मङ्गलाचरणम्
ॐ॥ चेतनाचेतनजगन्नियन्त्रेऽशेषसंविदे। नमो नारायणायाजशर्वशक्रादिवन्दित॥
कृत्वा भाष्यानुभाष्येऽहमपि वेदार्थसत्पतेः। कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृतिं स्फुटम्॥
करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम्। प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः॥
समन्वयाध्यायः
प्रथमः पादः
ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ अभेदः। भेदः ॥
जीवव्यतिरिक्तेश्वराभावात्,
तस्य च
स्वप्रकाशत्वात्,
न जिज्ञास्यतेति प्राप्ते ‘अथातो ब्रह्मजिज्ञासा’ इत्याह।
“तद् विजिज्ञासस्व तद् ब्रह्म”🔗तैत्तिरीयोपनिषत् ३/१
इति ब्रह्मशब्देन पूर्णगुणत्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेदः।
“अथ कस्मादुच्यते ब्रह्मेति। बृहन्तो ह्यस्मिन् गुणाः”
इति श्रुतेः॥
१॥
ॐ जन्माद्यस्य यतः ॐ॥ जीववाचित्वम्। लक्षणभेदः॥
न जीव एवायं ब्रह्मशब्दः।
“यतो वा इमानि भूतानि जायन्ते”🔗तैत्तिरीयोपनिषत् ३/१
इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वोक्तेः॥ २॥
ॐ शास्त्रयोनित्वात् ॐ॥ लक्षणसाम्यम्। शास्त्रयोनित्वम्॥
नच रुद्रादौ सममेतल्लक्षणम्।
शास्त्रैकसमधिगम्यत्वात् कारणत्वस्य॥ ३॥
॥ ॐ तत्तु समन्वयात् ॐ॥ शास्त्रयोनित्वम्। समन्वयः॥
नच पाशुपतशास्त्रोदितत्वादि
शास्त्रप्रतिपाद्यत्वे कारणम्।
किन्तु? उपक्रमादिलक्षणः समन्वय एव॥ ४॥
ॐ ईक्षतेर्नाशब्दम् ॐ॥ अवाच्यत्वाभिप्रायः। विशिष्टानुभवः॥
नच तस्यावाच्यत्वं श्रुत्यभिप्रायः।
“सर्वे वेदा यत्पदमामनन्ति”🔗काठकोपनिषत् १/२/१५
इत्यादिश्रुतिसहितानुभवस्य बलवत्त्वात्॥ ५॥
ॐ आनन्दमयोऽभ्यासात् ॐ॥ अवयवत्वम्। अभेदः॥
ॐ अन्तस्तद्धर्मोपदेशात् ॐ॥ अन्याविषयत्वम्। अनन्यथासिद्धलिङ्गम्॥
नच
“ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम्। चतुर्होतारं प्रदिशोऽनुकॢप्तं वाचो वीर्यं तपसाऽन्वविन्दत्॥”तैत्तिरीयारण्यकम् ३/११/२
इत्यादिशब्दानामन्यविषयत्वम्।
श्रुतिसन्देेहेऽनन्यथासिद्धलिङ्गेन निर्णयोपपत्तेः॥ ७॥
ॐ आकाशस्तल्लिङ्गात् ॐ॥ अचेतनत्वम्। अनन्यथासिद्धलिङ्गम्॥ ॐ अत एव प्राणः ॐ॥जीवान्वयव्यतिरेकः। अनन्यथासिद्धलिङ्गम्॥ ॐ ज्योतिश्चरणाभिधानात् ॐ, ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथाहि दर्शनम् ॐ॥ नित्यत्वम्। श्रुतिसहितानन्यथासिद्धलिङ्गानि।
अधिभूताध्यात्माधिवेदगतानामपि शब्दानाम्
अचेतनत्वजीवान्वयव्यतिरेकित्वनित्यत्वेषु
विद्यमानेष्वपि भगवद्विषयत्वमेव।
अनन्यथासिद्धलिङ्गैः,
“तावानस्य महिमा ततो ज्यायांश्च पुरुषः”छान्दोग्योपनिषत् ३/१२/६
इत्यादिशब्दसहितलिङ्गैश्च।
सन्दिग्धश्रुतिलिङ्गाभ्यामुक्ताभ्यामप्यसन्दिग्धयोः
केवलयोरेव
बलवत्त्वम्
॥ ८-११॥
ॐ प्राणस्तथाऽनुगमात् ॐ॥ अनन्यथासिद्धत्वम्। अनन्यथासिद्धोपपत्तिश्च॥
नचानन्यथासिद्धत्वम्
अन्यत्र श्रुतिलिङ्गादेः।
अन्यगतलिङ्गादीनामपि
तद्गतभगवदपेक्षया
युक्तेः॥ १२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य प्रथमः पादः॥
द्वितीयः पादः
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ॥ बहुलिङ्गसहितश्रुतिः। निरवकाशश्रुत्यादयः॥
ॐ॥ बहुलिङ्गसहितश्रुतेरपि सावकाशाया निरवकाशश्रुत्यादीनामेव बलवत्त्वम्।
बहवो
ह्यत्रादित्यशब्दाः।
क्षित्यादिषूक्त्वाऽऽदित्येऽनुक्तिरित्यादिलिङ्गं च।
तथाऽपि निरवकाशाः
“एतमेव”ऐतरेयारण्यकम् ३/२/३
इत्यवधारणादयः॥ १॥
ॐ अत्ता चराचरग्रहणात् ॐ॥ श्रुतिलिङ्गे। निश्चितबलवत्वम्॥
सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चितलिङ्गप्रकरणयोरेव बलवत्त्वम्।
सन्दिग्धश्रुतिर्लिङ्गं चादितिशब्दोऽदितित्वं च॥ २॥
ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ॥ द्विवचनश्रुतिः। द्विरूपत्वम्॥
द्विवचनश्रुतेरपि बलं
निरवकाशत्वं नास्ति।
विष्णोरेव द्विरूपत्वात्॥ ३॥
ॐ अन्तर उपपत्तेः ॐ॥ अभ्यासार्थवादसहितबहुश्रुतयः। निरवकाशोपपत्तिः॥
“सोऽहमस्मि स एवाहमस्मि”छान्दोग्योपनिषत् ४/३/२-४
इत्याद्यभ्यासार्थवादसहितबहुश्रुतिभ्योऽपि निरवकाशोपपत्तेरेव प्राबल्यम्॥ ४॥
ॐ अन्तर्याम्याधिदैवादिषु तद्धर्मव्यपदेशात् ॐ॥ पृथिव्यादिशरीरत्वम्। यौगिकशरीरत्वोपपत्तिः॥
पृथिव्यादिशरीरत्वं च न निरवकाशम्।
यौगिकशरीरत्वोपपत्तेर्विष्णोरपि
॥ ५॥
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ॥ निरवकाशत्वम्। अक्षरान्तरत्ववचनम्॥
“अक्षरात् परतः परः”🔗आथर्वणोपनिषत् २/१/२
इति श्रुतेरपि न
“अक्षरात् सम्भवति”🔗आथर्वणोपनिषत् १/१/७
इत्यस्या निरवकाशत्वम्।
अक्षरात् परतः परस्याप्यक्षरान्तरत्ववचनात्॥ ६॥
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ॥ श्रुतिसाधारण्यम्। विशेषश्रुत्यादि॥
श्रुतिसाधारण्ये
विशेषश्रुत्यादेर्निश्चयः।
उभयत्र विशेषश्रुत्यादौ पुनः सावकाशत्वनिरवकाशत्वबलान्निश्चयः॥ ७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य द्वितीयः पादः॥
तृतीयः पादः
[विषयमाला (अनुव्याख्याने १/३/७)- लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः। पुनः शब्दा लिङ्गशब्दौ विचार्या द्विःस्थिता इह॥]
ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ॥ लिङ्गं साधारणम् (विषयः)॥
ॐ॥
“प्राणानां ग्रन्थिरसि”महानारायणोपनिषत् १६/२
“रुद्रो वै लोकायतनम्”
“वायुना वै गोतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि भूतानि सन्दृब्धानि भवन्ति”बृहदारण्यकोपनिषत् ५/७/२
“सर्वे वा एते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च लोकाश्च लोकिनश्चालोकाश्चालोकिनश्च विष्णावेवोताश्च प्रोताश्च भवन्ति”
इत्यादेर्द्युभ्वाद्यायतनत्वमज्ञानां साधारणं लिङ्गम्॥ १॥
ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ॥ शब्दः साधारणः (विषयः)॥
“प्राणो वा आशाया भूयान्”छान्दोग्योपनिषत् ७/१/१६
“विष्णुर्वै देवेभ्यो भूयांस्तस्माद् भूयान् नाम”
इत्यादेर्भूमशब्दोऽज्ञानां साधारणः॥ २॥
ॐ अक्षरमम्बरान्तधृतेः ॐ॥ शब्दः साधारणः (विषयः)॥
विष्णोश्चेतनप्रकृतेश्चाविनाशित्वसाम्यादक्षरशब्दः साधारणः॥ ३॥
ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ॥ स्थानं साधारणम् (विषयः)॥
कारणत्वसाम्याद् विष्णोरचेतनप्रकृतेश्च
“सदेव सोम्येदमग्र आसीत्”छान्दोग्योपनिषत् ६/२/१
इत्यादिसृष्टिस्थानं
साधारणम्॥ ४॥
ॐ दहर उत्तरेभ्यः ॐ॥ लिङ्गं साधारणम् (विषयः)॥
लिङ्गं हृत्पद्मस्थितत्वं साधारणम्॥ ५॥
ॐ अनुकृतेस्तस्य च ॐ॥ अनुग्रहः साधारणः (विषयः)॥
ॐ शब्दादेव प्रमितः ॐ, ॐ कम्पनात् ॐ, ॐ ज्योतिर्दर्शनात् ॐ, ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात्॥ पुनः शब्दाः साधारणाः (विषयः)॥
पुनः शब्दाः ईशानो वज्रो ज्योतिराकाश इति॥ ७, १०, ११, १२॥
ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ॥ लिङ्गं साधारणम् (विषयः)॥
लिङ्गं स्वप्नादिदर्शनं कस्येति॥ १३॥
ॐ पत्यादिशब्देभ्यः ॐ॥ शब्दः साधारणः (विषयः)॥
शब्दो ब्राह्मण इति॥ १४॥
[न्यायमाला (अनुव्याख्याने १/३/८-९) –
बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता।
अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः॥
लिङ्गावकाशराहित्यभ्रमस्तादृग् द्वयं तथा।
बहुतादृक्त्वमुक्तस्य विरोधोऽर्थात् तथा गतिः॥
समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः॥]
ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ॥ बाहुल्यं लिङ्गशब्दानाम्॥
“यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मन ओतं प्राणा ओताः”
इत्यत्रोक्तानां लिङ्गानामन्यत्र रुद्रादिविषयत्वे शब्दबाहुल्यम्।
“प्राणानां ग्रन्थिरसि रुद्रो माऽऽविशान्तकः”महानारायणोपनिषत् १६/२
“प्राणेश्वरः कृत्तिवासाः पिनाकी”आयुष्यसूक्तम्/घृतसूक्तम् १
“मनो वै रुद्र ओतं च प्रोतं च”
“रुद्रो वाव लोकाधारः”
इत्यादिकं शब्दबाहुल्यम्॥ १॥
ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ॥ अनुक्तिः॥
“प्राणो वा आशाया भूयान्”छान्दोग्योपनिषत् ७/१/१६
इत्युक्त्वा प्राणाद् भूयसोऽनुक्तिः॥ २॥
ॐ अक्षरमम्बरान्तधृतेः ॐ॥ विरुद्धता॥
“अत्ता”
इत्युक्त्वा
“न तदश्नाति किञ्चन”बृहदारण्यकोपनिषत् ५/८/८
इति विरुद्धता॥ ३॥
ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ॥ अदृष्टिः॥
“बहु स्यां प्रजायेय”छान्दोग्योपनिषत् ६/२/३
इत्यन्यस्यान्यभावादृष्टिः॥ ४॥
ॐ दहर उत्तरेभ्यः ॐ॥ अन्वयाभावः॥
“दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम्”छान्दोग्योपनिषत् ८/१/१
इत्यनेन
“यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः”छान्दोग्योपनिषत् ८/१/२
इत्यस्यान्वयाभावः॥ ५॥
ॐ अनुकृतेस्तस्य च ॐ॥ विपरीतश्रुतिभ्रमः ॥
“तदेतदिति मन्यन्ते”🔗काठकोपनिषत् २/२/१४
“कथं नु तद् विजानीयाम्”🔗काठकोपनिषत् २/२/१४
इति
“तेषां सुखं शाश्वतम्”🔗काठकोपनिषत् २/२/१२
इत्युक्तज्ञानिसुखग्रहणमिति विपरीतश्रुतिभ्रमः॥ ६॥
ॐ शब्दादेव प्रमितः ॐ॥ लिङ्गावकाशराहित्यभ्रमः॥
“ऊर्ध्वं प्राणमुन्नयति”🔗काठकोपनिषत् २/२/३
इत्यादिलिङ्गानां प्राणादन्यत्रावकाशराहित्यमिति भ्रमः।
“एवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेव सन्निधत्ते”🔗षट्प्रश्नोपनिषत् ३/४
इत्यादिवाक्याद् भ्रमः॥ ७॥
ॐ कम्पनात् ॐ॥ तादृग् द्वयम्॥
वज्रशब्द उद्यतत्वलिङ्गं च तादृग् द्वयम्॥ १०॥
ॐ ज्योतिर्दर्शनात् ॐ॥ बहुतादृक्त्वम्॥
आदित्यादिज्योतिष्ट्वम्, उभयलोकसञ्चरणम्,
“आदित्येनैवायं ज्योतिषाऽऽस्ते”बृहदारण्यकोपनिषत् ६/३/२
इत्यवधारणमित्यादीनां परमात्मन्यवकाशाभावो बहुतादृक्त्वम्॥ ११॥
ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ॥ उक्तस्य विरोधः॥
“वैनाम”छान्दोग्योपनिषत् ८/१४/१
इति प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थस्वीकारे विरोधि॥ १२॥
ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ॥ अर्थात् तथा गतिः ॥
जीवेश्वराभेद ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इत्यर्थात् तथा गतिः॥ १३॥
ॐ पत्यादिशब्देभ्यः ॐ॥ समस्तमेतत्॥
ब्राह्मणशब्दस्य पापालेपलिङ्गस्य च
चतुर्मुखेन सह परमात्मनोऽभेदं
विनाऽवकाशराहित्यादर्थादभेदप्राप्तिरिति समस्तमेतत्॥ १४॥
[न्यायमाला (अनुव्याख्याने १/३/१०) – ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः। सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः॥]
ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ॥ बाहुल्यं लिङ्गशब्दानाम्॥
तेषामेव लिङ्गशब्दानां
“प्राणानां ग्रन्थिरसि”महानारायणोपनिषत् १६/२
इत्यादीनां विष्णौ मुख्यवृत्तिरिति बलवत्त्वम्।
तस्य हि रुग्द्रावणादिकर्तृत्वं मुख्यम्॥ १॥
ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ॥ अनुक्तिश्च॥
प्राणस्य विष्णोः सकाशाद् भूयस्त्वानुक्तिः।
चशब्देन
“एष तु वा अतिवदति यः सत्येनातिवदति”छान्दोग्योपनिषत् ७/२/१
इति प्राणाद् विष्णोर्भूयस्त्वोक्तिश्च॥ २॥
ॐ अक्षरमम्बरान्तधृतेः ॐ॥ विरुद्धता॥
सर्वाधारप्रकृत्याधारत्वं विष्णोरन्यस्य विरुद्धम्।
“पतिं विश्वस्यात्मेश्वरम्”महानारायणोपनिषत् १३/२
“विश्वात्मानं परायणम्”महानारायणोपनिषत् १३/२
इत्यादिश्रुतेः।
अनशनोक्तिस्त्वनुपजीवनार्थत्वेनैव
सावकाशा॥ ३॥
ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ॥ अदृष्टिः॥
अचेतनस्येक्षणादृष्टिः।
बहुभावश्रुतिस्त्वन्यभावं विना तत्तन्नियामकतया स्वरूपबहुत्वार्थत्वेनैव युज्यते॥ ४॥
ॐ दहर उत्तरेभ्यः ॐ॥ अन्वयाभावः॥
आकाशपक्ष एवान्वयाभावः।
विष्णुपक्षे तु – योऽन्वेष्टव्यो भगवान्, तस्यान्तर्हृदये यावान् वाऽयमाकाशस्तावानाकाशः, तस्मिन् द्यावापृथिवी अन्तरेव समाहिते,
स भगवानपहतपाप्मा
– इत्यन्वयः॥ ५॥
ॐ अनुकृतेस्तस्य च ॐ॥ विपरीतश्रुतिभ्रमः ॥
यज्ज्ञानाच्छाश्वतं सुखं स भगवान्।
यद्
ब्रह्मानिर्देश्यं सुखमिति
वदन्ति
तदेतत् स्वरूपमिति
मन्यन्ते।
अतः पूर्ववादविपरीतैव श्रुतिः।
पूर्ववादोक्तयोजना तु भ्रम एव॥ ६॥
ॐ शब्दादेव प्रमितः ॐ॥ लिङ्गावकाशराहित्यभ्रमः॥
लिङ्गानां परमात्मन्यवकाशो विद्यत एवेति तद्राहित्यं भ्रम एव।
वामनश्रुतेरेवानवकाश इतीशानशब्दोक्तो विष्णुरेव॥ ७॥
ॐ कम्पनात् ॐ॥ तादृग् द्वयम्॥
वज्रशब्दस्योद्यतत्वस्य च विष्णावेवावकाशः।
उद्यमित्वमेवोद्यतत्वमिति॥ १०॥
ॐ ज्योतिर्दर्शनात् ॐ॥ बहुतादृक्त्वम्॥
“अयं पुरुषः”बृहदारण्यकोपनिषत् ६/३/२
इति संसारी।
आत्मशब्दोदित एव विष्णुः।
अत आदित्यादिज्योतिष्ट्वं संसारिण एव।
“आदित्येनैव”बृहदारण्यकोपनिषत् ६/३/२
इत्यवधारणं
बाह्यज्योतिष्षु प्राधान्यापेक्षयेत्यादि।
लोकसञ्चरणं तु जीवमादाय तस्यैवादुःखेन स्वातन्त्र्यात्॥ ११॥
ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ॥ उक्तस्य विरोधः॥
“वैनाम”छान्दोग्योपनिषत् ८/१४/१
इति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यम्, प्रसिद्धाकाशस्योक्तमनामरूपत्वं विरुद्धम्॥ १२॥
ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ॥ अर्थात् तथा गतिः ॥
सुषुप्त्युत्क्रान्त्योर्जीवेश्वरयोर्भेदोक्तेरसङ्गत्वादि
चेश्वरस्यैवेत्यर्थाद् भेद एव भवति।
जीवस्य तदयुक्तेः, ईशे सावकाशत्वाच्च॥ १३॥
ॐ पत्यादिशब्देभ्यः ॐ॥ समस्तमेतत्॥
ब्रह्मणा वेदेन गम्यत इति ब्राह्मणशब्दो विष्णावेव युज्यत इत्यर्थादजशब्दोऽपि तस्मिन्नेव।
चतुर्मुखस्य कर्मफलाभावायुक्तेस्तयोर्भेदोऽर्थादापद्यते।
उक्तविरोधश्च तत्रैव।
भेदश्रुतिबाहुल्यात्।
तल्लिङ्गं स
शब्दश्च चतुर्मुखेऽनवकाश इति
समस्तमेतत्॥ १४॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य तृतीयः पादः॥
चतुर्थः पादः
[न्यायमाला (अनुव्याख्याने १/४/२३-२५)- सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता। परस्परविरोधश्च विरोधः कार्यतद्वतोः॥ स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु युक्तयः। दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा। बहुरूपत्वमीशस्य व्यक्त्यव्यक्तिविशेषिता॥ उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा। इत्यादियुक्तयः साक्षात् सिद्धान्तस्थापका इह॥]
ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ॥ सर्वमानैर्विरोधः। दोषात्यस्पृष्टिनियमः॥
ॐ॥ अवरत्वादिधर्मनियन्तृत्वं तत्तादात्म्यवत्त्वं चेति
द्विविधं ह्यवरत्वादि।
“निरनिष्टो निरवद्यः”
इत्यादिश्रुतेस्तत्तद्दोषतादात्म्यात्यस्पृष्टिनियमाद् विष्णोः
“नामानि सर्वाणि यमाविशन्ति”
इति श्रुतिबलाच्च
नियन्तृत्वमवरत्वादिकमित्यापतति।
श्रुतिद्वयस्यापि निरवकाशत्वात्।
मृत्युशब्दादिषु प्रसिद्धेश्च।
प्रसिद्धत्वात्
कर्तृव्युत्पत्तेः।
“तमेव मृत्युममृतं तात दैवं सर्वात्मनाऽवैहि परं परायणम्”भागवतम् ४/११/५७
इत्यादेश्च।
उपचारकल्पनायाश्च
क्लिष्टत्वात्।
प्रमाणाभावाच्च।
नाव्यक्तादिशब्दानां परमात्मविषयत्वाङ्गीकारे सर्वमानविरोधः॥ १॥
ॐ ज्योतिरुपक्रमात् तु तथा ह्यधीयत एके ॐ॥ व्युत्पत्तेरप्यशक्यता। शब्दार्थनेकता तथा॥
रूढिः, रूढियोगः, महायोगः, महारूढियोगः,
रूढोपचारः, रूढलक्षणा, उपचारः, लक्षणेति शब्दवृत्तिभेदाद् रूढिपूर्वकत्वेन महायोगवृत्त्या
परमेश्वरेऽखिलशब्दव्युत्पत्त्युपपत्तेः
॥ २॥
ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ॥ परस्परविरोधः। ईशस्य बहुरूपत्वम्॥
बहुरूपत्वादधिकरणाधेयत्वादि
तस्यैव युज्यते॥ ३॥
ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ॥ विरोधः कार्यतद्वतोः। व्यक्त्यव्यक्तिविशेषिता॥
व्यक्त्यपेक्षया कार्यत्वं च॥ ४॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य चतुर्थः पादः॥
॥ समाप्तश्चायमध्यायः॥
Loading…