विषयानुक्रमणिका
- 1. भीष्मपर्व
- 1.0.1. अध्यायः 001
- 1.0.2. अध्यायः 002
- 1.0.3. अध्यायः 003
- 1.0.4. अध्यायः 004
- 1.0.5. अध्यायः 005
- 1.0.6. अध्यायः 006
- 1.0.7. अध्यायः 007
- 1.0.8. अध्यायः 008
- 1.0.9. अध्यायः 009
- 1.0.10. अध्यायः 010
- 1.0.11. अध्यायः 011
- 1.0.12. अध्यायः 012
- 1.0.13. अध्यायः 013
- 1.0.14. अध्यायः 014
- 1.0.15. अध्यायः 015
- 1.0.16. अध्यायः 016
- 1.0.17. अध्यायः 017
- 1.0.18. अध्यायः 018
- 1.0.19. अध्यायः 019
- 1.0.20. अध्यायः 020
- 1.0.21. अध्यायः 021
- 1.0.22. अध्यायः 022
- 1.0.23. अध्यायः 023
- 1.0.24. अध्यायः 024
- 1.0.25. अध्यायः 025
- 1.0.26. अध्यायः 026
- 1.0.27. अध्यायः 027
- 1.0.28. अध्यायः 028
- 1.0.29. अध्यायः 029
- 1.0.30. अध्यायः 030
- 1.0.31. अध्यायः 031
- 1.0.32. अध्यायः 032
- 1.0.33. अध्यायः 033
- 1.0.34. अध्यायः 034
- 1.0.35. अध्यायः 035
- 1.0.36. अध्यायः 036
- 1.0.37. अध्यायः 037
- 1.0.38. अध्यायः 038
- 1.0.39. अध्यायः 039
- 1.0.40. अध्यायः 040
- 1.0.41. अध्यायः 041
- 1.0.42. अध्यायः 042
- 1.0.43. अध्यायः 043
- 1.0.44. अध्यायः 044
- 1.0.45. अध्यायः 044
- 1.0.46. अध्यायः 045
- 1.0.47. अध्यायः 046
- 1.0.48. अध्यायः 047
- 1.0.49. अध्यायः 048
- 1.0.50. अध्यायः 049
- 1.0.51. अध्यायः 050
- 1.0.52. अध्यायः 051
- 1.0.53. अध्यायः 052
- 1.0.54. अध्यायः 053
- 1.0.55. अध्यायः 054
- 1.0.56. अध्यायः 055
- 1.0.57. अध्यायः 056
- 1.0.58. अध्यायः 057
- 1.0.59. अध्यायः 058
- 1.0.60. अध्यायः 059
- 1.0.61. अध्यायः 060
- 1.0.62. अध्यायः 061
भीष्मपर्व
अध्यायः 001
कुरुक्षेत्रे कुरुपाण्डवसेनयोः परस्परसमागमः॥ 1॥ उभयपक्षीयैः परस्परं समयकरणम्॥ 2॥
श्रीवेदव्यासाय नमः
नारायणं नमस्कृत्य नरं नरोत्तमम्।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥
जनमेजय उवाच
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः।
पार्थिवाश्च महात्मानो नानादेशसमागताः॥
वैशम्पायन उवाच
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः।
कुरुक्षेत्रे तपःक्षेत्रे शृणु त्वं पृथिवीपते॥
तेऽवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः।
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः॥
वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः।
आशंसन्तो जयं युद्धे बलेनाभिमुखा रणे॥
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम्।
प्राङ्मुखाः पश्चिमे भागे न्यवशन्त ससैनिकाः॥
स्यमन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः।
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः॥
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता।
निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता॥
यावत्तपति सूर्यो हि जम्बुद्वीपस्य मण्डलम्।
तावदेव समावृत्तं बलं पार्थिवसत्तम॥
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम्।
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च॥
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ।
व्यादिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम्॥
सञ्ज्ञाश्च विविधास्तात तेषां चक्रे युधिष्ठिरः।
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत॥
अभिज्ञानानि सर्वेषां सञ्ज्ञाश्चाभरणानि च।
योजयामास कौरव्यो युद्धकाल उपस्थिते॥
दृष्ट्वा ध्वजाग्रं पार्थस्य धार्तराष्ट्रो महामनाः।
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवम्॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितः॥
दृष्ट्वा दुर्योधनं हृष्टाः पाञ्चाला युद्धनन्दिनः।
दध्मुः प्रीता महाशङ्खान्भेरीर्जघ्नुः सहस्रशः॥
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः।
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान्॥
स्वयोधान्हर्षयन्तौ च वासुदेवधनञ्जयौ।
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ॥
पाञ्चजन्यस्य शङ्खस्य देवदत्तस्य चोभयोः।
श्रुत्वा तु निनदं योधाः शकृन्मूत्रं प्रसुस्रुवुः॥
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः।
त्रसेयुर्निनदं श्रुत्वा तथाऽसीदत तद्बलम्॥
उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन।
अस्तं गत इवादित्यः सैन्येन रजसा वृतः॥
ववर्ष तत्र पर्जन्यो मांसशोणितवृष्टिमान्।
व्युक्षन्सर्वाणि सैन्यानि तदद्भुतमिवाभवत्॥
वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः।
विनिघ्नंस्तान्यनीकानि शतशोऽथ सहस्रशः॥
उभे सैन्ये च राजेन्द्र युद्धाय मुदिते भृशम्।
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे॥
तयोस्तु सेनयोरासीदद्भुतः स तु सङ्गमः।
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव॥
शून्याऽऽसीत्पृथिवी सर्वा वृद्धबालावशेषिता।
निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता।
तेन सेनासमूहेन समानीतेन कौरवैः॥
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः।
धर्मान्संस्थापयामासुर्युद्धानां भरतर्षभ॥
निवृत्ते विहिते युद्धे स्यात्प्रीतिर्नः परस्परम्।
यथापरं यथायोगं न च स्यात्कस्यचित्पुनः॥
वाचा युद्धे प्रवृत्तानां वाचैव प्रतियोधनम्।
निष्क्रान्ताः पृतनामध्यान्न हन्तव्याः कदाचन॥
रथी च रथिना योध्यो गजेन गजधूर्गतः।
अश्वेनाश्वी पदातिश्च पादातेनैव भारत॥
यथायोगं यथाकामं यथोत्साहं यथाबलम्।
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले॥
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा।
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कदाचन॥
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु।
न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन॥
एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः।
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम्॥
निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः।
हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः॥॥
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि प्रथमोऽध्यायः॥
Loading…