विषयानुक्रमणिका
- 1. कर्णपर्व
- 1.0.1. अध्यायः 001
- 1.0.2. अध्यायः 002
- 1.0.3. अध्यायः 003
- 1.0.4. अध्यायः 004
- 1.0.5. अध्यायः 005
- 1.0.6. अध्यायः 006
- 1.0.7. अध्यायः 007
- 1.0.8. अध्यायः 008
- 1.0.9. अध्यायः 009
- 1.0.10. अध्यायः 010
- 1.0.11. अध्यायः 011
- 1.0.12. अध्यायः 012
- 1.0.13. अध्यायः 013
- 1.0.14. अध्यायः 014
- 1.0.15. अध्यायः 015
- 1.0.16. अध्यायः 016
- 1.0.17. अध्यायः 017
- 1.0.18. अध्यायः 018
- 1.0.19. अध्यायः 019
- 1.0.20. अध्यायः 020
- 1.0.21. अध्यायः 021
- 1.0.22. अध्यायः 022
- 1.0.23. अध्यायः 023
- 1.0.24. अध्यायः 024
- 1.0.25. अध्यायः 025
- 1.0.26. अध्यायः 026
- 1.0.27. अध्यायः 027
- 1.0.28. अध्यायः 028
- 1.0.29. अध्यायः 029
- 1.0.30. अध्यायः 030
- 1.0.31. अध्यायः 031
- 1.0.32. अध्यायः 032
- 1.0.33. अध्यायः 033
- 1.0.34. अध्यायः 034
- 1.0.35. अध्यायः 035
- 1.0.36. अध्यायः 036
- 1.0.37. अध्यायः 037
- 1.0.38. अध्यायः 038
- 1.0.39. अध्यायः 039
- 1.0.40. अध्यायः 040
- 1.0.41. अध्यायः 042
- 1.0.42. अध्यायः 043
- 1.0.43. अध्यायः 044
- 1.0.44. अध्यायः 045
- 1.0.45. अध्यायः 046
- 1.0.46. अध्यायः 047
- 1.0.47. अध्यायः 048
- 1.0.48. अध्यायः 049
- 1.0.49. अध्यायः 050
- 1.0.50. अध्यायः 051
- 1.0.51. अध्यायः 052
- 1.0.52. अध्यायः 053
- 1.0.53. अध्यायः 054
- 1.0.54. अध्यायः 055
- 1.0.55. अध्यायः 056
- 1.0.56. अध्यायः 057
- 1.0.57. अध्यायः 058
- 1.0.58. अध्यायः 059
- 1.0.59. अध्यायः 060
- 1.0.60. अध्यायः 061
- 1.0.61. अध्यायः 062
- 1.0.62. अध्यायः 063
- 1.0.63. अध्यायः 064
- 1.0.64. अध्यायः 065
- 1.0.65. अध्यायः 066
- 1.0.66. अध्यायः 067
- 1.0.67. अध्यायः 068
- 1.0.68. अध्यायः 069
- 1.0.69. अध्यायः 070
- 1.0.70. अध्यायः 071
- 1.0.71. अध्यायः 072
- 1.0.72. अध्यायः 073
- 1.0.73. अध्यायः 074
- 1.0.74. अध्यायः 075
- 1.0.75. अध्यायः 076
- 1.0.76. अध्यायः 077
- 1.0.77. अध्यायः 078
- 1.0.78. अध्यायः 079
- 1.0.79. अध्यायः 080
- 1.0.80. अध्यायः 081
- 1.0.81. अध्यायः 082
- 1.0.82. अध्यायः 083
- 1.0.83. अध्यायः 084
- 1.0.84. अध्यायः 085
- 1.0.85. अध्यायः 086
- 1.0.86. अध्यायः 087
- 1.0.87. अध्यायः 088
- 1.0.88. अध्यायः 089
- 1.0.89. अध्यायः 090
- 1.0.90. अध्यायः 091
- 1.0.91. अध्यायः 092
- 1.0.92. अध्यायः 093
- 1.0.93. अध्यायः 094
- 1.0.94. अध्यायः 095
- 1.0.95. अध्यायः 096
- 1.0.96. अध्यायः 097
- 1.0.97. अध्यायः 098
- 1.0.98. अध्यायः 099
- 1.0.99. अध्यायः 100
- 1.0.100. अध्यायः 101
कर्णपर्व
अध्यायः 001
शिबिराद्धास्तिनपुरमुपगतवता सञ्जयेन धृतराष्ट्रंप्रति कर्णादिनिधनकथनम्॥ 1॥ तच्छ्रवणेन मूर्च्छामुपगतवतो धृतराष्ट्रस्य सञ्जयादिभिराश्वासनम्॥ 2॥
श्रीवेदव्यासाय नमः।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
`वैशम्पायन उवाच।
शिबिराद्धास्तिनपुरं प्राप्य भारत सञ्जयः।
प्रविवेश महाबाहुर्धृतराष्ट्रनिवेशनम्॥
शोकेनापहतः सूतो विलपन्भृशदुःखितः।
चिन्तयन्निधनं घोरं सूतपुत्रस्य पाण्डवैः॥
अन्तःपुरं प्रविश्यैव सञ्जयो राजसत्तमम्।
अश्रुपूर्णो भृशं त्रस्तो राजानमुपजग्मिवान्॥
उपस्थाय च राजानं विनिश्वस्य च सूतजः।
नातिहृष्टमना राजन्निदं वचनमब्रवीत्॥
सञ्जय उवाच।
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ।
हतो वैकर्तनः कर्णः कृत्वा कर्म सुदुष्करम्॥
चेदिकाशिकरूशानां मत्स्यानां सोमकैः सह।
कृत्वाऽसौ कदनं शेते वातनुन्न इव द्रुमः॥
गोष्ठमध्येव ऋषभो गोव्रजैः परिवारितः।
व्यालेन निहतो यद्वत्तथाऽसौ निहतः परैः॥
निराशान्पाण्डवान्कृत्वा दृढं राजन्ससात्यकान्।
पाञ्चालानां रथांश्चैव विनिहत्य सहस्रशः॥
जित्वा शूरान्महेष्वासान्विद्राव्य च दिशोदश।
हतो वैकर्तनः कर्णः पाण्डवेन किरीटिना॥
वैरस्य गत आनृण्यं दुर्गमस्य दुरात्मभिः।
हत्वा कर्णं महाराज विशल्यः पाण्डवोऽभवत्॥
शोषणं सागराणां वा पतनं वा विवस्वतः।
विशीर्णत्वं यथा मेरोस्तथा कर्णस्य पातनम्॥
योधाश्च बहवो राजन्हतास्तत्र जयैषिणः।
राजानो राजपुत्राश्च शूराः परिघबाहवः॥
रथौघाश्च नरौघाश्च हता राजन्सहस्रशः।
वारणा निहतास्तत्र वाजिनश्च महाहवे॥
क्षत्रियाश्च महाराज सेनयोरुभयोर्हताः।
परस्परं वै वीक्ष्यात्र परस्परकृतागसः॥
किञ्चिच्छेषान्परान्कृत्वा तीर्त्वा पाण्डववाहिनीम्।
पार्थवेलां समासाद्य हतो वैकर्तनो वृषा॥
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृप।
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे॥
प्रोच्यमानं महाराज बन्धुभिर्हितबुद्धिभिः।
तदिदं समनुप्राप्तं व्यसनं त्वां महाभयम्॥
पुत्राणां राज्यकामेन त्वया राजन्हितैषिणा।
चरितान्यहितान्येव तेषां ते फलमागतम्॥
हतो दुःशासनो राजन्यथोक्तं पाण्डवेन तु।
प्रतिज्ञा भीमसेनेन निस्तीर्णा सा चमूमुखे॥
पीतं च क्षतजं तस्य धार्तराष्ट्रस्य संयुगे।
पाण्डवेन महाराज कर्म कृत्वा सुदुष्करम्’॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः।
शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम्।
विह्वलः पतितो भूमौ नष्टचेता इव द्विपः॥
तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे।
आर्तनादो महानासीत्स्त्रीणां भरतसत्तम॥
श शब्दः पृथिवीं कृत्स्नां पूरयामास सर्वशः॥
शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः।
रुरुदुर्दुःखशोकार्ता भृशमुद्विग्नचेतसः॥
राजानं च समासाद्य गान्धारी भरतर्षभ।
निःसंज्ञा पतिता भूमौ सर्वाण्यन्तः पुराणि च॥
ततस्ताः स़ञ्जयो राजन्समाश्वासयदातुराः।
मुह्यमानाः सुबहुशो मुञ्चन्तीर्वारि नेत्रजम्॥
समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः।
कदल्य इव वातेन धूयमानाः समन्ततः॥
राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम्।
आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम्॥
स लब्ध्वा सनकैः सञ्ज्ञां ताश्च दृष्ट्वा स्त्रियो नृपः।
उन्मत्त इव राजेन्द्र स्थितस्तूष्णीं विशाम्पते॥
ततो ध्यात्वा चिरं कालं निःश्वस्य च पुनःपुनः।
स्वान्पुत्रान्गर्हयामास बहुमेने च पाण्डवान्॥
गर्हयंश्चात्मनो बुद्धिं शकुनेः सौबलस्य च।
ध्यात्वा तु सुचिरं कालं वेपमानो मुहुर्मुहुः॥
संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः।
पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम्॥
न त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया॥
कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम्।
जये निराशः पुत्रो मे सततं जयकामुकः।
ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम्॥
वैशम्पायन उवाच।
एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय।
हतो वैकर्तनो राजन्सहपुत्रैर्महारथः।
भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः॥
दुःशासनश्च निहतः पाण्डवेन यशस्विना।
पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे॥
`वैशम्पायन उवाच।
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः।
दह्यमानोऽब्रवीत्सूतं मुहूर्तं तिष्ठ सञ्जय।
व्याकुलं मे मनस्तात मा तावत्किञ्चिदुच्यताम्॥
राजापि नाब्रवीत्किञ्चित्सञ्जयो विदुरस्तथा।
तूष्णीम्भूतस्तदा सोऽथ बभूव जगतीपतिः॥॥’
इति श्रीमन्महाभारते कर्णपर्वणि प्रथमोऽध्यायः॥ 1॥
Loading…