विषयानुक्रमणिका
- 1. उद्योगपर्व
- 1.0.1. अध्यायः 001
- 1.0.2. अध्यायः 002
- 1.0.3. अध्यायः 003
- 1.0.4. अध्यायः 004
- 1.0.5. अध्यायः 005
- 1.0.6. अध्यायः 006
- 1.0.7. अध्यायः 007
- 1.0.8. अध्यायः 008
- 1.0.9. अध्यायः 009
- 1.0.10. अध्यायः 010
- 1.0.11. अध्यायः 011
- 1.0.12. अध्यायः 012
- 1.0.13. अध्यायः 013
- 1.0.14. अध्यायः 014
- 1.0.15. अध्यायः 015
- 1.0.16. अध्यायः 016
- 1.0.17. अध्यायः 017
- 1.0.18. अध्यायः 018
- 1.0.19. अध्यायः 019
- 1.0.20. अध्यायः 020
- 1.0.21. अध्यायः 021
- 1.0.22. अध्यायः 022
- 1.0.23. अध्यायः 023
- 1.0.24. अध्यायः 024
- 1.0.25. अध्यायः 025
- 1.0.26. अध्यायः 026
- 1.0.27. अध्यायः 027
- 1.0.28. अध्यायः 028
- 1.0.29. अध्यायः 029
- 1.0.30. अध्यायः 030
- 1.0.31. अध्यायः 031
- 1.0.32. अध्यायः 032
- 1.0.33. अध्यायः 033
- 1.0.34. अध्यायः 034
- 1.0.35. अध्यायः 035
- 1.0.36. अध्यायः 036
- 1.0.37. अध्यायः 037
- 1.0.38. अध्यायः 038
- 1.0.39. अध्यायः 039
- 1.0.40. अध्यायः 040
- 1.0.41. अध्यायः 041
- 1.0.42. अध्यायः 042
- 1.0.43. अध्यायः 043
- 1.0.44. अध्यायः 044
- 1.0.45. अध्यायः 045
- 1.0.46. अध्यायः 046
- 1.0.47. अध्यायः 047
- 1.0.48. अध्यायः 048
- 1.0.49. अध्यायः 049
- 1.0.50. अध्यायः 050
- 1.0.51. अध्यायः 051
- 1.0.52. अध्यायः 052
- 1.0.53. अध्यायः 053
- 1.0.54. अध्यायः 054
- 1.0.55. अध्यायः 055
- 1.0.56. अध्यायः 056
- 1.0.57. अध्यायः 057
- 1.0.58. अध्यायः 058
- 1.0.59. अध्यायः 059
- 1.0.60. अध्यायः 060
- 1.0.61. अध्यायः 061
- 1.0.62. अध्यायः 062
- 1.0.63. अध्यायः 063
- 1.0.64. अध्यायः 064
- 1.0.65. अध्यायः 065
- 1.0.66. अध्यायः 066
- 1.0.67. अध्यायः 067
- 1.0.68. अध्यायः 068
- 1.0.69. अध्यायः 069
- 1.0.70. अध्यायः 070
- 1.0.71. अध्यायः 071
- 1.0.72. अध्यायः 072
- 1.0.73. अध्यायः 073
- 1.0.74. अध्यायः 074
- 1.0.75. अध्यायः 075
- 1.0.76. अध्यायः 076
- 1.0.77. अध्यायः 077
- 1.0.78. अध्यायः 078
- 1.0.79. अध्यायः 079
- 1.0.80. अध्यायः 080
- 1.0.81. अध्यायः 081
- 1.0.82. अध्यायः 082
- 1.0.83. अध्यायः 083
- 1.0.84. अध्यायः 084
- 1.0.85. अध्यायः 085
- 1.0.86. अध्यायः 086
- 1.0.87. अध्यायः 087
- 1.0.88. अध्यायः 088
- 1.0.89. अध्यायः 089
- 1.0.90. अध्यायः 090
- 1.0.91. अध्यायः 091
- 1.0.92. अध्यायः 092
- 1.0.93. अध्यायः 093
- 1.0.94. अध्यायः 094
- 1.0.95. अध्यायः 095
- 1.0.96. अध्यायः 096
- 1.0.97. अध्यायः 097
- 1.0.98. अध्यायः 098
- 1.0.99. अध्यायः 099
- 1.0.100. अध्यायः 100
- 1.0.101. अध्यायः 101
- 1.0.102. अध्यायः 102
- 1.0.103. अध्यायः 103
- 1.0.104. अध्यायः 104
- 1.0.105. अध्यायः 105
- 1.0.106. अध्यायः 106
- 1.0.107. अध्यायः 107
- 1.0.108. अध्यायः 108
- 1.0.109. अध्यायः 109
- 1.0.110. अध्यायः 110
- 1.0.111. अध्यायः 111
- 1.0.112. अध्यायः 112
- 1.0.113. अध्यायः 113
- 1.0.114. अध्यायः 114
- 1.0.115. अध्यायः 115
- 1.0.116. अध्यायः 116
- 1.0.117. अध्यायः 117
- 1.0.118. अध्यायः 118
- 1.0.119. अध्यायः 119
- 1.0.120. अध्यायः 120
- 1.0.121. अध्यायः 121
- 1.0.122. अध्यायः 122
- 1.0.123. अध्यायः 123
- 1.0.124. अध्यायः 124
- 1.0.125. अध्यायः 125
- 1.0.126. अध्यायः 126
- 1.0.127. अध्यायः 127
- 1.0.128. अध्यायः 128
- 1.0.129. अध्यायः 129
- 1.0.130. अध्यायः 130
- 1.0.131. अध्यायः 131
- 1.0.132. अध्यायः 132
- 1.0.133. अध्यायः 133
- 1.0.134. अध्यायः 134
- 1.0.135. अध्यायः 135
- 1.0.136. अध्यायः 136
- 1.0.137. अध्यायः 137
- 1.0.138. अध्यायः 138
- 1.0.139. अध्यायः 139
- 1.0.140. अध्यायः 140
- 1.0.141. अध्यायः 141
- 1.0.142. अध्यायः 142
- 1.0.143. अध्यायः 143
- 1.0.144. अध्यायः 144
- 1.0.145. अध्यायः 145
- 1.0.146. अध्यायः 146
- 1.0.147. अध्यायः 147
- 1.0.148. अध्यायः 148
- 1.0.149. अध्यायः 149
- 1.0.150. अध्यायः 150
- 1.0.151. अध्यायः 151
- 1.0.152. अध्यायः 152
- 1.0.153. अध्यायः 153
- 1.0.154. अध्यायः 154
- 1.0.155. अध्यायः 155
- 1.0.156. अध्यायः 156
- 1.0.157. अध्यायः 157
- 1.0.158. अध्यायः 158
- 1.0.159. अध्यायः 159
- 1.0.160. अध्यायः 160
- 1.0.161. अध्यायः 161
- 1.0.162. अध्यायः 162
- 1.0.163. अध्यायः 163
- 1.0.164. अध्यायः 164
- 1.0.165. अध्यायः 165
- 1.0.166. अध्यायः 166
- 1.0.167. अध्यायः 167
- 1.0.168. अध्यायः 168
- 1.0.169. अध्यायः 169
- 1.0.170. अध्यायः 170
- 1.0.171. अध्यायः 171
- 1.0.172. अध्यायः 172
- 1.0.173. अध्यायः 173
- 1.0.174. अध्यायः 174
- 1.0.175. अध्यायः 175
- 1.0.176. अध्यायः 176
- 1.0.177. अध्यायः 177
- 1.0.178. अध्यायः 178
- 1.0.179. अध्यायः 179
- 1.0.180. अध्यायः 180
- 1.0.181. अध्यायः 181
- 1.0.182. अध्यायः 182
- 1.0.183. अध्यायः 183
- 1.0.184. अध्यायः 184
- 1.0.185. अध्यायः 185
- 1.0.186. अध्यायः 186
- 1.0.187. अध्यायः 187
- 1.0.188. अध्यायः 188
- 1.0.189. अध्यायः 189
- 1.0.190. अध्यायः 190
- 1.0.191. अध्यायः 191
- 1.0.192. अध्यायः 192
- 1.0.193. अध्यायः 193
- 1.0.194. अध्यायः 194
- 1.0.195. अध्यायः 195
- 1.0.196. अध्यायः 196
उद्योगपर्व
अध्यायः 001
विराटसभाम् प्रविष्टेषु राजसु श्रीकृष्णेन पाण्डववृत्तान्तकथनपूर्वकं धृतराष्ट्रम् प्रति दूतप्रेषणनिर्धारणम्॥ 1॥
श्रीवेदव्यासाय नमः।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥
वैशम्पायन उवाच
कृत्वा विवाहं तु कुरुप्रवीरास्तदाऽभिमन्योर्मुदिताः सपक्षाः।
विश्रम्य रात्रावुषसि प्रतीताः सभां विराटस्य ततोऽभिजग्मुः॥
सभा तु सा मत्स्यपतेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा।
न्यस्तासना माल्यवती सुगन्धा तामभ्ययुस्ते नरराजवर्याः॥
अथासनान्याविशतां पुरस्तादुभौ विराटद्रुपदौ नरेन्द्रौ।
वृद्धौ च मान्यौ पृथिवीपतीनां पित्रा समं रामजनार्दनौ च॥
पाञ्चालराजस्य समीपतस्तु शिनिप्रवीरः सहरौहिणेयः।
मत्स्यस्य राज्ञस्तु सुसन्निकृष्टौ जनार्दनश्चैव युधिष्ठिरश्च॥
सुताश्च सर्वे द्रुपदस्य राज्ञो भीमार्जुनौ माद्रवतीसुतौ च।
प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रैश्च सहाभिमन्युः॥
सर्वे च शूराः पितृभिः समाना वीर्येण रूपेण बलेन चैव।
उपाविशन्द्रौपदेयाः कुमाराः सुवर्णचित्रेषु वरासनेषु॥
तथोपविष्टेषु महारथेषु विराजमानाभरणाम्बरेषु।
रराज सा राजवती समृद्धा ग्रहैरिव द्यौर्विमलैरुपेता॥
ततः कथास्ते समवाययुक्ताः कृत्वा विचित्राः पुरुषप्रवीराः।
तस्थुर्मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास्ते समुदीक्षमाणाः॥
कथान्तमासाद्य च माधवेन सङ्घट्टिताः पाण्डवकार्यहेतोः।
ते राजसिंहाः सहिता ह्यश्रृण्वन्वाक्यं महार्थं सुमहोदयं च॥
श्रीकृष्ण उवाच
सर्वैर्भवद्भिर्विदितं यथाऽयं युधिष्ठिरः सौबलेनाक्षवत्याम्।
जितो निकृत्याऽपहृतं च राज्यं वनप्रवासे समयः कृतश्च॥
शक्तैर्विजेतुं तरसा महीं च सत्ये स्थितैः सत्यरथैर्यथावत्।
पाण्डोः सुतैस्त्रद्रुतमुग्ररूपं वर्षाणि षट् सप्त च चीर्णमग्र्यैः॥
त्रयोदशश्चैव सुदुस्तरोऽयमज्ञायमानैर्भवतां समीपे।
क्लेशानसह्यान्विविधान्सहद्भिर्महात्मभिश्चापि वने निविष्टम्।
एतैः परप्रेष्यनियोगयुक्तैरिच्छद्भिराप्तं स्वकुलेन राज्यम्॥
एवं गते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात्।
तच्चिन्तयध्वं कुरुपाण्डवानां धर्म्यं च युक्तं च यशस्करं च॥
अधर्मयुक्तं न च कामयेत राज्यं सुराणामपि धर्मराजः।
धर्मार्थयुक्तं तु महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत्॥
पित्र्यं हि राज्यं विदितं नृपाणां यथाऽपकृष्टं धृतराष्ट्रपुत्रैः।
मिथ्योपचारेण यथा ह्यनेन कृच्छ्रं महत्प्राप्तमसह्यरूपम्॥
न चापि पार्थो विजितो रणे तैः स्वतेजसा धृतराष्ट्रस्य पुत्रैः।
तथाऽपि राजा सहितः सुहृद्भिरभीप्सतेऽनामयमेव तेषाम्॥
यत्तु स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन्प्रपीड्य।
तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च॥
बलाभियुक्तैर्विविधैरुपायैः सम्प्रार्थिता हन्तुममित्रसङ्घैः।
राज्यं जिहीर्षद्भिरसद्भिरुग्रैः सर्वं च तद्वो विदितं यथावत्॥
तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मज्ञतां चापि युधिष्ठिरस्य।
सम्बन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्व॥
इमे च सत्येऽभिरताः सदैव तं पालयित्वा समयं यथावत्।
अतोऽन्यथा तैरुपचर्यमाणा हन्युः समेतान्धृतराष्ट्रपुत्रान्॥
तैर्विप्रकारं च निशम्य कार्ये सुहृज्जनास्तान्परिवारयेयुः।
युद्धेन बाधेयुरिमांस्तथैवं तैर्बाध्यमाना युधि तांश्च हन्युः॥
तथाऽपि नेमेऽल्पतयाऽसमर्थास्तेषां जयायेति भवेन्मतिर्वः।
समेत्य सर्वे सहिताः सुहृद्भिस्तेषां विनाशाय यतेयुरेव॥
दुर्योधनस्यापि मतं यथावन्न ज्ञायते किं नु करिष्यतीति।
अज्ञायमाने च मते परस्य मन्त्रस्य पारं कथमभ्युपेमः॥
तस्मादितो गच्छतु धर्मशीलः शुचिः कुलीनः पुरुषोऽप्रमत्तः।
दूतः समर्थः प्रशमाय तेषां राज्यार्धदानाय युधिष्ठिरस्य॥
निशम्य वाक्यं तु जनार्दनस्य धर्मार्थयुक्तं मधुरं समं च।
समाददे वाक्यमथाग्रजोऽस्य सम्पूज्य वाक्यं तदतीव राजन्॥॥
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि प्रथमोऽध्यायः॥
Loading…