्याप्रयोजनतेति न वाच्यम्। “गुणाः सर्वे ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः” इत्यादिश्रुतेः सर्वगुणोपासकस्याप्यधिकारिणो भावादेकत्रापृथक् सर्वगुणानुक्तेश्च बलादुपसंहारानतेः ॥ १५॥
ॐ हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत् तदुक्तम् ॐ॥ अतिप्रसङ्गः। कारणम्॥
नच मुक्तावुपासनभावे फलादिकमपि स्यादित्यतिप्रसङ्गः। उपासनायाः संस्काराख्यकारणस्य सत्त्वात्। “न हीयते यत्र गत्वा यत्र गत्वा न वर्धते” इत्यवृद्धिप्रमाणभावाच्च ॥ १६॥
ॐ छन्दत उभयाविरोधात् ॐ॥ अदूरसंश्रयः। कार्यवैशेष्यम्॥
नच कर्मकरणशक्तेरप्यदूरत्वात् तत्संश्रयनियमः। उपासनाख्ये कार्ये नित्यकृतिसंस्कारो न तथा कर्मणीति कार्यवैशेष्यात्॥ १७॥
ॐ अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ॐ॥ विशिष्टकारणम्। स्वभावः॥
नचायोग्यताख्यविशिष्टकारणाज्ज्ञानिष्वपि केषाञ्चिन्मोक्षो न भवतीति नियमः। ज्ञानिनां मोक्षं ददात्येवेश्वरः स्वभावात्। अयोग्यानां ज्ञानस्यैवोत्पत्त्यनुपपत्तेः ॥ १८॥
ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ॥ चेष्टा। वस्तुदूषणम्॥
नच प्रयत्नानुसारिणो मुक्तावाधिकारिकानन्दादयः। अधिकारानुसारित्वात् प्रयत्नस्य। कथञ्चिदधिके यत्ने तत्साधनादिवस्तूनां दूषणप्राप्तेः। “स्वाधिकाराधिको यत्नः प्रायशो नोपपद्यते। कथञ्चिदधिके यत्ने दोषः कश्चित् समापतेत्॥” इति वचनाच्च॥ १९॥
ॐ इयदामननात् ॐ॥ दृष्टवैरूप्यम्। प्रतिक्रियाविरोधश्च॥
नचैकस्मादेको विशिष्टो दृष्ट एवेति प्राणाद् विशिष्टजीवाभावे दृष्टवैरूप्यमिति दोषः। “यः सर्वमवजानीयादृते देवं नारायणं देवीं च परमां श्रियं स प्राणानवरुद्ध्येमं मन्त्रमावर्तयीत। आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः। घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेमेति। स ह्येषां भूतानां वरिष्ठो नह्येतस्मात् कश्चनोपरि विना देवं नारायणं देवीं च परमां श्रियम्” इति प्रतिक्रियाविधानादिविरोधात्॥ २०॥
ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ॥ उन्नतिः। प्रतिसन्धिः॥
“अस्ति भगवः प्राणाद् भूयः” इति प्रश्नाद्यभावात् प्राणस्यैवोन्नतिप्रतीतेर्न विष्णोरपि ततः परत्वमिति न मन्तव्यम्। “एष तु वा अतिवदति” इति विशेषणात् प्रश्नप्रतिवचनप्रतिसन्धानोपपत्तेः॥ २१॥
ॐ सैव हि सत्यादयः ॐ॥ अनुक्तिः। अनूनता॥
नच सत्यादीनाभेदानुक्तेरन्यत्वम्। “सत्यं पूर्णं विज्ञानं पूर्णं कृतिः पूर्णा निष्ठा पूर्णा श्रद्धा पूर्णा मतिः पूर्णा सुखं पूर्णं भूमा पूर्णोऽहं पूर्ण आत्मा पूर्णो नात्र किञ्चिदूनं पूर्णमेवाधस्तात् पूर्णमुपरिष्टात् पूर्णं मध्यतः पूर्णं सर्वतः। तदेष श्लोको भवति। पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥” इति श्रुतेः सर्वेषामनूनत्वात्। “सत्याद्या अहमात्मान्ता यद्गुणाः समुदीरिताः। तस्मै नमो भगवते यस्मादेव विमुच्यते॥” इति वचनाच्च॥ २२॥
ॐ कामादितरत्र तत्र चायतनादिभ्यः ॐ॥ अप्रयत्नत्वम्। संस्कारपाटवम्॥
नच श्रियोऽप्रयत्नत्वादनुपासनं संसारो वा। नित्यं भगवदुपस्थितेरतिप्रियत्वात् संस्कारपाटवान्नित्योपासोपपत्तेश्च ॥ २३॥
ॐ तन्निर्धारणार्थनियमस्तदृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॐ॥ दृढबन्धः। नियतिः॥
नच बन्धदार्ढ्ये श्रवणादीनामफलता, अन्यथोपासां विनैव श्रवणादिज्ञानमात्रेण मुक्तिरिति दोषः। “श्रवणादित्रयोत्पन्नदृष्ट्यैव स्वेच्छया हरिः। प्रसन्नो मुक्तिदो नित्यमन्यथा न कथञ्चन॥” इतीश्वरेच्छानियतिश्रुतेः॥ २४॥
ॐ प्रदानवदेव हि तदुक्तम् ॐ॥ पराभवः। वस्तुवैभवम् ॥
नच गुर्वधीनत्वे ज्ञानमोक्षयोर्ज्ञानिनोऽपि कदाचित् गुरुकोपाज्ज्ञानपराभावेनामुक्तिप्रसङ्गान्न गुर्वधीनत्वमिति। “ज्ञानिनो गुरुशापेऽपि नामुक्तिः संसृतेः क्वचित्। आनन्दह्रासदोषेण सैव मुक्तिर्विदुष्यति॥” इति वचनान्मुक्तिदूषणेनैव गुरुकोपादेः कृतार्थत्वात्, ज्ञानिनो ब्रह्मवस्तुवैभवेन मुक्तिः स्यादिति गुरोर्वरेण वा मुक्त्युपपत्तेः ॥ २५॥
ॐ लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ॐ॥ पुंसाम्यम् । विशेषोक्तिः॥
शिष्यस्यापि पुरुषत्वसाम्याद् धारणादेस्तत्प्रयत्नस्य न दौर्बल्यमिति न मन्तव्यम्। “गुरुप्रसादो बलवान्” इत्यादिविशेषोक्तेः ॥ २६॥
ॐ पूर्वविकल्पः प्रकरणात् स्यात् क्रियामानसवत् ॐ॥ आत्मसन्त्यागः । समानत्वम्॥
नचोत्तमगुरुस्वीकारार्थत्वेन प्राप्तसन्त्यागनिमित्तदोषः। तत्र दोषे मानाभावात्॥ २७॥
ॐ विद्यैव तु निर्धारणात् ॐ॥ कारणानिर्णयः । प्राधान्यम्॥
नच विद्या कर्म वा संसारनिवृत्तिकारणमिति कारणानिर्णयः। “नान्यः पन्था अयनाय विद्यते” इत्यवधारणात् विद्यावचनस्य प्राधान्यात्॥ २८॥
ॐ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॐ॥ भ्रमः। प्रीतिः॥
नच विद्यावचनस्य प्राधान्यं भ्रमः। “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः” इति भगवतस्तस्मिन्नेवाभ्यधिकप्रीतिवचनात्। “यमेवैष वृणुते तेन लभ्यः” इति तत्प्रीतेरेव मोक्षवचनाच्च॥ २९॥
ॐ अनुबन्धादिभ्यः ॐ॥ विशेषदर्शिता । आगमः॥
नच कस्यचिद् विशेषज्ञानोपपत्तेर्भक्त्यादिकं विना मुक्तिः। “भक्त्यैवैनं जानाति भक्त्यैवैनं पश्यति भक्त्यैव बन्धाद् विमुच्यते भक्त्यैवानन्दीभवति” “यमेवैष वृणुते तेन लभ्यः” “भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान् हरिः” इत्याद्यागमात्॥ ३०॥
ॐ प्रज्ञान्तरपृथक्त्ववद् दृष्टिश्च तदुक्तम् ॐ॥ आलापः । सुस्थिरत्वम् ॥
नच “दृष्ट्वैव तं मुच्यते नापरेण” “यावान् यश्चास्मि तत्त्वतः, ततो मां तत्त्वतो ज्ञात्वा” इत्यादिसामान्यालापमात्रेण दर्शनस्याविशेषः। “यथायोग्यमेवैष आत्मानं दर्शयति यथाधिकारं देवेभ्योऽतो ब्रह्मैवैनमभिपश्यत्यथात्मैवात्मानमभिपश्यति सुस्थिरो ह्येष नियमः” इति दर्शनविशेषनियमस्य सुस्थिरत्ववचनात्। “यावान् यश्चास्मि” इति ब्रह्मण एव ज्ञानोपपत्तेः। “यावान्” इत्यत्रापि सामान्यविशेषज्ञानोपपत्तेश्च॥ ३१॥
ॐ न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॐ॥ गुणसाम्यम् । कृतप्राप्तिः॥
नच भगवतः सर्वत्र गुणसाम्याद् यस्यकस्यापि रूपस्य दर्शनात् सर्वेषां मुक्तिः। “समोऽपि भगवान् स्वबिम्बदर्शन एवैनं मोचयति। यथा समेष्वपि कर्मसु स्वकृतमेवैनं भोजयति॥” इति श्रुत्युक्तस्वकृतप्राप्तिदृष्टान्तात्॥ ३२॥
ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्वनुबन्धः ॐ॥ पृथग्दृष्टिः। अनादिगुणविस्तरः॥
“भक्तिरेवैनम्” इति भक्तेरेव पृथङ्मोचकत्वदर्शनान्नेशकृत्यमिति न मन्तव्यम्। “अनादितो गुणाः सन्तो भक्त्याद्या नह्यमूमुचन्। जीवं तद्गुणसुव्यक्तिं कृत्वैनं मोचयेद्धरिः। किञ्चिन्न मोचयेद् वाऽसौ स्वातन्त्र्यं तेन तस्य हि। भक्तिवाक् करणत्वेन सावकाशेशवागथ। भक्त्यैनं मोचयेद् विष्णुरिति मानत्वमेष्यति॥” इति ब्रह्मतर्कवचनादनादिगुणविस्तरे सत्यप्यव्यक्त्यादिना तदिच्छां विना मोक्षाप्राप्तेः॥ ३३॥
ॐ एक आत्मनः शरीरे भावात् ॐ॥ अगम्यवर्त्म । साधनोत्तमत्वम्॥
नचांशिमार्गस्यांशेनागम्यत्वात् तयोर्भेदः। साधनोत्तमस्यादृष्टस्यांशिकृतस्यांशेन भुज्यमानत्वात्। अन्यथाऽदृष्टं विना शरीरानुपपत्तेः ॥ ३४॥
ॐ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॐ॥ साधनम्। नानादृष्टिः॥
नच गुणान्तरसन्धानस्य क्वापि दर्शनमात्रेण समाधिकाङ्गदेवतान्तरगुणा अप्यङ्गदेवतान्तर उपसंहर्तव्याः। नानागुणत्वेन तेषां श्रुतिदृष्टेः। अनिषिद्धगुणानां वाक्यान्वयन्यायेनोपसंहारात् “न शाखासु” इत्यादिविशेषः। उत्तमेष्वधमगुणापेक्षया “मन्त्रादिवद् वा” इति॥ ३५॥
ॐ भूम्नः क्रतुवज्ज्यायस्त्वं तथाच दर्शयति ॐ॥ इष्टफलम् । शिष्टिः॥
नच भूमगुणस्योपासकं प्रति विशेषाभावेऽपि तत्तदिष्टगुणानुसारेण फलोपपत्तिरित्यविशेषः। “भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते” इत्यादिशिष्टेः॥ ३६॥
ॐ नाना शब्दादिभेदात् ॐ॥ अकल्पना । अनूनता ॥
नच भूमगुण उपासकानामेकप्रकारेणैव प्रतीयत इत्यङ्गीकार्यम्, विशेषस्य कल्पनोपपत्तेरिति न मन्तव्यम्। “यावानेवाधिकारेषु विशेषोऽनून एव हि। ततो भूमत्वदृष्टौ च ब्रह्मादीनां पृथक्पृथक्॥” इति विशेषस्यानूनत्ववचनात्॥ ३७॥
ॐ विकल्पो विशिष्टफलत्वात् ॐ॥ शुद्धवैरूप्यम् । अविघ्नत्वम्॥
नच शुद्धमोक्षसाधनवैरूप्यान्मोक्षसाधनत्वेनोपदिष्टं विना विष्णावेवोपासनान्तरस्याकर्तव्यता। अविघ्नतासाधनत्वात्॥ ३८॥
ॐ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ॥ अङ्गत्वम्। अविरोधश्च॥
नच काम्यसाधनानामपि गुणानामङ्गत्वादेवोपसंहर्तव्यतानियमः। अनुपसंहारे विरोधाभावात्। काम्यानामनियताङ्गत्वाच्च। “अर्थादिधर्मसिद्धौ हि न नियत्याऽङ्गमिष्यते” इति ब्रह्मतर्के॥ ३९॥
ॐ अङ्गेषु यथाऽऽश्रयभावः ॐ॥ अविशेषदृष्टिः । गुणवैषम्यम्॥
नच देवादीनामिति तत्रैव विशेषवचनाभावात् “ब्रह्मा शिरसि ललाटे रुद्रः” इत्यादीनां नावश्योपास्यता देवादीनामेव। “ध्यायेदङ्गेष्वङ्गदेवताः परस्य विशिष्टा हि गुणा मुक्तौ देवानां भवन्ति ते हि तादृशास्ते हि हरेरनुरूपाः” इति श्रुतेर्गुणवैशेष्यात्॥ ४०॥
ॐ न वाऽतत्सहभावश्रुतेः ॐ॥ क्रिया। आगमः॥
नच क्रियात्वादुपासनाया अग्निष्टोमादिवत् प्रतिशाखं वक्तव्यता। “उपासना यजनं चेति साम्यं तत्तद्विशेषान् संहरेत् सर्वतश्च। तथा कर्तॄणां तत्फलानां विशेषाद् व्यर्था हि शाखा अन्यथैवं च सार्थाः॥” इत्युपासनाविशेषाणां त्वधिकारिविशेषाणां चागमेऽवगमात्॥ ४१॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य तृतीयः पादः॥
चतुर्थः पादः
[न्यायमाला (अनुव्याख्याने ४-२-१२४-५)- औदार्यमुच्चावचशक्तिरात्मस्वरूपदार्ढ्यं च निजस्वभावः। स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे॥ व्यवस्थितिस्त्वविशेषः स्थितिश्च निषेधसामान्यविधिक्रियाणाम्। विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरोधहेतवः॥]
ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ॥ औदार्यम्। व्यवस्थितिः॥ (ॐ असार्वत्रिकी ॐ॥ औदार्यम्। व्यवस्थितिः॥)
ॐ॥ नच ज्ञानिन औदार्यान्मोक्षादन्यफलेच्छाया एवासम्भवात् तदुक्तिः प्रशंसामात्रमिति वाच्यम्। प्रायशो न सम्भवत्येव। कस्यचित् सौभर्यादिवत् भवति चेत्, ज्ञानेनैवाशेषमीप्सितं भवतीति व्यवस्थोपपत्तेः॥ १-२॥
ॐ नाविशेषात् ॐ॥ उच्चावचशक्तिः । अविशेषः॥
नचाधिकारे समेऽपि तेषामेवोच्चावचशक्तियोगात् फलभेदोपपत्तेरधिकारविशेषकल्पनं व्यर्थम्। भक्त्याद्यधिकारानुसारेण शास्त्रात् फलप्राप्तेः सर्वेषामविशेषात्। दृश्यमानत्वाच्च भक्त्याद्यधिकारतारतम्यस्य। उच्चावचशक्तेरपि तन्निबन्धनत्वात्॥ ३॥
ॐ स्तुतयेऽनुमतिर्वा ॐ॥ आत्मस्वरूपदार्ढ्यम् । स्थितिः॥ (ॐ सर्वथाऽपि तु त एवोभयलिङ्गात् ॐ॥ आत्मस्वरूपदार्ढ्यम् । स्थितिः॥)
नच ज्ञानिनामात्मस्वरूपदार्ढ्यात् सत्प्रवृत्तिविपरीतप्रवृत्योरविशेषः। “एतावतोऽधिका नास्ति प्राप्तिरित्यन्ततः स्थिता। या स्थितिस्तां समाप्नोति यथाशक्ति प्रयत्नतः। विपरीतप्रवृत्तेस्तु तस्य ह्रासोऽधिकं भवेत्॥” इति वचनात् स्थितिविशेषोपपत्तेः॥ ४-५॥
ॐ नचाधिकारिकमपि पतनानुमानात् तदयोगात् ॐ॥ निजस्वभावः । निषेधसामान्यविधिक्रियाणां विभक्तता॥
नच सर्वजीवानामेकप्रकार एव निजस्वभावश्चैतन्यमिति फलेऽप्यविशेषः। निषेधसामान्यविधिक्रियाणां विभक्तत्वात्। “नादेवो देवपदमन्विच्छेदन्विच्छन् यात्यधरं तमः। न देवः स्वीयं पदमन्विच्छन् विदुष्यति। तदेव ह्यस्य स्वम्” इति निषेधविभागः। “स्थिरं ज्ञानं स्थिरो हरावभिषङ्गः स्थिरमोजो बलं विराग एतद्धि सामान्यं देवानाम्। अन्येषामस्थिराण्येतानि सर्वाण्यथापि यथायोगं विनेयानि” इति सामान्यविभागः। “ज्ञानदानमेव देवानां विहितं तप एवर्षीणामाचार एव मनुष्याणां तदविरोधेनान्यानि करणीयानि” इति विधिविभागः। “चरन्ति देवा विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्याः” इति क्रियाविभागः॥ ६॥
ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ॥ अस्वातन्त्र्यम् । अत्वरयैव सिद्धिः॥
नच स्वातन्त्र्याद् देवानामेव ज्ञानादिफलम्, न किञ्चिदन्येषामिति वाच्यम्। “त्वरयैव मनुष्याणां सिद्धिरत्वरयैव तु। देवानां तत्प्रसादेन मुक्त्या एव सतां नृणाम्॥” इति मानुषमुक्त्यर्थमेव देवानामत्वरया सिद्धिश्रुतेः॥ ७॥
ॐ कृत्स्नभावात् तु गृहिणोपसंहारः ॐ॥ आपूर्णविशेषयोग्यता । अत्वरयैव सिद्धिः॥
नच गृहस्थानामशेषकर्मविशेषयोग्यत्वादाधिक्यं मुक्तौ। “त्वरयैव गृहिणः साधयन्ति मुक्तिमत्वरयैव यतयस्तेभ्यश्चात्वरया देवास्तेषु च ब्रह्मा। तदेष श्लोकः। शतं परानभिपश्यैव देवं ब्रह्माऽचरद् दुश्चरं यत् तपोऽग्र्यम्। विहाय रागं मनसश्चोपरिष्ठं ततोऽभवत् परमेष्ठी स मुक्ताविति। यो हि त्वरया साधयेत् स मन्दं सुखमाप्नुयात्। यो ह्यत्वरया स महत्॥” इति श्रुतेर्गृहिभ्यो यतीनां तेभ्यो देवानामत्वरया सिद्धेः। बहुकालसाधनाद् बहुकर्माधिकारमात्रस्य दुर्बलत्वात्॥ ८॥
ॐ अनाविष्कुर्वन्नन्वयात् ॐ॥ आपूर्णविशेषयोग्यता । अत्वरयैव सिद्धिः॥
नचाविष्कारेण कथनादशेषतोऽपि योग्या ज्ञानिनो भवन्तीत्यास्थानचत्वरादिषु स्थित्वैव प्रकथनीयम्। नह्येवं त्वरमाणे सिद्धिभर्वति। अयोग्यानामपि श्रवणप्रसङ्गात्। तस्माद् विचार्य योग्यानामेवात्वरयैव कथयित्वा सिद्धिर्भवति। “त्यक्त्वा त्वरां ब्रह्मविद्यां वदेत जनाय योग्याय सदैव विद्वान्” इति श्रुतेः “मा न स्तेनेभ्यः” इत्यादेश्च॥ ९॥
ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ॥ आपूर्णविशेषयोग्यता । अत्वरयैव सिद्धिः॥ (ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ॥ आपूर्णविशेषयोग्यता । अत्वरयैव सिद्धिः॥)
नच विरोधाभावात् साधनानुष्ठानजन्मन्येवापरोक्षज्ञानं मुक्तिश्चेति नियमः। प्रतिबन्धे सति तन्निरासेनात्वरयैव सिद्ध्युपपत्तेः। “यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद् योगमेवान्ववेक्ष्य” इत्यादिश्रुतेः। “अनेकजन्मसंसिद्धस्ततो याति परां गतिम्” इति भगवद्वचनम् ॥ १०-११॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य चतुर्थः पादः॥
॥ समाप्तश्चायमध्यायः॥
फलाध्यायः
प्रथमः पादः
[न्यायमाला (अनुव्याख्याने ४-२-१२६-७)- सुशक्यता शश्वदतिप्रसिद्धिर्विवेकविन्यासविचारसञ्ज्ञाः। नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे॥ महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम्। विशेषकार्यं कृतसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे॥]
ॐ आवृत्तिरसकृदुपदेशात् ॐ॥ सुशक्यता। महाफलत्वम्॥
ॐ॥ नच श्रवणाद्यनवृत्त्याऽपरोक्षज्ञानोदये सर्वेषां सुशक्यत्वमिति गुणः। महाफलत्वात् सर्वेषामशक्यताया एवोपपन्नत्वात्। अन्यथा सर्वसुशक्यस्यैव साधनतया सर्वेषां मोक्षापत्तेः॥ १॥
ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ॥ शस्वदतिप्रसिद्धिः। प्रविविक्तता॥
नच शश्वदतिप्रसिद्धत्वादात्मशब्दोदितं स्वामित्वं न नित्यश उपास्यम्। अन्येभ्योऽधिकफलत्वेन सविशेषत्वादात्मत्वस्य॥ २॥
ॐ न प्रतीके नहि सः ॐ॥ विवेकः। सन्धिग्रहः॥
तर्हि विशेषवत्त्वादेव प्रतीकमपीश्वर इत्युपास्यमिति न। यत्र सन्धिरुपपत्तिर्विद्यते तस्यैव ग्राह्यत्वात्। अन्यस्येशत्वग्रहणस्य मिथ्याज्ञानत्वादेवानुपपत्तेः॥ ३॥
ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ॥ विन्यासः साधनम्॥
नच प्रतिदिनं विविधगुणन्यासेन भगवत्प्रीत्युपपत्तेर्न ब्रह्मतादृष्टिनियम इति वाच्यम्। अशेषगुणान्तर्भावेन तस्यैवाधिकसाधनत्वात् ॥ ४॥
ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ॥ विचारः। आप्तकृत्यम्॥
नच विविधस्थानेष्वादित्यादीनां चरणाद् विष्ण्वङ्गेष्वादित्यादिमतिनियमो नास्तीति वाच्यम्। तत्कृतावेव कृत्यस्याप्तत्वादादित्यादीनाम्॥ ५॥
ॐ आसीनः सम्भवात् ॐ॥ सञ्ज्ञा। विशेषकार्यम्॥
नच ज्ञानस्य सम्यक् तद्विषयत्वमात्रेण पूर्तेरासनादिना न कार्यमिति वाच्यम्। आसनादिना निश्चलत्वादिविशेषकार्योपपत्तेः॥ ६॥
ॐ आ प्रायणात् तत्रापि हि दृष्टम् ॐ॥ नानाप्रवृत्तिः। विशेषकार्यम्॥
नचान्यस्यापि साधनस्य कर्तुं शक्यत्वान्न यावन्मुक्ति ध्यानं कार्यमिति वाच्यम्। ध्यानं विनाऽपरोक्षज्ञानाख्यविशेषकार्यानुपपत्तेः॥ ७॥
ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ॥ कृतकृत्यता। कृतसंस्थितिः॥
नच ज्ञानोदयेऽशेषकर्मक्षये कृतकृत्यत्वात् तदैव मुक्तिः, न चेत् कर्माक्षय इति वाच्यम्। प्रारब्धस्यैव कृतस्य यावद्भोगं संस्थितेः। “कर्माणि क्षपयेद् विष्णुरप्रारब्धानि विद्यया। प्रारब्धानि तु भोगेन क्षपयन् स्वं पदं नयेत्॥” इति वचनाच्च॥ ८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य प्रथमः पादः॥
द्वितीयः पादः
[न्यायमाला (अनुव्याख्याने ४-३-१२८-९)- व्यामिश्रता कार्यकरत्वमर्थकॢप्तिः सुदार्ढ्यं परतन्त्रता च। समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः॥ विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमा विशेषः। कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः॥]
ॐ वाङ् मनसि दर्शनाच्छब्दाच्च ॐ॥ व्यामिश्रता। विशेषसाम्यश्रुतिः॥
ॐ॥ नच “वाक् पूर्वरूपं मन उत्तररूपम्” “मनः पूर्वरूपं वागुत्तररूपम्” इत्युक्तेर्व्यामिश्रत्वादनिर्णीतिरेव। “वाक् पूर्वरूपं मन उत्तररूपम्” इति वाचः पूर्ववर्णदेवतात्वनिर्देशमात्रेण “मनः पूर्वरूपम्” इत्यनेन साम्यम्। “मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति” इति युक्तितो विशेषो मनःपूर्वकत्वस्यैव श्रुत इति प्राधान्यं मनस एवेति ज्ञायते। “सृष्टौ च विलये चैव सदा पूर्वप्रवर्तने। नियन्तृत्वे च वचसो मनोऽधीशं शिवो हि तत्॥” इति श्रुतेश्च॥ १॥
ॐ तन्मनः प्राण उत्तरात् ॐ॥ कार्यकरत्वम्। आढ्यता॥
नच मनःपूर्वकत्वनियमादशेषदृष्टादृष्टव्यापाराणां तस्य प्राणादनूनता। “इन्द्रियस्थैः स्वरूपैस्तु ज्ञानानि जनयत्यसौ। मनःस्थेन विशेषेण कार्मैः कर्मकृदेव च। पृथक्स्थितेन रूपेण जीवं धारयति प्रभुः। जीवस्थितेन रूपेण वेदयत्यहमित्यपि। प्राण एको वशी नित्यं बाह्यान्तःकरणेश्वरः। तान्येतान्यवशान्येव तथाऽपि कृपयैव सः। पृथक्छक्तोऽपि तद्गैस्तु स्वरूपैस्तद्गकार्यकृत्। तस्येशो भगवान् विष्णुरेवमेष यथाऽन्यगः॥” इत्यादिश्रुतेः प्राणस्यैवाढ्यतावगमात्॥ २॥
ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ॥ कार्यकरत्वम्। आढ्यता॥
“सोऽध्यक्षे” इत्यस्याप्येवमेवाशङ्का परिहारश्च। श्रुतिबाहुल्यमेव शङ्कायां परिहारे च विशेषहेतुः॥ ३॥
ॐ भूतेषु तच्छ्रुतेः ॐ॥ अर्थकॢप्तिः। समानलोपः॥ (ॐ नैकस्मिन् दर्शयतो हि ॐ॥ अर्थकॢप्तिः। समानलोपः॥)
नच भूतानामुत्पत्तिक्रमवैपरीत्येन लयोक्तेः, मुक्तिलययोर्विशेषाभावाच्च, एकस्मिन्नेव भूते सर्वेषां लयोऽर्थतः कॢप्त इति वाच्यम्। तत्तद्भूतोद्भवत्वात् तत्तद्देवानां तत्समानानां च विशेषवचनाभावे स्वसमानलयस्थान एव लयोपपत्तेः। विशेषश्रुतेश्च॥ ४-५॥
ॐ समना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॐ॥ सुदार्ढ्यम्। महिमा॥ (ॐ तदपीतेः संसारव्यपदेशात् ॐ॥ सुदार्ढ्यम्। महिमा॥)
नच प्रकृतेः संसाराभावादिनेशेनाप्यन्यथाकर्तुमशक्यत्वेन सुदृढत्वात् सर्वसाम्यमेवेश्वरेण, न चेत् संसारित्वमिति युक्तम्। ईश्वरस्य महामहिमत्वात्। नित्यमसंसारित्वस्य नित्यं तदनुग्रहेणैवोपपत्तेः। “सदाऽनित्यतयाऽनित्यं नित्यं नित्यात्मना यतः। नित्ययैव स्वशक्त्येशो नियामयति नित्यदा॥” “द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः। प्रकृतिः पुरुषश्चैव न सन्ति यदुपेक्षया॥” इत्यादिश्रुतेश्च॥ ६॥
ॐ तानि परे तथा ह्याह ॐ॥ परतन्त्रता। विशेषः॥
नचान्यदेवादीनां प्राणाधीनत्वात् तत्प्राप्तिनियमात् परप्राप्तिर्नास्त्येव। “प्राणं प्राप्य परं देवास्तदन्ये चैव तद्गताः। प्राप्नुवन्ति परं देवं वसन्ति च यथासुखम्॥” इति विशेषश्रुतेः॥ ७॥
ॐ अविभागो वचनात् ॐ॥ समानधर्मः। कृतार्थता॥
नच सत्यसङ्कल्पत्वादेरीश्वरसङ्कल्पाद्यनुसारित्वनियमे संसारसमानधर्मत्वं मुक्तेरिति वाच्यम्। कृतार्थत्वेनैव विशेषोपपत्तेः। “अपूर्णतादिभावो वा दुःखं वा नास्ति किञ्चन। मुक्तस्य पारतन्त्र्येऽपि तारतम्येऽप्यतः सुखी॥” इति च श्रुतिः॥ ८॥
ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ॥ कृतशेषता। शश्वदनुवृत्तिः॥
नच प्रारब्धकर्मशेषवत्त्वादुत्क्रान्तावविशेषो ज्ञानिनः। ज्ञानोदयानन्तरं सर्वदा ज्ञानफलस्यानुवृत्तेः। “प्रारब्धकर्मशेषस्तु विरजातरणावधिः। स्वोदयात् फलदं ज्ञानमादेहं कर्म वाऽऽरवेः तथाऽपि प्रकृतेर्बन्धो ब्रह्मणा सह भिद्यते॥” इति श्रुतिः। “शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुते” “स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव पाप्मना विनिर्मुक्तः” “स प्राप्नोति विरजां नदीं तत्सुकृतदुष्कृते विधूनुते” “ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे” इति च। “अन्यथाभावनियमोऽनृतता कार्यकारणे” इति च॥ ९॥
ॐ योगिनः प्रति स्मर्येते स्मार्ते चैते ॐ॥ लोकोपमा। शश्वदनुवृत्तिः॥
नच कृष्यादिलौकिकसाधनस्य फलस्मरणानपेक्षत्वात् स्वर्गमोक्षयोरपि तथात्वमिति वाच्यम्। “क्रियानुवृत्तिर्लौकिके साधने तु मनोनुवृत्तिर्वैदिके साधने स्यात्। फलं भवेत् सर्वथेत्येव तस्मात् स्मरेत् सदा निश्चितत्वेन विद्वान्॥” इति श्रुतेस्तदनुसार्यनुवृत्तेर्लौकिकवैदिकयोः साम्यात्। अतोऽत्र फलानुस्मरणं लवनादिकृष्यनुवृत्तिवद् द्रष्टव्यम्। वचनप्रामाण्यात्॥ १०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य द्वितीयः पादः॥
तृतीयः पादः
[न्यायमाला (अनुव्याख्याने ४-३-१-२)- —- —- —- —- —- —- —- सुक्रमविक्रमौ च। सान्तानिकप्राप्तिरभीष्टता च सौकर्यमित्यन्यमतस्य तर्काः॥ विशेषसम्प्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः। सिद्धान्तनिर्णीतिकराः —- —- —- —- —- —- ]
ॐ अर्चिरादिना तत्प्रथितेः ॐ॥ सुक्रमः। विशेषसम्प्राप्तिः॥ ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ॥ सुक्रमः। विशेषसम्प्राप्तिः॥ ॐ तटितोऽधि वरुणः सम्बन्धात् ॐ॥ सुक्रमः। विशेषसम्प्राप्तिः॥ ॐ आतिवाहिकस्तल्लिङ्गात् ॐ॥ सुक्रमः। विशेषसम्प्राप्तिः॥
ॐ॥ नच तत्रतत्र मार्गस्यान्यथोक्तेरधिकारिभेदेन पृथङ् मार्गसुक्रमोपपत्तिरिति वाच्यम्। “सर्वे वा एत उत्क्रामन्ति तेऽर्चिषमेवाभिसंयन्ति ततो वायुं ततोऽहः पूर्वपक्षमित्येष उ एव ब्रह्मपथः। द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम्। ताभ्यामिदं विश्वमेजत् समेति यदन्तरा पितरं मातरं च॥” इति विशेषश्रुतितो ज्ञानिनामेकमार्गस्यैव प्राप्तेः। “एष एव ब्रह्मपथः” इत्यवधारणविरोधादन्यथा। “एजत्” इति वैदिकानुष्ठानवत उक्तेर्नाधोगतिविरोधः। “पुनरावर्तिनो ये तु तेषां धूमपथो ध्रुवः। अन्येषामर्चिरादिश्च तद्भेदो मध्यसंस्थितिः॥ धूमार्चिरादिदेवेभ्यः प्राप्यानुज्ञां तु मध्यगाः। विहृत्य स्वेष्टदेशेषु तदूर्ध्वं याति वाऽधरम्॥ अत्यल्पानामविज्ञाताऽप्यनुज्ञावर्तिनां भवेत्। पुन्द्वारेण स्वदृष्ट्या वा यथायोग्यं विमुच्यताम्॥ अतो न मार्गभेदोऽस्ति नहि मार्गोऽत्र सम्भवः। प्रेतत्वं चाधरो मार्गः पापजत्वात् तयोः पृथक्॥” इति स्मृतेश्च॥ १-४॥
ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ॥ विक्रमः। उरुत्वम्॥
नच “सोमादग्निमग्नेरिन्द्रम्” इति सोमादग्नेरवमस्यापि प्राप्तेः प्रधानवायोरप्यवरोऽन्यः प्राप्योऽस्त्विति वाच्यम्। उत्तमत्वात् तस्यैव ब्रह्मप्रापयितृत्वशक्तेः। “वायुरेव ब्रह्म गमयति तस्य ह्येषा शक्तिः। नह्यन्यो ब्रह्म गमयति प्रियो ह्येनद् गमयति। नह्यन्यः प्रियो ब्रह्मणः” इति श्रुतेः। मार्गे त्ववरस्यापि यथामार्गं पश्चात् प्राप्तिर्भवति लोकवत्। नहि राजानं यः कश्चित् प्रापयति कॢप्तमतिप्रियं चापहाय ॥ ५॥
ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ॥ सान्तानिकप्राप्तिरभीष्टता सौकर्यम्। आप्तिः क्रमानुरागः कथितानुवृत्तिः॥
नच चतुर्मुखमुक्तिपर्यन्तं सन्ततत्वनियमात् बन्धस्य तावद् भगवत्प्राप्तिर्नास्तीति नियमः। “यान्ति देवं परं केचित् पूर्वं केचिल्लये विभुम्। योग्यतातारतम्येन विशेषोऽयमपीष्यते॥” इति श्रुतेस्तथा प्राप्तत्वात्। नच परब्रह्मण एव ब्रह्मशब्दमुख्यार्थत्वेन प्रथमप्राप्तत्वादपोहायुक्तेस्तस्यैव प्राप्तिनियमः। “यान्ति देवं परं केचित्” इति प्रमाणप्राप्तत्वादेव। नच परप्राप्तिर्यस्याभीष्टा तस्य तत्प्राप्तिरिति नियमः। “क्रमानुरागी भगवान् क्रमात् पुम्भिरवाप्यते। अतः क्रमात् समृद्धे तु ज्ञाने ब्रह्मलये नरैः॥ प्राप्यते नियमेनैव कैश्चिदेवाप्यते मृतौ॥” इति भगवतः क्रमानुरागित्वश्रुतेः। नच बहुधा श्रुतेर्यथासौकर्यं चतुर्मुखस्य परस्य वा प्राप्तिरिति वाच्यम्। श्रुत्युक्तानुवृत्तेरेव न्याय्यत्वात्। “सप्रतीकाश्चतुर्मुखमप्रतीकाः परममु हैते गच्छन्त्यागच्छन्ति च चतुर्मुखात् परमं पराच्चतुर्मुखं यावद् विलयमथ सह चतुर्मुखेन विमुच्यन्त आनन्दिनो भवन्ति” इति हि श्रुतिः। अन्तर्भेदाधिकरणत्वात् समुदायोक्तिः॥ ६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य तृतीयः पादः॥
चतुर्थः पादः
[न्यायमाला (अनुव्याख्याने ४-४-१-२)- अतिक्रमोक्तिः कृतिरर्थलाभः परा गतिः पारगतिस्तदोकः। समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षे॥ सामान्यरूपं प्रतिभानमुक्तिराश्चर्यताऽकृत्रिमताऽस्तदोषः। विशेषकॢप्तिः कृतनिश्चयश्च माहात्म्यमित्येव सुनिर्णयार्थाः॥]
ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ॥ अतिक्रमोक्तिः। सामान्यरूपम्॥
ॐ॥ नच “एतं सेतुं तीर्त्वा” इत्यत्रातिक्रमोक्तेर्मुक्तो ब्रह्म तीर्त्वा गच्छति। तरतीति सामान्यप्रतीतेः। ब्रह्म तीर्त्वेदं गच्छतीति विशेषानुक्तेः। “इमां घोरामशिवां नदीं तीर्त्वा ब्रह्म सम्पद्यते” इति विशेषोक्तेश्च, एतं सेतुं प्रत्यन्यत् तीर्त्वेत्यन्यथोपपत्तेः ॥ १॥
ॐ मुक्तः प्रतिज्ञानात् ॐ॥ कृतिः। प्रतिभानम्॥
नच कृतिमत्त्वादमुक्त एवोच्यते। “स तत्र पर्येति” इत्यादौ “स्वेन रूपेणाभिनिष्पद्यते” इति मुक्तस्य स्पष्टं प्रतिभातत्वाच्छ्रुतौ। “स तत्र पर्येति” इति श्रुत्यैक्यप्रतीतेश्च। एवम्भूतस्यापि प्रकरणत्वं प्रकल्प्य श्रुतिबाधाङ्गीकारे सा श्रुतिरप्येवं विभज्य किं योजयितुं न शक्यत इति श्रुतेरेवाभावप्रसङ्गः। “सत्यं ज्ञानम्”🔗तैत्तिरीयोपनिषत् २/१ इत्यादावपि ‘सत्यम्’ इत्यस्य ‘अन्नम्’ इत्यनेनान्वय इत्यादिप्रसङ्गात्॥ २॥ ॐ आत्मा प्रकरणात् ॐ॥ अर्थलाभः। उक्तिः॥
नच परञ्ज्योतिःशब्देनादित्यज्योतिरङ्गीकारे “स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्तः”🔗षट्प्रश्नोपनिषत् ५/६ इत्यादिनैकार्थतेति प्रयोजनम्। “अथ किमुच्यते परञ्ज्योतिरित्यात्मैव परञ्ज्योतिः स हि परमो द्योतते जीवाच्चाजीवाच्च तस्मादाहुः परञ्ज्योतिरिति। तमेवैष जीवोऽभिसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इति तस्यैव परञ्ज्योतिष्ट्वोक्तेः। सावकाशलिङ्गान्निरवकाशश्रुतेरेव बलवत्त्वात् ॥ ३॥
ॐ अविभागेन दृष्टत्वात् ॐ॥ परा गतिः। आश्चर्यता॥
नच परमगतित्वादीश्वराभुक्ता अपि भोगा मुक्तौ भवन्ति, ईश्वरस्य स्वत एव पूर्णानन्दत्वादभोगस्यापि सम्भवादिति वाच्यम्। “पूर्णानन्दः पूर्णभुक् पूर्णकर्ता पूर्णज्ञानः पूर्णभाः पूर्णशक्तिः। पूर्णैश्वर्याद् भगवान् वासुदेवो विरुद्धशक्तिर्नच दोषस्पृगीशः॥” इत्याश्चर्यतयैव ब्रह्मण उभयोक्तेः। सावकाशोपपत्तिमात्रान्निरवकाशश्रुतियुक्तोपपत्तेरेव बलवत्त्वात्॥ ४॥
ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॐ॥ पारगतिः। अकृत्रिमता॥
नच पारङ्गतत्वान्मुक्तस्य चिन्मात्रदेहोऽपि नास्तीति वाच्यम्। अकृत्रिमत्वात् तस्य देहस्यानपगमात्। “अथ विमुक्तस्य चिन्मात्र एव देहो भवति चिन्मात्राणि करणानि तैरीशानुगृहीतैर्भोगान् भुङ्क्ते” इति श्रुतेः॥ ५॥
ॐ सङ्कल्पादेव च तच्छ्रुतेः ॐ॥ तदोकः। अस्तदोषः॥
नच भगवदोकसि स्थितत्वान्मुक्तस्य तस्याप्योकस्त्वसाम्येन तत्तदुपायसाध्यभोगसाधनत्वं वाच्यम्। निर्दोषत्वात् तदोकसो मुक्तस्य च “सङ्कल्पादेव”छान्दोग्योपनिषत् ८/१/३-६ इति श्रुत्यनुसारेणोपपत्तेः ॥ ६॥
ॐ अत एव चानन्याधिपतिः ॐ॥ तदोकः। अस्तदोषः॥
नच परगृहगतत्वादस्य राजगृहगतस्येव स्वाधमा अपि कदाचिदीशते। निर्दोषत्वादेव मुक्तस्येश्वरस्य तत्रस्थानां मुक्तान्तराणां च राजदोषवद् दोषासम्भवाद् यथायोग्यमेव स्वीकारोपपत्तेः। “मुक्तानां पतयो देवा देवानां च प्रजापतिः। तस्य विष्णुर्नचैवेदं पारावर्यं विनश्यति॥” इति श्रुतिः ॥ ७॥
ॐ अभावं बादरिराह ह्येवम् ॐ॥ समस्तकार्यम्। विशेषकॢप्तिः॥
नच देहभावे तत्कार्यदुःखादिः, तदभावे भोगासम्भव इति दोषः। “देहाभावाच्च भावाच्च निर्भोगित्वं च दुःखिताम्। यान्त्यमुक्ता नोभयं च मुक्तानां वशिता यतः॥” इति श्रुत्यैव विशेषकॢप्तेः॥ ८॥
ॐ जगद्व्यापारवर्जम् ॐ॥ समस्तकार्यम्। विशेषकॢप्तिः॥
नच सङ्कल्पादेव समस्तसम्भवात् सृष्ट्यादिसमस्तकार्यसम्भवः। “व्यापारो जगतो विष्णोर्मुक्तानां तु स्वभोगगः। नहि स्वर्णं शुद्धमपि वह्निकार्यकरं भवेत्॥ अयोग्यशक्तितस्त्वेव नाधिकानन्दसम्भवः॥ नहि कश्चित् सुशक्तोऽपि चकाराचेतनं चितिम्। नच कामस्तथा भूयात् ततः स्यात् सत्यकामिता ॥” इति श्रुत्या विशेषकॢप्तेरेव। “मुक्तानां न जगद्यत्नस्तथाऽपि विबुधाः सदा। मुक्तानां तु नियन्तारस्तेषां ब्रह्माऽस्य वै हरिः॥” इति च विशेषकॢप्तिः॥ ९॥
ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ॥ वशिता। कृतनिश्चयः॥
नच वशित्वान्मुक्तस्यापि वृद्धिः। कृतकृत्यत्वेन निःश्रमत्वादुपासनादावभ्यासपाटवान्निर्दोषत्वात् स्नेहाधिक्याच्च तस्यैव परमसुखरूपत्वेन फलरूपत्वात्। “अभ्यासपाटवात् स्नेहादश्रमत्वादुपासना। भक्तिश्च सुखरूपैव मुक्तानां नतु साधनम्॥” इति श्रुतिः ॥ १०॥
ॐ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॐ॥ विश्वसम्भावना। माहात्म्यम्॥
नचानन्तत्वात् कालस्य त्रयोदशीपञ्चदशीवत् कदाचित् समस्तस्यापि सम्भवान्मुक्तस्यापि पुनरावृत्त्याशङ्केति वाच्यम्। सत्यकामत्वादिमाहात्म्यात्। “अशेषकामसत्यत्वान्मुक्तानां न पुनर्भवः। यस्मात् स कामयेदेव नित्यमात्मापुनर्भवम्॥” इति च श्रुतिः॥ ११॥
उपसंहारः
इत्यनन्तमहान्यायमीमांसापारवारिधेः। उत्तारणात्यशक्त्यैव व्याकुलीकृतचेतसाम्। मन्दानामुपकाराय महतां चोच्छ्रितात्मनाम्। तद्विशेषपरिज्ञानप्रदीप्तार्काभचेतसाम्। विशेषगाढे मनसि नितरामुपकारकः। न्यायप्लवो मयाऽकारि सङ्क्षेपात् प्रमिताक्षरैः। विस्तारोऽप्ययमेव स्यात् तद्विशेषातिवेदिनाम्। व्याख्यानुव्याख्ययोरेव विस्तारो यदुदीरितः। अनल्पचेतसां पुंसामलं विज्ञानसिद्धये। तन्न्यायोद्धरणे(ऽ)शक्ता अपि ह्येतेन सुस्थिरम्। न्यायानुगं मनः कुर्युरिति सङ्ग्रहलालसाः। को नामाशेषविद्योरुसागरोन्मथनोद्धृतम्। साक्षाद् विद्याधिराजेन न्यायामृतमनुत्तमम्। अशेषतोऽधिगच्छेत वन्द्यो वृन्दारकोऽपि सन्। एवं सुदुर्लभेऽप्यद्धा महान्यायपरामृते। केचनाधिक्रियन्तेऽत्र तत्प्रसादानुरञ्जिताः। ब्रह्माद्या अमृते यद्वत् सागरोन्मथनोद्धृते। अहं तु तत्प्रसादैकमहास्पदबलोद्धतः। न्यायमृतार्णवमिममवगाह्य विभज्य च। सङ्क्षेपविस्तराभ्यां च चकार व्याकृतिं कृतिम्। तत्प्रसादमृते कस्य शक्तिः संसारसागरे। मग्नस्य चेतनस्य स्यात् तत्कृतानुकृतौ क्वचित्। नित्यानन्दामृतस्यन्दितत्कटाक्षैधितस्य तु। का नु शक्तिर्भवेन्नैव ततः कोऽत्रातिविस्मयः। विद्याविद्ये सुखं दुःखमशक्तिः शक्तिरेव च। उत्पत्तिस्थितिनाशाश्च विशेषाश्च परेऽखिलाः। चेतनाचेतनस्यास्य समस्तस्य यदिच्छया। स मम स्वकृतेनैव प्रीयतां पुरुषोत्तमः॥
यस्य त्रीण्युदितानि वेदवचने रूपणि दिव्यान्यलं बट् तद् दर्शतमित्थमेव निहितं देवस्य भर्गो महत्। वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु- र्मध्वो यत् तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे॥
नमोऽजभवभूर्यक्षपुरःसरसुराश्रय। नारायणारणं मह्यं मापते प्रेयसां प्रिय॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्यानन्यायविवरणे चतुर्थाध्यायस्य चतुर्थः पादः॥
॥ समाप्तश्चायमध्यायः॥
॥ समाप्तश्चायं ग्रन्थः॥