विषयानुक्रमणिका3. कर्मयोगः 3.3. द्वितीयप्रश्नस्योत्तरम् 3.4. कामप्रकरणम् 3.4.4. कामाधिष्ठानम्, तन्निग्रहे च कामनिग्रहः 3.4.5. ज्ञेयोक्तिः, तज्ज्ञानं च कामनाशयुध इत्युक्तिश्च 4. ज्ञानयोगः 4.3. निवृत्तकर्मप्रकरणम् 4.4. ज्ञानावस्थितचेतस्त्वस्पष्टीकरणम् / अभिमानत्यागादिस्वरूपविवेचनम् 4.5. ज्ञानमाहात्म्यप्रकरणम् 5. कर्मसन्न्यासयोगः 5.3. सन्न्यासफलप्रपञ्चनम् 5.4. ज्ञानप्रकरणम् 5.5. सन्न्यासयोगज्ञानानां मिलित्वा प्रपञ्चनम् 6. ध्यानयोगः 7. ज्ञानविज्ञानयोगः 7.2. ज्ञाननिरूपणम् 7.3. विज्ञाननिरूपणम् 8. अक्षरब्रह्मयोगः 9. राजविद्याराजगुह्ययोगः 10. विभूतियोगः 11. विश्वरूपदर्शनयोगः 12. भक्तियोगः 13. क्षेत्रक्षेत्रज्ञयोगः 14. गुणत्रयविभागयोगः 15. पुरुषोत्तमयोगः 16. दैवासुरसम्पद्विभागयोगः 17. श्रद्धात्रयविभागयोगः 18. मोक्षसन्न्यासयोगः
- 0.1. मङ्गलाचरणं ग्रन्थप्रतिज्ञा च
- 0.2. महाभारतस्य प्रामाण्यादिसमर्थनम्
- 0.3. गीतायाः प्रामाण्यं महत्त्वं च
- 1. अर्जुनविषादयोगः
- 2. साङ्ख्ययोगः
- 2.1. श्लोक १-१०
- 2.2. जीवनित्यत्वप्रकरणम्
- 2.2.1. जीवनित्यत्वादिविषये प्रतिज्ञा
- 2.2.2. जीवनित्यत्वसमर्थनम्
- 2.2.3. देहानित्यत्वसमर्थनम्, देहातिरिक्तजीवसमर्थनम्, जीवैक्यसमर्थनम्, वेदप्रामाण्यादिसूचनं च
- 2.2.4. शोककारणनिरूपणं तन्निषेधविधिश्च
- 2.2.5. मात्रास्पर्शानां विफलीकरणप्रयोजनम्
- 2.2.6. अन्यनित्यपदार्थनिरूपणम्
- 2.2.7. देहनित्यत्वनिराकरणम्, उपाधिनाशसन्निधिनाशयोर्निराकरणं च
- 2.2.8. हननादिव्यवहारनिर्वाहः
- 2.2.9. मन्त्रवर्णसंवादः
- 2.2.10. ज्ञानिनस्तु नास्त्येव व्यवहारः
- 2.2.11. देहात्मविवेकानुभवार्थं दृष्टान्तः
- 2.2.12. जीवनाशे विशेषकारणनिषेधः
- 2.2.13. सार्वकालिकनिषेधः
- 2.2.14. भगवतोऽचिन्त्यशक्तित्वादि
- 2.3. देहनाशप्रयुक्तशोकनिरासप्रकरणम्
- 2.4. ईश्वरसामर्थ्योपदर्शनपूर्वकमुपसंहारः
- 2.5. स्वधर्मविधानप्रकरणम्
- 2.6. योगकथनप्रतिज्ञा
- 2.7. योगस्तुतिः
- 2.8. योगकथनम्
- 2.9. स्थितप्रज्ञप्रकरणम्
- 2.9.5. पिण्डीकृतलक्षणम्
- 2.9.6. स्थितप्रज्ञस्य विषयानुभवप्रकारः
- 2.9.7. स्थितप्रज्ञप्रकरणोपसंहारः
उपोद्घातः
मङ्गलाचरणं ग्रन्थप्रतिज्ञा च
देवं नारायणं नत्वा सर्वदोषविवर्जितम्। परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः॥ *॥
महाभारतस्य प्रामाण्यादिसमर्थनम्
स्ववचनैस्तदुक्तिः
नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितो ज्ञानप्रदर्शनाय भगवान् व्यासोऽवततार।
ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनाद् वेदार्थाज्ञानाच्च संसारे क्लिश्यमानानां वेदानधिकारिणां स्त्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः
सर्ववेदाद्यर्थोपबृंहितां
तदनुक्तकेवलेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनामवगाह्यानवगाह्यरूपां केवलभगवत्स्वरूपपरां परोक्षार्थां महाभारतसंहितामचीकॢपत्।
तत्रागमसम्मतिः
तच्चोक्तम्-
“लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम्। वेदार्थाज्ञमधीकारवर्जितं च स्त्रियादिकम्। अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम्। ततः प्रसन्नो भगवान् व्यासो(ऽ)भूत्वा च तेन च। अन्यावताररूपैश्च वेदानुक्तार्थभूषितम्। केवलेनात्मबोधेन दृष्टं वेदार्थसंयुतम्। वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम्। भारतं पञ्चरात्रं च मूलरामायणं तथा। पुराणं भागवतं चेति सम्भिन्नः शास्त्रपुङ्गवः॥”
इति नारायणाष्टाक्षरकल्पे।
“ब्रह्माऽपि तन्न जानाति ईषत् सर्वोऽपि जानति। बह्वर्थमृषयस्तत् तु भारतं प्रवदन्ति हि॥”
इत्युपनारदीये।
“ब्रह्माद्यैः प्रार्थितो विष्णुर्भारतं स चकार ह। यस्मिन् दशार्थाः सर्वत्र न ज्ञेयाः सर्वजन्तुभिः॥”
इति नारदीये।
“भारतं चापि कृतवान् पञ्चमं वेदमुत्तमम्। दशावरार्थं सर्वत्र केवलं विष्णुबोधकम्। परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं तु यत्॥”
इति स्कान्दे।
तत्रैवार्थापत्त्यादि
“यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः। न चेत् पुराणं संविद्यान्नैव स स्याद् विचक्षणः॥”,भारतम् १/१/३८३
“इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। बिभेत्यल्पश्रुताद् वेदो मामयं प्रचलिष्यति॥”,भारतम् १/१/२९३-४
“मन्वादि केचिद् ब्रुवते ह्यास्तिकादि तथाऽपरे। तथोपरिचराद्यन्ये भारतं परिचक्षते॥”,भारतम् १/१/६६
“भारतं सर्ववेदाश्च तुलामारोपिताः पुरा। देवैर्ब्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः। व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम्॥ महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥”,भारतम् १/१/३००
“यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित्”,भारतम् १/५/५०
“विराटोद्योगसारवान्”भारतम् १/१/८९
इत्यादितद्वाक्यपर्यालोचनया, ऋषिसम्प्रदायात्,
“को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्”विष्णुपुराणम् ३/४/५
इत्यादिपुराणग्रन्थान्तरगतवाक्यान्यथानुपपत्त्या,
नारदाध्ययनादिलिङ्गैश्चावसीयते।
अर्थापत्तीनां लेशतः प्रदर्शनम्
कथमन्यथा भारतनिरुक्तिज्ञानमात्रेण सर्वपापक्षयः।
प्रसिद्धश्च सोऽर्थः।
कथं चान्यस्य न कर्तुं शक्यते।
ग्रन्थान्तरगतत्वाच्च नाविद्यमानस्तुतिः।
नच कर्तुरेव।
इतरत्रापि साम्यात्।
गीतायाः प्रामाण्यं महत्त्वं च
तत्र च सर्वभारतार्थसङ्ग्रहां वासुदेवार्जुनसंवादरूपां भारतपारिजातमधुभूतां गीतामुपनिबबन्ध।
तच्चोक्तम्-
“भारतं सर्वशास्त्रेषु भारते गीतिका वरा। विष्णोः सहस्रनामापि ज्ञेयं पाठ्यं च तद् द्वयम्॥”
इति महाकौर्मे।
“स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने”भारतम् १३/१६/१२ इत्यादि च।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्य उपोद्घातः समाप्तः॥
अर्जुनविषादयोगः
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः॥ ४७ श्लोकाः॥
Loading…