विषयानुक्रमणिका3. तृतीयोऽध्यायः 3.5. रामकथोपक्रमः 3.5.3. रामप्रादुर्भावः 3.5.4. देवतादिप्रादुर्भावाः 3.6. उपसंहारः 4. चतुर्थोऽध्यायः 5. पञ्चमोऽध्यायः 5.5. रावणस्य चिन्ता कुतन्त्रं च 5.6. मायामृगप्रसङ्गः, सीताकृत्यपहरणं च 5.7. सीतान्वेषणम् 5.8. रामाञ्जनेयसमागमः, तयोरविनाभावनिर्णयश्च 6. षष्ठोऽध्यायः 6.2. सीतान्वेषणकार्यम् 7. सप्तमोऽध्यायः 7.4. रामसमागमः 8. अष्टमोऽध्यायः 8.14. मकराक्षवधः, तत्सैन्यपलायनं च 8.15. रावणेन सह प्रथमं युद्धम् 8.15.5. रावणपराजयः 8.16. कुम्भकर्णवधः 8.16.4. कुम्भकर्णस्य रामं प्रति गमनम् 8.16.5. रामकुम्भकर्णयुद्धम्, कुम्भकर्णसंहारश्च 8.16.6. कुम्भकर्णदेहपातः 8.17. इन्द्रजिद्वधः 8.18. रावणवधः 8.18.4. रावणेन शक्तिप्रयोगः 8.18.5. पुनश्च गन्धमादनानयनम् 8.18.6. रावणवधः 8.19. देवतागमनम् 8.20. सीतादेव्याः पुनरागमनम् 8.21. सुषेणेन वानराणामुपचारः 8.22. श्रीरामेण मृतानामानयनम् 8.23. अयोध्यागमनम् 8.24. हनूमत्कृतप्रार्थना 9. नवमोऽध्यायः 9.10. रामावतारसमाप्त्यर्थं देवताप्रार्थना, भगवता तदङ्गीकारश्च 9.11. श्रीरामेण दुर्वासप्रतिज्ञाभङ्गः 9.12. श्रीरामकृतलक्ष्मणत्यागः, तन्निर्णयश्च 9.13. तत्काले मुक्तियोग्यैः सह स्वधामगमनार्थं श्रीरामेच्छा 9.14. नरवानरराज्ययोर्नूतनराज्ञोरभिषेकः 9.15. रामाञ्जनेययोः सम्भाषणम् 9.16. श्रीरामेण तृणादेरपि स्वपदप्रदानम् 9.17. स्वधाम गमितुः श्रीरामस्यापादमौळिवर्णनम् 9.18. श्रीरामस्य परन्धामगमनम् 9.19. देवासुरांशानां गतयः 9.20. रामाञ्जनेययोः स्थितयः 9.21. रामादिकथानिर्णयक्रमः 9.22. रामकथोपसंहारः 10. दशमोऽध्यायः 10.2. व्यासचरितम् 11. एकादशोऽध्यायः 11.17. कृष्णावताराय ब्रह्मादिप्रार्थना 12. द्वादशोऽध्यायः 13. त्रयोदशोऽध्यायः 14. चतुर्दशोऽध्यायः 15. पञ्चदशोऽध्यायः 16. षोडशोऽध्यायः 17. सप्तदशोऽध्यायः 18. अष्टादशोऽध्यायः 19. एकोनविंशोऽध्यायः 20. विंशोऽध्यायः 21. एकविंशोऽध्यायः 22. द्वाविंशोऽध्यायः 23. त्रयोविंशोऽध्यायः 24. चतुर्विंशोऽध्यायः 25. पञ्चविंशोऽध्यायः 26. षड्विंशोऽध्यायः 27. सप्तविंशोऽध्यायः 28. अष्टाविंशोऽध्यायः 29. एकोनत्रिंशोऽध्यायः 30. त्रिंशोऽध्यायः 31. एकत्रिंशोऽध्यायः 32. द्वात्रिंशोऽध्यायः
- 1. प्रथमोऽध्यायः
- 1.1. मङ्गलाचरणम्
- 1.2. सर्वसदागमप्रतिपाद्यप्रमेयम्
- 1.3. सर्वसदागमप्रतिपाद्यप्रमेये प्रमाणोदाहारणम्
- 1.3.8. मोक्षप्रकारः
- 1.4. उपसंहारः
- 2. द्वितीयोऽध्यायः
- 2.5. उपसंहारः
- 8.1. लङ्काप्रयाणारम्भः
- 8.2. विभीषणस्वीकारः
- 8.3. समुद्रनिग्रहः
- 8.4. सेतुनिर्माणं समुद्रतरणं च
- 8.5. भीतेन रावणेन योद्धृनियोजनम्
- 8.6. रामेण प्रतियोद्धृनियोजनम्
- 8.7. प्रहस्तवज्रदंष्ट्रयोर्वधः
- 8.8. धूम्राक्षवधः
- 8.9. अकम्पनवधः
- 8.10. रात्रौ लङ्कापुरीदहनम्
- 8.11. सुग्रीवेण कुम्भस्य हनूमता निकुम्भस्य च वधः
- 8.12. रामेण रावणसचिवानां वधः
- 8.13. पितृव्याभ्यां सह रावणपुत्राणां युद्धाय गमनम्
- 11.1. चन्द्रवंशविस्तारः
- 11.2. शन्तनोर्जन्मवृत्तान्तः
- 11.3. भीष्मवृत्तान्तः
- 11.4. कृप-कृपी-जननादिविचारः
- 11.5. द्रोण-जन्म-वृत्तान्तः
- 11.6. द्रुपद-जन्म-वृत्तान्तः
- 11.7. द्रोण-वर्तनम्, कृपादिसहवर्तनं च
- 11.8. विराट-जन्म-वृत्तान्तः
- 11.9. शन्तनु-सत्यवती-कथा
- 11.10. चित्राङ्गद-विचित्रवीर्य-अभिषेकः
- 11.11. अम्बिका-अम्बालिका-विवाहः
- 11.12. अम्बा-शिखण्डिनी-शिखण्डी-कथा
- 11.13. धृतराष्ट्रादीनां जननम्
- 11.14. धृतराष्ट्रादीनां वर्धनम्
- 11.15. सञ्जय-जनन-विद्यार्जनादि
- 11.16. धृतराष्ट्रस्य पाण्डोश्च विवाहौ
प्रथमोऽध्यायः
मङ्गलाचरणम्
ॐ॥ नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियतिप्रदाय। ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमोनमस्ते॥ १/१॥
सर्वसदागमप्रतिपाद्यप्रमेयम्
आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः। संशान्तसंविदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपिचाग्रे॥ १/२॥ तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य। भूत्यै निजाश्रितजनस्य हि सृज्यसृष्टावीक्षा बभूव परनामनिमेषकान्ते ॥ १/३॥ दृष्ट्वा स चेतनगणान् जठरे शयानानानन्दमात्रवपुषः सृतिविप्रमुक्तान्। ध्यानं गतान् सृतिगतांश्च सुषुप्तिसंस्थान् ब्रह्मादिकान् कलिपरान् मनुजांस्तथैक्षत्॥ १/४॥ स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृतां विहृतिं ममेच्छन्। सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः॥ १/५॥ इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता। तस्याज्ञयैव नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत् प्रवदन्ति मायाम्॥ १/६॥ सङ्कर्षणश्च स बभूव पुनः सुनित्यः संहारकारणवपुस्तदनुज्ञयैव। देवी जयेत्यनुबभूव स सृष्टिहेतोः प्रद्युम्नतामुपगतः कृतितां च देवी॥ १/७॥ स्थित्यै पुनः स भगवाननिरुद्धनामा देवी च शान्तिरभवच्छरदां सहस्रम्। स्थित्वा स्वमूर्तिभिरमूभिरचिन्त्यशक्तिः प्रद्युम्नरूपक इमांश्चरमात्मनेऽदात्॥ १/८॥ निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितानुदरे निवेश्य। चक्रेऽथ देहसहितान् क्रमशः स्वयम्भुप्राणात्मशेषगरुडेशमुखान् समग्रान्॥ १/९॥ पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत् पञ्चद्वयी शतसहस्रपरोऽमितश्च। एकः समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्णगुणकोऽपि बहूपमोऽभूत्॥ १/१०॥ निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः। आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा॥ १/११॥ कालाच्च देशगुणतोऽस्य नचादिरन्तो वृद्धिक्षयौ नतु परस्य सदातनस्य। नैतादृशः क्व च बभूव नचैव भाव्यो नास्त्युत्तरः किमु परात् परमस्य विष्णोः॥ १/१२॥ सर्वज्ञ ईश्वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्सुखवीर्यसारः। यस्याज्ञया रहितमिन्दिरया समेतं ब्रह्मेशपूर्वकमिदं नतु कस्य चेशम्॥ १/१३॥ आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ। वीन्द्रेशयोस्तदपरे त्वनयोश्च तेषामृष्यादयः क्रमश ऊनगुणाः शतांशात् ॥ १/१४॥ आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात् तदनु गीः शिवतो वरिष्ठा। तस्या उमा विपतिनी च गिरस्तयोस्तु शच्यादिकाः क्रमश एव यथा पुमांसः॥ १/१५॥ ताभ्यश्च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथाक्रमशः श्रुतिस्थाः। शब्दो बहुत्ववचनः शतमित्यतश्च श्रुत्यन्तरेषु बहुधोक्तिविरुद्धता न॥ १/१६॥ तेषां स्वरूपमिदमेव यतोऽथ मुक्तावप्येवमेव सततोच्चविनीचरूपाः। शब्दः शतं दश सहस्रमिति स्म यस्मात् तस्मान्न हीनवचनोऽथ ततोऽग्र्यरूपाः॥ १/१७॥ एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च संसृतिपरा असुरास्तमोगाः। एवं सदैव नियमः क्वचिदन्यथा न यावन्न पूर्तिरुत संसृतिगाः समस्ताः॥ १/१८॥ पूर्तिश्च नैव नियमाद् भविता हि यस्मात् तस्मात् समाप्तिमपि यान्ति न जीवसङ्घाः। आनन्त्यमेव गणशोऽस्ति यतो हि तेषामित्थं ततः सकलकालगता प्रवृत्तिः॥ १/१९॥ एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः। पूर्तेरचिन्त्यमहिमः परमः परात्मा नारायणोऽस्य गुणविस्तृतिरन्यगा क्व॥ १/२०॥ साम्यं नचास्य परमेण च केन चाप्यं मुक्तेन च क्वचिदतस्त्वभिदा कुतोऽस्य। प्राप्येत चेतनगणैः सततास्वतन्त्रैर्नित्यस्वतन्त्रवपुषः परमात् परस्य॥ १/२१॥
सर्वसदागमप्रतिपाद्यप्रमेये प्रमाणोदाहारणम्
अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः। अन्यैश्च शास्त्रवचनैः सह तत्त्वसूत्रैर्निर्णीयते सहृदयं हरिणा सदैव॥ १/२२॥
‘नारायणस्य न समः’ भारतम् १/१/३४ (कुम्भकोणसंस्करणम्)
‘पुरुषोत्तमोऽहं जीवाक्षरे ह्यधिगतोऽस्मि’ भगवद्गीता १५/१८
‘ततोऽन्यदार्तम्’। बृहदारण्यकोपनिषत् ५/४/२
‘मुक्तोपसृप्यः’ 🔗ब्रह्मसूत्रम् १/३/२
‘इह नास्ति कुतश्च कश्चित्’ 🔗काठकोपनिषत् २/१/११
‘नानेव’ 🔗काठकोपनिषत् २/१/१०
‘धर्मपृथगात्मदृगेत्यधो हि’॥ १/२३॥ 🔗काठकोपनिषत् २/१/१४
“आभास एव”🔗ब्रह्मसूत्रम् २/३/५०
‘पृथगीशत एष जीवः’ 🔗ब्रह्मसूत्रम् २/३/२८
‘मुक्तस्य नास्ति जगतो विषये तु शक्तिः’। 🔗ब्रह्मसूत्रम् ४/४/१७
‘मात्रा परोऽसि नतु तेऽश्नुवते महित्वम्’ ऋग्वेदसंहिता ७/९९/१
“षाड्गुण्यविग्रह” जितन्तेस्तोत्रम् १/१
‘सुपूर्णगुणैकदेह’ ॥ १/२४॥ भागवतम् ६/४/४८
‘माहात्म्यदेह’ भारतम् १२/३४६/४
‘सृतिमुक्तिगते’ ऋग्वेदसंहिता १०/९०/२
‘शिवश्च ब्रह्मा च तद्गुणगतौ न कथञ्चनेशौ। न श्रीः कुतस्तदपरे’ भागवतम् १/१८/१४
‘अस्य सुखस्य मात्रामश्नन्ति मुक्तसुगुणाश्च शतावरेण’॥ १/२५॥ बृहदारण्यकोपनिषत् ६/३/३२
“आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम्। विष्णोः सदैवातिवशात् कदाऽपि गच्छन्ति केशादिगणा न मुक्तौ॥” १/२६॥
“यस्मिन् परेऽन्येऽप्यजजीवकोशाः”भागवतम् ९/६/४४
‘नाहं परायुर्न मरीचिमुख्याः। जानन्ति यद्गुणगणान् न रमादयोऽपि नित्यः स्वतन्त्र उत कोऽस्ति तदन्य ईशः॥’ १/२७॥ भागवतम् ८/११/९
‘नैवैक एव पुरुषः’ भारतम् १२/३६०/२
‘पुरुषोत्तमोऽसावेकः कुतः स पुरुषः’ भारतम् १२/३६०/३
‘यत एव जात्या। अर्थाच्छ्रुतेश्च गुणतो निजरूपतश्च नित्यान्य एव कथमस्मि स इत्यपि स्यात्’॥ १/२८॥ भारतम् १२/२२०/३६
“सर्वोत्तमो हरिरिदं तु तदाज्ञयैव चेतुं क्षमं स तु हरिः परमः स्वतन्त्रः। पूर्णाव्ययागणितनित्यगुणार्णवोऽसौ”
इत्येव वेदवचनानि परोक्तयश्च॥ १/२९॥
अस्यैव सर्वसदागमप्रतिपाद्यत्वे प्रमाणोदाहारणम्, वैष्णवशैवादिविरोधपरिहारश्च
“ऋगादयश्च चत्वारः पञ्चरात्रं च भारतम्। मूलरामायणं ब्रह्मसूत्रं मानं स्वतः स्मृतम्॥ १/३०॥ अविरुद्धं तु यत् त्वस्य प्रमाणं तच्च नान्यथा। एतद्विरुद्धं यत् तु स्यान्न तन्मानं कथञ्चन॥ १/३१॥ वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः। प्रमाणान्येव मन्वाद्याः स्मृतयोऽप्यनुकूलतः॥ १/३२॥ एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्वचित्। अतस्तदेव मन्तव्यं नान्यथा तु कथञ्चन॥ १/३३॥ मोहार्थान्यन्यशास्त्राणि कृतान्येवाज्ञया हरेः। अतस्तेषूक्तमग्राह्यमसुराणां तमोगतेः॥ १/३४॥ यस्मात् कृतानि तानीह विष्णुनोक्तैः शिवादिभिः। एषां यन्न विरोधि स्यात् तत्रोक्तं तन्न वार्यते॥ १/३५॥ विष्ण्वाधिक्यविरोधीनि यानि वेदवचांस्यपि। तानि योज्यान्यानुकूल्याद् विष्ण्वाधिक्यस्य सर्वशः॥ १/३६॥ अवतारेषु यत् किञ्चिद् दर्शयेन्नरवद्धरिः। तच्चासुराणां मोहाय दोषा विष्णोर्नहि क्वचित्॥ १/३७॥ अज्ञत्वं पारवश्यं वा वेधभेदादिकं तथा। तथा प्राकृतदेहत्वं देहत्यागादिकं तथा॥ १/३८॥ अनीशत्वं च दुःखित्वं साम्यमन्यैश्च हीनताम्। प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयम्॥ १/३९॥ न तस्य कश्चिद् दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ। सर्वदेहस्थरूपेषु प्रादुर्भावेषु चेश्वरः॥ १/४०॥ ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः। यदेवं वाचकं शास्त्रं तद्धि शास्त्रं परं मतम्॥ १/४१॥ निर्णयायैव यत् प्रोक्तं ब्रह्मसूत्रं तु विष्णुना। व्यासरूपेण तद् ग्राह्यं तत्रोक्ताः सर्वनिर्णयाः॥ १/४२॥ यथार्थवचनानां च मोहार्थानां च संशयम्। अपनेतुं हि भगवान् ब्रह्मसूत्रमचीकॢपत्॥ १/४३॥ तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः। सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता॥ १/४४॥ अभेदः सर्वरूपेषु जीवभेदः सदैव हि। विष्णोरुक्तानि सूत्रेषु सर्ववेदेड्यता तथा॥ १/४५॥ तारतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा। तस्मादेतद्विरुद्धं यन्मोहार्थं तदुदाहृतम्॥ १/४६॥ तस्माद् येये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु।”
इत्याद्युक्तं भगवता भविष्यत्पर्वणि स्फुटम्॥ १/४७॥
“एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति। त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय॥ १/४८॥ अतथ्यानि वितथ्यानि दर्शयस्व महाभुज। प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु॥” १/४९॥वाराहपुराणम् ७०/३५-३६
इति वाराहवचनं ब्रह्माण्डोक्तं तथा परम्।
“अमोहाय गुणा विष्णोराकारश्चिच्छरीरता॥ १/५०॥ निर्दोषत्वं तारतम्यं मुक्तानामपिचोच्यते। एतद्विरुद्धं यत् सर्वं तन्मोहायेति निर्णयः॥” १/५१॥
स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम्। शिवशास्त्रेऽपि तद् ग्राह्यं भगवच्छास्त्रयोगि यत्॥ १/५२॥
“परमो विष्णुरेवैकस्तज्ज्ञानं मुक्तिसाधनम्। शास्त्राणां निर्णयस्त्वेष तदन्यन्मोहनाय हि॥ १/५३॥ ज्ञानं विना तु या मुक्तिः साम्यं च मम विष्णुना। तीर्थादिमात्रतो ज्ञानं ममाधिक्यं च विष्णुतः॥ १/५४॥ अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा। इत्यादि सर्वं मोहाय कथ्यते पुत्र नान्यथा॥” १/५५॥
उक्तं पद्मपुराणे च शैव एव शिवेन तु। यदुक्तं हरिणा पूर्वमुमायै प्राह तद्धरः॥ १/५६॥
“त्वामाराध्य तथा शम्भो ग्रहीष्यामि वरं सदा। द्वापरादौ युगे भूत्वा कलया मानुषादिषु॥ १/५७॥
स्वागमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु। मां च गोपय येन स्यात् सृष्टिरेषोत्तराधरा॥” १/५८॥
नच वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः। क्वचिदुक्तोऽन्यशास्त्रेषु परमो विष्णुरीरितः॥ १/५९॥
निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि। वेदेष्वपि परो विष्णुः सर्वस्मादुच्यते सदा॥ १/६०॥
विष्णोः सर्वोत्तमत्वादिषु श्रुतिनिरूपणम्
“अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः। विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्॥” १/६१॥ऋग्वेदसंहिता ७/४०/५
“स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्।”ऋग्वेदसंहिता २/३३/११
“यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्॥” १/६२॥ऋग्वेदसंहिता १०/१२५/५
“एको नारायण आसीन्न ब्रह्मा नच शङ्करः।”
“वासुदेवो वा इदमग्र आसीन्न ब्रह्मा नच शङ्करः॥” १/६३॥
“यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति॥” १/६४॥🔗आथर्वणोपनिषत् ५/३
“यो वेद निहितं गुहायां परमे व्योमन्। सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता॥” १/६५॥🔗तैत्तिरीयोपनिषत् ३/(१०-५)
“प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्।”ऋग्वेदसंहिता २/१५/१
“सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः॥” १/६६॥ऋग्वेदसंहिता ४/१७/५
“यच्चिकेत सत्यमित् तन्न मोघं वसु स्पार्हमुत जेतोत दाता।”ऋग्वेदसंहिता १०/५५/६
“सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये॥” १/६७॥ऋग्वेदसंहिता ८/३/४
“सत्या विष्णोर्गुणाः सर्वे सत्या जीवेशयोर्भिदा। सत्यो मिथो जीवभेदः सत्यं च जगदीदृशम्॥ १/६८॥ असत्यः स्वगतो भेदो विष्णोर्नान्यदसत्यकम्। जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः॥ १/६९॥ जीवेशयोर्भिदा चैव जीवभेदः परस्परम्। जडेशयोर्जडानां च जडजीवभिदा तथा॥ १/७०॥ पञ्चभेदा इमे नित्याः सर्वावस्थासु नित्यशः। मुक्तानां च न हीयन्ते तारतम्यं च सर्वदा॥ १/७१॥ क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः। आजानजाः कर्मजाश्च देवा इन्द्रः पुरन्दरः॥ १/७२॥ रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः। एको ब्रह्मा च वायुश्च वीन्द्रो रुद्रसमस्तथा॥ १/७३॥ एको रुद्रस्तथा शेषो न कश्चिद् वायुना समः। मुक्तेषु श्रीस्तथा वायोः सहस्रगुणिता गुणैः। ततोऽनन्तगुणो विष्णुर्न कश्चित् तत्समः सदा॥” १/७४॥
तत्रैव तात्पर्यसमर्थनम्
इत्यादि वेदवाक्यं विष्णोरुत्कर्षमेव वक्त्युच्चैः। तात्पर्यं महदत्रेत्युक्तं यो मामिति स्वयं तेन॥ १/७५॥
‘भूम्नो ज्यायस्त्वम्’ 🔗ब्रह्मसूत्रम् ३/३/५९
इत्युक्तं सूत्रेषु निर्णयात् तेन। तत्प्रीत्यैव च मोक्षः प्राप्यस्तेनैव नान्येन॥ १/७६॥
“नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्॥” १/७७॥🔗काठकोपनिषत् १/२/२३
सर्वस्मिन् विषये भविष्यत्पर्ववचनानि
“विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया। मोक्षो ज्ञानं च क्रमशो मुक्तिगो भोग एव च॥ १/७८॥ उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत्। सर्वेषां च हरिर्नित्यं नियन्ता तद्वशाः परे॥ १/७९॥ तारतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा। एतद् विना न कस्यापि विमुक्तिः स्यात् कथञ्चन॥ १/८०॥ पञ्चभेदांश्च विज्ञाय विष्णोः स्वाभेदमेव च। निर्दोषत्वं गुणोद्रेकं ज्ञात्वा मुक्तिर्नचान्यथा॥ १/८१॥ अवतारान् हरेर्ज्ञात्वा नावतारा हरेश्च ये। तदावेशांस्तथा सम्यग् ज्ञात्वा मुक्तिर्नचान्यथा॥ १/८२॥ सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनान्। मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा॥ १/८३॥ वेदांश्च पञ्चरात्राणि सेतिहासपुराणकान्। ज्ञात्वा विष्णुपरानेव मुच्यते नान्यथा क्वचित्॥ १/८४॥ माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः। स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्नचान्यथा॥ १/८५॥ त्रिविधा जीवसङ्घास्तु देवमानुषदानवाः। तत्र देवा मुक्तियोग्या मानुषेषूत्तमास्तथा॥ १/८६॥ मध्यमा मानुषा ये तु सृतियोग्याः सदैव हि। अधमा निरयायैव दानवास्तु तमोलयाः॥ १/८७॥ मुक्तिर्नित्या तमश्चैव नावृत्तिः पुनरेतयोः। देवानां निरयो नास्ति तमश्चापि कथञ्चन॥ १/८८॥ नासुराणां तथा मुक्तिः कदाचित् केनचित् क्वचित्। मानुषाणां मध्यमानां नैवैतद् द्वयमाप्यते॥ १/८९॥ असुराणां तमःप्राप्तिस्तदा नियमतो भवेत्। यदा तु ज्ञानिसद्भावे नैव गृह्णन्ति तत् परम्॥ १/९०॥ तदा मुक्तिर्हि देवानां यदा प्रत्यक्षगो हरिः। स्वयोग्ययोपासनया तन्वा तद्योग्यया तथा॥ १/९१॥ सर्वैर्गुणैर्ब्रह्मणा तु समुपास्यो हरिः सदा। आनन्दो ज्ञः सदात्मेति ह्युपास्यो मानुषैर्हरिः॥ १/९२॥ यथाक्रमं गुणोद्रेकात् तदन्यैरा विरिञ्चतः। ब्रह्मत्वयोग्या ऋजवो नाम देवाः पृथग् गणाः॥ १/९३॥ तैरेवाप्यं तत् पदं तु नैवान्यैः साधनैरपि। एवं सर्वपदानां तु योग्याः सन्ति पृथग् गणाः॥ १/९४॥ तस्मादनाद्यनन्तं हि तारतम्यं चिदात्मनाम्। तच्च नैवान्यथा कर्तुं शक्यं केनापि कुत्रचित्॥ १/९५॥ अयोग्यमिच्छन् पुरुषः पतत्येव न संशयः। तस्माद् योग्यानुसारेण सेव्यो विष्णुः सदैव हि॥ १/९६॥ अच्छिद्रसेवनाच्चैव निष्कामत्वाच्च योग्यतः। द्रष्टुं शक्यो हरिः सर्वैर्नान्यथा तु कथञ्चन॥ १/९७॥ नियमोऽयं हरेर्यस्मान्नोल्लङ्घ्यः सर्वचेतनैः। सत्यसङ्कल्पतो विष्णुर्नान्यथा तु करिष्यति॥ १/९८॥ दानतीर्थतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा। अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये।”
भविष्यत्पर्ववचनमित्येतदखिलं परम्॥ १/९९॥
साधनविधायकवेदवचनानि
“शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः। एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्॥ १/१००॥ परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति। अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति॥” १/१०१॥ऋग्वेदसंहिता ६/४७/१६-१७
“तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते।”तैत्तिरीयारण्यके ३/१२/७
“तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय॥” १/१०२॥🔗श्वेताश्वतरोपनिषत् ३/८
“यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते(ऽ)कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥” १/१०३॥🔗श्वेताश्वतरोपनिषत् ६/२३
“भक्त्यर्थान्यखिलान्येव भक्तिर्मोक्षाय केवला। मुक्तानामपि भक्तिर्हि नित्यानन्दस्वरूपिणी॥ १/१०४॥ ज्ञानपूर्वः परः स्नेहो नित्यो भक्तिरितीर्यते।”
इत्यादि वेदवचनं साधनप्रविधायकम्॥ १/१०५॥
भक्तेर्माहात्म्ये पुराणवचनानि
“निःशेषधर्मकर्ताऽप्यभक्तस्ते नरके हरे। सदा तिष्ठति भक्तश्चेद् ब्रह्महाऽपि विमुच्यते॥” १/१०६॥
“धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत। पापं भवति धर्मोऽपि यो नभक्तैः कृतो हरे॥” १/१०७॥
“भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥” १/१०८॥🔗भगवद्गीता ११/५४
“अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः। तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात्॥ १/१०९॥ पूर्णदुःखात्मको द्वेषः सोऽनन्तो ह्यवतिष्ठते। पतितानां तमस्यन्धे निःशेषसुखवर्जिते॥ १/११०॥ जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा। साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च॥ १/१११॥ प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च। तत्प्रमाणस्य निन्दा च द्वेषा एतेऽखिला मताः॥ १/११२॥ एतैर्विहीना या भक्तिः सा भक्तिरिति निश्चिता। अनादिभक्तिर्देवानां क्रमाद् वृद्धिं गतैव सा॥ १/११३॥ अपरोक्षदृशेर्हेतुर्मुक्तिहेतुश्च सा पुनः। सैवानन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति॥ १/११४॥ यथा शौक्ल्यादिकं रूपं गोर्भवत्येव सर्वदा। सुखज्ञानादिकं रूपमेवं भक्तेर्नचान्यथा॥ १/११५॥ भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित्। स एव मुक्तिदाता च भक्तिस्तत्रैव कारणम् ॥ १/११६॥ ब्रह्मादीनां च मुक्तानां तारतम्ये तु कारणम्। तारतम्यस्थिताऽनादिर्नित्या भक्तिर्नचेतरत्॥ १/११७॥ मानुषेष्वधमाः किञ्चिद्द्वेषयुक्ताः सदा हरौ। दुःखनिष्ठास्ततस्तेऽपि नित्यमेव न संशयः॥ १/११८॥ मध्यमा मिश्रभूतत्वान्नित्यं मिश्रफलाः स्मृताः। किञ्चिद्भक्तियुता नित्यमुत्तमास्तेन मोक्षिणः॥ १/११९॥ ब्रह्मणः परमा भक्तिः सर्वेभ्यः परमस्ततः।”
इत्यादीनि च वाक्यानि पुराणेषु पृथक्पृथक्॥ १/१२०॥
गुरुलक्षणादिषु पञ्चरात्रवचनम्
“षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः। सप्तपादश्चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युतः॥ १/१२१॥ असंशयः संशयच्छिद् गुरुरुक्तो मनीषिभिः। तस्माद् ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा॥ १/१२२॥ अन्येऽपि स्वात्मनो मुख्याः क्रमाद् गुरव ईरिताः। क्रमाल्लक्षणहीनाश्च लक्षणालक्षणैः समाः॥ १/१२३॥ मानुषा मध्यमाः सम्यग् दुर्लक्षणयुतः कलिः। सम्यग्लक्षणसम्पन्नो यद् दद्यात् सुप्रसन्नधीः॥ १/१२४॥ शिष्याय सत्यं भवति तत् सर्वं नात्र संशयः। अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत्॥ १/१२५॥ नातिप्रसन्नहृदयो यद् दद्याद् गुरुरप्यसौ। न तत् सत्यं भवेत् तस्मादर्चनीयो गुरुः सदा॥ १/१२६॥ स्वावराणां गुरुत्वं तु भवेत् कारणतः क्वचित्। मर्यादार्थं तेऽपि पूज्या नतु यद्वत् परो गुरुः॥” १/१२७॥
इत्येतत् पञ्चरात्रोक्तं पुराणेष्वनुमोदितम्।
मुक्त्यादिविषये भविष्यत्पर्वादिवचनानि
“यदा मुक्तिप्रदानाय स्वयोग्यं पश्यति ध्रुवम्॥ १/१२८॥ रूपं हरेस्तदा तस्य सर्वपापानि भस्मसात्। यान्ति पूर्वाण्युत्तराणि न श्लेषं यान्ति कानिचित्॥ १/१२९॥ मोक्षश्च नियतस्तस्मात् स्वयोग्यहरिदर्शने।”
भविष्यत्पर्ववचनमित्येतत् सूत्रगं तथा ॥ १/१३०॥
श्रुतिश्च तत्परा तद्वत्
“तद् यथा”छान्दोग्योपनिषत् ४/३/७
इत्यवदत् स्फुटम्।
मोक्षप्रकारः
मुक्तास्तु मानुषा देवान् देवा इन्द्रं स शङ्करम्॥ १/१३१॥
स ब्रह्माणं क्रमेणैव तेन यान्त्यखिला हरिम्। उत्तरोत्तरवश्याश्च मुक्ता रुद्रपुरःसराः॥ १/१३२॥
निर्दोषा नित्यसुखिनः पुनरावृत्तिवर्जिताः। स्वेच्छयैव रमन्तेऽत्र नानिष्टं तेषु किञ्चन॥ १/१३३॥
असुराः कलिपर्यन्ता एवं दुःखोत्तरोत्तराः। कलिर्दुःखाधिकस्तेषु तेऽप्येवं ब्रह्मवद् गणाः॥ १/१३४॥
तथाऽन्येऽप्यसुराः सर्वे गणा योग्यतया सदा। ब्रह्मैव सर्वजीवेभ्यः सदा सर्वगुणाधिकः॥ १/१३५॥
मुक्तोऽपि सर्वमुक्तानामाधिपत्ये स्थितः सदा। आश्रयस्तस्य भगवान् सदा नारायणः प्रभुः॥ १/१३६॥
उपसंहारः
इत्यृग्यजुःसामाथर्वपञ्चरात्रेतिहासतः। पुराणेभ्यस्तथाऽन्येभ्यः शास्त्रेभ्यो निर्णयः कृतः॥ १/१३७॥
विष्ण्वाज्ञयैव विदुषा तत्प्रसादबलोन्नतेः। आनन्दतीर्थमुनिना पूर्णप्रज्ञाभिधायुजा॥ १/१३८॥
तात्पर्यं शास्त्राणां सर्वेषामुत्तमं मया प्रोक्तम्। प्राप्यानुज्ञां विष्णोरेतज्ज्ञात्वैव विष्णुराप्योऽसौ॥ १/१३९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये
सर्वशास्त्रार्थनिर्णयो
नाम प्रथमोऽध्यायः॥
Loading…