धृतोर्ध्वपुण्ड्रं विधिवत् प्रकल्प्यासनमच्युते। मनो निवेश्याष्टमन्त्रान् यथाशक्ति जपेच्छुचिः॥ ४॥
देवतां परमां सम्यक् पूजयेच्च विधानतः। भिक्षाकाले विधानेन चरेद् भिक्षाटनं यतिः। एकत्र भिक्षाचरणं जघन्यमिति चोच्यते ॥ ६॥[6]
भिक्षाग्रहणकाले तु गृह्णीयाद् दातृतो जलम्। भिक्षान्ने तज्जलं प्रोक्ष्य पुनर्ग्राह्यं विदा जलम्॥ ८॥[9]
निवेदयेत् तदन्नं तु वारिजस्योदकेन तु ।[10] प्रोक्ष्य देवाय महते मूलमन्त्रेण वाग्यतः। तदन्नं भक्षयेत् स्वस्थो ह्यजवद्धरिमानसः॥ ९॥
त्रिवारमुदकस्रानं यतेः शास्त्रेषु चोदितम्। अशक्तस्य यतेः शास्त्रे द्विवारं स्रानचोदना। अत्यन्ताशक्तविषये त्वेकं स्नानं स्मृतं बुधैः॥ १०॥
वेदान्तशास्त्राभ्यसनं मुख्यधर्मो यतेः स्मृतः। देवो नारायणो नित्यं सृष्टिस्थित्यन्तकारकः।[11] भक्तानां मुक्तिदो नित्यमन्यथाज्ञानिनां तमः॥ ११॥[12]
पूर्णप्रज्ञेन मुनिना व्यासवाक्यसमुद्धृतिः। न्यासधर्मस्य विषये शुभा सङ्क्षेपतः कृता॥ १२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादकृता न्यासपद्धतिः समाप्ता॥
पाठान्तरविषयकटिप्पण्यः
- “नरनारायणं नत्वा पूर्णं ब्रह्माक्षरोदितम्”- इति गो पाठः, ‘नरनारायणं देवं पूर्णम्’ इति क्वचित्, तच्च ‘नत्वा नारायणं देवं पूर्णम्’ इति स्यादिति गोविन्दाचार्याः, गोविन्दाचार्याणां पाठानुसारेण ग्रन्थोऽयमत्र निक्षिप्तः। न पठ्यते कृपाठे ↩
- “दन्तान् विशोधयेत्॥ २”- इति गो पाठः, ‘दन्तांश्च शोधयेत्’ इति क्वचित् ↩
- “कुर्याच्छुद्ध्यर्थं”- इति गो पाठः, ‘कुर्यात् स्नानार्थं’ इति क्वचित् ↩
- “नियतो हरौ॥ ३”- इति गो पाठः, ‘नियतो हरिः’, इति, ‘नियतो हरिम्’ इति, ‘नियतो यतिः’ इति चान्यत्र ↩
- “द्वादशसहस्रावृत्ति परं ब्रह्माक्षरं जपेत्”- इति गो पाठः, ‘द्वादशसहस्रावृत्तिम्’ – इति क्वचित् ↩
- “[-]”- इति गो पाठः ↩
- ‘यतेर्युतः’ इति क्वचित् ↩
- ‘त्रिसप्तपञ्चषष्ठं वा निर्गच्छेत ततोऽधिकम्’ इति क्वचित् ↩
- ‘तु जलं’ इति क्वचित् ↩
- ‘वारिजस्थोदकेन’ इति क्वचित् ↩
- ‘ध्यायेन्नारायणं देवं सृष्टिस्थित्यन्तकारकम्’ इति क्वचित् ↩
- ‘भक्तानां मुक्तिदं नित्यमन्यथाज्ञानिनां तमः’ इति क्वचित् ↩