विषयानुक्रमणिका
- 1. प्रथमोऽध्यायः
- 2. द्वितीयोऽध्यायः
- 2.1. प्रथमः खण्डः
- 2.2. द्वितीयः खण्डः
- 2.3. तृतीयः खण्डः
- 2.4. चतुर्थः खण्डः
- 2.5. पञ्चमः खण्डः
- 2.6. षष्टः खण्डः
- 2.7. सप्तमः खण्डः
- 2.8. अष्टमः खण्डः
- 2.9. नवमः खण्डः
- 2.10. दशमः खण्डः
- 2.11. एकादशः खण्डः
- 2.12. द्वादशः खण्डः
- 2.13. त्रयोदशः खण्डः
- 2.14. चतुर्दशः खण्डः
- 2.15. पञ्चदशः खण्डः
- 2.16. षोडशः खण्डः
- 2.17. सप्तदशः खण्डः
- 2.18. अष्टादशः खण्डः
- 2.19. एकोनविंशः खण्डः
- 2.20. विंशः खण्डः
- 2.21. एकविंशः खण्डः
- 2.22. द्वाविंशः खण्डः
- 2.23. त्रयोविंशः खण्डः
- 2.24. चतुर्विंशः खण्डः
- 3. तृतीयोऽध्यायः
- 3.1. प्रथमः खण्डः
- 3.2. द्वितीयः खण्डः
- 3.3. तृतीयः खण्डः
- 3.4. चतुर्थः खण्डः
- 3.5. पञ्चमः खण्डः
- 3.6. षष्ठः खण्डः
- 3.7. सप्तमः खण्डः
- 3.8. अष्टमः खण्डः
- 3.9. दशमः खण्डः
- 3.10. एकादशः खण्डः
- 3.11. द्वादशः खण्डः
- 3.12. त्रयोदशः खण्डः
- 3.13. चतुर्दशः खण्डः
- 3.14. पञ्चदशः खण्डः
- 3.15. षोडशः खण्डः
- 3.16. सप्तदशः खण्डः
- 3.17. अष्टादशः खण्डः
- 3.18. एकोनविंशः खण्डः
- 4. चतुर्थोऽध्यायः
- 4.1. प्रथमः खण्डः
- 4.2. द्वितीयः खण्डः
- 4.3. तृतीयः खण्डः
- 4.4. चतुर्थः खण्डः
- 4.5. पञ्चमः खण्डः
- 4.6. षष्ठः खण्डः
- 4.7. सप्तमः खण्डः
- 4.8. अष्टमः खण्डः
- 4.9. नवमः खण्डः
- 4.10. दशमः खण्डः
- 4.11. एकादशः खण्डः
- 4.12. द्वादशः खण्डः
- 4.13. त्रयोदशः खण्डः
- 4.14. चतुर्दशः खण्डः
- 4.15. पञ्चदशः खण्डः
- 4.16. षोडशः खण्डः
- 4.17. सप्तदशः खण्डः
- 5. पञ्चमोऽध्यायः
- 5.1. प्रथमः खण्डः
- 5.2. द्वितीयः खण्डः
- 5.3. तृतीयः खण्डः
- 5.4. चतुर्थः खण्डः
- 5.5. पञ्चमः खण्डः
- 5.6. षष्ठः खण्डः
- 5.7. सप्तमः खण्डः
- 5.8. अष्टमः खण्डः
- 5.9. नवमः खण्डः
- 5.10. दशमः खण्डः
- 5.11. एकादशः खण्डः
- 5.12. द्वादशः खण्डः
- 5.13. त्रयोदशः खण्डः
- 5.14. चतुर्दशः खण्डः
- 5.15. पञ्चदशः खण्डः
- 5.16. षोडशः खण्डः
- 5.17. सप्तदशः खण्डः
- 5.18. अष्टादशः खण्डः
- 5.19. एकोनविंशः खण्डः
- 5.20. विंशः खण्डः
- 5.21. एकविंशः खण्डः
- 5.22. द्वाविंशः खण्डः
- 5.23. त्रयोविंशः खण्डः
- 5.24. चतुर्विंशः खण्डः
- 6. षष्ठोऽध्यायः
- 7. सप्तमोऽध्यायः
- 7.1. प्रथमः खण्डः
- 7.2. द्वितीयः खण्डः
- 7.3. तृतीयः खण्डः
- 7.4. चतुर्थः खण्डः
- 7.5. पञ्चमः खण्डः
- 7.6. षष्ठः खण्डः
- 7.7. सप्तमः खण्डः
- 7.8. अष्टमः खण्डः
- 7.9. नवमः खण्डः
- 7.10. दशमः खण्डः
- 7.11. एकादशः खण्डः
- 7.12. द्वादशः खण्डः
- 7.13. त्रयोदशः खण्डः
- 7.14. चतुर्दशः खण्डः
- 7.15. पञ्चदशः खण्डः
- 7.16. षोडशः खण्डः
- 7.17. सप्तदशः खण्डः
- 7.18. अष्टादशः खण्डः
- 7.19. एकोनविंशः खण्डः
- 7.20. विंशः खण्डः
- 7.21. एकविंशः खण्डः
- 7.22. द्वाविंशः खण्डः
- 7.23. त्रयोविंशः खण्डः
- 7.24. चतुर्विंशः खण्डः
- 7.25. पञ्चविंशः खण्डः
- 7.26. षड्विंशः खण्डः
- 8. अष्टमोऽध्यायः
उपोद्घातः
ॐ॥ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि।
सर्वं ब्रह्मौपनिषदम्।
माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत्।
अनिराकरणमस्त्वनिराकरणं मेऽस्तु।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु।
ॐ शान्तिः शान्तिः शान्तिः॥
ॐ॥ अत्युद्रिक्तविदोषसत्सुखमहाज्ञानैकतानप्रभा- सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम्। सृष्टिस्थाननिरोधनित्यनियतिज्ञानप्रकाशावृति- ध्वान्तामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे॥ *॥
हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमापतिम्। अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम्॥ *॥
प्रथमोऽध्यायः
प्रथमः खण्डः
ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओमिति ह्युद्गायति तस्योपव्याख्यानम्॥ १॥
एषां भूतानां पृथिवी रसः पृथिव्या आपो रसः ।
अपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः॥ २॥
स एष रसानाꣳ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः॥ ३॥
कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति॥ ४॥
वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः ।
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च॥ ५॥
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सं सृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम्॥ ६॥
आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते॥ ७॥
द्वा एतदनुज्ञाक्षरं यद्धि किञ्चानुजानात्योमित्येव तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते॥ ८॥
तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति शं सत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन॥ ९॥
तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ।
नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति
खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति। अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीत तस्येतरैः प्राणैरुपव्याख्यानं भवति॥ १०॥
॥ इति प्रथमः खण्डः॥
ओमितिनामकम्
अक्षरं
सर्वसन्निहितत्वात्
एतत्।
उच्चत्वाद् गीतत्वात् सर्वस्थानत्वाच्च
उद्गीथं
भगवन्तम्
उपासीत।
उक्तं च महासंहितायाम्-
“हयग्रीवोद्गीतवाक्यै रमादेवी रमापतिम्। ओमित्येतन्मुखैर्देवमस्तुवत् सामवेदगैः॥”
इति।
“ओंनामानमुपासीत तदर्थगुणपूर्वकम्। ओतत्वादवनान्मानदधिकोच्चत्वकारणात्। आनन्दादोजसश्चैव भरणादोमुदाहृतः॥”
इति समन्वये॥
“ओतमस्मिन् जगत् सर्वमत्युच्चश्चाखिलैर्गुणैः। इत्योमिति सदोपास्यः सोऽक्षयः पुरुषोत्तमः। उच्चत्वाद् गीयमानत्वात् स्थानादुद्गीथ उच्यते। ओमित्येनं समुद्दिश्य ह्युद्गाता गायति स्फुटम्। विष्णोरोमिति नाम्नोऽस्य व्याख्यानमधिकोच्चता। अकारेणाधिकं प्रोक्तमुकारेणोच्चमुच्यते। तथा मितं सर्ववेदैर्मकारेणाभिधीयते। अधिकोच्चमिति ज्ञातमोमित्यस्यार्थ ईरितः॥ तदेतत् परमत्वं तु यथाक्रममुदीर्यते। देवतानुक्रमज्ञाश्च विष्णोः परमताविदः। एकान्तिनस्ते विज्ञेया यथाक्रमपरास्तथा। अस्मादसावुच्च इति क्रमस्यान्तगतं हरिम्। एकमेव तु ये विद्युस्ते ह्येकान्तिन ईरिताः। एवं यथाक्रमज्ञाश्च सदैकान्तपरायणाः। प्रविशन्ति परं देवं नारायणमनामयम्। उच्चक्रमान्तगत्वेन कुर्युः पूजां हरेः सदा। लक्ष्म्यादेः क्रमशः पूजां ज्ञात्वा भागवता इति। स्वतन्त्रपूज्यताबुद्ध्या न दद्युः किं च कस्यचित्। ब्रह्माद्या मनुसञ्ज्ञा ये वर्णत्वेनोदिताः श्रुतौ। मानवाख्याश्च मुनयस्तान् यजन्ति नचेतरान्। पितृत्वेन गुरुत्वेन साक्षाद् भागवतत्वतः। अपभ्रष्टा अदेवाश्च ब्रह्माद्याख्यायुता अपि। देवसञ्ज्ञाश्च दीनत्वात् पूजयेयुर्न तान् क्वचित्। यद् भागवतबुद्ध्यैव दत्तं ब्रह्मादयः सुराः। वैदिकाः प्रतिगृह्णीयुरपभ्रष्टास्तथेतरत्। यथाक्रमपरिज्ञानादेकान्तित्वाच्च केवलम्। अच्छिद्रत्वाच्च नियतो मोक्षोऽन्यत् तु विडम्बनम्। विष्णौ भक्तिर्विशेषेण मोक्षावाप्तौ हि कारणम्। तद्भक्तेषु क्रमेणैव रमाद्येषु त्वनन्तरम्। तृतीयमपि वैराग्यं नचान्यन्मोक्षकारणम्। एतत्साधनताहेतोस्तदन्यद्धि विधीयते। अतोऽन्यसर्वकृच्चापि गच्छेदेवाधरं तमः। अस्मिन् सुनिष्ठितो नित्यं मोक्ष्येवान्योज्झकोऽपि सन्। अतस्तेषां क्रमं वक्ष्ये देवानां यः श्रुतौ श्रुतः। पृथिवी सर्वभूतेभ्यः सदा सर्वगुणैर्वरा। रसः सारो वरश्चेति शब्दा एकार्थवाचकाः। पृथिव्या वरुणः श्रेष्ठस्तस्मादोषधिदेवता। सोमस्तस्मात् तु पुरुषो रुद्रो यत् पौंस्यदेवता। तस्मात् सरस्वती वाग्घि श्रेष्ठाऽस्या ऋक्स्वरूपिणी। सैव श्रेष्ठा ततो वायुर्वरिष्ठः सामनामकः। समत्वात् सर्वभूतेषु साम साम्नां च देवता। ततः श्रेष्ठतमो विष्णुः श्रेष्ठश्रेष्ठतमः सदा। श्रेष्ठाच्छ्रेष्ठतमाच्चापि परमात् परमो विभुः। परमर्द्धियुतत्वाच्च परार्द्ध्य इति कीर्तितः॥”
इति सारनिर्णये।
अतिशयेन परमर्द्धिगुणः
परमः परार्द्ध्यः।
उत्तमेभ्योऽप्यतिपरमोत्तमोत्तमो
रसानां रसतमः परमः परार्द्ध्यः।
रसानां सकाशादपि
परमपरार्द्ध्यरसतम
इत्यर्थः।
प्राणादीनां भूतादिभ्यः श्रेष्ठत्ववदस्य श्रेष्ठत्वं न भवति, किन्तु महान् विशेष इति ज्ञापयितुं
‘रसानां रसतमः’
इत्यादि बहुविशेषणम्।
भूतेभ्यः पृथिव्या रसत्वम्।
तेभ्यो वरुणस्य रसतरत्वम्।
सोमस्य रसतमत्वम्।
रुद्रस्य परमरसतमत्वम्।
वाचः परमर्द्धरसतमत्वम्।
प्राणस्य परमपरर्द्धरसतमत्वम्।
अयं तु भगवान् प्राणादपि
परमपरार्द्धरसतममात्रो
न भवति, किन्तु प्राणस्यापि रसभूताया रमाया अपि परमपरार्द्ध्यरसतमः।
अस्मादप्यतिशयेन परमित्यसङ्ख्यागोचरत्वेन परार्द्धेन ज्ञेयं हि परार्द्ध्यम्।
ऋग्रूपाया वाचः पृथक् परत्वाङ्गीकारेऽपि भूतेभ्यः प्राणस्य परमपरार्द्धरसतमत्वमेव।
नतु परमपरार्द्धिरसतमत्वम्।
परस्मादप्यासमन्तादृद्धं हि परार्द्धम्।
तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्द्ध्यम्।
परार्द्धोत्तमं परार्द्धि।
तेनासङ्ख्यागोचरत्वेन
ज्ञेयं परार्द्ध्यमित्यतः परार्द्धित्वं श्रियो भवति।
श्रियोऽपि परार्द्ध्यो भगवान्।
अतो
रसानां रसतमः परमः परार्द्ध्यः॥
पृथिव्याः सोमवरुणयोश्चौषध्यब्देवतात्वेन रुद्रस्य च लिङ्गदेवतात्वेन प्रसिद्धेः, ऋगादीनामेव विमर्शः क्रियते-
कतमा कतमर्गित्यादिना॥
तज्ज्ञानस्य विशिष्टफलत्वाच्च।
वाचश्च सरस्वतीत्वेन प्रसिद्धेर्वागृचोरैक्याच्च न विमर्शः कृतः।
“विशेषात् प्राणसंयुक्ता वागृगित्यभिधीयते। ऋ गताविति धातोर्हि ऋक्त्वं सर्गाभिमानिनी। विशेषसंयोगहीना यदा सैव सरस्वती। तदा तस्या वरा सैव प्राणसंयोगिनी मता। प्राणयोगवियोगाभ्यां सैषैकाऽपि विभिद्यते। वागेवर्क् तच्छ्रुतौ प्रोक्ता प्राणः सामेति कीर्तितः। अक्षयाद् रतिरूपत्वादक्षेषु रमणादपि। अक्षरं भगवान् विष्णुरोमित्युच्चत्वहेतुतः। इतिशब्दोऽन्यथाभावनिवृत्त्यर्थ उदाहृतः। एवमत्युच्च एवासौ सर्वदैतद्धृदि स्थितः। उद्गीयमान उद्गीथो भगवान् पुरुषोत्तमः॥ तस्मादोमित्यनुज्ञानं कुर्वन्त्येते जनाः सदा। त्वदुक्तं तत् तथा कुर्याद् भगवानेव केशवः। इत्यभिप्रायतः शब्दः प्रवृत्तः स पुरातनैः। तदेतदज्ञैस्तु जनैः स्वानुज्ञेति प्रतीयते। ओमित्ययं पूर्णवाची समृद्धिर्ह्योमितीरिता। समृद्धस्ते हि कामोऽयमित्यनुज्ञाऽथवा भवेत्। अतः समृद्धिवाची स्याद्धरेरोंशब्द ईरितः। इति वा दीयतेऽनुज्ञा हरिस्तव समृद्धिदः॥ वाक्प्राणौ दम्पती चापि संसृज्येते जनार्दने। मुक्तौ तु तत्प्रसादेन संसृज्यन्ते ततः परे। तद्द्वारेणैव साक्षात् तु प्राणः संसृज्यते हरौ॥ तेनैव विष्णुनेयं च त्रयी विद्या प्रवर्तते। ओमित्युक्त्वा हि तद्व्याख्या सर्वैर्मन्त्रैः प्रवर्तते। ओन्नामकस्य पूजार्थं विष्णोरेव सदैव हि। महिम्ना सारभूतेन विष्णुना ज्ञोऽज्ञ एव च। कुरुतः कर्म, नाज्ञस्य मुक्तिर्ज्ञस्य भवेत् तु सा। स्वयोग्यं तु परिज्ञानं यत् तस्योपनिषत् स्मृतम्। अक्षरं भगवान् विष्णुस्तस्योप प्रणवः स्मृतः। उपव्याख्या तु तद्व्याख्येत्येवमाह श्रुतिः परा॥”
इति तार्तीये॥
“परर्द्धं परमादुच्चं परार्द्धं तु ततोऽधिकम्। ततोऽधिकं परार्द्धि स्यात् परार्द्ध्यमिति तत्परम्। परतः परमाच्चैव परार्द्धो वायुरीरितः। परार्द्धिनी श्रीरुद्दिष्टा परार्द्ध्यो भगवान् हरिः॥”
इति शब्दनिर्णये॥ *॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते छान्दोग्योपनिषद्भाष्ये प्रथमेऽध्याये प्रथमः खण्डः॥
द्वितीयः खण्डः
देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति॥ १॥
ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे तꣳ हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः॥ २॥
अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे तां हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा॥ ३॥
अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विद्धम्॥ ४॥
अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद्विद्धम्॥ ५॥
अथ ह मन उद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं सङ्कल्पते सङ्कल्पनीयं चासङ्कल्पनीयं च पाप्मना ह्येतद्विद्धम्॥ ६॥
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तꣳ हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वं सेतैवम्॥ ७॥
यथाश्मानमाखणमृत्वा विध्वꣳ सत एवꣳ हैव स विध्वꣳ सते य एवंविदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माखणः॥ ८॥
नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु एवान्ततोऽवित्त्वोत्क्रामति व्याददात्येवान्तत इति॥ ९॥
तꣳ हाङ्गिरा उद्गीथमुपासाञ्चक्र एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसः॥ १०॥
तेन तꣳ ह बृहस्पतिरुद्गीथमुपासाञ्चक्र एतमु एव बृहस्पतिं मन्यन्ते वाग्घि बृहती तस्या एष पतिः॥ ११॥
तेन तꣳ हायास्य उद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद्यदयते॥ १२॥
तेन तꣳ ह बको दाल्भ्यो विदाञ्चकार । स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति॥ १३॥
आगाता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम्॥ १४॥
॥ इति द्वितीयः खण्डः॥
उद्गीथाख्यस्य विष्णोर्विशिष्टप्रतिमा
वायुरेव।
अतस्तस्य सर्वोत्तमत्वज्ञानपूर्वकं तस्मिंस्ततोऽप्युत्तमत्वेनोपासित एव भगवान् सम्यक् फलं ददातीति दर्शयति।
“वायौ मुख्यधिया”भागवतम् ११/११/४४
इति च भगवद्वचनम्।
“यस्माद् वायौ स्मृतो विष्णुर्वायोर्मुख्यतयाऽखिलात्। स्वस्य मुख्यतया तस्मात् परां तुष्टिं गमिष्यति। अतो विचार्य सकलैर्देवैः प्राणे जनार्दनः। उपासितो दैत्यजयकारणात् पापवर्जिते। वायुपुत्रं च नासिक्यमग्निं वागात्मकं तथा। सोमं श्रोत्रात्मकं चैव सूर्यं चक्षुःस्वरूपिणम्। रुद्रं मनःस्वरूपं च शेषं चाहंस्वरूपिणम्। चित्तात्मकं च गरुडं पापेन विविधुः सुरान्। असुरास्तैर्यतो विद्धास्तस्मात् ते दोषयोगिनः। मुख्यवायौ यदा देवाः शरीरस्थे च सूर्यगे। विष्णुमुद्गीथनामानं तदा तं च विदध्वसुः। यदा विदध्वसुः प्राणं विध्वस्तास्ते तदाऽसुराः। अखन्याश्मानमेवाप्य लोष्टो विध्वंसते यथा। प्रतिमां प्रेयसीं प्राप्य विष्णोः प्राणं तथाऽसुराः। तस्मादादित्यसंस्थे वा शरीरस्थेऽपि वाऽनिले। बलज्ञानात्मके दिव्याकृतिमत्युज्ज्वलात्मनि। सर्वदेवोत्तमं विष्णुमुपासीत ततोऽधिकम्। अस्योपासनया देवाः सर्वनामानि भेजिरे। इन्द्रो बृहस्पतिः शम्भुरित्याद्याः प्राणगा यतः। प्राणस्य नामशब्दाश्च मुख्यतो विष्णुसंस्थिताः॥”
इति प्रध्याने॥
“उद्गीथाख्यं परं विष्णुमुपास्त्याजह्रुरञ्जसा। तथाऽपि प्राण एवासौ प्रीतिमागादुपासितः॥”
इति च॥
“प्राणं प्राप्यैव विध्वस्ता यथा सर्वेऽसुरास्तथा। तदुपासकस्य यश्चापि प्रतीपं दातुमिच्छति॥”
इति च॥
“एवं विदित्वा संसारान्मुक्तिमेष्यत्यसंशयम्। विष्णुमप्यन्ततो वेत्ति प्राणवेत्ता यतः स्फुटम्। वीति विष्णुः समुद्दिष्टो विशिष्टत्वात् तु सर्वतः। आददात्येव तं प्राणवेत्ताऽन्ते तत्प्रसादतः। प्राणात् परं तु ये विष्णुं जीवांश्चैवावरांस्ततः। ये विदुस्ते विदुः प्राणं नान्यथा तु कथञ्चन॥”
इति च॥
“प्राण उद्गीथ इत्याद्या नामब्रह्मादिकास्तथा। सप्तम्यर्थाः समुद्दिष्टाः सप्तसु प्रथमा यतः। प्राणमुद्गीथमित्याद्या द्वितीया सप्तमी मता॥”
इति च॥
तृतीयः खण्डः
अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति । उद्यं स्तमो भयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद॥ १॥
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत॥ २॥
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः । अथ यः प्राणापानयोः सन्धिः स व्यानो यो व्यानः सा वाक् । तस्मादप्राणन्ननपानन्वाचमभिव्याहरति॥ ३॥
या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति॥ ४॥
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानं स्तानि करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत॥ ५॥
अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह गिर इत्याचक्षतेऽन्नं थमन्ने हीदं सर्वं स्थितम्॥ ६॥
द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य एवोद्वायुर्गीरग्निस्थं सामवेद एवोद्यजुर्वेदो गीर्ऋग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति॥ ७॥
अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत्॥ ८॥
यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत्॥ ९॥
येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्तं स्तोममुपधावेत्॥ १०॥
यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत्॥ ११॥
आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति॥ १२॥
॥ इति तृतीयः खण्डः॥
“आदित्यसंस्थितो नित्यं प्राणस्तपति नापरः। प्रकाशनं च तपनं काष्ठवत् सूर्यगं भवेत्। सूर्यमण्डलगो वायुरुदयास्तमयोज्झितः। अपि प्रजाभ्य उद्यंश्चैवोद्गायति जनार्दनम्। आदित्यमण्डलस्थश्च सर्वप्राणिगतस्तथा। वायुः समान एवायमुष्णोऽसावपि च स्फुटम्। तस्मादस्मिन्नमुष्मिन् वाऽप्युद्गीथाख्यं जनार्दनम्। उपासीत विमोक्षाय सर्वकामाप्तये तथा॥”
इति च॥
“केशवः स्वः स्वतन्त्रत्वात् तद्रतेर्मारुतः स्वरः। शरीरस्थश्च सूर्यस्थः प्रतिप्रत्या समन्ततः। मां प्रतीत्यत एवासौ प्रत्यास्वर उदाहृतः। प्राणाद्यास्त्रिविधाः पञ्च प्रधानो वायुरेव च। मुख्यपञ्चकरूपः सन् गरुडो मध्यपञ्चकः। अवमः पञ्चकस्त्वन्ये प्राणाद्यास्तस्य सूनवः। इति त्रेधा विभागोऽयं विभागोऽन्यश्चतुर्थकः। प्राणापानौ शेषवीन्द्रौ तथोदानसमानकौ। रुद्रेन्द्रौ तत्परः श्रेष्ठो वायुर्व्यान उदाहृतः। तस्मिन्नुद्गीथनामानमुपासीत हरिं परम्। योऽसौ व्यानगतो विष्णुः स वागृक्सामगः सदा। उद्गीथे च स एवैकस्तस्माद् व्यानाद्धि तत्क्रियाः। उद्गीथनामा भगवान् स्थितो व्यानादिपञ्चके । वीर्यवत् कर्मकृत् तस्माद् व्यान एव ह्युदाहृतः। तस्माद् व्यानगतं विष्णुमुपासीतैव नित्यशः। यद्यप्येको हि भगवान् सर्वदा सर्ववस्तुगः। अनूनोद्रिक्तमहिमो निर्विशेषः सदैव च। तथाऽपि तत्क्रियाभेदान्नामरूपादिकं पृथक्। उच्यते ह्यपृथक्त्वेऽपि पूर्णैश्वर्यैकहेतुतः। अविशेषोऽपि भगवान् सर्वशक्तित्वहेतुतः। विशेषहेतुकं सर्वं करोत्यविकृतः सदा। उद्गीथाक्षरगं चैव प्राणादिषु च संस्थितम्। आशीःसमृद्धिहेतुष्वप्यखिलेषु व्यवस्थितम्। एकमेव हरिं वेद यः स सर्वेष्टमाप्नुयात्॥”
इति च॥
“उच्छब्दवाच्याः प्राणाद्या वागाद्या गीरितीरिताः। अन्नाद्यास्थमिति प्रोक्तास्तेषूद्गीथो हरिः स्थितः॥”
इति च॥
आत्मानं
परमात्मानम्
अन्ततः
सर्वोत्तमत्वेन सर्वत्र
उपसृत्य॥ *॥
चतुर्थः खण्डः
ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम्॥ १॥
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशꣳ स्ते छन्दोभिरच्छादयन्यदेभिरच्छादयꣳ स्तच्छन्दसां छन्दस्त्वम्॥ २॥
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि । ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन्॥ ३॥
यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवꣳ सामैवं यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन्॥ ४॥
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरꣳ स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति॥ ५॥
॥ इति चतुर्थः खण्डः॥
“स्वरतेस्तु स्वरो विष्णुस्तद्रतेर्वायुरुच्यते। वायुस्वरे स्वरं विष्णुमोमाख्यं समुपासिरे। देवास्तेनामृतं प्राप्ता मुक्त्याख्यं मृत्युवर्जिताः। मारणान्मृत्युरित्युक्ता दुर्गा तद्भयतः सुराः। ओमित्युपास्य तं विष्णुं परमामृतमापिरे॥”
इति सन्ध्याने॥
ऊर्ध्वाः
उत्तमाः॥ *॥
पञ्चमः खण्डः
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति ह्येष स्वरन्नेति॥ १॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच रश्मीꣳ स्त्वं पर्यावर्तयाद्बहवो वै ते भविष्यन्तीत्यधिदैवतम्॥ २॥
अथाध्यात्मं य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति॥ ३॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणाꣳ स्त्वं भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति॥ ४॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति॥ ५॥
॥ इति पञ्चमः खण्डः॥
“आदित्यसंस्थितो वायुः प्रणवस्तद्गतो हरिः। प्रकृष्टत्वाच्च नेतृत्वाद् गतित्वादखिलस्य च। उद्गीथ उच्चैर्गेयत्वात् स एव पुरुषोत्तमः। स एव प्राणगो देह ओमित्येव सदा जपन्। एत्येष भगवान् विष्णुर्ध्यायन्नेकं तमक्षरम्। एकपुत्रो मुक्तिमेति ध्यायन् प्राणेषु रश्मिषु। बहुपुत्रो विमुक्तः स्यात् तस्माद् ध्यायेत् तथा परम्॥”
इति च।
प्राणस्थं
भूमानम्
अभिगाय।
दुरुद्गीतमनुसमाहरति
अनुरूपमेव करोति।
होतृषदनस्थमग्निस्थं भगवन्तं ध्यात्वा।
“अन्यथागानजं दोषमग्नौ ध्यात्वा हरिं परम्। अपाकरोति तस्मात् तं ध्यायेदेवाग्निगं सदा॥”
इति त्रैविद्ये॥ *॥
षष्ठः खण्डः
इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयत इयमेव साग्निरमस्तत्साम॥ १॥
अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तत्साम॥ २॥
द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते द्यौरेव सादित्योऽमस्तत्साम॥ ३॥
नक्षत्राण्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम॥ ४॥
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते॥ ५॥
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः॥ ६॥
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद॥ ७॥
तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम्॥ ८॥
॥ इति षष्ठः खण्डः॥
“अग्नीरसूर्यनीलेषु वायुः स्थः सामदेवता। उर्वीवियद्द्युशुक्लेषु ऋग्देवी स्था सरस्वती। सेति भार्या हि वाग्देवी प्राणोऽमः पतिरीरितः। एवं तौ सामनामानावुभावेवाप्युदाहृतौ। अतो हि सामवेदोऽयं ऋक्सामात्मक ईरितः। वागादिष्वेवमेवैतौ वाक्प्राणौ सर्वदा स्थितौ। तयोरन्तःस्थितो विष्णुर्गायकौ तस्य तावुभौ। ऋक्सामभ्यां स उन्नामा पापोद्गश्चोच्च एव च॥”
इत्यादि सत्तत्त्वे।
“कप्यासरक्तपद्माक्षः सूर्यगश्चाक्षिगश्च सः। गायकस्तस्य विष्णोर्यः स स्वर्ग्यांश्च नृलोकगान्। कामान् दद्यान्नरश्चेत् स्यात् सुराणां च नृणामपि। मोक्षदो यदि वायुः स्यान्मुख्योद्गाता ततोऽनिलः॥”
इति च॥
तस्मादुद्गीथ उच्चोऽसौ गीयते चेति॥ *॥
सप्तमः खण्डः
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । वागेव सा प्राणोऽमस्तत्साम॥ १॥
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । चक्षुरेव सात्मामस्तत्साम॥ २॥
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । श्रोत्रमेव सा मनोऽमस्तत्साम॥ ३॥
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यम्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्साम॥ ४॥
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम॥ ५॥
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः॥ ६॥
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्ताꣳश्चाप्नोति देवकामाꣳश्च॥ ७॥
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताꣳश्चाप्नोति मनुष्यकामाꣳश्च तस्मादु हैवंविदुद्गाता ब्रूयात्॥ ८॥
कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य एवं विद्वान्साम गायति साम गायति॥ ९॥
॥ इति सप्तमः खण्डः॥
आत्मा जीवः।
“सरस्वती हि चक्षुःस्था जीवस्थो वायुरीरितः। विदित्वा तावुभौ देवौ तद्गं ध्यायेद्धरिं सदा॥”
इति मानसे।
“दृश्यते ज्ञानदृष्ट्या यः सूर्ये चक्षुषि चैकराट्। ऋङ्नामा ज्ञानरूपत्वात् साम नित्यसमत्वतः। उक्थमुत्थापकत्वाच्च यजुर्याज्यस्वरूपतः। ब्रह्मासौ पूर्णरूपत्वादेवं सर्वाभिधानवान्॥”
इति च।
“यथा बदरिकानाथो द्वारकानाथ इत्यपि। अर्वाङ्नाथः पराङ्नाथ इति तद्वदिहोच्यते। सर्वनाथोऽपि भगवान् सन्निधानविशेषतः॥”
इति च॥ *॥
अष्टमः खण्डः
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति॥ १॥
तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचꣳ श्रोष्यामीति॥ २॥
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच॥ ३॥
का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाच॥ ४॥
अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य का गतिरिति न स्वर्गं लोकमति नयेदिति होवाच स्वर्गं वयं लोकं सामाभिसंस्थापयामः स्वर्गसꣳ स्तावꣳ हि सामेति॥ ५॥
तꣳ ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति॥ ६॥
हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमति नयेदिति होवाच प्रतिष्ठां वयं लोकꣳ सामाभिसꣳ स्थापयामः प्रतिष्ठासꣳ स्तावꣳ हि सामेति॥ ७॥
तꣳ ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाच॥ ८॥
॥ इत्यष्टमः खण्डः॥
नवमः खण्डः
अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्॥ १॥
स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान्परोवरीयाꣳसमुद्गीथमुपास्ते॥ २॥
तꣳ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिंल्लोके जीवनं भविष्यति॥ ३॥
तथामुष्मिल्ँलोके लोक इति स य एतमेवं विद्वानुपास्ते परोवरीय एव हास्यास्मिल्ँलोके जीवनं भवति तथामुष्मिंल्लोके लोक इति लोके लोक इति॥ ४॥
॥ इति नवमः खण्डः॥
“अग्निः सामाभिमानी स्याद् वरुणस्तु स्वरात्मकः। प्राणावराभिमानी तु सूर्य एव प्रकीर्तितः। अन्नाभिमानी दक्षश्च शक्रस्त्वबभिमानवान्। द्य्वात्मकश्च शिवः प्रोक्तः क्रमेणैवोत्तरोत्तराः। क्रमेण मोक्षे प्राण्याश्च पूर्वेषामुत्तरोत्तराः॥”
इति निवृत्ते।
अग्नेर्वागात्मकत्वात्।
स्वरस्योदकात्मकत्वात्।
“आदित्य एव प्राणोऽन्नं वै प्रजापतिः”
इति श्रुतेः।
“आप एवेन्द्रो द्यौर्वाव रुद्रः”
इत्यादेश्च।
“विशेषज्ञानसम्प्राप्त्यै जानन्तोऽपि परं हरिम्। ब्रूयुर्देवाश्च ऋषयस्तदन्यस्य परात्मताम्॥”
इति ब्रह्मतर्के।
स्वर्गाभिमानिरुद्रं प्रति
सामाभिसंस्थापयामः।
तत्स्तावकं हि साम।
मूर्धा ते विपतेदिति यः
कश्चिद्
ब्रूयात्
चेत्
विपतिष्यति।
“ब्रह्मैव हि पृथिव्यात्मा, विष्णुराकाशनामकः। आदीप्तत्वाद् वरीयांश्च परमो हरिरेव हि॥”
इति सत्तत्त्वे।
“शुभाशुभानां दाहादौ साम्यात् सामाग्निरीरितः। स्वो विष्णुः सागरे रन्ता वरुणोऽतः स्वरः स्मृतः। उदयाज्जगत्प्रणेतृत्वात् सूर्यः प्राण उदाहृतः। अत्ता रुद्रस्तद्विरोधाद् दक्षः स्यादन्ननामकः। स्वो विष्णुस्तद्रतिर्वायुस्तद्गो मुक्तौ सदाशिवः। अतः स्वर्गोऽसुसंस्थत्वादसाविति च कीर्तितः। सर्वदेवान्तरत्वात् तु ब्रह्माऽयं समुदाहृतः। लोको ज्ञानस्वरूपत्वादेतेषां परमो हरिः॥”
इति ब्रह्मतर्के।
आ पालनादाप इन्द्रः।
अधिकं वरीयान्
परोवरीयान्।
तत्
परोवरीयोऽस्य
रक्षकं
भवति।
यावत्तः
द्वापरादिपर्यन्तम्॥ *॥
दशमः खण्डः
मटचीहतेषु कुरुष्वाचिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास॥ १॥
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तꣳ होवाच । नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति॥ २॥
एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतꣳ स्यादिति होवाच॥ ३॥
न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानमिति॥ ४॥
स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ॥ ५॥
स ह प्रातः सञ्जिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्राꣳ राजासौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति॥ ६॥
तं जायोवाच हन्त पत इम एव कुल्माषा इति तान्खादित्वामुं यज्ञं विततमेयाय॥ ७॥
तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश स ह प्रस्तोतारमुवाच॥ ८॥
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति॥ ९॥
एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति॥ १०॥
एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते ह समारतास्तूष्णीमासाञ्चक्रिरे॥ ११॥
॥ इति दशमः खण्डः॥
“उपला इष्टकाः स्थूला मटचीति प्रकीर्तिताः”
इति शब्दनिर्णये।
“आसन्नयौवना योषिदाटकीत्यभिधीयते”
इति च।
“प्रद्रवन्नन्नपानार्थं प्रद्राणक इतीरितः”
इति च॥ *॥
एकादशः खण्डः
अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच॥ १॥
स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषं भगवतो वा अहमवित्त्यान्यानवृषि॥ २॥
भगवाꣳस्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ तर्ह्येत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच॥ ३॥
अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति॥ ४॥
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्तिप्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति॥ ५॥
अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति॥ ६॥
आदित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेतविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति॥ ७॥
अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति॥ ८॥
अन्नमिति होवाच सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति॥ ९॥
॥ इत्येकादशः खण्डः॥
“प्राणस्थविष्णुना सर्वे प्रसूयन्ते यतस्ततः। प्रस्तावदेवता स स्यात् प्रस्तावस्तु जनिर्यतः। आदित्यसंस्थितो विष्णुर्यत् सदा सर्वगीतभुक्। राजादौ गीतमप्यज्ञैर्भुङ्क्ते गानस्य देवता। उद्गीथदेवता तस्मात् स एव पुरुषोत्तमः। अन्नस्थेनैव जीवन्ति भूतान्येतानि विष्णुना। प्रतिहारदेवताऽतः स प्रतिहारो हि भोजनम्॥”
इति च।
उच्चैः सन्तम्
उत्तमं सन्तम्॥ *॥
द्वादशः खण्डः
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज॥ १॥
तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा इति॥ २॥
तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार॥ ३॥
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सꣳरब्धाः सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हिं चक्रुः॥ ४॥
ओ३मदा३मों३ पिबा३मों३ देवो वरुणः प्रजापतिः सविता२न्नमहा२हरदन्नपते३ । न्नमिहा२हरा२हरो३मिति॥ ५॥
॥ इति द्वादशः खण्डः॥
दल्भपुत्रो बको मित्रया पुत्रार्थं स्वीकृतो
ग्लाववत्
तूष्णीं स्थितत्वात् तया ग्लावेत्युक्तो ग्लावनामको जातः।
अत उभयथाऽस्य निर्देशो भवतीत्यर्थः।
“प्रसादार्थं बकस्यापि वायुनोक्तः श्वरूपिणा। शौवोद्गीथ इति प्रोक्तो रुद्रादीनां श्वरूपिणाम्। उपासितः पौर्णमास्यां शौवोद्गीथेन केशवः। सर्वाभीष्टं ददातीति प्रातरित्याह मारुतः। ओमदामादिकं मन्त्रं वायुनोक्तं तु देवताः। वायुस्थविष्णुमुद्दिश्य हिङ्कृत्य प्रापुरीप्सितम्। देवौ विष्णुश्च वायुश्च सर्वज्ञत्वात् क्रमेण तु। वरुणौ वरणीयत्वात् सवितारौ प्रसूतितः। प्रजानां च पती तद्वत् क्रमादेव प्रकीर्तितौ॥”
इति च॥ *॥
त्रयोदशः खण्डः
अयं वाव लोको हाउकारो वायुर्हाइकारश्चन्द्रमा अथकारः । आत्मेहकारोऽग्निरीकारः॥ १॥
आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोयिकारः प्रजापतिर्हिङ्कारः प्राणः स्वरोऽन्नं या वाग्विराट्॥ २॥
अनिरुक्तस्त्रयोदशः स्तोभः सञ्चरो हुङ्कारः॥ ३॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेवꣳ साम्नामुपनिषदं वेदोपनिषदं वेदेति॥ ४॥
॥ इति त्रयोदशः खण्डः॥
॥ इति छान्दोग्योपनिषदि प्रथमोऽध्यायः॥
“हूयतेऽत्राग्निहोत्रादिर्हावुकारस्त्वियं यतः। हेत्याश्चर्यवदायाति हेति वा सुखकृत्त्वतः। हायिकारस्ततो वायुरथेत्युक्तमनन्तरम्। आनन्तर्यात् प्रकाशस्य सूर्याच्चन्द्रस्तथेरितः। सर्वसामीप्यतो विष्णुरिहेति कथितः सदा। इन्धनादग्निरीकार ऊकारः सूर्य उष्टितः। नितरामाह्वयन्त्येनमितीन्द्रो निहवः स्मृतः। एतीत्येकार एवासावौहोयीत्यखिलाः सुराः। उच्चत्वाद् विष्णुरुः प्रोक्तो हूयन्तेऽस्मिन् यतोऽखिलाः। मुक्तावौहोयिनस्तस्मात् सर्वे देवाः प्रकीर्तिताः। हीति निश्चय उद्दिष्टो निश्चयज्ञानतः सदा। ब्रह्मा हिङ्कार इत्युक्तो वायुः प्राणः शरीरगः। स्वे विष्णौ रमयत्येनं जीवं तस्मात् स्वरः स्मृतः। ययिर्नित्यगतेर्वायुस्तद्गा याया सरस्वती। सैवान्नदेवता प्रोक्ता याऽत्रा प्राणेन नीयते। सर्ववागात्मिका या तु श्रीर्विशेषेण राजनात्। विराडुक्ताऽनिरुक्तस्तु व्याप्तो नारायणस्तु यः। आहूत एव पातीति हुप्कार इति कीर्तितः। हुबित्याक्रियते यस्माद्धुप्कारस्तु जनार्दनः। अनिरुक्तस्त्ववाच्यत्वात् परमः पुरुषो हरिः॥”
इति माहात्म्ये।
सम्यक् चरतीति स एव
सञ्चरः।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते छान्दोग्योपनिषद्भाष्ये प्रथमोऽध्यायः॥
Loading…