रोहिण्यामर्धरात्रे तु यदा कालाष्टमी[1] भवेत्। जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशनी[2] ॥ १॥ यस्यां जातो हरिः साक्षान्निशीथे भगवानजः। तस्मात् तद्दिनमत्यन्तं[3] पुण्यं पापहरं परम्॥ २॥[4] तस्मात् सर्वैरुपोष्या सा जयन्ती नाम वै सदा। द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः[5] ॥ ३॥ यो भुङ्क्ते तद्दिने मोहात्[6] पूयशोणितमत्ति सः। तस्मादुपवसेत् पुण्यं तद्दिनं श्रद्धयाऽन्वितः॥ ४॥ कृत्वा शौचं यथान्यायं स्नानं कुर्यादतन्द्रितः। प्रभातकाले मेधावी योगायेति यथाविधि॥ ५॥ (योगाय योगपतये योगेश्वराय योगसम्भवाय श्रीगोविन्दाय नमोनमः।)[7] नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन्।[8] मध्याह्नकाले च पुमान्[9] सायङ्काले त्वतन्द्रितः॥ ६॥ स्नायीत पूर्वमन्त्रेण वासुदेवमनुस्मरन्।[10] ततः पूजां प्रकुर्वीत विधिवत् सुसमाहितः॥ ७॥ यज्ञायेति च मन्त्रेण श्रद्धाभक्तियुतः पुमान्।[11] कृष्णं च बलभद्रं च वसुदेवं च देवकीम्॥ ८॥ नन्दगोपं यशोदां च सुभद्रां तत्र पूजयेत्। अर्घ्यं दत्वा समभ्यर्च्याभ्युत्थिते[12] शशिमण्डले॥ ९॥ जातः कंसवधार्थाय भूभारोत्तारणाय च।[13] कौरवाणां विनाशाय दैत्यानां निधनाय च॥ १०॥[14] पाण्डवानां हितार्थाय धर्मसंस्थापनाय च।[15] गृहाणार्घ्यं मया दत्तं देवक्या सहितो हरे॥ ११॥[16] क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्धव।[17] गृहाणार्घ्यं मया दत्तं[18] रोहिण्या सहितः शशिन्॥ १२॥ दत्वाऽर्घ्यं मनुनाऽनेन ह्युपस्थाय[19] विधुं बुधः। शशिने चन्द्रदेवाय सोमदेवाय चेन्दवे॥ १३॥ मृगिणे शीतबिम्बाय[20] लोकदीपाय दीपिने। शीतदीधितिबिम्बाय तारकापतये नमः॥ १४॥ उपसंहृत्य तत् सर्वं ब्रह्मचारी जितेन्द्रियः। विश्वायेति च मन्त्रेण ततः स्वापं समाचरेत्॥ १५॥ ततो नित्याह्निकं कृत्वा शक्तितो दीयतां धनम्। सर्वायेति च मन्त्रेण ततः पारणमाचरेत्॥ धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः॥ १६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितो जयन्तीनिर्णयः सम्पूर्णः ॥[21]
पाठान्तरविषयकटिप्पण्यः
- “कालाष्टमी” – इति कृ पाठः, “काळाष्टमी”- इति गो पाठः ↩
- “सर्वपापप्रणाशनी” – इति कृ पाठः, “सर्वपापप्रणाशनम्”- इति गो पाठः ↩
- “तद्दिनमत्यन्तं” – इति कृ पाठः, “तद्दिनमत्यर्थं”- इति गो पाठः ↩
- “पापहरं स्मृतम्” – पा। “पापहानिकरं परम्” पा ↩
- “विशेषतः” – इति कृ पाठः, “विधानतः”- इति गो पाठः ↩
- “मोहात्” – इति कृ पाठः, “लोभात्”- इति गो पाठः ↩
- “नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन्” – इति कृ पाठः, “[-]”- इति गो पाठः, कृपाठेऽपि कंसचिह्नमध्य एव पठ्यते, किन्तु नित्याह्निकमित्यर्धस्यानन्तरम् ↩
- “(योगाय योगपतये योगेश्वराय योगसम्भवाय श्रीगोविन्दाय नमोनमः।)” – इति कृ पाठः, “नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन्”- इति गो पाठः ↩
- “पुमान्” – इति कृ पाठः, “पुनः”- इति गो पाठः ↩
- ‘भगवन्तमनुस्मरन्’ – पा ↩
- ‘यज्ञायेति तु’ – पा ↩
- “समभ्यर्च्याभ्युत्थिते” – इति कृ पाठः, “समभ्यर्च्याभ्युदिते”- इति गो पाठः, ‘समभ्यर्च्य ह्युदिते’ – पा ↩
- “जातः कंसवधार्थाय भूभारोत्तारणाय च” – इति कृ पाठः, “[-]”- इति गो पाठः ↩
- “कौरवाणां विनाशाय दैत्यानां निधनाय च॥ १०” – इति कृ पाठः, “[-]”- इति गो पाठः ↩
- “पाण्डवानां हितार्थाय धर्मसंस्थापनाय च” – इति कृ पाठः, “[-]”- इति गो पाठः ↩
- “गृहाणार्घ्यं मया दत्तं देवक्या सहितो हरे॥ ११” – इति कृ पाठः, “[-]”- इति गो पाठः ↩
- “अत्रिगोत्रसमुद्धव” – इति कृ पाठः, “अत्रिनेत्रसमुद्धव”- इति गो पाठः ↩
- “मया दत्तं” – इति कृ पाठः, “शशाङ्केदं”- इति गो पाठः ↩
- “ह्युपस्थाय” – इति कृ पाठः, “उपस्थाय”- इति गो पाठः ↩
- “शीतबिम्बाय” – इति कृ पाठः, “सितबिम्बाय”- इति गो पाठः, ‘शशिबिम्बाय’ – पा। गोविन्दाचार्यास्तु “ ‘रोहिणीसक्तचित्ताय कन्यादानप्रदायिने’ इत्यधिकं च क्वचित् पठ्यते” इत्याहुः ↩
- “॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितो जयन्तीनिर्णयः सम्पूर्णः ” – इति कृ पाठः, “॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमज्जयन्तीकल्पः समाप्तः ”- इति गो पाठः, जयन्तीकल्पः ↩