न्यासपद्धतिः
नरनारायणं नत्वा पूर्णं ब्रह्माक्षरोदितम्।
यतेराचरणं वक्ष्ये पूर्णं शास्त्रानुसारतः॥ १॥
अरुणोदयवेळायामुत्थाय हरिमानसः।
शौचादिकं यथान्यायं कृत्वा
दन्तान् विशोधयेत्॥ २॥
कटिशौचं मृदा
कुर्याच्छुद्ध्यर्थं
जलसंस्थितः।
स्नानं कुर्याद् यथोक्तेन विधिना
नियतो हरौ॥ ३॥
धृतोर्ध्वपुण्ड्रं विधिवत् प्रकल्प्यासनमच्युते।
मनो निवेश्याष्टमन्त्रान् यथाशक्ति जपेच्छुचिः॥ ४॥
द्वादशसहस्रावृत्ति
परं ब्रह्माक्षरं जपेत्।
दण्डोदकं जपस्यान्ते दद्याद् विधिविधानतः॥ ५॥
देवतां परमां सम्यक् पूजयेच्च विधानतः।
भिक्षाकाले विधानेन चरेद् भिक्षाटनं यतिः।
एकत्र भिक्षाचरणं जघन्यमिति चोच्यते ॥ ६॥
अनेकभिक्षाचरणं मुख्यधर्मो यतेः स्मृतः ।
त्रिपञ्चसप्तसद्मानि गच्छेन्नातोऽधिकं पुनः॥ ७॥
भिक्षाग्रहणकाले तु गृह्णीयाद् दातृतो जलम्।
भिक्षान्ने तज्जलं प्रोक्ष्य पुनर्ग्राह्यं विदा जलम्॥ ८॥
निवेदयेत् तदन्नं तु वारिजस्योदकेन तु ।
प्रोक्ष्य देवाय महते मूलमन्त्रेण वाग्यतः।
तदन्नं भक्षयेत् स्वस्थो ह्यजवद्धरिमानसः॥ ९॥
त्रिवारमुदकस्रानं यतेः शास्त्रेषु चोदितम्।
अशक्तस्य यतेः शास्त्रे द्विवारं स्रानचोदना।
अत्यन्ताशक्तविषये त्वेकं स्नानं स्मृतं बुधैः॥ १०॥
वेदान्तशास्त्राभ्यसनं मुख्यधर्मो यतेः स्मृतः।
देवो नारायणो नित्यं सृष्टिस्थित्यन्तकारकः।
भक्तानां मुक्तिदो नित्यमन्यथाज्ञानिनां तमः॥ ११॥
पूर्णप्रज्ञेन मुनिना व्यासवाक्यसमुद्धृतिः।
न्यासधर्मस्य विषये शुभा सङ्क्षेपतः कृता॥ १२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादकृता न्यासपद्धतिः समाप्ता॥