मङ्गलाचारणम्
ॐ॥ य इज्यते विधीशानशक्रपूर्वैः सदा मखैः। रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः॥
महानाम्नीनामुपसर्गानामुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयाऽसौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यस्सन्निर्मितो यत् षोळषी तद्यन्महानाम्नीनामुपसर्गानुपसृजति सर्वेभ्य एवैनं तल्लोकेभ्यस्सन्निर्मिमीते सर्वेभ्यो लोकेभ्यस्सन्निर्मितेन षोळशिना राध्नोति य एवं वेद। (ऐतरेयब्राह्मणम् ४/१/४/१)
Loading…