छान्दोग्योपनिषद्भाष्यम्

ॐ॥ अत्युद्रिक्तविदोषसत्सुखमहाज्ञानैकतानप्रभा- सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम्। सृष्टिस्थाननिरोधनित्यनियतिज्ञानप्रकाशावृति- ध्वान्तामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे॥ *॥ हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमापतिम्। अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम्॥ *॥
प्रथमोऽध्यायः
प्रथमः खण्डः
ओमितिनामकम् अक्षरं सर्वसन्निहितत्वात् एतत्। उच्चत्वाद् गीतत्वात् सर्वस्थानत्वाच्च उद्गीथं भगवन्तम् उपासीत।
उक्तं च महासंहितायाम्- “हयग्रीवोद्गीतवाक्यै रमादेवी रमापतिम्। ओमित्येतन्मुखैर्देवमस्तुवत् सामवेदगैः॥” इति।
“ओंनामानमुपासीत तदर्थगुणपूर्वकम्। ओतत्वादवनान्मानदधिकोच्चत्वकारणात्। आनन्दादोजसश्चैव भरणादोमुदाहृतः॥” इति समन्वये॥
“ओतमस्मिन् जगत् सर्वमत्युच्चश्चाखिलैर्गुणैः। इत्योमिति सदोपास्यः सोऽक्षयः पुरुषोत्तमः। उच्चत्वाद् गीयमानत्वात् स्थानादुद्गीथ उच्यते। ओमित्येनं समुद्दिश्य ह्युद्गाता गायति स्फुटम्। विष्णोरोमिति नाम्नोऽस्य व्याख्यानमधिकोच्चता। अकारेणाधिकं प्रोक्तमुकारेणोच्चमुच्यते। तथा मितं सर्ववेदैर्मकारेणाभिधीयते। अधिकोच्चमिति ज्ञातमोमित्यस्यार्थ ईरितः॥ तदेतत् परमत्वं तु यथाक्रममुदीर्यते। देवतानुक्रमज्ञाश्च विष्णोः परमताविदः। एकान्तिनस्ते विज्ञेया यथाक्रमपरास्तथा। अस्मादसावुच्च इति क्रमस्यान्तगतं हरिम्। एकमेव तु ये विद्युस्ते ह्येकान्तिन ईरिताः। एवं यथाक्रमज्ञाश्च सदैकान्तपरायणाः। प्रविशन्ति परं देवं नारायणमनामयम्। उच्चक्रमान्तगत्वेन कुर्युः पूजां हरेः सदा। लक्ष्म्यादेः क्रमशः पूजां ज्ञात्वा भागवता इति। स्वतन्त्रपूज्यताबुद्ध्या न दद्युः किं च कस्यचित्। ब्रह्माद्या मनुसञ्ज्ञा ये वर्णत्वेनोदिताः श्रुतौ। मानवाख्याश्च मुनयस्तान् यजन्ति नचेतरान्। पितृत्वेन गुरुत्वेन साक्षाद् भागवतत्वतः। अपभ्रष्टा अदेवाश्च ब्रह्माद्याख्यायुता अपि। देवसञ्ज्ञाश्च दीनत्वात् पूजयेयुर्न तान् क्वचित्। यद् भागवतबुद्ध्यैव दत्तं ब्रह्मादयः सुराः। वैदिकाः प्रतिगृह्णीयुरपभ्रष्टास्तथेतरत्। यथाक्रमपरिज्ञानादेकान्तित्वाच्च केवलम्। अच्छिद्रत्वाच्च नियतो मोक्षोऽन्यत् तु विडम्बनम्। विष्णौ भक्तिर्विशेषेण मोक्षावाप्तौ हि कारणम्। तद्भक्तेषु क्रमेणैव रमाद्येषु त्वनन्तरम्। तृतीयमपि वैराग्यं नचान्यन्मोक्षकारणम्। एतत्साधनताहेतोस्तदन्यद्धि विधीयते। अतोऽन्यसर्वकृच्चापि गच्छेदेवाधरं तमः। अस्मिन् सुनिष्ठितो नित्यं मोक्ष्येवान्योज्झकोऽपि सन्। अतस्तेषां क्रमं वक्ष्ये देवानां यः श्रुतौ श्रुतः। पृथिवी सर्वभूतेभ्यः सदा सर्वगुणैर्वरा। रसः सारो वरश्चेति शब्दा एकार्थवाचकाः। पृथिव्या वरुणः श्रेष्ठस्तस्मादोषधिदेवता। सोमस्तस्मात् तु पुरुषो रुद्रो यत् पौंस्यदेवता। तस्मात् सरस्वती वाग्घि श्रेष्ठाऽस्या ऋक्स्वरूपिणी। सैव श्रेष्ठा ततो वायुर्वरिष्ठः सामनामकः। समत्वात् सर्वभूतेषु साम साम्नां च देवता। ततः श्रेष्ठतमो विष्णुः श्रेष्ठश्रेष्ठतमः सदा। श्रेष्ठाच्छ्रेष्ठतमाच्चापि परमात् परमो विभुः। परमर्द्धियुतत्वाच्च परार्द्ध्य इति कीर्तितः॥” इति सारनिर्णये।
अतिशयेन परमर्द्धिगुणः परमः परार्द्ध्यः। उत्तमेभ्योऽप्यतिपरमोत्तमोत्तमो रसानां रसतमः परमः परार्द्ध्यः। रसानां सकाशादपि परमपरार्द्ध्यरसतम इत्यर्थः। प्राणादीनां भूतादिभ्यः श्रेष्ठत्ववदस्य श्रेष्ठत्वं न भवति, किन्तु महान् विशेष इति ज्ञापयितुं ‘रसानां रसतमः’ इत्यादि बहुविशेषणम्। भूतेभ्यः पृथिव्या रसत्वम्। तेभ्यो वरुणस्य रसतरत्वम्। सोमस्य रसतमत्वम्। रुद्रस्य परमरसतमत्वम्। वाचः परमर्द्धरसतमत्वम्। प्राणस्य परमपरर्द्धरसतमत्वम्। अयं तु भगवान् प्राणादपि परमपरार्द्धरसतममात्रो न भवति, किन्तु प्राणस्यापि रसभूताया रमाया अपि परमपरार्द्ध्यरसतमः। अस्मादप्यतिशयेन परमित्यसङ्ख्यागोचरत्वेन परार्द्धेन ज्ञेयं हि परार्द्ध्यम्। ऋग्रूपाया वाचः पृथक् परत्वाङ्गीकारेऽपि भूतेभ्यः प्राणस्य परमपरार्द्धरसतमत्वमेव। नतु परमपरार्द्धिरसतमत्वम्। परस्मादप्यासमन्तादृद्धं हि परार्द्धम्। तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्द्ध्यम्। परार्द्धोत्तमं परार्द्धि। तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्द्ध्यमित्यतः परार्द्धित्वं श्रियो भवति। श्रियोऽपि परार्द्ध्यो भगवान्। अतो रसानां रसतमः परमः परार्द्ध्यः॥
पृथिव्याः सोमवरुणयोश्चौषध्यब्देवतात्वेन रुद्रस्य च लिङ्गदेवतात्वेन प्रसिद्धेः, ऋगादीनामेव विमर्शः क्रियते- कतमा कतमर्गित्यादिना॥ तज्ज्ञानस्य विशिष्टफलत्वाच्च। वाचश्च सरस्वतीत्वेन प्रसिद्धेर्वागृचोरैक्याच्च न विमर्शः कृतः।
“विशेषात् प्राणसंयुक्ता वागृगित्यभिधीयते। ऋ गताविति धातोर्हि ऋक्त्वं सर्गाभिमानिनी। विशेषसंयोगहीना यदा सैव सरस्वती। तदा तस्या वरा सैव प्राणसंयोगिनी मता। प्राणयोगवियोगाभ्यां सैषैकाऽपि विभिद्यते। वागेवर्क् तच्छ्रुतौ प्रोक्ता प्राणः सामेति कीर्तितः। अक्षयाद् रतिरूपत्वादक्षेषु रमणादपि। अक्षरं भगवान् विष्णुरोमित्युच्चत्वहेतुतः। इतिशब्दोऽन्यथाभावनिवृत्त्यर्थ उदाहृतः। एवमत्युच्च एवासौ सर्वदैतद्धृदि स्थितः। उद्गीयमान उद्गीथो भगवान् पुरुषोत्तमः॥ तस्मादोमित्यनुज्ञानं कुर्वन्त्येते जनाः सदा। त्वदुक्तं तत् तथा कुर्याद् भगवानेव केशवः। इत्यभिप्रायतः शब्दः प्रवृत्तः स पुरातनैः। तदेतदज्ञैस्तु जनैः स्वानुज्ञेति प्रतीयते। ओमित्ययं पूर्णवाची समृद्धिर्ह्योमितीरिता। समृद्धस्ते हि कामोऽयमित्यनुज्ञाऽथवा भवेत्। अतः समृद्धिवाची स्याद्धरेरोंशब्द ईरितः। इति वा दीयतेऽनुज्ञा हरिस्तव समृद्धिदः॥ वाक्प्राणौ दम्पती चापि संसृज्येते जनार्दने। मुक्तौ तु तत्प्रसादेन संसृज्यन्ते ततः परे। तद्द्वारेणैव साक्षात् तु प्राणः संसृज्यते हरौ॥ तेनैव विष्णुनेयं च त्रयी विद्या प्रवर्तते। ओमित्युक्त्वा हि तद्व्याख्या सर्वैर्मन्त्रैः प्रवर्तते। ओन्नामकस्य पूजार्थं विष्णोरेव सदैव हि। महिम्ना सारभूतेन विष्णुना ज्ञोऽज्ञ एव च। कुरुतः कर्म, नाज्ञस्य मुक्तिर्ज्ञस्य भवेत् तु सा। स्वयोग्यं तु परिज्ञानं यत् तस्योपनिषत् स्मृतम्। अक्षरं भगवान् विष्णुस्तस्योप प्रणवः स्मृतः। उपव्याख्या तु तद्व्याख्येत्येवमाह श्रुतिः परा॥” इति तार्तीये॥
“परर्द्धं परमादुच्चं परार्द्धं तु ततोऽधिकम्। ततोऽधिकं परार्द्धि स्यात् परार्द्ध्यमिति तत्परम्। परतः परमाच्चैव परार्द्धो वायुरीरितः। परार्द्धिनी श्रीरुद्दिष्टा परार्द्ध्यो भगवान् हरिः॥” इति शब्दनिर्णये॥ *॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते छान्दोग्योपनिषद्भाष्ये प्रथमेऽध्याये प्रथमः खण्डः॥
द्वितीयः खण्डः
उद्गीथाख्यस्य विष्णोर्विशिष्टप्रतिमा वायुरेव। अतस्तस्य सर्वोत्तमत्वज्ञानपूर्वकं तस्मिंस्ततोऽप्युत्तमत्वेनोपासित एव भगवान् सम्यक् फलं ददातीति दर्शयति। “वायौ मुख्यधिया”भागवतम् ११/११/४४ इति च भगवद्वचनम्।
“यस्माद् वायौ स्मृतो विष्णुर्वायोर्मुख्यतयाऽखिलात्। स्वस्य मुख्यतया तस्मात् परां तुष्टिं गमिष्यति। अतो विचार्य सकलैर्देवैः प्राणे जनार्दनः। उपासितो दैत्यजयकारणात् पापवर्जिते। वायुपुत्रं च नासिक्यमग्निं वागात्मकं तथा। सोमं श्रोत्रात्मकं चैव सूर्यं चक्षुःस्वरूपिणम्। रुद्रं मनःस्वरूपं च शेषं चाहंस्वरूपिणम्। चित्तात्मकं च गरुडं पापेन विविधुः सुरान्। असुरास्तैर्यतो विद्धास्तस्मात् ते दोषयोगिनः। मुख्यवायौ यदा देवाः शरीरस्थे च सूर्यगे। विष्णुमुद्गीथनामानं तदा तं च विदध्वसुः। यदा विदध्वसुः प्राणं विध्वस्तास्ते तदाऽसुराः। अखन्याश्मानमेवाप्य लोष्टो विध्वंसते यथा। प्रतिमां प्रेयसीं प्राप्य विष्णोः प्राणं तथाऽसुराः। तस्मादादित्यसंस्थे वा शरीरस्थेऽपि वाऽनिले। बलज्ञानात्मके दिव्याकृतिमत्युज्ज्वलात्मनि। सर्वदेवोत्तमं विष्णुमुपासीत ततोऽधिकम्। अस्योपासनया देवाः सर्वनामानि भेजिरे। इन्द्रो बृहस्पतिः शम्भुरित्याद्याः प्राणगा यतः। प्राणस्य नामशब्दाश्च मुख्यतो विष्णुसंस्थिताः॥” इति प्रध्याने॥
“उद्गीथाख्यं परं विष्णुमुपास्त्याजह्रुरञ्जसा। तथाऽपि प्राण एवासौ प्रीतिमागादुपासितः॥” इति च॥
“प्राणं प्राप्यैव विध्वस्ता यथा सर्वेऽसुरास्तथा। तदुपासकस्य यश्चापि प्रतीपं दातुमिच्छति॥” इति च॥
“एवं विदित्वा संसारान्मुक्तिमेष्यत्यसंशयम्। विष्णुमप्यन्ततो वेत्ति प्राणवेत्ता यतः स्फुटम्। वीति विष्णुः समुद्दिष्टो विशिष्टत्वात् तु सर्वतः। आददात्येव तं प्राणवेत्ताऽन्ते तत्प्रसादतः। प्राणात् परं तु ये विष्णुं जीवांश्चैवावरांस्ततः। ये विदुस्ते विदुः प्राणं नान्यथा तु कथञ्चन॥” इति च॥
“प्राण उद्गीथ इत्याद्या नामब्रह्मादिकास्तथा। सप्तम्यर्थाः समुद्दिष्टाः सप्तसु प्रथमा यतः। प्राणमुद्गीथमित्याद्या द्वितीया सप्तमी मता॥” इति च॥
तृतीयः खण्डः
“आदित्यसंस्थितो नित्यं प्राणस्तपति नापरः। प्रकाशनं च तपनं काष्ठवत् सूर्यगं भवेत्। सूर्यमण्डलगो वायुरुदयास्तमयोज्झितः। अपि प्रजाभ्य उद्यंश्चैवोद्गायति जनार्दनम्। आदित्यमण्डलस्थश्च सर्वप्राणिगतस्तथा। वायुः समान एवायमुष्णोऽसावपि च स्फुटम्। तस्मादस्मिन्नमुष्मिन् वाऽप्युद्गीथाख्यं जनार्दनम्। उपासीत विमोक्षाय सर्वकामाप्तये तथा॥” इति च॥
“केशवः स्वः स्वतन्त्रत्वात् तद्रतेर्मारुतः स्वरः। शरीरस्थश्च सूर्यस्थः प्रतिप्रत्या समन्ततः। मां प्रतीत्यत एवासौ प्रत्यास्वर उदाहृतः। प्राणाद्यास्त्रिविधाः पञ्च प्रधानो वायुरेव च। मुख्यपञ्चकरूपः सन् गरुडो मध्यपञ्चकः। अवमः पञ्चकस्त्वन्ये प्राणाद्यास्तस्य सूनवः। इति त्रेधा विभागोऽयं विभागोऽन्यश्चतुर्थकः। प्राणापानौ शेषवीन्द्रौ तथोदानसमानकौ। रुद्रेन्द्रौ तत्परः श्रेष्ठो वायुर्व्यान उदाहृतः। तस्मिन्नुद्गीथनामानमुपासीत हरिं परम्। योऽसौ व्यानगतो विष्णुः स वागृक्सामगः सदा। उद्गीथे च स एवैकस्तस्माद् व्यानाद्धि तत्क्रियाः। उद्गीथनामा भगवान् स्थितो व्यानादिपञ्चके । वीर्यवत् कर्मकृत् तस्माद् व्यान एव ह्युदाहृतः। तस्माद् व्यानगतं विष्णुमुपासीतैव नित्यशः। यद्यप्येको हि भगवान् सर्वदा सर्ववस्तुगः। अनूनोद्रिक्तमहिमो निर्विशेषः सदैव च। तथाऽपि तत्क्रियाभेदान्नामरूपादिकं पृथक्। उच्यते ह्यपृथक्त्वेऽपि पूर्णैश्वर्यैकहेतुतः। अविशेषोऽपि भगवान् सर्वशक्तित्वहेतुतः। विशेषहेतुकं सर्वं करोत्यविकृतः सदा। उद्गीथाक्षरगं चैव प्राणादिषु च संस्थितम्। आशीःसमृद्धिहेतुष्वप्यखिलेषु व्यवस्थितम्। एकमेव हरिं वेद यः स सर्वेष्टमाप्नुयात्॥” इति च॥
“उच्छब्दवाच्याः प्राणाद्या वागाद्या गीरितीरिताः। अन्नाद्यास्थमिति प्रोक्तास्तेषूद्गीथो हरिः स्थितः॥” इति च॥
आत्मानं परमात्मानम् अन्ततः सर्वोत्तमत्वेन सर्वत्र उपसृत्य॥ *॥
चतुर्थः खण्डः
“स्वरतेस्तु स्वरो विष्णुस्तद्रतेर्वायुरुच्यते। वायुस्वरे स्वरं विष्णुमोमाख्यं समुपासिरे। देवास्तेनामृतं प्राप्ता मुक्त्याख्यं मृत्युवर्जिताः। मारणान्मृत्युरित्युक्ता दुर्गा तद्भयतः सुराः। ओमित्युपास्य तं विष्णुं परमामृतमापिरे॥” इति सन्ध्याने॥
ऊर्ध्वाः उत्तमाः॥ *॥
पञ्चमः खण्डः
“आदित्यसंस्थितो वायुः प्रणवस्तद्गतो हरिः। प्रकृष्टत्वाच्च नेतृत्वाद् गतित्वादखिलस्य च। उद्गीथ उच्चैर्गेयत्वात् स एव पुरुषोत्तमः। स एव प्राणगो देह ओमित्येव सदा जपन्। एत्येष भगवान् विष्णुर्ध्यायन्नेकं तमक्षरम्। एकपुत्रो मुक्तिमेति ध्यायन् प्राणेषु रश्मिषु। बहुपुत्रो विमुक्तः स्यात् तस्माद् ध्यायेत् तथा परम्॥” इति च।
प्राणस्थं भूमानम् अभिगाय। दुरुद्गीतमनुसमाहरति अनुरूपमेव करोति। होतृषदनस्थमग्निस्थं भगवन्तं ध्यात्वा।
“अन्यथागानजं दोषमग्नौ ध्यात्वा हरिं परम्। अपाकरोति तस्मात् तं ध्यायेदेवाग्निगं सदा॥” इति त्रैविद्ये॥ *॥
षष्ठः खण्डः
“अग्नीरसूर्यनीलेषु वायुः स्थः सामदेवता। उर्वीवियद्द्युशुक्लेषु ऋग्देवी स्था सरस्वती। सेति भार्या हि वाग्देवी प्राणोऽमः पतिरीरितः। एवं तौ सामनामानावुभावेवाप्युदाहृतौ। अतो हि सामवेदोऽयं ऋक्सामात्मक ईरितः। वागादिष्वेवमेवैतौ वाक्प्राणौ सर्वदा स्थितौ। तयोरन्तःस्थितो विष्णुर्गायकौ तस्य तावुभौ। ऋक्सामभ्यां स उन्नामा पापोद्गश्चोच्च एव च॥” इत्यादि सत्तत्वे।
“कप्यासरक्तपद्माक्षः सूर्यगश्चाक्षिगश्च सः। गायकस्तस्य विष्णोर्यः स स्वर्ग्यांश्च नृलोकगान्। कामान् दद्यान्नरश्चेत् स्यात् सुराणां च नृणामपि। मोक्षदो यदि वायुः स्यान्मुख्योद्गाता ततोऽनिलः॥” इति च॥
तस्मादुद्गीथ उच्चोऽसौ गीयते चेति॥ *॥
सप्तमः खण्डः
आत्मा जीवः।
“सरस्वती हि चक्षुःस्था जीवस्थो वायुरीरितः। विदित्वा तावुभौ देवौ तद्गं ध्यायेद्धरिं सदा॥” इति मानसे॥
“दृश्यते ज्ञानदृष्ट्या यः सूर्ये चक्षुषि चैकराट्। ऋङ्नामा ज्ञानरूपत्वात् साम नित्यसमत्वतः। उक्थमुत्थापकत्वाच्च यजुर्याज्यस्वरूपतः। ब्रह्मासौ पूर्णरूपत्वादेवं सर्वाभिधानवान्॥” इति च।
“यथा बदरिकानाथो द्वारकानाथ इत्यपि। अर्वाङ्नाथः पराङ्नाथ इति तद्वदिहोच्यते। सर्वनाथोऽपि भगवान् सन्निधानविशेषतः॥” इति च॥ *॥
अष्टमः खण्डः
नवमः खण्डः
“अग्निः सामाभिमानी स्याद् वरुणस्तु स्वरात्मकः। प्राणावराभिमानी तु सूर्य एव प्रकीर्तितः। अन्नाभिमानी दक्षश्च शक्रस्त्वबभिमानवान्। द्य्वात्मकश्च शिवः प्रोक्तः क्रमेणैवोत्तरोत्तराः। क्रमेण मोक्षे प्राण्याश्च पूर्वेषामुत्तरोत्तराः॥” इति निवृत्ते।
अग्नेर्वागात्मकत्वात्। स्वरस्योदकात्मकत्वात्। “आदित्य एव प्राणोऽन्नं वै प्रजापतिः” इति श्रुतेः।
“आप एवेन्द्रो द्यौर्वाव रुद्रः” इत्यादेश्च।
“विशेषज्ञानसम्प्राप्त्यै जानन्तोऽपि परं हरिम्। ब्रूयुर्देवाश्च ऋषयस्तदन्यस्य परात्मताम्॥” इति ब्रह्मतर्के।
स्वर्गाभिमानिरुद्रं प्रति सामाभिसंस्थापयामः। तत्स्तावकं हि साम।
मूर्धा ते विपतेदिति यः कश्चिद् ब्रूयात् चेत् विपतिष्यति।
“ब्रह्मैव हि पृथिव्यात्मा, विष्णुराकाशनामकः। आदीप्तत्वाद् वरीयांश्च परमो हरिरेव हि॥” इति सत्तत्त्वे।
“शुभाशुभानां दाहादौ साम्यात् सामाग्निरीरितः। स्वो विष्णुः सागरे रन्ता वरुणोऽतः स्वरः स्मृतः। उदयाज्जगत्प्रणेतृत्वात् सूर्यः प्राण उदाहृतः। अत्ता रुद्रस्तद्विरोधाद् दक्षः स्यादन्ननामकः। स्वो विष्णुस्तद्रतिर्वायुस्तद्गो मुक्तौ सदाशिवः। अतः स्वर्गोऽसुसंस्थत्वादसाविति च कीर्तितः। सर्वदेवान्तरत्वात् तु ब्रह्माऽयं समुदाहृतः। लोको ज्ञानस्वरूपत्वादेतेषां परमो हरिः॥” इति ब्रह्मतर्के।
आ पालनादाप इन्द्रः। अधिकं वरीयान् परोवरीयान्। तत् परोवरीयोऽस्य रक्षकं भवति। यावत्तः द्वापरादिपर्यन्तम्॥ *॥
दशमः खण्डः
“उपला इष्टकाः स्थूला मटचीति प्रकीर्तिताः” इति शब्दनिर्णये।
“आसन्नयौवना योषिदाटकीत्यभिधीयते” इति च।
“प्रद्रवन्नन्नपानार्थं प्रद्राणक इतीरितः” इति च॥ *॥
एकादशः खण्डः
“प्राणस्थविष्णुना सर्वे प्रसूयन्ते यतस्ततः। प्रस्तावदेवता स स्यात् प्रस्तावस्तु जनिर्यतः। आदित्यसंस्थितो विष्णुर्यत् सदा सर्वगीतभुक्। राजादौ गीतमप्यज्ञैर्भुङ्क्ते गानस्य देवता। उद्गीथदेवता तस्मात् स एव पुरुषोत्तमः। अन्नस्थेनैव जीवन्ति भूतान्येतानि विष्णुना। प्रतिहारदेवताऽतः स प्रतिहारो हि भोजनम्॥” इति च।
उच्चैः सन्तम् उत्तमं सन्तम्॥ *॥
द्वादशः खण्डः
दल्भपुत्रो बको मित्रया पुत्रार्थं स्वीकृतो ग्लाववत् तूष्णीं स्थितत्वात् तया ग्लावेत्युक्तो ग्लावनामको जातः। अत उभयथाऽस्य निर्देशो भवतीत्यर्थः।
“प्रसादार्थं बकस्यापि वायुनोक्तः श्वरूपिणा। शौवोद्गीथ इति प्रोक्तो रुद्रादीनां श्वरूपिणाम्। उपासितः पौर्णमास्यां शौवोद्गीथेन केशवः। सर्वाभीष्टं ददातीति प्रातरित्याह मारुतः। ओमदामादिकं मन्त्रं वायुनोक्तं तु देवताः। वायुस्थविष्णुमुद्दिश्य हिङ्कृत्य प्रापुरीप्सितम्। देवौ विष्णुश्च वायुश्च सर्वज्ञत्वात् क्रमेण तु। वरुणौ वरणीयत्वात् सवितारौ प्रसूतितः। प्रजानां च पती तद्वत् क्रमादेव प्रकीर्तितौ॥” इति च॥ *॥
त्रयोदशः खण्डः
“हूयतेऽत्राग्निहोत्रादिर्हावुकारस्त्वियं यतः। हेत्याश्चर्यवदायाति हेति वा सुखकृत्त्वतः। हायिकारस्ततो वायुरथेत्युक्तमनन्तरम्। आनन्तर्यात् प्रकाशस्य सूर्याच्चन्द्रस्तथेरितः। सर्वसामीप्यतो विष्णुरिहेति कथितः सदा। इन्धनादग्निरीकार ऊकारः सूर्य उष्टितः। नितरामाह्वयन्त्येनमितीन्द्रो निहवः स्मृतः। एतीत्येकार एवासावौहोयीत्यखिलाः सुराः। उच्चत्वाद् विष्णुरुः प्रोक्तो हूयन्तेऽस्मिन् यतोऽखिलाः। मुक्तावौहोयिनस्तस्मात् सर्वे देवाः प्रकीर्तिताः। हीति निश्चय उद्दिष्टो निश्चयज्ञानतः सदा। ब्रह्मा हिङ्कार इत्युक्तो वायुः प्राणः शरीरगः। स्वे विष्णौ रमयत्येनं जीवं तस्मात् स्वरः स्मृतः। ययिर्नित्यगतेर्वायुस्तद्गा याया सरस्वती। सैवान्नदेवता प्रोक्ता याऽत्रा प्राणेन नीयते। सर्ववागात्मिका या तु श्रीर्विशेषेण राजनात्। विराडुक्ताऽनिरुक्तस्तु व्याप्तो नारायणस्तु यः। आहूत एव पातीति हुप्कार इति कीर्तितः। हुबित्याक्रियते यस्माद्धुप्कारस्तु जनार्दनः। अनिरुक्तस्त्ववाच्यत्वात् परमः पुरुषो हरिः॥” इति माहात्म्ये।
सम्यक् चरतीति स एव सञ्चरः।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते छान्दोग्योपनिषद्भाष्ये प्रथमोऽध्यायः॥
द्वितीयोऽध्यायः
प्रथमः खण्डः
समस्तस्य पूर्णस्य साधुत्वात् सामनाम्नो विष्णोरुपासनं साधु। सारत्वेन मेयं साम। सारत्वेन धार्यं साध्वित्येक एवार्थः।
“साधुत्वात् सामनामानं समस्तगुणपूर्तितः। समस्तं य उपासीत नारायणमनामयम्। सर्वसाम्नां देवतेति स मुक्तः साधुधर्मभाक्॥” इति सामसंहितायाम्॥ *॥
द्वितीयः खण्डः
“नारायणाख्य उद्गीथ उद्गेयः प्रणवेन यत्। उद्गच्छन्ति यतोऽस्माद् वा वासुदेवादिमूर्तयः। प्रथमावताररूपत्वाद् वासुदेवः परः पुमान्। प्रस्तावो निधनं चापि सङ्कर्षण उदाहृतः। सङ्कर्षणो हि संहर्ता प्रद्युम्नः परमेश्वरः। हिङ्कार इति सम्प्रोक्तो हीति सृष्टिरुदीर्यते। प्रसिद्धता हि सृष्टिः स्यादनिरुद्धः परो विभुः। प्रतिहार इति प्रोक्तः स हि कार्येष्विदं जगत्। प्रतिप्रति हरेन्नित्यं मूर्तिप्रतिहृतेस्तथा। ते पृथिव्यादिषु सदा तन्नामानः प्रतिष्ठिताः। पृथिवीत्यादिशब्दार्थास्ते हि मुख्यत ईरिताः। तत्सम्बन्धात् तदर्थत्वं पृथिव्यादेरमुख्यतः। प्रथनादेव सस्यादेः पृथिवीत्वमुदाहृतम्। अग्नित्वमदनाच्चैव ह्यन्तरीक्षणयोगतः। अभावाद् व्यवधानस्य त्वन्तरिक्षमितीर्यते। आदानादायुषश्चैव स आदित्य उदीरितः। द्यौः क्रीडाकारणत्वाच्च तत् सर्वं हि परे हरौ॥” इति च।
“पञ्चात्मकं यो लोकेषु सदोपास्ते हरिं परम्। ऊर्ध्वाधःसंस्थितास्तस्य पञ्चैव दश मूर्तयः। मोक्षादिकमभीष्टं यत् कल्पन्तेऽस्य सदैव हि॥” इति च॥ *॥
तृतीयः खण्डः
“पञ्चरूपं तु यो विष्णुं पुरोवातादिषु स्थितम्। उपास्ते वृष्टिरस्मै स्याद् वर्षयत्यस्य मुक्तिगान्। सर्वभोगांश्च भगवान् पञ्चरूपी जनार्दनः॥” इति च।
चतुर्थः खण्डः
“अप्सु पञ्चविधोपासी यो नारायणवान् भवेत्। नचास्य मृतिरप्सु स्यादप्सुषद् भगवान् हरिः॥” इति च।
अप्सुस्थितनारायणवान् मुक्तो भवतीत्यर्थः। अपः सूत इत्यप्सूर्भगवान्। दीर्घलोपेनाप्सुमानिति वा॥
पञ्चमः खण्डः
हेमन्तशिशिरयोरैक्येन पञ्चत्वम्।
“ऋतुनामानमृतुगमृतुत्वादृतुनामकम्। इत्युपासीत यो विष्णुं पञ्चात्मानममुष्य हि। मोक्षादीन् कल्पते चास्य ऋतुसंस्थो जनार्दनः। रक्ष्यत्वात् तेन तद्वांश्च सदैव स्यादुपासकः॥” इति च।
“वासस्य सुखकारित्वाद् वसन्तः पुरुषोत्तमः। नीरादेर्गरणाद् ग्रीष्मो वर्षणाद् वर्ष उच्यते। शं रातीति शरत् प्रोक्तो हेमन्तो हिमकारणात्॥” इति च।
षष्टः खण्डः
“पालनात् सुखकारित्वात् पशुनामा जनार्दनः। मुक्तस्तद्वान् भवत्येव पशुषूपासको हरेः॥” इति च।
“यज्ञेनाञ्चनहेतुत्वादजस्थो भगवानजः। अविस्थस्त्वविरेवोक्त ऊर्णया शीततोऽवनात्। गौश्च सद्गतिहेतुत्वाद् गोस्थः स पुरुषोत्तमः। अश्वश्चैवाशुगन्तृत्वात् पुरुषः पूर्तिहेतुतः॥” इति च।
भवन्ति हास्य पशव इति प्रसिद्धपशव एव। अजा इत्यादिबहुवचनं बहुरूपत्वाद् भगवतः॥ *॥
सप्तमः खण्डः
“परस्मादुत्तमं प्रोक्तं परो इति ततः परम्। परोवरं परं तस्मात् प्रोक्तं परोवरीयकम्। परोवरीयांस्येतानि विष्णो रूपाणि सर्वशः। तेषां विशेषो नैवास्ति सदा तानि समानि हि। अत्युत्तमोत्तमान्येतान्यन्यस्मात् सर्वतोऽपितु॥” इति च॥
“प्राणो नेतृत्वतो विष्णुर्वाक् सर्ववचनात् सदा। चक्षुश्च दर्शनान्नित्यं श्रोत्रं श्रवणहेतुतः। मनो मन्तृत्वतश्चास्य ह्येक एव तु पञ्चधा॥” इति च।
परोवरीयो ब्रह्म अस्य भवति सर्वापेक्षितदातृत्वात्॥*॥
“आदिः कल्पादिहेतुत्वात् क्रोडात्मा केशवः स्वयम्। दुष्टोपद्रवकर्तृत्वान्नरसिंह उपद्रवः॥” इति च।
“हुङ्कारसहिते वाक्ये प्रद्युम्नस्तु सदा स्थितः। आकारयुक्ते वाराहो वासुदेवः प्रसंयुते। नारायणस्तथोद्युक्ते प्रतियुक्तेऽनिरुद्धकः। उपयुक्ते नृसिंहश्च नीति सङ्कर्षणस्तथा। अभावे यावदेते स्युस्तावत् तद्दैवतं स्मृतम्। एवं सप्तविधं विष्णुं य उपास्ते सदा विभुम्। वाङ्नामा भगवांस्तस्य भवेत् सर्वार्थदोहकृत्॥” इति च॥*॥
“आदित्यस्थं परं विष्णुं ध्यायेदादित्यनामकम्। सप्तरूपं साम चासौ सर्वदा समरूपतः। सर्वेषां मां प्रतीत्येव दृष्टिसाम्याच्च साम सः। दृष्टिसाम्यं मण्डलस्य विष्णुस्तस्य च कारणम्। तस्मिन्निमानि भूतानि सर्वाण्येवाश्रितानि हि। उदयात् पूर्वमेवासौ भवेत् प्रद्युम्ननामकः। पश्वाधारस्तदात्माऽसौ वासुदेवस्तथोदये। आश्रयश्च नृणां तत्र वराहः सङ्गवे तु सः। तत्र पक्ष्याश्रयो विष्णुस्तथा नारायणाभिधः। मध्यन्दिने स आधारो देवानां च ततः परम्। अनिरुद्धः स आधारो गर्भस्थानां सदैव हि। ततः परं नृसिंहाख्यः स आरण्याश्रयो मतः। अथास्तमितवेलायां स सङ्कर्षण ईरितः। आश्रयः स पितॄणां च सप्तात्मकमुपास्य तम्। प्राप्नोति परमं स्थानं मुक्तः संसारसागरात्॥” इति च।
हिङ्कारनामानमाश्रितत्वाद्धिङ्कुर्वन्ति। प्रस्तावाश्रयत्वात् प्रस्तुतिकामाः प्रारम्भकामाः प्रशंसाकामाश्च। प्रारम्भावतारत्वात् प्रशंसादेवतात्वाच्च तस्य। सर्वाधारत्वाद् वराहस्य तदाधाराणां पक्षिणामनाधारेणैव गमनम्। नारायणनामार्थत्वेन सर्वगुणपूर्त्योपासनादेव सर्वोत्तमा देवाः। इतरमूर्तीनामपि सर्वगुणपूर्त्योपासने नारायणोपासनमेव भवति। सर्वगुणपूर्त्यर्थत्वान्नारायणशब्दस्य। अनिरुद्धाश्रयत्वाद् गर्भाणां पितुः शरीरादन्यत्र प्रतिहृता अपि न विनश्यन्ति। वर्धन्ते च तत्रैव। अन्यद्धि भुक्तं जीर्यत एव। “धाता गर्भं दधातु ते”ऋग्वेदसंहिता १०/१८४/१ इति च श्रुतिः। धाता हि भगवाननिरुद्धः। विष्णुस्त्वष्टा प्रजापतिर्धातेति चतुर्मूर्तयो ह्युच्यन्ते।
“योनिकॢप्तिर्वासुदेवाद् रूपं सङ्कर्षणाद् भवेत्। आसेककर्म प्रद्युम्नादनिरुद्धाच्च धारणम्॥” इति च।
“व्याप्तेर्विष्णुर्वासुदेवस्त्वष्टा त्वेषाद् द्वितीयकः। प्रजापतिः प्रजापातान्निषेकः पातनं ततः। प्रजापतिस्तु प्रद्युम्नो धाता धारणकर्मतः। अनिरुद्ध इति प्रोक्तः कृष्णरामौ तथाऽश्विनौ॥” इति च।
“कक्षश्वभ्रे नृसिंहस्य सदाऽवस्थितिकारणात्। द्रवन्ति कक्षश्वभ्राभ्यां तदज्ञानेऽपि रक्षणात्। मृगा भीता यतस्तेषां नृसिंहस्त्वाश्रयः सदा। पितॄणामाश्रयो यस्मात् सङ्कर्षण उदाहृतः। अतस्तान् प्रति पिण्डादीन् निदधत्यज्ञका अपि। अन्यथा तन्मृतानां तु कुत एवोपतिष्ठति॥” इति च।
“न रूपाणां विशेषोऽस्ति गुणतो नामतोऽपि वा। तथाऽपि तत् प्रियं नाम नारायण इति स्म ह। विशेषतः समस्तानां नाम्नां तस्यार्थ एव तु। विज्ञायते गुणैः पूर्तिर्नामसाम्यं तदाऽथवा ॥” इति च।
“नाम्नो नारायणाख्यस्य गुणैः पूर्तिं हि देवताः। विज्ञायार्थमुपास्यैव सर्वाधिक्यमवापिरे ॥” इति च॥*॥
“यस्यान्यः सदृशो नास्ति स्वरूपाणि समानि च। स आत्मसम्मितो विष्णुरतिमृत्युरमृत्युतः। प्रद्युम्नादिस्वरूपेण स विष्णुः सप्तधा स्थितः। समानि तानि सर्वाणि ज्ञानानन्दबलैस्तथा। ज्ञानादित्रयवाचीनि त्र्यक्षराण्यपि सर्वशः। हिङ्कारादीनि नामानि सर्वेषामपि सर्वशः। आदिनाम्नः प्रकारस्तु योज्यः स्यात् प्रतिहारतः। तेन त्र्यक्षरमेव स्यान्नामद्वयमपि प्रभोः। उपद्रवे तु वःकारो यद्यपि व्यतिरिच्यते। नाम नारायणस्यैव सोऽपि क्षीराब्धिशायिनः। व्यञ्जनस्वरसर्गैस्तु सोऽपि ज्ञानादिवाचकः। त्रिवर्णत्वात् समः सोऽपि ज्ञानाद्यैः पुरुषोत्तमः। वःकारार्थपरिज्ञानात् प्राप्योऽब्धिशयनः प्रभुः। एकविंशार्णविज्ञानात् प्राप्योऽसौ सूर्यमण्डले। स एव भगवान् विष्णुर्द्वाविंशद्रूपवान् यतः। तान्येव सप्तरूपाणि विभिद्यन्ते त्रिधात्रिधा। एकः पयोब्धिशयन इति द्वाविंशतिः प्रभोः। प्रद्युम्नाद्यास्तु चत्वारो द्विषण्मासेषु संस्थिताः। त्रिशस्त्रिशः केशवाद्या वसन्तादिषु पञ्चमः। रूपद्वयं तु षष्ठस्य स्थितं मस्त्यादिपञ्चकम्। तृतीयं पृथिवीसंस्थं जामदग्न्याख्यमेव तत्। अन्तरिक्षद्युसूर्येषु सप्तमस्य त्रिधा तनुः। रामः कृष्णः कल्किरिति तज्ज्ञानात् तान्यवाप्य च। द्वाविंशेन पयोब्धिस्थं प्राप्यते रूपमक्षरम्। एतद् द्वाविंशकं रूपं नाकं चासुखवर्जनात्। पूर्णानन्दस्वरूपत्वाद् विशोकं शोकनाशनात्॥” इति सामसंहितायाम्।
प्राप्नोतीहादित्यस्य जयम्। इह पृथिव्यादिषु स्थितभगवत्प्राप्तावप्यादित्यस्थ एव प्राप्यते। ऐक्यात्। परो हास्यादित्यस्य जयाज्जयो भवति। आदित्यस्थस्यादित्यनाम्नो भगवतः प्राप्त्या परो जयो रूपान्तरप्राप्तिरपि भवति।
“स्वरूपमेकं प्राप्तस्तु विष्णोः स्यात् सर्वरूपगः। ऐक्यात् तथाऽपि सम्प्राप्तिर्बहूपास्त्या सुखाधिकी ॥” इति च।
जयो नाम प्राप्तिरेव। “धनजिते स्वर्जिते सत्राजिते”ऋग्वेदसंहिता २/२१/१ इत्यादिवत्। केशवादिरूपेण ललाटादिषु स्थितेरित एकविंश इत्युच्यते।
“चित्रादियोगदातृत्वान्मासनामा स्वयं हरिः। लोकः प्रकाशरूपत्वादादित्यश्चादनादपाम्॥” इति च॥*॥
“प्राणसंस्थे हरौ प्रोतं गायत्रं साम सर्वदा। तद्वाचकं नियम्यं चेत्यतः प्रोतमितीर्यते। प्राणस्थविष्णोः सामीप्यात् तत्स्थमेतदितीर्यते। क्वचिन्निर्देशसामीप्याद् विष्णोरेतदितीर्यते॥” इति च।
“प्राणस्थविष्णुलाल्यत्वात् प्राणीत्येवाभिधीयते। मोक्षस्तु सर्वमायुः स्यान्नित्यत्वाज्जोक् समस्तवित्॥” इति च॥*॥
“मन्थनादिस्थितं यस्तु तन्नामानं हरिं परम्। तत्तत्क्रियैकहेतुत्वाद् योऽग्नौ ध्यायेज्जनार्दनम्। रथन्तराश्रयं पञ्चरूपं स च विमुच्यते॥” इति च॥*॥
“मिथुनस्थं पञ्चरूपं ध्यात्वैव पुरुषोत्तमम्। अत्यागी च स्वभार्याणां मुच्यते नात्र संशयः॥” इति च।
मिथो नयतीति मिथुनं भगवान्॥*॥
“आदित्यनाम्नि पञ्चात्मन्यभिध्याते जनार्दने। पर्जन्यनाम्नि चर्त्वाख्ये लोकाख्ये पशुसञ्ज्ञके। अङ्गाख्ये देवताख्ये च सर्वाख्ये च प्रतिष्ठितम्। बृहदाद्यं च यो वेद मुच्यते नात्र संशयः। समुद्रेकात् समुद्रस्तु देशनाद् दिश उच्यते। लोपकत्वाल्लोम च स्यात् तवोरूपस्त्वगुच्यते। मादनात् साररूपत्वान्मांसोऽस्थि त्वासनात् स्थिरम्। मदस्य जननान्मज्जा सोऽङ्गमन्तिगतत्वतः। वायुर्ज्ञानात् तथाऽऽयुष्ट्वान्नक्षत्रं च स्वतन्त्रतः। चन्द्रमाः परमानन्दात् त्रैविद्यो ज्ञानरूपतः। वयांसि व्ययनाच्चैव वीत्याकाशस्तथोच्यते। तत्रायनाद् वयः प्रोक्तो मरीचिर्मितरुक्त्वतः। सर्पः सर्पणहेतुत्वाद् गन्धर्वो गोधरत्वतः। पिता स सृष्टिहेतुत्वात् सर्वं पूर्णगुणत्वतः। एतैर्नामभिरुद्दिष्टो भगवान् पुरुषोत्तमः॥” इति च॥*॥
“यादृश्येवोन्नतिर्योग्या तस्याः सर्वात्मनाऽऽयतिः। सर्वभावस्तु विज्ञेयो नतु सर्वस्वरूपता॥” इति च।
नच सर्वस्वरूपता पुरुषार्थः। नारकित्वादेरपि प्राप्तेः। नचार्थान्तरकल्पना युक्ता। प्रमाणाभावात्।
“असनान्मितिरूपत्वादस्मीत्युक्तः परो हरिः। तं सर्व इत्युपासीत पूर्णता सर्वता स्मृता॥” इति च।
सर्वमस्मीत्युत्तमपुरुषत्वे “तेभ्यो न ज्यायः परमन्यदस्ति”छान्दोग्योपनिषत् २/२/१३ इति ज्यायःपरशब्दौ व्यर्थौ। अन्यस्यैवाभावात्। अतस्ततोऽन्यदस्तीति सिद्धम्। अतस्ततोऽन्यत् परमज्याय एव नास्ति। ज्यायो लक्ष्मीर्विद्यते। परमज्यायस्तु भगवानेव।
जीवैक्याङ्गीकारे “यस्तद् वेद”छान्दोग्योपनिषत् २/२/१३ इति तच्छब्दोऽप्ययुक्तः। तदा स्वात्मानं वेदेत्येव स्यात्। नच प्रसिद्धभेदानुवादः। श्रुतिं विना तत्स्वरूपस्यैवासिद्धेः। तद्भेदस्यातिशयेनासिद्धिः। ऐक्य ईश्वरस्य स्वज्ञानमस्तीति न तद्रूपस्य जीवस्याज्ञानादिकं युज्यते। औपाधिकभेदाङ्गीकारेऽप्युपाधिरुभयोरैक्यादुभयोरप्यज्ञत्वं कुर्यात्। उपाधिनिमित्तदोषाश्चोभयोरपि स्युः। उपाधिसम्बन्धस्य समत्वात्। उपाधिसम्बन्धस्यास्मिन्नन्यथा तस्मिन्नन्यथेति विशेषार्थमयमसाविति भेदस्योपाधिं विना स्वत एवापेक्षितत्वात्। अतः स्वतो भिन्नस्यैवोपाधिना विशेषो भवति।
“यस्तु भिन्नः स्वतः खादिस्तस्य भेदो ह्यबुद्धिनाम्। उपाधिभिर्ज्ञाप्य एव नतु भेदं स्वयं सृजेत्। उपाधिरप्यभिन्नस्य भेदं साधयितुं क्वचित्। न क्षमः सिद्धभेदस्य ज्ञापकः स्यादबुद्धिनाम्। आकाशा अप्यतस्त्वेते ह्यनन्ता अप्कणादिवत्॥” इति ब्रह्मतर्के।
अतो न जीवेशाभेदः।
“नतु देवः स्वयं भूत्वा देवदेवं समर्चयेत्। समानव्यवहारे हि न पूज्यः पूजको भवेत्॥” इति परमसंहितायाम्।
“अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात्”,🔗काठकोपनिषत् १/२/८ “प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ”,🔗काठकोपनिषत् १/२/९ “अन्यदेव तद् विदितादथो अविदितादधि”,🔗तलवकारोपनिषत् १/४ “अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत् तत् पश्यसि तद् वद”,🔗काठकोपनिषत् १/२/१४ “नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्”,🔗काठकोपनिषत् २/२/१३ “यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति”,🔗काठकोपनिषत् २/१/१५ “इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः”,🔗भगवद्गीता १४/२ “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता”,🔗तैत्तिरीयोपनिषत् २/१ “आधिपत्यमृते चैव भोगेन विषयेण च। आनन्दादीनृते मुक्ताः सर्वे ते ब्रह्मणः समाः॥” इत्यादेश्च।
“प्रद्युम्नादीनि रूपाणि त्रीणित्रीण्येव पञ्च च। ऋगादिस्थानभेदेन नित्याभिन्नानि चेशनात्॥” इति सामसंहितायाम्।
दृष्टवस्तुनो मिथ्यात्वाङ्गीकारे च युक्त्यपेक्षा। नतु सत्यत्वे।
“दृष्टस्य सत्यतायां तु युक्तिर्वाऽयुक्तिरेव वा। भूषणं तस्य मिथ्यात्वे युक्त्यभावोऽतिदूषणम्। युक्तिश्च दोष एव स्याद् बलवन्मानवर्जिता॥” इति ब्रह्मतर्के।
नच शून्यत्वमिथ्यात्वयोः कश्चिद् विशेषः। तत्प्रमाणाभावात्। अतः सत्य एव भेदः। नच कदाचित् कस्यापि नासीदस्ति भविष्यतीति बुद्ध्यभावे व्यावहारिकसत्यमित्यत्रास्माकं विरोधः। तद्भावे च न शून्याद् विशेषः। “सत्यमेनमनु विश्वे मदन्ति”ऋग्वेदसंहिता ४/१७/५ इत्यादिश्रुतेश्च सत्यो भेदः।
“प्रपञ्चो यदि विद्येत निवर्तेत न संशयः। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः। विकल्पो विनिवर्तेत कल्पितो यदि केनचित्। उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते॥”🔗माण्डूकोपनिषत् २/९-१० इत्यादिश्रुतेश्च।
प्रपञ्चो भेदो यदि विद्येत भवेत उत्पद्येत तर्हि निवर्तेत। अतो न जीवेश्वरादिभेद उत्पद्यते। किन्तु नित्य एव। अतो मायया भगवत्प्रज्ञानेन मातं रतं च मात्रम्। भगवान् जानाति रमते चास्मिन् भेद इति। तच्च भगवद्रूपमद्वैतं परमार्थो भगवांस्तद्रूपेणाद्वैतम्। यदद्वैतं नामोच्यते तत् परमार्थभगवदपेक्षयेत्यर्थः।
स्वगतभेदो भगवति नास्तीत्युक्तम्। नच कल्पनामात्रो भेदः। यदि केनचित् कल्पितो विकल्पस्तथाऽपि निवर्तेत। तस्मादुपदेशादयमेव वादः। केनापि तत्प्रसादेन विनाऽविज्ञातत्वादज्ञातो भगवांस्तद्गतो भेदो न विद्यत इति।
“जीवेश्वरगतो जीवेष्वथ जीवजडात्मनोः। जडेशयोर्जडेष्वेवं पञ्चभेदः प्रपञ्चकः। प्रकृष्टमोक्षहेतुत्वात् तज्ज्ञानं प्रेति कथ्यते। प्रकृष्टपञ्चकत्वाद् वा प्रपञ्चोऽयं प्रकीर्तितः। यद्ययं सादिरेव स्यान्निवर्तेत कदाचन। न निवर्तते यतस्तेन नायं सादिर्भवेत् क्वचित्। मायेति विष्णुविज्ञानं तन्मितत्वाच्च न क्वचित्। भ्रान्तत्वमस्य यद् विष्णोर्नैव भ्रान्तिः कथञ्चन। रमते चात्र यद् विष्णुर्नहि भ्रान्तौ रमेद्धरिः। परमार्थे हरौ नैव भेदोऽस्ति जडजीववत्। यद्ययं कल्पितो भेदः कस्मान्नैव निवर्तते। तस्माद् भूतभविष्याख्यभवदाख्यपराभिधाः। तदन्ये चैक एवास्मिन्नोङ्काराख्ये जनार्दने। अज्ञातनामके तस्मिन् न भेदोऽस्ति कथञ्चन॥” इति ब्रह्मतर्के।
“विदिः कादाचित्कस्वरूपलाभे” इति च धातुः। भिद्येतेतिवद् विद्येतेति शब्दः। परमार्थत इति “विश्वतश्चक्षुः”ऋग्वेदसंहिता १०/८१/३ इतिवत् सप्तम्यर्थे। परमार्थे द्वैताभाव एवेत्यर्थः। परमार्थः परमात्माऽद्वैत इति प्रथमार्थो वा। नहि विद्यमानं निवर्तत इति नियमः। उत्पद्यमानं हि प्रायो निवर्तते। जीवेश्वरप्रकृत्यादिकं बहुलं हि विद्यमानं न निवर्तते। नच कल्पितो विकल्प इति पक्षे “कल्पितो यदि” इति यदिशब्दो युज्यते। नच “निवर्तेत न संशयः”, “विकल्पो विनिवर्तेत कल्पितो यदि” इत्यादिनाऽनिष्टापादनरूपः शब्दो युज्यते। कल्पितत्वं चेच्छ्रुतेरभिप्रायः, ‘अविद्यमानोऽयं प्रपञ्चो निवर्तते’ ‘कल्पितो विकल्पो विनिवर्तते’ इत्येव शब्दः स्यात्। नतु “निवर्तेत” इति। अतः सत्यतापरमिदं वाक्यं भेदस्य।
“असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् [—] एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः”भगवद्गीता १६/९ इति निन्दनाच्च।
“विद्याऽऽत्मनि भिदाबोधः”,भागवतम् ११/१९/३९ “जुष्टं यदा पश्यत्यन्यमीशमस्य”आथर्वणोनिषत् ३/१/२ इत्यादि भेदज्ञानस्य प्रशंसनाच्च।
अतोऽसनान्मितत्वाच्चास्मीति भगवन्नामैवैतत्॥*॥
सर्वदा समत्वात् साम भगवान्। तस्योद्गानप्रकारो विनर्दि। वृषभस्वरवन्मेघनर्दनवद् वा। तदेव वृणे। सर्वोत्तमत्वात्।
“विष्णोः स्वरो वृषभवन्मेघनादवदेव वा। स्त्रीपशुस्वरवद् वह्नेर्गम्भीरोऽनुपमो विभोः। ब्रह्मणस्त्वथ सोमस्य साक्षाद् घण्टानिनादवत्। मृदुमेघस्वरो वायोरिन्द्रस्य स्तनयित्नुवत्। बृहस्पतेः क्रौञ्चवच्च वरुणस्य तु विस्वरः। एकस्य पादवर्षस्य स्वरो विष्णोरुदाहृतः। वायोर्विंशतिवर्षस्य ब्रह्मणस्तु तदन्तरा॥” इति च।
“गायेदेतैः स्वरैस्तस्माद् यथाशक्ति न विस्वरम्। अधिकारी सदौद्गात्रे मुख्यतः प्राण एव यत्। अतो मोक्षादिदाने स देवादीनां क्षमो भवेत्। अन्येषां स ददातीह मद्धृदिस्थ इति स्मृतिः। कार्या हि नान्यथा कुर्यादवमन्ताऽन्यथा भवेत्। देवानां मोक्षदानादौ नहि मानुष ईश्वरः। अतः प्राणो हृदिस्थो मे ददातीति स्मृतिर्भवेत्। सङ्कल्पोक्त्यादिकर्ता च प्राण एव यतः सदा। आगायनीति युज्येत तस्मात् तस्मिन् हि मुख्यतः। आत्मेति भगवान् विष्णुः प्राणस्थः पुरुषोत्तमः। तस्मा अन्नं ह्यर्थतस्तु प्राणस्यान्नभुजिर्भवेत्। प्राणस्याप्यमृतत्वं हि मुख्यमेव फलं यतः। देवान्तर्भावतो विष्णोर्नामृतत्वं क्वचादिमत्। इन्द्रे बलं ददानीति स्वरान् घोषबलात्मकान्। ब्रूयादग्रस्तानिरस्तानूष्मणः स्पर्शानपि। समस्तान् बलदानार्थमिन्द्रे चैव प्रजापतेः। विष्णोः स्वात्मानमेवाहमर्पये मृत्युवर्जितान्। मोक्षयोग्यान् करिष्यामीत्येवं स प्राण एव तु। कुर्यादन्यस्तु मत्स्थस्तु प्राण एवेदृशः क्षमः। करोतीति स्मरेन्नित्यं नान्यथा तु कथञ्चन। देवावमन्ता हि तमो यात्यसंशयतो यतः। अत इन्द्रं प्रजापाख्यं विष्णुं मृत्युं च सर्वदा। शरणं गतोऽहमिति च ध्यायेत् सर्वत्र सर्वदा। ऐश्वर्यादिन्द्रनामा तु वायुः स्वरपतिः सदा। ऊष्माधिपस्तु भगवान् विष्णुरेव प्रजापतिः। मृत्युनामा तु संहाराद् रुद्रः स्पर्शाधिपः स्मृतः। मानुषाणां तु शरणमितरेषां तु वायुतः। वायोस्तु बलदानाद्यं मोक्षदानादिकं हरेः। यस्माद् वायुपदे योग्या बहवस्त्विन्द्रनामकाः। अत इन्द्रे ददानीति स्मृतिः प्राणस्य युज्यते॥” इति सामसंहितायाम्।
“सर्वोपद्रवकर्तॄणामसुराणां कुबुद्धिनाम्। उपालम्भे कृते युक्तं विष्णुस्त्वां प्रतिपेक्ष्यति। रुद्रस्त्वां धक्ष्यतीत्यादि नान्यथा तु कथञ्चन॥” इति च।
मृत्योः सकाशादात्मानं परिहराणीति।
“ब्रह्मा प्रजापतिश्चेति विष्णुरन्यं प्रबोधयन्। तथेन्द्रनामा वायुश्च परेषां बोधको यदा॥” इति च।
बृंहयति, प्रजाः पाति, इदं रातीति व्युत्पत्तिभिः॥*॥
“सर्वधर्मैः पुण्यलोको ब्रह्मज्ञानाद् विमुच्यते। ओङ्कारो ब्रह्मणो नाम सर्ववागात्मकश्च सः। तद्व्याख्यात्वात् सर्ववाचां सर्ववागात्मता भवेत्। इदं तु प्रस्तुतत्वात् स सर्वं चाप्यर्थपूर्णतः। सर्वशब्दान्वितत्वाच्च न लिङ्गव्यत्ययो भवेत्। आधिक्यं चैव सर्वत्वं प्रस्तुतं तद् यथेति तत्॥” इति च।
“अकाराद्याः क्रमेणैव भूरादेः साररूपिणः। अस्मादयं सार इति ज्ञानमेवाभितापनम्। सम्प्रस्रावश्च तद्दृष्टिर्ब्रह्मणः परमस्य हि। नित्यज्ञानोऽपि भगवान् क्रीडयाऽचीकॢपद् यदा। तदाऽभितापशब्दोऽयं वर्तते परमात्मनि॥” इति च॥
तपःशब्देनैव यतिधर्मश्चोक्तः।
“सर्वेषामाश्रमस्थानामज्ञानां पुण्यलोकता। अपरोक्षदृशां विष्णोरमृतत्वं नचान्यथा॥” इति च।
“यज्ञाध्ययनदानैस्तु गृही स्यात् सोमलोकगः। यतयस्तपसा सूर्यं चत्वारोऽपि विशेषतः। गच्छन्ति तपसैवर्षीन् वनस्था ब्रह्मचारिणः। नैष्ठिका वालखिल्यांश्च गुरुशुश्रूषयैव तु। यदि पश्यन्त्येत एव साक्षाद् देवं जनार्दनम्। अमृतत्वं तदा यान्ति नान्यथा तु कथञ्चन॥” इति च।
नच सन्न्यासमात्रेणामृतत्वम्। “तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते”तैत्तिरीयारण्यके ३-१२-७ इति श्रुतेः। “विद्यैव तु निर्धारणात्”ब्रह्मसूत्रम् ३/३/४७ इति च भगवद्वचनम्।
“न रोधयति मां धर्मो न साङ्ख्यं योग उद्धव। न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा॥”भागवतम् ११/१२/१ इति च।
“नच सन्न्यसनादेव सिद्धिं समधिगच्छति”भगवद्गीता ३/४ इति च।
“तस्य पुत्रा दायमुपयन्ति” इत्यादेगृर्हस्थादीनामपि ज्ञानिनां मोक्षः प्रतीयते।
“सर्ववर्णाश्रमाणां च ज्ञानान्मोक्षो विनिश्चितः। अन्त्यानां स्थावराणां वा तथाऽपि यतिरुत्तमः। ज्ञानद्वारो यतो न्यासो विशेषेण भविष्यति॥” इति च॥
“वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः”आथर्वणोपनिषत् ३/२/६ इति च।
“वसुरुद्रादितेयेषु विश्वेषु स्थितमीश्वरम्। तन्नामानं हरिं मन्त्रैर्लोकद्वारादिभिः प्रभुम्। प्रार्थयित्वा दिवं त्वज्ञो ज्ञो मोक्षं प्राप्नुयात् तथा। यजमानो नान्यथा तु लोकोऽस्य प्राप्यते वरः। राजनं पृथिवीलोके राज्यमित्युच्यते बुधैः। विराज्यमन्तरिक्षे तु स्वाराज्यं स्वर्गगं भवेत्। एतेषु मोक्षोऽपि भवेन्मानुषाणां विशेषिणाम्। श्वेतद्वीपं तथा गत्वा दृष्ट्वा विष्णुं च ते ततः। अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु॥” इति च।
“यो देवानां नामधा एक एव”ऋग्वेदसंहिता १०/८२/३ इति श्रुतेश्च भगवत एव वस्वादिनामानि। “त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते”भगवद्गीता ९/२० इति वचनाच्च भगवानेव प्रार्थ्यः। भगवत्स्वरूपस्य सम्यगपरिज्ञानाद् रागाच्च तेषामन्तवत्फलत्वम्। “ननु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते”,भगवद्गीता ९/२४ “गतागतं कामकामा लभन्ते”भगवद्गीता ९/२१ इति वचनात्।
“सर्वोत्तमत्वस्याज्ञानाद् विष्णोरन्धं तमो भवेत्। तद्द्वेषात् किमु वक्तव्यं ब्रह्मादिद्वेषतोऽपि वा। तारतम्यापरिज्ञानादनुत्थानं तमो भवेत्। अपराधकृतेस्तेषां निरयं त्वेव गच्छति। पूजाया अकृतेस्तेषां न वर्णेषु जनिर्भवेत्। सम्यक् कर्माननुष्ठानात् स्वर्गं नैवोपगच्छति। अपरोक्षदृशेरौन्यान्मोक्षं नैवोपगच्छति॥” इति च।
“पूर्वपूर्वगुणैर्दोषा न शक्ता उत्तरोत्तराः। स्थानद्वयोत्तरे शक्ता मोक्षो नानपरोक्षिणः। विरुद्धरागिणां नैव ह्यपरोक्षदृशिर्भवेत्। यावद् रागविनाशः स्याद् विरक्तो भक्तिसंयुतः। सर्वदैवाप्रमत्तश्च पश्येदेव हरिं परम्। अविस्मृतिः सदा विष्णोरन्यथाज्ञानवर्जनम्। शास्त्राभ्यासः सदोद्योगाच्छ्रवणाच्च विचारतः। निषिद्धकर्मणां त्यागः स्वधर्मस्य कृतिः सदा। अप्रमाद इति प्रोक्तः शास्त्रं वेदास्तु पञ्च च। भारतं पञ्चरात्रं च मूलरामायणं तथा। पुराणं भागवतं चैव पञ्चमो वेद उच्यते॥” इति च।
“त्रिलोकप्राप्तिपरिघास्त्रयः सन्ति सनातनाः। तेषामग्न्यादिगो विष्णुरपहन्ता स्मृतो भवेत्। मृतः सन् सुखभोगाय यत्र गच्छति तत्र ह। एकैकः परिघोऽग्रे स्याद् गते तस्मिंस्तु विष्णुना। यजमानः पृथिव्यादिलोकान् भोगाय याति हि॥” इति च।
“यस्त्राति यज्ञमातारं यज्ञमात्रा हरिस्तु सः। तमेवं वेत्ति यो भक्तो याति स्वर्मुक्तिमेव च ॥” इति च।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते छान्दोग्योपनिषद्भाष्ये द्वितीयोऽध्यायः॥
तृतीयोऽध्यायः
प्रथमः खण्डः
द्वितीयः खण्डः
तृतीयः खण्डः
चतुर्थः खण्डः
पञ्चमः खण्डः
उपनिषदि तृतीयोऽध्यायः
“य आदित्यगतो विष्णुः स एव मधुनामकः। मदधिर्मध्विति प्रोक्तो मदः सुखमिहोच्यते। अ इत्याधिक्यमुद्दिष्टं मज्ज्ञानततिरुच्यते। तद्वत्ता ततिरुद्दिष्टा तेनानुभव ईरितः। अधिकोऽनुभवो यस्य सर्वस्मादीप्सितादपि। सोऽयं मद इति प्रोक्तः सर्वं हि सुखसाधनम्। तत्पूर्णो मधुनामा स्यात् तृतीयोऽतिशयार्थकः। देवानामुपजीव्यत्वात् स देवमधुनामकः। आदित्वादाततत्वाच्च ज्ञानरूपत्वतस्तथा। आदित्य इति सम्प्रोक्तः प्रसिद्धमधुवच्च सः। तिरोवंशादिसंयुक्तो द्युनाम्नी च द्युसंस्थिता। प्रकाशादिगुणैः श्रीस्तु वायोराश्रयरूपतः। तिरोवंश इति प्रोक्ता मध्वपूपस्तु मारुतः। तस्मिन् सन्निहितो विष्णुर्विशेषेण यतः सदा। सोऽन्तरिक्षमिति प्रोक्तः स्वान्तः सम्यग्घरीक्षणात्। अन्तरिक्षस्थितश्चासौ वस्वाद्या मधुकारिणः। तत्पुत्रास्तु मरीच्याद्याः सूर्यरश्मिषु संस्थिताः। तिर्यक् स्थित्वा वशे कुर्याद् यस्माद् देवी रमा हरिम्। भक्त्यैवातस्तिरोवंशस्तिर्यक्त्वं प्रणतिः स्मृता। तिर्यक् स्थित्वा स्वसंस्थं तु वशीकुर्याद् यतस्ततः। वंशस्तिरश्चीनोऽन्योऽपि यस्मिन्नाप्यमुपस्थितम्। सोऽपूप आप्यो भगवान् मध्वाज्यादि प्रसिद्धगम्। प्राच्यरश्मिषु संस्थस्तु रतिशंमानरूपतः। प्राच्यरश्मिरिति प्रोक्तो वासुदेवाभिधो हरिः। एतद् विना नालमिति नाडीत्यंश उदाहृतः। स्वरूपांशैर्विना प्राप्तुं नालं हि प्रापितांशिनम्। ऋग्वेदमानिनश्चैव वह्न्याद्या वसवस्तृचः। अर्च्यत्वात् प्रथमं चैव विशेषाद् यज्ञदेवताः। इन्द्राद्या यजुरुद्दिष्टा रुद्रा इन्द्रसखा यतः। इन्द्रशब्दोदितो वायुः स याज्यः सोमभुक् पुरः। स हि शङ्करपूर्वाणां रुद्राणां मुख्य एव च। सामनामान आदित्या मासशः समभोगतः। इन्द्रो वरुण उद्दिष्टो यज्ञेषु व्रीयते यतः। आदित्यानामधिपतिः स हि विष्णुनियोजितः। विष्णुस्तूपास्यरूपत्वान्नोपासकगणे युतः। इतिहासपुराणानां सोमाद्या अभिमानिनः। अथर्वाङ्गिरसां चैवाप्यथर्वाङ्गिरनामकाः। अधरं वर्तयेयुस्ते वृष्टिमङ्गरसास्तथा। मनस्त्वात् प्राणरूपत्वादथर्वाङ्गिरसस्ततः। गुह्यादेशा ब्रह्मपदे ये योग्या ब्रह्मणा सह। सर्वगुह्योपदेष्टारः सर्वेषां गुरवो हि ते। ब्रह्मेति सर्ववेदानां नामानन्तत्वतः स्मृतम्। ऋग्वेदादींस्तु ते देवा अग्न्याद्याः संव्यचारयन्। मधुब्रह्मव्यक्तिकृत्त्वात् ते वै मधुकृतः स्मृताः। ज्ञानपोषकरत्वात् तु वेदाः पुष्पाभिधाः स्मृताः। अन्यत्र मधुकृत्पोषान्नित्यत्वादमृताश्च ताः। वेदवाचः सुरैः पेया भोग्यत्वादाप ईरिताः। वेदपानं विचारश्च श्रवणं पाठ एव च। देवैर्विचारितेभ्यश्च वेदेभ्यो व्यक्ततां गतः। ज्ञानानन्दस्वरूपत्वाद् यशस्तेजःस्वरूपकः। इन्द्रियं परमैश्वर्याद् वीर्यरूपश्च सर्वदा। सर्वानुग्रहशक्तित्वादन्नाद्यो बलरूपतः। रसनामा च भगवान् संस्थितः सूर्यमण्डले। व्यक्षरद् धर्ममोक्षादीन् देवानां भगवान् हरिः। ऋक् प्रोक्तो लोहिताकारो वासुदेवः परः पुमान्। स एव सूर्यलौहित्ये प्राच्यरश्मिषु संस्थितः। सङ्कर्षणः शुक्लवर्णो यजुर्वेदोदितः प्रभुः। शुक्लवर्णे च सूर्यस्य दक्षरश्मिषु संस्थितः। प्रद्युम्नः श्यामवर्णस्तु सामवेदोदितः प्रभुः। प्रत्यग्रश्मिषु सूर्यस्य श्यामवर्णेऽपि च स्थितः। अनिरुद्धः सुनीलश्च इतिहासपुराणयोः। अथर्ववेदे चोक्तः सन्नुदग्रश्मिषु संस्थितः। सुकृष्णे सूर्यरूपे च मध्ये नारायणः प्रभुः। ऊर्ध्वरश्मिषु संस्थश्च प्रोद्यदादित्यसप्रभः। महामरीचिपुञ्जेन चलतीवाचलोऽपि सन्। स वाच्यः सर्ववेदानामेवं पञ्चात्मको हरिः। वेदानां सारभूतोऽसौ वेदानां नित्यताप्रदः। अतोऽमृतानाममृतो रसानां रस एव च॥” इति सामसंहितायाम्।
नचाचेतनमात्रमुपासितं पुरुषार्थप्रदानशक्तम्। “ज्येष्ठाय पुत्राय पिता ब्रह्म पब्रूयात्”छान्दोग्योपनिषत् ३/१/१४ इति वाक्यशेषाच्चैतदवगम्यते। “य एतामेवं ब्रह्मोपनिषदं वेद”छान्दोग्योपनिषत् ३/१/१४ इति च। कथं चाचेतनोपासनं ब्रह्मादिपदप्रदं भवति? “न वै तत्र न निम्लोच नोदियाय कदाचन”,छान्दोग्योपनिषत् ३/१/१३ “सकृद् दिवा हैवास्मै भवति”छान्दोग्योपनिषत् ३/१/१४ इत्यादि च मुक्तस्यैव मुख्यतो युज्यते।
यशस्तेजइन्द्रियवीर्यान्नाद्यरसत्वं च भगवन्तं विना कस्य मुख्यतो युज्यते? “तस्य नाम महद् यशः”,महानारायणोपनिषत् १/१० “ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरितः॥”, “रसो वै सः”,तैत्तिरीयोपनिषत् २/७ “सुखात्मकं षड्गुणविग्रहं परं हृदि स्थितं ब्रह्म निरञ्जनं स्वरुक्। ऐश्वर्यवैराग्ययशोविबोधवीर्यश्रिया पूर्णमहं प्रपद्ये॥” “अहं तत् तेजो रश्मीन्नारायणं पुरुषम्” इत्यादेश्च। “ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः”नारसिंहपुराणे ६२/१७ इति च॥
नचाचेतनस्यैश्वर्यादिरूपत्वं युज्यते। “ज्ञानात्मको भगवानैश्वर्यात्मको भगवान् शक्त्यात्मको भगवान्” इति च श्रुतिः।
“सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्”ब्रह्मसूत्रम् ३/३/१ इति सर्ववेदप्रतिपाद्यत्वं भगवत उक्तं भगवता। “स सर्वनामा स च विश्वरूपः प्रसीदतां ब्रह्म महाविभूतिः”भागवतपुराणम् ६/४/२८ इति च। “सर्वे वेदा यत्पदमामनन्ति”,काठकोपनिषत् १/२/१५ “ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव”,ऐतरेयोपनिषत् २/२/२ “वेदे रामायणे चैव पुराणे भारते तथा। आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते”,हरिवंशपुराणम् ३/१३२/९५ “नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति” इत्यादेश्च।
उपनिषत्त्वाच्च विशेषतो न यत्किञ्चिदुच्यत इति वक्तुं युक्तम्।
“विष्णुरुक्तः सर्ववेदैर्मन्त्रैरपि विशेषतः। आरण्यके विशेषेण नैवान्यत् किञ्चिदुच्यते। कर्मार्थं च ब्राह्मणं स्यादमुख्यार्थविवक्षया। मुख्यतो विष्णुरेवैको ब्राह्मणेष्वपि कथ्यते। आरण्यकेष्वृते विष्णुं नैवान्यत् किञ्चिदुच्यते। सूत्रात्मा तूच्यते विष्णोस्तद्विशिष्टत्ववित्तये। कुत्रचित् तदुपास्तिश्च तस्याध्यर्द्धतनुत्वतः। तस्मिन् विष्णोरुपास्त्यर्थं नान्यथा किञ्चिदुच्यते॥” इति ब्रह्माण्डे।
“यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवत्राणनिरोधमस्य। लीलावतारैधितकर्म वा स्याद् वन्ध्यां गिरं तां बिभृयान्न धीरः॥”भागवतपुराणम् ११/११/२० “वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी”भागवतपुराणम् ११/११/१९ “यन्न व्रजन्त्यघभिदोऽरचनानुवादाः शृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः। यास्तु श्रुता हतभगैनृर्भिरात्तवीर्यास्तांस्तान् क्षिपन्त्यशरणेषु तमःसु हन्त॥”भागवतपुराणम् ३/१६/२३ इत्यादिभगवद्वचनाच्च॥
“सर्वासु शाखास्वारणमावर्तयेदारणमावर्तयेदुपनिषदमावर्तयेदुपनिषदमावर्तयेत्” इत्युपनिषदभ्यासस्य सतात्पर्यं विहितत्वात्, अभगवद्विषयस्य निन्दितत्वाच्च नोपनिषत्स्वन्यदुच्यते।
“अभ्यसेदधियज्ञं चाप्यधिदैवं विशेषतः। अध्यात्मं तु विशेषेण यस्माद् विष्णुस्त्रिषूदितः॥” इति स्कान्दे।
“मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्य इत्यहम्। इत्यस्या हृदयं साक्षान्नान्यो मद् वेद कश्चन॥”भागवतम् ११/२१/४३ इत्यादेश्च भगवदुपासना एव सर्वत्रोक्ताः॥*॥
“प्रथमामृतस्य द्रष्टारो वसवस्त्वग्निपूर्वकाः। यावत् पश्यन्ति तं विष्णुं तावत् ते नान्यभोगिनः। एतदेव विशन्त्यद्धा मोक्षे ते तत एव च। स्वेच्छयैव समुद्यन्ति मुक्ताः सन्तो बहिस्तथा। एवं द्वितीयरूपं तु शिवाद्या वायुसंस्थिताः। वायोर्हिरण्यगर्भत्वात् पदद्वयमुदाहृतम्। रुद्राणामाश्रयत्वं च साध्यानामपि सर्वशः। अतो यजुर्विचारश्च सर्ववेदात्मनस्तथा। वायोरेव विचारः स्याद् ब्रह्मणोऽपि विशेषतः। उभयाश्रयः स मोक्षोऽपि वायुरेव हि सर्वदा। द्रष्टारोऽथ तृतीयस्य शक्रमुख्यादितेःसुताः। चतुर्थस्य तु सोमाद्या मरुतः पञ्चमस्य च। ऋजवो ब्रह्ममुख्या हि सुपर्णः शेष एव च। सरस्वती सुपर्णी च वारुणी साध्यनामकाः। अन्योन्यमुखता मुक्तौ ब्रह्मणां समता तथा। वाक्शेषादेर्मुखं ब्रह्मा मुक्तावपि विशेषतः। द्रष्टोभयस्यापि शिवो द्वितीयस्यान्तगस्य च। मोक्षे त्वन्यत्र चैकस्य परतः शेषभावतः। ये चैतत्पदयोग्याः स्युर्देवाः पञ्च महागणाः। तेषामपि यदोपासा निश्छिद्रा मधुनामके। तदा वस्वादितां प्राप्य मुक्तिमेष्यन्त्यसंशयम्। उदेत्यास्तमयं यावद् याति भानुस्तु पर्वते। उदयास्ताद्रिमध्यस्य वसवः पतयः स्मृताः। ततश्चास्तमयाद् यावदर्धरात्रं दिवाकरः। दक्षिणादुत्तरं याति किञ्चित्पूर्वसमन्वितम्। तद्देशकालयोरीशा रुद्रा वायुपुरःसराः। वसुभोज्यादर्धकालमर्धदेशस्तथैव च। रुद्रभोज्योऽर्धरात्रात् तु याम आदित्यदैवतः। पश्चिमात् पूर्वमार्गस्तु रौद्रादर्धः प्रकीर्तितः। ततः परोऽर्धयामस्तु सौम्याद् दक्षिणमार्गकः। मारुतः काल उद्दिष्ट आदित्यार्धश्च देशतः। पश्चात्पश्चादुदेत्यैव पूर्वतोऽस्तमुपैति च। ततस्तदर्धकालेन चोत्तरादुदितस्तथा। अस्तं दक्षिणतो याति स कालो मारुतः स्मृतः। उदेत्यैन्द्रपुरे चोर्ध्वमर्वागुदयपर्वते। अस्तमेति तदर्धेन ब्रह्मा तस्य पतिः स्मृतः। एकत्रिंशत् तु घटिकाः साधिका वसुदैवताः। तदर्धा रुद्रदैवत्यास्तत आदित्यदैवताः। तदर्धा मारुता ब्राह्मास्तदर्धा देशतस्तथा॥” इति च॥
रौद्रो द्विगुणीभूतो वसुकालो यावांस्तावान् भवतीति द्विस्तावत् अर्ध इत्यर्थः। “ब्राह्मे मुहूर्ते”स्कान्दे २/७/२१/५० इत्युषःकालस्य प्रसिद्धेश्च। रौद्रः काल इति पूर्वरात्रस्य प्रसिद्धेः सार्धरात्रस्य। सौम्यः काल इत्यपररात्रस्य। सौम्यकालत्वाच्च तस्मिन् काले शीतमुत्पद्यते। मारुतकालत्वाच्च वायुश्च वाति। आग्नेयकालत्वादेवाह्नि सैकघटिकं होमकर्माणि विशेषतः प्रवर्तन्ते।
“अहः सर्वं वसूनां तु परेषां रात्रिरेव च। प्रदत्ता विष्णुना पूर्वं नालमित्यब्रुवन् परे। पुनर्विशेषतो दत्तं रुद्राणां मरुतां तथा। माध्यन्दिनं तृतीयं चाप्यादित्यानां प्रदत्तवान्। विश्वेषामपि देवानां सामान्याद् वसुनामहः ॥” इति च।
“सर्वस्याधिपतिर्ब्रह्मा रुद्राद्यास्तु द्वयोर्द्वयोः। वसवस्त्वह्न एवेशाः सामान्यान्न विशेषतः॥” इति च।
“माध्यन्दिने तृतीये च रुद्रादे राज्यमिष्यते। तद्भृत्यत्वाद् वसूनां तु प्रातःकालो विशेषतः। तत्रापि वाय्वधीनत्वमग्न्यादीनां प्रकीर्तितम्। एवं पृथिव्यां रुद्राणामन्तरिक्षे प्रकीर्तितम्। मरुतां च द्युलोकेशा आदित्याः परिकीर्तिताः। सर्वेषामधिपो ब्रह्मा द्युवाधीशस्तु मारुतः। त्रिलोकाधिपतिश्चेन्द्रस्तेषामप्यधिपो हरिः॥” इति च।
स्वराज्यं भोगः। स्वरञ्जनात्। नत्विन्द्राद् यमो द्विगुणकालं तिष्ठति तस्माद् वरुणस्तस्मात् सोम इत्यत्र किञ्चिन्मानम्। नच सोमाद् द्विगुणमेव ब्रह्मा तिष्ठति। द्विपरार्धं हि तस्य कालः। इन्द्रादयो हि मन्वन्तरमात्रं तिष्ठन्ति। नच वसूनां पूर्वो देशो रुद्राणां दक्षिण आदित्यानां पश्चिमो मरुतामुत्तर एव नान्यत्रेत्यत्र प्रमाणमस्ति। तत्पक्षे रुद्रैः सहेन्द्रस्य दक्षिणत्वप्राप्तेश्च। अत इन्द्रादेवेन्द्रस्य द्विगुणकालत्वमिति विरोधः। नचेन्द्रशब्देन वायुस्तैर्गृहीतः। इन्द्रादिपुरीणामुद्वासत्वेनैवमङ्गीकारे तत्षोडशगुणत्वादूर्ध्वोदयस्यैकेन्द्रात् परतोऽनिन्द्रत्वमेव स्यात्। “अथ तत ऊर्ध्व उदेत्य” इति तत्पक्षे पश्चादप्यादित्यभावात् कल्पान्तलयो न स्यादित्याद्यनन्तदोषदुष्टत्वेऽपि ग्रन्थाल्पत्वायैवोपरम्यते।
“वस्वादीनां तु सर्वेषां सर्वदिक्षु पुराण्यपि। सन्त्येवमपि धीवृत्त्यै प्रत्येकं दिक्षु कथ्यते॥” इति च॥
ऐन्द्र्या उद्वासे रुद्राणामेवोदयाभाव इति च दोषः। अतो यत्किञ्चिदेतत्।
“उदेति पूर्वतः सूर्यो निम्लोचति च पश्चिमे। एवं नियम उद्दिष्टो ब्रह्मणा विष्णुचोदनात्। द्विगुणन्द्विगुणं कालमुदित्वा दक्षिणादिषु। मध्ये व्यवस्थितिः पश्चाद् ब्रह्माणं याचिता पुरा। हिरण्यकेन सूर्यस्य हिरण्याक्षेण वै पुनः। तदाऽसुराणां देवत्वं ब्रह्मा तत् प्रददौ तयोः। तच्छ्रुत्वेन्द्रादिभिः प्रोक्तः कथं प्रादा वराविमौ। देवता हि विनश्येयुरेवं दत्ते वरे त्वया। इत्युक्तो दैवतैः प्राह ब्रह्मा लोकपितामहः। न मया स वरो दत्तो दैतेयानां सुराः क्वचित्। येन युष्मद्विनाशः स्यात् ततो व्येतु च वो भयम्। दक्षिणाद्युदयो यस्तु स हि दैनन्दिनो मया। अभिप्रेतो नैव चायं कालान्तरगतः क्वचित्। अर्धनाड्युत्तरा नाडीः सकाष्ठा नित्यशो रविः। पञ्चादशोत्तरां गच्छेत् पूर्वरात्रे तु दक्षिणात्। तदर्धं पश्चिमात् पूर्वं तदर्धं चोत्तरादपि। दक्षिणां च तदर्धं स ऊर्ध्वादर्वाक् च गच्छति। दक्षिणाद्युदयस्त्वेष नतु कालान्तरे क्वचित्। यदोत्तरस्माद् द्विगुणः वूर्वो भवति वै सुराः। तदाऽपि द्विगुणत्वं स्यात् तन्मयाऽत्र विवक्षितम्। अहःसाम्येऽपि क्रमश आतपस्याल्पकालतः। गिर्यावृत्तेः क्षिप्रमन्येषूदयास्तमयाविव। कालान्तरे भाविनं तु दक्षिणाद्युदयं पुनः। अपेक्ष्यैव वरो दत्तो द्वितीयो देवता मया। समयश्च कृतो नित्यो मया सूर्यस्य चानघाः। पूर्वस्मादुदयो नित्यः पश्चिमेऽस्तमयस्तथा। नियमो नान्यथाऽयं स्यात् कदाचित् केनचित् क्वचित्। तस्मान्न वो भयं क्वापि प्रोक्ता इत्थं सुरास्तदा। विशोका अभवन् सर्वे ययुः स्वंस्वं निवेशनम्॥” इति च।
एतदेव मोक्षधर्मेषु बलिवासवसंवाद उक्तम्। देवान् प्रति ब्रह्मणो वचनं रहस्यत्वादविज्ञाय बलिना दक्षिणाद्युदय उक्तः। इन्द्रेण तु ब्रह्मवचनं जानता दक्षिणाद्युदयो नास्तीत्युक्तम्।
“दैतेययोर्वरं ज्ञात्वा त्वविज्ञाय सुरान् प्रति। ब्रह्मणोक्तं हि बलिना वासवं प्रत्युदीरितम्। दक्षिणाद्युदयान्ते तु त्वां जेष्यामि पुरन्दर। इत्युक्तस्तमुवाचेन्द्रो न कदाचन तद् भवेत्। ब्रह्मणा नियमो यस्मात् कृतः प्रागुदयो रवेः। इत्युक्त्वा तु जगामेन्द्रो दिवमैरावतस्थितः॥” इति च॥ ३/६-१०॥
“अथ सूर्यस्थितो विष्णुरादित्यस्त्वादिमूलतः। आदानाद् वाऽपि देवानामूर्ध्वं गच्छति मण्डलात्। प्राप्य वैकुण्ठलोकं च नोदेत्यस्तं नचैति सः। एकलः प्रलये स्थाता देवता नात्र संशयः। तेन सत्येन न व्यृद्धिमाप्नुयां ब्रह्मणा क्वचित्। इत्युवाच पुरा ब्रह्मा देवेभ्यः स चतुर्मुखः। एतां विद्यां तु यो वेद नित्यमस्य दिवा भवेत्। वैकुण्ठधामसंस्थस्य मुक्तस्यानुदयास्तकम्। तदेतद् भगवान् विष्णुः प्रादाज्ज्ञानं विरञ्चये। विरिञ्चिर्मनवे प्राह प्रजाभ्यो मनुरेव च। पूरयित्वा तु पृथिवीं रत्नैः सप्तसमुद्रिणीम्। दत्वाऽपि गुरवे नैव पूर्यते गुरुदक्षिणा। देवास्तूपासनायोग्या एकैकस्यामृतस्य हि। सर्वस्योपासने ब्रह्मा तदन्ये ज्ञानमात्रके। उपासने नैव योग्यास्तद्योग्या हि सुरा यतः॥” इति देवश्रुतौ।
ब्रह्मणा परेण मा विराधिषि। भगवत्प्रसादादवृद्धिं न प्राप्नुयामित्यर्थः॥ ३/११॥
यदिदं किञ्च भूतं प्रभूतं परिपूर्णं तत् सर्वं गायत्री भगवानेव। “भू बहौ” इति धातोः। “बहुः पूर्णतायाम्” इति च।
“यदिदं परितः पूर्णं मत्स्यकूर्मादिरूपकम्। तदिदं भगवान् विष्णुः सर्वान्तःस्थित एव च। तन्निःसृतत्वाद् वेदानां गायकस्त्राति चाखिलम्। अतो गायत्रिनामाऽसौ वासुदेवः परः पुमान्। भूमा भूतमिति प्रोक्तः पूर्णत्वात् पुरुषोत्तमः। अनन्यापेक्षमुद्रिक्तं सर्वस्य विनियामकम्। यद्यत् तत्तद् विष्णुरेव नान्यदेतादृशं क्वचित्। स एव भगवान् विष्णुर्वाङ्नामा वाचि संस्थितः। वचनाद्धयशीर्षाख्यो गायत्र्यां च स आस्थितः। स एव पृथिवीनामा पृथिव्यामपि संस्थितः। विष्णौ हि पृथिवीसंस्थे जगत् सर्वं प्रतिष्ठितम्। नातिशेते च तं कश्चित् स हि सर्वाधिको हरिः। पृथुत्वात् पृथिवीनामा स एवान्तःशरीरगः। शरित्वादीरणाच्चैव शरीरं भगवानजः। पुरुषो जीव उद्दिष्टस्तस्मिन्नेव स्थितो विभुः। योऽसौ जीवे स्थितो विष्णुः शरीरमितिनामकः। शंत्वाच्च रतिरूपत्वादीरणाच्च स एव तु। जीवचैतन्यरूपस्य हृदयेऽपि व्यवस्थितः। अयनाद्धृदि विष्णुः स हृदयं कीर्तितो बुधैः। गायत्र्यां संस्थितो विष्णुः स्त्रीरूपः सूर्यसप्रभः। द्वितीयश्चैव मत्स्यादिर्भूतनामाऽवतारगः। तृतीयो वाचि संस्थश्च स्त्रीरूपो हयशीर्षकः। चतुर्थः पृथिवीसंस्थः स्त्रीरूपः पीतवर्णकः। जीवस्यान्तर्गतो व्याप्य शरीरमितिनामकः। पञ्चमस्तद्धृदिस्थश्च षष्ठो हृदयनामकः। गायत्रीनामको विष्णुरेवं षड्विध उच्यते। त्रिभिः स्वरूपपादैश्च भिन्नेनैकेन चैव हि। गायत्रीनामको विष्णुश्चतुष्पात् सम्प्रकीर्तितः। भिन्नपादाः सर्वजीवास्तस्य सादृश्यमात्रतः। स्वरूपपादा विष्णोस्तु त्रयो हि दिवि संस्थिताः। नारायणो वासुदेवो वैकुण्ठ इति ते त्रयः। अनन्तशयनं चैव तथाऽनन्तासनं हरेः। बहुलक्षोच्छ्रिते नित्ये विमाने संस्थितं यतः। चित्प्रकृत्यात्मनि ततो दिवीति कथितं श्रुतौ। लोकत्रयविवक्षायां परतो लक्षयोजनात्। सर्वं द्यौरिति विज्ञेयं ततस्ते दिवि संस्थिताः। दिवः परश्च भगवान् सप्तलोकविवक्षया। परं ब्रह्मेति भगवान् सर्वगः सम्प्रकीर्तितः। स एव जीवस्य बहिर्हृदयाकाश आस्थितः। योऽयं हृदयगः सोऽथ जीवान्तर्व्याप्य संस्थितः। व्याप्तो जीवान्तरे योऽसौ स जीवहृदि संस्थितः। एवं चापि चतुष्पात्त्वं वासुदेवस्य कीर्तितम्। स एव पूर्णो भगवानप्रवर्त्यस्तथाऽखिलैः। अन्यैः प्रवर्त्यते योऽसौ स प्रवर्तीति गीयते। अप्रवर्त्यो हरिर्नित्यस्वतन्त्रत्वात् सदैव च। अस्य प्रवृत्तिर्नास्तीति सोऽप्रवर्तीति कीर्तितः। पूर्णा स्वतन्त्रा श्रीश्चास्य वेत्तुर्भवति शाश्वती। साक्षाद् गायत्र्युपासायां योग्य एकश्चतुर्मुखः। तस्मादनन्यतन्त्राऽस्य श्रीर्भवेन्नान्यथा क्वचित्। विष्णुतन्त्रत्वमस्य स्यात् परेषां तस्य तन्त्रता। यथाक्रमेण तन्त्रत्वं योग्यताक्रमतो भवेत्॥” इति च सत्तत्त्वे।
ब्रह्मशब्दाच्च भगवानित्यवसीयते। पूर्णाप्रवर्तित्वं च तस्मिन्नेव मुख्यम्। “तावानस्य महिमा”छान्दोग्योपनिषत् ३/२/२ इति मन्त्राच्च। “पादोऽस्य विश्वा भूतानि”ऋग्वेदसंहिता १०/९० इति जीवानां चतुष्पादान्तर्भावात् “भूतं यदिदं किञ्च”छान्दोग्योपनिषत् ३/२/१ इति षड्विधान्तर्भूतं भूतं मत्स्याद्यवताररूपमेव।
“द्वाविंशेष्ववतारेषु जीवोऽप्युक्तो यथा पृथुः। तथा पादेषु चतुर्षु सान्निध्याज्जीव ईरितः। यथा कालः पुमान् व्यक्तं प्रकृतिश्च परस्य तु। विष्णो रूपाणि गण्यन्ते पररूपेण वै सह। एवं भूतानि गण्यन्ते भिन्नान्यपि पदैः सह। मूर्तामूर्ते यथा रूपे ब्रह्मणस्तु तथैव च। भिन्नान्यपि तु भूतानि पदानि स्वपदैः सह॥” इति प्राथम्ये।
“सुदर्शनाख्यं स्वास्त्रं तु प्रायुङ्क्त दयितं त्रिपात्”भागवतम् ३/२०/२२ इति श्रीभागवते प्रयोगाच्च न जीवो भगवत्स्वरूपम्।
“सुवर्चला यथा सूर्यपत्न्यंशः समुदाहृता। एवं जीवा भगवतो वस्तुभेदेऽपि सर्वदा॥” इति च॥३/१२॥
“प्राणाभिमानी चक्षुश्च सूर्य एव ह्युदाहृतः। तेजोऽन्नाद्यभिमानी च प्राग्द्वाराधिपतिर्हरेः। दक्षिणाधिपतिः सोमो व्यानः श्रोत्राभिमानवान्। यशोलावण्यरूपश्च पश्चिमद्वारपस्तथा। वागपानात्मको वह्निर्ब्रह्मतेजोऽन्नदेवता। उत्तरद्वारपस्त्विन्द्रः समानो मनआत्मकः। कीर्त्यैश्वर्यात्मको नित्यमूर्ध्वद्वारप एव च। प्रधानवायुराकाशः सार्वज्ञादुन्नतेस्तथा। उदान ऊर्जितत्वात् स ओजः पूर्णत्वतो महः। परस्य ब्रह्मणस्त्वेते पुरुषाः पञ्च कीर्तिताः। द्वारपा हृदये चैव विष्णुलोके च सर्वदा। आन्तरद्वारपा ह्येते जयाद्या बाह्यतः स्मृताः। एवमेतानुपास्यैव तद्गुणांशांशभाग् भवेत्। विष्णुलोकं तथा गच्छेद् भवेदपि सुसन्ततिः। योऽसौ वैकुण्ठगो विष्णुः सप्तलोकोपरिस्थितः। स एव सर्वलोकेषु विश्वतो ब्रह्मणस्तथा। उच्चेषूत्तमलोकेषु तथा प्रत्यवरेषु च। पुरुषेषु च सर्वेषु स एकः संव्यवस्थितः। प्राणसंस्थः स वै विष्णुः प्राणोऽग्नौ संव्यवस्थितः। स्पर्शेन दृश्यते चाग्निस्तद्दृष्टिरिव सा ततः। स प्राणः स्तौति तं विष्णुं सा स्तुतिः श्रूयते सदा। कर्णौ पिधाय तद्विद्वान् दिव्यचक्षुःसुकीर्तिमान्। मुक्तो भूत्वा भवेद् यस्मादुपासीतैव सन्ततम्॥” इति सत्तत्वे।
“दिक्षु यानाद् यशो व्याप्तं कीर्तिः प्रत्यक्षतः स्तुतिः” इति शब्दनिर्णये।
सर्वतः पृष्ठेषु सर्वत उच्चेषु वैकुण्ठक्षीरसागरानन्तासनादिषु। विश्वतो ब्रह्मणोऽप्युच्चेषु। तत उत्तमो नास्तीत्यनुत्तमाः। सर्वतः स्वयमुत्तमाः।
“पृथिवीस्थेषु सर्वोच्चो लोकोऽनन्तासनात्मकः। अन्तरिक्षात्मकेभ्यश्च श्वेतद्वीपे स्थितो हरिः। द्व्यात्मकेभ्यश्च सर्वेभ्यो वैकुण्ठश्चोच्च उच्यते। पृथिव्यां द्यौर्महामेरुराकाशे सूर्यमण्डलम्। दिवीन्द्रसदनं चैव तत्परे तु दिवः परे। पृथिव्यां ब्रह्मणो मेरौ जयन्तं त्वन्तरिक्षगम्। तृतीयं सत्यलोकं च सदनं त्रिविधं स्मृतम्। तेभ्योऽनन्तासनाद्या यत् परतो विश्वतः परे॥” इति सत्तत्वे।
“निनदः समुद्रघोषः स्यान्नदथुर्मेघसम्भवः” इति च।
“चक्षुष्यश्चक्षुषि ब्रह्मण्येष यातीत्युपासकः” इति च॥३/१३॥
“इदं ब्रह्मातिसामीप्यात् सर्वं पूर्णगुणत्वतः। तच्च ब्रह्म जलान् साक्षाद् योऽसौ विष्णुर्जलेऽनिति। आनीदवातमिति यं वेदवागवदत् स्फुटम्। अप्रकेते तु सलिले ब्रह्म नारायणोऽपि सः। इति शान्त उपासीत यस्माज्ज्ञानमयः पुमान्। क्रतुस्तु निश्चितं ज्ञानं तद्वशः पुरुषो मृतौ। तस्माद् विनिश्चितं ज्ञानं कुर्याद् विष्णौ महागुणे। महाज्ञानात्मकत्वात् तु प्रोक्तो विष्णुर्मनोमयः। यस्माद् बलशरीरोऽसावतः प्राणशरीरकः। आ समन्तात् प्रकाशात् स आकाशात्मा प्रकीर्तितः। सर्वगन्धादिरूपश्च भोक्ता चैषां सदैव हि। इति निश्चयकृद् याति तमेव पुरुषोत्तमम्॥” इति सद्गुणे।
एकत्र सर्वगन्धादिना चिदानन्दात्मकसर्वगन्धादिरूपत्वमुच्यते। अन्यत्र तद्भोक्तृत्वम्॥ ३/१४॥
“क इत्यानन्द उद्दिष्ट उश इच्छा प्रकीर्तिता। आनन्देच्छास्वरूपोऽसौ कोशो विष्णुः प्रकीर्तितः। तस्योदरेऽन्तरिक्षं च पृथिवी पादबुध्नयोः। शिरोविवरगा द्यौश्च दिशो बाहुषु संस्थिताः। अजरोऽयं महाविष्णुर्वसवो देवतागणाः। तेषां निधानं भगवांस्तस्मिन् सर्वमिदं श्रितम्। प्राचीदिक्संस्थितस्तस्य बाहुर्दक्षिण ऊर्ध्वगः। जुहूः स होमकर्तृत्वाद् भुङ्क्ते ह्येतेन केशवः। दक्षिणस्त्वधरो बाहुर्दक्षिणादिक्स्थितो विभोः। सहमानेति सम्प्रोक्तो मानं वेदात्मकं यतः। शङ्खो वेदात्मकः शङ्खसहितो दक्षिणाधरः। बाहुर्जुहोति चक्रेण शत्रूनित्यथवा जुहूः। प्रतीचीदिक्स्थितस्तस्य वामबाहुस्तथोत्तरः। राजीयुक्तगदायुक्तो राज्ञीनामा प्रकीर्तितः। अधरो वामबाहुर्य उत्तरादिक्स्थितो विभोः। श्रिय आधारपद्मित्वात् सुभूतानामकः स्मृतः। दिङ्नामानश्च ते प्रोक्ता धर्मज्ञानातिदेशनात्। तेभ्यो जातो महावायुर्दिशां वत्सस्ततः स्मृतः। धर्मज्ञानादिरूपेण विष्णोर्बाहुचतुष्टयात्। जातं वायुं विदित्वैव पुत्रो भूत्वा न रोदिति। न जायते न म्रियते मुक्तो भूत्वा सुखी भवेत्। वायुं हरेः सुतं ज्ञात्वा नाहं पुत्रतयाऽरुदम्। हरेः प्रसादसामर्थ्यादजरा चामरा ह्यहम्। अनादिकालसम्बन्धादित्युवाच पुरा रमा। अविनष्टं परानन्दकामं विष्णुं सदा ह्यहम्। प्रपद्ये तत्प्रसादेन केवलं नात्मशक्तितः। प्राणं सर्वप्रणेतारं प्रपद्ये केशवं सदा। प्रभूतं यदिदं किञ्चित् प्रादुर्भावात्मकं हरेः। मत्स्याद्यं तत् प्राण एव विष्णुर्नास्त्यत्र संशयः। तस्मान्मत्स्यादिरूपं तं विष्णुमेव प्रपद्यथ। हे जना इत्यवोचत् सा लक्ष्मीः सर्वाः प्रजाः प्रति। प्राणनामा वासुदेवो मोक्षं स्वान् प्रणयेद् यतः। सङ्कर्षणस्तु भुर्नामा भूषयेज्ज्ञानतो यतः। स पृथ्व्यां पृथिवीनामा स्वात्मानं प्रथयेद् यतः। अन्तरिक्षेऽन्तरिक्षाख्यो यतः साध्वन्तरीक्षते। दिवि द्युनामा स विभुः सर्वक्रीडाकरत्वतः। प्रद्युम्नश्च भुवोनामा सृष्ट्या यद् भावयेज्जगत्। सोऽग्निनामा परो वह्नावत्ति सर्वं यतो हुतम्। वायुनामा स वायुस्थो वात्यायुश्च यतोऽस्य तत्। आदित्याख्यः स आदित्य आददात्यायुरस्य यत्। स्वर्नामा त्वनिरुद्धोऽसौ परानन्दप्रदत्वतः। ऋग्वेदाख्यः स ऋग्वेदे ज्ञानं वेदयते यतः। यजुर्वेदो यजुर्वेदे यज्ञं वेदयते यतः। सामवेदः सामवेदे साम्यं वेदयते ह्ययम्। एवं चतुर्विधं तत्त्वं तदवोचमहं हरेः। इत्युवाचेन्दिरा देवी स्तुवन्ती परमं हरिम्॥” इति च।
“पुंलिङ्गेनोच्यते स्त्री च पुंवच्छक्तिमती यदि” इति च॥ ३/१५॥
“विष्णुपूजार्थयज्ञोऽहमित्युपासनमादराद्। कुर्वीत पुरुषो नित्यं तस्य यत् षोडशोत्तरम्। शतमायुस्तत् सवनत्रयमीरितमुत्तमम्। चतुर्विशत् तु यत् पूर्वं प्रातःसवनमेव तत्। प्रार्थयित्वा वसूंस्तद्गं पुमान् मृत्युमपानुदेत्। मध्ये चतुश्चत्वारिंशन्मध्यमं सवनं स्मृतम्। रुद्राणां प्रार्थनेनात्र पुमान् मृत्युमपानुदेत्। ततोऽष्टचत्वारिंशत् तु तृतीयं सवनं स्मृतम्। आदित्यानां प्रार्थनेन तद्गं मृत्युमपानुदेत्॥” इति सर्वयज्ञे।
महिदासोऽन्यः। कृष्णश्चान्य एव।
“महिदासस्त्वैतरेयः कृष्णोऽन्यो देवकीसुतः। कपिलश्च द्वितीयोऽन्यस्त्रय एते पुरा नराः। सङ्गत्योच्चैस्तपस्तेपुर्ब्रह्मणे परमेष्ठिने। मातुः स्वस्य च नामैक्यं विष्णुना स्यादिति ह्युभौ। स्वात्मशिष्यप्रशिष्याणां नामैक्यं कपिलस्तथा। एवमेव च वेदोक्ता भवेमेति त्वतन्द्रिताः। तान् वरान् प्रददौ तेषां ब्रह्मा लोकपितामहः। तस्मात् तन्नामिनश्चासंस्त्रयस्ते मुनयोऽपि हि। महिदासस्त्वैतरेयो बह्वृचोपनिषद्गतः। साक्षात् स भगवान् विष्णुस्तन्नामैको मुनिर्ह्यभूत्। कृष्णस्तु वासुदेवाख्यः परमात्मैव केवलम्। तन्नामा देवकीपुत्रस्त्वन्योऽप्यभवदञ्जसा। कपिलो वासुदेवाख्यः साक्षान्नारायणः प्रभुः। तन्नामा कपिलोऽन्यस्तु शिष्यनाम्ना सहाभवत्। स षोडशशतं जीवी महिदासोऽपरस्त्वृषिः। घोरशिष्यस्तथा कृष्णः कपिलश्च कुशास्त्रकृत्। त्रय एते वरं प्राप्य ब्रह्मणः परमेष्ठिनः। कृतकृत्याः प्रमुमुदुस्तन्नामानश्च तेऽभवन्॥” इति कालकीये॥ ३/१६॥
“स्वरूपभूतयज्ञस्य क्षुत् पिपासाऽरतिस्तथा। दीक्षा भोजनपाने च रतिश्चोपसदः स्मृताः। व्यवायहासभक्षास्तु स्तुतशस्त्रात्मकाः स्मृताः। तपोदानार्जवाहिंसाः सत्यमप्यस्य दक्षिणा। सोष्यत्यसोष्टेति ततो यज्ञवत् पुत्रजन्मनि। आहुर्हि पुनरुत्पत्तिः प्रसवः प्रथमा पितुः। यज्ञस्नानं तु मरणं तदा ध्यायेत् त्रयं पुमान्। भगवन्नक्षयोऽसि त्वमच्युतोऽसि गुणैः सदा। प्राणाच्च सुखितो नित्यमाधिक्येनेति चिन्तयेत्॥” इति सत्तत्वे।
आदित् तस्मादेव तत्प्रसादादेव। प्रत्नस्य पुरातनस्यानादेर्भगवतो रेतसो रतिरूपस्य ज्योतिः पश्यन्ति वासेन रमयतीति वासरम्। दिवः परतो वैकुण्ठे यदिध्यते। ऋद्धतममेव सर्वदा। “अथ यदतः परः”छान्दोग्योपनिषत् ३/२/७ इत्युक्तत्वाच्च। नचादित्यमण्डलं दिवः परतः। उत्तरं ज्योतिः पश्यन्तः स्वरानन्दरूपं परिपश्यन्तो वयं तमस उदगन्म। उत्तरं ज्योतिः पश्यन्तस्तदेवोत्तरं स्वश्च पश्यन्तः। द्विरुक्तिस्तात्पर्यार्था। उदाख्यं ज्योतिरुत्तमं तमसः सकाशादगन्म प्राप्ताः स्म इत्यर्थः। “तस्योदिति नाम”छान्दोग्योपनिषत् १/३/७ इति श्रुतेः। देवत्रा देवं देवविषयेऽपि देवं देवानां देवमित्यर्थः। सूरिभिः प्राप्यत्वात् सूर्यम्।
“रतिरूपं परं ज्योतिरनादेः केशवस्य यत्। तत्प्रसादेन पश्यन्ति हृदि वासाद् रतिप्रदम्। यत् पूर्णं सर्वदा भाति वैकुण्ठे परतो दिवः। तदुदाख्यं प्रपश्यन्तो निर्गत्य तमसो वयम्। ज्योतिरानन्दसद्रूपमुत्तमोत्तमसूत्तमम्। देवानां दैवतं साक्षात् सूरिप्राप्यं परं पदम्। प्राप्ताः स्म वासुदेवाख्यमिति मन्त्रदृगब्रवीत्॥” इति नारायणीये॥ ३/१७॥
“मनःसंस्थस्तु यो देवः साक्षान्नारायणः प्रभुः। स एवाकाशसंस्थश्च मनआकाशनामकः। मननान्मन आकाश आ समन्तात् प्रकाशनात्। वासुदेवादिभेदेन स वागादिषु संस्थितः। अग्न्यादिषु च तन्नामा वागादिस्थः स एव तु। अग्न्यादिस्थैः सहैवेशो भाति दुष्टांस्तपत्यथ। एवं विद्वांस्तमीशेशं यशोज्ञानसुखात्मताम्। कीर्तिं च ब्रह्मसम्प्राप्त्या वरतां मुक्तिगामपि। प्राप्य भाति तपत्यद्धा स्वाज्ञानादिकमेव च॥” इति च॥ ३/१८॥
“अगम्यत्वादसन्नाम ब्रह्म नारायणाभिधम्। प्रलये वासुदेवाख्यं गम्यं सदभवद् विदाम्। तत् प्रकृत्या समभवत् तत आण्डमजायत। तस्मिन्नादित्यनामाऽसावभवत् सूर्यमण्डले। नियन्तैव च सूर्यस्य भगवान् पुरुषोत्तमः। तस्मादादित्यनामानमादित्यस्थं जनार्दनम्। ब्रह्मोपासीत परमं सर्ववेदज्ञता ततः॥” इति ब्रह्मतत्त्वे।
उलूलवः उरूरवः। अतिमहान्तो गायत्र्यादिघोषा उप च निम्रेडेरन्। मुक्ते तस्मिन्नेव वसेयुः।
“सूर्यबिम्बस्थिते विष्णौ जायमाने परात्मनि। गायत्रीपूर्वकैर्वेदैर्ब्रह्माद्याः समुपस्थिताः। उपतिष्ठन्त्यतो नित्यं गायत्र्यादिभिरञ्जसा। तद्विद्वान् मुक्त आवासो वेदानां सर्वदा भवेत्॥” इति च।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते छान्दोग्योपनिषद्भाष्ये तृतीयोऽध्यायः॥
चतुर्थोऽध्यायः
प्रथमः खण्डः
द्वितीयः खण्डः
तृतीयः खण्डः
चतुर्थः खण्डः
तृतीयः खण्डः
चतुर्थः खण्डः
भल्लाक्ष मन्दाक्ष। यथा कृते जिते त्रेतादिजयफलं च तस्यैव भवति, एवमन्येषां पुण्यफलं प्राधान्येन तस्यैव भवति। अरे अङ्ग इष्ट, सयुग्वा रैक्वो ज्ञातव्यः। अहं ह्यरा३ इति प्लुतिः पामकषणभावेन॥ ४/१॥ शुचाऽऽद्रवणाच्छूद्रः।
“राजा पौत्रायणः शोकाच्छूद्रेति मुनिनोदितः। प्राणविद्यामवाप्यास्मात् परं धर्ममवाप्तवान्॥” इति पाद्मे॥ ४/२॥
“संवृङ्क्ते सर्वदेवान् यद् वायुः संवर्ग ईरितः। महिमाऽस्य महानेष यदनद्योऽत्ति देवताः॥” इति प्रभञ्जने॥
“दशेति वै सर्वम्”ऐतरेयारण्यकम् २/३/४ इति श्रुतेः। कृतस्य च पूर्णात्मकत्वादध्यात्माधिदैवतभेदेन पञ्च देवता दशभूताः कृतम्। तस्माद् वायुना सह दशसङ्ख्यापूरणात् सर्वदिक्षुस्थिता देवता वायुना सहान्नमेव। अन्नादी देवता विराड् विष्णुरेव। अनद्यमान इत्यन्यैरनद्यमानः।
“वायुस्तु सर्वदेवात्ता वायोरत्ता जनार्दनः। न तस्य कश्चिदत्ताऽस्ति स विराडधिराजनात्॥” इति च॥ ४/३॥
“आर्जवं ब्राह्मणे साक्षाच्छूद्रोऽनार्जवलक्षणः। गौतमस्त्विति विज्ञाय सत्यकाममुपानयत्॥” इति सामसंहितायाम्।
“वायुर्वृषभरूपः सन्नग्निर्हंसश्चतुर्मुखः। मद्गुरूपश्च वरुणः सत्यकामाय होचिरे। प्रकाशानन्ततेजोवत्स्थानवत्सञ्ज्ञिका हरेः। वासुदेवादिका मूर्तीः प्रत्येकं चतुरात्मनः। दिगादिषु स्थितास्तेषामधिपाश्च तदाख्यकाः। नाचार्यबुद्ध्या तैरुक्तमतोऽनुज्ञां गुरोरगात्। उत्तमाचार्यसम्प्राप्त्यै नावराचार्यतः क्वचित्। इच्छेदनुज्ञां श्रुत्वाऽपि नानुज्ञां प्रार्थयेत् ततः। ऋषिभ्यस्तूत्तमा देवा देवेभ्यो वायुरुत्तमः। वायोश्च भगवान् विष्णुर्न तस्मादुत्तमो गुरुः॥” इत्याचार्यसंहितायाम्॥
अत्र ह न किञ्चन वीयाय। देवेभ्यः श्रुत्वा नच ते काचिद्धानिरभवदित्यर्थः॥ ४/५-९॥ प्राणो ब्रह्म बलरूपं ब्रह्म। कमानन्दरूपम्। खं ज्ञानरूपम्।
“अपरं ब्रह्म स प्राणः साक्षाद् यो बलदेवता। ज्ञानानन्दात्मकं पूर्णं परं ब्रह्म स्वयं हरिः। नैजानन्दबलोद्रेकः कमित्युक्तो मनीषिभिः। बलज्ञानसमाहारः पूर्णः खमिति शब्दितः। तदात्मकः परो विष्णुराकाश इति कीर्तितः। एवं प्राणस्तथाऽऽकाशो ब्रह्मणी द्वे प्रकीर्तिते॥” इति च॥
प्राणशब्दस्य वायुरर्थः प्रसिद्धः। कखयोर्भिन्नार्थत्वशङ्कया “कं च खं च न विजानामि”छान्दोग्योपनिषत् ४/३/१ इत्याह। अत एवैक्याभिप्रायेण “यद् वाव कं तदेव खं यदेव खं तदेव कम्”छान्दोग्योपनिषत् ४/३/१ इत्यूचुः॥ ४/१०॥
“पृथुत्वात् पृथिवी विष्णुरग्निश्चाप्यङ्गनेतृतः। अन्नमत्तृत्वतो नित्यमादित्यश्चादिरूपतः। आप आपालनाच्चैव देशनाद् दिश एव च। अनन्यराजो नक्षत्रमानन्दत्वाच्च चन्द्रमाः। प्राणोऽसौ बलरूपत्वादाकाशः पूर्तिहेतुतः। द्यौः प्रकाशस्वरूपत्वाद् वेदनाद् विद्युदेव च। यः सोमसूर्यविद्युत्सु तत्तन्नामा हरिः परः। अहेयत्वादहंनामा गार्हपत्यादिसंस्थितः॥” इति तत्त्वसंहितायाम्।
जीवैक्यपक्षे “आदित्ये पुरुषः”, “चन्द्रमसि”, “विद्युति” इति भेदव्यपदेशो न युज्यते। “पृथिव्यग्निरन्नमादित्यः”,छान्दोग्योपनिषत् ४/३/२ “आदित्ये पुरुषः”छान्दोग्योपनिषत् ४/३/२ इत्यादिनाऽऽदित्यादिशब्दवाच्यौ सप्तम्यर्थः प्रथमार्थश्च द्वौ प्रतीयेते। अतो नैक्यमुच्यते। “स एवाहमस्मि”छान्दोग्योपनिषत् ४/३/३ इत्यन्तर्यामिणोः सर्वविशेषाभावज्ञापनार्थम्। पूर्वं “सोऽहमस्मि”छान्दोग्योपनिषत् ४/३/२ इत्यभेदे तात्पर्याधिक्यज्ञापनाय।
“अहमस्म्यादिकाः शब्दा अन्तर्यामिणि मुख्यतः। तत्सम्बन्धाज्जीवगाश्च तस्माद् वेदगता हरौ। अस्मच्छब्दोदितोऽन्तस्थ आत्मा व्याप्तो जनार्दनः। अग्नयो द्विविधं विष्णुमवोचन्नुपकोसले॥” इति सामसंहितायाम्।
नास्यापरपुरुषाः क्षीयन्ते भृत्यवानेव भवति। लोकी भगवल्लोकी भवति। इह च अव च इहावे। इहेति मनुष्यलोकस्था उच्यन्ते। अवेति पातालस्थाः। मानुषासुरौ भगवन्तं निह्नुत एव न वक्तुं समर्थौ। अतो देवा एव मामनुशशासुरित्यर्थः। ईदृशा इति वर्णतो ज्वालावर्णा इति। अन्यादृशाश्च करशिरश्चरणादिमन्तः। चन्द्रादिसर्वनामवत्त्वात्। “यो देवानां नामधा एक एव”ऋग्वेदसंहिता १०/८२/३ इति श्रुतेर्विष्णारेव सर्वनामानि॥ ४/११-१४॥
असङ्गभगवत्स्थानत्वाच्चक्षुषोऽसङ्गत्वमुच्यते।
“यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुषु। तस्मै नमो भगवते वामनाय परात्मने॥” इति महाकौर्मे।
इमं मानवमावर्तं नावर्तन्ते। मानवा यत्रावर्तन्ते स मानवावर्तः। तं मानवावर्तं प्रति नावर्तन्ते।
“चक्षुःस्थं वामनं वेद स पुनर्नैव जायते। मुक्तो दुस्तरसंसाराद् वामनं प्राप्नुतेऽचिरात्॥” इति च॥ ४/१५॥
“यज्ञाभिमानी यज्ञाख्यो वायुर्यज्ञे प्रतिष्ठितः। ज्ञ शुद्धभाव इत्यस्माद् यन्नयं पावयेद् यतः। अतो वायुर्यज्ञनामा तत्पादौ वाङ्मनःस्थितौ। दक्षिणोऽस्य मनःसंस्थो ब्रह्मर्त्विक् तस्य पूजकः। होत्राद्या वाचि संस्थस्य वामपादस्य पूजकाः। तस्मात् प्रातरनूवाकपरिधान्योर्यदन्तरा। ब्रह्मा चेदुत्सृजेद् वाचं यज्ञपाल्लोपकृद् भवेत्। वाङ्मनःपादयज्ञाख्यप्रतिमो वायुरीरितः। ध्यायन् वायुं हरिं चैव ततो ब्रह्मा मुनिर्भवेत्॥*॥ अग्निर्नासिक्यवायुश्च सूर्यो लोकरसास्त्रयः। अग्ने रसस्तु ऋग्वेदमानी ब्रह्मा प्रकीर्तितः। नासिक्यवायोस्तु रसो यजुर्वेदात्मको हरः। सामवेदाभिमानी तु वायुः सूर्यरसः स्मृतः। वराहसिंहकपिलास्तेषां भूरादिनामकाः। व्याहृतीभिस्ततो जुह्वन् ब्रह्मैवंविद् विरिष्टितः। सर्वान् स ऋत्विजो रक्षेद् ब्रह्मैवंवित् ततो भवेत्॥” इति च॥
उदक्प्रवणः ऊर्ध्वप्रवणः ऊर्ध्वलोकानुसारी। यज्ञस्य दुरिष्ट्या यतो यतः स्थानादावर्तते तत्तत् स्थानमेवंविदा ब्रह्मणा गच्छति। तद् ब्रह्मैवैकर्त्विक्। कुरून् कतॄर्न् यजमानादीनभिरक्षति। अश्वा आशुज्ञानी। “वा गतिगन्धनयोः” इति धातोः। गतिशब्दश्चावगतौ भवति। “दीर्घबिन्दुविसर्गादीनां लोपो वा” इति सूत्रादाशुवैवाश्वा।
पञ्चमोऽध्यायः
प्रथमः खण्डः
द्वितीयः खण्डः
तृतीयः खण्डः
चतुर्थः खण्डः
पञ्चमः खण्डः
“यः श्रेष्ठं ज्येष्ठमखिलदेवानां वायुमञ्जसा। वेद स स्वसमानानां ज्येष्ठः श्रेष्ठो विमुक्तिगः। समीपे वसतां श्रेष्ठो वसिष्ठस्यैव वेदनात्। एकस्थाने स्थितिस्तु स्यात् प्रतिष्ठाज्ञस्य चेच्छतः। सम्पद्वेत्तुः सम्पदः स्युर्गृहं चायतनं विदः। ज्येष्ठः श्रेष्ठो वसिष्ठश्च सम्पदायतनं तथा। वायुरेव महांस्तस्य प्रसादादग्निरेव तु। उपचारतो वसिष्ठः स्यात् प्रतिष्ठैवं रविस्ततः। सम्पदिन्द्रस्तथैवोक्तो रुद्र आयतनं तथा॥” इति प्रभावे।
“सर्वेन्द्रियाणां व्यापारान् प्राण एव करोत्ययम्। इन्द्रियस्थः पृथक् चासौ शक्तोऽपि स्वयमेव तु। षण्मासात् पूर्वं बालानां केवलं प्राणतो भवेत्। व्यापार्यं मनसा सर्वमतः पश्चादसंस्मृतिः। तुरीयायामवस्थायां प्राणादेव विबोधनम्। तथाऽपि संस्मृतिस्तत्र प्राणवश्यतया भवेत्। प्राणस्य वश्यता नाम भक्त्या स्यात् तत्प्रसादतः। प्राणे वश्ये मनो वश्यमिन्द्रियाणि च सर्वशः॥” इति च।
अक्षेषु प्रतिप्रति स्थितत्वादनः प्रत्यक्षम्।
“प्राणविज्ञानयोग्यस्तु रुद्रो मुख्यतया स्मृतः। तस्मात् स सर्वभोक्ता स्यात् तदन्येषां स्वयोग्यतः॥” इति च।
“सिद्धमेवान्नवस्त्राद्यं विष्णोः स्वातन्त्र्यतः सदा। स्वार्थं समर्पयेद् विष्णौ यथा प्राणे सुराः पुरा॥” इति कर्मानुपूर्व्याम्।
“प्राणस्य वस्त्रबुद्ध्या तु भोजनोभयतः पिबन्। स्वर्गे मुक्तौ तथा दिव्यवस्त्रलाभी भवत्यलम्॥” इति प्रभञ्जने।
“योग्यस्य प्राणविद्यायां स्थाणोरपि हि तच्छ्रुतेः। पलाशाद्यं भवेदत्र परतो मुक्तिरेव च। विष्णोर्ज्ञानमनुप्राप्य भवेन्नास्त्यत्र संशयः॥” इति प्राणसंहितायाम्।
“ज्येष्ठश्रेष्ठादिकैर्हुत्वा प्राणायात्र परत्र च। ज्येष्ठः श्रेष्ठः समानेभ्यो भवेन्नात्र विचारणा॥” इति च।
सवितुः जगत्प्रसवितुर्विष्णोः सकाशाद् वयं भोजनं रक्षां सर्वभोगांश्च वृणीमहे। भगस्य समग्रैश्वर्यादिसर्वगुणस्वरूपस्य विष्णोः पुरुषं तुरं वायुं श्रेष्ठं सर्वधातॄणामुत्तमं च धीमहि।
“नारायणीयं तं वायुं चिन्तयित्वोत्तमोत्तमम्। जगत्प्रसवितुर्विष्णोः सकाशाद् भोगमाप्नुमः॥” इति च॥ ५/१-२॥
“नारायणादयः पञ्च क्रमात् पञ्चाग्नयः स्मृताः। अदनादगनेतृत्वान्नितरामचलत्वतः। समेधनात् समिद् विष्णुर्धूत्काराद् धूम उच्यते। अरं चितत्वादर्चिश्च सोऽङ्गारोऽङ्गरतेरपि। विविधं स्फुरणाच्चैव विष्फुलिङ्ग इतीरितः। पुनर्नारायणाद्यात्मा प्रत्येकं पञ्चरूपवान्। आदित्यः स तथाऽऽदानाद् रश्मी रतिशरूपतः। तमसाऽहननीयत्वादहश्चन्द्रः परः सुखम्। अनन्यराजो नक्षत्रं वायुर्ज्ञानायुरूपतः। अभ्रमब्भरणाद् विष्णुर्विद्युद् विद्योतनादपि। अशनादशनिश्चैव निर्ह्रादाद्ध्रादुनिस्तथा। संवत्सरो वासनाच्च स आकाशः प्रकाशनात्। रात्रिश्च रतिदानात् स दिशतीति दिशः स्मृतः। अवान्तरं दिशेद् यस्मादवान्तरदिगुच्यते। वचनाद् वाक् तथा प्राणस्त्वननाच्चक्षुरुच्यते। दर्शनाच्छ्रवणाच्छ्रोत्रं जिह्वा वै होमतः स्मृतः। उपस्थितेरुपस्थः स उममन्त्रकृदेव सः। योनिर्युनक्ति यस्मात् स सर्वान्तःकृच्च नन्दनः। असौ लोकः प्रकाशत्वात् प्राणस्थत्वाच्च केशवः। पर्जन्यो जनको यस्मात् पृथिवी प्रथितत्वतः। पुरुषः पुरु यस्मात् स योषा जोष्यो यतोऽखिलैः॥” इति सामसंहितायाम्।
“अभ्रधूमादिभावस्तु जीवस्याभ्रादिसंस्थितिः। अभ्रादिमानिरूपं तु ज्ञानिप्राप्यं यतो भवेत्॥” इति च।
परमस्य जन्यमिति पर्जन्यः।
“पञ्चपञ्चस्वरूपेण सूर्यादौ संस्थितो हरिः। स्वर्गादौ चापि तन्नामा तद्योगान्नामिनः परे॥” इति च॥ ५/३-१०॥
“प्रत्यब्दयज्ञकृत् सम्यङ् महाशालः प्रकीर्तितः। वेदवेदार्थवित् सम्यङ् महाश्रोत्रिय उच्यते। क्रीडात्मकत्वाद् द्य्वाख्यं च सुतेजाश्चातितेजसा। स्वर्गाधारं शिरो विष्णोः सर्वरूपातिदर्शनात्। चक्षुस्तु विश्वरूपाख्यमादानादायुषामपि। आदित्याख्यं च सूर्यस्याप्याश्रयं सर्वदा स्मृतम्। वाय्वादिप्राणशक्यं न यत् तत्कर्ता हरेर्यतः। प्राणस्तेन पृथग्वर्मा वायुर्ज्ञानायुरूपतः। वायोरप्याश्रयो नित्यं बहुत्वाद् बहुलः स्मृतः। आकाशनामा चादीप्तेर्मध्यदेहो रमापतेः। व्याप्तत्वादाप इत्युक्तो रयी रतिकरत्वतः। वस्तिराकाशवार्योश्च तावाधारौ प्रकीर्तितौ। प्रथनात् पृथिवीनामा प्रतिष्ठा च प्रतिष्ठितेः। पादौ भगवतो विष्णोः पृथिव्याश्रय एव च। उत्तमानां हि पादेन सर्वं रूपं हि कथ्यते। विष्णोः पदमिति ह्यस्मात् प्रथितिर्वैदिकी स्मृता। प्राणश्चक्षुस्तथाऽऽदित्य इत्येका देवता स्मृता। पूर्वद्वारपतिर्विष्णोर्व्यानः श्रोत्रं च चन्द्रमाः। दक्षिणद्वारपस्त्वेको वागपानोऽग्निरेव च। पश्चिमद्वारपोऽप्येकः समानो मन एव च। इन्द्र इत्येक एवोक्त उत्तरद्वाररक्षकः। उदानो वायुरित्येक ऊर्ध्वद्वाराधिपश्च सः। स एवाकाशनामा च लक्ष्म्याविष्टो विशेषतः। पृथिवीनामिका श्रीस्तु द्यौर्दिशो विद्युदेव च। वायुपत्नी समुद्दिष्टा तत्तद्वाराधिपाश्च ते। अधितिष्ठन्ति ते सर्वे नारायणमनामयम्। यद् विष्णुर्ज्ञानरूपत्वात् किमानन्दस्वरूपतः। एतेषु तृप्तेषु हरिस्तृप्यत्येषां प्रियो ह्यसौ। सूर्यप्रसादात् तु नराः पूर्वद्वारेण केशवम्। प्राप्नुवन्त्यथ सोमस्य प्रसादात् पितरस्तथा। द्वारेण दक्षिणेनैव गन्धर्वाः पश्चिमेन तु। अग्निप्रसादादृषय उत्तरेणेन्द्रसंश्रयात्। शिवाद्या वायुमाश्रित्य यान्त्यूर्ध्वेन हरिं सुराः। वैश्वानराख्यविष्णोस्तु सम्यग्ज्ञानेन सर्वशः। वैश्वानरज्ञानयोग्याः साक्षादेव सुराः स्मृताः। तस्मात् तेषां फलं सर्वमन्येषां तु स्वयोग्यतः॥” इति वैश्वानरविद्यायाम्।
“को न आत्मा किं ब्रह्म”,छान्दोग्योपनिषत् ५/४/२ “सोऽयमात्मा चतुष्पात्”,🔗माण्डूकोपनिषत् १/३ “स्थूलभुग् वैश्वानरः प्रथमः पादः”,🔗माण्डूकोपनिषत् १/३ “वैश्वानरः साधारणशब्दविशेषात्”,🔗ब्रह्मसूत्रम् १/२/२४ “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः”🔗भगवद्गीता १५/१४ इत्यादेश्च वैश्वानरो विष्णुरिति सिद्धम्।
“स वायुः स आकाशः”, “वायुश्चाकाशश्चाधिष्ठितः” इति वचनाद् वायो रूपमन्याधिष्ठितमाकाशाख्यं वायोः स्वरूपमिति विज्ञायते।
“आकाशनामा विघ्नेशो वायुश्चाकाशकः स्मृतः। आकाश इति लक्ष्मीश्च तथाऽऽकाशो हरिः स्वयम्॥” इति शब्दनिर्णये।
“सुतेजोविश्वरूपादिभेदेनाङ्गानि मापतेः। अभिन्नान्यपि कथ्यन्ते लोकदृष्टिविभेदतः॥” इति च।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते छान्दोग्योपनिषद्भाष्ये पञ्चमोऽध्यायः॥
षष्ठोऽध्यायः
प्रथमः खण्डः
द्वितीयः खण्डः
तृतीयः खण्डः
“अधीत्यब्दद्वादशत्वाद् द्वादशाब्द इतीरितः। श्वेतकेतुर्भारते तु नोत्पत्तिद्वादशत्वतः॥” इति वाक्यनिर्णये।
“यथा मृत्पिण्डविज्ञानात् सादृश्यादेव मृन्मयाः। विज्ञायन्ते तथा विष्णोः सादृश्याज्जगदेव च। यथा स्वर्णस्य विज्ञानात् सर्वे लोहमयास्तथा। प्राधान्याद् विष्णुविज्ञानाद् विज्ञातं स्याज्जगत् सदा। अत्यल्पेऽपि हि विज्ञाते सदृशे तादृशं बहु। ज्ञायते नखकृन्तन्या यथा सर्वमयोमयम्। किमु विष्णोर्बहोर्ज्ञानादत्यल्पं जगदीदृशम्। अनन्याधीनविज्ञानादन्याधीनं तथैव च। मृदयोलोहनाम्नां हि ज्ञानात् साङ्केतिकं यथा॥” इत्यादि सामसंहितायाम्॥
“स्वर्णं लोहमणिश्चैव पुरटं चाभिधीयते” इति शब्दनिर्णये।
विकारत्वविवक्षायामेकपिण्डमणिशब्दा व्यर्थाः स्युः। “मृत्तिकेति”,छान्दोग्योपनिषत् ६/१/२ “लोहमणिरिति”,छान्दोग्योपनिषत् ६/१/३ “कार्ष्णायसमिति”छान्दोग्योपनिषत् ६/१/४ अत्रेतिशब्दा नामधेयशब्दाश्च व्यर्थाः स्युः। विकारमिथ्यात्वविवक्षायां मृत्तिकैव सत्यं लोह एव सत्यं कार्ष्णायसमेव सत्यमित्येव स्यात्। नतु नामधेयादिशब्दाः। नच वाचारम्भणमात्रमिति मात्रशब्दोऽस्ति। नचारभ्यस्यारम्भणमिति युज्यते शब्दः। क्रिया ह्यारम्भणम्। अतो वाचा नाम्नामारम्भणं विकारो विविधाकारो विक्रियमाणः सत्यं नामधेयं सर्वदा विद्यमानं नामधेयं मृत्तिकेत्यादय इत्यर्थः। सत्त्वेन कालतस्ततं ज्ञायते विद्वद्भिरिति नित्यत्वेन प्रसिद्धमेव सत्यमित्यत्र विवक्षितम्। सङ्केतेन क्रियमाणानि ह्यन्यानि नामानि। अतो विकाररूपाणि। विकारशब्दस्य नियतपुंलिङ्गत्वात् ‘आरम्भणं विकारः’ इति ‘वेदाः प्रमाणम्’ इतिवद् युज्यते। नच मृत्तिकादिनामविकारः साङ्गेतिकं नाम। प्राधान्यमेवात्र मृत्तिकादिनामवद् भगवतो विवक्षितम्। सृष्टिश्च प्राधान्यार्थमेवात्रोच्यते॥ ७/१॥ एकमेवाद्वितीयं स्वगतभेदवर्जितं समानवर्जितं च।
“एकमेवाद्वितीयं तत् समाभ्यधिकवर्जनात्। स्वगतानां च भेदानामभावाद् ब्रह्म शाश्वतम्॥” इति प्रवृत्ते।
“भेदाभेदनिवृत्त्यर्थमेवशब्दोऽवधारकः। समाधिकनिवृत्त्यर्थमद्वितीयपदं तथा। भेदाभेदेऽप्येकशब्दो यतोऽवयविनि स्थितः। एकमेवेत्यतः प्राह नारायणमियं श्रुतिः। समे द्वितीयशब्दः स्यादद्वितीयोऽसमत्वतः। साधिकः कुत एव स्यादित्याह परमा श्रुतिः॥” इति सामसंहितायाम्।
नच विजातीयभेदवर्जनं नाम कुत्रचित् प्रसिद्धम्। तत्प्रमाणाभावाच्च। “एक एवाद्वितीयो भगवांस्तत्सदृशः परो नास्ति” इति च श्रुतिः। “एको भगवांस्तत्सदृशपरौ न स्तः” इति च। विजातीयाभावे “येनाश्रुतं श्रुतं भवति” इत्यादिविशेषणं च व्यर्थम्। यस्यकस्यचिज्ज्ञानं तज्ज्ञानमेव भवति। अज्ञानमपि ज्ञानमेव भवति। भेदाभावात्। नच मिथ्या सत्यमिति भेदः। तस्यैव विजातीयत्वप्राप्तेः। तद्भेदस्य मिथ्यात्वे तदभेदस्य सत्यत्वप्रसङ्गाच्च। मिथ्यासत्ययोरैक्य इदं सत्यमिदं मिथ्येति भेदाभावाज्जीवेशभेदादेरपि सत्यत्वप्रसङ्गः। अतः परमार्थं ब्रह्मान्यन्मिथ्येत्यपि न युज्यते। अतः सजातीयः स्वगतभेदोऽधिकाख्यं विजातीयं चात्र निषिध्यते।
“सर्वोत्तमत्वात् सन्नामा हरिर्नारायणः प्रभुः। सोऽसृजत् प्रथमं देवीं तेजआख्यां श्रियं सतीम्। तते स्थितेन रूपेण साऽजैव हि यतः सदा। तेज इत्युच्यते तस्माज्जनेर्वा तत एव तु। यदस्याः सृष्टिकृद् रूपं विद्याख्यं जायते हरेः। मन्वाख्यः प्राण एवास्या अम्नामा जायतेऽथच। ब्राह्मणादिचतुर्वर्णस्ततश्चान्नाभिधो हरः। तेजःसंस्था च सा देवी प्राणोऽप्सु स्थित एव च। ततस्तेजस एवापो जायन्तेऽन्नस्थितो हरः। जायतेऽतोऽद्भ्य एवान्नं पृथिवी त्वन्नरूपिणी॥*॥ सृष्टेष्वेतेषु भगवानीक्षाञ्चक्रे स केशवः। जीवाख्येनैव रूपेण योऽनिरुद्ध इति स्मृतः। तेन रूपेण लक्ष्म्यादीन् प्रविष्टो रूपनामनी। करिष्ये त्रिवृतश्चैतानेकैकं करवाणि च। इति मत्वा प्रविश्याथ तेभ्य इन्द्रादिनामपि। नामरूपाणि कृतवांस्तांश्चान्योन्यप्रवेशिनः। कृत्वाऽग्निसोमसूर्यादिष्वेतांस्त्रीन् विदधे पुनः॥*॥ अतो यल्लोहितं रूपं श्रियस्तद् रूपसम्भवम्। यच्छुक्ल्ं वायुजं विद्यात् कृष्णं चैव शिवोद्भवम्। तस्मादग्नेर्यदत्तृत्वमग्निनामप्रवर्तकम्। लक्ष्म्यादिदेवतानां तन्नैवाग्नेरग्निता ततः। मुख्यैवमाददानत्वमादित्यस्य तदुद्भवम्। अत आदित्यनामैषां नैवादित्यस्य मुख्यतः। यच्चन्द्राह्लादकत्वं च तत् तेषां चन्द्रता तथा। विद्युद्विद्योतनं तेषां ततस्ते सर्वनामिनः। तथैव सर्वरूपं च तद्रूपप्रतिबिम्बितम्। सर्वरूपाश्च ते तस्माल्लोहितादिक्रमेण तु। अतोऽन्यनामधेयं तु वाचाऽऽरम्भणहेतुतः। साङ्केत्येन विकारः स्यात् त्रयाणामेव नित्यता। यथा लक्ष्म्यादिकानां च नाम सङ्केततोऽन्यगम्। वाचाऽऽरम्भणहेतोस्तद् विकारो नैव मुख्यतः। मुख्यं नाम त्रिरूपाणीत्याद्यं वेदोदितं परम्। अतस्तदेव सत्योक्तं मुख्यं सत्यमितीर्यते। इन्द्रादिनामरूपाणि यथैव त्रिषु मुख्यतः। तदधीनत्वतस्तेषामेषामुच्चबलत्वतः। शिवनामानि रूपाणि तथा वायोस्तु मुख्यतः। तदीयानि तथा लक्ष्म्यास्तदीयानि हरेस्तथा। तस्मात् स एव सर्वेशः सर्वरूपः स एव च। सर्वनामा स एवैकः सर्वशक्तिस्तथैव च। अन्येषां यच्च रूपाद्यं तत् तस्मात् प्रतिबिम्बितम्। एक एवाद्वितीयोऽसावतः सर्वोत्तमत्वतः। मुख्यत्वादेव सन्नामा सत्ततिज्ञानरूपतः। सत्यमित्युच्यते विष्णुः स त्वं नासि कथञ्चन। अतोऽनूचानमानी त्वं स्तब्धोऽसि कुत एव तु। त्वत्तोऽधिका अपीन्द्राद्यास्तदुच्चाश्च श्रियादयः। सर्वोच्चो भगवान् विष्णुर्न स्तम्भोऽस्यापि हि क्वचित्। अतो न विद्वन्मानी स्या महानस्मीति वा मनः। न ते स्यान्नैव च स्तम्भो ज्ञात्वा विष्णोः परं बलम्। नहि विष्णोर्बलं ज्ञात्वा स्तम्भहेतुः कथञ्चन॥” इत्यादि सामसंहितायाम्॥ ६/४॥
देवता एव मांसादिशब्दवाच्याः। तत्र प्रवेशात्। अश्यमानाश्चोपजीव्यत्वात्। नच दुःखं तासाम्। ऐश्वर्यात्। “तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृत्” इति प्रस्तुतत्वात्। “जीव इति भगवतोऽनिरुद्धस्याख्या” इति च श्रुतिः। “प्राणस्य प्राणश्चक्षुषश्चक्षुर्जीवस्य जीवः प्रधानस्य प्रधानं भगवांश्चतुर्मूर्तिः” इति च।
“प्राणाधारो हरिर्नान्यो जीवशब्दस्ततो हरौ। संसारिणो जीवता तु जननाद् वानतस्तथा॥” इति च।
जीवशब्देन संसारिविवक्षायां “तत् तेज ऐक्षत”छान्दोग्योपनिषत् ६/२/१ इत्यादिना तेषामेव चेतनत्वावगतेर्नामरूपव्याकरणे जीवान्तरानुप्रवेशो नापेक्षितः।
“प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः। त्रयोविंशतितत्त्वानां गणं युगपदाविशत्॥”भागवतम् ३/७/१ इति च,
“यावद् बलिं तेऽज हराम काले यथा वयं चान्नमदाम यत्र। यथोभयेषां त इमे ह लोका बलिं हरन्तोऽन्नमदन्त्यमूढाः॥”भागवतम् ३/६/२७ “त्वं नः स चक्षुः परिदेहि शक्ता देव क्रियार्थे यदनुग्रहेण॥”भागवतम् ३/६/२९ इति तत्त्वानां प्रार्थनानन्तरं भगवत एव तेषु प्रवेशोक्तेर्भागवते।
यतश्च
“स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति”छान्दोग्योपनिषत् ६/३/१० इति भगवत्येव जीवशब्दः प्रयुज्यते। नह्यचेतनस्य मोदमानत्वमस्ति। अतोऽन्तर्यामिरूप एव जीवशब्दः।
“भोक्तुस्तु सुखदुःखानामन्तस्थो जीवनामकः। बहिःस्थितस्तु सन्नामा भगवान् पुरुषोत्तमः॥” इति तत्त्वविवेके।
अग्नेरग्निरिति नाम मुख्यतो नास्ति। अग्निनामानि त्रीणि रूपाणीति नामधेयं सत्यमित्यादि॥ ६/५-७॥ स्वप्नस्यान्तः सुषुप्तिः।
“स्वातन्त्र्यात् स्व इति प्रोक्तो विष्णुः सर्वेश्वरेश्वरः। तं प्राप्नोति मनोनामा संसारी स्वपितीत्यतः॥” इति च।
मननान्मनोनामा संसारी।
“शुङ्गमित्यङ्कुरं प्रोक्तं तन्मूलं भगवान् हरिः। जगतो मूलमप्येष निमित्तं न विकारवान्। बीजजीवो यथा मूलमङ्कुरस्याविकारतः। यथा पिता पुत्रतन्वास्तद्देहो हि विकारवान्। एवं हरिर्मूलमपि न विकारः कथञ्चन॥” इति च।
प्राथम्याच्च तेजआद्या लक्ष्म्यादय इति सिद्धम्।
“तेजोभिमानिनी लक्ष्मीः प्राणस्त्वबभिमानवान्। अन्नाभिमानी रुद्रश्च तिस्रस्ता देवताः पुरा॥” इति च ब्रह्माण्डे।
“यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति” इति संसारिणो ब्रह्मप्राप्तिमुक्त्वा “स यथा शकुनिः सूत्रेण प्रबद्धः” इति तस्योपपादनात्, मनोनामा पुरुषः, प्राणनामा भगवान्। “सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः”छान्दोग्योपनिषत् ६/३/३ इत्युपसंहारात्। प्रजाशब्दश्चेतनेष्वेव प्रसिद्धः। “प्रजानां सुखदुःखेन राजाऽऽप्नोति शुभाशुभम्” इत्यादेश्च।
“शरीरधातुकृत्त्वेन लक्ष्म्याद्याश्च मुमुक्षुणा। ध्येयास्तदीशितृत्वेन भगवान् पुरुषोत्तमः॥” इति वचनादनुसन्धानकर्तव्यताज्ञापनार्थं “तदुक्तं पुरस्तात्” इत्युक्तम्।
“मुक्तावुमा तु वागाख्या रुद्रं याति मनोभिधम्। वायुं याति शिवश्चापि वायुस्तेजोभिधां श्रियम्। वायुमादाय सा देवी याति विष्णुं परात् परम्। द्वारमात्रा तु सा देवी वायुप्राप्यो जनार्दनः। मृतिकाले च मुक्तौ च पुरुषा वाचमाप्नुयुः॥” इति सत्तत्वे।
“योऽसौ नियमनाद् विष्णुः सारत्वात् स इति स्मृतः। अणिमा सूक्ष्मतो गम्य ऐतदात्म्यं च तद्वशम्। परानन्दत्वतः सत्यमात्मा पूर्णगुणत्वतः। सत्यतो नासि तत् त्वं हि मा भूत् ते स्तब्धता ततः। असुराः स्तब्धतां याता ब्रह्माहमिति मानिनः। असत्यं जगदित्याहुः सिद्धोऽहं बलवानिति। अनीश्वरं जगत् प्राहुरप्रतिष्ठं तथैव च। चैतनैकत्वविषयान् वेदानाहुश्च सर्वशः। कुतर्कपरमा नित्यं न सहन्ते गुणान् हरेः। शास्त्रतत्त्वमविज्ञाय ब्रूयुर्देवेषु चैकताम्। यान्ति चैव तमो घोरं परमात्मविनिन्दकाः। आलम्ब्य तन्मतं न त्वमेकत्वं विद्धि विष्णुना। एकत्वाभावतो नैव भवेथाश्च महामनाः। तन्निष्ठा हि प्रजा यस्मात् तत्प्रतिष्ठाश्च मोक्षगाः। तन्मूलाश्च यतस्तासां तद्भावः कुत एव तु। यदि स्वतोऽन्यः परमो देहेऽस्मिन् संव्यवस्थितः। न दृश्यते कुत इति भूयः पप्रच्छ पुत्रकः। अज्ञैरदृश्यमानोऽपि न भेदो नास्ति पुत्रक। यथा पुष्परसा युक्ता अजानन्तोऽपि भेदिनः। अजानन्तोऽपि पुरुषास्तथा विष्णोर्हि भेदिनः॥ *॥ इति पित्रोपदिष्टः सन् पुत्रः पप्रच्छ तं पुनः। चेतनानामविज्ञानं कथमित्येव चिन्तयन्। तं प्रत्याह यथा नद्यश्चेतनाश्च समुद्रगाः। स्वं वारि नैव जानन्ति प्रजास्तद्वत् प्रजालये॥ *॥ स्वतोऽन्योऽस्ति परो देह इति ज्ञायेत मे कथम्। इति पृष्टः पुनः प्राह वृक्षदृष्टान्ततः पिता। अभिमानिनोऽस्वतन्त्रत्वाद् भेदेन ज्ञायते तरौ। हरिः किमु मनुष्येषु शोषो ह्यस्यास्वतन्त्रतः॥ *॥ ज्ञायते न कथं स्वामिन् सूक्ष्मे ज्ञाते परो हरिः। तत्रस्थ इति पृष्टः संस्तमाहोद्दालकः सुतम्। वटबीजे यथा सूक्ष्मे महान्यग्रोधभावयुक्। न दृश्यतेऽभिमानी स एवं जीवगतो हरिः॥ *॥ कथं दृश्येत तच्छक्तिः पृथक् तस्य ह्यदर्शने। इति भावयुतं प्राह पुत्रमुद्दालकः पुनः। यथाऽप्सु लवणं व्याप्तं रसदृष्टौ न दृश्यते। एवं चेतनगो विष्णुस्तद्भिन्नोऽपि न दृश्यते॥ *॥ कथं स ज्ञायते विष्णुर्भिन्न इत्यत्र चाब्रवीत्। यथैवान्योपदेशेन बद्धाक्षः स्वगृहं व्रजेत्। तथाऽऽचार्योपदेशेन भिन्नमीशं व्रजेत् पुमान्॥ *॥ यथा पुंसोऽस्वतन्त्रत्वं तज्ज्ञापयतु मा भवान्। इत्युक्त आह ज्ञाने हि दृष्टैवास्यास्वतन्त्रता॥ *॥ अभेदज्ञानिनां दोषः कीदृशः स्यादितीरिते। प्राह यस्मात् परस्वानां हर्ता राज्ञा निहन्यते। किमु राज्ञोऽपहर्तैवं ब्रह्मस्तेनो निहन्यते। सर्वेषां शास्तृ यद् ब्रह्म तत् स्वरूपतया स्मरन्। ब्रह्मस्तेनो निहन्येत तमस्यन्धे सदैव हि। दोषा ह्यज्ञानपूर्वास्तु बद्ध्वा पुरुषमीशितुः। विष्णोर्हर्तेति बाधन्ते चाभिमानकृतास्पदम्। ततो विचारयन्त्येनं देवता हरिणा सह। नाहं विष्णुर्न स्वतन्त्रो नच पूर्णगुणोऽस्म्यहम्। मम स्वामी हरिर्नित्यं स्वतन्त्रः पूर्णषड्गुणः। एवं दार्ढ्यं शपथवद् यदा कुर्यादयं सदा। जानन्नेव न तापी स्यादन्तरानन्दभोगतः। तदा तेभ्यो मोचयित्वा हत्वा मिथ्याभिशंसिनः। स्वकीयं कुरुते विष्णुरन्यथा तैः सह प्रभुः। तमस्यन्धे पातयति महाकारागृहोपमे। महान्धे वा पातयति हस्तच्छेदादिसम्मिते। ततोऽधरे वा तद्योग्यं दृढाभेदं वधोपमे। तस्मादाचार्यतो ज्ञात्वा विष्णोर्भेदेन पूर्णताम्। उपासीत ततो मुक्तिं याति नास्त्यत्र संशयः॥” इत्यादि सामसंहितायाम्॥ ६/१६॥
स्वयम्भूरिति विष्णुजत्वाद् विरिञ्च उच्यते। नहि विरिञ्चादेव विरिञ्चो जातः। “यो ब्रह्माणं विदधाति पूर्वम्”🔗श्वेताश्वतरोपनिषत् ६/१८ इत्यादिश्रुतेः। आत्मा भगवान्। ततो भूतत्वादात्मभूः। “दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान्”भागवतम् ४/१/१५ इति वचनात्। अ इति विष्णुः। तज्जातत्वादजः। “अः इति ब्रह्म”ऐतरेयारण्यकम् २/३/८ इत्यादिश्रुतेः। “वासुदेवात् परो नैव ब्रह्मशब्दोदितो भवेत्” इत्यादेश्च। अतः स्वशब्दो विष्णावेव प्रसिद्धः। ततः “स्वमपीतो भवति” इति युज्यते। अप्ययो नामाविज्ञेयत्वेन प्रवेशः।
“अविज्ञातं प्रविष्टं यदपीतमिति कीर्त्यते। यथा नद्यः समुद्रे तु यथा विष्णुं लये प्रजाः॥” इति शब्दनिर्णये।
नच जीवस्य तद्भावोऽस्ति। उत्थितस्य सुप्तिसंसारयोः परामर्शदर्शनात्- “अहं विश्वं भुवनमभ्यभवाम्”, “आजन्ममरणं स्मृत्वा मुक्ता हर्षमवाप्नुयुः” इति। तद्भावस्यापरामर्शाच्च। “प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्”बृहदारण्यकोपनिषत् ६/३/२१ इत्यादिश्रुतेश्च। “सुषुप्त्युत्क्रान्त्योर्भेदेन”🔗ब्रह्मसूत्रम् १/३/४२ इति च भगवद्वचनम्।
“सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः”,छान्दोग्योपनिषत् ६/३/३ “सति सम्पद्य न विदुः सति सम्पत्स्यामह इति”,छान्दोग्योपनिषत् ६/३/६ “सत आगम्य न विदुः सत आगच्छामह इति”,छान्दोग्योपनिषत् ६/३/८ “स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति”,छान्दोग्योपनिषत् ६/३/१० “अण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महान् न्यग्रोधस्तिष्ठति”,छान्दोग्योपनिषत् ६/३/१२ “लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति स ह तथा चकार तं होवाच यद् दोषा लवणमेतदुदकेऽवधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमित्यन्त्यादाचामेति कथमिति लवणमिति”,छान्दोग्योपनिषत् ६/३/१४ “अत्र वाव किल सत् सोम्य न निभालयसेऽत्रैव किलेति”,छान्दोग्योपनिषत् ६/३/१३ “एतां दिशं गन्धारा एतां दिशं व्रजेति”,छान्दोग्योपनिषत् ६/३/१४ “तेजः परस्यां देवतायां तावन्न जानाति”,छान्दोग्योपनिषत् ६/३/१५ “अपहार्षीत् स्तेयमकार्षीत्”छान्दोग्योपनिषत् ६/३/१६ इत्यादि नवकृत्वो भिन्नस्य वस्तुनो भेदापरिज्ञानादनर्थं सूक्ष्मत्वाद् भेदस्य दुर्ज्ञेयत्वं च सदृष्टान्तं तात्पर्येणाह।
नचाभेदे कश्चिद् दृष्टान्त उक्तः। नहि शकुनिसूत्रयोः, नानावृक्षरसानाम्, नदीसमुद्रयोः, वृक्षपरमात्मनोः, धानापरमात्मनोः, लवणोदकयोः, पुरुषगन्धारयोः, नियतज्ञानानियतज्ञानयोः, चोरापह्रियमाणयोश्चाभेदोऽस्ति।
महातात्पर्यविरोधश्चाभेदे। विष्णोः परमोत्कर्षे हि सर्वप्रमाणानां महातात्पर्यं भगवताऽभिहितम्-
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः। यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः। यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद् भजति मां सर्वभावेन भारत। इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ। एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥”🔗भगवद्गीता १५/१६-२० इति।
“भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्। सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति॥”,🔗भगवद्गीता ५/२९ “ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥”,🔗भगवद्गीता ७/२ “मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥”,🔗भगवद्गीता ७/७ “राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्। अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप। अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि। मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि नचाहं तेष्ववस्थितः। नच मत्स्थानि भूतानि पश्य मे योगमैश्वरम्॥”,🔗भगवद्गीता ९/२-५ “अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्। परं भावमजानन्तो मम भूतमहेश्वरम्। मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः। महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥”,🔗भगवद्गीता ९/११-१३ “यो मामजमनादिं च वेत्ति लोकमहेश्वरम्। असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते॥”🔗भगवद्गीता १०/३ “परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्। यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥”,🔗भगवद्गीता १४/१ “मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम्। सम्भवः सर्वभूतानां ततो भवति भारत॥”,🔗भगवद्गीता १४/३ “ये मां ज्ञात्वा गुणैः पूर्णं न चलन्ति ततः क्वचित्। तैरेवाप्यो नचैवान्यैरहं सर्वेश्वरेश्वरः॥” “ये तु मद्गुणसम्पूर्तौ ज्ञानस्नेहस्थिरात्मकाः। तेषां हस्तगतो मोक्षो मामेव स्मरतां सदा। ये मन्यन्ते गुणापूर्तिं तमस्तेषां परायणम्। नच तेभ्योऽप्रियो मह्यं यश्च स्यात् गुणपूर्तिवित्। स मामाप्नोति नियतं नच तस्मात् प्रियो मम। प्रमाणान्यखिलान्येव तर्काश्चैतत्पराः सदा। एतद्विरुद्धं यन्मानं तर्कश्चाभास एव तु॥” इत्यादौ।
“तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भुरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः”, “भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते। तस्माद् भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये विशिष्टः”, “असुन्वन्तं समं जहि दूणाशं यो न ते मयः। अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते”,ऋग्वेदसंहिता १/१७६ “सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये”,ऋग्वेदसंहिता ८/३/४ “एतावानस्य महिमाऽतो ज्यायांश्च पूरुषः”,छान्दोग्योपनिषत् ३/२/२ “तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते”,तैत्तिरीयारण्यके ३-१२-७ “सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः। बन्धमोक्षौ च कथ्यन्ते यस्योत्कर्षप्रसिद्धये। यस्योत्कर्षप्रसिद्ध्यर्थं सर्वे वेदाश्च युक्तयः । ज्ञात्वैव च यदुत्कर्षं मुच्यन्ते स हरिः परः ॥” “अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा”ऋग्वेदसंहिता ८/३/८ इत्यादिश्रुतिश्च विष्णोरुत्कर्षे महातात्पर्यं कथयति।
“महातत्परता विष्णोरुत्कर्षेऽवान्तरा ततः। अन्यत्र सर्ववाक्यानां युक्तीनां च विशेषतः॥” इति ब्रह्माण्डे।
“भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति”,🔗ब्रह्मसूत्रम् ३/३/५९ “ब्रह्मदृष्टिरुत्कर्षात्”🔗ब्रह्मसूत्रम् ४/१/५ इत्यादि निर्णयात्मकं भगवद्वचनम्।
नच शारीरपराभेदे तात्पर्यमित्यत्र किञ्चिन्मानम्। “अतत् त्वमसि”छान्दोग्योपनिषत् ६/८/७ इति भेदस्य नवकृत्वोऽभ्यासाच्च। “भेदव्यपदेशात्”,🔗ब्रह्मसूत्रम् १/३/५ “भेदव्यपदेशाच्चान्यः”,🔗ब्रह्मसूत्रम् १/१/२१ “अनुपपत्तेस्तु न शारीरः”,🔗ब्रह्मसूत्रम् १/२/३ “शारीरश्चोभयेऽपि हि भेदेनैनमधीयते”,🔗ब्रह्मसूत्रम् १/२/२० “पृथगुपदेशात्”🔗ब्रह्मसूत्रम् २/३/२८ इत्यादिना सर्वत्र भेदस्यैव भगवता निर्णीतत्वाच्च। “पुरुष एवेदं सर्वमिति च॥ पुरुषेणेदं सर्वं व्याप्तं यद् भूतं यच्च भव्यम्। नच भगवान् गोत्वेन मनुष्यत्वेन वा भवति। आ तृणादा करीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषा। दधिसक्तवो घृतौदनमित्यादौ व्याप्तशब्दाभावेऽपि व्याप्तशब्दोऽवगम्यते। दधिसिक्ताः सक्तवो घृतसिक्तमोदनम्” इति च श्रुतिः। “पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यमिति॥ पुरुषेण हीदं सर्वं नेनीयते” इति च।
अतः सर्वप्रमाणानां भगवदुत्कर्ष एव महातात्पर्याच्छारीराभेदं वदतां महातात्पर्यविरोधः।
“अज्ञानदुःखसम्बन्धाद् यावज्ज्ञानं शरीरिणः। सर्वदा ज्ञानकं विष्णुमहमस्मीति ये विदुः। अज्ञानदुःखमन्तारस्ततस्ते नीचतां विदुः। विष्णोरुत्कर्षहर्तॄणां नैव तेषां सुखं क्वचित्॥”,
“योऽन्यथा सन्तमीशेशं स्वरूपं प्रतिपद्यते। किं तेन न कृतं पापं चोरेणेशापहारिणा॥”,
“ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः। शास्त्रतत्त्वमविज्ञाय तथा वादबला जनाः। कामक्रोधाभिभूतत्वादहङ्कारवशं गताः। ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः। याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः। वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते। तेषां तमःशरीराणां तम एव परायणम्॥”,भारतम् १२/२७५/५१-५४ “यतः स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः। कथमस्मि स इत्येव सम्बन्धः स्यादसंहितः॥”भारतम् १२/२२०/३६ इति।
“बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु। को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हति॥
वैशम्पायन उवाच-
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह। बहूनां पुरुषाणां हि यथैका योनिरुच्यते। तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्॥”भारतम् १२/३६०/१-३ इति मोक्षधर्मवचनाच्च।
“हंनाम हन्यमानत्वाज्जीवस्य समुदाहृतम्। जीवादन्यो यतो विष्णुरहंनामा ततः स्मृतः। स्मीति जीवः समुद्दिष्टः स्मीत्यल्पं सुमितत्वतः। पूर्णत्वादस्मिनामाऽसौ पूर्णपूर्णत्वहेतुतः। ब्रह्मास्मीत्युच्यते विष्णुर्बृहत्पूर्णो यतः सदा। असौ सूर्यगतो विष्णुर्दूरस्थत्वात् प्रकीर्तितः। अहंनामा जीवगतो नित्याहेयत्वहेतुतः॥” इति ब्रह्माण्डे।
“परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा”,छान्दोग्योपनिषत् ८/४/२-३ “स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा”,छान्दोग्योपनिषत् ७/३/५ “यो वेद निहितं गुहायां परमे व्योमन्। सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता”,🔗तैत्तिरीयोपनिषत् २/१ “एतमानन्दमयमात्मानमुपसङ्क्रम्य। इमाल्ँलोकान् कामान्नी कामरूप्यनुसञ्चरन्। एतत् साम गायन्नास्ते”,🔗तैत्तिरीयोपनिषत् ३/(१०-५) “स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽत्मनो यद्यत् कामयते तत्तत् सृजते”,बृहदारण्यकोपनिषत् ३/५/९ “ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्या सन्ति देवाः”,ऋग्वेदसंहिता १०/९० “तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति”,🔗आथर्वणोपनिषत् ३/१/३ “यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति”,🔗काठकोपनिषत् २/१/१५ “नानात्वेनाभिसम्बद्धास्तदा तत्कालभाविना। प्रकृतौ करणातीताः स्वात्मन्येव व्यवस्थिताः। संयोगः प्रकृतेर्नैषां मुक्तानां तत्त्वदर्शनात्। पुरुषान्यबहुत्वेन प्रतीता न प्रवर्तते। प्रवर्तति पुनः सर्गे तेषां सा न प्रवर्तते॥”, “इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥”,🔗भगवद्गीता १४/२ “न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः”भागवतम् २/९/१० इत्यादिश्रुतिस्मृतिषु सतात्पर्यं मुक्तानां विष्णोर्भेदस्यैवोक्तेः।
“सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः”,छान्दोग्योपनिषत् ६/३/३ “सति सम्पद्य न विदुः”,छान्दोग्योपनिषत् ६/३/६ “सत आगम्य न विदुः”छान्दोग्योपनिषत् ६/३/८ इत्यादौ भेद एव ह्यत्र सतात्पर्यं प्रतिपादितः।
ता नद्यः समुद्रादागत्य समुद्रं प्रविशन्ति। स समुद्र एव भवति। न नदीभावं प्राप्नोति। स एव च समुद्रो भवति। समुद्र एव समुद्रो भवति न नद्य इति भेदस्यैवावधारणं क्रियते।
नच स्वकीयस्य ब्रह्मभावस्याज्ञोऽपहर्ता भवति। किन्त्वविद्यमानब्रह्मभावाभिमन्तैवापहर्ता। नहि स्वकीयवित्तपरित्याग्यपहर्ता भवति। किन्तु परस्वहर्तैव। तस्मादविद्यमानब्रह्मभावाभिमन्तैव “अपहार्षीत् स्तेयमकार्षीत्” इति दृष्टान्तपूर्वकमुच्यते। अदुःखित्वपूर्णज्ञानानन्दस्वातन्त्र्यादिब्रह्मस्वभावाननुभवं स्वात्मनोऽपि ज्ञात्वैव तद्भावाभिमतेः स्तैन्यम्। परकीयाभिमतेरपहारः।
“परस्वभावाभिमतेरपहर्ता स्ववञ्चनात्। स्तेनश्चाभेदवेत्ता तु ब्रह्मणा हन्यते सदा॥” इति तत्त्वविवेके।
नच दार्ढ्यमात्रे दृष्टान्तोऽयम्। “स यदि तस्य कर्ता भवति”,छान्दोग्योपनिषत् ६/३/१६ “स यदि तस्य न कर्ता भवति”छान्दोग्योपनिषत् ६/३/१६ इति हतिमुक्त्योरपहारानपहारैकहेतुकत्वश्रुतेः। अन्यथा यदि दृढो भवति यद्यदृढो भवतीत्युच्येत। नच सत्यासत्यमात्रम्। तदा सत्यानृतवाग्दृष्टान्तेन पूर्तेरपहारदृष्टान्तो न स्यात्। तस्मादभेदज्ञानेन महान्तं विनाशं प्रदर्श्य भेदज्ञानान्मुक्तिपरमेवैतद् वाक्यम्। भिन्नस्यैवोत्कर्षो भवति। अभिन्नस्य कुत उत्कर्षः स्यात्? अज्ञानदुःखयुक्तत्वाच्च। नहि तत्पक्षे परमार्थदुःखिनो भ्रान्त्या दुःखिनश्च तत्काले कश्चिद् विशेषः। अस्वातन्त्र्यं च भ्रान्तस्य निश्चितमेव। नहि भ्रमः स्वेच्छया युज्यते।
“स्वात्मानं परमं विष्णुं विदित्वैव स राघवः। दैत्यानां मोहनार्थाय दर्शयामास मूढताम्॥” इति पाद्मे।
“जगद्व्यापारवर्जम्”,🔗ब्रह्मसूत्रम् ४/४/१७ “प्रकरणात्”🔗ब्रह्मसूत्रम् ४/४/१८ इत्यैश्वर्यमर्यादया मुक्तानां ब्रह्मणश्च भेदस्यैव निर्णीतत्वाच्च भगवता।
“ब्रह्मसूत्रानुसारेण वेदाद्यं सर्वमेव च। योज्यं न ब्रह्मसूत्राणि दृश्यमानार्थतोऽन्यथा॥” इति च ब्रह्मवैवर्ते।
“चोरदृष्टान्ततो यस्य ह्यभेदज्ञानतस्तमः। भेदेनोत्कर्षवेत्तुस्तु मुक्तिरेव ह्यचोरवत्॥” इति च।
“सारत्वात् स इति प्रोक्तो ज्ञानत्वाद् य इतीरितः। सर्वस्येष्ट इति ह्येष मानानामणकोऽणिमा। तत्तन्त्रत्वादैतदात्म्यं स सत्यः साधुरूपतः। तत् ततेः पूर्णतश्चात्मा सादनात् स इतीरितः। अतत् त्वमसि पुत्रेति य उक्तो गौतमेन तु। नवकृत्वः सदृष्टान्तं सर्वभेदेन केशवः। तस्मै नमो भगवते चिदचित्परमाय ते। पुरुषोत्तमाय देवाय पूर्णानन्दैकरूपिणे॥” इति सामसंहितायाम्।
अतः सर्वचिदचिद्विलक्षणः सर्वोत्तमः सर्वगुणपरिपूर्णो भगवान् पुरुषोत्तम इति सिद्धम्।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते छान्दोग्योपनिषद्भाष्ये षष्ठोऽध्यायः॥
सप्तमोऽध्यायः
प्रथमः खण्डः
द्वितीयः खण्डः
तृतीयः खण्डः
ॐ॥ यद् वेत्थ तेन तदुक्त्वा मामुपसीद।
“पितृलक्षणं तु पित्र्यं स्याद् राशिः स्यात् पूगलक्षणम्। देवतालक्षणं दैवं निधिश्च निधिलक्षणम्। वाकोवाक्यं मूलवेदो वेदसारोपसंहृतिः। एकायनमिति प्रोक्तं देवविद्या त्वमानुषी। देवज्ञेयैव या विद्या ब्रह्मविद्या तथाऽऽरणम्। भूतविद्या भूतचिह्नं क्षत्रविद्या तु नीतिका। नाक्षत्री ज्योतिषाख्या च सर्पलक्षणमेव च। सर्पविद्येति सम्प्रोक्ता या देवपरिचारगा। सा देवजनविद्या स्यादेता वेद स नारदः॥” इति सामसंहितायाम्।
“विद्यानां निर्णयाज्ञानादविद्वानुच्यते पुमान्। सर्वविद्याविदप्यद्धा तस्मान्निर्णयवित्तये। कुमारमैच्छद् देवर्षिर्नारदो ब्रह्मवित्तमम्॥” इति च।
“विष्णोर्नाम यतो विद्याः सर्वनामेत्यतः स्मृतः। नामाभिमानिनी चोषास्तस्यां ब्रह्म परं स्मरेत्। यदेषा नत्वमेया स्यान्मीयते ह्युषसि ध्रुवम्। रात्रिमानमजानद्भिस्ततो नामेत्युषाः स्मृता॥ * ॥ तस्यास्तु भूयसी स्वाहा धर्मज्ञानसुखादिभिः। सर्वैर्गुणैर्विमुक्तौ च तथा बन्धे च सर्वदा। वाचोभिमानिनी सैव वाङ्नाम्नी चाञ्चनाद् वसोः॥ * ॥ एवं तस्या विमुक्तौ च पर्जन्यः सर्वतो वरः। मनोभिमानी सम्प्रोक्तो वृष्ट्या निर्माणतो मनः॥ * ॥ तथा तस्माद् वरो मित्रो मुक्तौ सङ्कल्पदेवता। अह्नि सङ्कल्पयेद् यस्मात् स्वप्स्यन्ति निशि यत् ततः। तथा मित्राद् वरस्त्वग्निर्मुक्तौ चित्तस्य देवता। चितत्वाच्चित्तनामा च तस्माद् वरुण एव च। ध्यानस्य देवता चासौ तन्नामा च निधानतः। सत्यानृतविवेकार्थं तथा तस्मान्निशाकरः। विज्ञानदेवता चासौ तन्नामा च विवेचनात्। सत्यस्य तस्माच्च तथा वायुर्भूतात्मको वरः। बलात्मकस्तथा तस्मादन्नदेवोऽनिरुद्धकः। अन्ननामाऽनुनादित्वात् तैजसाहम्भवस्ततः। तथा वरिष्ठः प्राणाख्यो वायुः सोऽपां च देवता। अम्नामा देहसंव्याप्तेस्तथा तस्मात् पुरन्दरः। तेजोभिमानी तन्नामा तेजो ह्योज इतीर्यते। तथा तस्मादुमा चैव सा चाकाशाभिमानिनी। आकाशनाम्नी दीप्तत्वात् तस्याश्चैव सदाशिवः। स्थिरस्मृत्यभिमानी स सममेव रतेः स्मरः। मुख्यवायुप्रिया तस्मात् परमैव सरस्वती। बन्धमुक्त्योः सर्वगुणैः सर्वदाऽऽशास्वरूपिणी। शमित्यानन्द उद्दिष्ट आशा पूर्णसुखत्वतः। तस्याः श्रेष्ठो मुख्यवायुः प्रकृष्टानां च नायकः। प्राणनामा ण इत्येव ह्यानन्दः समुदीरितः। आणा सरस्वती प्रोक्ता तत्प्रकृष्टसुखत्वतः। प्राण इत्युच्यते वायुः सर्वे त्वेते दशोत्तराः। पर्जन्यमित्रशिखिनो भूतवायुस्तथैव च। द्विगुणा एवानिरुद्धोऽनिलात् पञ्चगुणाधिकः। पादोनो वरुणादग्निरध्यर्धोनः स सोमतः। शिवादाशा तथैवास्या मुख्यवायुः शतोत्तरौ। सङ्ख्यान्यथात्वं यत्र स्यात् तत्रावेशविशेषतः। अवराणां गुणस्यापि परमीयत्वतस्तथा। प्राणात् तु भगवान् विष्णुरनन्तगुणतोऽधिकः। नित्यमुक्तो नित्यशक्तिर्नित्योद्रिक्तगुणः प्रभुः॥” इति तत्त्वविवेके।
“सैषाऽऽनन्दस्य मीमांसा भवति”🔗तैत्तिरीयोपनिषत् २/८ इत्यादेश्च। “अथातः सम्भूतिः परमाद् विद्या विद्यायाः प्राणः प्राणाच्छ्रद्धा श्रद्धायाः शिवः शिवाद् बुद्धिबुर्द्धेरिन्द्र इन्द्रात् तैजसः प्राणस्तैजसादनिरुद्धोऽनिरुद्धात् स्पर्शवातः स्पर्शवातात् सोमः सोमाद् वरुणो वरुणादग्निरग्नेर्मित्रो मित्रात् पर्जन्यः पर्जन्यात् स्वाहा स्वाहाया उषा जायते तेषां परः परो ज्यायान् गुणैरुत्तर उत्तरः प्रत्यवरः परस्मात् परस्मादुत्तर उत्तरो मुच्यते स्वंस्वं भावमापद्यते। नैषां पारावर्यमुच्छिद्यते कदाचन नैषां पारावर्यमुच्छिद्यते कुतश्चन पारावर्येणैव ब्रह्मोपयन्ति पारावर्येणैव मुक्ताः सञ्चरन्ति” इत्यादिश्रुतेश्च।
“नामादिमारुतान्तेषु देवेष्वेभ्यश्च भेदतः। उपासितो हरिर्मुक्तिं दद्यान्नास्त्यत्र संशयः॥” इति सत्तत्त्वे।
“उषादिमारुतान्तेषु समः समगुणोऽपि सन्। ध्यातः प्रीतिं हरिर्यायादधिकामुत्तरोत्तरे। उत्तमेषूत्तमा प्रीतिस्तस्य तत्र स्मृतस्ततः। ध्यातुरप्युत्तमां प्रीतिं यायान्नास्त्यत्र संशयः। तारतम्यपरिज्ञानात् तेषु ध्यातो विमुक्तिदः। प्रीतिं नचान्यथा यायादिति शास्त्रस्य निर्णयः॥” इति तत्त्वविवेके।
“नामादिप्राणपर्यन्ताः सप्तम्यर्थाः प्रकीर्तिताः। तृतीयापञ्चमीषष्ठीचतुर्थ्यर्थाश्च सर्वशः। शब्दास्ते ब्रह्मशब्देन सम्बद्ध्येयुर्यदा तदा। ब्राह्मणोऽस्य मुखं यद्वदात्मा वै पुत्रको यथा। यथा च यूप आदित्य एवमेष प्रकीर्तितः। सप्तसु प्रथमा यस्माद् भूयोभूयस्त्वतस्तथा। षट्सु द्वितीया यस्माच्च कारणत्वात् परस्य च। नह्यन्यदन्यदित्येव ध्यातं स्यात् पुरुषार्थदम्। अनर्थश्च भवेत् तस्माद् भृत्ये राजेति बोधवत्। राजपूजां यथा भृत्ये कुर्याद् राजा हिनस्ति हि। तद्वशत्वात् तथा भृत्य एवं नामादिकं च यः। उपास्ते ब्रह्मरूपेण तं ब्रह्माथेतराणि च। पातयन्ति तमस्यन्धे तस्मान्नेक्षेत तांस्तथा॥” इति सामसंहितायाम्।
“अचेतनमयोग्यं च तथैवातात्त्विकं क्वचित्। नोपासीत परोऽनर्थः स्यात् तथोपासनाकृतः। दर्भचर्मादयश्चातो देवता ह्यभिमानिनः। नह्यचेतनकं किञ्चित् फलदं स्यात् कदाचन। औषधादिषु चैतस्माद् देवा एव वरप्रदाः। औषधादिस्थिता देवास्तेऽज्ञे दृष्टफलप्रदाः। ज्ञानिन्यदृष्टदाश्च स्युर्नादैवं किञ्चिदिष्यते। यथाऽज्ञस्यापि राज्ञस्तु भोजनं कॢप्तमिष्यते। नत्वविज्ञाय राजानं ग्रामप्राप्तिस्ततो भवेत्। एवं देवा दृष्टफलं दद्युरज्ञस्य चाल्पतः। किञ्चिज्ज्ञानकृतादृष्टात् तच्च नैवान्यथा भवेत्। अदृष्टाख्यं फलं यत् तु तज्ज्ञस्यैव नचान्यगम्। तस्मादचेतनोपासां न कुर्यात् क्वापि कश्चन। नचासत्यां नचायोग्यां यदीच्छेदुत्तमं फलम्। यदि नेच्छेत् तमो गन्तुं यदि चेच्छेद्धरेः प्रियम्। अथ कर्तव्यकारी च मुमुक्षुरथवा भवेत्। सोऽपीच्छेत हरेः प्रीतिं नात्र कार्या विचारणा॥” इत्युपासनालक्षणे।
“अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्”,🔗ब्रह्मसूत्रम् २/१/६ “पयोऽम्बुवच्चेत् तत्रापि”🔗ब्रह्मसूत्रम् २/२/३ इति भगवद्वचनम्। “देवेषु चर्मादिनामानि संवादादेः” इति च देवतामीमांसायाम् । “अचेतनासत्यायोग्यन्यनुपास्यान्यफलत्वविपर्ययाभ्याम्” इति सङ्कर्षणसूत्रम् । “ओषधयः सं वदन्ते सोमेन सह राज्ञा”,ऋग्वेदसंहिता १०/९७/२२ “प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा”,ऋग्वेदसंहिता १०/१७५/१ “न ऋते त्वत् क्रियते किञ्चनारे महामर्कं मघवन् चित्रमर्च”,ऋग्वेदसंहिता १०/११३/९ “न देवानामति व्रतं शतात्मा च न जीवति”,ऋग्वेदसंहिता १०/३३/९ “अनेहसो व ऊतयः सुऊतयो व ऊतयः”,ऋग्वेदसंहिता ८/४७/१-१८ “द्यावापृथिवी जनयन्नभि व्रताऽऽप ओषधीर्वनिनानि यज्ञिया। अन्तरिक्षं स्वारा पप्रुरूतये वशं देवासस्तन्वी नि मामृजुः”ऋग्वेदसंहिता १०/६६/९
“अचेतनं चेतनेभ्यो दैवतेभ्यश्च चेतनाः। देवाः प्राणाच्च स प्राणो विष्णोरेव सदैव तु। स्वभावं च प्रवृत्तिं च विकारं च समाप्नुयुः। कश्चिद् भाव ऋते तेषां नैतत् स्याच्च कदाचन। अचेतनप्रवृत्तौ तु न दृष्टान्तोऽस्ति कश्चन। चेतनानां प्रवृत्तेश्च दृष्टत्वादेव सर्वशः। अदृष्टं दृष्टवज्ज्ञेयं यथाऽदृष्टप्रणेतृकम्। विसर्पत् तण्डुलं दृष्ट्वा कल्प्या तत्र पिपीलिका। न तद् दृष्ट्वैव दृष्टानामपिपीलिकसर्पणम्। एवं दृष्टानुसारेण चिदधीनमचेतनम्। दुर्घटा शक्तिरपि हि पिशाचानां च दृश्यते। देवानां किमु किम्वेव परमस्य हरेः प्रभोः॥” इत्यादि ब्रह्मतर्के।
हृदयज्ञः भगवत्तत्त्वज्ञः। हृद्ययनाद्धृदयम्। “उदरं ब्रह्मेति शार्कराक्ष्या उपासते। हृदयं ब्रह्मेत्यारुणयः” इति श्रुतिः। “कोलं पूगफलं प्रोक्तं कलं ताम्बूलपत्रकम्” इत्यभिधानम्।
“भूतानां भौतिकानां च मन्त्राहुतिगणस्य च। अचेतनगणस्यास्य कल्पको मित्रनामकः। प्राणा भूतानि मन्त्राद्याश्चिदचित्त्वविभेदिनः। अचितां कल्पको मित्रश्चितां वाय्वादयः स्मृताः॥” इति वस्तुतत्वे।
सर्वमचेतनं सङ्कल्प्यते।
“अस्थिरस्मरणं चित्तं स्थिरसंस्मरणं स्मरः” इति शब्दनिर्णये।
“वेदनं ज्ञानमात्रं स्याद् विद्वत्त्वं तु विशेषतः” इति च।
“मोक्षे यस्मिन् प्रवेशः स्यात् सा प्रतिष्ठा हि मुख्यतः। उपचारतस्त्ववस्थानमिति शब्दविदो विदुः॥” इति च।
“देवा मनुष्यतां प्राप्ता विज्ञेया देवमानुषाः। ध्यानं कुर्वन्त इव ते नैव स्युर्बहुभाषिणः। ब्रूयुरर्थवतीं वाचं नानर्थां प्रायशो हि ते॥” इति पाद्मे।
“बलं ज्ञानबलं चैव बाह्यं चेति द्विधा मतम्। युक्तिज्ञता ज्ञानबलं सा ज्ञानादधिका मता॥” इति तत्त्वसारे।
“अन्नं ज्ञानरसान्नं च बाह्यमन्नमिति द्विधा। ज्ञानान्नं ज्ञानबलतः श्रेष्ठं ज्ञानरतिर्हि तत्। यद् बाह्यं तु बलं तस्माद् बाह्यमन्नं विशिष्यते। आपश्च द्विविधाः प्रोक्तास्तृप्तिर्या ज्ञानतो रतेः। ता ज्ञेया आन्तरा आपो बाह्यास्तु द्रवरूपकाः। आन्तरान्नादान्तरापो बाह्याद् बाह्यास्तथा वराः। एवं तेजः प्रातिभाख्यं बाह्यं चेति द्विधा मतम्। प्रातिभं ज्ञानतृप्तेश्च परमाकाश एव च। स्थिरा तु प्रतिभाऽन्तस्था च्छिद्रमेव तु बाह्यगः। स्थिरा हि प्रतिभा श्रेष्ठा चञ्चलायाः स्मराभिधा। एकधैव स्मृतिः श्रेष्ठाऽऽशाऽपरोक्षदृगात्मकम्। श्रेष्ठं सुखं ततो मोक्षे प्राणाख्यं परमं सुखम्। उत्तरोत्तरमेतद्धि वाय्वन्ताभिमतं सदा। बाह्याद्भ्यो बाह्यमन्नं च जायतेऽन्यत् तदन्यथा। व्यक्तिरन्तर्गतानां तु विपरीतक्रमाद् भवेत्। तथाऽपि मोक्षगं यस्मात् स्वभावो नित्य एव तु। अतस्तस्मादापरोक्ष्यं कादाचित्कं हि जायते। दृष्ट्यधीना स्मृतिश्चेयं प्रतिभा स्मृतिसम्भवा। स्थैर्यमालम्ब्य तु चलमन्यथा नैव तिष्ठति। प्रतिभातश्च तृप्तिः स्यादतृप्तस्य तु का रतिः। तत एवं क्रमादेव वरिष्ठः प्राणजो गुणः॥” इति च॥ *॥
योऽसौ प्राणः स प्राणेन परब्रह्मणा याति। स एव भगवान् प्राणं प्रत्यभीष्टं ददाति। “प्राणस्य प्राणम्”बृहदारण्यकोपनिषत् ६/४/१८ इति श्रुतेः। प्राणो वायुः परमात्मानं च ज्ञानेन दर्शयन् ददाति। सर्वस्मादतीतमुत्तमं वदतीत्यतिवादी। “एष तु वा अतिवदति”छान्दोग्योपनिषत् ७/२/१ इति तुशब्दोऽर्थान्तरवाची। अस्ति भगवः प्राणाद् भूय इति प्रश्नो व्यतिहार्यः। “यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम्। तत्र प्रमाणं वाक्यं वा प्रतिहार्यं न संशयः॥” “व्यतिहारो विशिंषन्ति हीतरवत्”🔗ब्रह्मसूत्रम् ३/३/३८ इति च भगवद्वचनम्।
“अतिवादी प्राणवादी विष्णुवादी विशेषतः। स सत्यो भगवान् विष्णुर्यन्निर्दोषो नियामकः। विशिष्टज्ञानरूपश्च सामान्यज्ञानरूपकः। नित्यश्रद्धास्वरूपश्च तथैव स्थैर्यरूपकः। स एव सर्वकर्ता च सुपूर्णानन्दरूपकः। स च सर्वगुणैः पूर्णो भूमेत्युच्चार्यते ततः। यदधीनं विना नान्यत् किञ्चिदस्ति कुतश्चन। स भूमोक्तोऽतिपूर्णत्वादन्यदल्पमुदीर्यते। स सर्वगुणसम्पूर्णः सर्वदेशेषु सर्वदा। स्वतन्त्रः सर्ववस्तूनि तदधीनानि सर्वशः। पूर्णत्वात् सुखरूपोऽसौ सर्वकर्ता सुखत्वतः। कर्तृत्वात् सुस्थिरश्चासौ स्थिरत्वादास्तिकस्तथा। आस्तिकत्वाच्च मन्ताऽसौ विज्ञाता च ततो हरिः। ज्ञातृत्वाच्च स निर्दोषः सर्वस्यापि नियामकः। भूमा नारायणाख्यः स्यात् स एवाहङ्कृतिः स्मृतः। आकार्योऽहमिति ह्येष ततोऽहङ्कार उच्यते। जीवस्थस्त्वनिरुद्धो यः सोऽहङ्कार इतीरितः। सोऽप्यणुत्वेऽपि संव्यापी परमैश्वर्ययोगतः। यथा बालतनौ विष्णौ मार्कण्डेयेन धीमता। प्रविश्य नान्तोऽधिगत एवं व्याप्तो हरिः परः। अणुरूपोऽपि भगवान् वासुदेवः परो विभुः। आत्मेत्युक्तः स च व्यापी नच भेदो हरौ क्वचित्॥” इति परमसारे।
भूमप्रसादं विना नाल्पे सुखमस्ति। मर्त्यं च पूर्वम्। “अल्पाऽपि ह्यमृता देवी श्रीः पूर्णाऽतिप्रियत्वतः” इति च।
आत्मरतिः भगवद्रतिः। स्वो भगवान्। सोऽस्य प्रत्यक्षत आज्ञापयिता भवतीति स्वराट्। “आत्मतः प्राण आत्मतः आशा” इत्यादि मुक्तः सन् प्राणादीनां सृष्ट्यादिकं पश्यतीत्यर्थः। “सर्वं हि पश्यः पश्यति” इति वाक्यशेषात्। पश्य इति द्रष्टा। “यदा पश्यः पश्यते रुक्मवर्णम्”🔗आथर्वणोपनिषत् ३/१/३ इति श्रुतेः। “भूमोपासनयोग्यस्तु साक्षाद् ब्रह्मैव मुख्यतः। स तद् विद्याबलेनैव विष्णुना रतिमाप्नुयात्। तेनैव क्रीडते नित्यं स्त्रीरूपो मिथुनीभवेत्। तदानन्दः स एवास्य राजा भवति नापरः। पश्येच्च प्राणसृष्ट्याद्यं ये तदन्य उपासकाः। ते यथायोग्यमाप्स्यन्ति फलं मुक्तौ न संशयः॥” इति परमतत्त्वे।
नच
“भूमानं भगवो विजिज्ञासे” इति पृष्टः सन् भूम्नो लक्षणं “स एवाधस्तात् स उपरिष्टात्” इत्यादिना पूर्णत्वं भगवतोऽन्यस्याहङ्कारस्योपदिशतीति युज्यते। नचाहङ्कारस्य पूर्णत्वमस्ति। नच मुख्ये पूर्णत्वे युज्यमान उपचरितं युज्यते। नचाहङ्कारस्य काचित् प्रस्तुतिः। अथशब्दस्तु रूपान्तरापेक्षया युज्यते। अतःशब्दस्तत्प्रसादादिति। आत्मरतिः स्वराडित्यादि। “यो ब्रह्माणं विदधाति पूर्वम्”🔗श्वेताश्वतरोपनिषत् ६/१८ इति ब्रह्मण उत्पत्तिप्रसिद्धेः स्वयम्भूरात्मभूरित्यादिष्वात्मशब्दः स्वयंशब्दश्च यथा विष्णुवाची तद्वदेवात्राप्यात्मशब्दो विष्णुवाच्येव। नच मुक्तेभ्यः प्राणादिकमुत्पद्यते। “जगद्व्यापारवर्जम्”🔗ब्रह्मसूत्रम् ४/४/१७ इति वर्णितत्वाद् भगवता। “आत्मत एष प्राणो जायते”🔗षट्प्रश्नोपनिषत् ३/३ इत्यवधारणान्न भगवतोऽन्यस्मात् प्राणो जायते।
“आत्मेति मुख्यतो विष्णुस्तदन्ये तूपचारतः। तथैव स्व इति प्रोक्तस्तस्माद् ब्रह्माऽऽत्मभूः स्वभूः॥” इति स्कान्दे।
“इदंनामाऽतिसामीप्यात् सर्वं पूर्णगुणत्वतः। भूमाऽहमात्मेति हरिस्त्रिविधोऽपि हि सर्वदा॥” इति विश्वनिर्णये।
“स्त्रीगुणाः पुङ्गुणाश्चैव नपुंसकगुणा अपि। यदधीना व्यत्ययः स्याल्लिङ्गानां तत्र सर्वशः। कः किं कं तत् सर्वमात्माऽदितिर्देवादयस्ततः॥” इति लिङ्गनिर्णये।
“गुरोर्विद्याहृतिर्या तु स आहार इति स्मृतः। तच्छुद्धौ ज्ञानशुद्धिः स्याज्ज्ञानशुद्धौ स्थिरा स्मृतिः। स्मृतिस्थैर्ये त्वापरोक्ष्यं हरेर्मोक्षस्ततो भवेत्॥” इति साधननिर्णये।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते छान्दोग्योपनिषद्भाष्ये सप्तमोऽध्यायः॥
अष्टमोऽध्यायः
प्रथमः खण्डः
द्वितीयः खण्डः
तृतीयः खण्डः
चतुर्थः खण्डः
पञ्चमः खण्डः
ॐ॥ “यदिदमस्मिन् ब्रह्मपुरे”छान्दोग्योपनिषत् ८/१/१ इति ब्रह्मपुरशब्देन ब्रह्माख्यं पुरम्, पूर्णत्वात् पुरमिति परं ब्रह्म, ब्रह्मणः पुरमिति शरीरं चोभयं विवक्षितम्। “प्राप्तोऽवध्यं ब्रह्मपुरं राजेव निवसाम्यहम्”, “अस्मिंश्चेद् यदिदं ब्रह्मपुरे सर्वं समाहितम्”,छान्दोग्योपनिषत् ८/१/२ “यदैतत् जराऽवाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत् सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिता एष आत्माऽपहतपाप्मा विजरो विमृत्युः”छान्दोग्योपनिषत् ८/१/२ इति वाक्यशेषाद् भगवद्वचनाच्च ब्रह्मपुरशब्देन परं ब्रह्मोच्यत इत्यवसीयते। “यत् पुण्डरीकं पुरमध्यसंस्थम्”, “यदिदं शरीरं तदेतदाद्यं देवसदनम्” इत्यादेः शरीरं च। “यद् वै तद् ब्रह्मेतीदं वाव तद् योऽयं बहिर्धा पुरुषादाकाशः”,छान्दोग्योपनिषत् ३/२/३ “यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति”🔗ईशावास्‍योपनिषत् ६ इत्यादिना परब्रह्मण्येव हृदयं स्थितम्।
“दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम्”,छान्दोग्योपनिषत् ८/१/१ “दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते”छान्दोग्योपनिषत् ८/१/१ इत्याकाशशब्देन भूताकाशो विवक्षितः। किं तदत्र विद्यत इत्यस्यायं परिहारः- अस्मिन् भूताकाशे परब्रह्माख्य आकाशो विद्यते। आ समन्तात् काशनादाकाशः। आ समन्तात् कमश्नातीति वा। “अस्मिन् कामाः समाहिताः”छान्दोग्योपनिषत् ८/१/२ इति वाक्यशेषाद् आ समन्तात् कामानश्नातीति वा। स च यावान् बहिः परमात्मा व्याप्तोऽस्ति तावानेव विद्यते गुणतः। पूर्णगुणत्वात्। अल्पपरिमाणस्यापि महत्परिमाणत्वं च युज्यते। अचिन्त्यशक्तित्वात्। “यस्मिन् विरुद्धगतयोऽप्यनिशं पतन्ति विद्यादयो विविधशक्तय आनूपूर्व्या”भागवतम् ४/१०/१६ इति वचनात्। ‘आनुपूर्व्या’ इति श्रुतिप्रमाणादित्यर्थः। “आनुपूर्वी श्रुतिर्वेद आम्नायश्चेति कथ्यते” इत्यभिधानात्। अन्यथा, ‘अनिशम्’ इत्युक्तिविरोधात्। “एष म आत्माऽन्तहृर्दयेऽणीयान् व्रीहेर्वा”,छान्दोग्योपनिषत् ३/२/९ “एष म आत्माऽन्तहृर्दये ज्यायान् पृथिव्याः”छान्दोग्योपनिषत् ३/२/९ इति हृदयस्थस्यैवाणुत्वमहत्त्वोक्तेश्च।
“गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का। चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः॥” इति च श्रुतिः।
“सुविरुद्धा अश्रुताश्च गुणाः सन्त्येव सर्वशः। दोषाः केऽपि न सन्त्येव श्रुता अपि तु सर्वशः॥” इति गारुडे।
किं तदत्र विद्यत इति पृष्टत्वाद्धृद्गत आकाशो हृदयशब्देनोच्यते। हृद्ययनात्। तस्मिन् हृदयाख्य आकाशे ब्रह्माख्य आकाशो विद्यत इत्यर्थः। अन्यथा कथं भूताकाशस्य दहरस्य बहिराकाशसमत्वम्? “दहरोऽस्मिन्नन्तराकाशः”छान्दोग्योपनिषत् ८/१/१ इति पूर्वोक्ताकाशस्य दहरत्वमुक्तम्। उत्तरस्य तु “यावान् वा अयमाकाशः”छान्दोग्योपनिषत् ८/१/२ इत्यनन्तपरिमाणत्वम्। अतो ब्रह्माकाश एवोत्तरः। पूर्वोक्तस्याभूताकाशत्वे “तस्मिन् यदन्तस्तदन्वेष्टव्यं तद् वाव विजिज्ञासितव्यम्”,छान्दोग्योपनिषत् ८/१/१ “तत्रापि दहरं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्”, “सहस्रशीर्षꣳ देवम्” इत्यादि कथं युज्यते? नहि भगवदन्तस्थितमेवान्यत् किञ्चिद् विजिज्ञासितव्यम्। “तद् वाव”छान्दोग्योपनिषत् ८/१/१ इत्यवधारणाच्च। उत्तरस्यापरब्रह्मत्वे च सर्वाधारत्वम्, “नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत् सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिता एष आत्माऽपहतपाप्मा”छान्दोग्योपनिषत् ८/१/२ इत्यादि न युज्यते। “किं तदत्र विद्यते यदन्वेष्टव्यं यद् वाव विजिज्ञासितव्यम्” इत्यस्य “य एषोऽन्तहृर्दय आकाशः” इत्येव परिहारः। नतु “उभे अस्मिन् द्यावापृथिवी”छान्दोग्योपनिषत् ८/१/२ इत्यादि। तत् तु विजिज्ञासितव्यत्वे हेतुत्वेन सामर्थ्यकथनमेव। नहि द्यावापृथिव्यादेरेव विजिज्ञास्यत्वम्। “तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ” इति हि श्रुतिः। “उभे अस्मिन् द्यावापृथिवी”छान्दोग्योपनिषत् ८/१/२ इत्याद्युभशब्दो मुक्तामुक्तराशिव्यपेक्षया। “यच्चास्येहास्ति यच्च नास्ति”छान्दोग्योपनिषत् ८/१/२ इति वाक्यशेषात्। अस्येति संसारिणः। नहि संसारिणो मुक्ता उपकारकाः। यद् यस्य नोपकारकं तत् तस्य नास्तीत्युच्यतेऽन्यस्य सत्त्वेऽपि। यथा वित्तादि। यथायोग्यमेवैनं भगवन्तं प्रजा मुक्ता अन्वाविशन्ति तच्छासनानुसारेण यंयं कामं कामयते तन्तमस्मादेवोपजीवन्ति। तदविदुषां पुण्यानि क्षयिष्णुफलान्येव भवन्ति। एतांश्च सत्यान् कामान् भगवदीयान्।
“बृहत्त्वात् पूर्णकामत्वाद् विष्णुर्ब्रह्मपुराभिधः। तस्मिंस्तस्य पुरं देहस्तस्मिन् हृदयमास्थितम्। हृदयाकाशगो विष्णुस्तस्मिन् सर्वमिदं स्थितम्। स सत्यकामो भगवान् यदिष्टं तस्य तद् भवेत्। तस्मिन् समाहिताः कामाः सत्याः पुंसामपि ध्रुवम्। तस्यैव ह्यनुसारेण सत्यत्वं नान्यथा क्वचित्। यथा बिम्बानुसारेण प्रतिबिम्बप्रकाशनम्॥ *॥ तस्माद् ये मुक्तियोग्याः स्युस्तेषां कामाः पुराऽपि तु। सत्याः सन्तस्तदज्ञानान्न दृश्यन्ते तथाऽखिलाः। अज्ञानमनृतं प्रोक्तमृ गताविति धातुतः। तस्माद् द्रष्टुं यदिष्टं स्यात् तद्दृष्टिनियमो नतु। अमुक्तस्य हरेर्लोकं मुक्तो गत्वा हि पश्यति। अज्ञत्वादेव सुप्तौ तु नित्यं यान्तोऽपि माधवम्। नैव पश्यन्त्यसौ विष्णुहृर्दयं नाम हृद्गतेः। एवं हृदयनामानं विष्णुं जानन् हि नित्यशः। विष्णुलोकगतेः पुण्यमाप्त्वा विष्णुं व्रजेत् तथा। यस्य सम्यक् प्रसादोऽस्ति विष्णोरेव स उच्यते। सम्प्रसादः स उत्थाय शरीरात् प्राप्य केशवम्। यथास्वरूपस्तु भवेद् यं प्राप्यासौ स्वरूपताम्। आप्नोति स परो ह्यात्मा भगवानिन्दिरापतिः। इत्याह सा रमा देवी पश्यन्ती परमं पदम्। सदित्यमृतधर्माणो मुक्ताः श्रीरपि चेरिताः। तीत्युक्ता मर्त्यधर्माणस्तेषां नियमनाद्धरिः। सत्यमित्युच्यते सद्भिः, सेतुश्चापि विधारणात्। सितमस्मिन् जगत् सर्वमिति सेतुरितीरितः। एतं सेतुं प्रति पुमानन्यत् तीर्त्वा ह्यदोषवान्। स प्राप्यो ब्रह्मचर्येण मनोवाक्कर्मभिस्तु यत्। चरणं ब्रह्मणि परे ब्रह्मचर्यं हि तत् स्मृतम्। तेनैव ब्रह्मचर्येण भवेयुर्ब्रह्मलोकगाः। एतेषां ब्रह्मलोकः स्यात् परं ब्रह्मैव लोकनात्। ब्रह्मलोक इति प्रोक्तं तस्य लोकोऽपि कथ्यते॥ *॥ यज्ञ इष्टं च सत्रं च मौनं चानशनं तथा। परस्य ब्रह्मणो ज्ञानं सर्वमेतदुदीरितम्। परस्य ब्रह्मणो लोके श्वेतद्वीपाभिधे परे। अरण्यौ चार्णवौ दिव्यौ चिदानन्दरसात्मकौ। यावानुच्चः स्वर्गलोकस्तावानुच्चतया स च। श्वेतद्वीपो दिविष्ठोऽतस्तत्र मद्यं सरोवरम्। सर्वभोज्यात्मकं दिव्यं तत्राश्वत्थाः सुधास्रवाः। तत्र विष्णोः पुरं दिव्यमपराजितनामकम्। विमिताख्यं च पर्यङ्कं विष्णोर्मानेन सम्मितम्। चित्सुवर्णमयं दिव्यं लक्ष्मीस्तत्तत्स्वरूपिणी। स श्वेतद्वीपगो विष्णुः पर्यङ्कब्रह्मनामकः॥ *॥ स एष हृदि नाडीषु पञ्चरूपः प्रतिष्ठितः। विष्णोरणिम्नो रूपाणि पञ्चनाडीस्थितानि तु। नारायणाख्यं सौषुम्नं मध्यस्थं रक्तवर्णकम्। शुक्लं तु वासुदेवाख्यं नादिन्यामग्रतः स्थितम्। पिङ्गलायां पिङ्गलं तु रूपं सङ्कर्षणाभिधम्। पश्चिमे वज्रिकायां च पीतं प्रद्युम्ननामकम्। इडायामनिरुद्धाख्यं नीलरूपं व्यवस्थितम्। सूर्येऽप्येवं पञ्चरूपो भगवान् संव्यवस्थितः। आदित्यनामा चादित्वात् तद्व्याप्तं सूर्यमण्डलम्। तद्रश्मिभिस्तथा व्याप्ताः समस्ताः सूर्यरश्मयः। तस्मिन् नाडीषु च प्रोतास्तथा नाडीस्थरश्मयः। तन्नाडीसंस्थितं विष्णुं मध्ये जीवः प्रपद्यते। तत्तेजसा हि सम्पन्नः सुप्त इत्यभिधीयते। ओमित्येव वहन् नित्यं वायुरोंवाडितीरितः। तेन वामत्वमायाति मुक्तिकाले ह्युपासकः। दिव्यचिद्रूपभावो हि वामभाव उदीरितः। यदैनं नेतुमन्विच्छन् मनः क्षिपति मारुतः। आदित्याख्यं तदा विष्णुं याति जीवः स्वविद्यया॥” इति पर्यङ्कोपासनायाम्॥ *॥
“इन्द्रो विरोचनश्चैव श्रुत्वा तु ब्रह्मणोऽक्षिगम्। विष्णुमानन्दरूपं तं सम्यग्ज्ञानविपर्ययौ। आपतुस्तत्र देवेन्द्रो जानन्नपि विरोचनम्। मोहयन्ननुरूपाणि तस्य वाक्यान्युवाच ह। यथा विरोचनो नैव जानीयाद् विष्णुमञ्जसा। स्ववाक्यं चानृतं न स्यात् तथा ब्रह्माऽप्युवाच ह। अयोग्या ह्यसुरा ज्ञाने वक्तव्यं चैव नानृतम्। मच्छापादासुरो भावः प्रह्लादादेर्नतु स्वतः। अयं त्वासुर एवातो वक्ष्याम्यस्योभयं यथा। इन्द्रस्तु शुद्धभावत्वात् पुनरायास्यति ध्रुवम्। इत्यभिप्रायतः प्रोक्तो ब्रह्मणाऽक्षिगतो हरिः। अयोग्यत्वात् तु तच्छ्रुत्वा प्रतिरूपं विरोचनः। मत्वाऽप्स्वादर्शके चैव पप्रच्छ कतमस्त्विति। तत्रापि तु हरेर्भावं हृदि कृत्वा चतुर्मुखः। दृश्यते ह्येष एवेति तत्त्ववेदिविवक्षया॥ *॥ तथाऽपि योग्यतैवात्र भूयसीति निवेदितुम्। दर्शयन् प्रतिरूपस्य दोषानाह प्रजापतिः। अलङ्कारादिभिर्युक्तः पश्यस्वेति विवेचयन्। यथा देहगुणे गौण्यं दोषे दोषास्तथैव तु। तथाऽप्यशुद्धभावत्वात् प्रतिरूपस्य तद्गुणान्। परस्य ब्रह्मणो जानन् ययौ तुष्टमनाः स्वयम्। असुराणामविश्वासनिवृत्त्यर्थं पितामहः। माध्यस्थ्यं ज्ञापयानश्च जानन् वैरोचनं मनः। प्राहाज्ञानां पराभाव इत्युच्चैश्च पुनःपुनः। तथाऽप्यशुद्धभावत्वादजानन्नेव निर्ययौ। गत्वा चैव परं ब्रह्म प्रतिरूपात्मकं सदा। दिदेश सर्वासुराणां शरीरालङ्कृतेरपि। अलङ्कृतिं ब्रह्मणश्च प्रत्यक्षेणोपलम्भिताम्। अतोऽसुरा न दास्यन्ति न यजन्त्यात्मनः परम्। स्वभोगेनैव तृप्तिः स्यादिति सर्वेऽपि मेनिरे। तत्संस्कारवशेनैव स्वयं ब्रह्मेति वेदिनः। अभवन्नपतंश्चैव तमोऽन्धे नित्यदुःखिताः॥ *॥ इन्द्रश्च जानन्नपितु मोहयन्नसुरं तदा। गत्वा निववृते पश्चादिव पश्यन् सदोषताम्। पुनःपुनश्च मोहाय गत्वागत्वा निवर्तते। कथञ्चिदेव विज्ञातं मयेत्यज्ञान् विमोहितुम्॥ *॥ तद्योग्यान्येव वाक्यानि ब्रह्माऽप्याह पुनःपुनः। गरीयसी योग्यतेति ज्ञापयन् पूर्ववत् पुनः। सन्दिग्धान्येव वाक्यानि प्रोवाचेन्द्राय चात्मभूः। स्वप्नं प्रदर्शयन् यस्तु पूज्यते सर्वदैवतैः। स एव विष्णुरित्याह तत्राप्याह पुरन्दरः। दर्शयन्नासुरीं बुद्धिं स्वप्नदृश्यविवक्षया। घ्नन्तीवैनमदन्तीव तथा न स्यात् परो हरिः॥ *॥ इत्युक्त आह ब्रह्मैनं सुप्तिस्थो भगवानिति। यत्र सुप्तो ह्ययं जीव इत्युक्तः प्राह वासवः। नाहं जानामि मत्तोऽन्यं सुप्तौ नान्योऽपि दर्शयेत्। अहमस्मीति भूतानि नच पश्यन्ति कानिचित्। यदि जीवः परात्मा वाऽप्यन्योन्यस्मिन्नपीतताम्। गतौ तदाऽप्यपीतस्तु शं विनैव भवेदिति॥ *॥ उक्तो ब्रह्माऽब्रवीच्छक्रं ज्ञापयंस्तत्त्वमञ्जसा। योऽयं शरीरसम्बन्धी जीव इत्यवधार्यताम्। भूतैष्यद्वर्तमानेषु यस्य नो देहसङ्गतिः। सोऽशरीरः परो विष्णुरमृतो नित्यमूर्तिमान्। अधिष्ठाय तथाऽपीमं देहमास्ते स ईश्वरः। जरामृत्युपरीतोऽयं जीवात्मा देहसङ्गतेः। परेणेयं सुखं प्रोक्तं प्रियमित्येव पण्डितैः। परेणेयमभद्रं यदप्रियं तदुदीरितम्। न जीवस्य तयोर्हानिः कदाचिद् विद्यते क्वचित्। अशरीरं परं ब्रह्म नैव ते स्पृशतः क्वचित्। अम्नामा भगवान् विष्णुर्व्याप्तत्वात् परमेश्वरः। तेनैव भ्रियमाणत्वाद् ब्रह्माऽभ्रमिति कीर्तितः। वायोः पत्नी विद्युदुक्ता विशेषद्युतिहेतुतः। ब्रह्माणी स्तनयित्नुः स्यात् सर्वशब्दात्मिका यतः। एतेषां ज्ञानवैशेष्यान्नाति देहेन सङ्गतिः। अतः प्रियाप्रिये तेषामपि न ब्रह्मणः किमु। विष्ण्वीयं हि सुखं तेषां स्वभर्त्रीयमथापि च। नह्यन्येयं सुखं तेषामतस्ते प्रियवर्जिताः। यथा ते परमाकाशाद् विष्णोरेव समुत्थिताः। तमेव प्राप्य संयान्ति नैजमानन्दमूर्जितम्। एवं सम्यक् प्रसादेन विष्णोर्मुक्तोऽपि योऽपरः। यं प्राप्य ते निजानन्दमाप्नुवन्ति स केशवः। तं प्राप्य रमते मुक्तः स्त्रीभिर्यानैश्च बन्धुभिः। यथैव सारथिर्यान एवं देहे च मारुतः। यथा रथी तथा विष्णुर्जीवोऽन्यरथगो यथा। यदाश्रितानीन्द्रियाणि प्राणश्चापि यदाश्रयः। यदाश्रयोऽप्ययं जीवो यो वेदैषां प्रवर्तनम्। दर्शनं श्रवणं घ्राणं जिह्वां स्पर्शं मनस्तथा। तदीयान् विषयांश्चैव यो वेदाखिलमञ्जसा। स विष्णुः परमो ज्ञेयो देवताः करणानि च। स एतैरिन्द्रियैर्विष्णुर्भोगाननुभवत्यजः। स्वरूपेणैव शक्तोऽपि जीवदेहस्थितो हरिः। भुङ्क्ते तदिन्द्रियैर्भोगाञ्छुरितैरिन्द्रियैः स्वकैः। जीवं तदिन्द्रियाण्येवं प्राणं च व्याप्य कृत्स्नशः। भुङ्क्ते तत्तद्गुणान् विष्णुर्नैव दोषान् कदाचन। तमेतं देवताः सर्वा वाय्वाद्याः समुपासते। तस्माद् देववशा लोकाः सर्वकामाः सजीवकाः। तमेतं यो यथा ज्ञात्वा पश्येद् विष्णुं सनातनम्। आप्नोति सर्वकामांश्च सर्वलोकांश्च कामतः॥” इति सामसंहितायाम्।
“उभौ लोकाववाप्नोति” इति वचनान्न लोकायतिकमतं विरोचनोक्तम्। किन्तु? बिम्बप्रतिबिम्बयोरभिमान्यैक्याभिप्रायेण जीवात्मैव महय्य इति मायावाद एव। नचात्र जीव आत्मशब्दोक्तः। “तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न ह वै शरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः”छान्दोग्योपनिषत् ८/४/१ इतीशजीवयोः सतात्पर्यं भेदाभिधानात्।
नहि जीवादन्यस्य प्रियाप्रियानुभवोऽस्ति। नच मुक्तस्यापि प्रियापहतिरस्ति। नच विष्णोरत्र विवक्षितं प्रियम्। पराधीनरतिप्राप्तिर्हि प्रियमत्र विवक्षितम्। नहि तद् भगवतः। मुक्तानां तु भगवदधीनरतित्वात् प्रियमस्त्येव।
“जीवा मुक्ता अमुक्ताश्च पराधीनरतित्वतः। न प्रियापहतिः क्वापि स्वातन्त्र्यान्न हरेः प्रियम्। पराधीनरतिर्यस्मात् प्रियमित्युच्यते बुधैः। हरेरधीनता तु स्याद् यद्यपि ब्रह्मवायुवोः। तदन्यवशताभावादप्रियाविति तौ श्रुतौ। यथा राज्ञः स्वराट्छब्दो रुद्रस्येश्वरता तथा। यथा शक्रस्य चेन्द्रत्वं तद्वदप्रियता तयोः। यथा राज्ञ्याश्च राज्ञीत्वं यथा चोमेश्वरी स्मृता। विद्युतः स्तनयित्नोश्च तथैवाप्रियता श्रुता॥” इति च परमश्रुतौ॥
“स एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इति मुक्तस्य तत्प्रसादात् तत्प्राप्त्या निजानन्दानुभवश्रुतेश्च। “स उत्तमः पुरुषः”छान्दोग्योपनिषत् ८/४/३ इति तस्य जीवादुत्तमत्वश्रुतेश्च। अवरपुरुषापेक्षया ह्युत्तमपुरुषशब्दो भवति। अन्यथोत्तमशब्द एव स्यात्। “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः”🔗भगवद्गीता १५/१७ इति च।
“ब्रह्मेशानादिभिर्देवैर्यत् प्राप्तुं नैव शक्यते। तद् यत्स्वभावः कैवल्यं स भवान् केवलो हरे॥”, “परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति”,ऋग्वेदसंहिता ७/९९ “इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः”,🔗भगवद्गीता १४/२ “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति”,🔗तैत्तिरीयोपनिषत् २/१ “एतमानन्दमयमात्मानमुपसङ्क्रम्य। इमाल्ँलोकान् कामान्नी कामरूप्यमनुसञ्चरन्”,🔗तैत्तिरीयोपनिषत् ३/(१०-५) “न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः”भागवतम् २/९/१० “कृष्णो मुक्तैरिज्यते वीतमोहैः”भारतम् १३/१८/६ इत्यादेश्च।
“स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरम्”छान्दोग्योपनिषत् ८/४/३ इत्यत्रापि भेदेनावस्थानश्रुतेः। उपशब्दादन्तरशब्दाच्च मुक्तस्य परञ्ज्योतिःसमीपावस्थानावगतेश्च। नच जीवमात्रं देवा उपासते। “ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासते”ऋग्वेदसंहिता १०/१०९ इति हि श्रुतिः। “भेददृष्ट्याऽभिमानेन निःसङ्गेनापि कर्मणा” इत्यादेश्च। “भूतैर्महद्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः। भुङ्क्ते गुणान् षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान् वचांसि मे॥” इत्यादौ भगवत एवेन्द्रियैर्भोगोक्तेश्च। “ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे”🔗काठकोपनिषत् १/३/१ इति च। “गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्”🔗ब्रह्मसूत्रम् १/२/११ इति भगवद्वचनं च। “इदं पश्यामि जिघ्राणीत्यपि जीवा न वै विदुः। द्रव्याणामपरिज्ञानाद् वेदासौ पुरुषोत्तमः॥” इति च।
“स उत्तमः पुरुषः”छान्दोग्योपनिषत् ८/४/३ इति भगवत एवायं परामर्शः। “अन्यार्थश्च परामर्शः”🔗ब्रह्मसूत्रम् १/३/२० इति भगवद्वचनात्। “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः”🔗भगवद्गीता १५/१७ इति च। “जगद्व्यापारवर्जम्”🔗ब्रह्मसूत्रम् ४/४/१७ इत्यल्पैश्वर्यत्वं मुक्तस्य भगवताऽभिहितम्। अतो यं प्राप्य जीवः स्वेन रूपेणाभिनिष्पद्यते स भगवानुत्तमः पुरुष इति परामर्शः। “स्वप्ने महीयमानश्चरति”,छान्दोग्योपनिषत् ८/३/३ “यत्रैतत् सुप्तः”छान्दोग्योपनिषत् ८/३/६ इति पुरस्तादपि भेदोक्तेः। नहि महीयमान एव जीवश्चरति।
प्रायोग्यः सारथिः। प्रयोगेन यानस्य। “यन्ता सारथिरानेता प्रायोग्य इति कीर्तितः” इत्यभिधानात्। “अन्येभ्यो दीप्यमानत्वाद् दैवं चक्षुर्मनः स्मृतम्” इति च।
य एते ब्रह्मलोके तेषु रमते। अनुविद्य शास्त्राचार्यानुसारेण विदित्वा विजानाति आपरोक्ष्येण। “वेदनं शास्त्रतो ज्ञानं विज्ञानं ब्रह्मदर्शनम्” इति च॥ *॥
“श्यामो हृदि स्थितो विष्णुः शबलो विश्वरूपवान्। जीववर्णो जीवगतो लोहितश्चक्षुषि स्थितः॥” इति मानसे॥ “हयग्रीवमुखोत्थानि यानि वाक्यानि तानि तु। रमा ददर्श तान्येव ब्रह्मा तान्येव नारदः। यानि विष्णोरयोग्यानि प्रार्थनाद्यात्मकानि तु। तान्युत्तरेषां वाक्यानि भविष्याण्यवदद्धरिः। एवं रमा तथा ब्रह्मा छान्दोग्योपनिषद्धि सा॥” इति सामसंहितायाम्॥ *॥
“आकाशोऽतिप्रकाशत्वान्नामरूपे ऋते स्थितः। ब्रह्माख्यो भगवान् विष्णुस्तद्वेश्म प्राप्नुयामहम्। यशोऽहं सर्ववर्णानां मत्तोऽन्येषां यशो भवेत्। सोऽहं मम यशोदातृ यशसां यश उत्तमम्। विष्ण्वाख्यं परमं ब्रह्म श्वेतं श्वसनगं यतः। अदत्कमद्यमानं कं स्वानन्दानुभवात्मकम्। लिन्दु तद् रतिदं यस्मात् तदहं प्राप्नुयां सदा॥ *॥ उपदिष्टः परेणैव त्वेवमाह चतुर्मुखः। उवाच च मनोर्विद्यां प्रजाभ्यो मनुरेव च। तस्मात् सर्वेन्द्रियाणीशे निधाय पुरुषोत्तमे। दृष्ट्वा तं परमं विष्णुं तल्लोकं प्रतिपद्यते। नावर्तते पुनस्तस्मात् कदाचित् केनचित् क्वचित्॥” इति च।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते छान्दोग्योपनिषद्भाष्येऽष्टमोऽध्यायः॥
॥ इति छान्दोग्योनिषत् सम्पूर्णा‌ ॥
पूर्णानन्दमहोदधिः परतमो नित्यः परस्मात् सदा सर्वज्ञः सकलेशिता गुणनिधिर्नित्योत्सवस्तद्विदाम्। सर्वस्मादधिकं मम प्रियतमस्त्विष्टादपीष्टोत्तमः सर्वस्माच्च हितात् सदा हिततमः प्रीतो भवेन्मे हरिः॥ यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद् दर्शतमित्थमेव निहितं देवस्य भर्गो महत्। वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु- र्मध्वो यत् तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि॥
“हनशब्दो ज्ञानवाची हनूमान् मतिशब्दितः। रामस्य स्वृतरूपस्य वाचो नेता गुणोदधिः। भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः। ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम्। प्रोक्ताः सप्तशिवास्तत्र शयो भीमस्ततः स्मृतः। मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम्। मध्व आनन्दतीर्थः स्यात् तृतीया मारुतीः तनुः। इति सूक्तगतं रूपत्रयमेतन्महात्मनः। यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः॥” इति सद्भावे।
आनन्दतीर्थ इति तु यस्य नाम तृतीयकम्। पूर्णप्रज्ञेन तेनेदं कृतं भाष्यं हरेः प्रियम्॥ नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम। नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते छान्दोग्योपनिषद्भाष्यम्॥