तृतीयोऽध्यायः
अश्वब्राह्मणम्
ॐ॥ प्राणादेरीशितारं परमसुखनिधिं सर्वदोषव्यपेतं
सर्वान्तस्थं सुपूर्णं प्रकृतिपतिमजं सर्वबाह्यं सुनित्यम्।
सर्वज्ञं सर्वशक्तिं सुरमुनिमनुजाद्यैः सदा सेव्यमानं
विष्णुं वन्दे सदाऽहं सकलजगदनाद्यन्तमानन्ददं तम्॥ *॥
यथा तुष्टाव लक्ष्मीशं सर्गादौ चतुराननः।
तथा जगाद सूर्याय याज्ञवल्क्याय सोऽब्रवीत्॥ *॥
“वाजिरूपेण सूर्येण प्रोक्तं वाजसनेयकम्।
कण्वाय याज्ञवल्क्योऽदात् काण्वं तेन प्रकीर्तितम्॥”
इति वाराहे।
“अश्वस्वरूपो ब्रह्माऽभूदश्वरूपाज्जनार्दनात्।
तत्र सन्निहितो विष्णुरश्वरूपः स्वयं प्रभुः।
तयोश्च प्रतिमा मेध्यो यतोऽश्वोऽयं श्रुतौ श्रुतः।
सर्वं जगत् तदङ्गेषु तस्मात् सन्निहितं
स्मृतम्।
तयोरङ्गेष्विदं यस्मात् जगत् सर्वं प्रतिष्ठितम्॥”
इति प्रध्याने।
“उच्चैःश्रवाः सन्निहितो मेध्येऽश्वे तत्र केशवः।
तस्मिन्निदं जगत् सर्वं ब्रह्मा चोच्चैःश्रवःस्थितः॥”
इति सौपर्णे।
“पर्वताः सिकताश्चैव नद्यः कूपाः सरांसि च।
हविःकपालयूपाद्या देवता एव सर्वशः।
तत्तन्नामैव नामैषां भिन्नानामभिमानतः।
नामानि तान्यपि हरेः स हि सर्वगुणाधिकः॥”
इति नारदीये।
“उषाः शिरो ब्रह्म नाम तत्त्वमस्यादयोऽखिलाः।
सप्तम्यर्थाः समुद्दिष्टाः पञ्चम्यर्थास्तथा श्रुताः।
षष्ठ्यर्थाश्च चतुर्थ्यर्थास्तृतीयार्थाश्च सर्वशः।
तदैक्यवाचिवच्छब्दा अपि तद्गत्ववाचकाः।
ऐक्यार्था नैव ते सर्वे भिन्नरूपा यतः सदा।
ईशाङ्गवाचिनो वा स्युस्तेषामेव तदर्थतः।
सप्तसु प्रथमा यस्मात् तत्तद्योग्यार्थता भवेत्॥”
इति ब्रह्मतर्के।
“अङ्गप्रत्यङ्गशो व्याप्तो विष्णुरेव तुरङ्गमे।
अतो विष्ण्वङ्गगं सर्वं मेध्याङ्गस्थमुदीरितम्॥”
इति च।
पुनरप्यश्वस्य मेध्यस्येति वचनं कस्यचिदश्वस्यैवमासीदितीतिहासरूपेण नोच्यते, किन्तु? सर्वमेध्यानामेवमिति ज्ञापनार्थम्।
“सर्वव्यक्तिष्वभिव्याप्त्यै
तात्पर्याधिक्यवित्तये।
प्रतीतानुपपत्तेरप्याभासत्वविवक्षया।
पुनर्वचनमुद्दिष्टं शतशोऽपि पृथक्पृथक्॥”
इति च।
“विष्णोः पुरीषस्थानीया काठिन्यात् पृथिवी
स्मृता।
तत्स्थत्वात् सिकताः सर्वा
उवध्यस्था
प्रकीर्तिताः।
उर्व्यास्तु पादगत्वेऽपि नो वध्यत्वं विरुध्यते।
यतस्तदभिमानिन्यो देवता अनुकीर्तिताः।
तासां च बहुरूपत्वादैश्वर्याच्च परेशितुः॥”
इति च।
“अवान्तरदिशो विष्णोरस्थिपुच्छान्युदाहृताः।
पूर्वपश्चार्धभेदेन दिशः पार्श्वे प्रकीर्तिते।
शिरश्च पादमूलानि पुच्छं षडृतवः स्मृताः।
संवत्सराभिमानी च ब्रह्मा सर्वशरीरगः।
क्लोमानश्च यकृच्चैव मांसौ गिर्यभिमानिनः।
आन्त्रेषु नद्यः सर्वाश्च सोऽयं विष्णुः सनातनः॥”
इति च।
“नभोभिमानी विघ्नेशो विष्णोर्मांसाश्रितः सदा।
अन्तरिक्षाभिमानी
च
तत्सूनुरुदरे स्थितः॥”
इति च॥ १॥
“अश्वपूर्वापरौ होम्यौ महिमानौ ग्रहौ स्मृतौ।
अहोरात्राभिमन्तारौ तयोरप्यभिमानिनौ।
कामश्चाथ रतिश्चैव विष्णुब्रह्मशरीरजौ।
समुद्रेकात् समुद्रस्तु विष्णुः पूर्वमुदाहृतः।
उपचारेण तूद्रेकादपरश्च चतुर्मुखः।
स विष्णुर्हयनामा सन् देववाहेषु संस्थितः।
वाजिनामा तु गान्धर्वेष्वर्वनामाऽऽसुरेषु च।
मनुष्येष्वश्वनामाऽसौ
तद्बन्धुः स्वयमेव सः।
तस्मादेवोत्थितिस्तस्य
रूपभेदो न तस्य च।
ऐश्वर्यात् स तथापीऽशो व्यक्तिभावं गमिष्यति।
हत्वा याति यतः शत्रून्
हरिस्तस्माद्धयः
स्मृतः।
सर्वदा युद्धकर्तृत्वाद् वाजी चापि प्रकीर्तितः।
अर्वाऽतिगमनादुक्त आशुत्वादश्व उच्यते॥”
इति वैहायसे।
तेषान्तेषां वाहनेषु स्थित्वा तत्तत्कर्मकर्तृत्वात् तत्तन्नामा।
“पतन्ति नियतं हन्तुं देवाश्वाः शत्रुमूर्धसु।
वेगाधिका आसुराश्वा वेगमात्रं नृवाहने॥”
इति स्कान्दे।
“गन्धर्वास्तु सदा युद्धरता देवानुगा यतः।
तदशक्तौ तु देवानां
युध्यन्ते
स्वामिनो यतः।
केचिद् गानरता नित्यं गन्धर्वा नर्तकाः परे।
केचिद् वाद्यरता नित्यं चारणा देवचारकाः॥”
इति च॥
॥ इत्यश्वब्राह्मणम्॥ 3-1॥
अश्वमेधब्राह्मणम्
“सर्वसंहारकं विष्णुं देवीं जीवांस्तथैव च।
कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम्।
संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लये त्वभूत्॥”
इति ब्रह्मतर्के।
लयकाले परमात्मनैवावृतमासीत्।
“अशनं जगदेतद् यन्नयत्यात्मेच्छया हरिः।
अशनाया ततः प्रोक्त उदन्या कर्मनायकः॥”
इति ब्राह्मे।
अन्यत्र नेतृत्वप्रतीतावपि
श्रुतिषु प्रसिद्धेः
स एव नेतेत्याह-
अशनाया हि मृत्युरिति॥
तत् तत एव मनोऽकुरुत यतः स्वयमेवासीन्नान्यत्।
आत्मवान् स्यामित्यैच्छत्।
शरीरवान् स्यामिति।
अप्सृष्ट्यर्थं मनोऽकुरुत।
“ऐच्छद् विष्णुरदेहः सन् देहवान् स्यामिति प्रभुः।
यतो देह इदं सर्वं तस्य विष्णोरदेहिनः।
तद्वशत्वात् स्वयं देवश्चिदानन्दशरीरकः।
सोत्मानमर्चन्नचरदप्सृष्ट्यर्थं जनार्दनः।
यत् कुर्वन् यत् सृजेदीशस्तद् भवेद्धि तदात्मकम्।
अतोऽर्चतो यतो जाता आपोऽतोऽर्चनसाधनाः।
अन्यथा कर्तुमीशोऽपि क्रीडया तत्तदात्मकम्।
कर्तुं तत्तत्प्रवृत्तिः संस्तत् करोति स्वयं प्रभुः॥”
इति ब्रह्माण्डे।
मे सर्वाहेयस्य विष्णोः।
“अस्मच्छब्दगतैर्विष्णुर्वाच्यः सप्तविभक्तिभिः।
सर्वाहेयत्वतस्त्वेकः सर्वस्य प्रतियोगितः।
युष्मच्छब्दाभिधेयश्च तच्छब्दैश्च परोक्षतः।
स एव बहुरूपत्वाद् बहुशब्दाभिधानवान्।
जीवस्थितेन
रूपेण हृद्गेनापि द्विधोच्यते।
भिन्नोऽपि सर्वजीवेभ्यः सर्ववस्तुभ्य एव च।
पूर्णानन्दादिरूपस्य कुतोऽल्पसुखिनैकता॥”
इति ब्रह्मतर्के।
“उदकं सुखहेतुत्वात् कमित्येवाभिधीयते।
तदेव ह्यर्चतो जातमतोऽर्क इति कीर्त्यते॥”
इति व्यासनिरुक्ते।
अर्चतो जातं सुखसाधनं चेत्यर्क इत्यर्थः।
कं सुखमस्मै भवति।
“अपां हि सुखहेतूनां वेद विष्णोर्जनिं हि यः।
स मुक्तः सुखभागेव स्याद् विष्णोस्तु प्रसादतः॥”
इति माहात्म्ये॥ १॥
अर्कशब्दस्यादित्ये प्रसिद्धत्वादप्शब्दोऽपि तत्रेत्याशङ्कां निवर्तयितुमापो वा अर्क इति पुनर्वचनम्।
नादित्येऽर्कशब्दः,
किन्तु? अप्स्वेवार्कशब्द इत्यर्थः।
शरो मण्डः।
“फेनरूपस्तु यो मण्डो
जलस्थोऽसौ
सुसंहतः।
पृथिवीत्वं समापन्नस्तस्यां शिश्ये जनार्दनः।
ततः स चिन्तयामास स्यादग्निरिति देवराट्।
तच्चिन्तनात् समुत्पन्नो वायुरग्न्यभिधानवान्।
अग्रजत्वादग्रणीत्वाद् वायोरग्नित्वमिष्यते॥”
इति प्रवृत्ते।
“शक्तिविस्रंसने चापि शयने चापि कीर्तितः।
श्रमशब्दो हरेर्नैव शक्तिविस्रंसनं क्वचित्।
अतो हरेः श्रमो नाम शयनं सम्प्रकीर्तितम्॥”
इति ब्रह्मतर्के।
तस्यामश्राम्यदिति साधिकरणत्वाच्च शयनं युक्तम्।
नहि पृथिव्यां श्रमो नामान्तःकरणधर्मो युज्यते।
अधिकरणपरम्पराकल्पनं च क्लिष्टकल्पनम्।
“सृष्ट्वा स पृथिवीं विष्णुः शेतेऽनन्तेऽब्धिमध्यगः।
तस्यां पृथिव्यां श्वेताख्ये द्वीपे
मुक्तैरुपास्यते॥”
इति मुक्तिसंहितायाम्।
“तप्त आलोचनायुक्तस्तस्मात् कार्यार्थकामना।
तप्तता तु हरेरुक्ता कुतो दुःखं हरेः प्रभोः॥”
इति ब्रह्मतर्के।
तेजोरसः जगतः सामर्थ्यसारभूतः॥ २॥
“वायुरग्निरिति प्रोक्तो ह्यग्रणीत्वादथाङ्गिनाम्।
नेतृत्वाददनाच्चापि
तस्य स्रष्टा जनार्दनः।
स वायुर्वायुरूपेण जगत् पाति शरीरगः।
आदित्यस्थेन रूपेण जगद् याति प्रकाशयन्।
अग्निस्थेन तु रूपेण हूयते सर्वयष्टृभिः।
आदाय यात्यायुरिति स एवादित्य उच्यते।
तत्सम्बन्धात् तु तन्नाम सूर्यस्याग्नेस्तथैव च।
स एष कूर्मरूपेण वायुरण्डोदके स्थितः।
विष्णुना कूर्मरूपेण धारितोऽनन्तधारकः।
अप्सु
पादा हि चत्वारो ह्यण्डोदे कोणसंस्थिताः।
उरस्तु
भूमिसंश्लिष्टमतिरिच्य भुवं पुनः।
पार्श्वतः
पृष्ठतश्चैव
शिरश्चोदकसंस्थितम्।
आकाशमुदरे तस्य द्यौः पृष्ठे संस्थिता विभोः।
एवं विद्वांस्तु यत्रैति तत्रैव प्रतितिष्ठति॥”
इति प्रभञ्जने।
स्थानेच्छा चेत्
तत्रैव
प्रतितिष्ठति।
“उपास्ते कूर्मरूपं यो वायुं संस्थितिमाप्नुयात्।
इच्छया विनिवृत्तिं वा लोकं चावृत्तिवर्जितम्॥”
इत्यध्यात्मे।
“स एष प्राणस्त्रेधा विहितः”
इति वचनाच्च वायुः।
“बिभर्त्यण्डं हरिः कूर्मस्त्वण्डे चाप्युदकं महत्।
उदके कूर्मरूपस्य
वायुः पुच्छं समाश्रितः।
वायोः पुच्छं समाश्रित्य शेषस्तु पृथिवीमिमाम्।
बिभर्ति तस्यां च जगदिदं सर्वं प्रतिष्ठितम्॥”
इति वैभवे।
“वायोस्तु कूर्मरूपस्य पूर्वतश्चोदके मुखम्।
आग्नेयैशानगौ
बाहू पादौ निरृतिवायुगौ॥”
इति प्रकृष्टे॥ ३॥
आत्मा ब्रह्मा मे द्वितीयो जायेतेत्यकामयत।
वायुरेव ब्रह्मा भवतीति दर्शयितुं वायोः सृष्टिः प्रथममुक्ता।
“वायुरेव यतो ब्रह्मपदं नियमतो व्रजेत्।
सहैव जननेऽप्यस्मात् पूर्वं वायोर्जनिं वदेत्।
क्वचित् तु ब्रह्मणः पूर्वं प्राधान्यात् तत्पदस्य च॥”
इति ब्रह्मतर्के।
“आत्मा विरिञ्चः सुमनाः सुधौतश्चैति कथ्यते।
ब्रह्मा चतुर्मुखश्चेति पूर्वजो यः प्रजापतिः॥”
इति शब्दनिर्णये।
स मनसा स्वेच्छया वाचं श्रियं देवीं मिथुनं समभवत्।
“मम द्वितीयो जायेत ब्रह्मेति भगवान् परः।
वेदाभिमानिनीं देवीं श्रियं समभवत् प्रभुः।
स्वेच्छयैव यतः शक्तिस्तां विनाऽपि हरेः सदा।
ततः संवत्सरो नाम ब्रह्मा समभवत् प्रभोः।
तं गर्भमुदरेऽबिभ्रद् यावत् संवत्सरं रमा।
तं जातमत्तुं स्वमुखं विदार्य पुरुषोत्तमः।
श्रुत्वा रावं पुनस्तस्य व्यदधात् सृष्टये प्रभुः॥”
इति कारणविवेके।
बिन्दुलोपेनाशनाया मृत्युरित्यर्थः।
“अशनाया हि मृत्युः”बृहदारण्यकोपनिषत् ३/२/१
इत्युक्तम्।
सर्वाशननेतेत्यर्थे बिन्दुः।
“आधिक्येऽधिकम्”
इति सूत्रात्।
सम्यगात्मनो वत्सभूतान् देवादीन् रमयतीति संवत्सरः।
“ब्रह्मणो भाणिति वचो निःसृतं भयतो मुखात्।
तस्याभिमानिनी देवी तदैवोत्था
चतुर्मुखात्।
वागीश्वरीति तामाहुर्वाचं चापि सरस्वतीम्॥”
इति भावतत्त्वे।
तदभिमानित्वात् सैव वागित्युच्यते।
भारूपो णरूपश्चेति भगवान् भाण् तद्व्यञ्जकत्वाद् भणनं वाक्॥ ४॥
अभिमंस्ये लीनं करिष्ये चेत्।
“मानं ज्ञानं लयश्चैव मर्यादा चैव कथ्यते।
उत्पादनं च सङ्ख्यानं बलं च क्वचिदुच्यते॥”
इति शब्दनिर्णये।
“वेदाभिमानिनः सर्वास्तथा यज्ञाभिमानिनः।
गायत्र्यामसृजद् ब्रह्मा स्वभार्यायां प्रजास्तथा॥”
इति प्रकाशिकायाम्।
“यद्यद् ब्रह्माऽसृजत् पूर्वं तत्तदत्ति जनार्दनः।
अदितिर्नाम तेनासौ भगवान् पुरुषोत्तमः।
उपास्ते यः परं देवमेवमत्तीति सर्वदा।
स्वयोग्यतानुसारेण सर्वात्ताऽसौ भवत्युत।
ब्रह्मरुद्रसुपर्णानां सर्वात्तृत्वं विशेषतः।
प्रायेणात्तृत्वमिन्द्रादेरन्येषां दर्शनादिकम्।
बहुलस्येति योग्यत्वभेदादत्तृत्वमिष्यते॥”
इति मानसंहितायाम्।
“आत्मनो यादृशा भोगा भोक्तुं योग्या हि तादृशान्।
भोक्ता विष्णुरिति ध्यायेत् सर्वात्तृत्वं हरेः स्मरेत्।
दैवतानां च सर्वेषां सर्वात्तिध्यानमिष्यते॥”
इति प्रवृत्ते॥ ५॥
“इच्छतो विष्णुयजनं ब्रह्मणः साधनास्मृतेः।
श्रमात् तापाच्च देहं तं त्यक्तुमिच्छा बभूव ह।
इच्छया चाप्युदक्रामत् प्राणैः सह पितामहः।
यशोवीर्यनिमित्तत्वात् प्राणास्तन्नामकाः स्मृताः।
अत्यल्पे चापि सञ्जाते
श्रमेऽपि न तदिच्छया।
तापे प्राणा निःसरन्ति सा च क्रीडा विभोः स्मृता।
बृंहमाणं शरीरं तु पुनर्दृष्ट्वा पितामहः।
प्रवेष्टुं तच्छरीरं च कामयामास स प्रभुः॥ *॥
पुनस्तस्मिन् प्रवेशाय शवरूपस्य मेध्यताम्।
ऐच्छत् तेनैव देही स्यामिति तस्मिन् विवेश च।
तस्मिन् प्रविश्य स ब्रह्मा द्वितीयं वपुरग्रहीत्।
दृष्ट्वोपायं महायज्ञेऽथाश्वाकारं पितामहः।
श्वैतीभावात् परं यस्मात् तज्जज्ञेऽतोऽश्वनामकम्।
यदर्थं श्वेततामाप तद्देहो मेध्यतामपि।
अश्वमेधः स यज्ञोऽभून्नाम्ना तेन तदा कृतः।
श्वैतीभावं गते देहे पुनर्मेध्ये यतः स्थितः।
अतोऽश्वमेधनामाऽसौ ब्रह्मा शुभचतुर्मुखः।
अश्वो भूत्वा यतो मेध्यः सोऽभवत् तेन वा स्मृतः।
मेधो यज्ञः समुद्दिष्टो याज्ञीयं मेध्यमुच्यते।
शुद्धं
मेध्यमथापि स्यादेवंविद् योऽश्वमेधवित्॥ *॥
तमश्वरूपमात्मानमनिवारितवद् विभुः।
चारयामास रूपेण तदन्येन पुमात्मना।
सर्वस्मिन् भुवने चाब्दं तदन्ते परमात्मने।
स्वस्मिन् स्थिताय सङ्कल्प्य यज्ञ आलभतात्मवान्।
अजादिकान् पशूनन्यदेवस्थपरमात्मने।
कर्तृत्वेन पशुत्वेन यत् फलं तदशेषतः।
मम स्यादिति मन्वानः सोऽश्वरूपमधारयत्।
अबुद्धिपूर्वमरणात् स्वर्गश्चापि पशोर्भवेत्।
ज्ञानपूर्वं पशोः
पुंसः किमु वक्तव्यमित्यजः।
एवं सूर्योऽप्यश्वमेधनामा संवत्सराभिधः।
सूर्ये स्थितो यतो ब्रह्मा ह्यश्वमेधाभिधः स्वयम्।
सूर्ये ततत्वात् सूर्यात्मा ब्रह्माऽसौ परिकीर्तितः।
अग्नौ स्थितो यतः
सोऽर्कस्तस्मादग्निरितीर्यते।
ब्रह्मातता यतो लोकास्तदात्मानस्ततो मताः।
ब्रह्मसूर्याग्निलोकेषु व्याप्तैका देवता हरिः।
तादृशं नृहरिं ज्ञात्वा पुनर्मृत्युं जयन्नसौ।
सदैव वर्तते ब्रह्मा पुनर्मृत्युर्मृतिः स्मृता।
नैनं मृत्यात्मको मृत्युः प्राप्नोति हरिसेवनात्।
यस्मान्नृसिंहो मृत्योश्च मृत्युरात्माऽस्य वै भवेत्।
आततत्वात्
तथाऽत्तृत्वादात्माऽसौ
ब्रह्मणः स्मृतः।
आदानादात्तनिर्माणादात्तज्ञानात् तथैव च।
एतासां देवतानां च ब्रह्मेशत्वेन वर्तते।
नृसिंहस्य सदा ज्ञानाद् ध्यानाच्च तदनुग्रहात्॥”
इति महासंहितायाम्।
भूयःशब्दः पूर्णत्ववाची।
परमेश्वरं परिपूर्णं यजेयेति।
अश्वदित्यश्वोऽभवत् तदेव रूपं मेध्यं यज्ञ
आलम्भनीयं
चाभवदित्यश्वमेधः।
“तमनवरुध्येवामन्यत”
इत्यादिवाक्यशेषादश्वभावः प्रतीयते।
अश्वत् बृंहितं पश्चान्मेध्यं चाभूद् यस्य शरीरं सोऽश्वमेध इति च।
निरोधमकृत्वा चारयिष्यामीत्यमन्यत।
स्वेच्छयैव स्वरूपान्तरत्वादश्वरूपस्य॥ ८॥
॥ इत्यश्वमेधब्राह्मणम्॥ ३/२॥
उद्गीथब्राह्मणम्
“द्वया ब्रह्मसुतास्तत्र दैतेया बहवः स्मृताः।
तमोरूपाः सत्वरूपा अल्पसङ्ख्याः सुराः स्मृताः।
बहुत्वात् तैर्जिता देवाः शङ्करस्य वरेण च।
यज्ञेन विष्णुमभ्यर्च्य तत्रोद्गातृबलेन च।
जयामैनानिति स्मृत्वा, वह्न्यादीनप्यचूचुदन्।
औद्गात्रेऽग्निमुखाः सर्व इन्द्ररुद्रौ च वेधितौ।
असुरैः पापपूगेन, मुख्यवायुं ततोऽब्रुवन्।
दैत्यास्तं वेद्धुमीप्सन्तो ध्वस्ता नेशुश्च
सर्वशः।
पांसुपिण्डो यथा वज्रशिलां प्राप्यैव नश्यति।
तस्मादखण्डशक्तिः स मुख्यवायुरुदाहृतः।
शापैरथ वरैर्वाऽपि नास्य प्रतिहतिर्भवेत्।
स्वेच्छयैवानुसारेण विना कुत्रापि
पुत्रकाः।
एवंविदपि पापेभ्यः शत्रुभ्योऽपि प्रमुच्यते॥ *॥
स वायू रुद्रशक्रादेर्वासुदेवबलाश्रयः।
विमोच्य
पापसङ्घातं
दिशामन्तेष्वथाक्षिपत्।
उन्मुच्य मृत्योस्तांश्चैवाधोर्ध्वलोकेषु चावहत्॥ *॥
अग्निर्नासिक्यवायुश्च दिक्पा इन्द्रादयोऽखिलाः।
सूर्यः सोमश्च रुद्रश्च तेनैव स्वपदे स्थिताः॥ *॥
स्त्रीगुणैः सर्वपूर्णत्वाद् बृहती तु सरस्वती।
अनन्तवेदरूपत्वात् सैव ब्रह्मेति कीर्तिता।
विष्णुना बृंहितत्वाद् वा तत्पतिर्वायुरीश्वरः॥ *॥
सारत्वात् स्त्रीषु सा देवी सेत्युक्ता सामरूपतः।
गीथेत्युक्ता
तदुद्गीथः सामाख्योऽर्धतनुस्तथा।
अर्धनारीनरवपुर्वायुः कुत्रचिदीरितः॥ *॥
अयास्यो विश्वसृग् यज्ञे तेनाविष्टोऽन्वगायत॥ *॥
गृहकोशादिकं यत् स्वं तद्रूप्यस्य
स्वरे स्थितः॥ *॥
भूषणस्वर्णरूपी च स एवापि
स्वरे स्थितः॥ *॥
वागिन्द्रियं पीठरूपं तस्य देवस्य संस्थितम्।
गानकालेऽन्यदा त्वन्नं प्राणपीठमिति स्मृतम्॥ *॥
पवमाना इति प्रोक्ता मुख्यवायुत्वयोगिनः।
अनादिकालसम्बद्धा योग्यता सा प्रकीर्तिता।
सर्वाधिक्यारोहणं तु तेषामेव विमुक्तिगम्।
प्रस्तावकाले प्रस्तोतुं योग्यो वायुपदस्य यः।
जपेद् यजूंषि त्वेतानि त्रीणि विष्णुं सदा स्मरन्।
असतो मा सदित्यादि विष्णुप्रार्थनभाञ्जि च।
द्वात्रिंशल्लक्षणैः सम्यग् युक्ता वायुत्वयोग्यकाः।
नियमेनैव विष्णोस्तु प्रादुर्भावा विशेषतः।
सहस्रारेण चक्रेण चिह्निता दक्षिणे करे।
गदयाऽष्टाश्रया चैव शतावर्तेन कम्बुना।
वामे करे तथाऽब्जेन
सहस्रदलशोभिना।
अष्टाविंशल्लक्षणाश्च गिरीशपदयोगिनः।
चतुर्विंशतिमारभ्य षोडशादा सुराः स्मृताः।
अष्टकादृषयश्चोक्तास्तदूनाश्चक्रवर्तिनः।
असद् दुःखात्मको मृत्युः
सदानन्दोऽमृतं
स्मृतम्।
तमोऽज्ञानात्मको
मृत्युर्ज्योतिर्ज्ञानात्मकं स्मृतम्।
मृत्योर्माऽमृतमित्यत्र मृत्युर्मरणमेव च।
एवंविद्
वायुपदयोग्या उद्गातार
एव तु।
यदा भवेयुस्तेषु तदा याजी तु वृणुयाद् वरम्।
आत्मने याजिने वाऽपि ह्युद्गातैवंविधो यदि।
आगायेत् तद् भवेन्नात्र कार्याऽभीष्टे विचारणा।
एवं तं सामनामानं वायुं यो वेद सादरम्।
तस्येष्टलोकराहित्ये नाशा कार्याऽरिणा क्वचित्।
तस्माद् वायुत्वयोग्यैर्हि येषां लोकाः प्रकीर्तिताः।
तेषामलोकशङ्का
च नैव कार्या कदाचन।
यस्मान्नारायणस्यातिप्रियाः प्राणत्वयोगिनः॥”
इत्यादि महासंहितायाम्।
आस्यादयत इत्ययास्यः।
प्रसिद्धमृत्व्यमृतत्वान्नात्र तिरोहितमिवास्ति।
एष उद्गातेति वायुत्वयोग्यः।
तद्धैतल्लोकजिदेवेति तस्माद् वराभियाचनम्॥
॥ इत्युद्गीथब्राह्मणम्॥ ३/३॥
प्रजापतिब्राह्मणम्
इदमग्रे एतस्याग्रे परमात्मैवासीत्।
ततः पुरुषविधो ब्रह्माऽऽसीत्।
पुरुषो विष्णुस्तद्विधत्वात् पुरुषविधः।
“एतस्य जगतो ह्यग्र आसीन्नारायणः परः।
एक एव श्रिया सार्धं तमात्मा पुरुषेत्यपि।
आहुस्तस्मात् पुरुषविधो ब्रह्मा
समभवद् विभोः।
ब्रह्मादेश्च श्रियश्चैव नित्यं विष्णुर्गुणाधिकः।
यथा तथैव रुद्रादेर्ब्रह्मा यस्माद् गुणाधिकः।
एतस्मात् पुरुषविधता ब्रह्मणः सम्प्रकीर्तिता।
स तु
सर्वा दिशो
दृष्ट्वा नान्यद् दृष्ट्वा पितामहः।
अब्रवीदहमस्मीति स्वाहेयत्वमनुस्मरन्।
हातुं शक्यमिदं सर्वमासीदेकोऽभवं यतः।
अहेयत्वं स्वरूपस्य स एवं समचिन्तयत्।
ततोऽभवदहंनामा स चाभूत् पुरुषाभिधः।
ओषणात् सर्वपापानां
पूर्वः
पुरुष उच्यते।
नारायणप्रसादेन य एवं
पुरुषाभिधम्।
वेद स्वाभिमतं यस्तु पूर्वं प्राप्तुमभीप्सति।
ओषेत्
सर्वमतुष्टः
सन् ब्रह्मविष्णुप्रसादतः॥ *॥
तस्य त्वेकस्य सहसा यतो भीः समजायत।
तस्मादद्यापि चैकस्य
निर्विवेकं भयं
भवेत्।
विममर्श ततो ब्रह्मा
यस्मान्मे बाधको
नहि।
मया सृज्या यतः सर्वे इतः पश्चात्तनो हरः।
अतः कस्माद् बिभेमीति तस्य भीतिरपोहिता।
विष्णोरतिप्रियत्वात् तु तदन्येषां पितृत्वतः।
कस्माद् भयं भवेत् तस्य समानाद्धि भयं भवेत्।
विरोधिनोऽधिकाद् वाऽपि हीनाद् वा पारवश्यतः।
हीनमेव यतस्तस्य सर्वमेव जगद् वशे।
नच जातं तदा सर्वं हरिरेव यतः परः॥ *॥
न रेमे स ततो ब्रह्मा तस्मादेकस्य नो रतिः।
अथापि
पत्नीमैच्छच्च स स्थूलत्वमुपागतः।
दम्पती
सहितौ
यावद् ब्रह्मा चैव सरस्वती।
तावद्देहोऽभवद् ब्रह्मा
तदा
देहं द्विधाऽकरोत्।
पातनात् पतिपत्नीत्वशब्द एनोरजायत।
तस्मात् तयोरेकसुखं भवत्येवार्धपात्रवत्।
ततस्तस्यामुमेशादीन् देवान्
सर्वान् मनूनपि।
जनयामास बोधस्य प्राधान्यं हि मनुष्यता॥ *॥
सर्वज्ञाऽपि तु सा देवी विरिञ्चे भक्तिमत्यपि।
तद्भार्यतामात्मनश्च नितरां धर्ममीक्षती।
अनाद्यनन्तसम्बन्धमुभयोरपि जानती।
स्त्रीस्वभावं दर्शयन्ती साधर्ममिव चैक्षत।
नानासृष्टिप्रसिद्ध्यर्थं सा गोत्वादिकमाव्रजत्।
वृषादिरूपतां
सोऽपि प्राप्य सृष्ट्वेदमञ्जसा॥ *॥
सर्जनात् सृष्टिनामाऽभूत् तद्वित् तत्पुत्रतां व्रजेत्।
पिपीलिकान्तरुद्रादौ यथायोग्यत्वमात्मनः॥ *॥
अथान्नादमथाप्यन्नं स्रक्ष्यामीति
विचिन्तयन्।
ओष्ठद्वयं ममन्थान्तर्हस्तौ चैव परस्परम्।
तन्मुखाच्चैव
हस्ताभ्यामन्तरग्निरजायत।
एवं सर्वस्य हेतुत्वात्
सर्वस्यापि पतित्वतः।
सर्वे देवा एष एवेत्याहुर्वेदविदो जनाः।
स्वतन्त्रेषु यतः शब्दा वर्तेयुः सर्व एव च।
स रेतसः पुनः सोममसृजद् ब्रह्मविद्वरः।
सर्वाधिकोऽपि योग्यत्वान्मर्त्यधर्मतया पुरा।
अवमो योग्यताहीनानप्यायुर्मात्रतोऽधिकान्।
यतोऽस्रागतिसृष्टिस्तदेवं यो वेद पूरुषः।
विष्णोः प्रसादतः सृष्टिं देवलोके स जायते।
आत्मयोग्यानुसारेण
सुखज्ञानादियुक्तता॥”
इति ब्रह्मतर्के।
भगवदुपासनामाहात्म्यमेतदिति दर्शयितुं तद् यदिदमाहुरित्याद्यारम्भः॥
॥ इति प्राजापत्यब्राह्मणम्॥ ३/४॥
अव्याकृतब्राह्मणम्
विश्वम्भरो वायुः।
“अकृत्स्नो हि सः” इत्यस्याभिप्रायः-
स योऽत एकैकमुपास्ते न स वेदेत्यादि।
प्राण इत्यादिनामानि परमेश्वरस्य न सर्वगुणसम्पूर्णतां वदन्ति।
किन्तु? प्राणनादिकर्मकर्तृत्वमेव वदन्ति।
आत्मशब्द एव
सर्वगुणसम्पूर्णत्वं
वदति।
अस्य सर्वस्य गुणजातस्यायमात्मैव पदनीय आश्रयो यस्मादतस्तं सर्वगुणवाचकेनात्मशब्देनैवोपासीत।
अनेन ह्येतत् सर्वं वेद यस्मात् सर्वज्ञानप्रदस्तस्मात्
सर्वगुणसम्पूर्ण
इत्येवोपासनं तस्य युक्तम्।
तदुपासनादेव सर्वज्ञत्वादयो
भवन्ति,
किमु तस्येति।
पद्यतेऽनेनेति पदं साधनम्।
यथा तत्तत्साधनेन तत्तत्फलं प्राप्नुयादेवं सर्वगुणयुक्तत्वेन भगवदुपासनात् कीर्तिं श्लोकं च विन्दते।
शं लोकः श्लोकः परमानन्दं परमं ज्ञानं चेत्यर्थः।
“लुक् प्रकाशे”
इति धातोः।
“आसीदेको हरिः पूर्वं देवी नारायणी तथा।
अन्यदव्यक्ततां यातं तद्व्यक्तमकरोद्धरिः।
सृष्ट्वा जगदिदं सर्वं सृष्ट्वा देहांश्च सर्वशः।
आकेशादानखाग्रेभ्यः प्रविष्टः पुरुषोत्तमः।
यथा प्राणः शरीरेषु क्षुरो यद्वत् क्षुरस्तुके।
प्रविष्टमपि तं विष्णुं न पश्यन्ति पृथग् जनाः।
प्रविष्ट इति जानंश्च नैनं जानाति सर्वशः।
यस्मात् तद्गुणभागोऽयं प्रवेशः प्राणनादि च।
तस्मात् प्राणादिनामानि कर्मनामानि तस्य तु।
तस्मात् प्राणादिनाम्ना य उपास्ते हरिमव्ययम्।
अकृत्स्नोपासकः स स्याद् यस्मात् तद्गुणभागवित्।
पूर्णत्वेऽपि परेशस्य यस्तु तद्गुणभागवित्।
अकृत्स्नवित् स्यात् कृत्स्नस्य वेत्ताऽऽत्मेतिविदेव यः।
चिदानन्दादयो यस्य गुणा आप्ताः सदैव तु।
स आत्मेति प्रविज्ञेयो गुणानामाप्तितो हरिः।
प्राणनादीनि कर्माणि चात्मशब्दोदितानि तु।
तदेतदात्मरूपं हि
गुणनामाश्रयत्वतः।
पदनीयमिति प्रोक्तं यतस्तज्ज्ञोऽपि सर्ववित्।
सार्वज्ञादिगुणास्तस्य किमुतात्मेश्वरस्य तु।
एवं सर्वगुणैर्युक्तं सर्वजीवेश्वरं हरिम्।
यो वेद तत्तत् साध्यं तु यथा
तैस्तैस्तु
साधनैः।
प्राप्नुयादेवमेवासौ कीर्तिं च परमं सुखम्।
ज्ञानं च परमं विन्देन्मुक्तः सन्नात्र संशयः॥*॥
स एष विष्णुर्भगवान् पुत्राद् वित्तात् तथाऽऽत्मनः।
अन्यस्मादपि सर्वस्मात् प्रेष्ठ एव स्वभावतः।
आत्मनोऽपि प्रियत्वं तु तेनैव कृतमञ्जसा।
आत्मनो निरयायैव कुर्यात् कर्माणि नित्यशः।
यतोऽतः स्वात्मनश्चापि स्वाप्रियत्वमुदाहृतम्।
स चेदप्रियकृद् विष्णुर्नात्माऽपि प्रियतां व्रजेत्।
अस्मिन् प्रिये प्रियं सर्वं तस्मादेकः प्रियो हरिः।
स चात्मशब्देनोद्दिष्ठो यस्मादाप्तगुणः प्रभुः।
अतो विष्णोः प्रियं ब्रूयाद् यः स्वात्माद्यं दुरात्मवान्।
प्रियरोधं करोषीति तं ब्रूयाद् वैष्णवो महान्।
एवं वदन् वैष्णवस्तु समर्थः प्रियरोधने।
तस्य स्याच्च विशेषेण
तदुक्त्यैवापि दुःखिनः।
तस्मात् सर्वप्रियो विष्णुरित्युपास्ते सदा प्रियः।
नास्य प्रियमनित्यं स्यादस्य प्रीतिः सदा भवेत्।
तस्मात् सर्वप्रियं विष्णुमुपासीतैव नित्यशः।
नित्यप्रियकरो विष्णुर्भवेत् तस्याप्यजः स्वयम्॥”
इत्यध्यात्मे॥ २॥
ब्रह्मविद्यया सर्वं भविष्यन्त
आत्मयोग्यतापूर्तिमाप्नुवन्तो
महान्तो यदाहुः।
ब्रह्मविद्यया स्वयोग्यं सर्वं प्राप्यत इति।
नित्यनिर्दुखानन्दानुभवरूपो हि स्वत उत्तमो जीवः।
तादृशं रूपमज्ञानात् तिरोहितं ब्रह्मविद्ययाऽभिव्यज्यत एव।
नचान्यथाभिव्यज्यत इति सन्तो यदाहुः।
तत् तत्र केचिन्मनुष्या इति मन्यन्ते।
स्वरूपमपि
ब्रह्मविद्ययाऽभिव्यज्यते
चेत्, तद् ब्रह्मापि यस्मात् सर्वमभवत् परिपूर्णमभवत् तस्मात् स्वरूपं ज्ञात्वैवाभवत् किमिति॥ ३॥
सत्यम्।
तदपि स्वरूपं नित्यापरोक्षज्ञानेन सर्वदा जानात्येव।
अत एव सर्वदा परिपूर्णमिति तेषां परिहारः।
तदात्मानमेवावेत् तस्मात् तत्सर्वमभवदिति।
“आत्मा वा इदमेक एवाग्र आसीत्”महैतरेयोपनिषत् २/४/१
“सदेव सोम्येदमग्र आसीत्”छान्दोग्योपनिषत् १/३/१
इत्यादिवत्
सदातनज्ञानं
पूर्णभावं चाह।
इदमग्रे अस्याग्र इति
षष्ठ्यर्थे द्वितीया।
अहम् अहेयं ब्रह्म परिपूर्णम्।
अस्मि सर्वदाऽस्तीति मेयमित्येतैर्विशेषणैरात्मानं स्वरूपमेवावेत्।
यद्यहंशब्दोऽस्मच्छब्दार्थवाची, अस्मिशब्दश्चोत्तमपुरुषे, तदा “आत्मानम्” इति व्यर्थं स्यात्।
अतोऽहमस्मिशब्दावुक्तार्थावेव।
अग्रे अनादिकालत एव विद्यमानमात्मानं जानाति च तद् ब्रह्मेत्यर्थः।
सर्वनियन्तृत्वेन सर्वगतत्वादहेयम्।
“तद् योऽहं सोऽसौ योऽसौ सोऽहम्”ऐतरेयारण्यकम् २/२/४
“योऽसावसौ पुरुषः सोऽहमस्मि”🔗ईशावास्योपनिषत् १६
इत्यादिष्वप्यहंशब्दोऽन्तर्यामित्वेनाहेयत्ववाची।
“तत् सत्यं स आत्माऽतत्त्वमसि”छान्दोग्योपनिषत् ६/३
इति भेदस्य नवकृत्वोऽभ्यासात्।
“तद् योऽहं सोऽसौ”ऐतरेयोपनिषत् २/२/४
“अहं ब्रह्मास्मि”बृहदारण्यकोपनिषत् ३/५/४
इत्यादिवाक्यानां सम्यगर्थापरिज्ञानात्
भ्रान्तिप्राप्तोऽभेदो
“अतत्त्वमसि”
इति नवकृत्वो निराक्रियते।
“तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं कुतस्तु खलु सोम्यैवं स्यात् कथमसतः सज्जायेत”छान्दोग्योपनिषत् ६/२/१
इत्यादिना
“असद् वा इदमग्र आसीत्”🔗तैत्तिरीयोपनिषत् २/७
“असतः सदजायत”ऋग्वेदसंहिता १०/७२/२
इत्यादि श्रुत्यर्थापरिज्ञानोत्थभ्रमो यथा निवार्यते, एवं
“अतत्त्वमसि”छान्दोग्योपनिषत् ६/३
इति वाक्येनापि।
“स आत्मा” इति शब्दाच्च।
आत्मशब्दस्य परमात्मनि मुख्यत्वेऽपि जीवे भ्रान्तिरुपपद्यते।
तन्निवृत्यर्थं वा
“अतत्त्वमसि”
इत्याह।
“यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह।
यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते॥”
इत्यादिनाऽऽप्त्यादिकम्
“ऐतदात्म्यमिदं सर्वम्”
इत्यनेनोच्यते।
“पूर्णत्ववाच्यात्मशब्द आत्मा पूर्णत्वतो हरिः”
इत्यादिना “स आत्मा” इति पूर्णत्वमभिधीयते।
“यथा सोम्यैकेन मृत्पिण्डेन”छान्दोग्योपनिषत् ६/१/२
इति सदृशविज्ञानेन सदृशान्तरं विज्ञातं भवतीत्युक्तम्।
“लोहमणिना” इति मणिशब्दात् प्रधानविज्ञानेनाप्रधानं सर्वं विज्ञातं भवतीति।
“मणिर्मुखं
प्रधानं च उत्तमस्य
वचो भवेत्”
इति वचनात्।
“यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्”छान्दोग्योपनिषत् ६/१/
इति पुनरपि सदृशेन विज्ञातेन सदृशान्तरं विज्ञातं
भवतीत्यभ्यासस्तात्पर्यार्थः।
उपादानविवक्षायामेकत्वविवक्षायां च “एकेन” इति विशेषणं “पिण्डेन” इति “एकेन मणिना” इति पुनः “एकेन” इति च विशेषणानि व्यर्थानि भवेयुः।
तस्मिन् पक्षे ‘मृदा विज्ञातया, लोहेन विज्ञातेन
कार्ष्णायसेन
च विज्ञातेन सर्वं विज्ञातं भवति’ इति वक्तव्यम्।
नह्येकमृत्पिण्डविकारभूतं
सर्वमृण्मयम्।
नचैकलोहमणिकार्यं सर्वलोहमयम्।
नच तेनैकीभूतम्।
नचैकनखनिकृन्तनकार्यं सर्वं कार्ष्णायसम्।
“वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्”छान्दोग्योपनिषत् ६/१/२
इत्यादि प्रधानपरिज्ञाने गुणभूतं परिज्ञातमिव भवतीत्यत्र दृष्टान्तान्तरम्।
वाचा नाम्नाम् आरम्भणं विकारो विविधत्वेन कर्तुं योग्यमिति विकारः।
सत्यं सर्वदा विद्यमानं नामधेयं मृत्तिकेत्येव।
सङ्केतरूपेण नानाविधानि नामानि कर्तुं शक्यन्ते।
तथाऽपि शास्त्रप्रयोगसिद्धमृत्तिकादिनामपरिज्ञानात् तत्तन्नामविद् भवति।
एवं
नित्यासाम्यातिशयसर्वगुणपरिपूर्णपरमेश्वरपरिज्ञानात्
सर्वविद् भवतीति।
यथैकस्मिन् जनपदे प्रधानपुरुषेषु परिज्ञातेष्वाहूतेष्वागतेषु विनाशितेषु रक्षितेषु वा सर्वो जनपदः परिज्ञात आहूत आगतो विनाशितो रक्षित इत्युच्यते।
यथा च राजसु नाशितेषु-
“नाशिता पृथिवी सर्वा धार्तराष्ट्रेण दुर्नयैः”
इति।
यथा च केषाञ्चित् पुरुषाणां रक्षणेन-
“शशास पृथिवीं सर्वां सशैलवनकाननाम्”
इति।
एवं सर्वोत्तमस्य परमेश्वरस्य विज्ञानात् सर्वं विज्ञातमिव भवति।
नच मृन्मात्रविज्ञानाद् घटशरावादिसंस्था विज्ञाता भवन्ति मुख्यतः।
तथासति दृष्टमृदः पुरुषस्य घटशरावादिजिज्ञासा न स्यात्।
सृष्टिकथनं च प्राधान्यार्थं त्रीणि रूपाणीत्येव।
सत्यमित्यपि प्राधान्यार्थमेवाभिमानिदेवतापेक्षया।
“तेजोभिमानवान् ब्रह्मा वायुश्चाबभिमानवान्।
रुद्रः क्षित्यभिमानी चाप्येतन्मयमिदं जगत्।
अभिमन्यमानसहितास्त्रय एतेऽभिमानिनः।
विष्णोर्जाताः क्रमेणैव पूर्वस्मादुत्तरोत्तरम्।
तेजोबन्नाभिधा तस्मादेषामेव प्रकीर्तिता।
एते च त्रीणि रूपाणीत्यभिधागोचराः सुराः।
ब्रह्मवायुगिरीशेभ्यस्तेभ्यो जातमिदं जगत्।
अतोऽग्निसूर्यसोमानामपि रूपं तदुद्भवम्।
अतोऽग्निसूर्यसोमानां नामाप्येषां प्रकीर्तितम्।
सादनाद् यमनाच्चैव सत्यमेषां त्रयः सुराः।
तेषां सत्यं हरिः साक्षाद् यतस्तेषां नियामकः।
प्रधाने सत्यशब्दोऽयं श्रुतिभिः समुदाहृतः।
यथैव सर्वलोहानां प्रधानं काञ्चनं स्मृतम्।
यथा मृत्पिण्डसदृशा मृन्मयाः सर्व एव च।
यथा कार्ष्णायसं सर्वं समं कार्ष्णायसान्तरे।
एवं सर्वस्य जगतः सदृशः श्रेष्ठ एव च।
हरिस्तेन तु तज्ज्ञानाज्जगज्ज्ञातमिवाखिलम्।
स स्रष्टा चैव संहर्ता नियन्ता रक्षिता हरिः।
तेन व्याप्तमिदं सर्वमैतदात्म्यमतो विदुः।
स आत्मा पूर्णगुणतः स सूक्ष्मः सर्वगः सदा।
सर्वोत्तमत्वात् सत्यं तज्जीवाभिन्नं तदासुराः।
विदुर्न त्वं तथा विद्धि श्वेतकेतो कदाचन।
किन्तु विष्णुः पृथक् सर्वदेवदेवेश्वरः प्रभुः।
पृथगेवाहमत्यल्पशक्तिज्ञानसुखादिकः।
इत्येव विद्धि सततमतो मोक्षमवाप्स्यसि।
सर्वोत्तम इति ज्ञातो विष्णुर्मोक्षमिमं नयेत्।
जीवरूपतया ज्ञातस्तमोऽन्धं प्रापयेत् प्रभुः।
विष्णोर्दासतया विष्णोः सामीप्यं मोक्ष उच्यते।
न विष्णुत्वं तु मोक्षः स्यादेषोऽहमिति
वाऽस्मृतेः।
संसारसागरात् तीर्णो मुक्तोऽहमिति
वाऽस्मृतिः।
यदा तदा विमोक्षेण किं फलं ज्ञानिनो भवेत्।
यथा
मधुकरैर्नानाविधपुष्परसैः
सह।
मधुत्वं प्रापितः संविदभावान्न सुखी भवेत्।
यथा नद्यो न मुक्ता हि समुद्रं प्रापिता अपि।
इयमस्मीति चाज्ञानाद् यथा सुप्तो न मुच्यते।
प्रलयेऽपि
हरिं प्राप्तः पृथक्त्वज्ञानवर्जनात्।
एवं जीवोशयोर्भेदज्ञानाद् विष्णोः सदोच्चताम्।
ज्ञात्वैव मुच्यते तस्मादेवं जानीहि पुत्रक॥”
इति ब्रह्माण्डे।
“मग्नस्य हि परेऽज्ञाने
किं न
दुःखतरं भवेत्”
इति मोक्षधर्मे।
“तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास”भागवतम् २/९/९
इत्युक्त्वा,
“न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं नच कालविक्रमः।
न यत्र माया किमुतापरे
हरेरनुव्रता
यत्र सुरासुरार्चिताः॥”भागवतम् २/९/९१०
इति भागवते।
“अदर्शयत् स्वकं लोकं ब्रह्मणे विष्णुरव्ययः।
यस्मात् पदात् परं नास्ति यत्र मुक्ता उपासते॥”
इति हरिवंशेषु।
“अतः परं न यत् पदम्” इत्यत्रापि यच्छब्दस्य यस्मादित्यर्थः।
“यत्तदित्यादयः शब्दाः पञ्चम्यर्थाश्च कीर्तिताः”
इति च।
“विद्याऽऽत्मनि भिदाबोधः”
“क्ष्माम्भोनलानिलवियन्मनइन्द्रियार्थैर्भूतादिभिः
परिवृतः प्रतिसञ्जिघृक्षुः।
अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः॥
एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः।
तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः॥”
“भेददृष्ट्याऽभिमानेन निःसङ्गेनापि कर्मणा”
इत्यादि च।
“आधिपत्यमृते चैव
आनन्देनापि
कर्मणा।
सर्वे ते ब्रह्मणस्तुल्या भोगेन विषयेण च।
नानात्वेनापि सम्बद्धास्तदा
तत्कालभाविना।
प्रकृतौ करणातीताः स्वात्मन्येव व्यवस्थिताः।
प्रदर्शयित्वा ह्यात्मानं प्रकृतिस्तेषु सर्वशः।
पुरुषान्यबहुत्वेन प्रतीता न प्रवर्तते।
प्रवर्तति पुनः सर्गे तेषां सा न प्रवर्तते।
संयोगः प्रकृतेर्नैव
मुक्तानां तत्त्वदर्शनात्।
समा दुःखनिवृत्तिस्तु मुक्तानामपि सर्वशः।
मानुषादिविरिञ्चान्तं सुखं मुक्तौ शतोत्तरम्॥”
इत्यादि वायुप्रोक्ते।
“ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः।
शास्त्रतत्त्वमविज्ञाय तथावादबला जनाः।
कामक्रोधाभिभूतत्वादहङ्कारवशं गताः।
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः।
ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः।
वैगुण्यमेव
पश्यन्तो
न गुणानि नियुञ्जते।
तेषां तमःशरीराणां तम एव परायणम्॥”भारतम् १२/२७५/५१-५४
“अन्य ईशस्तथाऽन्योऽहमिति ज्ञानं विपश्चिताम्।
आधिक्यज्ञानमीशस्य यतोऽन्यत्वेन युज्यते॥”
“यतः
स्वरूपश्चान्यो
जातितः श्रुतितोऽर्थतः।
कथमस्मि स इत्येव
सम्बन्धः
स्यादसंहितः॥”भारतम् १२/२२०/३६
“बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु।
को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हति॥
वैशम्पायन उवाच-
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह।
बहूनां पुरुषाणां हि यथैका योनिरुच्यते।
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्॥”भारतम् १२/३६०/१-३
इत्यादि च मोक्षधर्मे।
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः।
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः।
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्।
स सर्वविद् भजति मां सर्वभावेन भारत।
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥”🔗भगवद्गीता १५/१६-२०
इति च।
“ब्रह्मणस्तद्गुणानां च भेददर्श्यधरं तमः।
भेदाभेदप्रदर्शी च मध्यमं तु तमो विशेत्।
ईषद्भेदप्रदर्शी च तम एवोत्तरं विशेत्।
विजानीयात् ततो ब्रह्म सदा सर्वगुणात्मकम्।
गुणानां च विशेषोऽस्ति न विभेदः कथञ्चन।
ते च सर्वे गुणाः पूर्णास्तच्छरीरः परः स्मृतः।
आनन्दज्ञानशक्त्यादिदेहं विष्णुं तु ये जनाः।
अदेहं भूतदेहं वा विदुस्ते चाधरं तमः।
तथा प्रकृतिदेहज्ञाः कर्मदेहविदोऽपिवा।
तस्मादानन्दचिद्देहं चिदानन्दशिरोमुखम्।
चिदानन्दभुजं ज्ञानसुखैकपदसाङ्गुलिम्।
आ केशादा नखाग्रेभ्यः पूर्णचित्सुखशक्तिकम्।
प्रत्येकं तु
गुणांस्तांस्तु सदा सर्वगुणात्मकान्।
ज्ञात्वा विमुच्यते विष्णोः प्रसादान्मानुषोऽपि सन्।
जीवाभेदं तथाऽभेदं जगता ये विदुः प्रभोः।
तेऽपि यान्ति तमो घोरमधरं ब्रह्मतस्कराः।
भेदाभेदं विदुर्ये च जीवैस्तु जगताऽपिवा।
परस्य ब्रह्मणो यान्ति तमस्तेऽप्युत्तरं सदा।
अभेदज्ञाः
प्रकृत्याऽपि
भेदाभेदविदस्तथा।
तेऽपि यान्ति तमो घोरमधरं चोत्तरं क्रमात्।
तस्मात् सर्वोत्तमं विष्णुं पूर्णसर्वगुणोच्छ्रितम्।
विजानीयाद् विमुक्त्यर्थं सर्वतश्च विलक्षणम्।
अन्धन्तमः प्रविशन्ति ये देहं परमात्मनः।
भिन्नं विजानते विष्णोर्भिन्नाभिन्नविदोऽपिवा।
अन्धन्तमः प्रविशन्ति प्रादुर्भावांस्तु येऽपिवा।
सर्वभूतस्थितान् वाऽपि भिन्नान् जानन्ति येऽखिलान्।
भिन्नाभिन्नविदो वाऽपि शिरःपाण्यादिकं तथा।
भिन्नं मिथो विजानीयुर्भिन्नाभिन्नविदोऽपिवा।
तेऽपि यान्ति तमो घोरं यतो नैवोत्थितिः क्वचित्।
प्रादुर्भावतया ये च तदन्यान् जानते विभोः।
तेऽपि यान्ति तमो घोरं तस्मान्नैवंविदो विदुः।
मत्स्यकूर्मक्रोडसिंहवटुभार्गवराघवाः।
कृष्णबुद्धौ कल्किदत्तहयशीर्षैतरेयकाः।
पाराशर्यश्च कपिलो
वैकुण्ठ ऋषभस्तथा।
यज्ञो धन्वन्तरिश्चैव स्त्रीरूपस्तापसो मनुः।
नारायणो हरिः कृष्ण
उपेन्द्रः
सर्व एव च।
एवमाद्याः हरेः साक्षात् प्रादुर्भावाः प्रकीर्तिताः।
श्रीर्भूर्दुर्गाऽम्भ्रणी
ह्रीश्च महालक्ष्मीश्च दक्षिणा।
सीता जयन्ती सत्या च
रुक्मिणीत्यादिभेदिता।
प्रकृतिस्तेन चाविष्टा तद्वशा न हरिः स्वयम्।
ततोऽनन्तांशहीना च बलज्ञप्तिसुखादिभिः।
गुणैः सर्वैस्तथाऽप्यस्य प्रसादाद् दोषवर्जिता।
सर्वदा सुखरूपा च सर्वदा ज्ञानरूपिणी।
प्राणः सूत्रं महान् ब्रह्मा चित्तं वायुर्बलं धृतिः।
स्थितिर्योगश्च वैराग्यं ज्ञानं प्रज्ञा स्मृतिः सुखम्।
मेधा मुक्तिर्विष्णुभक्तिरादिगोपो
महान् प्रभुः।
ऋजुः
समानो
विज्ञाता महाध्याता महागुरुः।
हनूमान् भीम आनन्द इत्यादिबहुरूपिणः।
हिरण्यगर्भा येऽतीता ये भाव्या यश्च वर्तते।
सर्वे विष्णुवशा नित्यं विमुक्तेरप्यनन्तरम्।
एभ्यः श्रीस्तु विमुक्तेभ्यो
गुणैः कोटिगुणोत्तरा।
ज्ञानानन्दबलादिभ्यः सर्वेभ्यः
सर्वदैव हि।
भिन्नाभिन्नाश्च ते सर्वे ब्रह्माणस्तु परस्परम्।
अभिमानः पृथक् तेषामानन्दः सह भुज्यते।
ते तु भिन्ना हरेर्नित्यं श्रियोऽन्येभ्यस्तथैव च।
आविष्टो विष्णुरेतेषु न विष्णुस्तत्स्वरूपकः।
विष्णोरतिप्रियत्वात् ते ह्यध्यर्धा इति चोदिताः।
विष्णोः केवलभेदेऽपि शेषादिभ्यः प्रिया यतः।
विष्णोः प्रियत्वे तद्भक्तौ तज्ज्ञाने च श्रियस्तु ते।
मुक्ता अप्यवरा नित्यं सर्वे कोटिगुणेन च।
सरस्वती च गायत्री श्रद्धाद्या प्रीतिरेव च।
सर्ववेदात्मिका बुद्धिरनुभूतिः सुखात्मिका।
गुरुभक्तिर्हरौ प्रीतिः सर्वमन्त्रात्मिका भुजिः।
शिवकन्येन्द्रसेना च द्रौपदी काशिजा तथा।
चन्द्रेत्यादिस्वरूपायास्तेभ्यः शतगुणावराः।
विष्णुभक्तौ च तत्प्रीतौ
ज्ञानानन्दादिकेष्वपि।
मुक्तेः पश्चादपि गुणैः सर्वैर्ब्रह्मभ्य ईरिताः।
शेषः सदाशिवश्चोर्ध्वस्तपोऽहङ्कार एव च।
नरोऽपटो
लक्ष्मणश्च रौहिणेयः शुकस्तथा।
सद्योजातो वामदेवश्चाघोरस्तत्पुमानपि।
दुर्वासा द्रौणिरौर्वश्च
जैगीषव्यादिरूपकाः।
पूर्वोक्तैश्च गुणैः सर्वैस्ताभ्यः शतगुणावराः।
मुक्तेः पश्चादपि सदा अतीतानागताश्च याः।
अतीतानागता ये च सर्वशोऽप्यवराः सदा।
एवं सुपर्णाः सर्वेऽपि समाः शेषैः सदैव तु।
सवैर्गुणैस्तथा मुक्तौ तद्भार्यास्ततच्छतावराः।
ताभ्यः शतावरास्त्विन्द्राः पुरन्दर इतीरिताः।
तेभ्यः शतावरास्त्वन्ये इन्द्राश्चान्याश्च देवताः।
द्वित्रिपञ्चादिगुणतः परस्परविशेषिणः।
सनत्कुमारास्तु सदा पुरन्दरसमा मताः।
सनकाद्या नारदश्च दक्षभृग्वादयोऽपिच।
देवावरा यथा तद्वन्मनवोऽपि प्रकीर्तिताः।
त्रिचतुर्भागभेदेन तेऽप्यन्योन्यविशेषिणः।
वाली
गाधी विकुक्षिश्च
पार्थ इन्द्रः पुरन्दरः।
सुदर्शनश्च भरतः प्रद्युम्नः स्कन्द एव च।
सनत्कुमारः कामश्चेत्येक एव व्यवस्थितः।
स्वायम्भुवो मनुर्दक्षो वायुः स्पर्शाधिपस्तथा।
बृहस्पतिश्चानिरुद्ध एते सूर्यादितोऽधिकाः।
सूर्यश्च चन्द्रमाश्चैव यमश्चैते त्रयः सुराः।
प्रोक्तेभ्यस्त्ववराश्चान्यदेवेभ्योऽपि सदाऽधिकाः।
कार्तवीर्यः पृथुश्चैव
दौष्यन्तिर्भरतस्तथा।
शशबिन्दुश्च मान्धाता ककुत्स्थाद्यास्तथाऽपरे।
सर्वे ते विष्णुनाऽऽविष्टा विष्णोर्भिन्नाः सदैव तु।
शतावराश्च देवेभ्यः कर्मदेवा इति स्मृताः।
तुम्बुरुप्रमुखा ये च तथोर्वश्यादिका अपि।
विश्वामित्रब्रह्मपुत्रानृते चाप्यृषयोऽखिलाः।
सूर्यादिभ्योऽधमाश्चैव मन्वादिभ्यस्तथैव च।
वैवस्वतो मनुर्नित्यं विष्ण्वावेशी ततोऽधिकः।
कार्तवीर्यादिराजभ्यो देवभृत्याः शतावराः।
आजानदेवास्ते
प्रोक्तास्तेभ्यश्च
पितरश्चिराः।
पितॄणां सप्तकं यत् तत् कर्मदेवसमं मतम्।
विश्वामित्रो ब्रह्मपुत्रैः समो मुनिरुदाहृतः।
आचार्यः पितृणां चासौ पितृभिः सह पठ्यते।
आजानेभ्यस्तु
पितरो ह्यष्टभ्योऽन्ये शतावराः।
कर्मदेवगणा अष्टगन्धर्वास्तत्परे शतम्।
आजानदेवास्तेभ्योऽन्ये पितृभ्यश्च शतावराः।
स्वमुखेनैव देवैर्ये आज्ञाप्याः सर्वदा गणाः।
आख्याता देवगन्धर्वा ये त्वन्यमुखगोचराः।
मानुषास्ते तु गन्धर्वास्तेभ्यस्ते च शतावराः।
तेभ्यः शतावराश्चैव मनुष्येषूत्तमा गणाः।
देवादिष्वेषु सर्वेषु प्रोक्ता अपि विशेषिणः।
पञ्चांशतो दशांशाद् वा स्वस्वजात्यां परस्परम्।
देवस्त्रियो दशांशोनाः स्वपतिभ्यस्तथा पराः।
अष्टांशोनाः प्रविज्ञेया यासां मुक्तौ सह स्थितिः।
अनादिश्च विशेषोऽयं सर्वेषां मानुषादिनाम्।
इयं नीचोच्चता क्वापि न केनापि ह्यपोदितुम्।
शक्यते योऽन्यथाकर्तुमिच्छेत् सोऽपि तमो व्रजेत्।
योऽपि वेद समत्वेन सर्वान् नीचोच्चतः स्थितान्।
सोऽपि याति तमो घोरं यश्च साम्यमुदीरयेत्।
मानुषोत्तममारभ्य ब्रह्मान्तानां प्रयत्नतः।
विष्णोर्भक्तिज्ञानपूर्वं भवेन्मुक्तिः प्रसादतः।
भक्तिज्ञानादिकाः
सर्वे सर्वेषामप्यनादयः।
अनादिकालादारभ्य वृद्धानामुत्तरोत्तरम्।
तत्तद्योग्यतया पूर्तौ विष्णोर्दृष्टिः प्रजायते।
यथोदञ्चनकुम्भादेः सरित्सागरयोरपि।
अल्पेन महता वाऽपि पूर्तिर्योग्यतया भवेत्।
एवं नरादिब्रह्मान्तजीवानां साधनैरपि।
अनादिसिद्धैर्भक्त्याद्यैः पूर्तिर्योग्यतया भवेत्।
अल्पैः पूर्तिस्तथाऽल्पानां महद्भिर्महतामपि।
भक्त्याद्यैर्जायते तेषां साधनैर्नान्यथा क्वचित्।
श्रवणं मननं चैव ध्यानं भक्तिस्तथा दृशिः।
ज्ञानं चोक्तविशेषाणां सर्वेषां साधनं भवेत्।
त्यक्त्वैतानि न कस्यापि भवेन्मोक्षः कदाचन।
सर्वोत्तमतया ज्ञानपूर्वकः स्नेह एव तु।
भक्तिर्विष्णौ समुद्दिष्टा
तदन्येषां च
योग्यतः।
विष्णुभक्तिर्देवभक्तिर्गुरौ भक्तिस्तथैव च।
तत्तच्छ्रैष्ठ्यानुसारेण मुक्तौ नियतसाधनम्।
भक्तिपूर्तौ भवेन्मुक्तिस्तदभावे च नो भवेत्।
भक्तिर्ज्ञानं तथा ध्यानं मुक्तानामपि सर्वशः।
नियमेन न हीयन्ते मुक्तानां ते स्वरूपकाः।
साधनानि तु सर्वाणि भक्तिज्ञानप्रवृद्धये।
नैवान्यसाधनं भक्तिः फलरूपा हि सा यतः।
स्वात्मोत्तमेषु विद्वेषात् तमो नियमतो व्रजेत्।
गुणानामल्पताज्ञानं तत्स्त्रीरागस्तथैव च।
तत्प्रतीपे च या बुद्धिस्त्रिविधो द्वेष उच्यते।
द्वेषोज्झिता च या भक्तिः सा मोक्षं नियमान्नयेत्।
निर्दुःखं तु सुखं नित्यं मोक्ष इत्यभिधीयते।
चिदानन्दशिरोदेहपाणिपादात्मकाः सदा।
सर्वदोषविनिर्मुक्ता मुक्ताः क्रीडन्ति नित्यशः।
अनादिकालादारभ्य या भार्यास्ताः सदैव तु।
ब्रह्मादीनां विमुक्तौ च भार्याः स्युर्नियमात् सदा।
न कदाचिद् विमुक्तानां भार्याः काश्चित् स्युरन्यगाः।
न कदाचिद् वियोगश्च न विद्वेषो
न वाऽरतिः।
मोदन्ते सहिताः सर्वे सदा विष्णुपरायणाः॥”
इति पैङ्गिश्रुतिः।
“एकमेवाद्वितीयम्”छान्दोग्योपनिषत् ६/२/१
“नेह नानास्ति किञ्चन।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति।
एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम्॥”बृहदारण्कोपनिषत् ६/४/१९
“मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति।
एकधैवानुद्रष्टव्यं नेह नानास्ति किञ्चन॥”
“मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति॥”🔗काठकोपनिषत् २/१/११
“यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति।
एवं धर्मान् पृथक् पश्यंस्तानेवानु विधावति॥”🔗काठकोपनिषत् २/१/१४
इत्यादि च।
“इह” इति परमेश्वररूपेष्ववयवेषु धर्मेषु च किञ्चन नाना नास्तीत्यर्थः।
“एकमेवाद्वितीयम्” इति तत्समोऽधिको वा तदनधीनो वा नास्तीति सतात्पर्यं निषिध्यते।
“एक एवाद्वितीयोऽसौ
हरिर्वेदेषु
सर्वदा”
“एक एवाद्वितीयोऽसावश्वमेधः क्रतुष्वपि”
“एकैव
वाऽद्वितीया सा विष्णुभक्तिर्हि
साधने”
“एक एवाद्वितीयोऽसौ प्रणवो मन्त्र उच्यते”
इत्यादिवचनात्॥
यथैकमुत्तमं पुरुषमपेक्ष्य
‘तस्मिन् पुरे
एक एव
नान्योऽस्ति’ इत्युक्तेऽपि तत्सदृशस्तदधिको वाऽन्यो नास्तीत्युक्तं भवति।
“एक एवाद्वितीयोऽसौ तदतन्त्रस्य वर्जनात्।
तत्समस्याधिकस्यापि ह्यभावात् पुरुषोत्तमः॥”
इति ब्राह्मे।
स्वगतभेदाविवक्षायाम् “इह” इति विशेषणं व्यर्थं स्यात्।
“नानेव” इति भेदाभेदनिराकरणार्थम्।
“विरुद्धोभयसंयोग इवशब्दः
प्रदृश्यते”
इति शब्दतत्त्वे।
पर्वतेषु दुर्गे पर्वताग्रे वृष्टं यथाऽधो विधावति एवं पृथक् दृष्टान् धर्मानन्वेव तदनन्तरमेवाधोऽन्धे तमसि विधावति।
“भेदेन दर्शनाद् वाऽपि भेदाभेदेन दर्शनात्।
विष्णोर्गुणानां रूपाणां तदङ्गानां मुखादिनाम्।
तथा दर्शनकालात् तु क्षिप्रमेव तमो व्रजेत्॥”
इति ब्रह्माण्डे।
“जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः”🔗आथर्वणोपनिषत् ३/१/२
“द्वा सुपर्णा सयुजा सखाया”🔗आथर्वणोपनिषत् ३/१/१
“यो वेद निहितं गुहायां परमे व्योमन्।
सोऽश्नुते सर्वान् कामान् सह
ब्रह्मणा विपश्चितेति”🔗तैत्तिरीयोपनिषत् २/१
“एतमानन्दमयमात्मानुपसङ्क्रम्य।
इमाल्ँलोकान् कामान्नी कामरूप्यनुसञ्चरन्”🔗तैत्तिरीयोपनिषत् ३/(१०-५)
‘अथात आनन्दस्य मीमाꣳसा भवति’🔗तैत्तिरीयोपनिषत् २/८
इत्यारभ्य
मनुष्यादिब्रह्मान्तानां
मुक्तानामानन्दे शतगुणविशेषश्चोच्यते।
मुक्तानां चायं विशेषः।
“श्रोत्रियस्य चाकामहतस्य”🔗तैत्तिरीयोपनिषत् २/८
इति विशेषणात्।
नहि ब्रह्मादिनामनधिगतः श्रुत्यर्थः
केषाञ्चिदस्ति।
नच ब्रह्माण एव
केचन कामहताः केचनाकामहता
इत्यत्र प्रमाणमस्ति।
तस्माच्छ्रोत्रिय इति प्राप्तश्रुतिफलत्वान्मुक्त उच्यते।
अकामहतत्वं च मुख्यं मुक्तस्यैव।
“प्राप्तश्रुतिफलत्वात् तु श्रोत्रियाः प्राप्तमोक्षिणः।
त एव चाप्तकामत्वात् तथाऽकामहताः श्रुताः॥”
इति च भारते।
“ब्रह्मणोऽपि ह्यमुक्तस्य नाकामहतता परा।
यतस्तस्यापि कामस्य क्षणव्यवहितिर्भवेत्॥”
इति च।
कामहतता कामेनोपद्रवः।
“ब्रह्मणो ह्यल्पदुःखं
स्यात् तदप्यनभिमानतः।
नास्त्यात्मसम्बन्धतया
भोगाभावात् कथञ्चन॥”
इति च।
नचान्यस्य कस्यचिच्छ्रोत्रियस्याकामहतस्य च ब्रह्मणा समंं सुखं युज्यते।
“ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः।
ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम्॥”
इत्यादिना श्रोत्रियत्वादिगुणैस्तस्यैवान्येभ्य आधिक्यात्।
नचेन्द्रपदाद् विरक्तस्येन्द्रसमं सुखं ब्रह्मपदाद् विरक्तस्य तत्सममित्यत्र किञ्चिन्मानमस्ति।
दृष्टवस्तुनि विरागे आयासाभावात् कश्चित् सुखविशेषो दृश्यते।
अन्यत्र ब्रह्मपदाद् विरक्तस्येन्द्रपदाद्
विरक्तस्य न
कश्चिद् विशेषो दृश्यते।
अतोऽनुभवविरुद्धत्वाद् यत्किञ्चिदेतत्।
“नरादिब्रह्मपर्यन्तं विमुक्तानां शतोच्छ्रयः।
निःशेषदुःखहीनानां नित्यानन्दैकभोगिनाम्।
अप्यानन्दो मिथोऽप्युक्तस्त्वध्वर्यूणां
श्रुतौ पृथक्॥”
इति हरिवंशेषु।
“यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते”🔗तैत्तिरीयोपनिषत् २/७
इत्यत्रापि “एतस्मिन्” इति विशेषणात् स्वगतभेदनिषेध एव।
“अभेदमीशरूपाणां भेदं जीवेशयोरपि।
यः पश्येत् स्थिरया बुद्ध्या भक्तिमान् स विमुच्यते॥”
इति भविष्यत्पुराणे।
“परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स
उत्तमः पुरुषः”
“स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा”छन्दोग्योपनिषत् ८/४/३
“यस्य लोकं समासाद्य स्वरूपमभिपद्यते।
जीवः पर्येति विष्णोश्च समीपे तत्प्रसादतः।
यत्प्रसादात् स पर्येति स विष्णुः पुरुषोत्तमः॥”
“अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः।
आदघ्नास
उप कक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे॥”ऋग्वेदसंहिता १०/३९/१२
“दुग्धसागरगाः केचित् केचिदश्वत्थकक्षगाः।
अमृतह्रदेषु केचिच्च पिबन्ति स्नातवत् सदा।
केचित् पश्यन्ति तं देवं सदा केचित् समीपगाः॥”
“आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत्”ऋग्वेदसंहिता १/३५/६
“रथ्यमाणिमिवाश्रित्य मुक्ताः
सर्वेऽप्यवस्थिताः।
यं विष्णुं देवदेवेशं नमस्तस्मै स्वयम्भुवे॥”
इत्यादि च।
“तौ यत्र विहीयेते” इत्यत्रापि परमात्मैव।
“शरीरानभिमानी यो हृदि संस्थो जनार्दनः।
अभिमानवतो देहे जीवस्य स नियामकः।
स एव सूर्यसंस्थश्च हंसः सोऽहमिति श्रुतः।
हन्तृत्वाद्धंसनामाऽसौ सोऽहं चासावहेयतः।
स एव सूर्यसंस्थेन
रूपेणैवाक्षणि
स्थितः।
सूर्यसंस्थाद्धि रूपात् स
विभक्तोऽक्षणि
संस्थितः।
गच्छतो म्रियमाणस्य तावुभावपि देहतः।
तयोर्देहविहाने तु भवेतारिष्टदर्शनम्।
तदा सञ्चिन्तयेद् देवं तमेव पुरुषोत्तमम्॥”
इत्यादि हरिवंशेषु।
“क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिता अनित्याः।
आविर्हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः।
क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात् स्वयञ्ज्योतिरजः परेशः।
नारायणो भगवान् वासुदेवः स्वमाययाऽऽत्मन् व्यवधीयमानः॥”भागवतम् ४/११/१२-१३
इति भागवते।
“स्वेच्छयैवावृतो विष्णुर्जीवे तिष्ठति
सर्वदा।
योऽसौ नियमयन् जीवं क्षेत्रज्ञ इति शब्दितः॥”
इति हरिवंशेषु।
“अशरीरः प्रज्ञात्मा” इति विशेषणाच्च परमात्मा।
नहि जीवस्याशरीरत्वममुक्तस्य।
“एष त आत्माऽन्तर्याम्यमृतः अतोऽन्यदार्तम्”
इति च।
नहि जीवादन्यस्यार्तिरुपपद्यते।
“सर्वेषां भूतानामन्तरपुरुषः सम आत्मेति विद्यात्”
इत्यादिश्रुतिभ्यश्च।
“ब्रह्मादयो हि भूतानि तेषामन्तर्गतो हरिः।
समः स सर्वभूतेषु य एवं वेद तत्त्ववित्॥”
इति च भारते।
नच मुख्ये सति लक्षणा नाम युज्यते।
नच मुख्यत एव जीवेशयोरैक्यं युक्तम्।
प्रत्यक्षविरोधादेव।
“तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते”तैत्तिरीयारण्यके ३/१२/७
इत्यादेः।
सहस्रशीर्षत्वादिसर्वेशत्वसर्वज्यायस्त्वादिना ज्ञानादेव
मोक्षः प्रतीयतेऽनन्ययोगेन।
नचात्रैक्यज्ञानमुक्तम्।
“पुरुष एवेदं सर्वम्”ऋग्वेदसंहिता १०/९०/२
इत्यत्रापि सर्वेशितृत्वमेवोक्तम्।
“उतामृतत्वस्येशानः”ऋग्वेदसंहिता १०/९०/२
इति वाक्यशेषात्।
“पुरुष एवेदं सर्वं भूतं भव्यं भवच्च यत्।
इत्युच्यते
तदीयत्वान्नतु
सर्वस्वरूपतः।
भूतभव्यादिजातस्य मुक्तानामपि चेश्वरः।
इत्युच्यते श्रुतौ विष्णुः सर्वदा पुरुषोत्तमः॥”
इति भारते।
“सर्वस्मादुत्तम इति सम्यक् स्नेहयुता मतिः।
सुस्थिरा भक्तिरुद्दिष्टा तया मोक्षो नचान्यतः।
तया मोक्षो भवत्येव सा चेत् पूर्णा स्वयोग्यतः।
अपरोक्षदृशा युक्ता सा पूर्णेत्यभिधीयते।
अपरोक्षदृशिश्चापि महाचार्योक्तदर्शनम्।
सोऽपि यन्मोक्षनियतं मनसा समुदीरयेत्।
तस्य दर्शनतो याति मुक्तिं नास्त्यत्र संशयः।
ध्यानं च गुरुशुश्रूषा नित्यनैमित्तिकाः क्रियाः।
तीर्थदानजपाद्याश्च स्वाध्यायो हरिकीर्तनम्।
द्वादश्यादिव्रतं चैव तुलस्याद्यैरथार्चनम्।
सर्वं भक्त्यर्थमुद्दिष्टं
निष्फलं तु
तया विना।
विष्णुभक्तियुतो मुक्तिं याति नान्यः कथञ्चन।
एतदन्यत् तु यच्छास्त्रं न तच्छास्त्रं कुवर्त्म तत्।
विष्णोर्भक्तिमृते मुक्तिर्जीवाभेदो हरेरपि।
शिवब्रह्मादिसाम्यं च हरेर्मोहार्थमुच्यते।
दैत्यानां मोहनार्थाय विष्णोरन्यसमानता।
हीनता
चोच्यते
शास्त्रैर्न तद्ग्राह्यं मनीषिभिः।
विष्णुवायुगिरीशेन्द्रदेवविप्राः क्रमात् सदा।
सामर्थ्यतो विहीनास्तु गुणैः सर्वैस्तथैव च।
हीनो विष्णुर्न कस्यापि
सर्वतश्चोत्तमो मतः।
एतदन्यत् तु यच्छास्त्रं तदासुरविमोहनम्।
तस्मात् सर्वोत्तमं विष्णुं निश्चित्य परमं व्रजेत्॥”
इति हरिवंशेषु।
“तुलापुरुषदानाद्यैरश्वमेधादिभिर्मखैः।
वाराणसीप्रयागादितीर्थस्नानादिभिः प्रिये।
गयाश्राद्धादिभिः पित्र्यैर्वेदपाठादिभिर्जपैः।
तपोभिरुग्रैर्नियमैर्यमैर्भूतदयादिभिः।
गुरुशुश्रूषणैः
सत्यैर्धर्मैर्वर्णाश्रमोचितैः।
ज्ञानध्यानादिभिः सम्यक्
चरितैर्जन्मजन्मभिः।
न यान्ति तत्परं श्रेयो विष्णुं सर्वेश्वरेश्वरम्।
सर्वभावैरनाश्रित्य पुराणपुरुषोत्तमम्॥”
इति पाद्मे।
“भावो भक्तिः समुद्दिष्टस्तद्वान् भावुक उच्यते”
इति नारसिंहे।
“मुक्तानामपि सिद्धानां नारायणपरायणः।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते॥”भागवतम् ६/१४/५
इति भागवतवचनम्।
“परायणः” इति विशेषणान्न नारायणायनत्वं विना मुक्तिद्योतकम्।
नच सिद्धे
तात्पर्याभावो वक्तुं युक्तः।
“अस्त्यत्र तव पिता राजा” इत्यादिषु सिद्ध एव तात्पर्यदर्शनात्।
नच तत्र कार्ये तात्पर्यं कल्पयितुं युक्तम्।
सुखसाधनत्वविज्ञानेनैव
प्रवृत्त्युपपत्तेः।
वाक्यस्य
स्वार्थमात्रे तात्पर्यपर्यवसानात्।
अधिककल्पनायामश्रुतकल्पनाप्रसक्तिः।
“यजेत” इत्यादिष्वपि यजनादेः सुखसाधनतामात्रं प्रतीयते।
न शब्दस्य प्रेरकता।
वाक्यमात्रस्य प्रेरकत्वे सर्वैर्विहितमनिष्टसाधनमपि क्रियेत।
व्युत्पत्तिरपि सिद्धे साङ्गुलिनिर्देशादिना युज्यते।
नच कुत्रचित् सुखसाधनं विना कार्यान्वितं विद्यते।
लिङाद्यर्थोऽपि सुखसाधनत्वमेव।
नच कार्यान्वित एव तात्पर्यमित्यत्र किञ्चिन्मानम्।
“सुखसाधनमेवैकं नृणां वेदः प्रदर्शयेत्।
न कुर्विति नरं क्वापि प्रेरयत्यत्र कञ्चन।
सुखसाधनताज्ञानात् सुखप्राप्त्यर्थमिच्छया।
प्रवर्तते ततो वेदः सिद्धस्यैव प्रदर्शकः।
नतु कारकतां क्वापि वेदः प्राप्नोति कस्यचित्॥”
इति ब्राह्मे।
अतस्तद्विरोधिकथनं मोहत एव।
कार्यान्विते शक्तिरिति वदता सिद्धवाक्यानां प्रामाण्यमङ्गीकृतं च।
अन्यथा “वसन्तेवसन्ते ज्योतिषा यजेत” इत्यादौ वसन्तादिलक्षणवाक्यानां स्थानान्तरस्थानां स्वार्थे प्रामाण्याभावाद् वसन्ताद्यसिद्धेर्यागाद्यसिद्धिः।
कार्यान्विते शक्तिरित्युक्ते कार्यपदस्य कार्यान्वयाभावादशक्त्या विध्यादेरसिद्धिश्च।
कार्यपदस्य स्वत एव शक्तिरन्येषां कार्यान्वितत्वेनेत्यङ्गीकारे कल्पनागौरवम्।
स्वार्थे शक्तिरित्यङ्गीकारे न कश्चिद् विरोधः।
कर्तव्यतामात्रे वाक्यप्रामाण्याङ्गीकारे कर्मप्रयोजने प्रमाणाभावात् तत्रापि तात्पर्यमङ्गीकर्तव्यमेवेति सिद्धमेव सिद्धे तात्पर्यम्।
“चित्रादितारकाद्वन्द्वं यदा पूर्णेन्दुसंयुतम्।
चैत्रादिमासा विज्ञेयाः”
इत्यादौ वस्तुयाथार्थ्ये
तज्ज्ञाने
चोभयत्र तात्पर्यदर्शनात्।
उपासनावाक्येष्वप्युपासनायां वस्तुयाथार्थ्ये चोभयत्र तात्पर्यं युक्तम्।
“उपासनायाः कार्यत्वे विष्णोरात्मत्व एव च।
उभयत्रापि तात्पर्यमात्मोपासादिके विधौ।
तस्मादसत्यं न ध्यायेद् ध्यायेत् तत्सत्यता यथा।
विचार्य मतिमान् वाक्यैर्बहुभिः स्वार्थवाचकैः॥”
इति हरिवंशेषु।
तस्मादिष्टसाधनमेव
सर्ववाक्यार्थः।
तार्किकाणां तूक्तवचनानां प्रामाण्यं सिद्धमेव।
अतस्तद्विरोधिकथनं मोहत एव।
“अनुमाया विरोधश्चेत् प्रत्यक्षेणागमेन वा।
सैवाप्रमाणतां गच्छेदागमद्विट् तथाऽक्षजम्।
तस्मादागम एवैको मानानामुत्तमोत्तमः।
धर्मार्थकाममोक्षाणां साक्षादेव प्रदायकः॥”
इति वायुप्रोक्तवचनान्नानुमानविरोधो वक्तुं युज्यते।
सर्वत्रानिवार्यत्वाच्च प्रत्यनुमानस्य।
“निर्णयस्त्वागमेनैव नानुमाऽऽगमवर्जिता।
क्वचिन्निर्णीतिहेतुः स्यादतः शास्त्राद् विनिर्णयः॥”
इति भारते।
नच वेदात्मकेतिहासपुराणोक्तन्यायं परित्यज्य येन केनचित् कॢप्तन्यायो युज्यते।
“अक्षपादकणादौ च साङ्ख्ययोगार्हतास्तथा।
शिवशक्तिमहायानलोकायतपुरःसराः।
गाणपत्याश्च सौराश्च सर्वे प्रोक्ता दुरागमाः।
ऋग्यजुःसामथर्वाश्चेतिहासपुराणकौ।
स्वागमा इति सम्प्रोक्ता मीमांसा धर्म एव च॥”
इति पाद्मे।
“पञ्चरात्रं भारतं च मूलरामायणं तथा।
इतिहास इति प्रोक्तो ब्राह्माद्यं च पुराणकम्॥”
इति प्रकाशिकायाम्।
“वेदाश्चैवेतिहासाश्च पुराणं भागवतं तथा।
मूलप्रमाणमुद्दिष्टं मीमांसा च तथोत्तरा।
एतेषामविरोधे तु मानमन्यदुदीरितम्।
एतेषां तु विरुद्धं यदप्रमाणं विदो विदुः॥”
इति व्यासस्मृतौ।
“विष्णोः सर्वोत्तमत्वस्य ज्ञानार्थं शास्त्रमिष्यते।
अतस्तत्साधकं शास्त्रं दुःशास्त्रं तद्विरोधि यत्॥”
इति ब्रह्माण्डे।
“विष्णोः सर्वोत्तमत्वं च तद्भक्त्या मोक्ष एव च।
शास्त्रार्थ इति निर्दिष्टः सर्वशास्त्रार्थनिर्णयात्॥”
इति पाद्मे।
नचागमस्याप्रामाण्यं वक्तुं युक्तम्।
तत्प्रमाणाभावात्।
स्वतः प्रामाण्याच्च।
तदनङ्गीकारे चानवस्थानात्।
आगमाप्रामाण्यसाधकानुमानादेरप्यागमवदप्रामाण्यप्राप्तेश्च।
विशेषप्रमाणाभावात्।
स्वीकृतत्वाच्च तैरपि स्वागमप्रामाण्यस्य।
नह्यनुमानादिना सप्तमलधारणचैत्यवन्दनादेः स्वर्गसाधनत्वं ज्ञातुं शक्यम्।
नच प्रत्यक्षमात्रप्रामाण्यवादिनस्तत्सिद्धमागमाप्रामाण्यम्।
अतस्तेषां प्रत्यक्षवदनुमानवच्चाङ्गीकर्तव्यमागमप्रामाण्यम्।
उक्तं च भविष्यत्पर्वणि-
“येनोक्तमागमामात्वं कुतस्तदिति तं वदेत्।
प्रत्यक्षादेर्यदि ब्रूयात् तन्मात्वं क्वेति तं वदेत्।
तत् स्वतश्चेदागमस्य प्रामाण्यं न स्वतः कुतः।
परतश्चेत् प्रमाणस्य न कस्यापि स्थितिर्भवेत्।
अङ्गीकृतं च प्रामाण्यं सर्वैरप्यागमस्य तु।
यतः स्वपक्षप्रामाण्यं विरोधेऽप्यक्षजादिना।
अङ्गीकुर्वन्ति तत्पक्षः प्रत्यक्षादिविरोधकः।
शून्यता क्षणिकत्वं च ज्ञानमात्रत्वमेव
वा।
भावाभावात्मता साकं शरीरात्मत्वमेव च।
प्रत्यक्षेण विरुध्यन्ते मद्देह इति दर्शनात्।
भावरूपस्थिरत्वादेर्ज्ञानाद् भेदस्य दर्शनात्।
देहभेदो यद्यमुख्यो देहैक्ये मुख्यता कुतः।
जातिस्मृतिप्रमाणाच्च न युक्ता देहरूपता।
अनुष्ठाय च शास्त्रार्थं फलभोगस्य दर्शनात्।
प्रत्यक्षादेर्विरुद्धत्वात् सौगताद्या दुरागमाः।
बह्वागमविरोधाच्च दुष्टत्वं तेषु संस्थितम्।
प्रामाण्यं स्वीकृतं यैस्तु वेदानामागमा हि ते।
शतकोट्यः पञ्चरात्रं पुराणं तावदेव च।
रामस्य चरितं तावत् तावदन्यच्च सर्वशः।
अनन्ताश्च तथा वेदाः साङ्गोपाङ्गाश्च सर्वशः।
सर्वाधिक्यं यत्र विष्णोस्तात्पर्यात् समुदीर्यते।
विंशदेव सहस्राणि श्लोकानां समुदीरितम्।
बार्हस्पत्यं तथा बौद्धं भावाभावमतं तथा।
शिवशक्त्यादिकं यच्च किञ्चित् प्रामाण्यसंयुतम्।
त्रिंशत्कोट्येव तत् सर्वमतो मानं न तत् स्मृतम्।
बहुमानविरुद्धं यन्न तन्मानं विदो विदुः।
गुणसाम्येऽपि किमुत गुणाधिकविरोधि यत्।
यथा बहूनां ज्ञानानां समानां गुणतोऽपिच।
विरोध्येकं तु यज्ज्ञानं न मानत्वं गमिष्यति।
प्रत्यक्षादौ हि बहुभिः समैरेकमपोद्यते।
तस्माद् वेदाः प्रमाणं स्युर्बाहुल्यादेव किं पुनः।
अदोषत्वाद् गुणाच्चैव बलवत्कार्यसाधनात्।
वेदोक्तकर्मयुक्तानां तथा सिद्धिमतामपि।
वेदबाह्यक्रियायोगान्न बाधः क्वापि दृश्यते।
वेदोक्तकर्मसिद्धानां
नाबाध्यं
दृश्यते क्वचित्।
असाध्यं वा ततो वेदाः प्रामाण्यं निश्चयाद् गताः॥”
इति।
“प्रत्यक्षमनुमानं च वाक्यं चेति त्रिधा प्रमा।
उपमाद्यं प्रमाणं यदेतेष्वन्तर्गतं हि तत्।
निर्दोषेन्द्रियसंयोगः प्रत्यक्षमिति गीयते।
निर्दोषयुक्तिरनुमा तादृशोक्तिस्तथागमः।
मानं चैव विशेषेण निर्दोषज्ञानसाधनम्।
अर्थापत्तिश्चोपमा च सम्भवाद्यनुमैव तु।
दुःखाद्यभावः प्रत्यक्षं बाह्यगश्चानुमा स्मृता।
योग्यस्यानुपलब्ध्याख्या युक्तिरेव हि बाह्यगा।
मनसः सम्प्रयोगो यो
दुःखादिरहितात्मनः।
अभावरूपं प्रत्यक्षं मनश्च द्विविधं
मतम्।
चेतनं च जडं चेति चक्षुराद्यं तथैव च।
चेतनं त्विन्द्रियं ह्यात्मस्वरूपान्नापरं स्मृतम्।
मुक्तानां चेतनं त्वेव बद्धानामुभयं तथा।
स्वरूपेणापि संयोगः स्वरूपस्यैव युज्यते।
यथा रत्नस्य संयोगस्तत्प्रकाशेन नित्यदा।
रत्नस्य च प्रकाशस्य न भेदः कश्चिदिष्यते।
विशेषो नाम विज्ञेयो विशेषाद् दृष्टिगोचरः।
विष्णोरेव स्वरूपाणां तद्गुणानां तथैव च।
तस्यैव शिरआदीनां नैव भेदोऽस्ति कश्चन।
अभेदेऽपि विशेषेण व्यवहारः पृथग् भवेत्।
विष्णोर्जडेन जीवैश्च भेद एव श्रिया तथा।
विष्णोः क्रियाश्च याः कश्चिदभेदस्तैरपि
ध्रुवम्।
कादाचित्कत्वमप्यासां विशेषेणैव युज्यते।
एवं विमुक्तजीवानां स्वरूपैः स्वगुणैरपि।
स्वक्रियाभिस्तथैवैक्यं नित्यं स्वावयवैरपि।
भेदाभेदस्तु बद्धानां गुणैः स्वैः कर्मभिस्तथा।
अंशांशिनोर्गुणस्यापि गुणिनः कर्म तद्वतोः।
कार्योपादानयोश्चैव व्यक्तिसामान्ययोरपि।
भेदाभेदः समुद्दिष्टो विनाशो यत्र दृश्यते।
एकस्मिन् विद्यमानेऽपि तयोरेकस्य कस्यचित्।
अविनाभावनियमो यत्राभेदस्तु
तत्र हि।
अभेदश्च स्वभिन्नेन भेदाभेदस्तु तत्र च।
भेदाभेदो नतु क्वापि विष्णोरस्ति कदाचन।
भेद एव तु जीवाद्यैः केवलाभेद आत्मनि।
स्वरूपेषु विशेषो यः स्वरूपं तस्य सोऽपितु।
क्रियाणां च न नाशोऽस्ति तच्छक्तेः पूर्वकालतः।
विशेष एवोपरतिः क्रियायाः समुदीरिता।
विशेषस्य विशेषोऽन्यो नचैवास्ति कथञ्चन।
स्वस्यापि तु
विशेषश्च
स्वयमेव भविष्यति।
यथा जनेर्जनिर्नान्या तस्या वस्तुजनिर्जनिः।
तथाऽपि तु जनित्वात् सा सत्वं वस्तुन आनयेत्।
एवमेव विशेषोऽसौ विशेषान्तरवर्जितः।
करोति न करोतीति विशेषव्यवहारकृत्।
व्यक्तिभावं गता या तु करोतीति स्वरूपिणी।
शक्तिरूपस्थिता सैव क्रिया शक्तिरितीर्यते।
सा च व्यक्तिस्तु जनिवत् क्रियाया रूपमेव तु।
तथाऽपि तु विशेषेण स्वरूपेण विशेषिणी।
जनेर्जनिवदेवासौ ज्ञातव्या व्यतिरेकतः।
एवं मुक्तक्रिया नित्या नान्येषां भ्रान्तिसम्भवात्।
मुक्तावुच्छेदतश्चैव निःशेषेणाखिलस्य च।
नैवं मुक्तक्रियायास्तु तस्याश्च पुनरुद्भवात्।
अमुक्तानां क्रियायाश्च मुक्तावपि समास्थिताः।
अभिन्ना इति ता ज्ञेया अभिव्यक्तेः पुनःपुनः।
चिन्तनादिक्रियाणां तु मुक्तावुच्छेदतः सदा।
किं मया कार्यमादीनां भेदाभेद उदीरितः।
अचेतनेष्वस्वतन्त्राः क्रिया यस्माद् सदैव तु।
भेदाभेदस्ततो ज्ञेयः सर्वत्र नियमेन तु।
ईश्वरः
प्रकृतिर्जीवो
जडं चेति चतुष्टयम्।
पदार्थानां समुद्दिष्टं तत्रेशो विष्णुरुच्यते॥”
इत्यादि ब्रह्मतर्के।
“पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च”🔗श्वेताश्वतरोपनिषत् ६/८
इत्यादिश्रुतयश्च।
“शक्तिशक्तिमतोश्चैव विशेषस्य विशेषिणः।
अविनाभाविता यत्र न भेदस्तत्र विद्यते।
सर्वाधिकसुखत्वं च ज्ञानं सर्वाधिकं तथा।
सर्वाधिका सर्वशक्तिस्तेजः सर्वाधिकं तथा ।
इत्यादयो गुणाः सर्वे स्वरूपं वैष्णवं
तथा।
भेदान्यत्वादयः शब्दा अतद्रूपत्ववाचकाः।
क्वचिदन्तरशब्दश्च विशेषस्यैव वाचकः।
एकस्मिन्नेव शब्दानां यस्तु नानास्वरूपिणाम्।
प्रयोजकत्वहेतुः स्यात् स विशेषः प्रकीर्तितः॥”
इति च।
“यदाहुर्ब्रह्मविज्ञानात् समग्रत्वं यियासवः।
ब्रह्मज्ञानात् समग्रत्वं नान्यतश्चेति निश्चयात्।
तत्र केचिन्मनुष्यास्तु मन्यन्ते ब्रह्म किं मतेः।
समग्रभावमगमदिति ब्रूयाच्च तानिति।
ब्रह्मापि सर्वदाऽऽत्मानमहेयं गुणबृंहितम्।
सर्वदाऽस्तीति मेयं च विजानाति तथैव तु।
अत एव समग्रत्वं स्वत एवास्य सर्वदा।
तदहेयं परं ब्रह्म योयोऽवेद् गुणबृंहितम्।
सर्वदास्तीति मेयं च सस याति समग्रताम्।
मुख्यं समग्रं तद् ब्रह्म ज्ञानस्यापि समग्रतः।
किञ्चित् समग्रतां देवास्तेषां ज्ञानं हि तादृशम्।
आपुस्ततोऽधमां ज्ञानतादृक्त्वादृषयोऽपितु।
ऋषिभ्योऽप्यधमां प्रापुर्मानुषाश्च समग्रताम्।
अहेयं च गुणैः पूर्णं नित्यास्तिज्ञानगोचरम्।
ब्रह्म पश्यन् वामदेवः सूक्तमेतद् ददर्श ह।
अहं मनुः सूर्य इति स्वान्तर्यामिव्यपेक्षया।
अहंशब्दो यतो विष्णौ ततश्चोत्तमपूरुषाः।
वर्तन्तेऽभवमित्याद्याः सर्वान्तस्थे जनार्दने।
मनुरेषोऽवबोधत्वान्मन्वन्तस्थो जनार्दनः।
स ह्याचारानुवाचेशः प्रेरयन्मनुमानसम्।
स एव सूरिभिः प्राप्यः सूर्यान्तस्थो मुमुक्षुभिः।
स एव कक्षगैः सेव्यः कक्षीवति समास्थितः।
स एव शुक्रसंस्थस्तु नीतीः कवयति स्वयम्।
यतः कविः स कामस्य प्रेरणादुशनाः स्मृतः।
स एव शम्बरपुरो बिभेदेन्द्रे व्यवस्थितः।
सर्वान्तर्यामिकत्वात्
तु सर्वकर्मा स एव हि।
ततः सूक्ते तथोवाच वामदेवः श्रियः पतिम्।
योयोऽहेयं परं ब्रह्म सदैवास्तीति मानगम्।
इदानीमपि जानाति स्वयोग्यां स समग्रताम्।
प्राप्नोति तस्य देवाश्च नाभूतिं कर्तुमीशते।
आत्मा हि विष्णुर्देवानां तेषु व्याप्तो यतः सदा।
नियोक्तृत्वेन कार्येषु तज्ज्ञो यस्माच्च साधकः।
यस्य प्रीतो हरिर्नित्यं तस्य प्रीताश्च देवताः।
प्रीतियोगान्नैव तस्य विरुद्धं कर्तुमीशते॥ *॥
एवं विलक्षणं देवमुपास्ते जीवरूपिणम्।
अहेयोऽस्तीति मेयोऽन्योऽथान्योऽसौ हरिरित्यपि।
न स वेद परं विष्णुं जीवरूपेण वेत्ति यत्।
नाहेयत्वं च वेदास्य तस्मात् पशुवदीरितः।
देवानां पशुवच्चासौ यो वेदाहेयरूपिणम्।
पशवो बहवो यद्वत् पुरुषं भोजयन्त्युत।
तत्वज्ञः पुरुषस्तद्वदेकोऽपि बहुगा यथा।
देवान् भोजयति ज्ञानसम्पत्त्या विष्णुसंश्रयात्।
स्वीकारे तु पशोः प्रीतिरेकस्यापि भविष्यति।
बहूनां हि गवां लाभे परा प्रीतिश्च किं पुनः।
तस्मात् सुबहुगोरूपे देवानां तत्त्ववेदिनि।
भवेदभ्यधिका प्रीतिर्विष्ण्वहेयत्ववेदनात्।
नित्याहेयस्तथैवान्यस्तदन्यो विष्णुरित्यपि।
देवानामप्रियं ज्ञानं नैवं विद्यादतः पुमान्।
विष्णोरहेयतां चैव नित्यत्वं पूर्णतामपि।
यो न वेद तथा यश्च जीवैरैक्यं हरेर्वदेत्।
यश्चासत्यं जगद् ब्रूयात् सर्वे ते तमसि स्फुटम्।
मज्जन्ति सर्ववेदैर्हि गुणैः सर्वैहरिर्यतः।
पूर्णो नित्यमपूर्णाश्च जीवा मुक्ता अपि स्फुटम्।
निःशेषदुःखमोकेन सुखैकानुभवस्तु यः।
मोक्ष इत्युच्यते वेदैस्तेऽपि मुक्ता हरिं सदा।
उपासते जगच्चैतत् सर्वदाऽऽद्यन्तवर्जितम्।
न कदाचिज्जगन्नाशो न कदाचित् तदन्यथा।
जगत् प्रवाहरूपेण
सर्वदैवं
व्यवस्थितम्।
ज्ञानतः कर्मतो वाऽपि तपसा शक्तितोऽपिवा।
न कस्याप्यन्यथा भाव्यं जगदेतत् कदाचन।
सत्यो विष्णुः श्रीश्च सत्या जीवाः सत्या जडं तथा।
असत्यं नास्ति किञ्चिच्च सर्वेषां ज्ञानगोचरम्।
ज्ञात्वा विष्णुमतो मुक्तिं प्राप्नुयात् पुरुषोत्तमम्॥”
इति भविष्यत्पर्वणि।
“इदम्” इत्यात्मनो योग्यं सर्वं समग्रं भवति।
निर्दुःखानन्दस्यापेक्षितत्वान्मनसि स्थितत्वेन “इदम्” इति युज्यते।
“तत् सर्वमभवत्”
“सर्वं भविष्यन्तः” इत्यादिना समग्रभावस्य प्रस्तुतत्वात्।
ब्रह्म पश्यन् वामदेवो ब्रह्मणो मन्वादिजीवैरहेयत्वं प्रतिपेदे।
“ब्रह्म पश्यन् वामदेवो ब्रह्मणोऽहेयतां सदा।
मन्वादिभिः सर्वजीवैः प्रतिपेदे हि मन्त्रदृक्॥”
इति ब्राह्मे।
तदिदं ब्रह्म
योऽहेयत्वादिगुणमेतर्ह्यपि वेद।
अहंशब्दस्याहेयत्वानङ्गीकारे, इदंशब्दोऽपि व्यर्थः।
सर्वस्वरूपत्वं हि दुर्विद्वद्भिरङ्गीक्रियते।
इदंशब्देन परब्रह्मविवक्षायां ब्रह्मशब्दो
व्यर्थः स्यात्।
‘इदं योऽहमिति वेद’ इत्येव स्यात्।
एवंशब्दश्च व्यर्थः।
अस्मत्पक्षे तु “तदात्मानमेवावेत्” इत्यपि ज्ञातव्यमित्येवंशब्दार्थः।
तत्पक्षे तदपि व्यर्थमेव।
नहि तत्पक्षे तत् स्वात्मानं वेत्ति।
व्याख्यानव्याख्येयभावश्चागतिका गतिः।
“अभावे पृथगर्थानां व्याख्यामभ्यासमेव वा।
कल्पयेन्नैव तद्भावे व्याख्याभ्यासश्च युज्यते॥”
इति भारते।
“स्वरूपज्ञं तथाऽहेयं नित्यं च ब्रह्म वेत्ति यः।
समग्रभावं गच्छेत् स तत्प्रसादान्न संशयः॥”
इति च।
स ईश्वर एषां देवानामात्मा भवति।
पुंलिङ्गं च
“तत् सत्यं स आत्मा”
इत्यादिवद् भवति।
“देवानां व्यापकत्वात् तु तेषामात्मा हरिः सदा।
तज्ज्ञः प्रियस्ततस्तेषां तस्य नाभूतिदास्ततः॥”
इति वामने।
सर्वेभ्योऽन्यां विलक्षणां देवतां स्वगुणेभ्योऽहेयत्वादिभ्यश्चान्यां य उपास्ते अहेयोऽस्मीति मेयश्चान्योऽन्यश्चासौ
विष्णुरिति
मत्वा यो विष्णोरन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेदेति वा।
“जीवादिभ्यो हरिर्भिन्नस्तं यः स्वगुणभेदतः।
अहेयोऽन्यो हरिश्चान्य इति मत्वाऽन्यमेव वा।
य उपास्ते न स ज्ञानी मनुष्याणां पशुर्हि सः।
सम्यग्ज्ञानी तु देवानां पशुरित्यभिधीयते॥”
इति च।
“एवं स देवानाम्” इत्यत्र पूर्वः सम्यग्ज्ञानी परामृश्यते।
“एतन्मनुष्या विद्युः” इत्यत्रैतच्छब्देन विष्णोरन्यदेवतोपासनमुच्यते।
नह्यज्ञान्येव देवानां भोजकः।
ज्ञानी हि विशेषेण भोजकः।
“अथो अयं वा आत्मा सर्वेषां भूतानां लोकः”बृहदारण्यकोपनिषत् ३/५/१०॥
इति वचनात्।
स य एवंवित् सर्वेषां भूतानां ब्रह्मविच्च तत्रोच्यते।
प्रस्तुतत्वात्।
“तत्त्वविद् देवगौः प्रोक्तो नरगौश्चाप्यतत्त्ववित्।
तस्माद् देवास्तत्त्वविदे प्रियं कुर्वन्त्यतन्द्रिताः॥”
इत्याग्नेये।
तस्य ह न देवाश्च नाभूत्या ईशत इति देवानां तत्त्वज्ञानं प्रियमित्युक्तं च।
“असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्”🔗भगवद्गीता १६/८
इति।
“यच्चिकेत सत्यमित् तन्न मोघं वसु स्पार्हमुत जेतोत दाता”ऋग्वेदसंहिता १०/५५/६
“सत्यो जीवेशयोर्भेदः सत्या विष्णोर्गुणा अपि।
सत्यं जगदिदं सर्वं सत्येशजगतोर्भिदिः॥”
इत्यादेश्च।
“भेदेनैव जगत् सर्वं भेदेनेशं गुणैः सह।
भेदेन जीवानन्योन्यं मुक्ताः पश्यन्ति सर्वशः।
निःशेषदुःखहीनाश्च केवलं सुखभोगिनः।
जन्ममृत्युविहीनाश्च कालसम्बन्धवर्जिताः।
रजस्तमःसत्वहीनाः
प्रकृत्यादिविवर्जिताः॥”
इत्यादि गारुडवचनान्न ज्ञाननिवर्त्यता वक्तुं युक्ता।
“तिर्यङ्मानुषदेवादिविष्णुरूपेष्वशक्तता।
यस्मिन् कस्मिंश्च विषये दुःखित्वं भिन्नताऽपिवा।
प्रकृतेर्विकारिता
वाऽपि च्छेदभेदव्रणादि वा।
अज्ञानं नाशिता वाऽपि जन्म जीवैरभिन्नता।
प्रकृत्यभिन्नता वाऽपि जीवाभेदः परस्परम्।
जडाभेदोऽथवा विष्णोर्मिथ्यात्वं जगतोऽपिवा।
अगुणत्वमदेहत्वमकर्तृत्वं तथा हरेः।
सम्यग्भक्तिमृते
मुक्तिर्विष्णोस्तद्द्वेषतस्तथा।
मुक्तावभोगो जीवानां मुक्तौ साम्यं तथैव च।
अरूपत्वं च जीवानां मुक्तानां बन्धिनामपि।
नामतीर्थादिभिर्मुक्तिस्तत्त्वज्ञानं विनाऽपितु।
विष्णोः सकाशात् प्रकृतेर्ब्रह्मणोऽनन्तरुद्रयोः।
गरुडेन्द्रसूर्यविघ्नादेरग्निसोमगुहादिनाम्।
प्रद्युम्नस्यानिरुद्धस्य देवविप्रादिनामपि।
यैः कैश्चापि गुणैर्विष्णोः सकाशाद् वरता तथा।
यदा कदाऽपि यत्नैर्वा वरशापादिनाऽपिवा।
तपसा वाऽप्युपायैर्वा योगज्ञानादिनाऽपिवा।
साम्यं वा विष्ण्वधीनत्वादन्यथैषां स्थितिः कृतिः।
असंसारित्वमेषां
वाऽप्येषामीश्वरताऽपिवा।
विना विष्णुप्रसादेन मुक्तिरेषां सकाशतः।
विष्णोः प्रयोजनावाप्तिर्विष्णोर्दोषश्च कश्चन।
विष्णोः सर्वेषु रूपेषु सम्पूर्णगुणहीनता।
भेदो वा विष्णुरूपेषु विशेषो वा गुणेषु च।
श्रियः सकाशादाधिक्यं ब्रह्मादेः साम्यमेव वा।
ब्रह्मवाय्वोरनन्तस्य रुद्रस्य गरुडस्य च।
तेभ्यश्चैवेन्द्रसूर्यादेर्विप्रभूपादिनां ततः।
बद्धानां मुक्तिगानां वा
दैत्यानां मोक्ष
एव च।
सर्वं मोहार्थमुद्दिष्टं वेदेषु हरिणाऽपिवा।
ब्रह्मणा वाऽथ रुद्रेण देवैश्च मुनिभिस्तथा।
यथा सुराणां
सज्ज्ञाने
तात्पर्यं सर्वदा श्रुतेः।
तथा दुर्ज्ञानजनने तात्पर्यमसुरेषु च।
एवमेव च देवानां विष्णुब्रह्मादिनामपि।
विष्णोः सर्वगुणैः पूर्तिरपि मत्स्यादिरूपिणः।
अजेयत्वमभेद्यत्वमच्छेद्यत्वं च सर्वशः।
सर्वावताररूपाणामपि चित्सुखरूपता।
श्रीब्रह्मरुद्राद्याधिक्यं सर्वेशत्वं स्वतन्त्रता।
सर्वशक्तिस्तत्प्रसादान्मोक्षो ब्रह्मादिनामपि।
तद्भक्त्यैव विमोक्षश्च भेदो जीवेशयोरपि।
श्रीब्रह्मरुद्रशक्रादेः क्रमेणैव निजा गुणाः।
सर्वदोषव्यपेतत्वं विष्णोः सर्वत्र सर्वदा।
एतत् सर्वं सर्ववेदैर्विष्ण्वाद्यैर्देवतागणैः।
ऋषिभिः क्षत्रियाद्यैश्च सम्यक्तात्पर्यतः सदा।
उक्तं सर्वेषु शास्त्रेषु तस्माद् ग्राह्यं बुभूषुभिः।
इदं सत्यमिदं सत्यमिदं सत्यं न संशयः।
कोटिभिः शपथैश्चापि निर्णीतं देवतागणैः।
अनादिकालतश्चायं शास्त्रार्थो नान्यथा क्वचित्।
पुनश्चानन्तकालीन एष एव न संशयः।
ज्ञातव्यश्चैष एवार्थः सर्वदैव बुभूषुभिः।
एवं तु स्थिरया बुद्ध्या ज्ञात्वा यास्यथ तत् परम्।
एवं ते हंसरूपेण विष्णुना देवतागणाः।
ब्रह्माद्या बोधिताः सर्वे तथा ज्ञात्वा परं गताः।
साक्षाद् विष्णुर्हंसरूप उक्त्वैवं तु दिवौकसाम्।
वासुदेवाख्यरूपेण तेन सर्वहृदि स्थितः।
सङ्कर्षणाख्यरूपेण विवेशानन्तमेव च।
तं ध्यायति सदाऽनन्तस्तस्मान्मुक्तिपदेच्छया।
प्रद्युम्नाख्येन रूपेण काममेव विवेश सः।
हंसस्तद्ध्यानतो मुक्तिं काम इच्छति सर्वदा।
अनिरुद्धाख्यरूपेण सोऽनिरुद्धं विवेश ह।
हंसस्तद्ध्यानतो मुक्तिमनिरुद्धस्तथेच्छति॥”
इत्यादि ब्रह्माण्डपुराणे तत्त्वनिर्णयगीतायाम्॥ ४॥
“विष्णोर्ब्राह्मणजातिः सन् ब्रह्मा जज्ञे चतुर्मुखः।
इतोऽग्रे जगतस्तस्मात् क्षत्रजातिरजायत।
वायुः सदाशिवोऽनन्तो गरुडः शक्र एव च।
कामश्च वरुणश्चैव
सोमः सूर्यो
यमस्तथा।
एवमाद्याः क्षत्रियास्तु देवानां ब्रह्मनिर्मिताः।
श्रेयसी सर्वजातिभ्यः क्षत्रजातिरिति श्रुतिः।
नैव क्षत्रात् परा जातिर्ब्रह्मजातिं विना क्वचित्।
ब्राह्मणाच्च परो राजा राजसूयाश्वमेधयोः।
उपास्ते राजसूयेतो ब्राह्मणो राजसूयिनम्।
आसीन आसनाधस्तात् तथाऽपि ब्राह्मणो गुरुः।
तस्मात् स राजसूयान्ते ब्राह्मणान् वन्दयीत च।
यः क्षत्रियो ब्राह्मणहा
पितृहा स प्रकीर्तितः।
पापीयानेव भवति हत्वा स्वपितरं यथा॥”
इति वामने।
“स्वतोऽधिकगुणं हत्वा साक्षाच्च पितरं पुनः।
क्षत्रस्य ब्राह्मणं हत्वा तावान् दोषो भवेद् ध्रुवम्॥”
इत्याग्नेये।
“ईशानो मारुतः प्राणो वायुर्जिष्णुस्तथैव च।
धृष्णुश्च पवमानश्च पवनश्चेति कथ्यते॥”
इति शब्दतत्त्वे।
“मृत्युः सङ्कर्षणः शेषः शेताऽनन्तस्तथैव च।
बलिर्महाविषश्चेति भूधरश्चेति कथ्यते॥”
इति च।
“इन्द्रः सुपर्णो गरुडो
महाभारो
धुरन्धरः।
विश्वजिच्चाप्यवध्यश्च वैनतेयश्च कथ्यते॥”
इति च।
“पर्जन्यो मघवांश्चैव पुरुहूतः पुरन्दरः।
प्राचीनबर्हिर्हर्यश्वः
सोमपा
मेषभुक् तथा॥”
इति च।
“यशोनिधिर्ब्राह्मणस्तु तद् दातुं क्षत्रिये स्वयम्।
अधो ब्राह्मण आसीनो राजसूये हि सेवते॥”
इति प्रत्यये।
ऋच्छति
विनाशयति।
“रीङ् क्षये”
इति धातोः॥ ५॥
“विवस्वदिन्द्रवरुणविष्णुभ्योऽन्येऽदितेः सुताः।
रुद्रादन्ये तथा रुद्रा वायोरन्ये च वायवः।
अग्नेरन्ये च वसवो वैश्या इत्येव कीर्तिताः।
एक एव हरेर्जातः परिवारविवर्जितः।
वाय्वादीन् क्षत्रियान् सृष्ट्वा पुनरल्पपरिग्रहः।
इच्छन् बहुपरीवारं वैश्यान् देवान् ससर्ज ह।
ततो बहुतरानिच्छन् शूद्रान् देवान्
ससर्ज ह।
अश्विनौ पृथिवी चैव
कालमृत्यव
एव च।
शूद्रदेवाः समुद्दिष्टा देववर्णा इति स्मृताः।
स्रष्टा स्वयं समुद्दिष्टः पालका देवता इमाः।
धारणं कथमस्य स्याद् गतिश्चास्य कथं परा।
इति मत्वा हरेर्भक्तिधर्मरूपं पुनर्विभुः।
प्राणिनां धैर्यरूपं च वायो रूपान्तरं पुनः।
ससर्ज मतिमान् ब्रह्मा विष्णोराज्ञापुरःसरः।
तस्माद् वायोः परो नास्ति ऋते विष्णुं सनातनम्।
शेषादीनां क्षत्रियाणां वायुरेवाधिपः स्मृतः।
धारणाद् धर्म इत्याहुर्वायुर्धारयति प्रजाः।
अबलोऽपि ततो वायोर्विष्णुभक्त्यादिरूपिणः।
प्राप्तुमिच्छति युक्तः सन् विष्णुं सुबलवत्तरम्।
यथैव युवराजेन महाराजमभीप्सति।
प्राप्तुं धर्माभिमानी स वायुः सत्याभिमानवान्।
तस्मादाहुर्धर्मविदं
सत्यं वेत्तेति
वेदिनः।
सत्यज्ञमथ धर्मज्ञं वायुर्देवो यतस्तयोः॥”
इति नारदीये।
नैव व्यभवदिति परिवारबहुत्वेन यद् विशिष्टत्वं तन्नाभवदित्यर्थः।
“बृहत्त्वात् सर्ववर्णानां
ब्राह्मणाः परिकीर्तिताः।
क्षतत्राणात्
क्षत्रियाश्च
त्रिषूनत्वाद् विशः स्मृताः।
ऊनवाची हि विट्शब्दः शुभे दत्ते त्रिभिर्यतः।
रमते स ततः शूद्रः स ब्राह्मण्याभिमानवान्।
ब्रह्माग्निना सहैवास्ते देवेष्वथ नरेषु च।
ब्राह्मणेन सहैवास्ते ब्रह्मा शुभचतुर्मुखः।
क्षत्रजात्यभिमानी तु पवनो देवराजभिः।
सुपर्णशेषरुद्राद्यैर्मानुषेषु च राजभिः।
वैश्यजात्यभिमानी च नासिक्यो वायुरूर्जितः।
वस्वादिभिः सहैवास्ते देवेष्वथ नरेषु च।
विड्भिः शूद्राभिमानी च निर्ऋतिर्देवतासु च।
नासत्ययोः
पृथिव्यां च
शूद्रेष्वेव तु मानुषे।
यस्मादग्नौ विशेषेण ब्रह्मणः सन्निधिर्भवेत्।
अतोऽग्नावेव देवानां सर्वेषां नियमाद्धविः।
हुत्वा लोकान् प्रार्थयन्ति तथा
विप्रेषु मानुषे।
सर्वजात्युत्तमो ब्रह्मा यतो विप्राग्निसंस्थितः।
तस्माद् विप्रांस्तथैवाग्निं तर्पयेद् ब्रह्मतुष्टिकृत्।
तुष्टे ब्रह्मणि विष्णुश्च तुष्टो लोकान् प्रदास्यति।
अग्निविप्रार्चकोऽप्येवं यो न वेद हरिं परम्।
आश्रयं सर्वजीवानां हरिस्तं नैव भोजयेत्।
यथाऽनधीतो वेदस्तु यथा कर्माकृतं तथा।
न सम्यक् फलदो विष्णुरज्ञातो जगदीश्वरः।
यद्यवेत्ता महदपि हयमेधादिकं हरेः।
कुर्यात् क्षयिष्णुफलवान् स भवेन्नात्र संशयः।
आप्तकामतयाऽऽत्मेति यो विष्णुः समुदीरितः।
सर्वाश्रयमुपासीत तमेव
पुरुषं
सुधीः।
विष्णुः
सर्वाश्रय इति सदोपास्ते य आत्मवान्।
क्षीयन्ते नास्य कर्माणि शुभान्येव कदाचन।
उपासनाबलान्मुक्तो भोगान् कर्मफलान् सदा।
भुङ्क्ते विष्णोः समीपस्थः सर्वदोषविवर्जितः॥”
इति ब्रह्माण्डे।
एताभ्यां रूपाभ्यां सहितं हि ब्रह्माभवत्।
स्वं लोकं स्वाश्रयम्॥ ९॥
“योऽयं सर्वेषु जीवेषु नियामकतया स्थितः।
स विष्णुराप्तकामत्वादात्मेत्येवोच्यते बुधैः।
स लोकः सर्वभूतानां
सर्वजीवेषु
संस्थितः।
वैश्वदेवादिकान् होमान् यज्ञांश्च कुरुते विभुः।
कारुण्यात् सर्वदेवेषु तेन देवाश्रयो हरिः।
ऋषीणामाश्रयश्चापि स्वाध्यायेष्वृषिसंस्मृतेः।
स हि जीवेषु संविष्टः पिण्डं पुत्रजनिं तथा।
यत् करोति पितॄणां च संश्रयस्तत एव सः।
तृणोदकादिदानेन पशूनामन्नतो नृणाम्।
उपकाराच्च सर्वेषां प्राणिनामाश्रयो हरिः।
यज्ञादीन् देवतादीनामन्नत्वेन पुरैव यत्।
ब्रह्माद्यैरर्थितः प्रादात् क्षीराब्धेस्तट उत्तरे।
अतश्च सर्वलोकानामाश्रयो विष्णुरेव सः।
एवं यो वेत्ति विष्णोस्तु सर्वाधारत्वमुत्तमम्।
सर्वाण्यपि हि भूतानि तस्येच्छन्त्यविनाशिताम्।
स्वाश्रयस्य यथा नित्यमनाशं प्रार्थयन्ति हि।
राजादेरपि तान्येवमुत्तमाश्रयवेदिनः।
तदेतद् वासुदेवस्य सर्वाधारत्वमुत्तमम्।
विदितं सर्ववेदैश्च मीमांसाभिश्च निश्चितम्॥”
इति भविष्यत्पर्वणि।
“किन्तु ब्रह्मादिभिर्देवैः पुरा दृष्ट्वा निरंहसः।
निर्भयान् विष्णुनाम्नैव यथेष्टं पदमागतान्।
अलब्ध्वा चात्मनः पूजां सम्यगाराधितो हरिः।
मया चास्मादपि श्रैष्ठ्यं वाञ्छताऽहङ्कृतात्मना।
ततः साक्षाज्जगन्नाथः प्रसन्नो भक्तवत्सलः।
अंशाशेनात्मनैवैतान् पूजयामास केशवः।
देवान् पितॄन् द्विजान् हव्यकव्याद्यैः करुणामयः।
ततःप्रभृति पूज्यन्ते त्रैलोक्ये सचराचरे॥”
इति पाद्मे॥ १०॥
“एको नारायणः पूर्वमासीज्जायां स ऐच्छत।
विद्यमानामपि सदा भोगार्थं पुरुषोत्तमः।
नित्यत्वेऽप्युभयोर्देवोऽवियुक्तस्तु तया यदा।
एक इत्युच्यते देव्या रममाणः सुतं विभुः।
ऐच्छद् ब्रह्मा ततो जज्ञे ततो देवाश्च सर्वशः।
जाते पुत्रे वित्तमैच्छद् भूतान्यण्डं ततोऽभवत्।
अण्डस्यान्तस्त्विमे लोकाः कुर्यां कर्मेति चैच्छत।
ततस्तु कृतवान् यज्ञं स्वस्मै स पुरुषोत्तमः।
आहुरात्मेति तं देवं पूर्णत्वाद् विष्णुमव्ययम्।
तस्मादद्यापि यः कामी स ह्येतावन्तमिच्छति।
दैवं वित्तं सुखाद्यं हि मित्राद्यं मानुषं तु यत्।
इदानीमपि तस्माद्धि कामयेदेवमेव तु।
यः कश्चित् पुरुषो वाऽपि तद्वैकल्यादकृत्स्नवान्।
एकाकिनोऽप्यवैकल्यं यथैव स्यात् तथा शृणु।
स्वात्मनस्त्वपृथग् यत्तज्ज्ञानरूपं मनः परम्।
मुक्तावपि न हेयं यत् तत् स्वात्म्येत्येव चिन्तयेत्।
जायां तु तादृशीं वाचं बलं तादृक् स्वमात्मजम्।
श्रोत्रं चक्षुश्च तादृग् यद् वित्तं दैवं च मानुषम्।
एवम्भूतं चिन्तनं यत् तत् कर्मेत्येव चिन्तयेत्।
एतत् षट्कं च हरये सर्वेशाय समर्पयेत्।
एवमात्मा प्रिया पुत्रो वित्तं द्विविधमित्यपि।
पञ्चभिः क्रियते यज्ञः पुरुषः पशुरेव च।
मातापितृभ्यामन्नेन तयोः पूर्वेण कर्मणा।
जन्यस्य कर्मणा चैव साध्यः पञ्चभिरेव तु।
एवं हि प्राणिनोऽन्येऽपि जायन्ते नात्र संशयः।
एतामुपासनां कुर्याद् यो ब्राह्मं पदमाप्य च।
सर्वस्यास्य पतिर्भूयाद् विष्णोरेव प्रसादतः।
ब्राह्मे पदे त्वयोग्या ये ते देवपदमाप्नुयुः।
तस्याप्ययोग्या लोकस्य
भवेयुरधिकप्रियाः।
क्रमान्मुक्तिं व्रजेयुश्च केशवस्य प्रसादतः॥”
इति माहात्म्ये।
अविशेषेण ततोऽन्यत्
स्यादितीच्छन्नपि न विन्देत्।
ततोऽन्यस्याभावात्।
“आत्मा मनश्चिन्तनं च शेमुषी बुद्धिरित्यपि।
एकार्थवाचका धीश्च मनीषा तप इत्यपि॥”
इति शब्दतत्त्वे।
“सर्वाश्रयं च पितरं सर्वेषामधिकं गुणैः।
अविदित्वा महत् पुण्यं कृत्वा न फलभाग् भवेत्।
तथा ज्ञात्वा हरिं यस्तु कुर्यात् कर्म सदोदितम्।
अनन्तफलवान् स स्यात् प्राप्नोति च मनोगतम्॥”
इति बृहच्छ्रुतौ।
परमात्मैव गृहस्थान्तर्यामित्वेन सर्वेषां लोक आश्रयः।
“गृहस्थान्तर्गतो विष्णुर्यज्ञैर्देवाश्रयो भवेत्।
स्वाध्याये ऋषिसंस्मृत्या ऋषीणां च सदाश्रयः।
स्वाध्यायाच्छ्राद्धतश्चैव पितॄणामन्नदानतः।
मनुष्यादेरतो वेत्ति य एवं सततं गृही।
स्वस्यान्तर्यामिणं विष्णुं सुरादीन् पूजयेत् तथा।
तस्याविनाशमिच्छन्ति स्वाश्रयस्य यथा सुराः।
तदेतत् सर्वशास्त्रेषु ऋषिसङ्घैर्विचारितम्॥”
इति नारायणश्रुतौ।
“नराणामाश्रया देवा न देवानां
नराः
क्वचित्।
नराणां च सुराणां च गतिरेको जनार्दनः॥”
इति च।
आत्मा ब्रह्मा।
“आत्मा तु जगतां ब्रह्मा तस्यात्मा भगवान् हरिः।
स एव जातः प्रथमं वासुदेवाच्चतुर्मुखः।
सोऽकामयत भार्या मे स्यात् पुत्रस्तदनन्तरम्।
ततो वित्तं मम स्याच्च कर्म कुर्यां ततो हरेः।
इति सोऽपि न
तान् प्राप
ततोऽपूर्णत्वमात्मनः।
मत्वा पूर्णत्वसिद्ध्यर्थं भार्यां वाचमकल्पयत्।
प्राणं पुत्रं तथा वित्तं चक्षुर्बाह्यमथान्तरम्।
ज्ञानाख्यं श्रोत्रमेवासौ कर्म स्वात्मानमेव तु।
एवं स मानसे यज्ञे त्वयजत् केशवं विभुम्।
ततोऽस्य वाचः सम्भूता भार्या तस्य सरस्वती।
पुत्रः प्राणादभूद्
वायुर्दिशो
लोका हिरण्मयाः।
तस्यापरोक्षतां
यातो
भगवान् पुरुषोत्तमः।
सर्वविद्या ददौ ताश्च श्रोत्रेण जगृहे विभुः।
आत्मना सर्वकर्माणि चकार भगवत्परः।
पुराऽऽसीन्मन एवास्य तेनेदं पञ्चकं विभुः।
अवाप कर्मपर्यन्तं देहान्तात् पञ्चकात् स्वयम्।
तस्मादद्यापि यो विद्वानुपास्ते पञ्चकं तथा।
विष्णूपकरणत्वेन स इदं सर्वमाप्स्यति।
मुक्तिश्चान्ते भवत्यस्य पञ्चानां देवतां हरिम्।
नारायणं वासुदेवं तथा सङ्कर्षणं विभुम्।
प्रद्युम्नं चानिरुद्धं च स्मरतो नित्यमेव तु।
सवनत्रयं तथा पूर्वमुत्तरं चेति पञ्चकम्।
यज्ञे मध्यं शिरः पक्षौ पुच्छं पशुषु पूरुषे।
चतुर्दिशं तथा मध्यमिति सर्वत्र पञ्चकम्॥”
इति च॥ ११॥
॥ इत्यव्याकृतब्राह्मणम्॥ ३/५॥
सप्तान्नब्राह्मणम्
पिता विष्णुः।
यत् यदा।
तपसा प्राणिनां कर्मभिः।
मेधया स्वेच्छया।
“स हीदमन्नं धियाधिया जनयते कर्मभिः”बृहदारण्यकोपनिषत् ३/६/७
इति वचनात्।
“सप्तान्नानि यदा विष्णुः परमः पुरुषो विभुः।
ससर्ज तेषां स्वार्थानि चकार त्रीणि केशवः।
मनो वाचं तथा प्राणं तस्मात् तैस्तुष्टिमेति सः।
तस्मात् तद्भक्तिकामः स्यात् सङ्कल्पं तत्कृतिं प्रति।
कुर्यात् तद्वेदनेच्छां च श्रद्धां तस्य गुणोन्नतौ।
अश्रद्धामन्यसाम्ये
वाऽप्यन्येषामुन्नतौ
ततः।
अन्येषां
सत्स्वरूपत्वे
प्राकृतत्वादिकेऽस्य च।
धृतिं तन्निन्दिवागादौ प्राप्ते तत्रैव चाधृतिम्।
तन्मतस्य विसर्गार्थे ह्रियं तद्भक्तिवर्जने।
तद्विवेके धियं चैव तदज्ञाने भियं तथा।
वाचं नित्यं तद्गुणोक्तौ प्राणं तत्कर्मणि स्फुटम्।
तदन्यकर्मसन्त्यागे चापानं व्यानमस्य च।
विरोधिनां
निरासे त्वथोदानं
योगधारणे।
मनोवागादीन्द्रियाणां समानं नियमेऽत्र
हि।
अन्नमुक्तेषु सुस्थैर्ये नरः कुर्यात् सदैव हि।
अनेकगोचरेच्छा स्यात् काम एकाश्रये स्थितः।
प्राणः प्रवृत्तिहेतुः स्यादपानस्तु निवर्तने।
बलकर्मा तथा व्यान उदानो योगकर्मकृत्।
देहेन्द्रियमनोनेता समानो नः स्थितिप्रदः।
मनोवाक्प्राणसान्निध्यप्राधान्याज्जीव उन्नतिः।
मनोवाक्प्राणरूपोऽसौ भगवान् पुरुषोत्तमः।
मनोवाक्प्राणतस्तस्य जाता अन्येऽभिमानिनः।
ब्रह्मा सरस्वती वायुर्मनआद्यभिमानिनः।
सर्वस्यान्त स्थितं विष्णुमायत्ता वाग्घि नः सदा।
सर्ववाचश्च घोषाश्च विष्णोर्नामेति कीर्तिताः।
तज्ज्ञानां तत्फलं च स्यादज्ञानां तत्फलं नतु।
सर्वेन्द्रियगतं ज्ञानं मनआयत्तमीरितम्।
पृष्टे
स्पृष्टेऽप्यनेनाहं
स्पृष्ट इत्येव वेत्त्यतः।
मनस्यव्याकुलेऽन्यत्र नैव वेत्ति कथञ्चन॥ *॥
लोकवेदसुरज्ञातपित्रादेश्चाभिमानिनः॥ *॥
द्युपृथिव्यग्निसूर्यापां सोमस्याप्यभिमानिनः।
स इन्द्रः परमैश्वर्यादशत्रुः समवर्जनात्।
वायुरेते समा व्याप्तौ ब्रह्मेरौ गुणतोऽधिकौ।
अनन्ताश्च गुणा ह्येषामन्यजीवव्यपेक्षया।
तेभ्योऽप्यनन्ता विष्णोस्तु तेषामेवमुपासकः।
नित्यलोकोपभोगी स्यादनित्यस्यान्यथा भवेत्॥ *॥
वायुः प्रजापतिः सोऽसौ चन्द्रसंस्थो विशेषतः।
रात्रौरात्रौ क्षयादस्य पूरणाद् रात्रिनामकाः।
कलाः पञ्चदश प्रोक्ता ध्रुवैवास्य तु षोडशी।
अकलोऽपि स चन्द्रस्य कलाभिः प्रोच्यते तथा।
सोमावास्यां यतो रात्रौ प्राणभृत्सु व्यवस्थितः।
कल्यावेशादल्पदोषः कृकलासवधोऽपि सन्।
तस्यां रात्रौ
महान् दोषो
देवतावेशतो भवेत्।
वायुः संवत्सरः प्रोक्तो वत्सो विष्णोरसौ यतः।
सम्यगेव रतिं याति, स एवं विदुषि स्थितः।
अध्रुवास्तु कला यद्वत् सौम्यास्तस्य
यथा
धनम्।
आगमापयवत्त्वात् तु ध्रुवावद् देह उच्यते।
नाभिस्थानं शरीरं तु चक्रस्य प्रधिवद् धनम्।
सर्वस्वविजयेऽप्यस्मात् प्रधिमात्रं
तु
गच्छति।
एवं महागुणान् देवानेवं यो वेद पूरुषः।
नचैभ्योतिऽप्रियः कश्चिद् विष्णोरस्ति कदाचन॥ *॥
चतुर्थं भोज्यमेवान्नं सर्वसाधारणं स्मृतम्।
आत्मनोऽतिसमीपत्वं तस्य योऽन्नस्य मन्यते।
अक्षयं पापमस्य स्याद् देवब्रह्मस्वहारिणः।
तदेव मन्त्रयुक्तत्वाद् बलिहोमात्मना द्वयम्।
देवानां प्रददौ विष्णुस्तस्मान्नैवेच्छया यजेत्।
यदीच्छया यजेत् तेषामपहर्ता भविष्यति।
देवस्वं तेन येनैव काम्यार्थं विनियोजितम्।
परकीयेन वित्तेन तस्मिन् विनिमये यथा।
चतुष्पाद्भ्यो
द्विपाद्भ्यश्च
पशुभ्यः पयआत्मकम्।
प्रायच्छत् सप्तमान्नं स गोक्षीरं मुख्यमत्र च।
आत्मने चैव देवानां तद्धोमार्थं प्रकल्पितम्।
संवत्सरं गोपयसा येन होमो हरेः कृतः।
भगवत्तत्त्वविदुषा तस्य मुक्तिर्न संशयः।
अदृष्टभगवद्रूपस्यैतद्दर्शनकारणम्।
भगवद्दृष्टिपूतस्तु विना होमेन मुच्यते।
सप्तान्नसृष्टितत्त्वज्ञस्त्वेकहोमेन मुच्यते।
विशेषज्ञो यतः सोऽयं भगवत्तत्त्ववेदने।
को नाम भगवान् विष्णुः परमानन्दरूपतः।
प्राणिनां कर्मभिश्चैव स्वेच्छया च पुनःपुनः।
सप्तान्नं सृजते यस्मादन्नानामक्षयस्ततः।
तस्मादक्षितिनामाऽसौ भगवान् पुरुषोत्तमः।
य एवमक्षितिं वेद भगवन्तं सनातनम्।
अप्रयत्नेन भोगाः स्युर्यथेष्टास्तस्य सर्वदा।
सप्तान्नोपासनं यस्माद् देवानां योग्यमुत्तमम्।
तस्माद् देवत्वमाप्नोति योग्यो देवपदस्य यः।
ऊर्जं देवान्नमुद्दिष्टं ऊर्जितास्तु गुणास्तथा।
तदप्याप्नोति न नरा योग्या एतदुपासने।
ज्ञानमात्रेण देवानां सामीप्यं प्राप्नुवन्ति ते॥”
इति नारायणीये॥ २॥
ब्रह्मेति वेदः।
स्वाध्यायादिकर्तृत्वात् पुत्रस्त्वं ब्रह्मेत्याद्युच्यते।
आत्मा भवति व्यापको भवति।
“पुनःपुनः कर्मकृतिर्मानुष्यजय उच्यते।
जन्मान्तरं विना नैव कर्मणा तत् तु युज्यते।
पुत्रेण विद्यया नित्यमेकैकेनापि युज्यते।
उभाभ्यां किमु वक्तव्यमष्टभागफलं सुतात्।
विद्यया त्वर्धमाप्नोति सर्वं सप्तान्नविल्लभेत्।
पुत्रमाविश्य सामर्थ्यान्मुच्यते च्छिद्रकर्मणः।
अक्ष्णं च पुदिति च्छिद्रं पुत्रस्तत्त्राणतो भवेत्।
पृथिव्यादिस्थिता देवाः सरस्वत्यादिकास्त्रयः।
अधिकावेशतो देवेष्वतो देवा इति स्मृताः।
यदावेशात् सर्वमुक्तं सत्यं दैवी तु वाग्घि सा।
यदावेशान्न दुःखी स्यादानन्दी दैवतं मनः।
यदावेशात् सर्वकार्येष्वम्लानः प्राण एव सः।
सर्वसामर्थ्ययुक्तः स्यान्न म्रियेत कदाचन।
एवं सप्तान्नविन्मुक्तस्त्रिभिराविष्ट एव तु।
सर्वेषु व्याप्तिमन्वेति न दुःखी प्राणिषु
स्थितः।
सप्तान्नोपासनायोग्या देवा एकान्ततो हि यत्।
देवांश्च पापं नाप्नोति तस्मात् पापं न तस्य तु।
देवा मनुष्यतामंशैराप्ता ये पुत्रतः फलम्।
स्यात् तेषामेव चामुक्तेर्मुक्तानां नतु किञ्चन।
मुक्तानां दैववागादेरावेशः सम्प्रकीर्तितः।
प्राणज्ञानं यथाऽवन्ति रहस्यमिति सर्वदा।
एवं मुक्तस्वरूपं चाप्यवन्त्येव रहस्यतः।
उत्तमः सर्वदेवेषु प्राण एव हरेरनु।
चतुर्मुखस्य प्राणस्य न विशेषोऽस्ति कश्चन।
तस्माद् विष्णोर्व्रतस्यानु नित्यं प्राणव्रतं चरेत्।
हंसोपास्तिः श्वासरूपे तयोर्व्रतमुदीरितम्।
हंसरूपौ हि तौ देवौ श्वसोच्छ्वासप्रवर्तकौ।
तस्मात् प्राण्यादपान्याच्च तद्रूपं
संस्मरेत्
सदा।
नान्यस्योपासनं कुर्यात् तद्भृत्यत्वं विना क्वचित्।
इन्द्रियाणि ससर्जादौ वासुदेवः प्रजापतिः।
अध्यात्ममिन्द्रियाण्याहुरधिदैवं तु देवताः।
अध्यात्ममग्निर्वाङ्नामा
चक्षुरादित्य उच्यते।
श्रोत्रं तु चन्द्रमा नाम मनः स्थूलं तु वासवः।
येन यज्ञादिकं कुर्याच्छेषरुद्रविपास्तथा।
मनः सूक्ष्मं ज्ञानयोग्यं शेषो व्याख्यानगोचरम्।
रुद्रस्तु मननाख्यं च गरुडो ध्यानगोचरम्।
वायुः प्राण इति प्रोक्तो येन सर्वं नियम्यते॥ *॥
त एते भगवत्सृष्टा व्यूदिरेऽध्यात्मसंस्थिताः।
अधिदैवे ज्वलत्कर्मा वह्निः सूर्यस्तु तापकः।
सोमः कान्तौ वृष्टिकर्मा वासवः शेष एव तु।
पञ्चरात्रप्रवृत्तीशो रुद्रस्तत्स्थक्रियापरः।
सर्वप्रवर्तको वायुर्ज्ञानमोक्षप्रदस्तथा।
वेदप्रवृत्तिकृद् वीन्द्रस्तेऽधिदैवे च पस्पृधुः।
अहं श्रेयानहं श्रेयानिति तानब्रवीद्धरिः।
स्वकर्म
यस्त्वविश्रान्तः
कुर्याच्छ्रेयान्
हि
वः स्मृतः।
इति श्रुत्वा ततश्चक्रुः कर्म स्वंस्वमनारतम्।
तानेताञ्छ्रमरूपेण
प्राप ब्रह्मा प्रजापतिः।
श्रान्ताः स्वं भगवत्कर्म न शेकुः सर्वदेवताः।
वायुं तु समशक्तित्वान्नाप ब्रह्मा प्रजापतिः।
तेनासौ भगवत्कर्म सर्वं च कृतवान् सदा।
श्रमात् पापात्मको मृत्युर्भगवत्कर्मवर्जनात्।
अन्यान् देवानवापाशु नैव वायुं कदाचन।
ते वायुं ज्ञातुमैच्छन्त श्रेष्ठोऽयमिति निश्चिताः।
तं ज्ञात्वा तेन चाविष्टास्तद्भृत्यत्वमुपागताः।
तस्मात् प्राणाश्च मरुत इत्येषां नाम संस्थितम्।
वायोर्देवा हि जायन्ते लयमेष्यन्ति तत्र च।
तस्मान्नित्यं तद्व्रताश्च तद्व्रतोऽतो भवेत् सदा।
अन्यदेवव्रतारम्भं यदि कुर्यात् समापयेत्।
तेनासौ वायुना साकं भगवन्तमुपेष्यति॥”
इति नारायणश्रुतौ।
“आनन्द्येव भवति”
“न शोचति” इत्यतो मुक्त
इत्येवावगम्यते।
॥ इति सप्तान्नब्राह्मणम्॥ ३/६॥
त्रयब्राह्मणम्
सहैव माति जानातीति समम्।
आत्मा प्राणः।
नामरूपयोरपि प्राणाधीनत्वादेकमित्युच्यते।
“प्राणो वायुरिति प्रोक्तस्तत्पत्नी नाम भारती।
रूपं तु तत्सुतो रुद्रो वशे प्राणस्य तद् द्वयम्।
अमृतो वायुरुद्दिष्टो नित्यज्ञानात्मकत्वतः।
सत्यं यथार्थवक्तृत्वाद् भारती रुद्र एव च॥”
इति।
“रुद्रे वेदेषु च प्राणः प्रविष्टश्छादितः सदा।
सत्य इत्युच्यते नित्यं
स्वरूपेणामृतः
स्मृतः॥”
इति च।
॥ इति त्रयब्राह्मणम्॥ ३/७॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये तृतीयोध्यायः॥
चतुर्थोऽध्यायः
अजातशत्रुब्राह्मणम्
ॐ॥ अतीत्य जगद् धर्मवर्जितत्वेन स्थितत्वादतिष्ठाः।
उत्तमत्वान्मूर्धा।
स्वयमेवापराजितबहुरूपत्वादपराजितसेना
भगवान्।
जिष्णुरुत्तमः।
अन्येषां जेता अन्यतस्त्यजायी॥ *॥
विषासहिरसह्यः॥ *॥
आत्मनि हिरण्यगर्भे।
आत्मन्वी चित्तवान्।
चित्ताभिमानित्वात् तस्य स्वहृदि स्थितं स्वनियामकं भगद्रूपमुपास्यैव मोक्षो भवति॥ *॥
देवतासु भगवन्तमुपास्य तत्तद्देवतासमीपं प्राप्य पुनः स्वहृदिस्थमुपास्यैव मोक्षो भवतीत्यतो नैतावता विदितं भवतीत्युक्तम्॥ *॥
स्वहृदिस्थभगवद्रूपस्य स्वस्मिन् विशेषसम्बन्धज्ञापनार्थं बृहन् पाण्डरवास इत्याद्यामन्त्रणम्।
तेभ्यो नामभ्योऽप्यस्य शरीरे विशेषसम्बन्ध इत्यतः पाणिपेषणेन जीवमुत्थापयामास भगवान्।
येषां बहिरुपासनेन मोक्षस्तेषामपि हृद्युपासनं किञ्चित् कर्तव्यमेव॥ *॥
स्वहृदिस्थेन भगवद्रूपेण विशेषसम्बन्धदर्शनार्थमेव “यत्रैष एतत् सुप्तोऽभूत्” इत्यादि प्रश्नप्रतिवचनं समस्तम्।
यत्र यस्मिन् परमेश्वरे विज्ञानमये एष जीवः सुप्तोऽभूत्।
“यत्र” इत्यधिकरणभूत एव “य एष विज्ञानमयः” इति परामृश्यते।
“अन्योऽन्तर आत्मा विज्ञानमयः”🔗तैत्तिरीयोपनिषत् २/४
“विज्ञानं ब्रह्म चेद् वेद”🔗तैत्तिरीयोपनिषत् २/५
इति श्रुतेः॥ *॥
तानि यदा परमात्मा गृह्णाति तदैतत्पुरुषो जीवः स्वपिति नाम।
स यत्र परमात्मा स्वप्नया नाड्या चरति तदा जीव उच्चावचं निगच्छतीव।
सर्वदा महाराजवत् प्राणान् गृहीत्वा परमात्मा परिवर्तते॥ *॥
जीवस्तु कदाचिदेव स्वप्ने राजवदात्मानं पश्यति कदाचिद् ब्राह्मणवच्छ्वमार्जरादिवद् वा।
आनन्दस्य परमात्मनोऽतिघ्नीं समीपम्।
कुमारो रुद्रः।
महाराजो वायुः।
महाब्राह्मणो ब्रह्मा॥ *॥
नहि जीवो विज्ञानपूर्वकं प्राणानां विज्ञानमादत्ते।
नच सर्वप्राणलोकदेवभूतानां स्रष्टा।
“आदित्यचन्द्रविद्युत्सु भूतेष्वादर्श एव च।
गच्छत्पाश्चात्यशब्दे च चक्षुश्छायागतं तथा।
हिरण्यगर्भसंस्थं च सदोपास्य हरिं परम्।
तद्देवसार्ष्टितामेत्य
हृद्युपास्य हरिं पुनः।
मुक्तिमेत्यथ यो बाह्यान्मुक्तिमेष्यति सोऽपितु।
हृदि किञ्चिदुपास्यैव विष्णुं
मुक्तिमनुव्रजेत्।
यानि सूर्यादिनामानि विष्णोस्तानि न संशयः।
तदुक्तान्येव सूर्यादेराकृष्यैवोपचारतः।
विशेषेण तु सम्बन्धो यतः स्वहृदि संस्थिते।
जीवस्यातो न सोमादिनाम्नाऽऽहूतो हरिः परः।
जीवं च चारयेत् तत्र यदा विष्णुः सनातनः।
स्वप्नं पश्यति जीवोऽयं यदा विज्ञानरूपिणम्।
सुषुम्नासंस्थितं विष्णुमेति तत्सुप्तिमेष्यति।
सम्यग्ज्ञानमयाद् विष्णोरुत्थानं
वाऽप्ययं व्रजेत्॥ *॥
प्राणानां चैव लोकानां देवानां प्राणिनामपि।
सत्यसत्यो हरिः स्रष्टा
पाता विलयकृत् तथा।
नियन्ता मोक्षदश्चैव विष्णुरेव सनातनः॥”
इति नारायणश्रुतौ।
॥ इत्यजातशत्रुब्राह्मणम्॥ ४/१॥
शिशुब्राह्मणम्
आधानमवस्थानं सूक्ष्मशरीरम्।
प्रत्याधानं विधानं स्थूलशरीरम्।
प्राणो नारायणः स्थूणा।
“वायुर्गोवत्सरूपेण सर्वप्राणिषु संस्थितः।
सूक्ष्मदेहो गृहं तस्य वितानं स्थूल उच्यते।
अन्नं दामात्मकं तस्य स्थूणा तु भगवान् हरिः।
ध्यायत्येवं हि यो वायुं श्रोत्रादीन् मनसा सह।
बुद्धिं च सप्तशत्रून् स विषयेष्वभिधावतः।
असुरान् सन्निरुध्यैव वेत्ति नारायणं परम्॥ *॥
दक्षिणाक्षिस्थितं वायुं सप्तदेवा उपासते।
अक्षीणज्ञानमनसः
सदाशिवपुरःसराः।
उपास्यमानं तैर्देवैर्मोक्षार्थं वायुमीश्वरम्।
स्थूणया विष्णुना सार्धं यो विद्यात् सोऽन्नमश्नुते।
अक्षय्यमेव
मुक्तः सन् सर्वदुःखविवर्जितः॥ *॥
विश्वरूपं यशश्चेति नाम्ना विष्णू रमा तथा।
वायुश्च संस्थिता नित्यं सर्वेषां दक्षिणाक्षिगाः।
पूर्णत्वाद् विश्वतो विष्णो रमायाः स्त्रीषु पूर्णतः।
वायोर्जीवेषु पूर्णत्वाद् यशोज्ञानसुखात्मकाः।
प्राणाश्चैते प्रणेतृत्वादृषयो रुद्रपूर्वकाः॥ *॥
गौतमो नाम रुद्रस्तु सर्वज्ञत्वात् प्रकीर्तितः।
भरद्वाजस्तु पर्जन्यो वाजमन्नं
भरेद्
यतः।
वृष्ट्यैव विश्वामित्राख्य आदित्यो यत् प्रकाशनात्।
विश्वं विज्ञापयन्नित्यमग्निस्तु जमदग्निकः।
जातं मितं चात्ति यस्माद् वसिष्ठाख्यस्तु वासवः।
वसतामुत्तमो यस्मात् पृथ्वी कश्यपनामिका।
मेघवृष्टं पिबेद् यत् कं शयानैव हि सा सदा।
द्यौरत्रिरिति सम्प्रोक्ता तत्स्थैर्हि हुतमद्यते।
श्रोत्रदिङ्नासिकाबाहुदक्षिणाक्षिषु
संस्थिताः।
द्वितीयेन तु रूपेण देवा एते शिवादयः।
एवमेषां तु नामानि वेत्ति यः सर्वभुग् भवेत्।
सरस्वत्यष्टमी चैव वाचि संस्था विशेषतः।
उपास्ते वायुमेवैकं सस्थूणं ब्रह्मवेदिता।
ब्रह्मनामा सदा वायुरेनां वेत्ति विशेषतः।
इति तां वेद यो विद्वान् सर्वात्ता स भविष्यति॥”
इति नारायणीये॥
॥ इति शिशुब्राह्मणम्॥ ४/२॥
मूर्तामूर्तब्राह्मणम्
विशरणावसादनयुक्तं सत्।
ततं सर्वज्ञं च
सत्यम्॥ *॥
प्रलयेऽपि भगवदन्तरेव
रता अक्षिता स्थितेति
श्रीरन्तरिक्षम्।
“य एष तपति” इत्यादित्यस्थो हिरण्यगर्भ उच्यते॥ *॥
“मण्डले पुरुषः” इति भगवान् विष्णुः।
एवमेव चक्षुर्दक्षिणेऽक्षन् पुरुषश्च॥ *॥
तस्यैवामूर्तरसस्य भगवतो नेति नेतीत्यादेशः।
अतस्तस्मादमूर्तसारत्वादित्यर्थः।
अथेत्यानन्तर्यार्थे।
इति नेति नेति मूर्तामूर्तविलक्षण इत्यर्थः।
उभयसादृश्यनिषेधार्थं द्विवारम्।
इति नेति निषिध्यमानमप्येतस्मादन्यत् परं नास्ति एष एव परः।
मूर्तामूर्तं त्वपरमेवैतदपेक्षया।
मूर्तामूर्तमेवाध्यात्मं प्राणा
इत्युच्यन्ते।
ब्रह्मणो वायोश्चामूर्तत्वात्।
“मूर्तामूर्तमिदं रूपं ब्रह्मणः प्रतिमात्मकम्।
नैतत्स्वरूपमेतत्
स्यात् तद्धि सर्वपरं सदा।
श्रियो वायोर्विरिञ्चाच्च येऽन्ये मूर्ता हि ते स्मृताः।
मूरं पापं हि तेनाप्तं मूर्तमित्यभिधीयते।
विशीर्णं चावसन्नं च तदेवातः सदुच्यते।
पराधीनगतित्वाच्च स्थितमित्यभिधीयते।
तस्य सारो विरिञ्चस्तु तद्विरुद्धस्वभावकः।
मूर्ताद् विरुद्धरूपत्वाच्छ्रीर्वायुश्चाप्यमूर्तकौ।
सर्वज्ञौ च ततौ चैव नियतौ हरिणैव तौ।
तयोः सारस्तु भगवान् हरिर्नारायणः परः।
आदित्यमण्डले चैव
चक्षुःष्वपि च सुस्थितः।
तत्रैव संस्थितो ब्रह्मा मूर्तसारोऽपि तस्य च।
विष्णुरेव परः सारस्तस्य रूपाण्यनेकधा।
महारजनवासोवत्
पाण्ड्वाविकवदेव च।
विद्युत्पद्मेन्द्रगोपादिवह्निवत् सुखभास्वरः।
नैवासौ मूर्तवद् विष्णुर्नच मूर्तरसोपमः।
नचामूर्तोपमो देवः स एव परमः सदा।
तस्यान्यदपरं सर्वं सत्यसत्यः स एकराट्।
मूर्तामूर्तात्मकाः प्राणास्तेषां सत्यः स एव हि॥”
इति नारायणश्रुतौ।
प्रथमनिषेधेनैव मूर्तरससादृश्यमपि निषिद्धम्॥
॥ इति मूर्तामूर्तब्राह्मणम्॥ ४/३॥
मैत्रेयिब्राह्मणम्
आत्मा नारायणः।
तस्यैव हि कामेन पत्यादिः प्रियो भवति।
नहि
पत्यादीनां
जायादीनामहं प्रियः स्यामिति कामनामात्रेण प्रियत्वं भवति।
भगवदिच्छयैव हि तद् भवति।
अन्यथा जायार्थे पत्यर्थे इत्येव स्यात्।
प्राधान्यादिदं सर्वं विदितम्।
सर्वकारणत्वाच्च सर्वप्राधान्यं भगवतः।
प्राधान्याप्राधान्ययोरपि स एव हि हेतुः।
अन्यत्रात्मनो ब्रह्म वेद भगवदधीनत्वेन न वेद।
तदनाश्रितत्वेन स्थानान्तरे च वेद।
परादात् परतो
लोकालोकस्यान्धे तमसि।
इदं ब्रह्मादिकम्।
यदयमात्मा।
यत्रायमात्मा।
अन्यत्र परिज्ञाने दोषोक्तेस्तत्र परिज्ञानं ह्युक्तं भवति।
अन्यथा अन्यदात्मनो ब्रह्म वेदेति स्यात्।
यदित्यव्ययत्वाद् यत्रेत्यपि भवति।
यथा यस्मादित्यर्थे।
“सप्तसु प्रथमा”
इति सूत्रम्।
दुन्दुभ्याघातादिदृष्टान्तोऽपि
तदधीनत्वं तत्कारणत्वं च ज्ञापयति।
नहि दुन्दुभ्यादिरेव तच्छब्दः।
नच तदुपादानम्।
स्थानान्तरे तदुपलम्भात्।
नह्युपादानादुपादेयं स्थानान्तरे भवति।
शब्दो हि स्थानान्तरं गत्वा
प्रतिश्रुतित्वमुपैति।
भगवदिच्छाया दृष्टान्तो दुन्दुभ्याघातादिः।
नहि दुन्दुभिं पश्यन् पुरुषो दुन्दुभ्याघाते
मुरजशब्दोऽयमिति
गृह्णाति।
एवं भगवन्तं जानन् नान्याधीनं जगदिति गृह्णाति।
किन्तु?
भगवदिच्छाधीनमित्येव।
तदेव
दर्शयति-
स यथाऽऽर्द्रैधाग्नेः
स यथा सर्वासामपामित्यादिना।
नह्यग्निरेव धूमः।
नचाप एव समुद्रः।
नह्यपामाप
एवाश्रयः।
किन्तु? वरुणोऽपां खातो वा।
स एव च समुद्र इत्युच्यते।
एवमेव
सैन्धवखिल्यस्य
विलीनस्य समस्ताम्भसश्च वरुणोऽपां खातो वा समुद्राख्य आश्रयः।
वरुणवदपां खातवद् वाऽनन्तोऽपारो भगवान् जीव एव विज्ञानघनाख्यो भूतसम्बन्धाज्जातः संस्तल्लयमनु भगवन्तमाप्नोति।
समुद्रे प्रास्तसैन्धवखिल्यवत्।
समुद्रजलस्थानीया मुक्ता बहव एकस्वभावाः।
बहवो हि जलपरमाणवः।
सामुद्रं जलमेकाश्रयम्।
मुक्तानां सञ्ज्ञाऽप्यन्यैर्न ज्ञायते शास्त्रं विना।
“सञ्ज्ञा नास्ति” इत्युक्त्वा “अलं वा अर इदं विज्ञानाय” इत्युक्तेर्न विजानातीत्युक्ते प्रतिज्ञाविरोधः।
नच सर्वाज्ञानं पुरुषार्थः।
“मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्”भारतम् १२/१३७/८३
इति च।
“नानात्वेनाभिसम्बद्धास्तदा
तत्कालभाविना।
संयोगः प्रकृतेर्नैषां मुक्तानां तत्त्वदर्शनात्।
प्रवर्तति पुनः सर्गे तेषां सा न प्रवर्तते।
आनन्देन विना चैव भोगेन विषयेण च।
सर्वे ते ब्रह्मणस्तुल्या
आधिपत्यं नचैव हि॥”
इति वायुप्रोक्ते।
इवशब्दस्त्वस्वातन्त्र्यार्थे।
नहि तदधीनं पृथगित्येवोच्यते।
तस्मादमुक्तैर्न ज्ञायत इति “सञ्ज्ञा नास्ति” इत्युक्तम्।
“पतिर्जायाप्रियो नैव स्वेच्छया तु भविष्यति।
विष्णोरिच्छावशेनैव
स्वयं च स्वप्रियो भवेत्।
विष्णोरिच्छावशेनैव हन्ति ह्यात्मानमात्मना।
स्वात्मानमप्रियं कृत्वा निरये पातयत्यपि।
प्राधान्येन हरेर्ज्ञानात् सर्वं विदितवद् भवेत्।
ब्रह्मजात्यात्मकं वेत्ति नैव विष्णुवशं हि यः।
ब्रह्माणं तं ततो ब्रह्मा पातयेत् तमसि ध्रुवम्।
एवं क्षत्रात्मको वायुर्वित्तरूपश्च वित्तपः।
पञ्चभूतानि विश्वे च देवा लोकाभिमानिनः।
सर्वाभिमानिनी देवी मूलप्रकृतिरेव च।
सर्वं विष्णौ स्थितं विष्णोर्जातं विष्णोर्वशे सदा।
शङ्खशब्दो यथा शङ्खदेवतावशगः स्थितः।
तस्माद् वेदाः समुत्पन्ना विद्याख्या मूलिका श्रुतिः।
सर्वोपनिषदश्चैव पञ्चरात्राख्यसंहिताः।
ब्रह्मसूत्राणि वेदानां व्याख्यास्तासां च विस्तरः।
सर्वमेतज्जगच्चैव निःसृतं तुरगाननात्।
वरुणस्य वशे यद्वदाप एवं वशे हरेः।
सर्वे बद्धाश्च मुक्ताश्च तारतम्यात्मना स्थिताः।
यदि मुक्तस्य विज्ञानं गन्धादिविषये न चेत्।
तथैव भगवद्रूपे स्वरूपे च परस्परम्।
एवमज्ञानरूपां तां मुक्तिं को नाम वाञ्छति।
तस्माद् विष्णोर्वशे सर्वे यथेष्टमुपभोगिनः।
मुक्ताः सदा तारतम्यात् तिष्ठन्त्याब्रह्मणोऽखिलाः॥”
इति हयग्रीवसंहितायाम्।
“सर्गेसर्गे तु यो नैव शब्दतोऽप्यन्यथा भवेत्।
श्रुत्याख्यः स तु विज्ञेय इतिहासादिरर्थतः।
भगवद्दृष्टमेवान्यैर्ब्रह्माद्यैर्दृश्यते यदि।
ऋषिभेदस्तु तत्र स्याद् वेदो नाविष्णुनिर्गतः।
वेद इत्येव विष्णूक्तस्तपसा दृश्यते परैः॥”
इति च॥
॥ इति मैत्रेयीब्राह्मणम्॥ ४/४॥
मधुब्राह्मणम्
भगवतो रूपंरूपं प्रति जीवाख्यः प्रतिबिम्बो बभूव।
बभूवेति “सदेव सोम्येदमग्र आसीत्” इतिवदनादित्वार्थे।
“सुखदा सर्वभूतानां पृथ्वी मधुवदुच्यते।
पृथिव्याश्चैव भूतानि तथा सर्वाश्च देवताः।
पृथिव्यादिषु देवेषु शरीरादिषु च स्थितः।
एक एव परो
विष्णुर्हयशीर्षस्वरूपधृत्।
अनन्ततेजा नित्यश्च स एव ब्रह्म
सर्वगम्।
तदेव गुणपूर्णत्वाद् ब्रह्म सर्वमनूनतः।
आत्मनामा परो विष्णुः सर्वगो यः प्रकीर्तितः।
स एव हयशीर्षाख्यस्त्वधिदैवादिषु स्थितः।
अराणामाश्रयो यद्वद् बहिरन्तः प्रतिष्ठितौ।
नाभिनेमी तथा विष्णुर्जीवानामाश्रयः स्थितः।
स एव दशधा प्रोक्तो विष्णुर्मत्स्यादिरूपकः।
शतं नारायणाद्यात्मा विश्वाद्यात्मा सहस्रकः।
परादिरूपो बहुधा सोऽनन्तात्माऽजितादिकः।
भूताख्यसर्वजीवानां विरिञ्चानां च सर्वशः।
आत्मनाम्नां स एवैको राजाऽधिपतिरेव च।
स्वामित्वाद् राजशब्दोऽयमाधिक्यात् पालनात् तथा।
अधिपश्चेति
सम्प्रोक्तः
पुरुषः
पुरुषस्थितेः।
पुराख्येष्वेव देहेषु हृत्पुर्यपि वसत्यसौ।
नानेन किञ्चिदव्याप्तं नानेनाच्छादितं नच।
नैवास्मात् पूर्वकं किञ्चिन्नैवास्मादपरं तथा।
सर्वस्माद् बाह्यतश्चासौ सर्वस्मादन्तरस्तथा।
व्याप्तेरात्मेति
सम्प्रोक्तो
ब्रह्मेति गुणपूर्तितः।
स सर्वस्यापरोक्षज्ञ इति वेदानुशासनम्।
विरिञ्चस्त्वात्मशब्दोक्तो मानुषं मनुरुच्यते।
सत्यं च स्तनयित्नुश्च वायो रूपान्तरे स्मृते।
एत एव स्वरे सत्ये जीवे चाध्यात्मसंस्थिताः।
तेषां नियामको विष्णुस्तत्रतत्रैव संस्थितः।
जीवे
स्थितश्चात्मनामा
सौवरः स्वरगः स्मृतः।
सत्यगः
सत्यनामाऽसौ
धर्मगो
धर्म एव च।
मनोः स्वायम्भुवस्याख्या मानुषेत्येव देहिषु।
बहिश्च तद्गतो विष्णुर्मानुषेत्येव
कथ्यते।
प्रातिश्रुत्क इति श्रोत्रे तैजसो विद्युति स्थितः।
इति नानाविधैर्नामसमूहैर्विष्णुरिज्यते।
दध्यङ्ङाथर्वणोऽश्विभ्यामेतां विद्यामदात् पुरा।
हयग्रीवब्रह्मविद्येत्येषा ब्रह्मादिभिर्धृता॥”
इति।
प्रत्यैरयतं प्रतिसमधत्तम्।
ऋतायन् सत्यं कुर्वन्।
कक्ष्यं नारायणकवचम्।
त्वाष्ट्रं त्वष्टुः पुत्रेण विश्वरूपेणेन्द्रायोक्तम्।
सनये लाभाय।
दंसः कर्म।
स्तनयित्नुर्वृष्टिमिव।
तस्यां विद्यायां परस्योक्तायां तव शिरश्छेत्स्यामीतीन्द्रेण दधीचं प्रत्युक्ते सोऽश्विभ्यामावां
ब्रवीहीत्युक्त
इन्द्रेणोक्तमाह।
तदाऽश्विभ्यां पाव इत्युक्त्वा तच्छिरश्छित्वाऽन्यत्र निधायाश्वशिरः सन्धितम्।
तेन विद्यायामुक्तायां तस्मिन्निन्द्रेण छिन्ने पूर्वशिरः सन्धितम्।
पूर्वं जानन्नपीन्द्रः पश्चाद् विश्वरूपाच्छुश्रावेति पुनर्नवत्वायेति न विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामित्यनेन विरोधः॥
॥ इति मधुब्राह्मणम्॥ ४/५॥
वंशब्राह्मणम्
“पाराशर्यो
जातूकर्ण्यः
पराशरसुतावुभौ।
विप्रायामेव भार्यायां तृतीयः कृष्ण एव च॥”
इति ब्रह्माण्डे।
“परस्य ब्रह्मणो विष्णोर्हयशीर्षादधीतवान्।
ब्रह्मविद्यामिमां ब्रह्मा ततः सनक एव च॥”
इति गारुडे।
॥ इति वंशब्राह्मणम्॥ ४/६॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये चतुर्थोध्यायः॥
पञ्चमोऽध्यायः
आश्वलब्राह्मणम्
ॐ॥ “होतर्यग्नौ वाचि चैव यो विष्णुं मुक्तिगं स्मरेत्।
नित्यं स मुच्यते, अध्वर्युसूर्यचक्षुष्षु यः स्मरेत्।
अधिकः प्रकाश एवास्य मुक्तावन्येभ्य इष्यते।
मुक्तेभ्योऽपि, तथोद्गातृवायुप्राणेषु यः स्मरेत्।
पूर्णचन्द्रं सदा पश्येदधिकाह्लादसंयुतः॥ *॥
मनोब्रह्मनिशेशेषु यो विष्णुं सर्वदा स्मरेत्।
अप्रयत्नेन लोकं स विष्णोर्याति न संशयः।
होत्रग्न्यादीनि नामानि विष्णोः सर्वाणि मुख्यतः।
तत्सम्बन्धात् तदन्येषां स वै होत्रादिकर्मकृत्।
तस्माद्धोत्रग्निवागादेरैक्यं श्रुतिषु चोच्यते।
होत्रादिष्वेव चतुर्षु
वासुदेवादिरूपधृत्।
व्यवस्थितो हि तज्ज्ञानादचिरान्मुक्तिमेष्यति।
मुक्तिनामा स भगवान् मोक्षदत्वात् प्रकीर्तितः।
मनुष्येभ्योऽधिकसुखं देवेभ्यो यत् प्रयच्छति।
मुक्तावप्यतिमोक्षः स तेन देवः प्रकीर्तितः।
एता ह्युपासना नित्यं नैव योग्या नृणां श्रुताः।
अतिमुक्तिप्रदा यस्माद् देवाद्यास्तासु योगिनः॥ *॥
याज्याशस्यापुरोवाक्यासंस्थितं
यो हरिं स्मरेत्।
सर्वप्राणभृतामीशः स भवेन्नात्र संशयः॥ *॥
उज्ज्वलच्छब्दवद्द्राविष्वेकमेव हरिं स्मरेत्।
सर्वलोकाधिपत्यं स लभते पुरुषोत्तमात्॥ *॥
मनसो देवता ब्रह्मा सर्वदेवेषु संस्थितः।
देवब्रह्ममनस्स्वेकं यो विष्णुं सर्वदा स्मरेत्।
अनन्तनामकं तेन तल्लोकं नित्यमश्नुते।
निश्चयेन
विमोक्षत्वाद्
विश्वे देवा अनन्तकाः।
अनन्तनामकं विष्णुमुपास्यापि ह्यनन्तकाः॥ *॥
पुरोवाक्यादिषु प्राणादिषूपासां करोति यः।
एकमेव हरिं
लोकव्याप्तमेव
लभेदसौ।
अत्रापि वासुदेवाद्याश्चत्वारो देवताः स्मृताः॥ *॥
देवानां पदहेतुत्वात् सम्पन्नाम्न्य उपासनाः।
मुक्तौ भोगविशेषस्य हेतुत्वाच्च प्रकीर्तिताः।
एताश्च देवतायोग्या न मनुष्येषु कुत्रचित्।
मनुष्याणां ज्ञानमात्राद् गुणाधिक्यं भविष्यति॥”
इति परमश्रुतौ।
॥ इति आश्वलब्राह्मणम्॥ ५/१॥
आर्तभागब्राह्मणम्
आकाशं परमात्मानमेव॥ *॥
“केचित् तु मानुषा मुक्तिमनुक्रम्यैव देहतः।
देहपाते तु देहस्य दोषान् भुक्त्वैव सर्वशः।
मरणोच्छूनतादींस्तु स्वकीयारब्धकर्मजान्।
देहे क्षीणे तु गच्छन्ति दृष्ट्वा विष्णुमनुज्ञया।
पुनरत्रैव तिष्ठन्ति नित्यानन्दैकभोगिनः।
देहादुत्क्रम्य देवास्तु यान्ति विष्णुं सनातनम्।
देहादुत्क्रम्य यातानां देवा भागत एव तु।
स्वाधिदैवं व्रजन्त्यद्धा भागतोऽनुव्रजन्ति तान्।
आकाशाख्यं स्वरूपं तु विष्णुस्तद्धृदि संस्थितः।
भागतो
भागतश्चैताननुयाति
जनार्दनः।
ज्ञानस्थितेन रूपेण देवानां मुक्तिदो हरिः।
पुण्यस्थितेन रूपेण स्वर्गं निरयमन्यगः।
रहस्यमेतद् देवानां विदुः कर्मेति मानुषाः।
तस्मान्नैतज्जनेष्वेतद्
विष्णोः कर्म प्रकाशयेत्॥”
इति च।
अत एव याज्ञवल्क्यो न जनेषूवाच।
“कर्मनामा तु भगवान् फलकर्तृत्वतो हरिः।
पातनात् पापनामाऽसौ पुनातेः पुण्यनामवान्॥”
इति भारते।
॥ इत्यार्तभागब्राह्मणम्॥ ५/२॥
भुज्युब्राह्मणम्
पारीक्षिताः
प्रद्युम्नाः।
अश्वमेधयाजिन इन्द्राः।
“प्रद्युम्नः कामनामाऽसौ पारीक्षित इतीरितः।
सर्वेक्षणात् परो विष्णुः परीक्षिदिति कीर्तितः।
तत्पुत्रत्वात् कामदेवः पारीक्षित इति स्मृतः।
शताश्वमेधयाजित्वादिन्द्रा एवाश्वमेधिनः।
अतीतानागतानां च कामानां वज्रिणामपि।
एकमेव हि मुक्तानां स्थानं वेदोदितं सदा।
इन्द्रनामा तु गरुडः सामर्थ्यादेव कथ्यते।
तस्य रूपद्वयं नित्यं सौपर्णं पौरुषं तथा।
तत्र पौरुषरूपी सन् भूत्वा सौपर्णरूपवान्।
कामदेवानुपादाय मुक्तौ वायोः प्रयच्छति।
वायुस्तान् स्वशरीरस्थान् कृत्वेन्द्रा यत्र मुक्तिगाः।
प्रद्युम्ननामके विष्णावेवं वायुर्हि मोक्षदः।
तस्मात् सर्वोत्तमो वायुर्विविधं तु यदष्टकम्।
देवानृषीन् पितॄन् यक्षान् गन्धर्वान् मानुषोरगान्।
असुरांश्च वशे नित्यं नयत्यमितपौरुषः।
सम्पूर्णांश्च सुपर्णेशशेषेन्द्रांस्तत्स्त्रियोऽपिच।
अष्टौ नयत्युन्नयति वशीकृत्य स्वयं प्रभुः।
अतो व्यष्टिः समष्टिश्च वायुरेवाभिधीयते।
एवं व्यष्टिं समष्टिं च यो वायुं वेद तत्त्वतः।
तत्परं च हरिं नित्यं मुच्यते संसृतेः पुमान्॥”
इति परमसंहितायाम्।
“चरकस्तीर्थसञ्चारी वित्तार्थी करकः स्मृतः”
इत्यभिधानम्।
“अहर्मुहूर्तं विज्ञेयमहर्मासोऽपि भण्यते।
अहर्दिनं प्रकाशश्च क्वचिज्ज्ञानं बलं तथा॥”
इति च।
“मुहूर्तमष्टभागोनघटिकाद्वयमिष्यते।
क्वचिद् विघटिकाऽपि स्यात् क्वचित् स्यात् तावदुत्तरः॥”
इति कालनिर्णये।
“द्वात्रिंशत् तु मुहूर्तानां दिनमेकं विदुर्बुधाः।
त्रिंशन्मुहूर्तमथवा मुहूर्तोन्मानभेदतः॥”
इति च।
“सप्तकोटिं च लक्षाणां चतुर्दश च नित्यशः।
अष्टाविंशत्सहस्रं च सप्तांशशतपञ्चकम्।
सौरो रथस्त्वहोरात्रात् परियाति दिवि स्थितः।
तत्त्रिभागाधिकं चक्रं मानसोत्तरगं चरेत्।
नृणां कार्तयुगानां तु योजना मानतो भवेत्।
यावत् सूर्यरथो याति दिवारात्रेण पार्श्वयोः।
सूर्यस्य तावदेव स्यात् प्रकाशः सर्वतस्तथा।
तमोऽन्धं द्विगुणं तस्मात् काठिन्यात् पृथ्विनामकम्।
ततो मण्डोदकं चापि द्विगुणं परिकीर्तितम्।
पञ्चाशत्कोटिविस्तारमेवमण्डान्तमुच्यते।
ततस्त्वण्डं च सौवर्णं तद्भिन्नं हरिणा पुरा।
सुषिरं सर्वतो दिक्षु क्षुरधारासमं ततः।
सुपर्णो वायवे तेन मुक्तान् कामान् प्रयच्छति॥”
इति तत्त्वसंहितायाम्॥
॥ इति भुज्युब्राह्मणम्॥ ५/३॥
उषस्तब्राह्मणम्
यत्साक्षादपरोक्षात्।
साक्षादेवापरोक्षमत्ति अनुभवति
स्वरूपमन्यच्च सर्वं पश्यतीति साक्षादपरोक्षात्।
आपरोक्ष्येण पश्यतामप्यन्येषां भगवत्प्रसादादेव दर्शनं भवति।
न भगवतोऽन्यापेक्षयेति “साक्षात्” इति विशेषणम्।
अनन्यापेक्षस्याप्यपूर्णत्वं भवतीत्यतो “ब्रह्म” इति।
अन्येषां नियन्तृत्वं चास्तीत्यत “आत्मा”।
अन्यनियन्तृत्वेऽप्यन्यापेक्षा नास्तीत्यतः “सर्वान्तरः”।
सर्वं सामार्थ्यं स्वान्तरेवास्तीति।
जीवेश्वराभेदनिवृत्त्यर्थं त आत्मेति।
साक्षादपरोक्षत्वादिगुणैरेव
भेदे सिद्धेऽपि
परमार्थतोऽपि जीवेश्वराभेदनिवृत्त्यर्थं
त आत्मेति।
तत्र प्रधानतात्पर्यज्ञापनार्थं पुनःपुनरभ्यासः।
देवतान्तरस्यापीदं लक्षणं समानमिति पृच्छति यथा विब्रूयादित्यादिना।
चतुष्पात्वादिलक्षणं गोरश्वस्यापि यथा समम्,
एवमेव
साक्षादपरोक्षत्वादिलक्षणं तत्तद्देवतावादिभिस्तस्यास्तस्या अङ्गीक्रियत एव।
अतो विशेषनाम वक्ति-
अत इति।
अतोऽन्यद् विष्णोरन्यदार्तम्।
अ इति विष्णोर्हि नाम।
“न ते विष्णो”ऋग्वेदसंहिता ७/९९/२
“परो मात्रया”ऋग्वेदसंहिता ७/९९/१
इत्यादि श्रुतिप्रसिद्धं विष्णोर्लक्षणम्।
न दृष्टेर्द्रष्टारमित्यादिना वक्ति।
“विनैवान्यप्रसादेन पूर्णसर्वगुणात्मकम्।
पश्यन्ननुभवत्येव
स्वरूपं
केशवः प्रभुः।
पश्यत्यव्यवधानेन सर्वं चान्यज्जडाजडम्।
साक्षादेवापरोक्षात् स विष्णुरेव ततः स्मृतः।
साक्षाच्छब्दः स्वतन्त्रत्वमपरोक्षस्त्वनावृतिम्।
अदनं भोग उद्दिष्टस्तस्माद् विष्णुस्तथा स्मृतः।
ब्रह्मासौ गुणपूर्णत्वादात्मा सर्वनियन्तृतः।
अनियम्यत्वतो नित्यं सर्वैः सर्वान्तरः स्मृतः।
प्राणादिपञ्चरूपो यो वायुः सर्वनियामकः।
नियन्ता परमो विष्णुर्वायोस्तस्यापि सर्वदा।
न दृश्यश्चक्षुषा चासौ न मनोबुद्धिगोचरः।
अनन्तत्वान्महाविष्णुरवाच्योऽश्राव्य एव च।
यद्यप्येते गुणाः सर्वे विष्णोरेव नचान्यगाः।
तथाऽप्येतैर्गुणैर्युक्तानज्ञाः प्राहुः शिवादिकान्।
अनाम्नैव ततो विष्णुमाहुर्वेदा अदोषतः।
अदोषत्वाद् गुणोद्रेकाद इत्युक्तो हरिः स्वयम्।
अगम्यत्वाच्च बुद्ध्यादेरतोऽन्ये सर्व एव तु।
ब्रह्मरुद्रादयो जीवा दुःखिनस्तत्प्रसादतः।
दुःखमुक्ता निजानन्दं प्राप्नुयुर्नित्यमञ्जसा।
मुक्तानामपि सर्वेषां विष्णुरेव नियामकः।
पूर्णानन्दस्य तस्यैव मुक्ता विप्लुट्सुखात्मकाः।
तारतम्येन तिष्ठन्ति ब्रह्मा तेष्वधिकः सदा।
यथा चन्द्रात् सदा भिन्नाः सर्वे तुहिनबिन्दवः।
एवं विष्णोः सदा भिन्ना मुक्ता ब्रह्मादिका गणाः।
एवं नियन्ता भगवान् पूर्णसर्वगुणार्णवः।
एक एव परो विष्णुरनियम्यः सदेदितः॥”
इत्यादि बृहच्छ्रुतिः।
“आर्तिर्दुःखं समुद्दिष्टमनार्तो
विष्णुरुच्यते”
इति च।
“अतोऽन्यदार्तम्” इत्येतस्माच्च जीवानां भेदः प्रसिद्धः।
नहि जीवादन्यस्यार्तिर्युज्यते।
अतो जीवेभ्योऽन्यश्च विष्णुरेव।
तदन्ये ब्रह्मरुद्रादयः सर्वे जीवा एवेति सिद्धम्।
“प्रकृतिस्त्वतिसामीप्यादनार्ताऽपि पृथङ् नतु।
उच्यते न स्त्रियो यद्वत् त्रयस्त्रिंशत्सु भेदिताः॥”
इति च॥
॥ इत्युषस्तब्राह्मणम्॥ ५/४॥
कहोळब्राह्मणम्
यदेव साक्षादिति पुनः प्रश्नो मुक्तानामपि भगवतो भेदोऽस्तीति ज्ञापयितुम्।
यदेव ब्रह्म तदन्ये
ब्रह्मादयो
मुक्ता अपि यन्नैव भवन्ति कदाचन,
तमेव मे व्याचक्ष्व मुक्तजीववैलक्षण्येन सहेति द्वितीय एवशब्दार्थः।
स तु भगवान् स्वत एवातीताशनायादिरतीतानागतवर्तमानकालेषु।
ब्रह्मादयस्तु तं विदित्वा तत्प्रसादादेव पश्चादत्येष्यन्ति।
“एतं वै तम्” इत्येतादृशैर्गुणैः साक्षादपरोक्षत्वजीवभेदादिभिर्युक्तमित्यर्थः।
“भिक्षाचर्यं चरन्ति” मुक्ता अपि ब्रह्मादयस्तस्मादेव परमेश्वराद् विप्लुडानन्दमेव भिक्षन्तो वर्तन्ते।
ब्रह्माणनान्मुक्ता एव ब्राह्मणशब्देनोच्यन्ते।
नहि ज्ञानादनन्तरं सन्यासस्य कर्तव्यता।
येषां
तद्योग्यता तेषामपि ज्ञानार्थत्वेनैव सन्न्यासः।
मुक्ता अपि यं भिक्षन्ते
सोऽतिपूर्णमहानन्दो
भगवान् स्वत एव।
तदन्ये ब्रह्मादयो मुक्ता अपि तत एव विप्लुडानन्दभिक्षुका इति विशेषः।
तथाऽपि तेषामेषणातीत्वान्न दुःखम्।
पुत्रस्य वित्तस्य च लोकार्थत्वाल्लोकैषणायामन्तर्भावः।
वित्तस्यापि प्रायः पुत्रार्थत्वात् पुत्रैषणायाम्।
लोकैषणाया अपि दुःखरूपत्वात् साऽपि तेषां नास्त्येवेति दर्शयितुमुभे ह्येते एषणे एव भवत इत्याह।
उभे अपि दृष्टादृष्टविषये एषणात्वाद् दुःखरूपे एवेत्यर्थः।
पुत्रवित्तैषणे उभे अपि दृष्टविषयत्वादेकैवेत्युभे एवेत्युक्तम्।
द्वितीयो ब्राह्मणो ब्रह्माणितुं योग्यः।
पाण्डित्यमागमजज्ञानम्।
बाल्यं युक्तिसहितम्।
बलयुक्तत्वात्।
मौनमुपासनाजम्।
अमौनमपरोक्षज्ञानम्।
निर्विद्य नितरां प्राप्य लब्ध्वा।
“विदॢ लाभे”
इति धातोः।
अथ ब्राह्मणो मुक्तो
भवतीत्यर्थः।
स मुक्तो येनकेनापि वर्तयन्नीदृश एव भिक्षुक एव।
न कदाचित् स्वतन्त्रो भवति।
“एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति”
इति च वक्ष्यति।
मुक्तविषयं चैतत्।
अत्र “पिताऽपिता भवति” इत्यादितत्प्रस्तावे,
“स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि”🔗ब्रह्मसूत्रम् ४/४/१६
इति भगवद्वचनम्।
तत्रैव मुक्तानामानन्दतारतम्यं चोक्तम्।
“स यो मनुष्याणां राद्धः समृद्धो भवति”
इत्यादिना।
श्रोत्रियत्वावृजिनत्वाकामहतत्वानां मुक्तेष्वेव मुख्यत्वात्।
“यश्च श्रोत्रियः” इति ह्यभ्यासः।
नह्यमुक्ता अवृजिना अकामहता वा।
नच श्रुतिफलं सम्यक् प्राप्ताः।
श्रुतिफलप्राप्तिर्हि श्रोत्रियत्वम्।
“सर्वे विमोहितधियस्तव माययेमे ब्रह्मादयस्तनुभृतो बहिरर्थभावाः”भागवतम् ११/७/१७
इति भागवते।
शरीरसम्बन्धिनां मोहादियुतत्वम्।
मोहदियुतानां न श्रोत्रियत्वमदुःखत्वमकामहतत्वं वा।
“वृजिनं व्रजनं
दुःखं क्लेशो बाधेति चोच्यते”
इत्यभिधानम्।
नच देवादिपदाकामानामिन्द्रादिपदाकामानां च कश्चिद् विशेषो दृश्यते।
अतो मुक्तविषयमेवैतत्।
“परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति”ऋग्वेदसंहिता ७/९९/२
“ब्रह्मेशानादिभिर्देवैर्यत् प्राप्तुं नैव शक्यते।
तद् यत्स्वभावः कैवल्यं स भवान् केवलो हरे॥”
“मुक्तानां परमा गतिः”भारतम् १३/१४९/१७
“कृष्णो मुक्तैरिज्यते वीतमोहैः”
इत्यादिवचनैश्च भगवदनुग्राह्यत्वं तदानन्दानवाप्तिश्च मुक्तानां दृश्यते।
“बह्वभ्यासात् त आत्मेति मुक्तौ जीवेशयोर्भिदा।
प्रधानतत्परत्वेन दृश्यतेऽत्यादरात् सदा।
महातात्पर्ययोगाच्च स एवार्थोऽवगम्यते।
तात्पर्यं परमं विष्णोरत्युद्रेके विशेषतः।
सर्वश्रुतिस्मृतीनां च दृश्यतेऽन्यत् तदर्थतः।
स च जीवेशयोर्भेदे सर्वोद्रेको हि युज्यते।
बह्वभ्यासस्त आत्मेति श्रुतावादरतस्ततः।
ममात्मेति वचो यत्र
विष्णोरपिच
दृश्यते।
देहस्यापि स्वरूपत्वज्ञापनं तत्प्रयोजनम्।
नह्यप्रयोजकं वेदपदं वर्णोऽथवा स्वरः।
देहस्वरूपता विष्णोर्न ममेति पदं विना।
सम्यज्ज्ञापयितुं शक्या ततस्तत्पदमिष्यते।
ततस्त आत्मेति वचो भेदाभावे न युज्यते।
भिक्षया भक्षणं तस्मादानन्दस्य ततोऽवदत्।
मुक्तानामेकदेशत्वं ब्रह्मानन्दव्यपेक्षया।
विप्लुट्त्वं प्रतिबिम्बत्वं श्रुतिषूक्तं हि सर्वशः।
तथाऽपि पूर्णानन्दत्वममुक्तानां व्यपेक्षया।
ब्रह्मादेस्तारतम्यं च मुक्तावेव सदातनम्।
दृष्टादृष्टैषणानाशान्निर्दुःखत्वं च सर्वदा।
परब्रह्मत्ववचनं मुक्तानां यत्र दृश्यते।
जीवेषु ब्रह्मशब्दोक्तेः
परत्वं तु
विमुक्तितः।
तत्परब्रह्मता तेषां बद्धजीवोच्चता मता।
ततो ब्रह्माणने योग्यः पाण्डित्यं प्राप्नयात् परम्।
पाण्डित्यमागमज्ञत्वं बाल्यं युक्तिसहायता।
मौनं तूपासनासिद्धिरमौनं भगवद्दृशिः।
एतान्याप्य भवेन्मुक्तिर्मुक्तो वै भिक्षुको भवेत्।
नह्यन्यभिक्षितं विष्णुर्दद्यान्नियमतः क्वचित्।
मुक्तस्य भिक्षितं सर्वं दद्यान्नियमतो हरिः।
अयोग्यभिक्षणं तेषां न कदाचित् तु युज्यते।
येनकेनापि नैतेषां भिक्षावृत्तिर्विनश्यति।
प्रथमो ब्राह्मणो मुक्तो द्वितीयो योग्य उच्यते।
अपरोक्षविन्मुक्तयोस्तु तार्तीयेनोभयोर्ग्रहः।
अतो मुक्ता अमुक्ताश्च न स्वतन्त्राः कदाचन।
स्वतन्त्रस्तु स एवैको भगवान् पुरुषोत्तमः॥”
इत्यादि ब्रह्मतर्के।
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः॥”🔗भगवद्गीता १५/१६-१७
इत्यादिना च भेेदेन महोत्कर्षे परमतात्पर्यं सर्वशास्त्राणामाह।
॥ इति कहोलब्राह्मणम्॥ ५/५॥
गार्गिब्राह्मणम्
मुक्तानां
तारतम्यं हि
गार्गिब्राह्मणेनोच्यते।
लोका इति मुक्तानामानन्दानुभवाः स्वरूपभूताः।
“अप्सु” “वायौ” इति स्वरूपस्यैव प्रस्तुतत्वात्।
“अनतिप्रश्न्यां वै देवतामतिपृच्छसि”
इति देवतास्वरूपप्रश्नस्यैवावगम्यमानत्वाच्च।
नचोपरितनलोकेष्वधस्तनलोका
आश्रिताः।
नच वायुर्गन्धर्वलोकाश्रितः।
वाय्वाश्रयत्वश्रुतेः सर्वलोकानाम्।
“वायुना हि सर्वे लोका नेनीयन्ते”
इत्यादिना।
“सप्तस्कन्धगतो लोकान् यो बिभर्ति महाबलः”हरिवंशेषु २०/२७
इति हरिवंशेषु।
नचानतिप्रश्नत्वं
लोकमात्रस्यास्ति।
अधस्तनेषु चोपरितना लोकास्तिष्ठन्ति।
नच मरुतामेकोऽपि गन्धर्वलोकादवरो विद्यते।
उक्तं च-
“आ पिबन्त्यखिलान् भोगानित्यापश्चक्रवर्तिनः।
मुक्तास्तेषां वायुसुतश्चक्रो नाम व्यपाश्रयः।
मुक्तस्तस्य च मुक्तस्तु मरुद् गन्धर्वनामवान्।
सुतो वायोस्तत्सुखानां
मौक्तानामन्तरिक्षगः।
मरुतामेक
एवासावन्तरिक्षस्तु
वायुजः।
तत्सुखानां तु
मौक्तानामानन्दाः सूर्यरूपकाः।
सौराणां चापि
मौक्तानामानन्दाश्चन्द्ररूपकाः।
आह्लादनाच्चन्द्रनामा देवोऽसावनिरुद्धकः।
स एव चन्द्रमाविश्य स्थितस्तन्नामकोऽपि सः।
अनिरुद्धसुखानां च मौक्तानामिन्द्र आश्रयः।
नक्षत्रनामवानिन्द्रो नैवान्यः क्षत्रियोऽस्य हि।
विद्यते त्रिषु लोकेषु ब्रह्माद्यास्तूर्ध्वलोकगाः।
आनन्दानां तथेन्द्राणां मौक्तानां देव आश्रयः।
देवेति लिङ्गनाम स्याल्लिङ्गात्मा रुद्र उच्यते।
इन्द्राश्रयो शिवस्यापि सुखानां मुक्तिगामिनाम्।
शिवो हीश्वरनामा स्यात् तत्पारम्यात् सरस्वती।
इन्द्रेत्युक्ता तत्सुखानां ब्रह्माधिर्मुक्तिगामिनाम्।
तत्सुखानां परं ब्रह्म मुक्तिगानां पराश्रयः।
एवमेव च संसारे बिम्बत्वादुत्तरोत्तरम्।
न परब्रह्मणः कश्चिदाश्रयः स्वाश्रयं यतः।
तस्याश्रयोऽस्ति वेत्येवं पृच्छतोऽपि शिरः सदा।
भिद्यते पर्वतैरन्धे तमसिस्थस्य दैवतैः।
तस्माद् ब्रह्म परं नित्यं ज्ञेयं पूर्णमनाश्रयम्॥”
इति ब्रह्माण्डे।
“रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः।
ब्रह्मा मामाश्रितो नित्यं नाहं
कञ्चिदुपाश्रितः॥”भारतम् १४/११८/३७
इति भारते।
“अथात आनन्दस्य मीमांसा भवति”
इत्यादेश्च।
संसाराल्लुप्तानां मुक्तानां कानि सुखानि लोकाः।
रोचमानानि कानि लोकाः।
“लीनं सुखं क इत्युक्तं
कं नाम क्षीयतेऽत्र यत्”
॥ इति गार्गिब्राह्मणम्॥ 5-6॥
अन्तर्यामिब्राह्मणम्
॥ इति सप्तममन्तर्यामिब्राह्मणम्॥
पुनस्तस्यैव सर्वनियन्तृत्वमुच्यते।
“योऽन्तरो यमयति”
इति द्वितीयो यशब्दो
विष्णुशब्दपर्यायः।
“अकयप्रविसम्भूमसखहा विष्णुवाचकाः।
एकाक्षरा अ इत्येष निर्दोषत्वाज्जनार्दनः।
आनन्दत्वात् क इत्युक्तः पूर्णत्वाद् य इतीर्यते॥”
इत्यादि शब्दनिर्णये।
इति स्वप्रतिज्ञातप्रकारेण।
“ब्रह्मवित् पूर्णविज्ञानाल्लोकानां कर्तृवेदनात्।
लोकविद् देवविच्चासौ देवानां
देववेदनात्।
वेदार्थवेदनाच्चैव वेदविद् भूतवित् तथा।
तन्नियन्तृपरिज्ञानादात्मविच्चाप्तवेदनात्।
सर्ववित् सर्वसारज्ञो यो वेद पुरुषोत्तमम्।
देशाधिष्ठातृविज्ञानाद् देशज्ञ इति चोच्यते।
यथा तद्वद्धरेर्ज्ञानात् सर्वज्ञ इति वैदिकम्॥”
इति ब्रह्मतर्के।
“स्यूतं जगदिदं यस्मिन् सूत्रं वायुरसौ स्मृतः।
तं चापि यमयेद् यस्मादन्तर्यामी हरिः स्मृतः।
पृथिव्याद्या देवतास्तु देहवद् यद्वशत्वतः।
शरीरमिति चोच्यन्ते यस्य विष्णोर्महात्मनः।
अन्तस्थो देवतानां च न विदुर्यं च देवताः।
प्रविष्टत्वाद् देवतास्थः सोऽन्तरः स्ववशत्वतः।
बाह्यापेक्षां विना यस्तु रमते सोऽन्तरः स्मृतः।
अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृतम्।
जीवानां स्वप्रियत्वं च विष्णुना नियतं यतः।
तस्य प्रियत्वं नान्येन देवस्य नियतं क्वचित्।
स्वतन्त्रः सन्
नियन्ताऽसावन्तर्यामी ततः स्मृतः।
देवतानां स्वभावोऽपि स्वरूपमपि सर्वदा।
तदधीनं
यतो
यामी वासुदेवः प्रकीर्तितः।
स्वभावसत्तादातृत्वं यन्तृत्वमिति कथ्यते॥”
इति ब्रह्मतर्के।
“अधिभूतं सर्वजीवा अध्यात्मं तच्छरीरगाः।
देवतास्ताः स्वलोकस्था अधिदैवाभिधा मताः।
लोकाभिमानिन्यस्ता एवाधिलोका इतीरिताः।
यज्ञाभिमानिनो देवा अधियज्ञा इति स्मृताः॥”
इति च।
भवनाधिकारे स्थितत्वादधिभूतम्।
“पृथुं नारायणं वाति समादायैव पक्षिराट्।
अतः स पृथिवीत्युक्तस्त्वन्तरिक्षं हरः स्मृतः।
स्वान्तर्गतं यतः सर्वमिच्छया क्षपयेदसौ।
द्यौर्नाम देवी विद्युत् स्यात् साक्षादेव सरस्वती।
द्योतनात् सर्ववस्तूनां तमो दुर्गा प्रकीर्तिता।
यतः सङ्ग्लपयेत् सर्वांस्तेजः श्रीः परिकीर्तिता।
आकाशो विघ्न उद्दिष्टः काशते हि पृथूदरः।
आपो वरुण उद्दिष्टो यदेतत् पालयत्यसौ।
आत्मा विज्ञानमिति तु सर्वजीवाभिमानवान्।
ब्रह्मैवोक्तस्त्विमे सर्वेऽप्यनुक्ता याश्च देवताः।
ये च जीवाः परे सर्वे नियता विष्णुनैव हि।
जीवानां नियमेऽजीवं किमु वाच्यमिति श्रुतिः।
पृथक् तन्नियमं नैषा वक्ति सिद्धत्वतः स्वतः।
स एव
सर्ववेत्ता हि परमात् परमो हरिः।
नान्यो वेत्ता स्वतन्त्रोऽस्ति जीवाः सर्वे हि दुःखिनः।
यदि स्वतन्त्रा नैवैते दुःखिनः स्युः कदाचन।
अत आर्तिमतामार्तिदाता मुक्तिप्रदश्च सः।
भगवान् परमो विष्णुः स्वतन्त्रः सर्वदैकराट्॥”
इत्यादि महामीमांसायाम्।
॥ इत्यन्तर्यामिब्राह्मणम्॥ ५/७॥
अक्षरब्राह्मणम्
पूर्वं गार्ग्या जीवानामुत्तरोत्तराश्रयत्वं सर्वेषां भगवदाश्रयत्वं च श्रुतम्।
नतु मूलप्रकृतेराधारत्वमाधेयत्वं वा।
अतः पुनः पृच्छति।
विजिगीषुकथात्वाद् ब्राह्मणानुज्ञया।
स्वभर्तुर्विद्याबलं
जानन्त्यपि युष्माकमयं जेतुं न शक्य
इति ज्ञापयित्वा तेषामुपकारार्थं च पप्रच्छ।
नच युक्त्या पूर्वमुपरता।
भार्यात्वाद् भगवतोऽन्याधारत्वं नाशङ्क्यमित्युक्ते भीत्यैवोपरता।
भगवतोऽन्याधारत्वं च सर्वाधारमूलप्रकृतेरपि भगवानेवाधार
इत्युक्तयुक्तित
एव निवारितं भवति।
“नान्यदतोऽस्ति द्रष्टृ” इत्यादियुक्तिभिश्च।
अस्थूलत्वादियुक्तिभिश्च।
“वादो जल्पो वितण्डेति त्रिविधा विदुषां कथा।
केवलं तत्त्वविज्ञानमुद्दिश्य गुरुशिष्ययोः।
अन्ययोर्वा बहूनां वा निर्दुष्टमनसां कथा।
वाद इत्युच्यते सद्भिर्जयस्तत्रार्थिको भवेत्।
विजये शिष्यताऽन्येषां पूजा च जयिनः सदा।
पुनश्च संशयो यत् स्यात् तेषां तस्यापि वारणम्।
कर्तव्यं जयिना नित्यमशक्तस्य स्वतोऽधिकात्।
अन्योन्यनिर्णयश्चेत् स्यात् तदा सब्रह्मचारिणः।
पृष्टेन प्रथमं मानं वक्तव्यं वादिना शुभम्।
वेदाः सर्वे शुभं मानं सेतिहासपुराणकाः।
सपञ्चरात्रमीमांसाः स्मृतयश्चाप्यनन्तरम्।
तदन्यदशुभं प्रोक्तं न प्रयोज्यं कथासु च।
मिश्रमक्षानुमाने तु ग्राह्ये शब्दार्थनिर्णये।
अदुष्टमिन्द्रियं त्वक्षमुपपत्तिस्तथाऽनुमा।
अनुमैव त्वभावाख्यो ह्यर्थापत्त्युपमे तथा।
उपपत्तिभेदा यत् तेऽपि वाक्यमेवागमः शुभम्।
तत्त्वनिर्णयवैलोम्यं संवादो वा विरोधिते।
पराजय इति प्रोक्तः समः सर्वकथासु च।
तत्त्वनिर्णयवैलोम्ये
दण्ड्यो
वादकथास्वपि।
गुरुणैव त्ववश्यानां राजा दण्डं प्रयोजयेत्।
गुरुदण्डस्तु वाचा स्याद् राजदण्डोऽर्थदेहतः।
गुरुदण्डोऽप्यर्थतः स्यात् संवादे
व्रततोऽपिच।
राजदण्डो बलाच्च स्याद् दोषस्य गुरुलाघवात्।
संवादे दण्ड्यता नास्ति जल्पादौ च कथञ्चन।
तत्त्वविप्लवकर्तारं संसत्सु च पराजितम्।
छित्वा जिह्वां च काकाङ्कं राजा राज्याद् विवासयेत्।
अन्यसाम्यमभेदो वा नीचता वा कुतश्चन।
विष्णोः श्रीपूर्वकाणां च व्यत्यासो गुणदोषतः।
तद्भक्तेरन्यधर्मत्वं पञ्चैते तत्त्वविप्लवाः।
तत्त्वविप्लावकं शूद्रं वैश्यं क्षत्रियमेव वा।
हन्यादेवाविचारेण विप्रजिह्वां तथोद्धरेत्।
स्वसिद्धान्ते प्रमाणं च परसिद्धान्तदूषणम्।
वक्तव्यमुभयं वादे जल्पे चेति सतां मतम्।
अवाक्यदूषणं तर्कादागमादेव साधनम्।
वाक्यतात्पर्यविज्ञप्त्यै मानमन्यन्नचान्यथा।
सतोरेव यदा स्पर्धा गुणतोऽर्थार्थमेव वा।
तदा जल्पः समुद्दिष्टस्तत्र विद्यां परीक्षयेत्।
विद्यापरीक्षापूर्वा हि सत्कथा जल्प उच्यते।
सर्वज्ञा वैष्णवाः पञ्च सप्त वोभयसम्मताः।
अधिका वा यथालब्धाः प्राश्निकास्तु परीक्षकाः।
उभयोः प्रश्नकर्तृत्वात् प्राश्निका इति कीर्तिताः।
तदभावे गुणोद्रेकं दर्शयेतां पृथग्जने।
विद्यासाम्ये कथा कार्या ह्यन्यथैकपराजयः।
विद्योनो दण्ड्य एव स्याद् यदि नोच्चस्य शिष्यताम्।
व्रजेत् पश्चाद् यथावाद
एवं
जल्पः प्रकीर्तितः।
अर्थनिर्णयहेतुत्वाद् वादे प्रश्नो जयेऽपितु।
न जल्पे तु पुनः प्रश्नः सभ्यानुज्ञां विना भवेत्।
स्पर्धा सतां वितण्डा स्यात् तत्त्वविप्लावकैर्यदा।
मूलपक्षग्रहापेता वितण्डा कविभिर्मता।
सतामेव वितण्डा स्यादसतां जल्प एव तु।
एवं
जल्पो वितण्डेति
ह्युभयोः सहिता कथा।
अप्रकाश्यः स्वपक्षो हि पाषण्डानां यतस्ततः।
अग्रहेणैव
पक्षस्य तर्कागमबलेन तु।
दूषयेदेव पाषण्डांस्तत्त्वविप्लावकान् सदा।
तत्पक्षाणां निषेध्यत्वात् तेषां पक्षग्रहो भवेत्।
विष्णुभक्त्यन्यधर्माख्यस्तत्त्वविप्लव एव तु।
बौद्धादीनां यतः सर्वे
तत्त्वविप्लावकास्तथा।
सर्वनास्तिकवादी वा स्वमनीषामतोऽपिवा।
तस्यापि पक्षं
संश्रित्य
दूषयेद् वाक्ययुक्तितः।
यस्य नैवागमो मानं तं ब्रूयादागमाश्रयः।
धर्मार्थोऽथ वृथैवायं तव पक्षस्य सङ्ग्रहः।
धर्मार्थश्चेन्न धर्मो हि शक्यो द्रष्टुं विनाऽऽगमात्।
यथाऽनुमीयते हिंसा पापहेतुस्तथैव हि।
धर्महेतुत्वमप्यस्या अनुमातुं सुशक्यते।
वृथा पक्षं वृथा हन्याद् यदि कश्चित् किमुत्तरम्।
इत्यशक्तौ सतां सर्वे सम्भूयापि निवारणम्।
कुर्युरेवासतां सन्तस्तत्त्वविप्लाविनां जये।
येषां विष्णोः समं किञ्चिदधिकं वा नतु क्वचित्।
क्षरक्षराभ्यां भिन्नं च विष्णुं पश्यन्ति ये सदा।
तारतम्यविदः सर्वजीवानां प्रकृतेरपि।
भगवद्धर्मिणो नित्यं ते सन्तः परिकीर्तिताः।
पराजितेष्वसत्सूक्तं राजा दण्डं प्रपातयेत्।
जितेषु सत्स्वसद्भिस्तु राजोदासीनतां व्रजेत्।
यावदेषां विजेता स्यादथ दण्डं निपातयेत्॥”
इत्यादि ब्रह्मतर्के।
“बाणस्त्वयोमयः प्रोक्तः शरो
नालोऽस्य
कीर्तितः”
इत्यभिधानम्।
“कर्मारस्तु तदा बाणं तीक्ष्णमञ्जलिकाभिधम्।
सन्दधानः शरे यान्तं राजानं न ददर्श ह॥”
इति पाद्मे॥ *॥
“दीप्तेराकाशशब्दोक्ता श्रीर्हि सर्वाश्रया मता।
तदाश्रयः परो विष्णुः सोऽस्थूलादिगुणो मतः॥”
इति स्कान्दे।
पुनः प्रश्नः सर्वाधारा प्रकृतिरित्यनुपचरितत्वेनावधारणार्थम्।
“आकाश एव” इत्यवधारणात्।
“पुनरुक्तिः शब्ददोषो न्यूनाधिक्यादिकं तथा।
न जिगीषुकथायां
च
कारणं स्यात् पराजये।
क्वचिद् विद्याधिकस्यापि स्खलनं सम्भवेद् यतः।
तत्त्वनिर्णयवैलोम्यं विलम्बो वा मुहूर्ततः।
विद्यादौर्बल्यहेतुः स्यादतस्तस्मिन् पराजयः॥”
इति ब्रह्माण्डे।
अतस्तत्त्वनिर्णयविरोधिपुनरुक्त्यादीनि
निग्रहः॥ *॥
“प्रसिद्धस्थूलसूक्ष्मादिवैलक्षण्याज्जनार्दनः।
अस्थूलादिरिति प्रोक्तो नैव स्थौल्याद्यभावतः।
अनावृतेस्तमो नास्य स्वातन्त्र्यान्नाद्यते क्वचित्॥ *॥
द्यावापृथिव्यौ श्रीभूमी केशौ सूर्यविधू मतौ।
दीप्तेः पृथुत्वाज्ज्ञानाच्च तथाऽऽह्लादविधेरपि।
तदाधारो हरिर्नित्यं स्वातन्त्र्येण प्रशासकः।
आधारत्वं श्रियो यच्च तच्च विष्णोः प्रशासनात्।
तद्वशान्न
स्वतन्त्रत्वं स स्वतन्त्रो हरिः सदा॥”
इति महामीमांसायाम्॥ *॥
“न तस्य प्राकृता मूर्तिर्मांसमेदोस्थिसम्भवा।
न योगित्वादीश्वरत्वात् सत्यरूपाच्युतो विभुः॥”वाराहपुराणम् ७५/४४
इति वाराहे।
“आदित्यवर्णं तमसस्तु पारे”तैत्तिरीयारण्यकम् ३/१२/७
इत्यादेश्च।
“न सत् तन्नासदुच्यते”🔗भगवद्गीता १३/१२
“अदुःखमसुखं समम्”भागवतम् ३/२६/१६
“नप्रज्ञं नाप्रज्ञम्”🔗माण्डूकोपनिषत् २/१
इत्यादि च।
॥ इत्यक्षरब्राह्मणम्॥ ५/८॥
शाकल्यब्राह्मणम्
“ये ये वराः सुरास्ते तु परेषां महिमात्मकाः।
महीत्युक्तं हि माहात्म्यं महिमानो हि तन्मिताः।
एवं हि महिमाशब्दस्तद्वशत्वं वदत्ययम्।
यत्र माहात्म्यवाची स्यान्महत्वं महिमा तदा।
त्रयस्त्रिंशत्सुराणां हि परिवारास्ततः परे।
षण्णामेते त्रयाणां ते ते द्वयोः साधिकस्य तौ।
एकस्य सोऽपि क्रमतः पराधीनस्वरूपिणः।
पराधीनबलाश्चैव पराधीनप्रवृत्तयः।
एक एव स्वतन्त्रोऽसौ भगवान् पुरुषोत्तमः॥ *॥
अग्रं विष्णुं नयेद् यस्मात् सुपर्णोऽग्निरुदाहृतः।
प्रथितं हरिमादाय वातीति प्रथिवः स्मृतः।
तद्भार्या पृथिवी नाम यत् तदिच्छानुसारिणी।
सर्वज्ञत्वात्
तथाऽऽयुष्ट्वात् सूत्रात्मा वायुरुच्यते।
श्रद्धानामैव तत्पत्नी सर्वस्यान्तर्निरीक्षणात्।
अन्तरिक्षमिति प्रोक्ता देवेभ्योऽधिकवीक्षणात्।
आदिकालस्थितो यस्मादादित्यस्तु सदाशिवः।
द्यौरुमा च समुद्दिष्टा वाग्रूपा द्योतिका यतः।
त एते सर्वदेवेभ्यो विशिष्टास्तद्वशाः परे।
नक्षत्रमिन्द्र उद्दिष्टश्चन्द्रः काम उदाहृतः।
अत्राणात् सूर्यचन्द्राद्यैराह्लादाच्चैव हेतुतः।
वासयन्ति जगद् यस्मादेतेऽष्टौ वसवः स्मृताः।
ज्ञानादिषड्गुणाः षट्सु तदन्येभ्योऽधिका यतः।
वसुष्वपि त एवोच्चा वीन्द्राद्याः पूर्वकीर्तिताः॥ *॥
प्राणाद्या वायुपुत्रास्तु दश बुद्ध्यभिमानवान्।
बृहस्पतिरिति ह्येते रुद्रा इत्येव कीर्तिताः॥ *॥
मासाभिमानिनो ये तु यमचन्द्रयुता द्विषट्।
धात्रर्यमाद्या आदित्या इन्द्राविष्णू विनैव तु॥ *॥
स्तनयित्नोरभीमानी वायुजस्त्विन्द्र उच्यते।
स एव वज्र इन्द्रस्य सोऽशनिश्चाशनादरेः।
यज्ञो नामेन्द्रपुत्रो यो जयन्त इति चोच्यते।
स एव पशुमानित्वात् पशवश्चेति कथ्यते॥ *॥
एवं प्राधान्यतो देवास्त्रयस्त्रिंशत् प्रकीर्तिताः।
दक्षाग्निप्रमुखाः सर्वे प्राणा एव हि वायुजाः।
रुद्रा अपि तदावेशात् पृथङ् नोदीरिता इह।
काम एवानुविष्टत्वादनिरुद्धश्च नोदितः।
मन्वावेशादिन्द्रजस्तु सङ्ख्यायामनुवेशितः।
अश्विनौ निर्ऋतिश्चैव कुबेरश्च विनायकः।
अर्यम्ण्यंशादिचतुर्षु विशेषावेशसंयुताः ॥”
अत्रोक्ता अपि पृथिव्याद्या अन्तर्यामिब्राह्मणे भवन्ति॥ *॥
“षट्सु प्रधानास्तिस्रो हि वायुवीन्द्रमहेश्वराः।
स्वभार्याणां स्वाश्रयत्वात् ते लोका ज्ञानरूपतः।
पदैक्याद् ब्रह्मवाय्वोस्तु पदसाम्याच्छिवस्य च।
शेषस्यापि तु नैवोक्तिः पृथक्, श्रद्धा च मारुतः।
द्वौ
देवाविह
सम्प्रोक्तावन्नं श्रद्धा प्रकीर्तिता।
अतीतत्वाद् देवताभ्यो नेतृत्वाच्चान्नमुच्यते।
श्रद्धेति वायोः पत्नी सा, प्राणो वै
विष्णुरुत्तमः।
णेत्येवानन्द उद्दिष्ट आ समन्तात् प्रकृष्टतः।
प्राणो हि भगवान् विष्णुरध्यर्धो वायुरुच्यते।
अध्यर्धा
हि गुणा नित्यं वायोरध्यर्ध एव तत्।
नचैकत्वं भवेद् वायोस्तद्विशिष्टो यतो हरिः।
नच द्वितीयता तस्मिन् प्रीतिरभ्यधिका हरेः।
तेनाध्यर्द्धगुणो
यस्मात् सर्वस्माद् देवतागणात्।
नचाशक्यं नचाप्राप्यमतोऽध्यर्ध इतीरितः।
अत्यन्तरङ्गं यत् तस्मान्न हरेः पृथगीरिता।
श्रीः स्वरूपविभेदेऽपि सर्वोत्कृष्टाऽपि नित्यशः।
तस्या अपि परो विष्णुर्गुणैः सर्वैरदोषवान्।
एक इत्युच्यते नित्यं यस्मान्नान्यस्तथाविधः।
तत्परो वा गुणोद्रेके ब्रह्मासौ गुणपूर्तितः।
तथात्वेन यतो नित्यमविकारेण याति हि।
त्यदित्युक्तस्ततो विष्णुः सर्वदेवेश्वरेश्वरः॥”
इति महामीमांसायाम्॥ *॥
“शारीरो मनुरुद्दिष्टः कामः प्रद्युम्न उच्यते।
आदित्यस्थस्तथा रुद्रः श्रोत्रश्चन्द्र उदाहृतः।
छायामयस्तु निर्ऋतिरादर्शे सूर्य एव च।
पर्जन्यस्त्वप्सु पुरुषः शक्रः पुत्राभिमानवान्।
अमृतं वायुरुद्दिष्टः स्त्रियः श्रीर्गीरुमा तथा।
सत्यं ब्रह्मा समुद्दिष्टो गरुत्मच्छेषका दिशः।
आदेशनाद् दिशः प्रोक्ता मृत्युर्यम उदाहृतः।
अन्तर्गतेन रूपेण वायुरेव त्वसुः स्मृतः।
पालकेन स्वरूपेण ब्रह्मैवात्र प्रजापतिः।
प्रकाशस्त्वान्तरो ज्योतिर्लोको बाह्य इतीर्यते।
मनःस्थिता मनोनाम्नी बोधरूपत्वतो रमा।
सैवाग्निस्थाऽदनान्नित्यमग्निरित्येव गीयते।
हृदयं बुद्धिसंस्था सा त्वयनं हृदि यत् ततः।
चक्षुः सा दृष्टिहेतुत्वादष्टानां लोक एव सा॥”
इति च।
बुद्धिवृत्त्यपेक्षया बहिः प्रकाशहेतुत्वमपि देव्या न विरुद्ध्यते।
इम एव त्रयो लोका इति पूर्वोक्तानां देवानामनुक्तौ कथं लोकमात्रे सर्वदेवानामन्तर्भावः?
उक्ताङ्गीकारेऽनन्तर्भावः कथम्?
कथं चाग्न्यादिषु?
नचावासमात्रमत्र विवक्षितम्।
प्रतिशरीरमपि सर्वदेवानामावासान्न लोकादीनां विशेषः।
सामर्थ्याधिक्यं चात्र विवक्षितम्।
“एतेषु हीदं सर्वं षडिति”
“यदस्मिन्निदं सर्वमध्यार्ध्नोत् स ब्रह्म त्यदित्याचक्षते महिमान एवैषाम्”
इत्यादिषु षड्गुणोद्रेकादीनामुक्तेः।
अन्तर्भावस्य च
महिमकारणकत्वोक्तेः।
इदं सर्वं गुणषट्कं पूर्णं गुणषट्कमित्यर्थः।
इदंशब्दो विवक्षितत्वादयं भगवानितिवत्।
एवमेव
“इदं सर्वमध्यार्ध्नोत्”
इति च।
गुणाधिक्येन तदधीनत्वे विवक्षिते निवासत्वादिकमन्तर्भवति।
उत्तमानामधिकव्याप्त्यादेः।
नतु निवासत्वादौ गुणाधिक्यादिकम्।
कथं च तन्महिमत्वेनान्तर्भावमुक्त्वा निवासत्वमात्रेणान्तर्भाव उच्यते?
कथं चान्यथा कामादीनां प्रसिद्धमहिमानां स्त्रीमात्रादिकं
देवतोच्यते?
प्रसिद्धं चैतत्।
“आत्मा देवानां भुवनस्य गर्भः”ऋग्वेदसंहिता १०/१६८/४
“आत्मा ते वातः”
“इन्द्रो वै देवानामोजिष्ठः”ऐतरेयब्राह्मणे ७/१६
“ब्रह्मा देवानां प्रथमः सम्बभूव”🔗आथर्वणोपनिषत् १/१/१
“अयं वाव शिशुर्योऽयं मध्यमः प्राणः”बृहदारण्यकोपनिषत् ४/२/१
“तमेताः सप्ताक्षितय उपतिष्ठन्ते”बृहदारण्यकोपनिषत् ४/२/२
“तद् या इमा अक्षल्ँलोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तो यच्छुक्लं तेनेन्द्रः”बृहदारण्यकोपनिषत् ४/२/२
“अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः।
ब्राह्मणो द्विपदां श्रेष्ठो
देवश्रेष्ठश्च
मारुतः॥”भारतम् १/१२९/४६
“वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः।
अनावृत्तिर्देहिनां देहपाते तस्माद् वायुर्देवदेवो विशिष्टः॥”भारतम् १२/२६४/४१
“क्रतुं सचन्त मारुतस्य वेधसः”ऋग्वेदसंहिता १/१४१/१५
“वायोरात्मानं कवयो निचिक्युः”ऋग्वेदसंहिता १/१६३/३१
“आत्मत एष प्राणो जायते”🔗षट्प्रश्नोपनिषत् ३/३
“यो वायौ तिष्ठन्”बृहदारण्यकोपनिषत् ५/७/७
“देवानां देवता वायुर्वायोर्देवो जनार्दनः”
“स प्राणमसृजत।
प्राणाच्छ्रद्धाम्”🔗षट्प्रश्नोपनिषत् ६/४
“एतस्माज्जायते प्राणः”🔗आथर्वणोपनिषत् २/१/३
“रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः।
ब्रह्मा मामाश्रितो नित्यं नाहं
कञ्चिदुपाश्रितः॥”भारतम् १४/११८/३७
इत्यादिषु सर्वत्र।
“श्रियः प्रसादं स
कुशेशयेशयः
श्रितः स चिन्त्यः प्रशशंस शौरिम्”
इत्यादि च॥ *॥
दिशो वेद सदेवाः सप्रतिष्ठा इति याज्ञवल्क्यवचनम्।
सर्वप्रतिष्ठात्वेन ब्रह्मणोऽपि ज्ञानं भवतीति किं ब्रह्म विद्वानित्यस्य चोत्तरम्॥ *॥
यदि दिशो वेत्थ तर्हि किन्देवतोऽस्याम्।
“आदित्यस्याश्रयश्चक्षुर्नामा स्वायम्भुवो मनुः।
चक्षुस्थो दृष्टिशक्तीशो रूपात्मेन्द्रस्तदाश्रयः।
बुद्धितत्त्वात्मिकोमा च शक्रस्यापि समाश्रयः॥ *॥
एवं यमस्याश्रयश्च यज्ञमान्यनिरुद्धकः।
दक्षिणामानिनी देवी रतिरेव तदाश्रयः।
श्रद्धारूपः सदा कामस्तस्या अपि समाश्रयः।
हृदयात्मिक्युमा तस्य कामस्यापि समाश्रयः॥ *॥
अब्देवता सदा चन्द्रो वरुणस्य समाश्रयः।
रेत आत्मा सुरगुरुः सोमस्यापि समाश्रयः।
तस्याप्युुमैवाश्रयः स्यात्
तस्यैव तु दिगीशितुः॥ *॥
सोमस्य दीक्षारूपा तु शतरूपा समाश्रयः।
तस्याः सत्यात्मको देवो मनुरेव समाश्रयः।
तस्याप्युमैवाश्रया सा स्रष्टृरूपस्य नित्यदा॥ *॥
मध्यदिक्स्वामिनोऽग्नेश्च स्वाधारो वाग् बृहस्पतिः।
तस्याप्युमैव हृदयरूपा नित्यं समाश्रयः॥ *॥
तस्याः समाश्रयो रुद्रस्त्वमहं चेति रूपवान्।
अहङ्कारात्मको नित्यमात्मोमा परिकीर्तिता।
बुद्ध्यात्मनैवाततत्वाद् यद्यस्या नाश्रयो हरः।
तदा बोधात्मिका शक्तिर्नास्या देहाभिरक्षणे।
अरक्षितान्मानुषादीन् श्वानो वाऽद्युर्वयांसि वा॥ *॥
शिवस्य च तथोमायाः प्राणात्मा शेष आश्रयः।
शेषस्यापानरूपा सा भारत्येव व्यपाश्रयः।
तस्या व्यानाभिधो वायुर्विशिष्टानो यतो हि सः।
उन्नेतृत्वादुदानाख्या तस्य श्रीराश्रयः सदा।
समानाख्यो हरिस्तस्याः सहैव
ह्यानयत्यसौ।
स्वावरस्यानकास्त्वन्ये सर्वेषां चेष्टको हि सः।
स एष भगवान् नैवं श्रीवदन्याश्रयो हरिः।
नच ब्रह्मादिवद् विष्णुर्नैवासौ बद्धवत् क्वचित्।
नच मुक्तवदीशेशः कुत एव जडोपमः।
अग्राह्योऽशीर्यसङ्गोऽसावसितश्च न रिष्यति।
नहि सर्वात्मना क्वापि केनचिज्ज्ञायते क्वचित्।
स्वल्पोऽपि शीर्यते नैव कारणात्
कार्यतोऽपिवा।
न लिप्यते जगन्नाथः क्वचिद् दोषेण केनचित्।
भूतपूर्वो भविष्यो वा बन्धो नास्य कुतश्चन।
नच
नाशो भवेत्
क्वापि न नशिष्यति च क्वचित्।
अन्यत् सर्वं गृहीतं हि तेन ज्ञानादिना सदा।
अशीर्यत्वादयोऽन्येषां सर्वेषां तत्प्रसादतः।
अतस्तस्यातिवैषम्यान्नेति नेत्याह तं श्रुतिः॥”
इत्यादि च।
“तद्गुणानां सुपूर्णानां विप्लुट्कं प्रतिबिम्बितम्।
श्रीर्भुङ्क्ते तद्गुणान् ब्रह्मा तस्य रुद्रादयोऽपिच॥”
इत्यादि च।
अहर्ज्ञानमस्य
लीनमित्यहर्लीक
एवाहल्लिकः।
अज्ञेत्याक्षिपति।
नहि गृह्यत इत्यादिना ग्रहणशीरणादिषु सर्वप्रमाणाभावं दर्शयति।
“नेतिनेत्यादिरूपेण विज्ञापितगुणोऽपितु।
विशेषापेक्षया पृष्टो न शाकल्यो विवेद तम्॥”
इति ब्रह्माण्डे।
“तदपेक्षां विनैवासौ निर्गत्य पुरुषोत्तमः।
वहत्येवानिशं सर्वं निरूढं तेन तज्जगत्।
प्रतिप्रति स्थितै रूपैर्यस्माद् धत्ते हरिः सदा।
अतः प्रत्यूह्यते तेन व्यक्ताव्यक्तमिदं जगत्॥”
इति ब्रह्मतर्के।
“न विनोपनिषद्भिः स ज्ञेयः केनापि कस्यचित्।
अत औपनिषत्कं तं प्राहुर्विष्णुं सनातनम्॥”
इति च।
“प्रश्नो वादे च जल्पादौ कर्तव्यः प्रतिवादिना।
तदुक्तिमात्रे प्रामाण्ये यदि नास्यागमान्तरम्।
अपेक्षितं यदा शङ्का दर्शनीयस्तदाऽऽगमः।
निःशङ्कत्वेन यो वक्ता प्रश्नानामुत्तरं सदा।
आनुकूल्येनागमानां नाशङ्क्यं तद्वचः क्वचित्।
दशतालो
दशमुखो ललाटत्रिंशकस्तथा।
सार्धोन्नतश्चैव पुनः पर्यग् दशशिरास्तथा।
पञ्चोराः सप्तपादो यो नाशङ्क्यं तद्वचः क्वचित्।
नवाङ्गुलमुखो यस्तु
गले
च चतुरङ्गुलः।
चतुर्विंशाङ्गुलतनुस्तद्वाक्यं देवपूजितम्।
प्राधान्याल्लक्षणोपेतो दुर्लक्षणयुतोऽपि सन्।
तस्यापि वाक्यं मानं स्यात् किमु सर्वयुतस्य तु।
प्रायो देवाश्च ऋषयो न सर्वशुभलक्षणाः।
ऋते विष्णुं सुरश्रेष्ठं ब्रह्माणं वाऽप्यनन्तरम्।
यस्मान्न विदुषां वाक्यमाशङ्क्यं केनचित् क्वचित्।
तस्माद् वेदेषु सर्वेषु कथाः प्रश्नोत्तरात्मिकाः।
न प्रमाणान्तरं तत्र पृच्छन्ति घटनां विना।
एतस्मादाश्वलाद्याश्च पप्रच्छुर्नैव कुत्रचित्।
आगमं याज्ञवल्क्योक्तेरन्यं
तं मिथिलोऽपिच॥”
इति ब्रह्मतर्के।
“यश्छिन्नविचिकित्सस्तु च्छिनत्त्यपि च संशयान्।
तस्य पर्येषणं कुयात् प्रतीच्छन्नोत दक्षिणाम्॥”
इति च भारते।
“षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः।
दशतालश्चतुर्हस्तः स देवैरपि पूज्यते॥”
इति वायुप्रोक्ते।
अत एव च सर्वागमेषु प्रतिसंहितमाचार्यलक्षणमुच्यते॥ *॥
यथा वनस्पतौ वृक्ष इत्ययंशब्दो मृषा तथैव पुरुषे पुरुषशब्दो विद्यमान एव।
स च नित्यत्वे सम्भवति।
पुरुकालेऽपि सन् पुरुष इति।
स्नावमध्ये यत् स्थिरं विद्यतेऽस्थिसल्लीनं तद् दारुसंश्लिष्टपाशवत्।
वृक्षो मूलाद् रोहतीत्यङ्गीकारमात्रम्।
“यत् समूलमा वृहेयुः” इति तस्यापि दूषणात्।
अन्यस्य रेतसो जननमपि जीवतः पुरुषान्तरस्य भावे।
प्रलये तु सर्वप्रलयात्
कस्मादुत्पत्तिः?
तत्पृष्टं
सर्वं
वक्तुमशक्यत्वात्
पुरुषस्य पुनरुत्पत्तौ कारणं भगवन्तं जानन्तोऽपि तूष्णीमृषयो बभूवुः।
पुरुषनामकत्वान्नित्यस्य जीवस्य
यावन्मुक्ति
पुनरुत्पत्त्या
भवितव्यम्,
न शरीरेण सह नाशः।
तस्य च स्वोत्पत्तावस्वातन्त्र्यादन्येनोत्पादकेन भाव्यम्।
कोऽसाविति प्रश्नाशयः।
तेषु तूष्णीम्भूतेषु स्वयमेव परिहरति विज्ञानमानन्दं ब्रह्मेति।
तस्याप्यन्य उत्पादक इत्याशङ्का मा भूदिति जात एव न जायत इत्याह।
पुरुषान्तरापेक्षया पुनःशब्दो नतु क्रियाभ्यासापेक्षया।
“एक एव हरिर्बन्धुः पुनरन्यो न विद्यते”
इतिवत्।
रातिरिष्टः।
तिष्ठमानस्य तद्विदः परायणम्।
“विजित्य सर्वान् प्रपच्छ याज्ञवल्क्यः पुनर्मुनीन्।
यथा वनस्पतौ वृक्षशब्द एवं यथार्थतः।
पुरुषेऽपि हि तच्छब्दो नित्यत्वादेव युज्यते।
तस्मान्नास्य शरीरेण नाशस्तस्मात् पुनर्जनिः।
आ मुक्तेर्भविता नित्यं कुतस्तदिति चोच्यताम्।
रेतसो जननं यावत् प्रलयस्तावदेव हि।
निर्मूलस्य च वृक्षस्य प्रलये पुरुषस्य च।
पुनरुत्पादको यस्तं वदन्तु मम कृत्स्नशः।
धानाजात इवायं हि दृश्यते विदुषां तरुः।
अस्वातन्त्र्यात् तु विदुषां नैव तत् कारणं भवेत्।
अञ्जसा प्रेत्य सम्भूतिकारणं तद् वदन्तु नः।
प्रेत्य सम्भूतिकर्ता हि स्वतन्त्रो घटते यतः।
इति पृष्टास्तु मुनयो न वक्तुं शेकुरञ्जसा।
तद्वेत्तारोऽपि तत्प्रश्ननिर्मूलनबलोज्झिताः।
अधार्ष्ट्यात् तत्प्रभावेन
धर्षिता नाशकन् यदा।
स्वयमेव तदोवाच याज्ञवल्क्यो महामुनिः।
पूर्णानन्दो हरिर्नान्यः कारणं सृज्यसर्जने।
नैवास्य जनकः कश्चिन्नित्यजातो ह्यसौ हरिः।
स प्रियः सर्वदातॄणां ज्ञानिनां परमप्रियः।
ये तु तद्भाविता नित्यं तेषामेष परायणम्॥”
इति नारायणीये।
॥ इति शाकल्यब्राह्मणम्॥ ५/९॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमोध्यायः॥
षष्ठोऽध्यायः
षडाचार्यब्राह्मणम्
ॐ॥ अणुर्भगवान् तद्विषयान् निर्णयान् वक्तुं वा।
“प्रतिष्ठा प्रतिमा प्रोक्ता प्रतिरूपेण
संस्थितेः।
प्रतिमाऽधिकसादृश्यान्मुख्या विष्णोः सदा रमा।
दीप्तत्वादा समन्तात् सा चाकाश इति गीयते।
प्रत्येकं विष्णुरूपाणामन्यदायतनं पृथक्॥”
इत्यध्यात्मे।
“प्रतिमानमवस्थानं रहस्यं नाम सार्थकम्।
चतुष्टयं यदा ज्ञातं सम्यग् विद्याफलं तदा॥”
इति च।
का प्रज्ञता वागेवेत्यादेर्धर्मधर्म्यभेदः।
“अमिताक्षरं पञ्चरात्रं विद्येत्याहुर्मनीषिणः।
मिताक्षरं श्लोकवाच्यमुभयं वेद ईर्यते॥”
इति ब्रह्माण्डे।
“सूत्रं तु ब्रह्मसूत्राख्यं महामीमांसिका तथा।
तथा साङ्कर्षणं सूत्रं ब्रह्मतर्कादयस्तथा।
प्रकाशिकां निर्णयश्च तत्त्वनिर्णय एव च।
व्याख्येति कथिताः सर्वाः स्वयं भगवता कृताः।
बृहत्तर्कादयः सर्वा अनुव्याख्याः प्रकीर्तिताः॥”
इति प्रतिसङ्ख्याने।
“वाग् विष्णुर्वाचकत्वेन प्राणः
प्रणयनात्
स्वयम्।
मनो मन्तृत्वतो नित्यं स चक्षुः सर्वदर्शनात्।
श्रोत्रं श्रवणशक्तित्वाद्धृदयं हृद्गतो यतः॥”
इति प्रत्याहारे।
“अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति”🔗तैत्तिरीयोपनिषत् ३/१
इत्यादि च।
“वागादिषु स्थितं विष्णुं य उपास्ते सदैव तु।
वागादिनाम्ना नैनं स प्रजहाति कदाचन॥”
इति सत्तत्त्वे।
अत आयतनमेव वागिन्द्रियादि।
“परमं ब्रह्म” इति वचनान्न वागिन्द्रियादिमात्रमुपास्यम्।
“प्रतिमाद्यं हरित्वेन पृथिव्याद्यमथापिवा।
इन्द्रियप्राणजीवाद्यमथवा य उपासते।
मिथ्योपास्तिमतां तेषां निष्कृतिर्न कदाचन।
अतिदुःखे पतन्त्यद्धा तमस्यन्धे पतङ्गवत्॥”
इत्युपासनानिर्णये।
“सर्वेन्द्रियेषु या विष्णोरुपासा युगपत् सदा।
देवानामेव योग्या सा तया देवत्वमाप्नुयुः।
सर्वे देवपदे योग्याः सायुज्यं स्वोत्तमेष्वथ।
सम्प्राप्य ब्रह्मणा सार्धं प्राप्नुयुः पुरुषोत्तमम्।
दुहन्ति सर्वभोगांश्च तेभ्योऽन्ये मुक्तिगा नराः।
स्वोत्तमेभ्यश्च देवेभ्यस्ते मुक्ता हरये सदा॥”
इति च।
“प्रविश्य देहं यो भोगः स्वरूपव्यतिरेकतः।
सायुज्यमिति तं प्राहुः संयुक्तत्वाद् विशेषतः॥”
इति च।
“इन्द्रियेषु स्थितं विष्णुमुपासीत क्रमेण तु।
सदा देवपदायोग्यः स मानुषसुरो भवेत्।
मानुषा देवलोकस्थास्ते प्रोक्ता मानुषाः सुराः।
मानुषा देवसायुज्यं यान्त्युपासनयाऽनया॥”
इति च।
“ऋषभान् गजमिश्रांस्तु क्षत्रियो गुरुदक्षिणाम्।
विप्रो दद्याद् वृषानेव वैश्यो गाः प्रतिविद्यकम्॥”
इति च मानसंहितायाम्।
“अन्यया विद्यया मुक्तिः सुराणामन्यया नृणाम्।
तत्रापि योग्यताभेदात् प्रतिभेदा अवान्तराः।
यया यस्य विमुक्तिः स्यात् तद्दाता मुख्यतो गुरुः।
एकदेशे गुरुत्वं
स्यादन्यविद्याप्रदस्य तु॥”
इति च॥ *॥
“प्राणसंस्थस्य वै विष्णोः सम्प्रीत्यै भोजनं भवेत्।
तदिच्छयैव चौर्यादि कुर्युरज्ञा अपि ध्रुवम्।
तथाऽपि तं न जानीयुः प्राणात्मानं जनार्दनम्॥”
इति प्रवृत्ते॥ *॥
“यच्चक्षुषि स्थितं रूपं विष्णोश्चक्षुस्तदुच्यते।
शब्दादेरप्यापरोक्ष्ये तद्धेतुर्विश्वनामकम्।
तद्गतस्य ततो विष्णोः
कण्ठस्थानागमो
यदा।
तदा स्वप्नो भवेज्जाग्रद्दर्शनं नैव जायते।
चक्षुर्निमीलनं च स्यात् सर्वेन्द्रियगुणैः सह।
चक्षुरात्मा ततो विष्णुः
सत्त्वमित्यभिधीयते॥”
इति च॥ *॥
“सर्वव्यापी तु भगवाननन्त इति कीर्तितः।
दिङ्नामा स तु विज्ञेयो दिक्षुस्थो नित्यदेशनात्॥”
इति च॥ *॥
“मनःस्थितस्य
यद् विष्णोः सम्बन्धादेव कामतः।
जातः सुतः सुखे हेतुः परानन्दो हरिः किमु॥”
इति ब्रह्मतर्के॥ *॥
सदा प्रतिष्ठितानि भवन्ति।
विशेषतोऽपि प्रतिष्ठितानि सुप्तौ।
“हृदये सर्वशो व्यापी प्रादेशः पुरुषोत्तमः।
जीवानां स्थानमुद्दिष्टः सर्वदैव
सनातनः।
हृत्कर्णिकामूलगतः
सोऽङ्गुष्ठाग्रप्रमाणकः।
मूलेश इति नामास्मिन् सर्वे जीवाः प्रतिष्ठिताः।
अङ्गुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ।
प्रविशन्ति सुषुप्तौ तु प्रबुद्ध्यन्ते ततस्तथा।
सोऽयं त्रिरूपो भगवान् हृदयाख्यः प्रकीर्तितः॥”
इति च।
“स्थानमायतनं प्रोक्तं प्रतिष्ठा धारकः पुमान्”
इति च।
॥ इति षडाचार्यब्राह्मणम्॥ ६/१॥
कूर्चब्राह्मणम्
स्वयोग्यं ज्ञानं
श्रोतुं सिंहासनादवरुह्योपसदनं कृत्वोवाच।
यत् स्वात्मना प्राप्यं मुक्तौ तदुपास्यैव मुक्तिर्भवतीत्यतः प्राप्यं पृच्छति।
“वृन्दैः प्राप्यतमत्वात् तु वृन्दारक इति स्मृतः”
इति च पाद्मे॥ *॥
“राज्ञां हृदयसंस्थो य इन्द्रो नाम जनार्दनः।
स इन्द्रे च यमे चैव
सम्प्राप्यो
मुक्तराजभिः।
तस्मात् तेषामुपास्यः स
विराण्णामा
तदाश्रया।
श्रीः, तयोः स्तुतिरेषा हि प्राणेन क्रियते सदा।
कर्णौ पिधाय या ज्ञेया सर्ववेदात्मिका हि सा।
काशनात् सर्वजीवानामाकाश इति सा स्तुतिः।
जाग्रतां सर्वजीवानांं स विष्णुर्दक्षिणाक्षिगः॥ *॥
तस्य पूर्वदिशीन्द्राग्नी सभार्यौ सम्प्रतिष्ठितौ।
यमराक्षसौ दक्षिणस्यां वरुणो वायुरेव च।
पश्चिमस्यामुत्तरस्यां सोमेशानौ प्रतिष्ठितौ।
ब्रह्मा प्रधानवायुश्च तथोर्ध्वायां दिशि स्थितौ।
अधरायां शेषकामौ सभार्याः सर्व एव च।
एकैकस्यां हि चत्वारो नेतृत्वात् प्राणनामकाः।
इन्द्रियाभिमतेश्चैव प्राणा इत्येव शब्दिताः॥”
त्वत्प्रसादाद् यदभयमस्माकं प्राप्तं तदेव तव तृप्तयेऽस्तु नान्यद् वयं प्रत्युपकर्तुं शक्नुम इत्यर्थः।
“स भगवान् स्वकृतेन तुष्येत्”भागवतम् ४/७/१५
इतिवत्।
इन्धो दीप्तः।
“जीवभोगस्य भोक्तेशो जीवस्तद्भोगभुङ् नतु।
विविक्तभुगिवातोऽसौ भगवान् पुरुषोत्तमः॥”
इति पाद्मे॥
॥ इति कूर्चब्राह्मणम्॥ ६/२॥
ज्योतिर्ब्राह्मणम्
“याज्ञवल्क्यो वरं दत्वा राज्ञा संवादकामुकः।
वैदेहनगरं प्रायात् सन्तो यच्छास्त्रलोलुपाः॥”
इति स्कान्दे।
तथाऽपि
“सम्राडेव पूर्वं पप्रच्छ”॥ *॥
आत्मा भगवानेवास्य ज्योतिः।
“भावेऽभावेऽपि सूर्यादेर्जीवानां विष्णुरेव हि।
ज्योतिस्तथाऽप्यभावे तु तज्ज्ञेयं हि विशेषतः।
अस्वतान्त्र्यात् तु जीवस्य द्योतयन् बुद्धिमस्य सः।
प्रवर्तयति सर्वेशस्तमस्यपि जनार्दनः॥”
इति च॥ *॥
“स्वातन्त्र्याद् ध्यायतीवासौ ध्याययन् जीवमञ्जसा।
गृह्णातीव ग्राहयन् स जीवं सर्वेश्वरेश्वरः।
सदा विज्ञानपूर्णोऽसौ समानोऽसौ सदा समः।
अविकारात् समानः सन् जीवमादाय सञ्चरेत्।
उभौ लोकौ स्वापकत्वाद् भूत्वाऽसौ स्वप्ननामकः ।
इमं लोकं जाग्रदाख्यं मृत्युरूपात्मकं सदा।
बहुपापैकहेतुत्वात् तारयेत् स्वप्नमानयन्।
इमं लोकं च भूराख्यं तारयित्वाऽन्तरिक्षगम्।
जीवं कुर्यान्मृतौ
विष्णुर्भूलोकः
क्षिप्रमृत्युमान्।
बहवो मृत्यवश्चात्र मृत्यो रूपाण्यतस्त्वयम्।
पापहेतुत्वतश्चायं
भूलोको
मृत्युरूपकः।
जाग्रच्च पृथिवी चैव द्यौः सुषुप्तिस्तथैव च।
स्वप्नश्चैवान्तरिक्षं च ज्ञेया अन्योन्यनामकाः।
तद्द्व्यभिप्रायिका
यस्मादुभौ
लोकाविति श्रुतिः।
स वा अयं जायमान इति च द्व्याश्रया श्रुतिः।
यस्य ज्योतिरयं विष्णुः स परामृश्यते तथा।
यदा तु भगवानुक्तस्तदा स्वातन्त्र्यतो विभुः।
म्रियमाणो जायमान इत्युक्तस्तन्नियामकः।
फलदानाय पापानां ग्रहः संसर्ग उच्यते।
मोक्षदाने फलादानाद् विजहातीति चोच्यते।
जीवोऽपि मुक्तिकाले तु हाता पापस्य
कथ्यते।
स्वर्गः सुषुप्तिरित्याख्या मुक्तेरपि यतः समा।
परलोके
यतो मुख्यो मुक्तिरेव नचापरः।
अतो द्युसुप्तिमोक्षाणामभिप्रायादिदं वचः।
सुप्तिरित्यादिकं स्वेति विष्णोराख्या सुखत्वतः।
पुनरागमनं नाम मुक्तानामपि विद्यते।
प्रलये तु प्रविश्यैनं
भगवन्तं जनार्दनम्।
स्थित्वा ज्ञानाविलोपेन निर्गच्छन्ति पुनस्ततः।
नच ज्ञानसुखादीनां तेषां सृष्टौ लयेऽपिवा।
विशेषः कश्चिदन्तश्च बहिश्चैव रमन्ति ते।
स्वापयत्येनमिति स स्वपितीत्युच्यते हरिः।
आनन्दपापलोकादेर्दर्शनं स्वप्नसुप्तयोः।
अपि विष्णोः सदैवास्ति न जीवस्य कथञ्चन।
अत्रायं भगवान् विष्णुर्जीवस्य स्वयमेव तु।
ज्योतिर्विशेषतो
भूयान्नैवान्यज्ज्योतिरत्र
यत्।
नहि जीवः स्वयं द्रष्टुं सुप्तः शक्नोति हि ध्रुवम्।
अतः स नैव जीवोऽयं सर्वं पश्यति सूक्ष्मदृक्॥ *॥
स्वप्नेऽन्तरिक्षे स्वर्गे वा न रथाद्याः पुरा स्थिताः।
तदैव तत्कर्मयोग्यान्निर्मिमीते हरिः स्वयम्॥”
इत्यादि महामीमांसायाम्।
जीवपक्षे प्रसिद्धत्वात् “कतम आत्मा” इति प्रश्नो न युक्तः।
नच जीवः समानः सन्नुभौ लोकौ सञ्चरति।
सुखदुःखविशेषवत्त्वात्।
नच
सुखादेर्मिथ्यात्वे
किञ्चिन्मानम्।
“याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः”🔗ईशावास्योपनिषत् ८
“असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्”🔗भगवद्गीता १६/८
“वैधर्म्याच्च न स्वप्नादिवत्”🔗ब्रह्मसूत्रम् २/२/२९
इत्यादिभगवद्वचनविरुद्धत्वाच्च।
नच ‘एतन्नासीदस्ति भविष्यति’ इत्यनुभवः
कदाचिद् भविष्यतीत्यत्र किञ्चिन्मानम्।
किञ्चित् कालं स्थिरत्वमात्रस्य
शून्यवादिनामपि सिद्धत्वाद् “वैधर्म्याच्च न स्वप्नादिवत्” इत्यादिवचनं व्यर्थं स्यात्।
अतो न कदाचिदस्य ‘नासीदस्ति भविष्यति’ इत्यनुभवो भविष्यतीत्यभिप्रायेणैव तद्वचनम्।
नच तथाऽनुभवे शून्यस्यानिर्वचनीयस्य च कश्चिद् विशेषः।
नच शून्यवादिनां तद्वादिनां च कश्चिद् विशेषो मोक्षे।
नच नित्यज्ञानस्वरूपमस्तीति वचनेन कश्चिद् विशेषः।
ज्ञेयाभावे ज्ञानस्याप्यभावात्।
नहि ज्ञेयरहितं ज्ञानं नामास्तीत्यत्र किञ्चिन्मानम्।
नच स्वविषयं तदिति तेषां पक्षः।
तदा कर्तृकर्मविरोध
आपततीति
हि तेषां वचनम्।
नच जानातीत्यादिकर्तृत्वं ज्ञानस्य तैरङ्गीक्रियते।
निर्विशेषत्वाङ्गीकारात्।
अतः शून्यवादिन एव तेऽपि।
स्वप्नो भूत्वा स्वापको भूत्वा।
नहि जीवोऽपि स्वप्न एव भवति।
स्वापं नयतीति स्वप्न इति च व्युत्पत्तिः॥ *॥
जायमानो म्रियमाणो
स्वपितीत्यादि तु-
“कृत्वा विवाहं तु कुरुप्रवीराः”भारतम् ५/१/१
“तदेतन्मे विजानीहि यथाऽहं मन्दधीर्हरे।
सुखं बुद्ध्येय दुर्बोधं
येषां
भवदनुग्रहात्॥”भागवतम् ३/२६/३०
“जज्ञे बहुज्ञं परमाभ्युदारम्”
“द्रष्टुश्चक्षुषो नास्ति जिह्वा”
इत्यादिवदन्तर्णीतणिच्त्वेन
भवति।
“स्वातन्त्र्यस्नेहयोरन्तर्णिच्”
इति हि सूत्रम्।
कथमन्यथा
“स्वयं निहत्य स्वयं निर्माय”
“स्रवन्त्यः
सृजते स हि कर्ता”
“स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति”बृहदारण्यकोपनिषत् ६/३/११
इत्यादि युज्यते।
उक्तार्थे च स्वप्नेन शारीरमित्यादि जीवेश्वरभेदमन्त्रा उक्ताः प्रमाणत्वेन।
ईश्वरो जीवस्य भयानि पश्यन् जक्षदिव
हसदिव।
“प्राज्ञेनात्मना सम्परिष्वक्तः” “प्राज्ञेनात्मनाऽन्वारूढः” इत्यादिषु चाभ्यासेन सर्वत्र भेद एव निर्दिश्यते।
“सुषुप्त्युत्क्रान्त्योर्भेदेन”🔗ब्रह्मसूत्रम् १/३/४२
इति च निर्णयात्मकं भगवद्वचनम्।
नचावस्थाभेदेन जीवभेदो व्यावहारिकोऽप्यस्तीत्यत्र किञ्चिन्मानम्।
नहि जाग्रत्स्वप्नस्थश्च द्वावित्यज्ञप्रयोगोऽपि कश्चिदस्ति लौकिकः।
नच भ्रमस्तादृशः।
तस्माद् भगवानेवात्रोच्यते सर्वकर्तृत्वेन।
वेशान्ता वेश्यागृहाः।
सुषुप्तिमोक्षोभयविवक्षयैव
तद्वचनमपि
भगवताऽप्युक्तम्-
“स्वाप्ययसम्पत्योरन्यतरापेक्षमाविष्कृतं हि”
इति।
उभयापेक्षमित्युक्ते
मोक्षस्थसुप्तिरिति
मन्दस्याशङ्का स्यात्।
अतो मोक्षे सुप्तिरेव नास्तीति ज्ञापयितुमन्यतरापेक्षमित्युक्तं नत्वन्यतर एवार्थ इति।
ज्ञाने विकल्पायोगात्।
अतोऽवस्थाश्च लोकाश्च
सर्वे
विवक्षिताः।
सर्वावतः आ समन्तात् सर्ववतः सर्वज्ञानान्युपादाय।
“बाह्यप्रकाशो भेत्युक्तो ज्योतिरान्तर उच्यते।
सुखं स्वरूपभूतं यदानन्द इति कथ्यते।
मुन्नाम विषयोत्थं यत् प्रकृष्टविषयात् प्रमुत्॥”
इति च।
शुक्रं जीवमादाय।
“शोकेन रत्या युक्तत्वाच्छुक्रो जीव उदाहृतः”
इति च।
“रत्यानन्दौ पूर्णनित्यौ हितौ तेन हिरण्मयः।
स्वर्णवर्णतया वाऽपि वासुदेवो हिरण्मयः।
प्रधानहंसरूपत्वादेकहंस इतीरितः॥”
इति च।
“अंशेन जीवमादाय क्वचिदीशो बहिर्नयेत्।
स्वप्नेषु फल्गुनं यद्वत् कृष्णः कैलासमानयत्।
वासनारूपकान् प्रायस्त्वन्तरेव प्रदर्शयेत्।
अतो बहिः कुलायादित्यपि वाङ् न विरुद्ध्यते॥”
इति च।
“उच्चावचेषु रूपेषु प्रविशन् पुरुषोत्तमः।
बहुरूपत्वमायाति स्वप्ने स जगतः प्रभुः॥”
इति च।
“मोदरूपत्वतो विष्णोः स्त्रीभिर्मोदो विडम्बनम्॥ *॥
जीवस्य मृतिकाले च स्वप्नकाले च केशवः।
एवंविधानि कर्माणि कुर्वाणोऽपि न दृश्यते।
तथा जागरिते सुप्तौ मुक्तैरेव तु दृश्यते।
तथाऽपि नायतेभ्यस्तं ज्ञानी ब्रूयाज्जनार्दनम्।
यस्य गोचरतां विष्णुः कदाचिन्न प्रपद्यते।
तस्यायतस्य पापस्य भेषजं नहि विद्यते।
सुप्तिकालेऽप्ययं विष्णुः
सदा जागरितात्मकः।
यानि जागरिते पश्येत् तानि सुप्तेऽपि पश्यति।
नित्यज्ञानस्वरूपत्वाद् भगवान् पुुरुषोत्तमः।
नित्यानन्यप्रकाशत्वेऽप्यन्यज्योतिर्यदा भवेत्।
तदा स्यात् संशयोऽज्ञानामित्यत्रेति विशेषणम्॥”
इति च।
जीवस्यापि स्वप्नावस्थायां जागरितत्वेऽस्येति विशेषणं व्यर्थम्।
पूवोक्तमपि मोक्षायैव भवति।
अत ऊर्ध्वं विशिष्टमोक्षाय ब्रूहि।
“स्वयोग्यभगवद्दृष्टेः सर्वैमुक्तिरवाप्यते।
पुनर्ज्ञानान्तराधिक्यात् सुखाधिक्यं विमोक्षगम्॥”
इति ब्रह्मतर्के।
स्वप्नसुषुप्त्युभयाभिप्रायेण तानि सुप्त इत्युक्तम्।
तत्र सुषुप्तिमात्राभिप्रायेण “स वा एष एतस्मिन् सम्प्रसादे” इत्याह।
“यत्रोभयविवक्षा स्यात् परामर्शस्तदोभयोः।
एकस्यापि भवेन्नैकविवक्षायां क्वचिद् द्वयोः॥”
इति शब्दनिर्णये॥ *॥
स्वप्नाख्यान्तं
स्थानं स्वप्नान्तम्।
“अन्तः स्थानं स्थलं वासः प्रदेश इति चोच्यते”
इति च।
स्वप्नान्तं च बुद्धान्तं चेत्यत्रापि स्वप्नान्तशब्दः स्वप्नसुषुप्त्युभयाभिप्रायेण।
“शुभाशुभं तु दृष्ट्वैव
स्वप्ने
जागरितेऽपिच।
असंस्पृष्टः सदा दुःखैश्चरतीशः पुनःपुनः।
स्वप्नसुप्त्यात्मकं कूलमेकं बुद्धात्मकं परम्।
महामत्स्य इवासङ्गी चरत्येको जनार्दनः॥ *॥
यं विष्णुं श्येनवच्छ्रान्तो जीवो जागरिते भ्रमन्।
स्वप्ने च सुप्तावभ्येति संश्रान्तः सद्गृहं यथा।
स्वित्यानन्दः परो विष्णुस्तमाप्तः सुप्तः उच्यते।
सम्प्राप्य तमयं जीवः कामयेन्नैव किञ्चन।
नच स्वप्नसमभ्रान्तिज्ञानं याति कदाचन।
सुषुप्तौ च किमु ज्ञानान्मुक्तौ प्राप्तौ जनार्दनम्॥ *॥
निहितो भगवान् यत्र हिता नाड्यः प्रकीर्तिताः।
नानावर्णो हरिस्तासु नानारूपी व्यवस्थितः।
तासां मध्ये सुषुम्ना च तत्र सुप्तिं व्रजत्ययम्।
ता एव कण्ठदेशस्था जीवस्तत्र व्यवस्थितः।
स्वप्नान् पश्यति जाग्रद्वद् भयं च प्रतिपद्यते।
अ इत्यादिश्यते विष्णुरविद्या तन्निरीक्षणम्।
तेन स्वप्नानयं पश्येज्जीवो जागरितं तथा॥”
इति महामीमांसायाम्॥
जिनन्तीव ताडयन्तीव।
विच्छाययति भयेन विच्छायं करोति।
अहेमेवेदं सर्वोऽस्मि स्वयोग्यतापेक्षया पूर्णोऽस्मि।
विषयभोगानन्वितस्वरूपानन्देनेत्येवशब्दः।
इदमिति पूर्णत्वविशेषणम्।
“अजानता महिमानं तवेदम्”🔗भगवद्गीता ११/४१
इतिवत् स्वपूर्णतामापरोक्ष्येणानुभूयेदं पूर्णोऽस्मीति मन्यते।
“क्वचित् तद्भावशेषः स्यात् क्रियाशेषः क्वचिद् भवेत्।
क्वचित् पदार्थशेषः स्यादिदमादिस्त्रिधा स्मृतः॥”
इति शब्दनिर्णये॥
नहि राजा देवो वा
सर्वं जगद्
भवति।
राज्ञो भोगापेक्षया पूर्तिर्भवतीति देवदृष्टान्तः।
प्रत्यक्षदर्शनार्थं राजदृष्टान्तः।
“स्वयोग्यपूर्तेः स्वातन्त्र्याद् राज्ञो देवगणस्य च।
सर्वभावस्तथा मोक्षे नतु सर्वस्वरूपतः॥”
इति ब्रह्मतर्के॥ *॥
“छन्दसामप्यवाच्यत्वादतिच्छन्दा हरिः स्मृतः।
तेनाश्लिष्टो ह्ययं जीवः सुप्तो मुक्तोऽथवा भवेत्।
विष्णो रूपं हि यन्नित्यमभयं पापवर्जितम्।
आप्तकामं च पूर्णत्वादात्मकामं सुखत्वतः।
शोकं विना सुरमणाच्छोकान्तरमितीरितम्॥ *॥
तेनाश्लिष्टः स्वपुत्राणां दायादानां न वै पिता।
तेषां दुःखाददुःखित्वान्न माता लोकमान्यपि।
अलोकमानान्नो लोको देवोऽपि स्वाधिकारतः।
वर्षणादेर्व्युत्थितत्वान्न देवो वेदमान्यपि।
अवेदमानान्नो वेदः पापी पापफलाप्ययात्।
अपापः श्रमणश्चापि यतिधर्मात् समुत्थितेः।
अयतिस्तापसश्चैवमनिष्टं पुण्यमप्यमुम्।
नान्वेत्येवंविधो मुक्तो विष्णोः सम्प्राप्तिमात्रतः।
यत् तन्न विष्णुः पश्येत पश्यन् वै तन्न पश्यति।
नित्यज्ञानस्वरूपत्वात् तत्समं नान्यदिष्यते॥”
इति च।
यत् किञ्चिद् वस्तु भगवता न दृष्टं
तन्नास्त्येव।
विद्यमानं सर्वं पश्यत्येव।
नहि द्वितीयो द्रष्टा यो विभक्तत्वेन जगत् पश्यति।
तद्विरोधेन पश्यत्यभ्रान्तः।
तद्दृष्टादन्यद् वा।
“नान्योऽतोऽस्ति द्रष्टा”बृहदारण्यकोपनिषत् ५/७/२३
इत्यादिश्रुतेः।
“यत्तद् दृष्टं भगवता तदेवास्ति नचापरम्।
नह्यन्यो विद्यते द्रष्टा यः पश्येत् तददर्शितम्।
ब्रह्मादिरपि यो द्रष्टा पश्येत् तस्य प्रसादतः।
तददृष्टं कुतः पश्येदतः को वा विरोधतः॥”
इति च।
यदवतारादिकं द्वैतत्वेन न पश्यति नतु तत् ततो द्वितीयम्।
नित्यज्ञानत्वाद् भ्रमाभावात्।
यद्विभक्तत्वेन विष्णुः पश्यति तत् ततोऽन्यदस्ति चेति च।
यस्माद् विष्णुर्विश्वं विभक्तत्वेनैव पश्यति तस्मात्
तदन्यदस्त्येवेति।
नच जगदभावोऽत्रोच्यते।
अन्यद् विभक्तमिति विशेषणवैयर्थ्यात्।
नच भ्रान्तिकल्पितं जगदित्यत्र किञ्चिन्मानम्।
“असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्”🔗भगवद्गीता १६/८
इत्यादि निन्दनाच्च॥ *॥
द्रष्ट्रन्तरनिषेधेन तस्यैव सर्वद्रष्टृत्वमेव च “यत्र वा अन्यदिव स्यात्” इत्यादिनोपसंह्रियते।
अन्यथाऽन्योऽन्यत् पश्येदित्यादिकमनर्थकम्।
नह्येकस्यान्यत्वेऽन्यस्यानन्यत्वं भवति।
अतो
द्वितीयोऽन्यशब्दो
व्यर्थ एव स्यात्।
नच
तत्पक्षे दृश्यत्वादिकमात्मनो
विद्यते।
तस्माद् यत्र किञ्चिदपि स्वातन्त्र्यमन्यस्य भवति तत्रैव भगवतोऽन्यः पुरुषो भगवद्दृष्टादन्यत् पश्यतीत्यादि युज्यते।
तदेव नास्ति स्वतः।
अतो
नान्योऽन्यत् पश्येदित्यर्थः।
“अन्यदिव” इतीवशब्दोऽल्पस्वातन्त्र्यार्थे।
“राज्ञः पृथगिव भृत्यः”
इतिवत्।
“उपमार्थे तथाऽल्पत्वेऽपीवशब्दः प्रयुज्यते”
इति शब्दनिर्णये।
“स्वरूपभेदे स्वातन्त्र्ये विरोधे च विलक्षणे।
अन्यशब्दश्चतुर्ष्वेषु प्रयोक्तव्यो मनीषिभिः॥”
इति च।
“अनन्याः सर्व एवैते
योधाः
कुन्तीसुतादपि”
इति प्रयोगाच्च।
“दशरात्रैर्भुक्तमिव न सम्यक्
स्वल्पभोजनात्”
इति च।
“प्रकृतेः पुरुषाणां च नाणुमात्रमपि क्वचित्।
स्वातन्त्र्यं विष्णुना सर्वे नियताः सर्वदैव हि।
तददृष्टं ततः को हि पश्येत् किं वाऽपि तद् भवेत्॥”
इति महामीमांसायाम्।
“अभेदेन स्वावतारान् जीवाजीवं तु भेदतः।
यदभ्रमो हरिर्वेत्ति स तदन्यच्च तद्द्वयम्॥”
इति च।
अन्यदप्यस्वातन्त्र्येणान्यवदवस्थितं
यस्मिन् पक्षेऽस्ति तत्रैवान्यदर्शनादिव्यवहारो युज्यते।
सप्तमरसादिदर्शनाभावादिति च।
सर्वेन्द्रियोपभोगोऽपि विष्णोः स्वात्मनि विद्यते।
यदि जगदेव न स्यात् तदा कथं मोक्षेऽप्यन्यानि भूतानि मात्रामुपजीवन्तीति युज्यते।
मोक्षप्रकरणं चैतत्।
“स्वाप्ययसम्पत्त्योरन्तरापेक्षमाविष्कृतं हि”
इति भगवद्वचनम्॥ *॥
“यदा हि सलिलत्वेन प्रकृतिर्व्याप्य तिष्ठति।
तदा तस्यां परो विष्णुरेको द्रष्टा व्यवस्थितः।
अविरोधादद्वितीय एकोऽसौ समवर्जनात्।
बृहज्ज्ञानो ब्रह्मलोकः सदैव पुरुषोत्तमः।
सर्वगत्वादस्य गतिः परा विष्णोः सदैव हि।
पूर्णैश्वर्यादस्य सम्पत् परमा सम्प्रकीर्तिता।
सर्वज्ञात्
परमो लोको विष्णोरानन्द एव च।
स्वातन्त्र्यात् परमो ज्ञेयः स हि पूर्णः सदोदितः।
प्रतिबिम्बरूपविप्लुट्कांस्तदानन्दस्य चाखिलाः।
मुक्ता ब्रह्मादयोऽश्नन्ति तारतम्येन नित्यदा॥”
सलीलः सलिल इति वा॥ *॥
“अन्येभ्यस्तु विमुक्तेभ्य आनन्दश्चक्रवर्तिनाम्।
मुक्तानां हि शतोद्रिक्तः पितॄणां तेभ्य एव च।
तेभ्योऽप्यृषीणां मुक्तानां कर्मदेवाभिधायिनाम्।
तेभ्यश्च मुक्तदेवानां तेभ्यश्चोमापतेस्तथा।
तस्माच्च ब्रह्मणस्त्वेवं मुक्तस्य गरुडादपि।
एष एव ततो विष्णुः पूर्णानन्दः प्रकीर्तितः।
यस्य ब्रह्माऽपि मुक्तः सन् विप्लुण्मात्रं समश्नुते॥”
इति च।
राद्धो मुक्तः।
मनुष्याणां योग्यतया स्वसमेभ्यः प्रयत्नाधिक्यादाधिक्यं मुक्तौ प्राप्तुं शक्यत इत्यतः समृद्ध इत्युक्तम्।
यावत् साधयितुं शक्यते तावत्साधनैः सम्पूर्णत्वेन मुक्त इत्यर्थः।
स्वराष्ट्रे ज्ञानोपदेष्टृत्वात् मुक्तावपि तेषामधिपतिः।
ज्ञानपूर्वकत्वेन मनुष्यत्वे दानादिकं कृत्वा तत्फलैरपि भोगैर्मुक्तौ सम्पन्नतमः।
“न हास्य कर्म क्षीयते”बृहदारण्यकोपनिषत् ३/५/९
इति श्रुतेः।
अन्यथा राद्ध इति विशेषणं व्यर्थं भवति।
स मनुष्याणां परम आनन्द इति स्वरूपानन्दश्चात्रोच्यते।
नह्यमुक्तानां
स्वरूपानन्दाविर्भावोऽस्ति।
“भुज्यते स्वसुखं मुक्तैराभासोऽन्यैस्ततोऽपरः”
इति च।
जितलोका इत्यपि मुक्ता एवोच्यन्ते।
गन्धर्वलोके गन्धर्वाणां ब्रह्मज्ञाने मुक्तावित्यर्थः।
तदा हि ब्रह्मज्ञानं सदोदितमवतिष्ठते।
एष ब्रह्मलोकः सम्राळित्यादिषु ज्ञानस्यैव लोकशब्दोदितत्वात्।
यश्च श्रोत्रिय इति वचनं
तेषामजादीनामपि
मुक्तानामेवायं नियमेनानन्दशतगुणोद्रेकः।
अन्यदा तु कदाचिद् भवति।
कदाचिद् व्याकुलतया न भवतीति दर्शयितुम्।
चशब्दस्तु
श्रोत्रियत्वावृजिनत्वाकामहतत्वादीनां
गुणानां मुक्तौ समुच्चयार्थः।
मुक्तस्यैवैते गुणा भवन्तीति मुक्तस्वीकारार्थं य इति विशेषणम्।
“सर्वं श्रुतिफलं मुक्तैः प्राप्यं नान्येन केनचित्।
अतस्तु श्रोत्रियो मुक्तो ह्यन्यः श्रोत्रियको भवेत्।
अदुःखत्वं च तस्यैव कामैरहतता तथा।
यः कामितं न प्राप्नोति स कामहत उच्यते।
काम्याप्राप्तेश्च पापाच्च कामात् कामहतः स्मृतः।
उभयस्याप्यभावेन मुक्तोऽकामहतो मतः॥”
इति च।
“आजानदेवा इन्द्राद्या जातेभ्यस्ते वरा यतः”
इति च।
प्रजापतिलोक इत्युक्तेनैव मुक्तप्रजापतिसिद्धावपि मुक्तस्यैव प्रजापतेर्ब्रह्मणश्चायं विशेष इति स्वरूपकथनार्थं यश्च श्रोत्रिय इत्यादि।
अनुपचरितश्रोत्रियादित्वमिति ज्ञापयितुमभ्यासः।
सर्वेषामपि मुक्तानां नियमेन तदस्तीति ज्ञापयितुं च।
“प्रजास्तु पशुशब्दोक्ताः पशुपस्तु प्रजापतिः”
इति च।
अथशब्दादेष ब्रह्मलोक इति विशेषणाच्च द्वितीयब्रह्मलोकशब्देन परब्रह्मैवोच्यते।
अन्यथैष एव परम आनन्द इत्युक्त्वा पुनरेष इति शब्दोऽनर्थकः स्यात्।
तस्यैव ब्रह्मलोकशब्देन पूर्वमभ्यासाच्च।
नच
तैत्तरीयादिश्रुतिविरोधः।
शतशब्दस्यायुते दशलक्षादावपि समत्वात्।
अतश्चक्रवर्तिभ्यो मनुष्यगन्धर्वाः शताधिकाः।
देवगन्धर्वा अयुताधिकाः।
पितरो दशलक्षाधिका इत्यविरोधः।
उत्तमगन्धर्वापेक्षया पितृभ्यो गन्धर्वाणामाधिक्यं च युज्यते।
आजानदेवेभ्यो जाता आजानजा इत्यतस्तत्राप्यविरोधः।
यत्राजानजा
इत्युपरि
पाठस्तत्राजानेभ्यो ब्रह्मादिभ्यो जाता इति भवति।
इन्द्रबृहस्पत्यादीनां विशेषस्तु विशेषवचनत्वादत्राप्यङ्गीकर्तव्य एव।
“सामान्यधर्मो बलवान् धर्माद् वैशेषिकाद् यथा।
बलवद् विशेषवचनं सामान्यवचनात् तथा॥”
इति च।
“नृपा मनुष्यगन्धर्वा देवाश्च पितरस्तथा।
देवैः सहितगन्धर्वा ऋषयो देवतास्तथा।
इन्द्रो बृहस्पतिश्चैव प्रधानेन्द्रः पुरन्दरः।
रुद्रो ब्रह्मेति क्रमशो मुक्ताः शतगुणोत्तराः॥”
इति च।
“अतिप्रयत्नतो यावत् प्राप्तुं शक्यं विमुक्तिगम्।
सुखाद्यं तस्य सम्प्राप्त्यै ज्ञानश्रेण्यः क्रमात् स्मृताः।
एकां श्रेणीं प्रविज्ञाय तदुत्कृष्टां च तद्वराम्।
क्रमेणैव विजिज्ञासुर्जनकः पृच्छति स्म ह।
पुनःपुनर्विमोक्षाय ब्रूहीत्यद्धा वरात् पुरा॥”
इति च।
“रहस्यमस्यायोग्यं च यदि मामेष पृच्छति।
दत्तो
मया वरोऽस्येति
वक्तव्यं मे भविष्यति।
इति भीतोऽभवद् राज्ञो याज्ञवल्क्यः सुमेधया॥”
इति ब्रह्माण्डे।
तेभ्य आश्वलादिभ्यः॥ *॥
“सर्वदा जीवमादाय नियमाद् विष्णुरेव हि।
जाग्रदादिषु संयाति नान्यथा तु कथञ्चन।
एवं नियमविज्ञप्त्यै जीवास्वातन्त्र्यवित्तये।
परिवृत्तिमवस्थासु साभ्यासा वक्ति हि श्रुतिः॥”
इति निर्णये।
अतस्तात्पर्यार्थं पुनर्वचनम्॥ *॥
ग्रामादिकमुत्सर्जद् यायात्।
“यथा ग्रामं परित्यज्य यात्यनः पुमधिष्ठितम्।
एवं देहं परित्यज्य विष्णुनाऽधिष्ठितः पुमान्॥”
इति च॥ *॥
अणिमानं भगवन्तम्।
“स एषोऽणिमा”छान्दोग्योपनिषत् ६/३/५
“तेजः परस्यां देवतायाम्”छान्दोग्योपनिषत् ६/३/५
इति हि श्रुतिः।
उपतपता रोगादिना।
“आम्रं बाल्ये पतति परिणामे ह्युदुम्बरम्।
सम्यक् पाके
यथाऽश्वत्थं फलं
जीवमृतिस्तथा।
कलावाम्रोपमा जीवास्त्रेतास्वौदुम्बरोपमाः।
कृतेऽश्वत्थसमाश्चैव यान्ति ब्रह्मवशाः सदा॥”
इति पाद्मे।
प्राणायैव।
“वायुमेवाद्रवत्येष जीवो मोक्षाय तत्त्ववित्।
तदनुज्ञयैव ज्ञानित्वमतस्तं पुनराव्रजेत्।
सर्वेऽपि वायुमासाद्य जायस्व ज्ञानमाप्नुहि।
इति तस्य वरादेव जायन्ते ज्ञानिनोऽखिलाः।
पुनस्तं प्राप्य मुक्तिं च प्राप्नुयुस्तदनुज्ञया॥”
इति प्रवृत्ते॥ *॥
इदं मुक्तजीवस्वरूपमायाति।
अतोऽनेन सहेदं परं ब्रह्मायातीति परब्रह्मणः पूजार्थं प्रतिकल्पन्ते।
यथा राज्ञो ध्वजादिकं दृष्ट्वा, ‘अयं ध्वज आगच्छति, तस्माद् राजाऽऽयाति’ इति पूजां प्रतिकल्पन्ते, तद्वत्।
अन्यथेदं ब्रह्मायातीदमागच्छतीति द्विरुक्तिर्व्यर्था स्यात्।
वीप्सात्वे त्वयमायातीत्येकप्रकारेण शब्दाभ्यासः स्यात्।
“एकप्रकारशब्दानामभ्यासस्त्वादरार्थकः।
स्वरवर्णादिमात्रं वाऽप्यन्यथा चेत् तदाऽपरः।
अर्थः स्यादेष नियमो वाक्ये वीप्सापदे तथा।
प्रातिस्विकार्थेऽपि भवेदभ्यासे वा तथा स्थितः॥”
इति शब्दनिर्णये।
नच कुत्रचिदादरार्थे द्विरूपप्रयोगो दृष्टोऽनन्तरितः।
“यदा मुक्तो व्रजत्यूर्ध्वं तदा तत्सहितो हरिः।
नियमाद् दृश्यते देवैरमुक्ते नियमो नतु।
यथा ध्वजादिकं दृष्ट्वा पूजां राज्ञः प्रकुर्वते।
एवं विमुक्तिगं दृष्ट्वा विष्णोः पूजां प्रकुर्वते॥”
इति तत्त्वनिर्णये।
तस्मादणिमानं न्येतीत्यादिना जीवगतं
ब्रह्मैवोच्यते।
जीवोपतापादि तु नैव।
“जीवमादाय गच्छन्तमनुयान्ति दिवौकसः।
प्राणाभिमानिनो विष्णुं नृपं परिजना यथा॥”
इति च॥ *॥
“उग्रास्तु श्रेणयः प्रोक्ता
योधाः
प्रत्येनसः स्मृताः।
ग्रामण्यस्तु चमूपालास्ते सर्वे द्विविधा मताः।
राज्ञा सह स्थिताश्चैव तथा जनपदे स्थिताः।
ते सर्वेऽपि नियन्तव्याः
श्रेणीभिर्द्विविधैः
सदा॥”
इति राजनीतौ।
“अनुयान्ति शरीरस्था अभियान्ति स्वलोकगाः।
मुक्तमादाय गच्छन्तं विष्णुं सर्वे दिवौकसः॥”
इत्यध्यात्मे।
॥ इति ज्योतिर्ब्राह्मणम्॥ ६/३॥
शारीरब्राह्मणम्
“सर्वेषां बलकारित्वाद् बल्यो विष्णुः प्रकीर्तितः।
तं यदा प्राप्य जीवात्मा मृतेः पूर्वं विमुग्धताम्।
याति विष्णुं तदा देवा यान्ति तेजःस्वरूपिणः।
तानादाय हरिश्चक्षुस्थानाद्धृदयमाव्रजेत्।
तदा न किञ्चिज्जानाति जीवो ब्रह्मसमाश्रितः॥”
इति च।
एनं बल्यमभि समायान्ति।
पराक् स्थितश्चाक्षुषो भगवान् प्रत्यक्
पर्यावर्तते।
“इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः”
इत्यादिश्रुतेः॥ *॥
“हृदये संस्थितो जीवो विशेषेण हरिस्तथा।
चक्षुरादिषु रूपाणि जाग्रत्काले तयोः सदा।
बहूनि सन्ति तान्येव यदैकीभावमाप्नुयुः।
हृदयस्थेन रूपेण तदा जीवो न किञ्चन।
जानातीति विदुः प्राज्ञास्तदा विष्णोः स्वतेजसा।
द्योतते हृदयाग्रं च तेन द्वारेण केशवः।
निष्क्रामेज्जीवमादाय प्राण
एनमनुव्रजेत्।
प्राणमन्ये तथा देवा विद्या कर्म च योग्यता॥”
इति महामीमांसायाम्।
“कर्माभिमानी गरुडो ब्रह्मा ज्ञानाभिमानवान्।
पूर्वप्रज्ञा योग्यता स्याद् रमा तदभिमानिनी।
एतेऽपि विष्णुं गच्छन्तमनुयान्ति सदैव
तु।
वायुर्ज्ञानात्मकश्चैव प्राणात्मक इति द्विधा।
अनुयाति हृषीकेशं सर्वैर्देवैः समन्वितः॥”
इति च।
“देवलोके चिरं रत्वा यस्तु मुक्तिं व्रजिष्यति।
स तु तद्देवताद्वारेणोत्क्रामति न संशयः।
विष्णोर्लोकं परं गच्छन्नुत्क्रामेन्मूर्ध्न एव तु।
तथैव ब्रह्मणो लोकं सुषुम्नाया विभेदतः॥”
इत्यध्यात्मे।
सविज्ञानो भवति।
जीवेन सहितो भवति।
स विज्ञानं जीवमेवान्ववक्रामति।
जीवमारुह्य गच्छति भगवान्।
“प्राज्ञेनात्मनाऽन्वारूढः” इति ह्युक्तम्।
“यो विज्ञाने तिष्ठन् य आत्मनि तिष्ठन्”
इत्युभयोर्जीवाभिप्रायेण हि पाठः।
“शारीरश्चोभयेऽपि हि भेदेनैनमधीयते”🔗ब्रह्मसूत्रम् १/२/२०
इति भगवद्वचनम्।
“विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र”🔗षट्प्रश्नोपनिषत् ४/११
इति च।
एष आत्मा निष्क्रामतीति जीवाङ्गीकारे
“शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते”बृहदारण्यकोपनिषत् ६/४/४
इत्यादिकमयुक्तं स्यात्।
नहि जीवः शरीरं
निहत्याविद्यां
गमयति रूपान्तरं वा करोति।
नच सर्वमयत्वं जीवस्य।
ब्रह्मेति विशेषणाच्च॥ *॥
“यथा
तृणजलूकैवं
भगवान् पुरुषोत्तमः।
जीवस्य
सूक्ष्मरूपं
तु प्राप्य स्थूलं परित्यजेत्।
इदं शरीरं भूतेषु विलापयति केशवः।
अविद्यां चैव जीवस्य गमयेज्ज्ञानसर्जनात्॥ *॥
स्वर्णकारो यथा स्वर्णमलमग्नौ निहत्य च।
शुद्धेन तेन चात्मेष्टं कुरुते रूपमञ्जसा।
एवं स भगवान् विष्णुर्जीवस्वर्णस्य यन्मलम्।
अविद्याकामकर्माद्यमात्माग्नौ नाश्य सर्वकृत्।
स्वेच्छया कुरुते रूपं यद् योग्यं तस्य मुक्तिगम्।
पितृजीवस्य पित्र्यं स गान्धर्वं तस्य चैव हि।
दैवं तु देवजीवस्य प्राजापत्यं प्रजापतेः।
ब्रह्मणो ब्राह्ममेवेति नित्यानन्दस्वरूपकम्।
न योग्यतां विना क्वापि पूर्वप्रज्ञा श्रुतेः क्वचित्।
यदा मुक्तो भवेद् ब्रह्मा तदा ब्रह्मा स मुख्यतः।
एवं प्रजापतिश्चैव तथैवान्येऽपि सर्वशः।
यथा हि स्वर्णरूप्याद्यं मलहानौ हि तद् भवेत्।
पूर्वं तु योग्यतामात्रं द्विजत्वं बालके यथा॥”
इत्यादि च।
नह्यमुक्तानां कल्याणतरत्वम्।
नच मृगादीनां कल्याणत्वमपि।
मरणमात्रं चेदत्रोच्यते तदा कल्याणतरमिति विशेषणं
व्यर्थं
स्यात्।
पूर्वोक्तश्रोत्रियावृजिनाकामहतदेवादीनां चात्रोक्तिः।
पूर्वाननुभूतत्वान्नवतरं च भवति।
“अल्पतेजस्तथैवाल्पं जीवरूपं हि संसृतौ।
तथैव सुमहत् तेजः करोति भगवान् महत्।
अतो नवतरं चैतद् ब्रह्मादीनां करोत्यजः॥”
अन्येषां वा भूतानां मनुष्यादीनाम्।
नासुरादीनां
भविष्यति च।
“मयं तु मानुषं स्वर्णं पीतं गान्धर्वमेव च।
इन्द्रगोपनिभं नाम्ना जाम्बूनदमिति स्मृतम्।
दैवं चामीकरं नाम प्रोद्यदादित्यसन्निभम्।
नैजो विशेषः स्वर्णानामेतेषां सर्वदैव च।
नाग्न्यादिनाऽपि समतां यान्ति तानि कथञ्चन।
एवं मानुषगन्धर्वपितृदेवाः प्रजापतिः।
ब्रह्मेति क्रमशो जीवा विशिष्टा उत्तरोत्तरम्।
स्वभावेनैव मुक्तानां स्वभावो व्यक्तिमाव्रजेत्॥”
इत्यादि च।
“स यत्राणिमानं न्येति”बृहदारण्यकोपनिषत् ६/३/३६
“तस्य ह वै तस्य हृदयस्याग्रं प्रद्योतते”बृहदारण्यकोपनिषत् ६/४/२
“तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित
ऊर्ध्वा
विमुक्ताः”बृहदारण्यकोपनिषत् ६/४/८
“तेनैति ब्रह्मवित् पुण्यकृत् तैजसश्च”बृहदारण्यकोपनिषत् ६/४/९
इत्येवमादेश्च मुक्तविषयमेवैतत्।
मुक्तविषयत्वेन
चैतत् प्रकरणं सूचयामास भगवान्-
“तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्”🔗ब्रह्मसूत्रम् ४/२/१७
इत्यादिना।
नचान्या मुक्तिरस्तीत्यत्र किञ्चिन्मानम्।
“सोऽश्नुते सर्वान् कामान् सह
ब्रह्मणा विपश्चिता”🔗तैत्तिरीयोपनिषत् २/१
“एतमानन्दमयमात्मानमुपसङ्क्राम्य।
इमाल्ँलोकान् कामान्नी कामरूप्यनुसञ्चरन्”🔗तैत्तिरीयोपनिषत् ३/(१०-५)
“ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु”ऋग्वेदसंहिता १०/७१/११
“परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच”छान्दोग्योपनिषत् ८/१/७
“स तत्र पर्येति जक्षन् क्रीडन् रममाणः”छान्दोग्योपनिषत् ८/४/३
“स य एवंविदेवं पश्यन्नेवं मन्वानस्तस्य सर्वेषु लोकेषु कामचारो भवति”छान्दोग्योपनिषत् ८/१/२
“स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा पुनश्चैकादश स्मृतः”छान्दोग्योपनिषत् ७/५/३
“न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत् सृजते”बृहदारण्यकोपनिषत् ३/५/९
“यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति।
एवं मुनेर्विजानत आत्मा भवति गौतम॥”🔗काठकोपनिषत् २/१/१५
“तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति”🔗आथर्वणोपनिषत् ३/१/३
“परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥
इदं
ज्ञानमपाश्रित्य
मम साधर्म्यमागताः।
सर्गेऽपि नोपजायन्ते
प्रलये
न व्यथन्ति च॥”🔗भगवद्गीता १४/१-२
“न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं नच कालविक्रमः।
न यत्र माया किमुतापरे
हरेरनुव्रता
यत्र सुरासुरार्चिताः।
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः॥”भागवतम् २/९/१०
इत्यादिश्रुतिस्मृतीतिहासपुराणेषु तेषां निर्गुणमुक्तिविषयत्वेन प्रसिद्धेष्वेव स्थलेषु मुक्त्यनन्तरं भोगोक्तेश्च।
“अशरीरक्रिया
गौणदेहादेस्ते ह्यभावतः।
चिदानन्दशरीरादेः सदेहाद्या विमोक्षिणः।
अनिन्द्रिया अनाहारा अनिष्पन्दा सुगन्धिनः॥”
इत्यादेश्च॥ *॥
मयट् प्राचुर्ये स्वरूपे च।
“आत्माऽयमाततत्वाद्धि ब्रह्म पूर्णगुणत्वतः।
दूरस्थत्वात् स इत्युक्तः समीपस्थो ह्ययं स्मृतः।
पूर्णज्ञानस्वरूपत्वाद् विज्ञानमय ईर्यते।
सर्वमन्तृस्वरूपत्वात् स एवोक्तो मनोमयः।
बलपूर्णस्वरूपत्वात् स प्राणमय ईरितः।
सर्वद्रष्टृस्वरूपत्वाच्चक्षुर्मय इतीर्यते।
सर्वश्रोतृस्वरूपत्वात् स श्रोत्रमय ईरितः।
सर्वाधारात् सुगन्धत्वात् पृथिवीमय उच्यते।
सर्वतृप्तिकरत्वाच्च विष्णुरापोमयः स्मृतः।
सर्वकर्तृस्वरूपत्वाच्छ्रुतो वायुमयो हरिः।
अवकाशप्रदातृत्वादाकाशमय ईर्यते।
पूर्णतेजःस्वरूपत्वात् तेजोमय उदाहृतः।
सृष्ट्यादीच्छास्वरूपत्वात् स्मृतः काममयो हरिः।
सर्वदुष्टप्रतीपत्वात् स हि क्रोधमयो मतः।
सुखादिधर्मरूपत्वाज्ज्ञेयो धर्ममयः प्रभुः।
अप्राकृतस्वरूपत्वादनेतन्मय एव च।
अपार्थिवो हरेर्गन्धो न तृप्तिश्चाप्यबात्मिका।
नाग्नेयं तस्य तेजोऽपि नच वायुर्बलं हरेः।
श्रोत्राद्या नास्य चाकाशो मनस्तत्त्वं न तन्मनः।
बुद्धितत्त्वं न तद्बुद्धिर्नाहमस्याहमुच्यते।
महदात्मकं न तच्चितं प्रकृतिर्नास्य चेतना।
प्रकृत्यादिगुणा यस्मात् तद्गुणप्रतिबिम्बकाः।
अतः सर्वमयो विष्णुः सर्वाद्यत्वादतन्मयः।
चिदानन्दात्मकास्तस्य गुणाः सर्वगुणात्मकाः।
सर्वदाऽतः सर्ववैलक्षण्यमेषां प्रकीर्तितम्।
क्रोधः क्षमात्मको यस्य चिदानन्दात्मकस्तथा।
अन्यक्रोधसमः क्रोधस्तस्य विष्णोः कथं भवेत्।
एवं सर्वगुणास्तस्य सर्वेभ्योऽपि विलक्षणाः।
पूर्वप्रज्ञानुसारेण विमुक्तस्तमुपेष्यति।
अनादिकालसम्बन्धा
या प्रज्ञा विष्णुसंश्रया।
पूर्वप्रज्ञेति सा प्रोक्ता ब्रह्मादेस्तारतम्यतः॥”
इति च महामीमांसायाम्।
“वर्तमानं यतो विष्णोर्वशे तस्मादिदम्मयः।
अतीतानागतं यस्मात् तद्वशेऽतो ह्यदोमयः।
प्राधान्ये च मयट् प्रोक्तः स्वरूपे च यतो भवेत्।
इदंरूपोऽप्यदोरूपस्ततो नित्यत्वतो हरिः।
अस्य तस्य प्रधानश्च नित्यपूर्णबलत्वतः॥”
इति च।
“यथा पूर्वं तथेदानीमिति विष्णुस्तदुच्यते।
यथा बाह्ये
तथैवान्ते ततो
यदिति चोच्यते।
यथेदानीं तथा नित्यं यस्मादेष भविष्यति।
अत एतदिति प्रोक्तो वासुदेवो जगत्पतिः।
स यथा करोति पुरुषं तथैवायं भविष्यति।
साधुर्भवति साधुं चेत् करोति पुरुषोत्तमः।
पापो भवति पापं चेत् स करोति जनार्दनः।
तत्प्रेरितेन पुण्येन पुण्यो भवति मानवः।
तत्प्रेरितेन पापेन तथा पापः पुमान् भवेत्।
आहुश्च तत्कामाधीनं जीवमेनं सदैव हि।
तत्कामादस्य कामः स्याद् यथा कामस्तथा भवेत्।
कामानुसारिणी निष्ठा कर्म निष्ठानुसारतः।
फलं कर्मानुसारेण विष्णोः काममयस्ततः।
जीवोऽयं सर्वदैव स्यान्नान्यथा तु कथञ्चन॥”
इत्यादि च।
जीवेश्वराभेदाङ्गीकारे
“सुषुप्त्युत्क्रान्त्योर्भेदेन”🔗ब्रह्मसूत्रम् १/३/४२
इति सूत्रविरोधः।
“प्राज्ञेनात्मनाऽन्वारूढः”,बृहदारण्यकोपनिषत् ६/३/२१
“प्राज्ञेनात्मना सम्परिष्वक्तः”
इत्यादिश्रुतिविरोधश्च।
नच व्यावहारिकभेदो नाम कश्चिदस्तीत्यत्र किञ्चिन्मानम्।
भ्रान्तिभेदत्वे श्रुतिसिद्धत्वमेव न स्यात्।
नहि निर्दोषश्रुतिवाक्यसिद्धं भ्रान्तमिति युक्तम्।
उन्मत्तवाक्यवत्
सर्ववेदस्याप्रामाण्यप्रसक्तेः।
नच
स्वविषयभ्रमत्वादन्यदप्रामाण्यं
नाम किञ्चित्।
तन्मते
ह्युन्मत्तवाक्यविषयस्याप्यनिर्वाच्यत्वमेव।
“सत्यः सो अस्य महिमा गृणे शवः”ऋग्वेदसंहिता ८/८५/१४
“त एते सत्याः कामाः”छान्दोग्योपनिषत् ८/१/७
इत्यादिश्रुतिभिर्भगवद्गुणानां सत्यत्वमेव ज्ञायते।
“सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः”ऋग्वेदसंहिता ८/१९/४१
इति सर्वजीवानां भगवदनुजीवनं च सत्यमित्येवोच्यते।
तदा कथं
जीवेशभेदस्यासत्यता।
नच सर्वविध्यर्थक्रियासिद्धस्य कुत्रचिद् बाधो दृष्टः।
“न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत् सृजते”बृहदारण्यकोपनिषत् ३/५/९
इति मुक्त्यनन्तरमपि तदधीनत्वप्रतीतेश्च।
न भेदस्यासत्यता।
नहि संसारावस्थायामक्षीणकर्मता भवति।
नच मुख्यार्थं परित्यज्यामुख्यो युक्तः।
अतः सत्य एव भेदः।
स भगवान् यथाकारी
यथा कारयति यथाचारी
यथा चारयति तथा भवति।
स भगवान् यथाकामो भवति तथाकामो जीवो भवति।
इत्थं कामोऽस्य भूयादिति भगवदिच्छावशादस्य कामो भवतीत्यर्थः।
क्रतुरितीत्थं करिष्याम्येवेति निश्चयरूपः कामः।
स भगवदिच्छया हि भवति।
“कामेन मे काम आगात्”ऋग्वेदसंहिता १०/८५/४१
इति च श्रुतिः॥ *॥
“अयोग्यकामराहित्यान्मुक्तो निष्काम उच्यते।
अ इत्युक्तः परो विष्णुस्तत्कामोऽकाम ईरितः।
तथा कामयमानः स योग्यकामस्य चापितु।
कादाचित्कसमुद्भूतेर्भगवत्कामनां विना।
कामितस्याखिलस्याप्तेराप्तकामश्च मुक्तिगः।
चिदानन्दात्मकं रूपं कामत्वेन भविष्यति।
यतस्तेनैवाप्तकाम इति मुक्तोऽभिधीयते।
मुक्तस्य न पुनः प्राणा उत्क्रामन्ति कदाचन।
जीवोऽपि ब्रह्मशब्दोक्तो जडाद् गुणबृहत्त्वतः।
प्राप्नोति परमं ब्रह्म
प्रलयेप्रलये
सदा।
अन्यदा स्वेच्छया
विष्णोः
स्वरूपाद् बहिरेष्यति।
स्वेच्छयाऽन्तर्बहिश्चैवं
रमते मुक्त आत्मवान्॥”
इत्यादि च।
नचामुक्तस्य कथञ्चिदाप्तकामता मुख्यतः।
“ब्रह्माप्येति” इति वचनात् पूर्वब्रह्मशब्दो जीववाच्येव।
यद्यज्ञाननाशात् परिज्ञानमात्रं तदा स्वस्य ब्रह्मतां विजानातीत्येव स्यात्।
नतु ब्रह्माप्येतीति।
नहि राजपुत्रः पूर्वमात्मानमजानन् पश्चाद् राजपुत्र इति विज्ञाय राजपुत्रमप्येतीत्युच्यते।
किन्तु राजपुत्रत्वेनात्मानं व्यजानादित्येवोच्यते।
विस्मृतकण्ठमणिरपि विज्ञात इत्येवोच्यते नतु प्राप्त इति।
अतः पूर्वब्रह्मशब्दो जीववाच्येव॥ *॥
“अथ मर्त्योऽमृतो भवति”।🔗काठकोपनिषत् २/३/१४
अथ मुक्त्यनन्तरं न कदाचिन्मृतिरस्य
भवतीत्यर्थः।
मुक्त एव परे ब्रह्मणीच्छया प्रविशति निःसरति च।
दर्शनादीन् ब्रह्मणो भोगांश्च करोति।
स्वरूपभूताः कामा मुक्तानां भवन्तीत्यतो हृदि श्रिता इति विशेषणम्।
हृदयस्यैव मोचनात् तत्स्थाः कामा मुक्तानामपगच्छन्तीति युक्तमेव।
नह्यमुक्तस्य कदाचित् सर्वे कामा मुच्यन्ते।
सुप्त्यादावप्यभिभव एव वासनाया विद्यमानत्वात्।
वासनाया हि पुनरुद्भवः।
“यावद् विमुच्येत् पुरुषस्तावत् कामा हृदि
स्थिताः।
चित्ताभावाद् विमुक्तस्य स्युः कामास्तद्गताः कुतः।
स्वरूपभूतचित्तेन कामाद्याः स्युः सुखात्मकाः।
दुःखात्मकाः प्राकृता वा मुक्तानां न कथञ्चन॥”
इति ब्रह्मतर्के।
अयं जीवोऽथ मुक्त्यनन्तरमेवाशरीरो भवति।
अमृतः कदापि न मृतः।
प्राणाख्यं
परब्रह्मैव।
“कतम एको देव इति प्राण इति।
स ब्रह्मेत्याचक्षते”बृहदारण्यकोपनिषत् ५/९/९
इत्यादिश्रुतेः।
तेज एव च।
तेज इति श्रीः।
“अन्येषाममृतत्वं
च भवेद् विष्णुप्रसादतः।
नित्यामृतः स भगवान् श्रीश्च नान्यः कथञ्चन॥”
इति नारदीये।
“प्राणस्तु भगवान् विष्णुः सर्वनेतृत्वतो विभुः।
तेजस्तु सर्वतेजस्त्वाच्छ्रीरेव समुदाहृता॥”
इति च॥ *॥
“तत्प्राप्तेः सुखहेतुत्वात् पन्था इति हरिः श्रुतः।
अणुश्च विततश्चासौ यतोऽन्तर्बहिरेव च।
श्रिया स्पृष्टः श्रीपतित्वादनुवित्तस्तयैव च।
तस्य प्रसादात् संयान्ति तल्लोकं सर्वमोक्षिणः।
ऊर्ध्वः स भगवान् सर्वविशिष्टो यत् सदैव हि॥ *॥
रूपमाहुः पञ्चविधं तस्य विष्णोर्महात्मनः।
शुक्लं तु वासुदेवाख्यमनिरुद्धं
तु नीलकम्।
सङ्कर्षणं पिङ्गलं च प्रद्युम्नं
हरितं स्मृतम्।
नारायणं लोहितं स्यात् पञ्चरूपाण्यजे हरौ।
पञ्चभेदविभिन्नो यस्त्वभिन्नोऽपि स्वरूपतः।
स पन्था ब्रह्मणा ज्ञातः पद्मजेनैव सन्ततम्।
परब्रह्मस्वरूपज्ञो महातेजः श्रियस्तथा।
सम्यक्स्वरूपविज्ञानात् तैजसत्वेन कीर्तितः।
भगवत्कर्मकर्तृत्वात् पुण्यकृच्चाभिधीयते।
एवंविधोऽपि तस्यैव प्रसादाद् याति तां गतिम्।
अतः पन्थाः समुद्दिष्टो भगवान् केशवः स्वयम्।
स्वगताखिलभेदेन विहीनोऽपि स सर्वदा।
सर्वेषां व्यवहाराणां भेदोत्थानां स ईश्वरः।
अभिन्नोऽपि ह्यतो भिन्नः पञ्चभेदादिना मृषा॥ *॥
अन्यथोपासका येऽस्य ते यान्ति ह्यधरं तमः।
ततः किञ्चिद् विशेषेण दुर्ज्ञानस्याविनिन्दकाः।
सम्यगाचार्यवचनमवज्ञाय
विरोधिनि।
सत्त्वबुद्धिं यतः
कुर्युस्ततस्तेऽधिकपापिनः।
अप्राप्तत्यागिनः प्राप्तनिष्ठाहीनो हि दोषवान्॥ *॥
नित्यदुःखस्वरूपत्वादनन्दं तत् तमो मतम्।
बोधके विद्यमानेऽपि ये विदुर्न परं हरिम्।
तेऽपि यान्ति तमो घोरं नित्योद्रिक्तासुखात्मकम्॥”
इति च।
बुधः सकाशेऽप्यविद्वांस
इत्यर्थः।
“बोधनाज्ज्ञानवान् भुत् स्यात् तत्सकाशाच्च ये हरिम्।
न विदुस्ते तमो यान्ति सर्वदुःखात्मकं परम्॥ *॥
यदि जीवः परात्मानमयमस्मीति वेदितुम्।
योग्यः
शरीरभेदादेः
कथं दुःखी तदा भवेत्।
दुःखी शरीरसम्बन्धाज्जीवो विष्णोः प्रसादतः।
अदुःखी विप्लुडानन्दं मुक्त एव च भोक्ष्यति।
नित्यमुक्तः पूर्णसुखः स्वतन्त्रः पुरुषोत्तमः।
परतन्त्रः कथं जीवो योग्यः सोऽस्मीति वेदितुम्।
यस्मात्
सोऽस्मीति नैवायं विजानीयात् कदाचन।
तदीयोऽस्मीति जानीयात् सर्वदैव बुधस्ततः॥”
इति च॥ *॥
“यस्य ज्ञातो नित्यबुद्धो भगवान् पुरुषोत्तमः।
तस्य लोकः स एवैको यो लोकः परमात्मनः।
स हि विष्णुः परो वायोरपि कर्ता प्रकीर्तितः।
विश्वो वायुः समुद्दिष्टः पूर्णत्वाज्जीवसङ्घतः।
तदन्यस्यापि सर्वस्य कर्तैको विष्णुरेव हि।
प्रविष्टो गहने देहमध्ये
सन्दोहनामनि।
तज्ज्ञानी याति तं लोकं तत्प्रसादाच्च वर्तते॥ *॥
न वत्सराश्च नाहानि यस्य नित्याविकारतः।
ज्योतिषां ज्योतिरचलं तद्देवाः समुपासते॥ *॥
प्राणश्चक्षुस्तथैवान्नं मनः श्रोत्रं च पञ्चमम्।
मूलप्रकृतिसंयुक्तं यद्गतं प्रतिपूरुषम्॥ *॥
तस्य रूपगुणाद्येषु न कश्चिद् भेद इष्यते।
तद्भेददर्शी संयाति मृत्योर्मृत्य्वभिधं तमः॥ *॥
तस्मादेकप्रकारेण द्रष्टव्यो भगवान् हरिः।
परिमाणविहीनत्वादप्रमेय इतीरितः॥”
इत्यादिवचनात्, अप्रमेयत्वमवाच्यत्वममनोविषयत्वं च सर्वात्मना न।
“मनसैवानुद्रष्टव्यम्” इत्युक्तत्वात्।
नच केनाप्यवाच्यस्य लक्षणा दृष्टा।
क्षीरमाधुर्यविशेषादेरपि तत्तच्छब्देनैव वाच्यत्वात्।
“विशदं क्षीरमाधुर्यं गुडे तीक्ष्णं घृते स्थिरम्”
इत्यादि च।
नच निर्गुणस्य सत्त्वमेवास्ति।
गुणभेदादीनामपि सन्त्येव गुणाः।
नचानवस्था।
स्वनिर्वाहकत्वात्।
“अवाच्यममनोगम्यमगुणं चेत् कुतोऽस्ति तत्।
तस्मादेवं वदन् वस्तु
शून्यतामर्थतो वदेत्।
गुणाश्च गुणिनः सर्वे स्वेनैव गुणिनो गुणाः॥”
इत्यादि च॥ *॥
“सर्वमस्य वशे यस्माद्धरिः सर्ववशी ततः।
सर्वस्य ब्रह्मरुद्रादेरन ईशान एव च।
गुणाधिकः पालकश्चेत्यतोऽधिपतिरीरितः॥”
इति च।
भूत एवाधिपतिः।
नास्याधिपत्यमादिमत्।
“नित्यबोधात्मकत्वाद् यो मुनिः प्रोक्तो जनार्दनः।
तं विद्वांश्च मुनिर्नाम बोधस्तस्याप्यमुख्यतः।
यं विदित्वा विमुक्ताश्चायुक्तकामविवर्जिताः।
उत्पत्तिलयहीनाश्च नित्यानन्दैकभोगिनः।
आनन्दभिक्षां विष्णूत्थां चरन्त्यज्ञानवर्जिताः।
स एष मोक्षदो विष्णुर्यत् कल्याणं कृतं मया।
पापं कृतं मयेत्येतन्न कदाचित्
करिष्यति।
कृते मया पुण्यपापे इति यच्चेतनात्मनाम्।
तत् सर्वमत एवोक्तं विष्णोः सर्वेश्वरेश्वरात्।
तीर्णो हि वर्तते नित्यं पुण्यपापे जनार्दनः।
नैनं कदाचित् तपतः पुण्यपापे जनार्दनम्॥”
इति च॥ *॥
“शान्तिस्तु भगवन्निष्ठा दमो मदविनिग्रहः।
हृदिस्थविष्णौ सन्तोषः सदैवोपरमः स्मृतः।
तितिक्षा द्वन्द्वसहता क्षमा क्रोधासमुत्थितिः॥”
इति शब्दनिर्णये।
“सर्वः पूर्णः समुद्दिष्टस्तथा ज्ञेयो जनार्दनः।
रागसन्देहपापानि तथा जानंस्तरिष्यति।
नित्यं हि रागपापादेर्मुक्तो यत् पुरुषोत्तमः।
वेदाख्यब्रह्मणाऽण्यत्वाद् विष्णुर्ब्राह्मण उच्यते।
पूर्णत्वाज्ज्ञानरूपत्वाद् ब्रह्मलोकश्च स प्रभुः॥ *॥
न मरिष्यतीति ह्यमरो न मृतो यत् ततोऽमृतः।
ब्रह्मायमाप्तकामत्वादेवं
यो वेद तं परम्।
आप्तकामोऽभयश्चैव भवेद् विष्णोरनुग्रहात्॥”
इति च।
परमार्थेऽविचिकित्सः।
ब्रह्मणो भवतीति नित्यमेव तथा भवतीत्यर्थः।
“अभूद् भविष्यति भवत्येवमाद्यपदानि तु।
नित्यभावाभिधायीनि यत्र वाच्या हरेर्गुणाः॥”
इति शब्दनिर्णये॥
॥ इति शारीरब्राह्मणम्॥ ६/४॥
मैत्रेयीब्राह्मणम्
प्रियां वाचमवर्धयद् भवती।
बाह्याभ्यन्तरविशेषाभावेन सर्वत्र लवणरसघन एव।
न वा अहमिमं विजानातीति।
अहेयमिमं परमात्मानं जीवो न
जानातीत्यत्रैव
भगवान् मोहान्तं मोहाख्यं नाशमापीपिपत् प्रापयामास।
अतः “अहं ब्रह्मास्मि”
इत्यादिष्वहंशब्दोऽहेयत्ववाचीति
सिद्धम्।
अन्यथा कथमहं विजानातीति
युज्यते?
एतावद् विज्ञातुः परमात्मनो विज्ञानादिकमेव ह्यमृतत्वं मोक्षः।
“विष्णोर्ज्ञानादिकं मोक्षस्तदभावे कुतः सुखम्।
ज्ञेयाभावान्नहि ज्ञानं ज्ञानाभावे हि शून्यता।
तस्माज्ज्ञेययुतो मोक्षः सुखरूपत्वतः सदा॥”
इति ब्रह्मतर्के॥
॥ इति मैत्रेयीब्राह्मणम्॥ ६/५॥
वंशब्राह्मणम्
“अवरेभ्योऽपि शृण्वन्ति परमाश्च क्वचित्क्वचित्।
लीलयैव नचैतेषां परमत्वं विहीयते॥”
इति च॥
॥ इति वंशब्राह्मणम्॥ ६/६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये षष्ठोध्यायः॥
सप्तमोऽध्यायः
प्रथमं ब्राह्मणम्
द्वितीयं ब्राह्मणम्
तृतीयं ब्राह्मणम्
चतुर्थं ब्राह्मणम्
पञ्चमं ब्राह्मणम्
षष्ठं ब्राह्मणम्
सप्तमं ब्राह्मणम्
अष्टमं ब्राह्मणम्
नवमं ब्राह्मणम्
दशमं ब्राह्मणम्
एकादशं ब्राह्मणम्
द्वादशं ब्राह्मणम्
त्रयोदशं ब्राह्मणम्
चतुर्दशं ब्राह्मणम्
पञ्चदशं ब्राह्मणम्
षोडशं ब्राह्मणम्
सप्तदशं ब्राह्मणम्
अष्टादशं ब्राह्मणम्
एकोनविंशं ब्राह्मणम्
विंशं ब्राह्मणम्
ॐ॥ “अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः।
पूर्णं च तत् परं रूपं पूर्णात् पूर्णाः समुद्गताः।
परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः।
न देशकालसामर्थ्यैः पारावर्यं कथञ्चन।
पूर्वरूपस्य
पूर्णस्य पूर्णं यदवतारगम्।
रूपं तदात्मन्यादाय पूर्णमेवावतिष्ठते।
लौकिकव्यवहारो यो भूभारक्षपणादिकः।
तददृष्टिं विना नान्यो लयः कृष्णादिनां क्वचित्।
ओताः सर्वगुणा यस्मादस्मिन्नों विष्णुरुच्यते।
खं प्रकाशस्वरूपत्वात् ब्रह्म तद् व्याप्तरूपतः।
पुनः खं सुखरूपत्वात् पुराणं तदनादितः।
वायोश्च रतिदं यस्माद् वायुरं ब्रह्म तत् परम्।
ख्यातत्वाच्चापि तत् खं स्याद् रौहिणेयस्तथाऽवदत्।
वेदोऽयं ज्ञानरूपत्वादिति यं ब्राह्मणा विदुः।
निर्दोषत्वाद इत्युक्तस्तेन वेद्यं सदाऽखिलम्॥”
इति च।
बाह्लीकसुता हि रोहिणी।
अतो बलभद्रः कौरव्यायणीपुत्रः॥ ७/१॥
“ज्ञानदानं तु देवानां फलदानं च कर्मणाम्।
विष्णुना विहितं पूर्वं पुनर्देवनरासुराः।
ब्रह्माणमपि पप्रच्छुर्देवानां
सद्गुणोच्छ्रितेः।
अनहङ्कारमात्रं तु ब्रह्मणा विहितं
तदा।
सर्वोच्चमोक्षसम्प्राप्त्यै नराणां ज्ञानसाधनम्।
देवादीनां दानमेव हविरादेः प्रकीर्तितम्।
तमःप्राप्तिविलम्बाय दैत्यानां विहिता दया॥”
इति प्रवृत्ते॥ ७/२॥
“हरणाद् यज्ञभागादेर्ज्ञानादेर्दानतस्तथा।
यानादव्यवधानेन परस्य ब्रह्मणस्तथा।
ब्रह्मा हृदय इत्युक्तस्तस्यैवंविदपि ध्रुवम्।
हृतिदानस्वर्गयानपात्रं स्यात् तत्प्रसादतः।
हृत्वैवास्मै ददत्यद्धा स्वकीयाश्चान्य एव च॥”
इति निर्णये।
परमात्मा च प्रजापतिः॥ ७/३॥
“ततत्वादेकरूपत्वात् तत् परं ब्रह्म कीर्तितम्।
तदेव तादृशं प्रोक्तं नैवान्यत् तादृशं क्वचित्।
तदेतत् सत्यमेवासीद् वासुदेवाख्यमव्ययम्॥”
इति ब्रह्मतर्के।
तदेव हि तत्।
तन्नारायणाख्यं परं ब्रह्मैतदेव सत्यं वासुदेवाख्यमासीदित्यर्थः।
“स्वस्मात् स्वयं समुत्पन्नो वासुदेवात्मना प्रभुः।
सत्यं ब्रह्मेति यो वेद महायाज्यं तु तं परम्।
प्राप्नोत्येव हि तल्लोकान् जीवन्नप्युत्तमो भवेत्॥”
इति प्रध्याने।
“स्वभागहरणाद् दानात् फलानां यापनान्नृणाम्।
हृदयं भगवान् विष्णुः सत्यं सद्गुणरूपतः॥”
इति सत्तत्त्वे।
“प्रजापतिरिति ब्रह्मा वेदेषूक्तो ह्यमुख्यतः।
यस्मिन्नूषुर्ब्रह्मचर्यं देवासुरनरोऽब्जजे।
एष वै भगवान् विष्णुर्मुख्यतस्तु प्रजापतिः।
यज्ज्ञानान्मुक्तिमायान्ति स्वर्गाख्यां हृदयं च सः।
हृतिसद्दानयानेभ्यः सत्यं सद्गुणरूपतः।
यत् तद्धृदयमित्युक्तं ब्रह्म तत् सत्यतामगात्।
सत्यत्वं सदनीयत्वमासाद्यं यन्मुमुक्षुभिः।
एवं तद् ब्रह्म यो वेद स हि लोकानिमान् जयेत्।
एतल्लोकजयो नाम धर्मज्ञानादिपूर्णता।
जित एव ह्यसौ लोको यदा वेद जनार्दनम्॥”
इति गुणपरमे।
परलोको जित एवाभवदित्यर्थः॥ ७/४॥
“सदा सर्वगुणापानादापो नारायणः स्मृतः।
द्वितीयं रूपमसृजद् वासुदेवं स आत्मनः।
ब्रह्म सत्यमिति प्राहुर्वासुदेवाभिधं प्रभुम्।
तस्माद् ब्रह्माऽजनि ततो देवाः सर्वेऽपि जज्ञिरे।
तस्माद् ब्रह्मादयो देवा वासुदेवमुपासते।
ततत्वादन्यथाज्ञानं तीत्येव समुदीर्यते।
तस्याधस्तात् सदात्मा तु
सादयन्ननृतं
हरिः।
उपरिष्टाच्च यन्नामा नाशयन्ननृतं स्थितः।
एवं यो वेद तं विष्णुं नास्य मिथ्यादृशिर्भवेत्।
योग्यतापेक्षयोपासाऽथापरोक्ष्याच्च तत्फलम्।
सम्यग् ददात्यन्यथा च भवेदेवोपकारिणी।
अत्ययोग्याय चेत् सा स्याद् विपरीतफलप्रदा।
वैपरीत्यं तु विघ्नः स्यान्नतु पापं कथञ्चन॥”
इत्याधारे।
“स वासुदेवो भगवानादित्यस्थो जनार्दनः।
आदित्यनामा सम्प्रोक्त आदानाद्धविषां सदा।
स एव दक्षिणाक्षिस्थस्तच्च रूपद्वयं हरेः।
अन्योऽन्यस्मिन् स्थितं नित्यं प्राणैश्च सह रश्मिभिः।
दक्षिणाक्षिस्थितो विष्णुर्यदाऽस्मादुत्क्रमिष्यति।
तदैव म्रियमाणस्तु जीवः पश्येद् विरश्मिकम्।
सूर्यस्य मण्डलं नास्य प्रतीयन्ते हि रश्मयः।
तत्क्षणे नियमेनैव केषाञ्चित् सप्तभिर्दिनैः॥ *॥
तस्य विष्णोः शिरो नाम भावनाद् भूरिति स्मृतम्।
भावनं रक्षणं प्रोक्तं दृष्ट्या वाचा च रक्षति।
उत्पादनाद् भुनामा स्याद् दक्षिणो बाहुरस्य तु।
विनाशनाद् व इत्युक्तः सव्यो बाहुः परात्मनः।
स्वित्यानन्दः समुद्दिष्टो वरिति ज्ञानमुच्यते।
मुक्तिदानेन तद्दानात् सुवरस्य पदद्वयम्।
दक्षिणश्चैव सव्यश्च क्रमाद् वर्णद्वयोदितौ।
पादावस्य हि तत्प्राप्तिर्मुक्तिरित्यभिधीयते।
अहमेषो ह्यहेयत्वाज्जीवेन सहभावतः।
असावहरिति प्रोक्तः सर्वलोकप्रकाशनात्।
तद्वेदनात् सर्वपापं हन्ति चैव जहाति च।
कानिचिद्धन्ति पापानि कल्यादीन्
सञ्जहाति
च॥”
इति प्रवृत्ते॥ ७/५॥
“मनोमयो ज्ञानमयः प्रधानं मय उच्यते।
महाज्ञानात्मकश्चैव भारूपः सद्गुणात्मकः।
सर्वप्रशासको विष्णुर्विद्युत् सर्वस्य वेदनात्।
य एनं वेद वेत्तारं सर्वस्य परमेश्वरम्।
पापेभ्यो मोचयित्वैनं स्वात्मानं वेदयेद्धरिः॥”
इति माहात्म्ये॥ ७/६-७॥
“सरस्वती तु गोरूपा तस्या देवादयोऽखिलाः।
स्तनानेवोपजीवन्ति तस्या वायुः पतिः प्रभुः।
वत्सो मनोभिमान्यस्याः सरस्वत्याः सदाशिवः॥”
इति प्रभञ्जने॥ ७/८॥
“अग्निनामा तु भगवानौदर्याग्नौ प्रतिष्ठितः।
विश्वैर्गुणैः समेतत्वादनन्तत्वाच्च स प्रभुः।
वैश्वानर इति प्रोक्तः सोऽग्निरङ्गप्रनेतृतः।
तस्य विष्णोः स्तुतिरियं क्रियते वायुना सदा।
कर्णौ पिधाय या नित्यं श्रोतुं शक्याऽखिलैः सदा॥”
इति तन्त्रमालायाम्॥ ७/९॥
“प्रवहं वायुपुत्रं च सूर्यसोमौ च विद्युतम्।
प्राप्य प्रधानवायुं च याति तत् परमं पदम्॥”
इति ब्रह्माण्डे॥ ७/१०॥
“व्याधीञ्छवहृतिं चैव शवदाहादिकं तथा।
विष्णवे तप इत्येव चिन्तयन् याति तत् परम्॥”
इति च।
“अक्लेशितोऽपि क्लेशादीनतीतैष्यानपीह यः।
विष्णवे तप इत्येव
प्रार्थयेत्
स परं व्रजेत्।
विष्णोः स्वरूपवेत्ता चेदन्यथा न कथञ्चन।
यथा स्वरूपवेत्तुः स्यादेकैकापि ह्युपासना।
मोक्षाय सहिताः सर्वा अप्यज्ञस्य नतु क्वचित्।
यथावत् केशवं ज्ञात्वा स्वयोग्यैकामुपासनाम्।
अपि कृत्वा हरिं दृष्ट्वा मुच्यते नात्र संशयः॥”
इति ब्रह्मतर्के॥ ७/११॥
“अन्नाभिमानी ब्रह्मैव प्राणो वायुरुदाहृतः।
अन्योन्यानुप्रविष्टौ तौ सर्वदैव सुसंस्थितौ।
वायुं विना ब्रह्मणोऽपि शरीरं पूतिमेष्यति।
वायुश्च शोषमायाति विना ब्रह्माणमञ्जसा।
तयोरेवं परिज्ञानी वासिष्ठः पाणिनामकः।
ब्रह्मवायुविदे कार्यं किं मया साध्वसाधु वा।
नासाधुना
साधयितुं
शक्योऽसौ साधुनाऽपिवा।
नार्थोऽस्य कृतकृत्यत्वाद् यदि वेद परं हरिम्।
इति प्रशस्य तज्ज्ञानं वसिष्ठं प्राब्रवीत् ततः।
अन्योन्यानुप्रवेशेन ब्रह्मवाय्वोर्विशेषतः।
प्रयोजनं कस्य भवेदिति तं
प्रतृदोऽब्रवीत्।
ब्रह्मा निवेशनीयः स्याद् वायुश्चास्य रतिप्रदः।
अतः प्रयोजनं तुल्यमन्योन्यात्मप्रवेशनात्॥”
इति सन्धाने॥ ७/१२॥
“उत्थापनादुक्थनामा मोक्षे प्राप्यो यतोऽखिलैः।
यजुश्चाथ क्षतत्राणात् क्षत्रं सम्यक्त्वकारणात्।
सर्वेषां साम च प्रोक्तो वायुरेव जगत्पतिः॥”
इति च॥ ७/१३॥
“ऋग्यजुःसामसंस्थो यो भगवान् पुरुषोत्तमः।
स द्वितीयपदेनोक्तो गायत्र्याः प्रथमेन तु।
भूम्यन्तरिक्षस्वर्गस्थतृतीयेन समीरगः।
चतुर्थपादो गायत्र्याः प्रणवः समुदीरितः।
तद्वाच्यो भगवान् सूर्यमण्डलस्था तु या रमा।
सत्त्वात्मिक्येव तत्संस्थो रजआख्यप्रधानतः।
परः परोरजास्तस्माद्
य एवं वेद तं प्रभुम्।
लोकानां चैव वेदानां सर्वेषां प्राणिनामपि।
सदैवाधिपतिर्भूत्वा यशःश्रीमांश्च जायते।
गायत्र्युपासने योग्यो ब्रह्मैव हि चतुर्मुखः।
तस्मादुक्तफलं सर्वं सर्वोपासा च तस्य हि।
अंशेनोपासनाऽन्येषां फलमल्पं च योग्यतः।
गायत्र्या नह्ययोग्योऽपि द्विजो योग्योऽपि न क्वचित्।
ऋते विरिञ्चं तस्मात् तु तस्यैव ह्यखिलं फलम्॥”
यः परोरजास्तपति स तुरीयपदेन प्रणवेन पद्यते।
तुरीयं पदं ददृश इव दृष्ट इव।
तदधीनतेजःपुञ्जस्य सूर्यमण्डलस्य दृष्टत्वात्।
“सूर्यमण्डलगो विष्णुः सर्वेषां दृष्टवत् स्थितः।
यस्मात् तदुत्थितं तेजोमण्डलं दृश्यतेऽखिलैः॥”
इति त्रैविद्ये।
सर्वं रजः सर्वां प्रकृतिम्।
“रञ्जनात् प्रकृतिः प्रोक्ता रज इत्येव वैदिकैः।
तस्या अप्युत्तमो विष्णुर्यतोऽतः स परोरजाः।
अभिमानिनी तु गायत्र्या मुख्या श्रीः परिकीर्तिता।
ब्रह्माण्यमुख्यतो ज्ञेया सा तु ब्रह्माणमाश्रिता।
ब्रह्मा तु मुख्यगायत्रीं सा
परोरज आश्रयेत्॥”
इति च।
तद् वा एतज्जगत् सत्ये प्रतिष्ठितम्।
भूमिरन्तरिक्षं द्यौरित्यादिना प्रस्तुतत्वात्।
“तद् वा एतज्जगत्सर्वं चक्षुः सूर्याभिमानिनी।
विराण्नामनि शेषाख्ये सर्वदा सम्प्रतिष्ठितम्।
शेषः प्रतिष्ठितो वायौ स ह्यस्माद् बलवत्तरः।
स सत्य इति सम्प्रोक्तः सन्नस्मिन् याति यद्धरिः।
वायुः समाश्रितो देवीं मुख्यां गायत्रिनामिकाम्।
सा चात्मनामधिपतिमेवं परममाश्रिता।
प्राणानां रक्षणादेव गायत्री सा प्रकीर्तिता।
सावित्रीति च यामाह स विष्णुः परतोरजाः।
एषैव सा हि गायत्री सविता हि जनार्दनः।
तस्माद्धि सूयते सर्वं सावित्री च तदाश्रिता।
आदित्यस्तत्प्रतीकत्वात् सवितेति प्रकीर्तितः।
प्रतिमायां च तच्छब्दः प्रयोज्यो ह्युपचारतः।
यस्मा आह स विष्णुस्तां गायत्रीं जगदीश्वरः।
ब्रह्मणे तस्य सा प्राणान् सर्वदा पाति पुत्रवत्।
ब्रह्मा हि पुत्रस्तस्यास्तु तत्पुत्रा इतरेऽखिलाः।
तामाहुः परमां देवीं वृणीमह ऋगात्मिकाम्।
नैव सा प्रतिमा मुख्या गायत्री परमा स्मृता।
गायत्रीमुख्यवेत्तारो योग्या ब्रह्मपदस्य ये।
तेषां प्रतिग्रहाद् दोषो न कश्चन भविष्यति।
नचैकपदविज्ञानफलायालं सुखानि च।
विष्णोर्यदा भगवतो लोकान् वेदांश्च चेतनान्।
विरिञ्चिजन्मन्यखिलान् प्रतिगृह्णन्ति कृत्स्नशः।
गायत्रीपदविज्ञानफलमात्रं तदा भवेत्।
प्रणवप्रतिपाद्यं यत् तुरीयं भगवत्पदम्।
सर्वगं वासुदेवाख्यं न तत् केनचिदाप्यते।
गायत्रीत्रिपदज्ञेयमनिरुद्धादिकं त्रयम्।
ब्रह्मा
प्राप्नोति
मुक्तः सन् वासुदेवं न कश्चन।
लोकस्थमनिरुद्धं च प्रद्युम्नं वेदगं तथा।
सङ्कर्षणं वायुसंस्थं
व्याप्त्या
ब्रह्मा विमुक्तिगः।
गायत्रीज्ञानसामर्थ्यात् प्रणवज्ञानशक्तितः।
वासुदेवं च सम्पश्येन्न व्याप्नोति कथञ्चन।
अनन्तत्वाद् वासुदेवः कथं व्याप्यो भवेत् प्रभुः।
वर्णत्रयात्मप्रकृतिमतीतः सूर्यमण्डले।
गुणत्रयात्मिकां बाह्ये यतोऽतः स परोरजाः।
यतो न व्याप्यते सोऽसौ ब्रह्मणाऽपि कथञ्चन।
अतः प्रतिग्रहो नास्य वासुदेवस्य विद्यते॥”
इति प्रकाशिकायाम्।
तावदेतावत् प्रतिगृह्णीयादिति तस्यैव सामस्त्येन ग्रहणार्थम्।
एतावदेव मम हस्ते विद्यत इतिवत्।
नह्यन्यदेतावत्
प्रतिग्राह्यमस्ति।
“अष्टाक्षरत्वाद् गायत्र्याः प्रोक्ता सैकपदीति च।
प्रणवेन सहैतास्तु गायत्र्यश्चतुरस्तदा।
अकाराद्यतिशान्तान्तः प्रणवोऽष्टाक्षरो यतः।
पादः प्रणवसंयुक्तो गायत्री सा पृथग् यदा।
द्विपदीति तदा प्रोक्ता त्रिपदी स्वपदैस्त्रिभिः।
चतुष्पदी सप्रणवा ब्रह्मणोऽन्यैर्न गम्यते।
अपदी च ततः प्रोक्ता गायत्र्येवमुपस्थिता।
कामाप्राप्तिमपूर्तिं वा शत्रवे सा करिष्यति।
असावदो मैव प्रापन्नास्मै कामः समृध्यताम्।
उपस्थिता चेदित्थं सा यद्यदोऽहं समाप्नुयाम्।
इति सा कामपूर्तिं च स्वस्य सम्यक् करिष्यति।
सम्यग्
ब्राह्मपदावाप्तिं
तद्योग्यां मुक्तिमेव च।
ब्रह्मणोपासितो
दद्याद् गायत्र्याः पुरुषोत्तमः।
अलेपं सर्वपापेभ्यो विशेषेण प्रतिग्रहात्।
तद्योग्यां मुक्तिमन्येषां यथायोग्यमुपासितः।
वक्तव्यो भगवान् विष्णुर्गायत्र्या मुखसंस्थितः।
अग्निमण्डलगो नित्यमग्निनामाऽग्रणीत्वतः।
गायत्र्यास्तु परिज्ञानं ज्ञाते मुखगते हरौ।
सफलं भवेदन्यथा तु न सम्यक् फलदं भवेत्।
गायत्रीमुखगो विष्णुर्ज्ञेयः सर्वात्मना ततः।
संहर्ता सर्वदोषाणामग्निस्थः सर्वदाहकः।
नित्यानन्दोऽग्निवर्णश्च रामः परशुभृत् सदा॥”
इति गायत्रीसंहितायाम्॥ ७/१४॥
“सूर्यमण्डलनाम्ना तु पात्रेण स्वमुखं हरिः।
पिधायैव जगत् सर्वं पश्यत्यमितविक्रमः।
उदकं
पीयते तेन
तमसस्त्रायते जगत्।
यतोऽतः पात्रमुद्दिष्टं विद्वद्भिः सूर्यमण्डलम्।
पूषा पूर्णत्वतो विष्णुर्दृष्टये विष्णुधर्मिणः।
स्वमुखं प्रकाशयेदेकं नान्यथा तु कथञ्चन।
नान्यो यत् तादृशो ज्ञाता
तस्मादेकऋषिर्हरिः।
यमो नियमानात् प्रोक्तः सूर्य ऊरीकृतेरयम्।
ज्ञेयः प्रजापतेरेव प्राजापत्यस्ततः स्मृतः।
प्राणे स्थितो यः पुरुषः सोऽसावहमिति स्मृतः।
अहेयत्वादसुत्वाच्च
मेयत्वादस्मिनामकः।
अदोषत्वाद इत्युक्तो वायुस्तन्निलयो यतः।
अनिलं तत एवासावमृतं चेति कीर्त्यते।
तदाश्रयोऽपि ह्यमृतः किमु साक्षात् स्वयं हरिः।
क्रतुश्च ज्ञानरूपत्वात् स एव हि जनार्दनः।
सोऽग्निरङ्गप्रणेतृत्वात् विश्वज्ञानविदां वरः॥”
इति च।
जुहुराणम् अल्पं कुर्वत्।
न वा अहमिमं जानातीतिवत्।
सर्वत्राप्यहंशब्दोऽहेयवाच्येव॥ ७/१५॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये सप्तमोध्यायः॥
अष्टमोऽध्यायः
प्रथमं ब्राह्मणम्
ॐ॥ “अहं श्रेयोविवादं तु येन कृत्वाऽखिलाः सुराः।
असमर्थाः स्वरक्षायां स वायुः सुरनायकः।
विवदन्तोऽखिला देवा ययुर्नारायणं प्रभुम्।
अहं श्रेयानहं श्रेयानिति वायुपुरःसराः।
उक्तं भगवता तेन येन त्यक्तेऽखिला अपि।
स्थातुं न शक्ताः स श्रेयानित्युक्ताः पुनरागताः।
उत्क्रान्ताश्च पुनः सर्वे
तद्विज्ञप्त्यै
पृथक्पृथक्।
सुपर्णशेषरुद्रेन्द्रसूर्यादिषु पृथक्पृथक्।
उत्क्रान्तेषु ब्रह्मदेहाच्छरीरं न पपात ह।
ऋत उत्क्रान्तमेकं तु तदन्ये निवसन्ति च।
प्राण उच्चिक्रमिषति स्थातुं नाशक्नुवन् परे।
प्राणं विना नच ब्रह्मा तं विना प्राण एव च।
अन्योन्यापाश्रयाच्छक्तौ स्थातुमन्ये कुतस्ततः।
तस्मात् प्राणो वरो देवेष्विति सर्वेऽपि मेनिरे॥”
इति पवमाने॥ ८/१॥
द्वितीयं ब्राह्मणम्
तृतीयं ब्राह्मणम्
चतुर्थं ब्राह्मणम्
पञ्चमं ब्राह्मणम्
॥ इति बृहदारण्यकोपनिषद्यष्टमोऽध्यायः॥
“द्युपर्जन्यधरापुंस्त्रीसंस्थितं पञ्चरूपिणम्।
नारायणं वासुदेवं तथा सङ्कर्षणं प्रभुम्।
प्रद्युम्नं चानिरुद्धं च क्रमाद् ध्यायंस्तु सर्वदा।
पञ्चाग्निविन्नाम भवेत् स याति परमं पदम्।
नास्य संसर्गदोषोऽपि कदाचन भविष्यति॥”
इति त्रैविद्ये॥ ८/२॥
दृष्टादृष्टमहत्त्वम्॥
अनेनोपनिषदुक्तविधानेन जातः पुत्रः प्रायः स्वर्गापवर्गयोग्यो भवतीति
प्रजातिकर्मवचनम्।
“यथोपनिषदं जातो योग्यः स्वर्गापवर्गयोः।
भवेद् यदि मनः पित्रोर्विष्णोर्नान्यत्र गच्छति।
न कुर्याद् यदि कर्मैतन्मनः पित्रोस्तु विष्णुगम्।
दृष्टसामर्थ्यहीनश्च मोक्षयोग्यः स्थिरं यदि।
दृष्टसामर्थ्यवांश्च स्यादाज्ञाद्यैः कारणैः क्वचित्।
विशेषकारणाभावे यथोक्तं नान्यथा भवेत्॥”
इति च।
“नारायणो द्युशब्दोक्तः सर्वदा द्युतिहेतुतः।
वासुदेवस्तु पर्जन्यः परं सञ्जजनयेद् यतः।
सङ्कर्षणस्तु पृथिवी प्रथितत्वात् सदैव हि।
प्रद्युम्नः पुरुषेत्युक्तः पूरयेत् स जगद् यतः।
स्त्रीशब्दोक्तोऽनिरुद्धः स्यात्
सहितस्त्रिषु
यत् सदा।
अनिरुद्धो हि
देवेषु
सर्वदा त्रिषु संस्थितः।
द्युवादिषु प्रसिद्धेषु तत्सम्बन्धाद् द्युवादिकः।
शब्दो भवेत् तथाऽग्न्यादिरदनात् परमो भवेत्।
अङ्गत्वेनार्यते यस्मादङ्गारस्तेन कीर्तितः।
अर्च्यत्वादर्चिरुद्दिष्टो विष्वक्त्वाद्
विष्फुलिङ्गकः।
समेधनाच्च समिधस्तत्रतत्र स्थितो हरिः।
तत्तच्छब्दैः सदा वाच्य इतरे तु तदन्वयात्।
आदित्यो रश्मिरित्याद्याः शब्दाश्चैवमवस्थिताः।
एकैकस्मिन् पञ्चभेदा अर्चिरादिविभागतः।
नारायणादिभेदेन तथैव
प्रतिपादिताः॥”
इति प्रवृत्ते।
“धूत्काराद् धूम उद्दिष्टः शत्रूणां पुरुषोत्तमः।
अर्चिरर्च्यतमत्वाच्च
स्वाङ्गोऽङ्गार इतीर्यते।
अङ्गित्वेनाङ्गरूपेण यत एको व्यवस्थितः॥”
इत्यादि त्रैविद्ये।
“नीचादप्युत्तमा ज्ञानं शृणुयुर्लीलया क्वचित्।
श्रोतृवक्तृविभेदोऽयं नाधिक्यज्ञापकस्ततः।
यस्याधिक्यं तु वेदोक्तं पञ्चरात्रेऽथवा भवेत्।
इतिहासपुराणे
वा सोऽधिको नेतरः क्वचित्॥”
इति ब्रह्मतर्के।
आदानादादित्यः।
रमणाच्छामनाच्च रश्मयः।
अहीनत्वादहः।
चन्दनाच्चन्द्रः।
अस्य क्षत्रमन्यन्नास्तीति नक्षत्रम्।
बहुरूपत्वाद् बहुवचनम्।
ज्ञानादायुष्ट्वाच्च
वायुः।
अन्यैरभरणीयत्वाद् अभ्रम्।
विद्योतनाद् विद्युत्।
अशनादशनिः।
निर्ह्रादनाद् ह्रादुनिः।
आ समन्तात् काशनाद् आकाशः।
सम्यग् वत्सान् रमयतीति संवत्सरः।
आदेशनाद् दिशः।
अवान्तरमादिशतीत्यवान्तरदिशः।
रतिकरत्वाद् रात्रिः।
वचनाद् वाक्।
प्रणयनात् प्राणः।
जहाति गमयतीति जिह्वा।
चष्ट इति चक्षुः।
शृणोतीति श्रोत्रम्।
उपस्थितत्वादुपस्थः।
यापयति नयति चेति योनिः।
अभिनन्दयतीत्यभिनन्दः।
उपमन्त्रणमन्तःकरणं च स एव करोति।
“तदधीनं यतः सर्वं सर्वशब्दैस्ततो हरिः।
मुख्याभिधेयस्त्वन्यानि तत्सङ्गादुपचारतः॥”
इति ब्रह्मतर्के।
“पञ्चाग्निविद्यया चैव तथैव प्राणविद्यया।
प्रजातिकर्मणा चैव तथा ज्ञानप्रदानतः।
आचार्यवंशविज्ञानाद् यः पूज्यः पुरुषोत्तमः।
सर्वान्तर्यामिको
नित्यो नमस्तस्मै परात्मने॥”
इति सद्भावे॥ ८/२॥
नित्यानन्दमनौपमं परमजं सर्वत्रगं सुस्थिरं
सर्वज्ञं प्रतिबोधमात्रममलं पूर्णं गुणैच्युतैः।
विश्वोत्पत्तिलयस्थितिप्रमतिसन्मोक्षे
परं कारणं
प्रेष्ठं मे सततं प्रियात्
प्रियतमं नित्यं
सदोपास्महे॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद् दर्शतमित्थमेव निहितं देवस्य भर्गो महत्।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु-
र्मध्वो यत् तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ॥
“हनुशब्दो ज्ञानवाची हनुमान्
मतिशब्दितः।
रामस्य ह्यृतरूपस्य वाचस्तेनानयन्त हि।
भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः।
ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम्।
प्रोक्ताः सप्तशिवास्तत्र शयो भीमस्ततः स्मृतः।
मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम्।
मध्व आनन्दतीर्थः स्यात् तृतीया मारुतीः तनुः।
इति सूक्तगतं रूपत्रयमेतन्महात्मनः।
यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः॥”
[-]
“साधको रामकार्याणां तत्समीपगतः सदा।
हनुमान्
प्रथमो ज्ञेयो भीमस्तु बहुभुक् पितोः।
पृतनाक्षयकारी
च द्वितीयस्तु तृतीयकः।
पूर्णप्रज्ञस्तथाऽऽनन्दतीर्थनामा प्रकीर्तितः।
दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते।
प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः।
आ समन्तात् पतित्वे तु गूढं कलियुगे हरिम्।
असत्यमप्रतिष्ठं
तु जगदेतदनीश्वरम्।
वदद्भिर्गूहितं सन्तं तृतीयोऽसुर्मथायति।
येन
विष्णोर्हि
वर्पाख्यान् गुणानज्ञासिषुः परान्।
ईशानासः
सूरयश्च निगूढान् निर्गुणोक्तिभिः।
त्रेतायां द्वापरे चैव कलौ चैते क्रमात् त्रयः।
एतेषां परमो विष्णुर्नेता सर्वेश्वरेश्वरः।
स्वयम्भुब्रह्मसञ्ज्ञोऽसौ
परस्मै
ब्रह्मणे नमः॥”
इति च॥
पूर्णागण्यगुणोदारधाम्ने नित्याय वेधसे।
अमन्दानन्दसान्द्राय प्रेयसे विष्णवे नमः॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्येऽष्टमोध्यायः॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं बृहदारण्कोपनिषद्भाष्यम्॥